किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः
वपुषा परमेण भूधराणामथ संभाव्यपराक्रमं विभेदे ।
मृगमाशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १ ॥
मल्लि०— वपुषेति । अथ ईश्वरप्रस्थानान्तरं महेन्द्रसूनुरर्जुनः परमेण महता वपुषा हेतुना भूधराणां विभेदे विदारणे संभाव्यपराक्रमं क्षमोऽयमिति प्रतर्क्यंपौरुषं स्थिराभ्यां दृढाभ्यां दंष्ट्राभ्यामुग्रं मुखं यस्य तं मृगम् । वराहमित्यर्थः । आशु तदागमनान्तरम् । अविलम्बेनेत्यर्थः । विलोकयांचकार ददर्श । अस्मिन्सर्गे प्राक्पञ्चत्रिंशच्छ्लोकादौपच्छन्दसिकं वृत्तम् ॥ १ ॥
हिन्दी— शिवजीके प्रस्थानके अनन्तर इन्द्रपुत्र अर्जुनने विशाल शरीरसे पर्वतोंको विदारण करनेमें समर्थ पराक्रमवाले और दृढ़ दाढ़ोंसे भयङ्कर मुँहवाले वराहको शीघ्र देखा ॥ १ ॥
स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधोरितान्यकृत्यः ।
जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥ २ ॥
मल्लि०— स्फुटेति । स्फुटा स्पष्टा बद्धा विरचिता सटानां केसराणामुन्नतिरुद्धतिर्यस्य सः । क्रोधादुत्थितलोमेत्यर्थः । ‘सटा जटाकेसरयोः’ इति विश्वः । दूरादभिधावन् संमुखमापतन् । तथा, अवधोरितान्यकृत्यस्त्यक्तान्यकर्मा स वराहो जयमिच्छति जयार्थिनि अत एव जातशङ्के । स्वयं जिघांसोद्विषामेकलक्ष्यत्वादिति भावः । तस्य मुनेर्मनसि मुहुरिमं वितर्कं वक्ष्यमाणमूहम् । ‘अभ्याहारस्तर्क ऊहः’ इत्यमरः । आददे उत्पादयामास ॥ २ ॥
हिन्दी— व्यक्तरूपसे अयालोंको उन्नत कर दूरसे दौड़ता हुआ सब काम छोड़कर वह वराह जयकी इच्छा करनेवाले और शङ्कित मुनि (अर्जुन) के मनमें बारंबार इस प्रकारका तर्क उत्पन्न करने लगा ॥ २ ॥
अथैकादशभिर्वितर्कमेव निरूपयति—
'घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।
अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूबमाणः ॥ ३ ॥
मल्लि०— घनपोत्रेति । घनेन कठिनेन पोत्रेण मुखाग्रेण विदीर्णानि विदलि-
| २७० | किरातार्जुनीयम् |
|---|
तानि शालमूलानि वृक्षमूलानि येन सः। निविडस्य स्कन्धस्य निकाषेण निकषणेन रुग्णवप्रो भग्नसानुः। अतो महासत्त्वसंपन्न इति भावः। एकश्वासौ चरश्चेति एकचर एकाकी। यूथादपेत इत्यर्थः। अतः, अयं वराह समराय समरं कर्तुम्। 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी। समाजुहूषमाण इव समाह्वातुमिच्छन्निव। 'इव' शब्दः संभावनायाम्। समाहूयतेः सन्नन्ताच्छानच्प्रत्ययः। 'स्पर्धायां माङ्', 'पूर्ववत्सनः' इत्यात्मनेपदम्। 'अभ्यस्तस्य च' इति संप्रसारणम्। मामभिवर्तते मामभिधावति। उपसर्गवशात् सकर्मकत्वम्। अतः सर्वथा नायमुपेक्ष्य इति भावः ॥ ३ ॥
हिन्दी — कठोर यूथपति वृक्षमूलोंको विदीर्ण करनेवाला वृक्षके घने स्कन्धको रगड़नेसे प्राकारको तोड़नेवाला अकेला यह वराह, युद्ध करनेके लिए ललकारता हुआ-सा मेरे सम्मुख आ रहा है ॥ ३ ॥
इह वीतभयास्तपोऽनुभावाज्जहति व्यालमृगाः परेषु वृत्तिम्।
मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेदियं नु माया ? ॥ ४ ॥
मल्लि०—इहेति । इह आश्रमे तपोऽनुभावाद्वीतभयाः । लक्षणया विगतवैरा इत्यर्थः । अतएव व्यालमृगाः क्रूरव्याघ्रादयः । 'व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि' इति विश्वः । परेषु प्राण्यन्तरेषु वृत्तिं जीविकां जहति । हिंसया न जीवन्तीत्यर्थः । अयं वराहो मयि मद्विषये तां वृत्तिं सुतरां विधत्ते करोति । मां हन्तुमिच्छतीत्यर्थः । तदियं विकृतिस्तपःसामर्थ्यभङ्गरूपा भवेत्किं नु । यद्वा, माया कस्यचिद्दैत्यस्य वराहभूमिका भवेत् नु । 'किन्तु' शब्दौ वितर्के ॥ ४ ॥
हिन्दी—इस आश्रममें तपस्याके प्रभावसे परस्पर विरोधको छोड़े हुए क्रूर व्याघ्र आदि पशु अन्य जन्तुओंमें मारनेका व्यवहार छोड़ रहे हैं, यह वराह मुझपर उस हिंसाका व्यवहार भलीभाँति कर रहा है, अतः यह विकार है या किसी दैत्यकी माया है ॥ ४ ॥
अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किमारातन्मृगजातीरभियाति मां जवेन ॥ ५ ॥
मल्लि०—अथवेति । 'अथवा' इति पक्षान्तरे । एष मृगः पूर्वं जन्मान्तरे भृशमत्यर्थम् । आसेवितयाऽतिपरिचितया रुषा क्रुधा । मद्गोचरयेति शेषः । कृतज्ञयेव पूर्वकृतं वैरानूबन्धं संप्रति जानात्येवेत्युत्प्रेक्षा । न मुक्तो न त्यक्तः । अद्यापीति शेषः।
त्रयोदशः सर्गः २७१
नूनमयं प्राग्भवीयवैरानुबन्धो कश्चित् । संप्रति वैरबीजासंभवादिति भावः । कुतः यद्यत आरात् समीपतः । 'आराद्दूर समीपयोः' इत्यमरः । विरोधिनीमृगजाती-रवधूय त्यक्त्वा जवेन मामभियाति अभिधावति । अन्यथा नाभियायादिति भावः ॥ ५ ॥
हिन्दी--अथ वा यह जानवर पूर्वजन्ममें अत्यन्त परिचित मेरे प्रति कृतज्ञक समान क्रोधसे नहीं छोड़ा गया है क्योंकि यह समीपसे विरोधिनी पशु-जातियोंको छोड़कर मेरे सम्मुख दौड़ कर आ रहा है ॥ ५ ॥
न केवलमभिधानादेव, किं च मनोवृत्तिरप्यत्र प्रमाणमित्याह—
न मृगः खलु कोऽप्ययं, जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥ ६ ॥
मल्लि०—न मृग इति। अयं मृगो न खलु, किंतु कोऽपि कश्चिदन्य एव जिघांसुर्हन्तुमिच्छुः हन्तेः सन्नान्तादुप्रत्ययः । 'अभ्यासाच्च' इति कुत्वम् । 'अज्झन-गमां सनि' इति दीर्घः । कुतः । हि यस्मात्, अत्रास्मिन्मृगविषये मे मनस्तथा भृशं स्खलति क्षुभ्यति । यद्ययं जिघांसुरिति बुद्धिस्त्पद्यत इत्यर्थः । तथा हि—विमलं प्रसन्नं तथा कलुषीभवत् क्षुभ्यच्च चेत एव हितैषिणं रिपुं वा मित्रममित्रं च कथ-यति । यत्र यत्र मनः प्रसीदति तदेव मित्रम् । अन्यथा त्वन्यथेति निश्चितमित्यर्थः । अतोऽयं वध्य इति भावः ॥ ६ ॥
