किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः २९७
त्रयोदशः सर्गः २९७
मल्लि०—यष्टुमिति । सांप्रतं संप्रति । 'संप्रतोदानीमधुना सांप्रतं तथा' । इत्यमरः । पितॄन् कव्यवाडादीन् यष्टुमर्चयितुं नेच्छसि । यतः, संवृत एकान्ते 'स्थितः । तथा, दिवौकसो देवान् । अचिचयिषुरप्यर्चयितुमिच्छुरपि नासि । अतो न पित्र्यर्थं हिंसा, नापि देवतार्था । तदाराधने तद्विहितत्वादिति भावः । अथ 'सर्वत आत्मानं गोपायेत' इति श्रुतेरात्मरक्षार्थमिति चेन्नेत्याह--दातुमिति । हे अङ्ग ! पदवीं मार्गं दातुमेव । न तु हन्तुम्, मुनित्वादिति भावः । क्षमोऽपि योग्यः सन्नपि । किं किमर्थं मृगे विशिखं न्यवीविशो निवेशितवान् । विशतेर्ण्यन्ताल्लुङ् । अभिधावतो मृगादपसरणेनैवात्मरक्षणे कर्तव्ये यदवधीस्तच्चापलमेव । 'न हिंस्यात्सर्वा भूतानि' इति श्रुतिनिषेधादिति भावः ॥ ६५ ॥
हिन्दी—इस समय आप कव्यवाट् आदि पितरोंका श्राद्ध करना नहीं चाहते हैं, एकान्तमें रहकर आप देवताओंकी पूजा करना भी नहीं चाहते हैं, हे महोदय ! मार्ग देनेके लिए ही योग्य होते हुए भी किस कारणसे आपने वराहपर बाण छोड़ दिया ? ॥ ६५ ॥
किं बहुना, परमार्थः श्रूयतामित्याह-- सज्जनोऽसि विजहीहि चापलं, सर्वदा क इव वा सहिष्यते । वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरून्नपि ॥ ६६ ॥
मल्लि०—सज्जन इति । सज्जनोऽसि । अत एव चापलं चपलस्य कर्म विजहीहि त्यज । जहातेर्लोट् । 'आ च हौ' इतीकारः । सर्वदा क इव वा को वा सहिष्यते । 'इव' शब्दो वाक्यालंकारे । 'वा' शब्दोऽवधारणे । असहने कारणमाह—वारिधीनिति । अनिभृताश्चपलाः पुनःपुनरकार्यकारिणो गुरून् धर्मयुक्तानपि । अन्यत्र,-विशालानपि । युगान्तवायवः प्रलयपवना वारिधीनिव समुद्रानिव क्षोभयन्ति । उपमानुप्राणितोऽयमर्थान्तरन्यासः ॥ ६६ ॥
हिन्दी--(हे महोदय !) आप सज्जन हैं इस कारणसे चञ्चलकर्म छोड़ दीजिए, सर्वदा कौन-सा पुरुष सहन करेगा ? क्योंकि जैसे प्रलय समयके वायुगण समुद्रोंको क्षुब्ध करते हैं वैसे ही चञ्चलपुरुष धर्मयुक्तोंको भी क्षुब्ध कर देते हैं ॥ ६६ ॥
नन्वयं किरातः क्षुभितः किं करिष्यति, तत्राह-- अस्त्रवेदविदयं महीपतिः, पर्वतीय इति माऽवजोगणः । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥ ६७ ॥
२१८ किरातार्जुनीयम्
मल्लि०—अस्येति । अयं महीपतिः । अस्त्रवेदवित् । निग्रहानुग्रहसमर्थ इति भावः । अतः पर्वते भवः पर्वतीयः । 'पर्वताच्च' इति छप्रत्ययः । इति हेतोः माऽवजीगणः । वनेचरबुद्ध्या माऽवज्ञासीरित्यर्थः । गणयतेर्माङि लुङ् । 'ईं च गणः' इतोकारः । नन्वीदृशश्चेत्किमर्थमिह वने वसति, तत्राह—गोपितुमिति । मघवता इन्द्रेण । इमां भुवं गोपितुं रक्षितुम् । 'आयादय आर्धधातुके वा' इति विकल्पात् 'गुपूपे-'त्यादिना न आयप्रत्ययः । अनुनीय प्रार्थ्य, शैलवासं लम्भितः प्रापितः 'ण्यन्ते कर्तुश्च कर्मणः' इति वचनादणि कर्तुः कर्मणि क्तः । 'गतिबुद्धी-'त्या- दिनाऽपि कर्तुः कर्मत्वम् ।। ६७ ।।
हिन्दी—(हे महोदय !) ये किरातराज अस्त्रविद्या जाननेवाले हैं। पर्वतमें रहनेवाला समझकर इनकी आप अवज्ञा मत करें। क्योंकि इन्द्रने इस पर्वतभूमिकी रक्षा करनेके लिए प्रार्थना करके इनका पर्वतवास कराया है ॥ ६७ ॥
उपसंहरति— तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः । बाणमत्रभवते निजं दिशन्नाप्नुहि त्वमपि सर्वसंपदः ॥ ६८ ॥
मल्लि०—तदिति । तत् तस्मान्मुनिचापलात् । मुनेः सम्बन्धि इदं मृगवध- रूपमागो मया तितिक्षितं सोढम्, इति वचश्चमूपतिरवोचत् । शरद्रोहस्य प्रत्यर्पणमेव प्रतीकार इत्याह-अत्रभवते पूज्याय स्वामिने । अत्रभवान् व्याख्यातः । निजं बाणं तदीयमेव शरं दिशन् प्रत्यर्पयन्, त्वमपि सर्वसंपद आप्नुहि । सत्वेनेति भावः ।६८।
हिन्दी—'मुनिकी चञ्चलतासे किये गये वराहका हत्यारूप अपराध मैंने सह लिया है' ऐसा वचन किरातसेनापतिने कहा है। हमारे स्वामीको उनका बाण लौटाते हुए आप समस्त सम्पत्तियोंको प्राप्त कर लीजिए ॥ ६८ ॥
ननु महामेतत्सख्यमेव न रोचते, किं पुनस्तन्मूलाः संपदस्तत्राह— आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः । इत्यनेकफलमाजि मा स्म भूर्दापिता कथमिवार्यसंगमे ॥ ६९ ॥
मल्लि०—आत्मनीनमिति । आत्मने हितं आत्मनीनम् । 'आत्मन्विश्वजनभोगो- त्तरपदात्खः' । उपतिष्ठते संगच्छते । 'उपाद् देवपूजासंगतिकरणमित्रकरणपथिषु' इति वक्तव्यादात्मनेपदम् । गुणा विनयादयः संभवन्ति, आपदश्च विरमन्ति ।
त्रयोदशः सर्गः २९९
त्रयोदशः सर्गः २९९
‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम्। इत्यनेकफलभाजि नानाफलोत्पादक आर्यसंगमे साधुसंगतौ। उचिताऽपेक्षा कथमियं मा स्म भूत्। सर्वथा भवत्येव ॥ ६९ ॥
हिन्दी—अपना हित उपस्थित होता है, विनय आदि गुण उत्पन्न होते हैं और आपत्तियां दूर हो जाती हैं, इस प्रकार अनेक फलवाली सज्जनसंगतिमें अपेक्षा ( परवाह ) क्यों नहीं होगी ? ॥ ६९ ॥
न चायं दूरे वर्तत इत्याह— दृश्यतामयमनोंकहान्तरे तिग्महेतिपृतनाभिरन्वितः । साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥ ७० ॥
मल्लि०—दृश्यतामिति । तिग्महेतिभिस्तीक्ष्णायुधाभिः। 'हेतिर्ज्वालास्त्रसूर्याशुषु' इति हेमचन्द्रः । पृतनाभिर्वाहिनीभिः । 'वाहिनी पृतना चमूः' इत्यमरः । अन्वितो भूपतिः । साह्वयः ससर्पा वीचयो यस्य स सिन्धुः समुद्र इवोद्धतः । किंतु समयो मर्यादा सेतुरिव स समयसेतुस्तेन वारितः सन्। हस्तेन निर्दिशन्नाह—अयमनोक- हान्तरे द्रुमान्तर्धाने । वर्तत इति शेषः । दृश्यताम् । 'अनोकहः कुटः शालः पलाशो द्रुद्रुमागमाः' । इत्यमरः ॥ ७० ॥
