भारतकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

१८२ मालतीमाधवे (मकरन्दो मुखमुद्भाव्य तां हस्ते गृह्णाति ।) मदयन्तिका—सहि मालदि, पडिबुद्धासि । (विलोक्य सहर्षं ससाध्वसं च ।) अह्महे, एदं अण्णं एव्व वट्टइ । मकरन्दः— रम्भोरु संहर भयं क्षमते विकार- मुत्कम्पिनः स्तनतटस्य न मध्यभागः । इत्थं त्वयैव कथितप्रणयप्रसादः संकल्पनिर्वृतिषु संस्तुत एष दासः ॥ २ ॥ बुद्धरक्षिता—(मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य ।) प्रेयान्मनोरथसहस्रवृतः स एष सुप्तप्रमत्तजनमेतदमात्यवेश्म । प्रौढं तमः कुरु कृतज्ञतयैव भद्र- मुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥ ३ ॥ १. सखि मालति, प्रतिबुद्धासि । अहो, इदमन्यदेव वर्तते । [

सप्तमोऽङ्कः । १८३ मदयन्तिका—सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अह्मेहिं गन्दव्वं । बुद्धरक्षिता—जेहिं एव्व मालदी गदा । मदयन्तिका—किं³ णिव्वुत्तसाहसा मालदी । बुद्धरक्षिता—अह इं । अण्णं अ तुमं भणासि । (‘का हं इमस्स’ इत्यादि पठति ।) (मदयन्तिकाश्रूणि पातयति ।) बुद्धरक्षिता—महाभाअ, दिण्णो खु सअं अप्पा पिअसहीए । मकरन्दः— अद्योर्जितं विजितमेव मया किमन्य- दद्योत्सवः फलवतो मम यौवनस्य । यन्मे प्रसादसुमुखेन समुद्यतेयं देवेन बान्धवधुरा मकरध्वजेन ॥ ४ ॥

१. सखि, बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् । २. यत्रैव मालती गता । ३. किं निर्वृत्तसाहसा मालती । ४. अथ किम् । अन्यच्च त्वं भणसि । ५. महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या ।

स्यादेवं यामः । एहि । नूपुरध्वनिरन्यैर्यथा न श्रूयते, तथोर्ध्वमुत्क्षिप्य कैश्चित्पद्बल- क्षिता यत्र मालतीमाधवौ तत्रैव यामस्त्वरितं मा लज्जस्वेत्यर्थः ॥ ३ ॥ मदय- न्तिका । सखि बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ॥ बुद्धरक्षिता । यत्रैव मालती गता ॥ मदयन्तिका । किं निर्वृत्तसाहसा मालती । साहसं स्व- यमेवात्मप्रदानम् ॥ बुद्धरक्षिता । अथ किम् । निर्वृत्तसाहसैवेत्यर्थः । अन्यच्च त्वं भणसि । ‘काहमितस्य’ इत्यादि पठति । त्वया यदुक्तं तदनुरूपं विधेहीत्यर्थः ॥ मदयन्तिका गुरुजनविधीयमानसप्रदान इव स्वयमश्रूणि पातयति ॥ बुद्धरक्षिता आनन्दाश्रुविमोचनेनैव तस्याः स्वात्मप्रदानमधिगम्याह—महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या । आनन्दाश्रुपूर्वकमिति भावः ॥ मकरन्दः—अद्येति । अद्य प्रियतमालाभान्मयोर्जितं बलं यथा स्यादेवं विजितमेव सर्वोत्तरत्वं संपादित- मेव । किमन्यदितः परमाश्रास्यमवशिष्टम् । न किंचिदित्यर्थः । तथा फलवतो द- यिताप्राप्त्यैव सफलस्य मे नवयौवनस्याद्योत्सवो मङ्गलदिनम् । यन्मे प्रसादमुखेन मकरध्वजेन माधवाभिलषितं संपाद्य मदभिलषितमपि संपादयता बान्धवधुरा १७ माल०