हिन्दी—यह जानवर नहीं है, किन्तु कोई दूसरा ही मारनेकी इच्छा करने-वाला है, क्योंकि इसमें मेरा मन ज्यादा ही क्षुब्ध हो रहा है, प्रसन्न तथा क्षुब्ध होनेवाला चित्त मित्र वा शत्रु की सूचना करता है ॥ ६ ॥
ननु मुने! किमनया दुःशङ्कया, तत्राह—
मुनिरस्मि, निरागसः कुतो मे भयमित्येष न भूयतेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ ७ ॥
मल्लि०—मुनिरिति । मुनिरस्मि । अतो निरागसो निरपराधस्य मे कुतो भयमित्येषोऽभिमानोऽहंकारः अनपकारिणं मां कोऽपि किं करिष्यतीति बुद्धिर्भूत्ये श्रेयसे न भवति । तथा हि—परवृद्धिषु विषये बद्धमत्सराणां दुरात्मनामलङ्घयं किमिवास्ति न किंचिदकार्यमस्तीत्यर्थः । 'इव' शब्दो वाक्यालंकारे ॥ ७ ॥
- हिन्दी—मैं तपस्वी हूँ अतः निरपराध मुझे कहाँसे भय है ? ऐसा अभिमान
२७२ किरातार्जुनीयम्
कल्याणकारक नहीं हैं, क्योंकि दूसरेकी उन्नतिमें द्वेष करनेवाले दुरात्माओंको कुछ भी अकार्य नहीं हैं ॥ ७ ॥
अस्तु जिघांसुरपि क्षुद्रः किं करिष्यतीत्यत्राह — दनुजः स्विदय क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ ८ ॥
**मल्लि०—**दनुज इति । अयं दनुजः स्वित् दानवो वा क्षपाचरो राक्षसो वा । न तु मृग एवेत्यर्थः । कुतः । वनजे सत्त्वे वन्यप्राणिनि । इति ईदृशं बलं नास्ति । बतेत्याश्चर्ये । बलमेव समर्थयते । तथा हि—मेघनीलोऽयं वराहः सकलं शैलराजमभिभूय आक्रम्य कम्पयतीव । पदविष्टम्भात्तथा प्रतीयत इत्यर्थः । अत्र कम्पयतीवेत्युत्प्रेक्षागर्भोऽयं शैलकम्पनरूपकार्येण तत्कारणबलातिरेकसमर्थनात्मककार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८ ॥
**हिन्दी—**यह दानव वा राक्षस है, क्योंकि वनमें उत्पन्न जानवरमें ऐसा बल नहीं होता है। मेघके समान कृष्ण-वर्ण यह वराह समूचे पर्वतराजको आक्रमण कर कम्पित कर रहा है ॥ ८ ॥
किंच, योऽयं शैले मृगयाकलकल इव श्रूयते सोऽप्येतन्मायापरिकल्पित एवेत्याह— अयमेव मृगव्यसत्रकामः प्रहरिष्यन्मयि मायया शमस्थे । पृथुभिर्ध्वजिनीरवैरकार्षीच्चकितोद्भ्रान्तमृगानि काननानि ॥ ९ ॥
मल्लि० -- अयमिति । अयमेव शमस्थे शान्तिनिविष्टे इति रन्ध्रोक्तिः । मयि । अधिकरणविवक्षाया सप्तमी । मायया प्रहरिष्यन् । प्रहर्तुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति चकारात्क्रियार्थायां क्रियायाम् लृट् । 'लृटः सद्वा' इति शत्रादेशः । मृगव्यं, मृगया तस्य सत्रं वनं, तदर्थ वनमित्यर्थः । तत्कामयत इति मृगव्यसत्रकामः मृगयाभूमिपरिग्रहार्थी सन्नित्यर्थः । 'कर्मण्यण्' 'आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' । इति, 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इति चामरः । पृथुभिर्बृहद्भिर्ध्वजिनीरवैः सेनाकलकलैः । स्वमायया कल्पितैरेवेत्यर्थः । काननानि चकितोद्भ्रान्तास्त्रस्तपलायिता मृगा येषु तानि । अकार्षीच्चकार । अयमेव रन्ध्रान्वेषी मत्प्रहारार्थं स्वयमेव मृगयुर्भूत्वा वनावरोधाय सेनाघोषं कल्पयामास । स मृगरूपेणागच्छतीत्यर्थः ॥ ९ ॥
**हिन्दी—**यह ( वराह ) ही शान्तिमें स्थित मुझपर मायासे प्रहार करनेकी
त्रयोदशः सर्गः
त्रयोदशः सर्गः २७३
इच्छा करता हुआ मृगयाके वनकी चाह कर विशाल सेनाके कोलाहलसे वनोंको भीत और दौड़नेवाले जानवरोंवाला बना रहा है ॥ ९ ॥
वितर्कान्तरमाह - बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद् गणमाशिश्रियदाकुलं तिरश्चाम् ॥ १० ॥
मल्लि०—बहुश इति । अथवा बहुशः कृता सत्कृतिः सत्कारो येन तस्य सुयोधनस्य प्रियं मद्वधरूपं प्रतिप्रियं विधातुं कर्तुमिच्छन् । यः कश्चिदिति शेषः । वनं गोचरस्थानं येषां तेषां वनगोचराणामभियोगादवरोधात् । 'अभियोगोऽवरोधः स्यात्' इति हलायुधः । क्षुभितमुद्विग्नमाकुलं चलं तिरश्चां मृगादिपशूनां गणमाशिश्रियत् वराहरूपेण प्राविशत् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' 'चङि' इति द्विर्भावः ॥ १० ॥
हिन्दी—अथवा कई बार सत्कार किये हुए दुर्योधनका अभीष्ट करना चाहता हुआ यह कोई वनमें रहनेवालोंको रोकनेसे उद्विग्न और चञ्चल मृग आदि पशुओंके गणका आश्रय ले रहा है ( वराहरूपसे प्रवेश कर रहा है ) ॥ १० ॥
वितर्कान्तरमाह— अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥ ११ ॥
मल्लि०-अवलीढेति । खाण्डवजातवेदसा खाण्डववनाग्निना प्रसभमवलीढसनाभिर्दग्धबन्धुः । 'सपिण्डास्तु सनाभयः । सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ।' इत्यमरः । अत एव समन्युर्बद्धवैरः । तस्यार्जुनस्यापकारयितृत्वादिति भावः । अश्वसेनस्तक्षकपुत्रः कश्चिन्महामर्पः प्रतिकर्तुं वैरनिर्यातनार्थम् । उपागतो वा । वराहमाययेति शेषः । पक्षान्तरमाह--यदि वा वृकोदरेण भीमसेनेन कृतमन्युर्जनितक्रोधो वा । कश्चिदिति शेषः । पुरा किल पाण्डवः खाण्डवदाहे पावकभयात् पलायमानांस्तक्षकपुत्रानश्वसेनस्य बन्धून् बाणैरवरुध्य दाहयामासेति भारतकथा ॥ ११ ॥
हिन्दी—अथवा खाण्डव वनकी आगसे जला हुआ बन्धुवाला अत एव वैर ( दुश्मनी ) करता हुआ अश्वसेन ( तक्षकका पुत्र कोई सर्प ) बदला लेनेके लिए वराहरूप लेकर आया हुआ है अथवा भीमसेनसे उत्पन्न क्रोधवाला यह कोई आया हुआ है ॥ ११ ॥ १८ कि०
२७४ किरातार्जुनीयम्
अथ द्वाभ्यामनन्तरकरणीयमव्यवस्यति—बलेत्यादिना—
बलशालितया यथा तथा वा धियमुच्छेदवरामयं दधानः ।