हिन्दी—( हे महोदय ! ) तीक्ष्ण हथियारोंवाली सेनाओंसे युक्त किरातपति, सर्पोंवाली तरङ्गोंसे युक्त समुद्रके समान उद्धत हैं, किन्तु मर्यादारूप सेतु ( पुल ) से निवारण किये जाते हुए ये वृक्षोंके मध्यमे ही रह रहे हैं, आप इनको देख लें ॥७०॥
अथास्य विज्ञापनमेवाह— सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरंगमकेतुलक्ष्मीम् । अस्यातुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ॥७१॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये त्रयोदशः सर्गः ।
मल्लि०—सज्यमिति । स्थेयान् स्थिरतरः । 'प्रियस्थिरे'—त्यादिना स्थादेशः । यश्चभूपतिः । हरितुरङ्गमकेतोरिन्द्रध्वजस्य लक्ष्मीं शोभां जयन् । अहिपतिः शेष इव स्थवीयः स्थूलतरम् । 'स्थूलदूरे'—त्यादिना पूर्वगुणयणादिपरलोपौ । सह
३०० | किरातार्जुनीयम्
ज्यया सज्यं धनुर्वहति । हे मतिमन् ! अस्य चमूपतेः मतिमनुकूलयानुकूलां कुरु । सख्यं कुर्वित्यर्थः । मतिमत्तायाः फलमेतदिति भावः । कुतः । सख्याऽनेन चमूपतिना हेतुना सुखमकलेशेन चिन्तितानि मनोरथान् समभियास्यसि प्राप्स्यसि । वसन्ततिलका वृत्तम् ॥ ७१ ॥
हिन्दी—( हे महोदय ! ) अत्यन्त स्थिर जो किरात-सेनापति इन्द्रके ध्वज-की शोभाको जीतते हुए शेषनागके समान अत्यन्त स्थूल प्रत्यञ्चा चढ़ाये गये धनुको धारण करते हैं। हे बुद्धि-सम्पन्न ! आप इनकी बुद्धिको अपने अनुकूल कीजिए, मित्र इन किरातराजके कारण सुखपूर्वक आप चाहे गये मनोरथोंको पूर्ण कर लेंगे ॥ ७१ ॥
इति श्रीमद्दाकविभारविकृते किरातार्जुनीयमहाकाव्ये त्रयोदशः सर्गः ।
चतुर्दशः सर्गः
ततः किरातस्य वचोभिरुद्धतैः पराहता शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः, सुदुग्रहान्तःकरणा हि साधवः ॥ १ ॥
मल्लि०—तत इति । ततः किरातवाक्यानन्तरम् उद्धतैः प्रगल्भैः किरातस्य वचोभिः । अर्णवाम्बुभिः शैल इव पराहतोऽभिहतोऽत एव कुपितोऽपि पाण्डवो धैर्यं निर्विकारचित्तत्वं न जहौ न तत्याज । उत्पन्नमपि कोपं स्तम्भयामासेत्यर्थः । तथा हि—साधवः सज्जनाः सुदुर्ग्रहं सुष्ठु दुरासदमप्रतिकुप्यमन्तःकरणं येषां ते सुदुर्ग्रहान्तःकरणा हि । अर्थान्तरन्यासः ॥ १ ॥
हिन्दी—उसके बाद किरातके उद्धत वचनोंसे समुद्रके जलसे ताडित पर्वतके समान, कुपित होकर भी अर्जुनने धैर्यका परित्याग नहीं किया, क्योंकि सज्जनलोग दुर्ग्रह ( दुष्प्राप्य ) चित्तवृत्ति वाले होते हैं ॥ १ ॥
चतुर्दशः सर्गः ३०१
चतुर्दशः सर्गः ३०१
सलेशमुल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे।
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः॥ २ ॥
मल्लि०—सलेशमिति । सह लेशैः सलेशं सकलं यथा, उल्लिङ्गितमुद्भूत-लिङ्गं कृतम् । लिङ्गैस्तद्वाक्यभङ्गिभिरेव सम्यगवगतमित्यर्थः । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययः । तस्य इङ्गितमभिप्रायस्तदुल्लिङ्गितं येन सः । गिरां वाचां सम्बन्धिनि विस्तरे तत्त्वसंग्रहेऽर्थसंक्षेपे । वैभाषिको द्वन्द्वैकवद्भावः । कृती कुशलः प्रमाणीकृतं प्रधानीकृतं काल एव साधनं येन सः । अवसरोचितं विवक्षुरित्यर्थः । अयं पाण्डवः प्रशान्तसंरम्भः क्षोभरहित इव वच आददे । उवाचेत्यर्थः ॥ २ ॥
हिन्दी—समस्तरूपसे वाक्यभङ्गिसे शत्रुके अभिप्रायको जानकर वचनसमूहके अर्थसंक्षेपमें कुशल होकर समय रूप साधनको प्रधान मानते हुए अर्जुन क्षोभरहितसे होकर बोलने लगे ॥ २ ॥
सान्त्वपूर्वकमेवाह—
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ ३ ॥
मल्लि०—विविक्तेति । विविक्ताः संयोगादिना अश्लिष्टाः स्फुटोच्चारिता वर्णा अक्षराण्येव आभरणानि यस्याः सा । अन्यत्र तु,—विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्याः सा । 'वर्णो द्विजादौ शुक्लादौ' 'स्तुतौ वर्णे तु चाक्षरे' इत्युभयत्राप्यमरः । सुखा श्रुतिः श्रवणं यस्याः सा सुखश्रुतिः । श्राव्येत्यर्थः । अन्यत्र,—श्रूयत इति श्रुतिर्वाक् । सा सुखा यस्याः सा । मञ्जुभाषिणीत्यर्थः । द्विषामपि हृदयानि प्रसादयन्ती । किं पुनः सुहृदामिति भावः । प्रसन्नानि वाचकानि गम्भीराणि अर्थगुरूणि च पदानि सुप्तिङन्तरूपाणि यस्याः सा । अन्यत्र तु,—प्रसन्ना विमला गम्भीरपदाऽलसचराणा सरस्वती वाक्, स्त्रीरत्नं च । तथा चोक्तम्—'सरस्वती सरिद्भेदे गोवाग्देवतयोरपि । स्त्रीरत्ने च' इति । न कृतं पुण्यकर्म यैस्तेषां न प्रवर्तते न प्रसरति । किं तु सुकृतिनामेवेत्यर्थः । भवद्वाणी चैवंविधेति धन्यो भवानिति भावः । अत्र काचिन्नायिका वाग्देवता च प्रतीयते । तत्रादौ समासोक्तिरलंकारः । विशेषणमात्रसाम्येनाप्रस्तुतप्रतीतेः । अत एव न श्लेषः ॥ ३ ॥
हिन्दी—संयोग आदिसे अश्लिष्ट स्पष्ट उच्चारण किये गये अक्षररूप भूषण-वाली, दूसरे पक्षमें—शुद्ध रूप और आभरणवाली, सुननेके योग्य, दूसरे पक्षमें—
३०२ किरातार्जुनीयम्
मधुरभाषिणी, शत्रुओंके हृदयको भी प्रसन्न करनेवाली दूसरे पक्षमें—प्रसाद्युक्त और गम्भीर (अर्थगौरवयुक्त) पदोंवाली वाणी, दूसरे पक्षमें—स्त्रीरत्न पुष्यद्वयं का अनुष्ठान न करनेवालोंकी प्रकट नहीं होती है ॥ ३ ॥
भवन्ति ते सभ्यतमा विपश्चितां, मनोगतं वाचि निवेशयन्ति ये।
नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ॥ ४ ॥