१८४ मालतीमाधवे तदनेन पक्षद्वारेण साधयामः । (निभृतं परिक्रामन्ति ।) मकरन्दः—अहो निशीथनिःसंचाररमणीयता राजमार्गस्य । संप्रति हि । प्रासादानामुपरि वलभीतुङ्गवातायनेषु प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः । माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥ ५ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः । बन्धुकृत्यमुद्यतोचितपदं प्रापिता ॥ ४ ॥ पक्षद्वारेण पार्श्वद्वारेण । साधयामो ग- च्छामः॥ समीहितं निशीथे निःसंचारेण राजमार्गस्य रमणीयतास्मत्प्रयाणानुगुण्यं वर्तते ॥ प्रासादानामिति । सौधानामुपरिभागेषु वलभीजालगवाक्षमार्गेषु प्रविश्य प्राप्तामोदः । 'भ्रान्त्यावृत्तः' इति पाठे गवाक्षमार्गेण हर्म्यतलेषु परिभ्रम्य पुनरावृत्तः । अत एव परिणतमद्यगन्धजनितवासनानुविद्धः । माल्यामोदी पुनः पुनरनुषक्तस्फुरद्धनसारगन्धी वातो यूनामभिलषितं युवतीसंनिधानं व्यनक्तीति मद्यपानमाल्यादिभिः सुरतादिभोगो व्यज्यते ॥ ५ ॥ मद्व्याख्यामन्थमथिताद्भवभूतिवचोम्बुधेः । रसामृतमभिव्यक्तं स्वादयन्तु सुधाधियः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां सप्तमाङ्कविवरणम् ॥

अष्टमोऽङ्कः । (ततः प्रविशत्यवलोकिता ।) अवलोकिता—वन्दिदा मए णन्दणावसथपडिणिउत्ता भ- अवदी । ता जाव मालदीमाहवसआसं गच्छामि । (परिक्रम्य ।) एदे दे परिणिउत्तिदगिम्हदिअहावसाणमज्जणा दीहिआतीरसिलातलं अ- लंकरेदि । ता उपसप्पमि । (इति निष्क्रान्ता ।) प्रवेशकः । (ततः प्रविशतो मालतीमाधवौ उपविष्टावलोकिता च ।) माधवः—(सानन्दम् ।) वर्धते हि मन्मथप्रौढसुहृदो निशीथस्य यौवनश्रीः । तथा हि । दलयति परिशुष्यत्प्रौढतालीविपाण्डु- स्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः । वियति पवनवेगादुन्मुखः केतकीनां प्रचलित इव सान्द्रः स्फारस्फारं परागः ॥ १ ॥ १. वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भगवती । तद्यावन्मालती- माधवसकाशं गच्छामि । एतौ तौ परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ दीर्घिकातीरशिलातलमलंकुरुतः । तदुपसर्पामि । विबुधरत्नावली । अथ मालतीमाधवयोः कामन्दक्यावसथस्थितयोः कृत्यवेशसंपादनानुगुणव्यापारा- र्थमवलोकिताप्रवेशः । अवलोकिता । वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भग- वती।तद्यावन्मालतीमाधवयोःसकाशं गच्छामि।परिक्रम्यापश्यतीति शेषः। एतौ तौ परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ दीर्घिकातीरबिलातलमलंकुरुतः । तदुपसर्पा- मि॥ माधवः। निशीथस्य वक्ष्यमाणचन्द्रोदयत्वेन मन्मथप्रौढसुहृदः। मन्मथसुहृत्ता च मन्मथसाध्यानुकूलकरणात् । तत्र समये । ‘सानन्दसाध्वसाः सुरतव्यवसायिन्यो भवन्ति’ इति वात्स्यायनः । तथा हीति कृत्वा तस्या एव निशीथयौवनश्रिय उत्क- र्षनिमित्तं व्यनक्ति—दलयतीति । उद्यन्नैन्दवः प्रकाशस्तद्वच्छुष्यत्ताली