नियमेन मया निवर्हणीयः, परमं लाभमरातिभङ्गमाहुः ॥ १२ ॥
**मल्लि०—**किं बहुना, यथा तथा वाऽस्तु । अयं मायिकः पारमार्थिको वा स्त्वित्यर्थः । सर्वथापि बलशालितया । बलदृप्ततयेत्यर्थः । उच्छेदपरां धियं दधानः। मां जिघांसुरित्यर्थः । अतोऽयम् मृगो नियमेनावश्यं मया निवर्हणीयो वध्यः। 'प्रमापणं निवर्हणम्' इत्यमरः । तथा हि—अरातिभङ्गं शत्रुक्षयं परमं लाभमाहुः।
**हिन्दी—**अथवा यह जो कोई हो सर्वथा बलवान् होनेसे नाश करनेको मति लेता हुआ यह जानवर अवश्यही मुझसे वध्य है, क्योंकि विद्वान् लोग शत्रुनाशको उत्तम लाभ कहते हैं ॥ १२ ॥
ननु तपोविरोधिनीं हिंसेत्याशङ्क्याह—
कुरु तात ! तपांस्यामार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् ।
बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणमन्यथा न कर्तुम् ॥ १३ ॥
**मल्लि०—**कुर्विति । हे तात वत्स! मार्गदायी न भवतीति अमार्गदायी। रन्ध्रान्वेषिणां प्रवेशमयच्छन्नित्यर्थः । कुतः । जयधित्वादित्याह—विजयाय तपांसि कुर्विति मुनिर्व्यासो मामलं भृशम् । अन्वशात् अनुशिष्टवान् । अनुशासेर्लङ् । ननु मुनिर्वा कथमधर्ममन्वशात्, तत्राह—बलिन इति अस्य मृगस्य बलिनः प्रबलस्य वधादृते वधं विना । 'अन्यारादितरर्ते—' इत्यादिना पञ्चमी । अन्यथा उपायान्तरेण व्रतसंरक्षणं तपोरक्षणं कर्तुं न शक्यम् । हिंसापि दुष्टनिग्रहात्मिका नोधर्म इत्यर्थः ॥ १३ ॥
हिन्दी—'हे वत्स ! रन्ध्रका अन्वेषण करनेवालोंको प्रवेशका मार्ग नही देते हुए तुम विजयके लिए तपस्या करो' ऐसा व्यास मुनिने मुझे अनुशासन किया है। बलवान् इस वराहको मारे बिना दूसरे उपायसे तपस्याकी रक्षा नहीं की जा सकती है ॥ १३ ॥
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः !! १४ ॥
**मल्लि०—**इतीति । तेनार्जुनेन । इतीत्थं विचिन्त्य वितक्यं चापनाम चापाख्यं प्रथमं पौरुषचिह्नम् । तस्य मुख्यायुधत्वादिति भावः । आललम्बे गृहीतम् ।
त्रयोदशः सर्गः २७५
कर्मणि लिट् । अथ परस्य शत्रोर्भेदे विदारण उपजाते च उपलब्धगुणो ज्ञातशक्तिः बाणस्तु प्राप्तश्रीर्वाकर्षवेति शेषः । शुद्धः ऋजुदिग्धत्वादिवोपरहितो वा । 'न कर्मभेदीनं दिग्वैर्नाग्निज्वलिततैजसैः' । इति निषेधात् । अन्यत्र-शुद्धो निर्मलचित्त इति यावत् । बाणश्च सचिव इव । आददे जगृहे । अत्र बाणसचिवयोः शब्दमात्रसामर्थ्याच्छ्लेषालंकारः । प्रकृताप्रकृतविषय इति सर्वस्वकारः । उपमैवेति केचित् ॥ १४ ॥
हिन्दी — उन्होंने (अर्जुनने) ऐसा विचार कर धनु नामवाले पहले पुरुषार्थके चिह्नको उठाया, शत्रुको विदारण करनेमें जानी गई शक्तिवाला और प्रत्यञ्चापर चढ़ाया गया शुद्ध (सीधा वा दोषरहित) मन्त्रीके समान बाणको ले लिया ॥ १४ ॥
अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनञ्जयेन ।
स्ववलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥ १५ ॥
मल्लि० — अनुभावेति । गुरु महत्पूज्यं च स्थिरात् सारवत्त्वात् । अविसंवादि अभङ्गुरम्, अन्यत्र प्रतिष्ठितत्वादसत्यरहितम् । गुणवत् सज्यम् । अन्यत्र-औदार्यादिगुणवत् । धनुर्मित्रमिवानुभाववता निश्चयबुद्धिमता । 'अनुभावः प्रभावे च सतां च मतिनिश्चये ।' इत्यमरः । धनञ्जयेन स्वबलव्यसनेऽपि तपसा क्षीणत्वेऽपि । अन्यत्र स्वं धनं तदेव बलं तस्य व्यसने ह्रासेऽपि । पीड्यमानमाकृष्यमाणमवरुद्ध्यमानं च सत् मित्रमिव । आनतिं नम्रतामानुकूल्यं च प्रपेदे । अलंकारस्तु पूर्ववत् ॥ १५ ॥
हिन्दी — गुरु (विशाल और पूज्य) सारयुक्त होनेसे अभङ्गुर (नहीं टूटनेवाला) अथवा प्रतिष्ठित होनेसे असत्यसे रहित, गुण (प्रत्यञ्चा वा उदारताआदि) से युक्त धनुने मित्रके समान, निश्चय बुद्धिवाले अर्जुनसे तपस्यासे क्षीण होनेपर भी अथवा स्व (धन) रूप बलका ह्रास होनेपर भी खींचा जाकर उत्तम मित्रके समान आनति (नम्रता वा अनुकूलता) को प्राप्त किया ॥ १५ ॥
प्रविकर्षणनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥ १६ ॥
मल्लि० — प्रविकर्षेति । तदानीं तस्मिन् काले महेषौ बाणे गण्डिवमर्जुनधनुः । अधिरोहति सति । 'कपिश्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ' इत्यमरः । 'गाण्डघ-जगात्संज्ञायाम्' इति वप्रत्ययः । प्रविकर्षेण ज्यास्फालनेन यो निनादस्तेन भिन्नरन्ध्रो विदलितगह्वरः तथा, पदविष्टम्भेन पादाक्रमणेन निपीडितो नुन्नः सकलः समूलः
| २७६ | किरातार्जुनीयम् |
|---|
शैलः संशयं जीवितसंदेहम् । आरुरोह । प्रापेत्यर्थः । अत्र शैलस्य संशयासंबन्धेऽपि संबन्धकथनादतिशयोक्तिरलंकारः ॥ १६ ॥
हिन्दी -- उस समय विशाल बाणके अर्जुनके धनु गाण्डीवपर चढ़ाये प्रत्यञ्चाके ताडनसे विदीर्ण गह्वरवाला तथा पैरके आक्रमणसे प्रेरित मूलके पृष्ठ पर्वत ही संशयको प्राप्त हो गया ॥ १६ ॥
ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायितचापमण्डलस्थः । रचितस्तिसृणां पुरां विघातुं वधमात्मेव भयानकः परेषांम् ॥ १७ ॥
मल्लि० -- ददृश इति । अथ बाणसंधानानन्तरं शिवेन स्थिरं निश्चलं पूर्णं यथा तथा, आयत आकृष्टे चापमण्डले तिष्ठतीति तथोक्तः । चापमण्डलभान्तर्भावे स्थितः इत्यर्थः । तिसृणाम् । 'न तिसृचतसृ' इति दीर्घप्रतिषेधः । पुराम् । त्रिपुरासुरस्येत्यर्थः । वधं संहारं विधातुं कर्तुं रचितः कल्पितः । स्थानविशेषे स्थापित इति यावत् । आत्मा स्वयमिव परेषां भयानकः भयंकरः सोऽर्जुनः सविस्मयं ददृशे दृष्टः। उपमालंकारः ॥ १७ ॥