मल्लि०—भवन्तीति। ते पुरुषा विपश्चितां विदुषाम्। 'विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः। मध्ये सभ्यतमाः सभायां साधुतमा निपुणतमाः। 'साधुः समर्थो निपुणश्च' इति कारिकायाम्। भवन्ति। ये मनोगतं मनसा गृहीतं अर्थं वाचि निवेशयन्ति। वाचोद्गिरन्तीत्यर्थः। तेषु वक्तृष्वप्युपपन्ननैपुणाः सम्भावितकौशलाः कतिचिदेव गभीरं निगूढमर्थं प्रकाशतां स्फुटतां नयन्ति। लोके तावज्ज्ञातार एव दुर्लभाः, तत्रापि वक्तारः, तत्रापि निगूढार्थप्रकाशकाः। त्वयि सर्वमस्तीति स्तुतिः। वनेचरवाक्यरहस्यं ज्ञातमिति स्वयमपि तादृश एवेति हृदयम् ॥ ४ ॥
हिन्दी—जो मनसे ग्रहण किये गये अर्थको वचनसे प्रतिपादन करते हैं वे विद्वानोंमें अत्यन्त निपुण होते हैं। ऐसे वक्ताओंमें भी नैपुण्ययुक्त कुछ ही विद्वान् गम्भीर अर्थको स्फुटरूपसे प्रकाशित कर देते हैं ॥ ४ ॥
स्तुवन्ति गुर्वीमभिधेयसम्पदं, विशुद्धिमूक्तेरपरे विपश्चितः।
इति स्थितायां प्रतिपूरुषं रुचौ, सुदुर्लभाः सर्वमनोरमा गिरः ॥ ५ ॥
मल्लि०—स्तुवन्तीति। किं च, केचिद्गुर्वीं महतीमभिधेयसंपदमर्थसंपत्तिं स्तुवन्ति। अपरे विपश्चित उक्तेः शब्दस्य विशुद्धिं सामर्थ्यं स्तुवन्ति। इति प्रतिपूरुषं रुचौ प्रीतौ स्थितायां अवस्थितायां सर्वमनोरमाः सर्वेषां शब्दार्थरुचीनां पुंसां मनोरमा गिरः सुदुर्लभाः। त्वद्गिरस्तु सर्वमनोरमा उक्तसर्वगुणसम्पत्तेरिति भावः।
हिन्दी—कुछ विद्वान् गौरवपूर्ण अर्थ-सम्पत्तिकी स्तुति (तारीफ) करते हैं तो अन्य विद्वान् शब्द सामर्थ्यकी प्रशंसा करते हैं इस तरह प्रत्येक पुरुषमें रुचिकी भिन्नता होनेपर सबके मनमें मधुर प्रिय वाणी अतिशय दुर्लभ है ॥ ५ ॥
समस्य संपादयता गुणैरिमां त्वया समारोपितभार, भारतीम्।
प्रगल्भमात्मा धुरि धुर्यं वाग्मिनां वनेचरेणापि सताधिरोपितः ॥ ६ ॥
मल्लि०—समस्येति। धुरं वहतीति धुर्यस्तत्संबोधने हे धुर्य! हे कार्यनिर्वाहक! 'धुरो यड्ढकौ' इति यत्प्रत्ययः। अत एव समारोपितभार हे स्वामिना
चतुर्दशः सर्गः । ३०३
चतुर्दशः सर्गः । ३०३
निहितसंध्यादिकार्यभार ! तदाह मनुः- 'दूते संधिविपर्ययो' इति । इमां 'शान्तता-विनययोगी'त्यादिकां भारतीं वाचं गुणैर्विविक्तवर्णत्त्वादिभिः समस्य संयोज्य प्रगल्भं निर्भीकं यथा तथा संपादयता रचयता । व्याहरतेत्यर्थः । त्वया वनेचरेणा-पीत्यर्थः । सता 'अपि' शब्दो विरोधद्योतनार्थम् । आत्मा स्वयं वाग्मिना वाचो युक्तिपटूनाम् । 'वाचोयुक्तित्पटुर्वाग्मी' इत्यमरः । 'वाचो ग्मिनिः' इति मत्वर्थीयो ग्मिनिप्रत्ययः, धुरि अग्रेऽधिगोपितः । स्थापित इत्यर्थः । 'रुहः पोऽन्यतरस्याम्' इति पकारः । अत्र मनुः-'वपुष्मान्मतिमान्वाग्मी दूतो राज्ञः प्रशस्यते' इति ॥ ६ ॥
हिन्दी — हे कार्यभार-निर्वाहक ! ऐसी वाणीको गुणोंसे संयुक्त कर निर्भय होकर कहनेवाले तुमने किरात होते हुए भी अपनेको वाक्यकुशलोंके आगे स्थापित कर दिया है ॥ ६ ॥
वाग्मितामेवाह— प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तञ्च शिलीमुखाथिना यद्येतरन्न्याय्यमिवावभासते ॥ ७ ॥
मल्लि०—प्रयुज्येति । 'शान्तता विनययोगी'त्यादिना साम सान्त्वम् । 'साम सान्त्वमुभे समे' इत्यमरः । प्रयुज्य नियुज्य विलोभनं प्रलोभनं 'मित्रमिष्टम्' इत्यादिनाऽऽचरितं संपादितम् । तथा धियो बुद्धेर्विभेदाय व्यामोहनार्थम् 'शक्तिन-रथपंक्तिषु' इत्यादिना भयं प्रदर्शितम् । किंच, शिलीमुखाथिना । न तु न्यायाथि-नेति भावः । त्वयेति शेषः । 'नाभियोक्तुम्' ( १३।५८ ) इत्यादिना तथाऽभियुक्तं कथितं यद्येतरत् न्यायादन्यत् । अन्याय्यमित्यर्थः । न्याय्यं न्यायादनपेतमिवाव-भासत इत्युपमा । अनेन वाग्मिनामग्रेसरोऽसीति भावः ॥ ७ ॥
हिन्दी —( हे वनेचर ! ) तुमने सामनयका प्रयोगकर प्रलोभन और बुद्धिका भेद करनेके लिए भयको भी प्रदर्शन किया है, इस प्रकार बाणको चाहनेवाले तुमने ऐसा वाक्य कहा है जिससे कि अन्याययुक्त वचन भी न्याययुक्त-सा प्रतीत होता है ॥ ७ ॥
अतः किमत आह— विरोधि सिद्धेरिति कर्तुमुद्यतः स वारितः किं भवता न भूपतिः । हिते नियोज्यः खलु भूतिमिच्छता सहायनाशेन नृपोऽनुजीविना ॥ ८ ॥
मल्लि०—विरोधीति । किंतु सिद्धेः फलस्य विरोधि विघातकमिति इदमस्म-
| ३०४ | किरातार्जुनीयम् |
|---|
दास्कन्दनरूपं कर्म कर्तुमुद्यतः स भूपस्तमहोपतिर्भवता। धूर्येणेति भावः। कि न वारितो न निवारितः। निवारणे हेतुमाह—भूतिमिच्छता इहामुत्र च श्रेयोऽर्थिना सहचरितावर्थनाशौ स्वार्थाऽनर्थौ यस्य तेन सहार्थनाशेन। समानसुखदुःखेनेत्यर्थः। अनुजीविना भृत्येन नृपः स्वामी हिते नियोज्यो नियम्यः खलु। अन्यथा स्वामि-द्रोहपातकी श्रेयसो भ्रष्टः स्यादिति भावः ॥ ८ ॥
हिन्दी—सिद्धिके विरोधी ऐसा कर्म (मेरा अतिक्रमण) करनेको तत्पर उस राजाको तुमने क्यों निवारण नहीं किया? कल्याणकी इच्छा करनेवाले और समान सुख-दुःखका अनुभव करनेवाले भृत्यको राजाको हितमें नियोजन करना चाहिए ॥ ८ ॥
तर्हि नो बाणः क्व गतः, किमत्र वा न्याय्यम्? तत्राह—
ध्रुवं प्रणाशः प्रहितस्य पत्रिणः, शिलोच्चये तस्य विमार्गणं नयः।
न युक्तमत्रार्यजनातिलङ्घनं, दिशत्यपायं हि सतामतिक्रमः ॥ ९ ॥
मल्लि०—ध्रुवमिति। प्रहितस्य प्रयुक्तस्य पत्रिणः शरस्य प्रणाशोऽदर्शनं ध्रुवं निश्चितम्। प्रहितस्येदेदिति भावः। तस्य नष्टस्य पत्रिणः शिलोच्चये शैले। 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः। विमार्गणमन्वेषणं नये न्यायः। 'अन्वेषणं विचयनं मार्गणं मृगणा मृगः' इत्यमरः। अत्र विषये आर्यजना-तिलङ्घनं सज्जनव्यतिक्रमो न युक्तम्। हि यस्मात्कारणात् सतामतिक्रमोऽपायमनर्थं दिशति ददाति ॥ ९ ॥