१८६ मालतीमाधवे (स्वगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् । (प्रकाशम् ।) प्रिये मालति,प्रत्यग्रस्नपनावशेषशीतलां भवतीं निदा- घसंतापशान्तये किंचिद्विज्ञापयामि। तत्किमित्यन्यथैव मां संभावयसि । निष्योतन्ते सुतनु कबरीबिन्दवो यावदेते यावन्मध्यः स्तनमुकुलयोराद्रंभावं जहाति । यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि- स्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ २ ॥ अयि मालति निरनुक्रोशे, रित्रत्वेन च तदभिप्रायस्यानुकूलं गम्यमित्याचरन्तीं वामशीलामिव वामशीलामुपाव- र्तये स्वाभिमतसिद्धिप्रगुणचित्तां करोमि । भवत्वित्युपायस्मरणे । एवं तावत्कामसू- त्रोक्तेन कन्याविस्रम्भणोपायैनोपावर्तनार्थं यतिष्य इत्यभिप्रायेण मतिं व्यवस्थाप्य प्रकाशमाह—प्रिय इति । अत्र निदाघसंतापशान्तय इत्युक्त्या संतापप्रतीकारधिया न रागितयैव त्वदङ्गसङ्गप्रार्थनार्थं विज्ञापयामीति प्रेमगर्भं विनयप्रदर्शनम् । निष्यो- तन्त इति । सुतन्विति संबोधनेनालिङ्गनात्यन्तोपयुक्तस्य नायिकाशरीरस्याभिराम- णीयकप्रदर्शनं किमितीदृश्यां दशायां दर्शनार्हं मां न संभावयसि । मया त्वं य- स्मिन्नवसरे श्मशानभुवि संभावितासि तत्सदृश एवायं समय इत्याशयः । निष्यो- तन्त इत्यात्मनेपदं चिन्त्यम् । अथ स्नानविमुक्तबन्धकबरीसङ्गिनो जलबिन्दवो यावदेव पतन्ति, यावद्वा स्तनद्वन्द्वान्तर्भागः स्नानजलाद्रों वर्तते, यावच्च स्नानशैत्या- त्सान्द्रपुलकत्वं गता तावदेवाश्लेषं देहि, प्रसन्ना भव । एतेन मालत्येवं जानातु य- त्किल मदङ्गवर्ती मज्जनजनितशैत्यमेवास्य स्पर्शसंतापशान्तये सत्यमभीष्टम्, न पुनः कामन्दकीलवङ्गिकाद्यभिप्रयानपेक्षमेव परिणयविधानमनादृत्य किंचिच्चिकीर्षुरिति विमृश्य मालती मह्यं कापालिकवधोपकारबुद्ध्या वितरत्विति माधवस्याशयः । वस्तु- तस्तु जलमज्जनजन्यां तात्कालिकीं कान्तिं शोभामिति स तत्र कान्तिगतालंका- रत्वेन भरतमुनिसंमतामवलोक्यातिरागादेवाश्लेषप्रार्थनायां प्रवृत्तः । 'रूपयौवनला- वण्यादुपभोगोपबृंहितैः । अलंकरणमङ्गानां शोभेति परिकीर्तिता । कान्तिरित्यु- च्यते सापि शोभैवापूर्णमन्मथा ॥' तथा । 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणि- नैकेन कृत्वा धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्काल- कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरतिविचलद्बाहु लक्ष्म्याः पुनातु ॥' इति ॥२॥ अथ कामसूत्रविन्माधवस्तदूह्यस्यापि 'अनुत्तरां चोप- लक्ष्यात्'(?) इत्यादिकां द्वितीयभूमिकामधिरोपयन्नाह—अयीति । निरनुक्रोशे इति रोषोद्भावनेन मालत्या विभीषिका दर्शिता । यथाह वात्स्यायनः—'एवं चित्तानुगो बालामुपायेन प्रसादयेत् । तथा चेत्सानुरागा च विस्रब्धा चापि जायते ॥ नात्यन्त- मानुलोम्येन न चातिप्रातिकूल्यतः । सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साध-

अष्टमोऽङ्कः । १८७ जीवयन्निव समूढसाध्वस- स्वेदबिन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बित- स्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३ ॥ अथवा दूरे तावदेतत् । कथमालापसंविभोगस्याप्यभाजनमयं जनो भवत्याः । दग्धं चिराय मलयनिलचन्द्रपादै- र्निर्वापितं तु परिरभ्य वपुर्न नाम । आमत्तकोकिलरुतव्यथिता तु हृद्या- मद्य श्रुतिः पिबतु किंनरकण्ठि वाच्यम् ॥ ४ ॥ अवलोकिता—अई अणिबहणसीले, जं दाणिं मुहुत्तमेत्तन्तरि- अमाहवा दुम्मणाअन्ती मह पुरदो भणासि । चिराअदि अज्जउत्तो । अवि णाम किअच्छिरेण पेक्खिस्सं, जेण पुणो विवड्ढिआसेससज्जसा १. अयि अनिर्वहणशीले