हिन्दी -- बाणसन्धानके अनन्तर शिवजीने निश्चल और पूर्णरूपसे आकृष्ट धनुर्मण्डलको आच्छादित कर रहे हुए त्रिपुराऽसुरका वध करनेके लिए उद्यत अपने ही समान दूसरोंको भयङ्कर अर्जुनको आश्चर्यके साथ देखा ॥ १७ ॥
अथ पिनाकिवृत्तान्तमाह --
विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शंभुः ॥ १८ ॥
मल्लि० -- विचकर्षेति । अथ शंभुश्च संहितेषुः सन् उच्चैर्भृशं चरणास्कन्दनेन पदविष्टम्भेन नामितोऽधो नीतोऽचलेन्द्रो येन स तथोक्तः । आयतभोग आकृष्टकायो वासुकिरेव ज्या तस्य वदनमेव ग्रन्थिस्तेन विमुक्त उत्सृष्टो वह्निर्यस्य तत् धनुर्विचकर्षेति स्वभावोक्तिः ॥ १८ ॥
हिन्दी -- तब बाणका सन्धान करते हुए शिवजीने उन्नत रूपसे चरणके आक्रमणसे पर्वतराजको झुकाते हुए शरीरको आकृष्ट करनेवाला सर्पराज वासुकि-रूप प्रत्यञ्चा, उसके मुखरूप ग्रन्थिसे अग्निको छोड़नेवाले धनुको आकृष्ट किया ॥ १८ ॥
त्रयोदशः सर्गः २७७
त्रयोदशः सर्गः २७७
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहायम् । रिपुराप पराभवाय मध्यं प्रकृतिप्रत्ययोरिवानुबन्धः ॥ १९ ॥ मल्लि०—स इति । सह संभूय अर्थमरिबधरूपप्रयोजनं विधास्यतोः करिष्यतोः । अन्यत्र—सहाथंमभिधेयमभिधास्यतोरित्यर्थः । 'प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति वचनात् । भवक्षयैकहेतोः संसारोच्छेदनिदानस्य भवस्य शिवस्य सितसप्तेरर्जुनस्य च मध्यं रिपुर्वराहः । यस्मात्प्रत्ययो विधीयते सा प्रकृतिर्द्धादिः, प्रत्ययः सनादिः, तयोर्मध्यमनुबन्ध इत्संज्ञको वर्णः । यथा भूतं भूतिररित्यादो क्कारः । स इव पराभवाय नाशाय लोपार्थमेव आप । न तु स्थित्यर्थमित्यर्थः ॥ १९ ॥
हिन्दी—मिलकर शत्रु का वध रूप प्रयोजन को करनेवाले, दूसरे पक्ष में—साथ-साथ अर्थ का प्रतिपादन करनेवाले, संसार के संहार के लिए एकमात्र कारण-स्वरूप शिवजी और अर्जुन के भी बीच में शत्रु (वराह) प्रकृति (धातु आदि) प्रत्यय (सन् आदि) उनके बीच में अनुबन्ध (इत्संज्ञक वर्ण) की तरह लोप के लिए प्राप्त हुआ ॥ १९ ॥
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः । निपपात जवादिषुः पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥ २० ॥ मल्लि०—अथेति । अथ रिपोर्मध्यप्रवेशानन्तरं दीपितं वरिवाहवर्त्म आकाशं येन सः । अवार्यो दुर्वार इषुः शरो रववित्रासितवारणात् स्वघोषभोषितगजात् पिनाकात् शिवधनुषः । 'पिनाकोऽजगवं धनुः' इत्यमरः । महतोऽभ्रान्मेघात्, विद्युतोऽयं वैद्युतः कृशानुरशनिरिव जवाद्द्वेगात् । निपपातादघाव ॥ २० ॥
हिन्दी—तब आकाश को प्रकाशित करनेवाला और निवारण नहीं किया जा सकनेवाला बाण अपनी आवाज से हाथियों को डरानेवाले शिवधनु पिनाक से विशाल मेघ से बिजली वाले वज्र के समान वेग से छूटा ॥ २० ॥
व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्थ्योपनिपातवेगशङ्कः । प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ २१ ॥ मल्लि०—व्रजत इति । व्रजतो धावतोऽस्य बाणस्य बृहद्भ्यः पतत्त्रेभ्यः पक्षेभ्यो जन्म यस्य स तथोक्तः । कृता तार्थ्योपनिपातवेगशङ्का गरुडागमनवेगभ्रमो येन सः । अत एव, महोरगाणां सर्पाणां हृदयानि श्रोत्राणि च भिनत्तीति हृदयश्रोत्रभित् । 'समुद्राद्याठः' इति सूत्रे पूर्वनिपातव्यभिचारात् 'श्रोत्र' शब्दस्य पूर्वनिपातः
| २७८ | किरातार्जुनीयम् |
|---|
व्यभिचारः । प्रतिनादैः प्रतिध्वनिभिः महान् संमूर्च्छितो नाद उत्पपात बलिष्ठः अत्र नादस्योरगहृदयभेदकत्वासम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिः। सा च तार्क्ष्यवेगभ्रमोत्थापितेति तयोरङ्गाङ्गिभावेन संकरः ॥ २१ ॥
हिन्दी—दौड़ते हुए इस बाणके विशाल पूंछोंसे उत्पत्तिवाली गरुड़के बाणके के वेगकी शङ्का उत्पन्न करनेवाली अत एव विशाल सर्पोंके हृदय और कछारोंके फाड़नेवाली, प्रतिध्वनियोंसे भारी आवाज उत्पन्न हुई ॥ २१ ॥
नयनादिव शूलिनः प्रवृत्तेर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ २२ ॥
मल्लि०—नयनादिवेति । शूलिनो नयनात् प्रवृत्तेर्निर्गतैरिव स्थितैरित्युत्प्रेक्षा। नेत्राग्निशिखाकल्पैरित्यर्थः । पिशङ्गैः पिङ्गलैः विलसत्तडिल्लताभैर्विद्युद्दामतुल्यैरित्युपमा । मनसश्चित्तादपि आशुतरं शीघ्रतरम् । 'आशु' शब्दादनव्ययातस्तरप् अतः 'किमेत्तिङव्यये-'त्यादिनाम्प्रत्ययो न । 'क्लीवे शीघ्राद्यसत्त्वे स्यात्त्रिलिङ्गे सत्त्वगामि यत् ।' इत्यमरः । यतो गच्छतः । इणः शतृप्रत्ययः । मार्गणस्य शरस्य। 'कदम्बमार्गणशराः' इत्यमरः । किरणैर्व्योमनि आकाशे मार्ग उल्कारेखाकारः पन्था विदधे विरचित इति स्वभावोक्तिरलंकारः ॥ २२ ॥
हिन्दी—शिवजीके नेत्रसे निकले हुएके समान स्थित, पीली चमकती हुई बिजलीके समान, मनसे भी अतिशीघ्र जाते हुए बाणकी किरणोंसे आकाशमें उल्काकी रेखाके आकारवाला मार्ग बनाया गया ॥ २२ ॥
अपयन्धनुषः शिवान्तिकस्थैर्विवरेसदद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ २३ ॥
मल्लि०—अपयन्निति । पृषत्को बाणः । 'पृषत्कवाणविशिखाः' इत्यमरः। धनुषः पिनाकात् अपयन् निर्यन् । निर्गच्छन्नित्यर्थः । इणः शतृप्रत्ययः । शिवान्तिकस्थैर्नभश्चरैः । अभिख्यया शोभया जिहानः । शोभां गच्छन्नित्यर्थः । 'ओहाक् गतौ' इति धातोः शानच् । 'अभिख्या नामशोभयोः' इत्यमरः । विवरे सीदन्तीति विवरेसदस्तैः विवरेसदद्भिरन्तरालवर्तिभिर्नभश्चरैः । 'सत्सूद्विषे--'त्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अथ वराहं विशन् प्रविशन्, तदुपोढैस्तं वराहमुपोढैः प्रत्यासन्नैः । बहेः कर्तरि क्तः । नभश्चरैर्युगपद्ददृशे दृष्ट इति बाणवेगोक्तिः । अत्र क्रमेण पिनाकनिष्क्रमणादिक्रियाविशिष्टस्य बाणस्य शिवान्तिकादिभिन्नदेशस्थ-