हिन्दी—फेंके गये बाणका अदर्शन निश्चित है, उसका पर्वतमें अन्वेषण करना न्याय है। इस विषयमें सज्जनका लंघन करना उचित नहीं है, क्योंकि सज्जनोंका लंघन अनर्थ करनेवाला होता है ॥ ९ ॥
यदुक्तम् 'हर्तुमर्हसि' (१३।०४) इति, तत्रोत्तरमाह—
अतीतसंख्या विहिता ममाग्निना शिलीमुखाः खाण्डवमत्तुमिच्छता।
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥ १० ॥
मल्लि०—अतीतेति। खाण्डवमिन्द्रवनम् अत्तुं भक्षयितुम्, इच्छताऽग्निना ममातीतसंख्याः शिलीमुखाः शरा विहिता दत्ताः। खाण्डवदाहेऽक्षयतूणीरदानमुक्तं भारते। अतोऽमरसायकेष्वपि अनादृतस्यादररहितस्य। भावे क्तः। ततो नञा बहुव्रीहिः। मम कथं शैलजनाशुगे किरातबाणे धृतिरास्था स्थिता। न कथंचि-दित्यर्थः। अतो नापहारशङ्का कार्येत्यर्थः ॥ १० ॥
चतुर्दशः सर्गः ३०९
हिन्दी—खाण्डव वनको भक्षण करनेकी इच्छा करनेवाले अग्निदेवने मुझे असंख्य बाण दिये हैं। इस कारणसे देवताओके बाणोंमे भी परवाह न करनेवाले मुझको कैसे किरातके बाणमें भी आस्था होगी? ॥ १० ॥
यदुक्तम् 'स्मर्यते तदनुमताम्' (१३।४२) इत्यादिना सदाचारः प्रमाणमिति तत्रोत्तरमाह—
यदि प्रमाणीवृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते ॥ ११ ॥
मल्लि०—यदीति। आर्यचेष्टितं सच्चरितं प्रमाणं वृतं यदि। साधुत्वेनाङ्गीकृतं यदीत्यर्थः। तर्हि, अदोषेण दोषाभावेऽपि। 'क्वचित्प्रसज्यप्रतिषेधेऽपि नञ्समासः' इति भाष्यकारः। उपलक्षणे तृतीया। वयं किमिति तिरस्कृताः। न युक्तमित्यर्थः। हि यस्मात् परिवादगोचरं परनिन्दास्पदम्। अयातपूर्वा सतां वाणी गुणमेव भाषते न दोषम्। अतस्ते मृषादोषभाषिणो न सदाचारप्रामाण्यबुद्धिरिति भावः। पूर्वं न यातेत्ययातपूर्वा। सुप्सुपेति समासः। परत्वात्सर्वनाम्नो निष्ठायाः पूर्वनिपातः। 'स्त्रियाः पुंवत्—' इत्यादिना पुंवद्भावः पुंर्वलिङ्गता च। अर्थान्तरन्यासः ॥ ११ ॥
हिन्दी—सज्जनोंके चरित्रको प्रमाण मानते हो तो दोषके न होनेपर भी क्यों मेरा तिरस्कार किया ? क्योंकि दूसरेकी निन्दाके स्थानमें पहले नहीं गई सज्जनोंकी वाणी गुणको ही कहती है दोषको नहीं ॥ ११ ॥
नन्वप्रत्यक्षा परबुद्धिः कथं दुष्टेति निश्चीयते तत्राह—
गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूह्तः स्फुरन्नसाधोविवृणोति वागसिः ॥ १२ ॥
मल्लि०—गुणेति। गुणापवादेन विद्यमानगुणापह्नवेन तदन्यरोपणात् तस्माद् गुणादन्यस्य दोषस्याविद्यमानस्यैवारोपणाच्च समञ्जसं जनं सुजनं भृशाधिरूढाया-तिमात्रमाक्रम्य स्थितस्य। अभिक्षिप्तस्येत्यर्थः। कर्तरि क्तः। निगूहतो हृदयं संवृण्वतोऽपि असाधोरनार्यस्य हृदयं कर्म स्फुरन् विलसन् वागेवासिर्द्विधा कृत्वा भित्त्वेव विवृणोति। अतिदुष्टया वाचैवतत्पूर्विकाया बुद्धेरपि दौष्ट्यमनुमीयत इति भावः। वागसिरित्यत्र रूपकं द्विधाकरणरूपकसाधकम् ॥ १२ ॥
हिन्दी—विद्यमान गुणको छिपाकर दोषका आरोप करनेसे सज्जनको अतिशय आक्रमण करके अपने हृदयको छिपानेवाले दुर्जनके हृदयको शोभित होता हुआ वचनरूप खड्ग मानों दो टूक करके प्रकट कर देता है ॥ १२ ॥
२० कि०
| ३०६ | किरातार्जुनीयम् |
|---|
यदुक्तम्—'आत्मवाति' ( १३।६३ ) इति, तत्रोत्तरमाह—
वनाश्रयाः कस्य मृगाः परिग्रहाः ? शृणाति यस्तान्प्रसभेन तस्य ते।
प्रहीयतामत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ १३ ॥
मल्लि०—वनेति । वनाश्रया अत एव मृगाः कस्य परिग्रहाः ? न कस्यापीत्यर्थः । किन्तु यस्तान् मृगान् प्रसभेन बलात्कारेण शृणाति हिनस्ति। 'शॄ हिंसायाम्' इति धातोर्लट् । ते मृगास्तस्य हन्तुः परिग्रहाः परिग्राह्याः, हन्ता ग्राहयेदिति भावः । ननु ममायमित्यभिमानान्रृपस्य स्वत्वमित्याशङ्क्याह-अत्रेति। अत्र मृगे नृपेण मानिता ममेत्यभिमानिता प्रहीयतां त्यज्यताम्। कुत इत्याशङ्कयाभिमानमात्रेण स्वत्वाभावादित्याह—नेति । मानिता चास्ति । श्रियः स्वानि च भवन्तीति न । किन्तु न भवन्त्येव । सस्यामभिमानित्रावामित्यर्थः । अभिमानमात्रेण स्वस्वेऽतिप्रसङ्गादिति भावः ॥ १३ ॥
हिन्दी—वनमें रहनेवाले मृग किसके अधीन हैं? जो उन्हें बलात्कारसे मार डालता है वे उसीके हैं । उस मृगमें तुम्हारा राजा ये मेरे हैं ऐसा अभिमान छोड़ दें, यह मेरा है ऐसे अभिमानिता ओर सम्पत्तियाँ साथ-साथ नहीं होती हैं ॥ १३ ॥
'यष्टुमिच्छसि पितॄन्' (१३।६५) इत्यादिना यत्तिरस्कारजमवतोदिष्टमुपालब्धं, तत्रोत्तरमाह —
न वर्त्म कस्मैचिदपि प्रदीयतामिति व्रतं मे विहितं महर्षिणा।
जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सतामलंकिया ॥ १४ ॥
मल्लि०—नेति । कस्मैचिदपि वर्त्म न प्रदीयतामिति एवं व्रतं महर्षिणा व्याधेन मे मह्यं विहितम् । उपदिष्टमित्यर्थः । अस्मात् कारणात्, जिघांसुर्हन्तुमिच्छुरापतन्नयं मृगो मया निहतः । हि यस्मात्, व्रताभिरक्षा सतामलंकिया, न तु दोषः । अत आत्मरक्षणार्थमस्य वधो न निष्कारणमित्यर्थः ॥ १४ ॥
हिन्दी—'किसीको भी मार्ग नहीं दो' महर्षि ( व्यास )ने मेरे ऐसे व्रतका विधान किया है, इस कारणसे मुझे मारने को इच्छुक इस मृग ( वराह ) को मैंने मार डाला है, क्योंकि व्रतकी रक्षा करना सज्जनोंका अलंकार है ॥ १४॥
'दुर्वचं तत्' ( १३।४९ ) इत्यादिना यत्संजातं बन्धुत्वमुक्तं, तत्राचष्टे—
मृगान्विनिघ्नन्नमृगयुः स्वहेतुना कृतोपकारः कथमृच्छतां तपः ?
कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पुत्रं न मयेति का गतिः ?॥ १५ ॥
चतुर्दशः सर्गः
३०७
मल्लि०—मृगानिति । स्वमात्रमेव हेतुस्तेन स्वहेतुना । स्वार्थमित्यर्थः । 'सर्वनाम्नस्तृतीया च' इति तृतीया । मृगान् विनिघ्नन् प्रहरन् । मृगान्नयतीति मृगयुर्व्याधः । 'मृगयुर्व्याध्रश्च' इत्यौणादिको युप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः' इत्यमरः । तप इच्छतां तपस्विनां कथं कृतोपकारः । न कथंचिदित्यर्थः । अथ कृपा इति चेत् । व्याधस्यापीति शेषः । अस्तु । कि शुककलहेनेति भावः । परन्तु यदुक्तं 'निघ्नतः परनिर्वाहितम्' (१३।४६) इत्यादिना तस्य प्रथमप्रहर्तृत्वं तदयुक्तमित्याह—मृगः क्षणात्सतः । आवाभ्यां युगपदेव विद्ध इत्यर्थः । एवं सति, अनेन नृपेणैव पूर्वं हतो मया तु नेत्यत्र का गतिः किं प्रमाणम् । पौर्वापर्यस्य दुर्लक्ष्यत्वादिति भावः । तथा च यदुक्तम् 'व्रीडितव्यम्' (१३।४६) इति, उपालम्भस्तस्यैव किं न स्यादिति भावः ॥ १५ ॥
**हिन्दी—**अपने लिए ही पशुको मारनेवाले व्याध (बहेलिया) ने तपस्वियोंका कैसे उपकार किया ? व्याधकी कृपा होते हो, मृग क्षणभरमें ही विद्ध हो गया इस स्थितिमें मृगको तुम्हारे राजाने ही मार डाला मैंने नहीं इसमें क्या प्रमाण है ? ॥
पूर्वं 'कृपेति चेदस्तु' (श्लो० १५) इत्युक्तम्, सम्प्रति तदप्यसहमान आह—
अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा ।
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ? ॥ १६ ॥
मल्लि०—अनायुध इति । अनायुधे निरायुधे सत्त्वेन केनचित्प्राणिना जिघांसिते हन्तुमिष्टे । हन्तेः सन्नन्तात्कर्मणि क्तः । मुनौ विषये कृपेति वृत्तिर्व्यवहारो महतां महात्मनाम्, अकृत्रिमाऽकपटा । सह ज्यया सज्यः सायको यस्मिंस्तत्, शरासनं धनुर्बिभ्रति दधति मयि स नृपः कथं कृतानुकम्पो मया प्रतीयते ज्ञायते । इणः कर्मणि लट् । अस्मै कृपा विहिता न तु क्षम इत्यर्थः ॥ १६ ॥
**हिन्दी—**आयुधसे रहित ओर जिसे कोई जन्तु हिंसा करना चाहता है ऐसे तपस्वीमें कृपा ऐसा व्यवहार बड़े लोगोंका स्वाभाविक है । प्रत्यञ्चासे युक्त बाणवाले धनुको धारण करनेवाले मेरे विषयमें तुम्हारे राजाको मैं कैसे दयालु समझूं ? ॥ १६ ॥
अथ कृपामभ्युपगम्याह—
अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ॥ १७ ॥
| ३०८ | किरातार्जुनीयम् |
|---|
मल्लि०—अथो इति। अथो प्रश्ने। ‘मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ’ इत्यमरः। तेन नृपेण मदर्थं यथा तथा। अर्थेन सह नित्यसमासः। शर उज्झितस्तस्यवतः। तस्य उज्झितस्य फलं च प्रतिकायस्य प्रतिपक्षस्य साधनं वधः। ‘साधनं निर्वृतौ नेत्रे सैन्ये सिद्धौ वधे गतौ’ इति विश्वः। अविक्षतेऽखण्डिते तत्र तस्मिन्फले मयात्मसात्कृते स्वाधीनीकृते सति। ‘तदधीनवचने’ इति सातिप्रत्ययः। चमूपतेरधिका कृतार्थता साफल्यं ननु खलु। स्वायुधस्य परत्राणशत्रुवधपात्रप्रतिपादनाद्वयहेलया सिद्धेरित्यर्थः। तथाप्ययं शरलोभ इति कृपालुताया मूलान्यपि निकृन्ततीति भावः ॥ १७ ॥
हिन्दी— तुम्हारे राजाने मेरे लिए बाण छोड़ा और उसका फल शत्रु का वध है तो अखण्डित उस फलको मेरे अधीन करनेपर तुम्हारे सेनापतिकी अधिक सफलता है ॥ १७ ॥
‘मार्गणेरथ तव प्रयोजनम्’ (१३।५९) इत्यादिना यदुक्तं, तन्निराचष्टे—
यदात्थ कामं भजता स याच्यतामिति क्षमं नैतदनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियाः परावनत्या मलिनीकृताः श्रियः ॥ १८ ॥
मल्लि०—यदिति। स नृपः कामं भवता याच्यतामिति यदात्थ। मामिति शेषः। एतदनल्पचेतसां मनस्विनां न क्षमं न युक्तम्। कुतः? प्रसह्य बलात्, आहरणैषिणामाहर्तुमिच्छूनाम्। ‘क्षत्रियस्य विजितम्’ इति स्मरणादिति भावः। परावनत्या याच्ञादैन्येन मलिनीकृताः श्रियः कथं प्रियाः? न कथञ्चिदित्यर्थः ॥ १८ ॥
हिन्दी— आपके उन राजासे मुझे याचना करना हो चाहिए ऐसा आप मुझे जो कहते हैं यह मनस्वियोंको उचित नहीं है, क्योंकि बलसे लेना चाहनेवालोंको अवनत होकर याचनाकी दीनतासे मलिन की गई सम्पत्ति कैसे प्रिय होगी? ॥ १८ ॥
अथ परेङ्गितमुद्घाटय भयं दर्शयति—
अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥ १९ ॥
मल्लि०—अभूतमिति। तव नृपोऽभूतममृतम्, आसज्य। मिथ्याभियुज्येत्यर्थः। ‘युक्ते क्ष्मादावृते भूतम्’ इत्यमरः। अलभ्यं लब्धुमशक्यं विरुद्धं विपरीतफलकम्, ईहितं मनोरथं बलाल्लिप्सते लब्धुमिच्छति। न चैतच्चित्रमित्याह—हि यस्मात् अनयस्य दुर्नयस्य रौद्रतां भयंकरत्वं विजानतोऽपि पुरुषस्य मतिर्बुद्धिः। अपाये
चतुर्दशः सर्गः ३०९
चतुर्दशः सर्गः ३०९
विनाशकाले परिमोहिनी भवति। परिमोहयतीति परिमोहिनी। संश्रावादिमूत्रेण ताच्छील्ये णिनुप्रत्ययः। तथा चोक्तम्—'विनिर्मितः केन न दृष्टपूर्वो हेम्रः कुरङ्गो न च कुत्र वार्ता। तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः।' इति। तस्माद्विनाशकाले विपरीतबुद्धिर्भवतीति भावः ॥ १९ ॥
हिन्दी - तुम्हारे राजा मिथ्या अभियोग कर अलभ्य और विपरीत फलवाले अभिलाषको जबर्दस्तीसे पाना चाहते हैं। दुर्नीतिकी भयंकरता जानते हुए भी पुरुषकी बुद्धि विनाशकालमें मोहयुक्त हो जाती है॥ १९॥
अथ सर्वथा लभ्यते शरस्तर्हि किमनेन ? सुष्ठु विश्रब्धं याच्यतां शिरोऽन्यद्वेत्याह—
असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते ?