१८८ मालतीमाधवे विसुमरिअनिमेसविग्घं ओलोअन्ती एवं भणिस्सं । दुउणिआवे- ट्ठणपरिरब्भणेण संभाविस्सं ति । स एष अअं परिणामो । (मालती सासूयमिव तां पश्यति ।) माधवः—(अपवार्य ।) अहो भगवत्याः प्रथमान्तेवासिन्याः सर्व- तोमुखं वैदग्ध्यमक्षय्यसुभाषितरत्नसंचारसंस्करणम् । (प्रकाशम् ।) प्रिये, सत्यमवलोकिता वदति । (मालती मूर्धानं चालयति ।) माधवः—शापितासि मम लवङ्गिकावलोकितयोश्च जीवितेन यदि मे न कथयसि । ष्ये, येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नमवलोकयन्त्येवं भणि- ष्यामि । द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । स एवायं परिणामः । मुहूर्त्तमात्रान्तरितश्चासौ माधवश्चेति विग्रहः। दुर्मनायमाना मम पुरतो भणसि॥चि- रायत आर्यपुत्रः। अपि नाम कियता चिरेण प्रेक्षिष्ये।येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नं यथा स्यादेवं नयननिमीलनमेव विघ्नमवलोकयन्त्येवं भणिष्यामि द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । मदग्रतः प्रागेवमङ्गीकृतस्स स एवाय- माश्लेषावसरस्य परिणामोऽयमधुना संलापितेऽपि वैदग्ध्यमित्याशयः ॥ मालती सासूयमिव पश्यतीत्याशयः। न तु सासूयमेव। असूया च कोपो विज्ञेयः। कोपाविष्क- रणं मद्रहस्यमीदृशमनया व्यक्तीकृतमिति हेतोः । वस्तुतस्तु पूर्वानुरागदर्शितमनो- रथोऽनयावसरे प्रकटीकृत इति सानन्दमेव पश्यतीत्याशयः॥माधवः। प्रथमान्ते- वासिन्या इत्युक्त्या कामन्दक्या तादृग्दूत्याचार्यकमपि किमस्यै सम्यगुपदिष्टं यतः प्रस्तावे मद्धियेयानुगुणमस्या रहस्योद्भेदनमिति कृतवतीत्याशयः । अक्षय्योऽशोष्यो नवनवस्फूर्तिशोभनभाषितान्येव रत्नानि तेषां संचारोऽन्यत्र मुख्यवृत्तेरन्यत्रापि कार्याानुकूलत्वेन निवेशनम् । संस्करणमग्राम्यतापादनम् । प्रकाशम् । पृच्छतीति शेषः । यदवलोकितयोक्तं तत्सत्यमुतोत्पाद्यं कथयतीति प्रश्नस्यायमभिप्रायः । यदि तावत्पृष्टा नोत्तरं दास्यति तदानुमतिरस्या इत्याकूतोपलब्धिर्भविष्यति । उत्तरप्रदाने चास्या वचनश्रवणलाभो भवितेति वात्स्यायनोक्तेरालापयोजनेऽन्तर्भावः प्रश्नस्ये- त्याशयः । तदाह—'सखीं चानुकूलामुभयोरपि विश्रब्धामन्तरा कृत्वा कथायोज- नम् । तस्मिन्नधोमुखी विहसेत् । तां चातिवादिनीमविक्षिपेद्विदग्धा।परिहासार्थमि- दमनयोक्तमिति चानुक्तमपि ब्रूयात् । तत्र तामपनुद्य प्रतिवचनार्थमसंपूर्णावाक्यार्थं तूष्णीमासीत । निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थवचनं ब्रू- यात् । नायकं च विहसन्ती कटाक्षैः प्रेक्षेत'इत्यादयोऽपीत्यत्रानवसितार्थमसंपूर्णावा- क्यार्थम् । मालती न मयैवमुक्तमिति प्रतिपादनार्थं प्रातिकूल्येन शिरश्चालयति।'नि- र्बध्यमाना तु शिरःकम्पेन प्रतिवचनं ददाति'इति वात्स्यायनः॥ माधवः। लवङ्गि-