त्रयोदशः सर्गः २७९
नभश्चरकर्तृकदर्शनयौगपद्यात्सम्बन्धेऽपि तत्सम्बन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेग-प्रतीतेरलंकारेण वस्तुध्वनिः ॥ २३ ॥
हिन्दी—बाण, पिनाक धनुसे निकल कर शोभाको प्राप्त कर शिवजीके निकट स्थित आकाशचारियोंसे और अन्तरालमें स्थित आकाशचारियोंसे तथा वराहके निकटवर्ती आकाशचारियोंसे भी वराहको भेदन करता हुआ एकही बार देखा गया ॥ २३ ॥
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ २४ ॥
मल्लि०—स इति । बाणः । तमालनिभे तमालप्रभे । नीलाभ इति यावत् । सुराणां रिपौ वराहे घननीहारे सान्द्रतुहिन इव, अविषक्तवेगोऽप्रतिबद्धवेगः सन् । तथा, नभःस्थैः खेचरैः भयेन विप्लुतं विह्वलं यथा तथा, ईक्षितः सन् । अपां सम्बन्धी वेग आपः, अपां समूहो वा आपम् । आपेन गच्छतीति आपगा नदी तां गृह्णातीति ग्राहो जलग्राहः । जलचर इति यावत् । ‘जलबरे’ इति वक्तव्याद् ‘विभाषा' ग्रहः’ इति णप्रत्ययः । स इव । जगतीं भूमिम् । ‘जगती विष्टपे भूम्यां वास्तुच्छन्दोविशेषयोः’ इति वैजयन्ती । जगाहे विवेश । अन्तर्हित इत्यर्थः ॥ २४ ॥
हिन्दी—बाण, तमालवृक्षके समान नीलवर्णवाले वराहमें गाढ़ कोहरेके समान न रुके हुए वेगवाला होकर आकाशचारियोंसे भयसे विह्वल होकर देखा जाता हुआ जैसे ग्राह नदीमें प्रवेश करता है उसी तरह भूमिमें घुस गया ॥ २४ ॥
अथार्जुनबाणप्रयोगमाह—
सपदि प्रियरूपपर्वररेखः सितलोहाग्रनखः खमाससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन् प्राणभृतः कपिध्वजेषुः ॥ २५ ॥
मल्लि०—सपदीति । सपदि शिवबाणपातसमय एव प्रिया रूपमाकृतिः, पर्वाणि ग्रन्थयो रेखा रचनाश्च यस्य सः । अङ्गुलिपक्षे-पर्वरेखाः प्रसिद्धाः लोहाग्रमयःफलं तन्नखमिवेत्युपमितिसमासः । सितं लोहाग्रनखं यस्य सः । कुपितस्यान्तकस्य मृत्योर्या तर्जना तस्या अङ्गुलिस्तर्जनाङ्गुलिः तर्जनां तस्याः श्रीरिव श्रीर्यस्य सः कपिध्वजेषुरर्जुनबाणः प्राणभृतो व्यथयन् भीषयमाणः खमाकाशम् । आससाद प्राप । उपमालंकारः ॥ २५ ॥
हिन्दी—उसी क्षण प्रिय आकार, ग्रन्थि और रचनासे युक्त सफेद लोहाग्ररूप-
२८० किराताजुनीयम्
नखवाला होकर कुपित मृत्युकी तर्जनीकी सदृश शोभासे युक्त अर्जुनका बाण प्राणियों को व्यथित करता हुआ आकाश-मण्डलमें पहुँच गया ॥ २५ ॥
परमास्त्रपरिग्रहेाहुरु तेजः स्फुरदुल्काकृति विक्षिपन्वनेषु। स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ २६॥
मल्लि०—परमेति। परमास्त्रपरिग्रहेण दिव्यास्त्राधिष्ठानेन उरु महत् अत एव स्फुरदुल्काकृति । उल्कावद्धोर्ध्वायमाणमित्यर्थः । तेजो वनेषु विक्षिपन् विकिरन् सन् जवेन पतन् धावन् स बाणः । शतात्परे परःशतास्तेषाम् । शताधिकसंख्याकानामित्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी-' इति योगविभागात्समासः । 'राजदन्तादिषु परम्' इत्युपसर्जनस्य 'शत' शब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । पततां पत्त्रिणाम् । 'पतत्पत्त्ररथप्रण्डजौ' इत्यमरः । व्रातः समूह इव, आरवं वितेने विस्तारयामास ॥ २६ ॥
हिन्दी— दिव्य अस्त्रमें अधिष्ठान करनेसे विशाल अत एव चमकती हुई उल्काकी सदृश आकृतिसे युक्त तेजको वनमें फैला कर वेगसे दौड़ता हुआ वह बाण सौसे अधिक पक्षियोंके समूहके समान आवाज फैलाने लगा ॥ २६ ॥
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः। सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥ २७॥
मल्लि०—अविभावितेति। अतिरंहसाऽतिवेगेन । अविभाविते अलक्षिते निष्क्रमो गाण्डीवान्निःसरणं प्रयाणमन्तरागमनं च यस्य सः । तथा, शमितायामः संक्षिप्तदैर्ध्य इव स्थित इत्युपमा । अत्र वेगगुणनिमित्ता दैर्घ्यगुणाभावोत्प्रेक्षा । स शरः। सह नु सह वा चित्तवृत्त्येति शेषः । चित्तवृत्तेः पूर्वतरं नु प्रागेव वा । उभयत्रापि लक्ष्ये पतित्वेति शेषः । अथवा, अपतित्वा नु । लक्ष्य इति शेषः । लक्ष्यभेदं चकार। अत्रोपात्तवेगगुणनिमित्ताद्वाणस्य चित्तवृत्त्या सहपातपूर्वपातपतनाभावोत्प्रेक्षासिद्धस्य उत्तरोत्तरोत्कर्षेण वेगातिशयव्यञ्जिका इत्यलंकारेण वस्तुध्वनिः ॥ २७ ॥
हिन्दी— अतिशय वेगसे जिसका धनुसे निकलना और चलना दोनों ही अलक्षित हैं दीर्घताको संक्षिप्त करता हुआ-सा स्थित, उस बाणने चित्तवृत्तिके साथ वा पहले ही अथवा मानों लक्ष्यमें पड़े बिना ही लक्ष्यभेद कर डाला ॥२७॥
त्रयोदशः सर्गः
त्रयोदशः सर्गः २८१
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥ २८ ॥
मल्लि०— स इति । जयहेतुः स शरो वृषध्वजसायकावभिन्नं शिवशरविद्धम् । एषणीयम् । वेद्धुमिति शेषः । इषैरिच्छायादनीयर्प्रत्ययः । प्रतिकायम् । प्रतिशरीरम् । प्रतिपक्षमिवि यावत् । विधिना दैवेन, उदीरितं फलसाधनतया प्रतिपादितमर्थं योगादिकं प्रयत्नः पुरुषव्यापार इव । लघु अक्लेशेन यथा तथा साधयितुम् । स्वार्थणिजन्तात्तुमुन् । प्रसेहे शशाक । उपमालंकारः ॥ २८ ॥
हिन्दी— जयका कारण वह बाण, शिवजीके बाणसे विद्ध होकर, वेध करनेके योग्य शत्रुको भाग्यसे प्रतिपादित योग आदिको प्रयत्नके समान शीघ्र साधन करनेको समर्थ हुआ ॥ २८ ॥
अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ २९ ॥