अथास्ति शक्तिः, कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ २० ॥
मल्लि० — असिरिति। असिः खड्गः शरा वर्म कवचम्, उच्चकैरूत्कृष्टं धनुश्च धनुर्वा ते तव ईश्वरेण स्वामिना विविच्य एकैकशो विभज्य किं न प्रार्थितं न याचितम्। येन प्रयोजनं तद्दास्यामीति भावः। नपुंसकैकशेषः। अथास्य वोराभिमानिनो नृपस्य शक्तिरस्ति चेदिति शेषः। याच्ञया कृतमेवालमेव। साध्याभावान्न याचितव्यमेवेत्यर्थः। गम्यमानक्रियापेक्षया करणात्वातृतीयेत्युक्तं प्राक्। 'कृतम्' इति निषेधार्थमव्ययम्। यतः शक्तिमतां स्वयंग्रहो बलाद्ग्रहणं न दूषितः। किन्तु भूषणमेव वीराणामिति भावः ॥ २० ॥
हिन्दी — तलवार, बाण, कवच अथवा उत्कृष्ट धनु तुम्हारे प्रभु एक-एक कर क्यों नही मागते हैं ? अथवा उनकी शक्ति है तो याचनाका प्रयोजन नहीं, क्योंकि सामर्थ्यवालोंको जबर्दस्तीसे लेनेमें कोई दोष नहीं है ॥ २० ॥
'राघवप्लवगराजयोरिव' (१३।५७) इत्यादिनोपदिष्टं सख्यं प्रत्याचष्टे—
सखा स युक्तः कथितः कथं त्वया ? यदृच्छयाऽसूयति यस्तपस्यते।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ॥ २१ ॥
मल्लि० — सखेति। स नृपः कथं त्वया युक्तो योग्यः सखा कथितः। न कथंचित्कथनीय इत्यर्थः। कुतः। यो नृपः तपस्यते तपश्चरते। अनपराधिन इत्यर्थः। 'क्रुधद्रुहे-'त्यादिना संप्रदानत्वाच्चतुर्थी। यदृच्छया स्वैरवृत्त्या। 'यदृच्छा स्वैरिता' इत्यमरः। असूयति असूयां करोति। 'असूया तु दोषारोपो गुणेष्वपि' इत्यमरः। प्रत्युत शत्रुरेवायमित्याह — हि यस्मात्, गुणानामर्जने य उच्छ्राय उत्कर्षस्तस्य
३१० किरातार्जुनीयम्
विरुद्धा विमुखा बुद्धिर्येषां ते तथा, असाधवो दुष्टाः सतां सज्जनानां प्रकृत्या स्वभावतः 'द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः' । इत्यमरः ॥ २१ ॥
**हिन्दी—**उन किरातराजको तुमने कैसे मेरे योग्य मित्र कहा ? जो कि तपस्या करनेवाले निरपराध पुरुषसे अपनी ही इच्छासे ईर्ष्या करते हैं। गुणोंके उपार्जनमें उत्कर्षकी विरुद्ध बुद्धिवाले दुर्जन व्यक्ति सज्जनोंके स्वभावसे ही शत्रु होते हैं ॥२१॥
हीनजातिवृत्तित्वात् सख्यानर्हः स इत्याह—
वयं क्व वर्णाश्रमरक्षणोचिताः ? क्व जातिहीना मृगजीवितच्छिदः ? ।
सहापकृष्टैर्महतां न संगतं ? भवन्ति गोमायुसखा न दन्तिनः ॥ २२ ॥
**मल्लि०--**वयमिति । वर्णाश्रमरक्षणोचिता विशुद्धवृत्तयो वयं राजानः क्व ? जातिहीना मृगजीवितच्छिदो हिंसाजीविनो व्याधाः क्व ? फलितमाह—अपकृष्टैस्तै-रीत्या जात्या वृत्त्या चोत्कृष्टानां संगतं सख्यं न । घटत इति शेषः । तथा हि—दन्तिनो गजा गोमायूनां शृगालानां सखायो गोमायुसखा न भवन्ति । स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ।' इत्यमरः । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ २२ ॥
**हिन्दी--**वर्णाश्रमधर्मके रक्षणमें अभ्यस्त हमलोग कहाँ? और जातिहीन तथा पशुओंकी हिंसा करनेवाले व्याध कहाँ ? नीचोंके साथ बड़ोंकी दोस्ती नहीं होती है, क्योंकि हाथी स्यारोंके मित्र नहीं होते हैं ॥ २२ ॥
नीचसख्यं कथमधिक्षिप्यत इति चेत्तत्राह—
परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ २३ ॥
**मल्लि०—**पर इति । अज्ञताजडो मोहान्धः परोऽवजानाति यत्तद् अवज्ञानम्, उन्नतानां महतां धीरतां निर्विकारचित्तत्वं न विहन्ति । न विकारं जनयतीत्यर्थः । क्रोष्ट्रेव सिंहस्येति भावः । किन्तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमा येषां तेषु मध्ये । निर्धारणे सप्तमी । यः कश्चिदित्यर्थः । अतिक्रान्तिमतिक्रमं करोति चेत्, असौ सदृशजनातिक्रमस्तिरस्क्रिया तिरस्कारः । यथा सिंहे सिंहस्येति भावः ॥ २३ ॥
**हिन्दी--**मोहसे जड़ शत्रु जो अवज्ञा करता है वह बड़े लोगोंके धैर्यका नाश नहीं करता है, क्योंकि समान पराक्रम, वंश और पुरुषार्थसे युक्त जनोंमें जो तिरस्कार करता है वही तिरस्कार है ॥ २३ ॥
चतुर्दशः सर्गः ३१९
चतुर्दशः सर्गः ३१९
तर्हि नीचे कीदृशी वृत्तिरित्याशङ्क्य सोपपत्तिकमाह—
यदा विगृह्णाति हतं तदा यशः, करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ २४ ॥
मल्लि०— यदेति । यदा विगृह्णाति विरुणद्धि । पृथग्जनेनेति शेषः । तदा यशो हतं नाशितं भवेत् । अथ मैत्रीं करोति तदा गुणा दूषिताः । भवेयुरिति शेषः । इति उभयथा स्थितिं समीक्ष्य प्रतर्व्य विमृश्य, परीक्षको विवेचकः पृथग्जनं नोच-जनम्, अवज्ञयाऽनादरेण उपहतं तिरस्कृतं करोति । उपेक्षत इत्यर्थः ॥ २४ ॥
हिन्दी— कुलीन पुरुष जब नीच पुरुषसे विरोध करता है तो उसका यश नष्ट होता है, मित्रता करता है तो उसके गुण दूषित हो जाते हैं, दोनों ही प्रकारोंसे ऐसी स्थितिको देखकर परीक्षक (कुलीन पुरुष) नीचजनको अवज्ञासे तिरस्कृत करता है (उपेक्षा कर देता है) ॥ २४ ॥
उपसंहरन्नाह—
मया मृगान्धन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम् ।
शरार्थमेष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥ २५ ॥
मल्लि०— मयेति । अनेन हेतुना संधिविग्रहानर्हत्वेन कारणेन मया मृगान्धन्तु-र्व्याधस्य संबन्धि । हन्तेस्तृन्प्रत्ययः । अत एव 'न लोके—'त्यादिना षष्ठीप्रति-षेधः । विरुद्धमतिपरुषम, आक्षेपवचस्तिरस्कारवचनं तितिक्षितं सोढम् । ननु रुष्टयानङ्गीकारे बलाच्छरं ग्रहीष्यतीत्याशङ्क्याह—शरेति । अथ शरार्थमेष्यति दृष्टौ विषं यस्य तस्मात् दृष्टिविषात् सर्पविशेषात् शिरोमणिं जिघृक्षतो ग्रहीतुमिच्छतो गतिं दशां लप्स्यते प्राप्स्यति ॥ २५ ॥
हिन्दी— इस कारणसे मैंने व्याधसे कहे गये आक्षेपके वचनका सहन कर लिया है, अब वह बाणके लिए आयेगा तो सर्पके शिरोरत्न लेना चाहनेवालेकी दशाको प्राप्त कर लेगा ॥ २५ ॥
इतीरिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीमुपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ २६ ॥