मल्लि०— अविवेकेति । अविवेकोऽन्तरानभिज्ञत्वं, वृथाश्रमो निष्फलप्रयासस्तौ अर्थं धनमिव । अस्यानविनियोगहेतुकत्वादुनयोर्धनहानिकरत्वमिति भावः । क्षयोऽनुपचयो लोभोऽदातृत्वं तौ, संश्रितानाम् अनुजीविनाम् अनुरागम् इव । अकिंचित्करे स्वामिन्यनुरागस्यानवस्थानादिति भावः । अनयो दुर्नीतिः प्रमादोऽनवधानता तौ विजिगीषुमिव । रन्ध्रभूयिष्ठस्य जयासिद्धेरिति भावः । विशिखौ शिवार्जुनबाणौ तं वराहम् । अवसादं करणशैथिल्यं विनिन्यतुर्नीतवन्तौ । नयतिर्द्विकर्मकः । मालोपमेयम् ॥ २९ ॥
हिन्दी— जैसे अविवेक और व्यर्थ परिश्रम धनको, क्षय और लोभ जैसे आश्रित पुरुषके अनुराग को और दुर्नीति और प्रमाद जैसे विजयके इच्छुकको कार्यमें शिथिलता कर देते हैं वैसे ही शिवजी और अर्जुनसे छोड़े गये बाणोंने उस वराहको शिथिल कर दिया ॥ २९ ॥
अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ ३० ॥
मल्लि०— अथेति । अथ स वराहो दीर्घतमं तमो दीर्घनिद्रां प्रवेक्ष्यन् । मरिष्यन्नित्यर्थः । सहसा झटिति रुग्णरयो भग्नवेगः, संभ्रमेण भ्रान्त्या । 'संभ्रमो
| २८२ | किरातार्जुनीयम् |
|---|
भ्रान्तिह्वयोः' इति विश्वः । उष्णरश्मिमुर्व्यां भूमौ निपतन्तमिव मेने । वलयोभूता मण्डलीभूतास्तरवो यस्यास्तां मेने । तया वभ्रानित्यर्थः । स्वभावोक्तिरलंकारः ॥ ३० ॥
हिन्दी—तब वह वराह दीर्घ निद्रामें प्रवेश करता हुआ वेगहीन होकर भ्रान्तिसे सूर्यको जमीनपर गिरे हुए और पृथिवीको मण्डलाकार पेड़ोंसे युक्त समझने लगा ॥ ३० ॥
स गतः क्षितिमुष्णशोणिताद्र्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ ३१ ॥
मल्लि०—स इति । क्षितिं गतः क्षितौ पतित उष्णेन प्रत्यग्रत्वाच्छोणितेनार्द्रः क्लिन्नः खुराणां दंष्ट्रयोश्च अग्राणां निपातेनाघातेन दारिताश्मा पाटितपाषाणः । किंच, क्षणमीक्षितेन्द्रसूनुः । स्वार्थविघातरुषादिति भावः । अत एव, विहितः कृतोऽमर्षगुरुः क्रोधोद्धतो ध्वनिः क्रन्दितं येन स तथोक्तः स वराहोऽसुभिः प्राणै-र्निरासे निरासितः । त्यक्त इत्यर्थः । अस्यतेः कर्मणि लिट् । इयं च स्वभावोक्तिः ॥
हिन्दी—जमीनपर गिरा हुआ और गरम रक्त (खून) से लथपथ होकर खुरों और दाढ़ोंके अग्रभागोंके आघातसे पत्थरको विदीर्ण कर कुछ समय तक अर्जुनको देखकर क्रोधसे भारी आवाज कर वह वराह प्राणोंसे छूट गया ॥ ३१ ॥
स्फुटपौरुषमापपात पार्थस्तमथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः ॥ ३२ ॥
मल्लि०—स्फुटेति । अथ वराहपातानन्तरं पार्थोऽर्जुनः प्राज्यशरः प्रभूतशरः । सन्नपीत्यर्थः । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । स्फुटपौरुषं व्यक्तविक्रमं वराह-भेदिनं शरं जिघृक्षुर्ग्रहीतुमिच्छुः प्रह्वेः सन्नन्तादुपत्ययः । आपपाताधावति स्म । कृतज्ञतया शरग्रहणं, न तु लोभादित्यर्थः । नन्वन्त्येऽप्युपकर्तारि एव, किमित्यत्रैवादर-स्तस्येत्यत आह--कृतवेदिनां कृतज्ञाना कृतावदानः कृतकर्मा । 'अवदानं कर्म वृत्तम्' इत्यमरः । यथा प्रियतामेति तथा करिष्यन् उपकरिष्यन्त प्रियतामेति । 'कृतकरिष्य-माणयोः कृतं बलीयः' इति न्यायादिति भावः ॥ ३२ ॥
हिन्दी—वराहके गिरनेके बाद अर्जुन बाणोंकी प्रचुरता होनेपर भी प्रकट पुरुषार्थ वाले बाणको लेनेकी इच्छा करते हुए दौड़ पड़े, कृतज्ञोंको कर्म करनेवाला जैसे प्रिय होता है वैसे भविष्यत्में उपकार करता हुआ प्रिय नहीं होता है ॥
त्रयोदशः सर्गः २८७
अथ युग्मेनाह—
उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् ।
कृतशक्तिरधोमुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ॥ ३३ ॥
**मल्लि०—**उपकार इति । असति नीचे प्रयुक्त उपकार इव मृगे स्थितिमप्राप्य प्रणाशमदर्शनं गत इत्युपमा । यथा कृतशक्तिः कृतपौरुषो गुरुत्वात् लोहभारान्महत्त्वाच्च अधोमुखो नम्रमुखः । अत एव, आत्मपौरुषेण जनितव्रीड इव इत्युत्प्रेक्षा ।
**हिन्दी—**असत्पुरुषमें किये गये उपकारके समान अर्जुनका बाण वराहके शरीरमें स्थितिको न पाकर नाशको प्राप्त हुआ जैसेकि पुरुषार्थ कर लोहके भारसे वा विशाल होनेसे भी नम्र मुखवाला होकर अपने पुरुषार्थसे मानों लज्जित होकर अधोमुख हो रहा है ॥ ३३ ॥
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तमुच्चैः परिरम्भे नु भृशं विलोचनाभ्याम् ॥ ३४ ॥
**मल्लि०—**स इति । उत्तमां स्वरुचं कान्ति कीर्तिमिव दधान इत्युत्प्रेक्षा । किञ्च, विचिन्त्य सर्वथा ग्राह्योऽयमिति विमृश्य समुद्धरता तेनार्जुनेन उच्चैः स्ववार्तं स्वपाटवम् । 'वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्' । इति यादवः । अनुयुक्तः पृष्ट इव स्थित इत्युत्प्रेक्षा । आदरात्तथा प्रतीयत इत्यर्थः । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । स बाणो विलोचनाभ्यां नयनाभ्यां भृशं परिरम्भे नु आलिङ्गितः किमित्युत्प्रेक्षा । तेनात्यादरेण दृष्ट इत्यर्थः ॥ ३४ ॥
**हिन्दी—**वह बाण उत्तम अपनी कान्तिको कीर्तिके समान धारण करता हुआ स्थित था । यह ग्राह्य है ऐसा विचार कर ऊँचे स्वरसे अपनी कुशलताको पूछे गयेके समान स्थित उस बाणको अर्जुनने दोनों नेत्रोंसे बारंबार मानों आलिङ्गन किया ॥ ३४ ॥
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।
संनिकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ ३५ ॥
**मल्लि०—**तत्रेति । तत्र प्रदेशे महाभुजोऽर्जुनः कुसुमचापविद्विषः स्मरारेः शासनं वक्ष्यमाणमादेशं संनिकाशयितुं संनिवेशयितुम् । निवेदयितुमिति यावत् । अग्रतः स्थितं कार्मुकभृतं वनेचरं सहसा झटिति पश्यति स्म । इतः प्रभृति रथोद्धतावृत्तम्—'रो नराविह रथोद्धता लगौ' इति लक्षणात् ॥ ३५ ॥
२८४ | किराताजुंनीयम्