मल्लि०— इतीति । इतीत्थम्, ईरिताकूतमुक्तऽभिप्रायम्, अनीलवाजिनं श्वेता-श्वमर्जुनं दूतो जयाय तेजसा प्रतापेन प्रतितर्ज्य । अस्मानजित्वा क्व गमिष्यसीति भीषयित्वेत्यर्थः । ध्वजिनीमुपेयुषः सेनासंनिकटस्य प्रसन्नरूपस्य । अर्जुनं प्रतीति शेषः । विरूपचक्षुषस्त्र्यम्बकस्य समीपं ययौ ॥ २६ ॥
३१२ किरातार्जुनीयम्
हिन्दी--इस प्रकार अपना आशय बतलानेवाले अर्जुनको किरातराजका दूत तेजसे तर्जन करके किरातसेनामें संगत प्रसन्नरूपवाले शिवजीके समीप गया ॥२६॥
ततोऽपवादेन पताकिनोपतेश्चचाल निर्ह्रादवती महाचमूः।
युगान्तवाताभिहतेव कुर्वती निनादमम्भोनिधिवीचिसंहतिः॥ २७ ॥
मल्लि०--तत इति। ततः पताकिनीपतेः सेनापतेः अपवादेनादेशेन। 'अपवादोऽप्यपवादेशः' इति सज्जनः। निर्ह्रादवती शब्दवती महाचमूः सेना युगान्तवातैरभिहता आन्दोलिता अत एव निनादं कुर्वती, अम्भोनिधिवीचिसंहतिरूर्भिवीचि-समूह इव चचाल ॥ २७ ॥
हिन्दी-तदनन्तर सेनापतिकी आज्ञासे शोरगुल करती हुई बड़ी सेना प्रलय-कालके वायुसे आन्दोलित अत एव आवाज करतो हुई समुद्रकी तरङ्ग-परम्पराको तरह चलने लगी ॥ २७ ॥
रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितकेतुसंततिः।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ २८ ॥
मल्लि०--रणायेति । जैत्रेव जैत्रो जयनशीलः । अनुकूल इत्यर्थः । जयतेः स्तुञ्चन्तात्प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । तरङ्गितं संजाततरङ्गं यथा तथा, आलम्बिता अवस्थिताः केतुसंततयो येन सः । सह घनैः सान्द्रैरम्बुशीकरैः सघनाम्बुशीकरः सुरभिः सुगन्धः समीरणो वायू रणाय त्वरां प्रदिशन्निव त्वरयन्निव बलानां सैन्यानां पुरोऽग्रे शनैः प्रतस्थे प्रस्थितः । ववावित्यर्थः ॥ २८ ॥
हिन्दी-जयशील (अनुकूल) तरङ्गितकी तरह पताका समूहको अवस्थित करनेवाली, गाढ़ जलकणोंसे सुगन्धित हवा युद्धके लिए शीघ्रताके लिए मानों आदेश करती हुई सेनाके सामने बहने लगी ॥ २८ ॥
जयारवैः क्ष्वेडितनादमूर्च्छितः शरासनज्यातलवारणध्वनिः ।
असंभवन्भूधरराजकुक्षिषु प्रकम्पयन्गामवतस्तरे दिशः ॥ २९ ॥
मल्लि० - जयेति । जयारवैर्वन्दिनां जयजयेतिशब्दैः क्ष्वेडितनादैः सिंहनादैश्च मूर्च्छितो वर्धितः शरासनज्यानां धनुर्गुणानां तलवारणानां ज्याघातवारणानां च ध्वनिभूधरराजकुक्षिषु गिरिगुहासु असंभवन् अमान् । अवकाशमलभमान इत्यर्थः। अत एव गां भुवं प्रकम्पयन् । एतेन बलानां बाहुल्यमुक्तम् । दिशोऽवतस्तरे व्यानशे । 'ऋतश्च संयोगादेर्गुणः' । अत्र 'मूर्च्छा' पदार्थस्य विशेषणगत्याऽसंभवनहेतु-
चतुर्दशः सर्गः | ३१३
| चतुर्दशः सर्गः | ३१३ |
|---|
स्वारुकाण्डलिङ्गनं, हारं तु गिरिकुक्षिहासिनेजरा घनेरावेशप्रायिकरोक्तेरधिकारं-कारश्च । तेभ्यश्चेयमसंभवन्निति व्यञ्जकं विनोत्थापमानोपात्तमूर्च्छागुणनिमित्ता प्रतीयमाना क्रियोत्प्रेक्षा । तैरङ्गाङ्गिभावेन संकीर्यत इति संकरः ॥ २९ ॥
हिन्दी—'जयजय' शब्दोंसे और सिंहनादोंसे बढ़ी हुई, धनुषोंकी प्रत्यञ्चाओं-को तथा ढालकी आवाज पर्वतकी कन्दराओंमें न समाती हुई अत एव जमीनको कम्पित करती हुई दिशाओंमें गूंजने लगी ॥ २९ ॥
निशातरोद्रेषु विकासतां गतैः प्रशोषयद्भिः ककुभामिवान्तरम् ।
वनेसदां हेतिषु भिन्नविग्रहैर्विपुस्फुरे रश्मिमतो मरीचिभिः ॥ ३० ॥
मल्लि०—निशातेति । निशातास्तीक्ष्णा अत एव रौद्रा भीषणाश्च ये तेषु । निशातरोद्रेषु । विशेष्यविशेषणयोरन्यतरविशेष्यत्वविवक्षाया इष्टत्वाद्विशेषणसमासः । वने सीदन्तीति वनेसदाम् वनेचराणाम् । 'सत्सूद्विषे—'त्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । हेतिषु आयुधेषु । 'हेतिः शस्त्रेऽपि पुंस्त्रियोः' इति केशवः । भिन्नविग्रहैः संक्रान्तमूर्तिभिरत एव विकासतां विस्तरतां गतैरत एव ककुभां दिशाम्, अन्तरमवकाशं प्रशोषयद्भिरुत्प्रज्वलद्भिरिव स्थितैरित्युत्प्रेक्षा । रश्मिमतः सूर्यस्य । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य न वकारः । मरीचिभिः करैः 'भानुः करो मरीचिः स्त्रीपुंसयोः' इत्यमरः । विपुस्फुरे बभासे । स्फुरतेर्भावे लिट् ॥ ३० ॥
हिन्दी—तीक्ष्ण और भयंकर वनेचरोंके हथियारोंमें मूर्ति संक्रान्त करनेवाली, अतएव विकासको प्राप्त दिशाओंके अवकाशोंको प्रशोषकर रही-सी होकर अवस्थित सूर्यकी किरण प्रदीप्त होने लगी ॥ ३० ॥
उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयमायतं बभौ विभुर्गुणानामुपरीव मध्यगः ॥ ३१ ॥
मल्लि०—उदूढेति । उदूढेनोन्नतेन वक्षसा स्थगितमाच्छादितमेकमेकतरं दिङ्मुखं येन सः, विकृष्टमाकृष्टमत एव विस्फारितं निर्घोषितं चापमण्डलं येन स विभुः शिवः । आयतं विस्तृतं पक्षद्वयं पार्श्वद्वयं वितत्य स्वमहिम्ना व्याप्य । 'पक्षः साध्यग्रहत्वपार्श्वसहायबलभित्तिषु' इति वैजयन्ती । गणानां मध्यगो मध्यस्थोऽपि उपरि स्थित इव बभौ । सर्वोन्नतत्वात्तथा लक्षित इत्यर्थः ॥ ३१ ॥
हिन्दी—उन्नत वक्षःस्थलसे दिशाके एक भागको आच्छादित करनेवाले, खींच
| ३१४ | किरातार्जुनीयम् |
|---|
कर धनुर्मण्डलको शब्दायमान करनेवाले शिवजी विस्तृत दो पाश्वोंको अपनी महिमासे व्याप्त कर गणोंके मध्यमें अवस्थित होकर भी ऊपर रहे हुएके समान शोभित हुए ॥ ३१ ॥
सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धमावभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ ३२ ॥
मल्लि०— सुगेष्विति । सुखेन दुःखेन च गच्छन्त्येष्विति सुगेषु सुगमेषु दुर्गेषु दुर्गमेषु च । समविषमदेशेष्वित्यर्थः । सुदुरोरधिकरणार्थे डो वक्तव्यः । अत एव टिलोपः । तुल्यविक्रमैर्लाघवात्समसंचारैः जवाद् वेगात् । अहंपूर्विकयाऽहमहमिकया । ‘अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम्’ । इत्यमरः । यियासुभिर्यातुमिच्छुभिः । यातेः सन्नन्तादुप्रत्ययः । गणैः प्रमथैः । मनोज्ञादित्वाद् वुञ्प्रत्ययः । पृषोदरादित्वाद् वृद्धयभावः । ‘गणाः प्रमथसङ्घोघाः’ इति वैजयन्ती । अविच्छेदेन निरुद्धमत एव, आकुलाकुलमाकुलप्रकारम् । ‘प्रकारे गुणवचनस्य’ इति द्विर्भावः । वनं निरुच्छ्वासं निरुद्धप्राणमिव । आवभौ इत्युत्प्रेक्षा ॥ ३२ ॥