हिन्दी—उस प्रदेशमें महाबाहु अर्जुनने शिवजीकी आज्ञा निवेदन करनेके लिए सामने रहे हुए धनुर्धारी किरातको सहसा देखा ॥ ३५ ॥
स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किल नतिम्।
सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ ३६ ॥
मल्लि०— स इति । स वनेचरो महीपतेस्तनये राजपुत्रेऽर्जुने आत्मजातिसदृशीं किरातजात्यनुरूपां किल । 'किले'ति जातेरलीकतां दर्शयति । यतः । परमार्थतः प्रथम एव सः । आनतिं प्रणतिं प्रयुज्य सान्त्वपूर्वं सामपूर्वकम् । 'साम सान्त्वमुभे समे' इत्यमरः । अभिनीतिहेतुकं प्रिययुक्तिहेतुकं वचः । इत्थं वक्ष्यमाणप्रकारेण वक्तुमुपचक्रम-उद्युक्तवान् ॥ ३६ ॥
हिन्दी—उस किरातने राजपुत्र अर्जुनको अपनी जातिके अनुसार प्रणाम कर सामपूर्वक नीति हेतु वाले वाक्यको इस प्रकार कहनेके लिए आरम्भ किया ॥ ३६ ॥
तत्र तावच्चतुर्भिः सान्त्वमाह—
शान्तता विनययोगि मानसं भूरि धाम विमलं तपः श्रुतम्।
प्राह ते नु सदृशी दिवौकसामन्ववायमवदातमाकृतिः ॥ ३७ ॥
मल्लि०— शान्ततेति । शान्तता बहिरनौद्धत्यं ते तव विनययोगि अनोद्धत्ययुक्तं मानसं कर्म प्राह नु ब्रूते खलु । तथा भूरि बहु धाम तेजो यस्मिंस्तत्तपः कर्तृ विमलं संप्रदायशुद्धं श्रुतं प्राह । किञ्च, द्योर्दिवं वोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । सदृशी तुल्या आकृतिर्मूर्तिः अवदातं शुद्धम् अन्ववायं वंशं प्राह । 'वंशोऽन्ववायः संतानः' इत्यमरः। शान्त्यादिभिलिङ्गैर्विनयादयोऽनुमीयन्ते । अन्यथा तदसंभवादिति भावः ॥ ३७ ॥
हिन्दी—( हे महोदय ! ) शान्ति आपकी नम्रतासे युक्त मनोवृत्ति कह रही है, प्रचुर तेजवाली तपस्या आपका सम्प्रदाय-शुद्ध शास्त्राऽध्ययन कह रहा है और देवताओंके समान आपका आकार शुद्धवंशको बतला रहा है ॥ ३७ ॥
दीपितस्त्वमनुभावसंपदा गौरवेण लघयन्महीभृतः।
राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम् ॥ ३८ ॥
मल्लि०— दीपित इति । मुनिरपि । ऐश्वर्यरहितोऽपीत्यर्थः । अनुभावसंपदा प्रभावातिशयेन दीपितः प्रकाशितः । 'अनुभावः प्रभावे च' इत्यमरः । गौरवेण महतया महीभृतो राज्ञो लघयन् लघुकुर्वन् । त्वम् । इहाद्रौ । शतमन्योरिदं शातमन्य-
त्रयोदशः सर्गः | २८५
| त्रयोदशः सर्गः | २८५ |
|---|
वमैन्द्रम् । 'तस्येदम्' इत्यणप्रत्ययः । 'शतमन्युर्दिवस्पतिः' इत्यमरः । अधिपतेः कर्म आधिपत्यं त्रैलोक्यरक्षाधिकारम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । कारयन्निव, इन्द्रेणेति शेषः । राजसे तस्याप्युपजीव्य इति प्रतीयसे । स्वमहिम्नेत्यर्थः ॥ ३८ ॥
हिन्दी-( हे महोदय ! ) आप मुनि होकर भी प्रभावके उत्कर्षसे प्रकाशित होकर गौरवसे राजाओंको भी लघु ( हल्का ) करते हुए इन्द्रको आधिपत्यको कराते हुए-से प्रतीत हो रहे हैं ॥ ३८ ॥
तापसोऽपि विभुतामुपेयिवानास्पदं त्वमसि सर्वसंपदाम् ।
दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ॥ ३९ ॥
**मल्लि०-**तमसा इति । विभुतां प्रभावम् । उपेयिवानुपगतः । अत एव तापसोऽपि त्वं सर्वसंपदामास्पदं स्थानमसि । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । विभुतामेव समर्थयते—हि यस्मात्, भवतस्तव जनैर्विनापि । एकाकिनोऽपीत्यर्थः । सचिवैरन्वितस्येव अमात्यादियुक्तस्येव द्युतिस्तेजो दृश्यते । अतः सर्वसंपदास्पदत्वं युक्तमित्यर्थः ॥ ३९ ॥
हिन्दी-( हे महोदय ! ) प्रभावको प्राप्त कर तपस्वी होते हुए भी आप समस्त सम्पत्तियोंके स्थान हो रहे हैं, क्योंकि आपका सहायक जनोंके न होने पर भी मन्त्रियोंसे युक्त ( राजा ) के समान तेज देखा जा रहा है ॥ ३९ ॥
विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ ४० ॥
**मल्लि०-**विस्मय इति । किच, जयश्रिया हेतुना । प्राप्तयारीति शेषः । क इव वा विस्मयः किमाश्चर्यम् । न कश्चिदित्यर्थः । 'विस्मयोऽद्भुतमाश्चर्यं चित्रम्' इत्यमरः । अतो मुक्तिरपि ते तव दवीयसो दूरतरा दुर्लभा न भवत्येव । 'स्थूलदूरे' त्यादितो यणादिपरलोपः पूर्वगुणश्च । तथा हि—निर्जितो रजस्तमसी एव गुणौ येन स भवत्सदृशः पुरुषः कस्येप्सितस्य वाञ्छितस्य । उपाश्रय आस्पदं न भवेदित्यर्थः ॥ ४० ॥
**हिन्दी--**आपको विजयलक्ष्मी प्राप्त होनेपर भी क्या आश्चर्य है ? आपको मुक्ति भी दुर्लभ नहीं है, रजोगुण और तमोगुण जीतनेवाले आप किस अभीष्ट फलके आश्रय न होंगे ? ॥ ४० ॥
अथागमनप्रयोजनमुपालम्भमुखेनाह—
| २८६ | किरातार्जुनीयम् |
|---|
ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ ४१ ॥
**मल्लि०—**ह्रेपयन्निति । त्विषा तेजसा । अधिमतेजसमुष्णतेजसं ह्रेपयन् लज्जयन् उपपन्नपौरुषः संभावितपराक्रमः स प्रसिद्धस्त्वं वराहभेदिनं । कृतोपकारमित्यर्थः । एनं स्वत्करगतम् । अस्मदधिपस्य सायकं शरम् । इत्थं साहसेन हर्तुं नार्हसि ॥ ४१ ॥
हिन्दी—(हे महोदय !) अपने तेजसे सूर्यको लज्जित करते हुए पराक्रम-वाले प्रख्यात आप वराहको विद्ध करनेवाले हमारे स्वामीके इस बाणको साहस-पूर्वक हरण करनेके लिए योग्य नहीं हैं ॥ ४१ ॥
अनर्हत्वमेवाह—
स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ? ॥ ४२ ॥
**मल्लि०—**स्मर्यत इति । उत्तमैर्नृभिः सत्पुरुषैर्मन्वादिभिः । तनुभृतां शरीरिणां सनातनं नित्यं न्याय्यं न्यायादनपेतम्, आचरितमाचारः स्मर्यते । कर्तव्यतयेति शेषः । न त्वनाचार इत्यर्थः । अथाप्यनाचारेण दोषमाह—ध्वंसत इति । भवानिव दृश्यन्त इति भवादृशस्ततः सदाचारात् ध्वंसते भ्रश्यते यदि तया तेन वर्त्मना न्याय्यमार्गेण कः प्रयातु गच्छतु वद कथय । न कोऽपीत्यर्थः । तथा च सन्मार्ग एव शीलं कुर्या-दिति भावः ॥ ४२ ॥
हिन्दी—(हे महोदय !) सत्पुरुषोंने शरीर धारण करनेवाले मनुष्योंके लिए सनातन (नित्य) और न्यायपूर्ण आचरणका स्मरण किया है, आप-सरीखे पुरुष उस आचरणसे भ्रष्ट होंगे तो उस न्यायमार्गसे कौन चलेगा? कहिए ॥ ४२ ॥
आकुमारमुपदेष्टुमिच्छवः सन्निवृत्तिमपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ ४३ ॥
**मल्लि०—**आकुमारमिति । किंच, योगशक्त्याऽऽत्मज्ञानमहिम्ना जितौ जन्म-मृत्यू यैस्ते यतयो योगिनः । आकुमारेभ्य आकुमारम् । कुमारादारभ्येत्यर्थः । 'आङ् मर्यादाभिविध्योः' इत्यव्ययीभावः । महत्य आपदो यस्मिंस्तस्माद् महापद्ः । महा-नर्थहेतोरित्यर्थः । अपथात् अमार्गात् । 'पथो विभाषा' इति निषेधविकल्पात्समासा-न्तः । 'अपथं नपुंसकम्' । संनिवृत्तिमपगमम्, उपदेष्टुमिच्छवः । सन्तः सुशीलतां
त्रयोदशः सर्गः २८७
त्रयोदशः सर्गः २८७
सद्वृत्तताम् । ‘शीलं स्वभावे सद्वृत्ते’ इत्यमरः । शीलयन्ति अभ्यस्यन्ति । अतो न त्याज्यं शीलमित्यर्थः ॥ ४३ ॥
हिन्दी-- (हे महोदय !) योगशक्तिसे जन्म और मरणको जीते हुए योगी-लोग बाल्यावस्थासे ही बड़ी आपत्तिवाले कुमार्गसे हटनेके उपदेश देनेकी इच्छा करते हुए सदाचारका अभ्यास करते रहते हैं ॥ ४३ ॥
न केवलं सौशील्यादनर्थनिवृत्तिः किं त्वर्थप्राप्ति रपीत्याह--
तिष्ठतां तपसि पुण्यमासजन् संपदोऽनुगुणयन् सुखैषिणाम् ।
योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ? ॥ ४४ ॥
मल्लि० - तिष्ठतामिति । तपसि तिष्ठतां तपोनिष्ठानाम् । धर्मार्थिनामित्यर्थः । पुण्यं धर्मम् । आसजन् संपादयन् । ‘स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । सुखैषिणां सुखार्थिनां संपदः सुखसाधनभूतानर्थान् । अनुगुणयन्ननुकूलयन् । अर्थकामयोरपि हेतुभूत इत्यर्थः । तथा, योगिनां विमुक्तयेऽपवर्गाय परिणमन् संपद्यमानो विनयः सौशील्यं केन हेतुना सतां प्रियो नास्तु । संभावनायां लोट् । सर्वथा विनय एव चतुर्वर्गसाधनमित्यर्थः । अतस्त्वया नास्मत्स्वाभिशरचौर्यं कार्यमिति तात्पर्यम् ॥ ४४ ॥
हिन्दी-- तपस्यामें रहते हुए जनोंको पुण्यका सम्पादन करती हुई सुखका अभिलाष करनेवालोंको सम्पत्तियोंको अनुकूल करती हुई तथा योगियोंको मुक्तिके लिए सम्पन्न होती हुई सुशीलता किस कारणसे सज्जनोंको प्रिय न होगी ? ॥ ४४ ॥
अथवा किं भवादृशेष्वन्यसंभावनया, यतो भ्रान्तिरपि संभाव्यत इति मृदूक्तिमवलम्ब्याह--
नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः ।
सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥ ४५ ॥
मल्लि० - नूनमिति । अयमस्मदीयः सायकोऽत्रभवतः । पूज्यस्येत्यर्थः । 'पूज्यस्तत्रभवानत्रभवान्' इति सज्जनः । ‘इतरेभ्योऽपि दृश्यन्ते' इति सार्वविभक्तिकस्तसिल्प्रत्ययः । सुप्सुपेति समासः । शराकृति सर्वथा रूपेण रेखादिना सर्वप्रकारेण । अनुयात्यनुसरति । अत्यन्तमनुकरोतीत्यर्थः । ‘नूनम्' इति वितर्के । ययाऽऽकृत्या कर्त्र्या त्वमनुपपन्नसंशयोऽत्यन्तसादृश्यादनुत्पन्नस्वान्यदीयत्वसंदेहः सन् । सोऽयमिति यः स्वकीयः स एवायमिति । भ्रान्त्युत्पत्त्येवेति शेषः । अपथेऽमार्गे शरापहरणरूपे
| २८८ | किरातार्जुनीयम् |
|---|
पदं कारितः । निधापित इत्यर्थः । 'हृक्रोरन्यतरस्याम्' इत्यणि कर्तुः कर्मसं- ण्यन्ते कर्तुश्च कर्मणः' इति तत्रैवाभिहिते कर्मणि क्तः ॥ ४५ ॥
हिन्दी— ( हे महोदय ! ) यह हमलोगोंका बाण पूजनीय आपके बाणकी आकृतिका सर्वथा अनुकरण करता है। अतः यह बाण मेरा ही है ऐसे अपूर्वयुक्त सन्देहमें आपको अमार्गमें डाल दिया है ॥ ४५ ॥
पुनरपि स्तेयमेव द्रढयन् दोषान्तरमापादयति— अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते । निघ्नतः परनिवर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ ४६ ॥
**मल्लि०—**अन्यदीयेति । सह चेतसा वर्तत इति सचेतसो मनस्विनः । तेऽन्य- दीयविशिखे विषये यत् आहृतमाहरणम् । भावे क्तः । तस्मिन् । अन्यदीयविशिख- स्याहरणम् इत्यर्थः । निःस्पृहस्य केवलं निःस्पृहेणैव न भवितव्यम् । किंतु परनिव- र्हितं परेण प्रहृतं मृगं निघ्नतः प्रहरतस्ते । निघ्नता त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । व्रीडितव्यं लज्जितव्यमपि । भावे तव्यप्रत्ययः । संप्रति तु त्वया पर- विद्धम् मृगं विद्धापि न व्रीड्यते प्रत्युत स्तेयं च क्रियत इत्यहो महत्साहसमित्यर्थः । मृगमित्यत्र शेषत्वाविवक्षणात् 'जासिनिप्रहणनाटकक्राथपिषां हिंसायाम्' इति षष्ठी न भवति शेषाधिकारात् । निप्रहणेत्यत्र निप्रयोः संघातव्यस्तविपर्ययेणापि ग्रहणात् ॥ ४६ ॥
**हिन्दी—**मनस्वी आपको दूसरेके बाणको ले लेनेमें निःस्पृहमात्र होना नहीं था बल्कि दूसरेसे विद्ध जानवरपर प्रहार करनेवाले आपको लज्जित भी होना चाहिए ॥ ४६ ॥
अथारिमन्कृतघ्नताभियोगंऽस्वीयोपकारकत्वं वर्णयितुं विकत्थनदोषं तावद्युग्मेन परिहरन्नाह— सन्ततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः । कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ ४७ ॥
**मल्लि०—**संततमित्यादि । सूरयो विद्वांसः । यस्य अस्मत्स्वामिनः सम्बन्धिभिः, यैश्चरितैः करणभूतैः सन्ततं सततमुत्सुकाः सोत्कण्ठाः सन्तो निशमयन्तश्चरितानि शृण्वन्तो मुदं प्रयान्ति । अत्र चरितानां मुत्प्राप्तौ शब्दं करणत्वम् । अर्थात्निशमन- कर्मत्वमिति विवेकः । तानि चरितानि हसितेऽपि परिहासेऽपि कीर्तितानि परैः