हिन्दी— सुगम और दुर्गम सभी स्थानोंमें तुल्य पराक्रमवाले, वेगसे ‘मैं पहले जाऊँगा,’ ‘मैं पहले जाऊँगा’ इस प्रकार जानेकी इच्छा करनेवाले गणोंसे विच्छेदके बिना निरुद्ध अतएव वन अत्यन्त आकुल होकर दम घुटा सा हो गया ॥ ३२ ॥
तिरोहितश्वभ्रनिकुञ्जरोधसः समश्नुवानाः सहसाऽतिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ ३३ ॥
मल्लि०— तिरोहितेति । किरातसैन्यैस्तिरोहितानि छन्नानि श्वभ्रनिकुञ्ज-रोधांसि गर्तकुञ्जतटानि यासां ताः । अत एव भुवः । प्रदेशाः सहसाऽतिरिक्ततामु-त्तानातां समश्नुवाना आप्नुवन्त्यः । तथा, अपिधायाच्छाद्य रेचिता रिक्तीकृता मुक्ताः क्षणं निम्नतया गाम्भीर्येण भेजिरे इव प्राप्ता इवेत्युत्प्रेक्षा । सैन्यैर्या भुवो व्याप्तास्ता उत्तानाः प्रतीयन्ते । तैर्मुक्तास्ता एव निम्नाः प्रतीयन्त इत्यर्थः ॥ ३३ ॥
हिन्दी— किरातसेनाओंसे गड्ढे, लतागृह और तटभाग आच्छादित हो जानेसे जमीनके भाग भाग (हिस्से) सहसा उन्नत भावको प्राप्त हो गये । उस तरहके आच्छादन कर छोड़े जानेपर क्षणभरमें फिर गाम्भीर्य प्राप्त हुए-से प्रतीत हुए ॥ ३३ ॥
चतुर्दशः सर्गः ३१९
पृथूरुपर्यस्तवृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥ ३४ ॥
**मल्लि०—**पृथ्विति। पृथुभिर्विशालै रुरुभिः सक्थिभिः पर्यस्ताः क्षिप्ता बृहल्यो लताततयो यया सा जवानिलेन वेगमारुतेनाऽऽघूर्णिता भ्रमिताः शालाः सर्जतरवश्चन्दनानि च यया सा । 'प्राकारवृक्षयोः सालः शालः सर्जतरुः स्मृतः' इति शाश्वतः । परितः सर्वत्र प्रसारिणी प्रसरणशीला गणाधिपानां संहतिः समूहो वनान्यवाञ्चि न्युब्जानीव नीचानीवेत्यर्थः । चकारेत्युत्प्रेक्षा । अवाञ्चत्यधोमुखोभवति । अवपूर्वादञ्चतेः क्विप् । 'स्यादवाङप्यधोमुखः' इत्यमरः ॥ ३४ ॥
**हिन्दी—**विशाल ऊरुओंसे बड़ी-बड़ी लतापंक्तिको फेंकती हुई वेगपूर्ण वायुसे सिर्जवृक्ष और श्रीखण्ड वृक्षोंको घुमाती हुई चारों ओर फैलनेके स्वभावसे युक्त करातस्वामियोंकी सेनाने मानों वनोंको अधोमुख कर डाला ॥ ३४ ॥
अथाष्टभिः श्लोकैरर्जुनं विशेषयन् गणानां तदभियोगमाह—
ततः सदपं प्रतनुं तपस्यया मदस्रुतिश्राममिवैकवारणम् ।
परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् ॥ ३५ ॥
**मल्लि०—**तत इत्यादि । ततः सदपं सगवं सान्तःसारं तपस्यया तपश्चर्यया । तपस्यतेः क्यङन्तात्स्त्रियामप्रत्यये टाप् । प्रतनुं कृशमत एव मदस्रुत्या मदक्षरणेन क्षामं कृशम् । 'क्षायो मः' इति निष्ठातकारस्य मकारः । एकवारणमेकाकिनं गजमिव स्थितमित्युपमा । पुनः । भूभृतां राज्ञां निधनाय नाशाय परिज्वलन्तं तेजस्विनमत एव, आशा दिशो दहन्तं जातवेदसमग्निमिव स्थितमित्युपमालंकारः । 'कृपीटयोनिज्वलनो जातवेदास्तनूनपात्' । इत्यमरः ॥ ३५ ॥
**हिन्दी—**तब अन्तःसारसे युक्त तपस्या करनेसे दुबले-पतले अतएव मदके गिरनेसे अकेले हाथीके समान स्थित राजाओंके नाशके लिए तेजस्वी अतः दिशाओंको जलाते हुए अग्निके समान स्थित अर्जुनको ॥ ३५ ॥
अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् ।
शनैरपूर्णंप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ ३६ ॥
**मल्लि०—**अनादरेति । पुनश्च, अनादरेणावगणनया उपात्तो निष्षङ्गादुद्धृतो धृतश्चैकः सायको येन तं, तथाऽनुकूले सुहृदीव जये सस्पृहम् । जयमिच्छन्तमित्यर्थः । पुनश्च, अपूर्णो न्यूनः प्रतिकारो बाणाहरणप्रत्यर्पणरूपो यस्य सः । अत एव पेलवो
३१६ किरातार्जुनीयम्
लघुस्तस्मिन् अपूर्णप्रतिकारपेलवो बलोदधौ सेनासमुद्रे शनैरसंभ्रमेण नयने दृष्टे निवेशयन्तमिति वीरस्वभावोक्तिः। वलमुदधिरिवेत्युपमितसमासः। 'पेषंवास्वाहरुधिषु च' इत्युदकस्योदादेशः॥ ३६॥
हिन्दी—अनादरसे तरकशसे एकमात्र बाणको लिये हुए अनुकूल मित्रके समान विजयको चाहनेवाले न्यून प्रतिकारवाले अतः लघु सेनासमुद्रमें दृष्टिपात करते हुए अर्जुनको ॥ ३६ ॥
निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि।
अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कंपमिवापगापतिम्॥ ३७॥
मल्लि०—निषण्णमिति। पुनश्च, आपदां प्रतिकारस्य कारणे साधनेऽनपायिनि स्थिरे एवंभूते शरासने धैर्य इव निषण्णं स्थितं प्रकृतौ स्वभावे स्थितमपि। निर्विकारमपीत्यर्थः। अत एव, अलङ्घनीयमनतिक्रमणीयमत एव निवातनिष्कंपं वाताभावान्निश्छलम्। 'निवातावाश्रयावातो' इत्यमरः। आपगापतिं समुद्रमिव स्थितम्॥ ३७॥
हिन्दी—फिर आपत्तियोंके प्रतिकारके कारणमें स्थिर धैर्यके समान धनुषमें स्थित, प्रकृतिमें स्थित (निर्विकार) अत एव अलङ्घनीय अतः हवा न लगनेसे कम्परहित समुद्रके समान स्थित अर्जुनको ॥ ३७ ॥
उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः।
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे॥ ३८॥
मल्लि०--उपेयुषीमिति। पुनश्च, अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य। व्रीह्यादित्वादिनिप्रत्ययः। वधाद्धेतोः उपेयुषीं प्राप्ताम्, अन्तकस्येव यमस्येव द्युतिस्तां बिभ्रतं धारयन्तम्। तथा च द्विजैर्ब्राह्मणैः। अध्वरे यज्ञे। 'यज्ञः सवोऽध्वरो यागः' इत्यमरः। हूतमाहूतं पुरोऽग्रे समावेशितः स्थापितः सत्पशुर्यज्ञीयपशुर्यस्य तम्। पशूनां पतिं रुद्रमिव स्थितम्॥ ३८॥
हिन्दी—फिर समीपमें गिरे हुए वराहके वधसे प्राप्त यमराजके समान तेजको धारण करते हुए तथा ब्राह्मणोंसे यज्ञमें बुलाये गये सामने यज्ञियपशुको रखनेवाले रुद्रके समान स्थित अर्जुनको ॥ ३८ ॥
निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा।
वनोदयेनेव घनोरुवीरुधा सनन्धकारोत्कृतमुत्तमाचलम् ॥ ३९।