अष्टमोऽङ्कः । १८९ मालती—णाहं किं वि जाणामि । (इत्यर्धोक्ते लज्जां नाटयति ।) माधवः—अहो अनवसितार्थरम्यवचसश्चारुता । (सहसा निरूप्य ।) अवलोकिते, किमेतत् । बाष्पाम्भसा मृगदृशो विमलः कपोलः प्रक्षाल्यते सपदि राजत एष यस्मिन् । गण्डूषपेयमिव कान्त्यमृतं पिपासु- रिन्दुर्निवेशितमयूखमृणालदण्डः ॥ ५ ॥ अवलोकिता—सहि, किं दाणिं उच्छलिअबाहप्पीडं रोदिअदि । मालती—सहि, केचिरं लवङ्गिआए असन्णिहाणदुक्खं अनु- हविस्सं । पउत्तिलाहो वि से दुल्हहो । माधवः—अवलोकिते, किं नामैतत् । १. नाहं किमपि जानामि । २. सखि, किमिदानीमुच्छलितबाष्पोत्पीडं रुद्यते । ३. सखि, कियच्चिरं लवङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृ- त्तिलाभोपि तस्या दुर्लभः । कावलोकितयोर्जीवितेन शापितासीत्युक्त्या लवङ्गिकावलोकिते तवात्यन्तहितप्रवृत्ते अनतिक्रमणीयवचने चेत्याशयः ॥ मालती । नाहं किमपि जानामीत्युक्त्या चा- त्मनः कुमारीभावप्रतिपादनार्थं लज्जामिव लज्जां दर्शयति । यथा गुरुजनानपेक्ष्य साहसानुष्ठानेन सहजलज्जाया असंभवात् ॥ माधवः । अनवसितार्थत्वेन रम्यं यद्वचस्तस्य चारुता निरूप्य । वदतीति शेषः । एतेनानवसितार्थत्वं गम्यते । तेन च 'निर्बध्यमाना नाहमेवं ब्रवीमीत्यनवसितार्थं वचनं ब्रूयात्' इति वात्स्यायनोक्तं स्मारयति । अथ मालत्येककरार्पितकपोलमश्रु पातयतीति गम्यते । तेनाश्रुपात- निमित्तं माधवोऽवलोकितां पृच्छति । अवलोकिते, किमेतदनौपयिकमश्रुपातन- मिति । त्वमस्या रहस्यवेदिनीति भावः । बाष्पेति । अस्या मृगाक्ष्याः स्वभावत एव मलशून्यं किमिति प्रक्षाल्यते । सपदि । आवयोर्वचनान्तरमित्यर्थः । यत्र कपोले स्वभावनिर्मलत्वेनाश्रुजलपूतत्वेन चेन्दुः प्रतिफलितमयूखत्वेन राजते । अस्या मुखामृतसरस्यमृतं पातुमिच्छन्विक्षिप्तरश्मिबिसकाण्ड इवैककरसंक्रान्त- त्वेनैककपोलस्याश्रुणा प्रक्षालनं युज्यते ॥ ५ ॥ अवलोकिता । सखि, किमि- दानीमुच्छलितबाष्पोत्पीडं यथा स्यादेवं रुद्यते ॥ मालती । सखि, कियच्चिरं लव- ङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृत्तिलाभोऽपि तस्या दुर्लभः । इति

१९२ मालतीमाधवे माधवः—(सहर्षं परिष्वज्य ।) प्रियं नः । (इति बकुलमालां कण्ठे ददाति ।) अवलोकिता—१णिव्वूढो भअवदीए संभावनाभारो बुद्धर- क्खिदाए । मालती—(सहर्षम् ।) २अम्हेहिं वि पिअसही लवङ्गिआ दीसइ । (इत्युत्तिष्ठति ।) (ततः प्रविशति संभ्रान्तः कलहंसो बुद्धरक्षिता लवङ्गिका मदयन्तिका च ।) सर्वाः—३परित्ताअदु महाभाओ । अद्धमग्गे क्खु णअररक्खि- पुरिसामिओओ मअरन्दस्स जादो । तदो तक्कालमिलिदेण कलहंस- एण समं अम्हे अणुप्पेसिदाओ । कलहंसः—४जह इदोमुहागदेहिं अम्हेहिं कलअलो सुदो, तह तक्केमि अण्णं वि पारक्किअं बलं उवागदं ति । मालत्यवलोकिते—५हद्धि । समं एव हरिसुव्वेअसंबेदो उवणदो । १. निर्व्यूढो भगवत्याः संभावनाभारो बुद्धरक्षितया । २. अस्माभिरपि प्रियसखी लवङ्गिका दृश्यते । ३. परित्रायतां महाभागः । अर्धमार्गे खलु नगररक्षिपुरुषाभियोगो मकर- न्दस्य जातः । ततस्तत्कालमिलितेन कलहंसकेन समं वयमनुप्रेषिताः । ४. यथेतोमुखागतैरस्माभिः कलकलः श्रुतः, तथा तर्कयाम्यन्यदपि पा- रक्यं बलमुपागतमिति । ५. हा धिक् । सममेव हर्षोद्वेगसंभेद उपनतः । वर्धसे मदयन्तिकालाभेन॥माधवः। परिष्वज्य।प्रथमं मदयन्तिकाभिलाषतः प्रस- ङ्गादेवालिङ्गनं विधाय पश्चाद्देवानुरागपाशमिव प्रियं नः संवृत्तं यन्मदयन्तिकालाभो जात इत्युक्त्वा केसरस्रजं प्रेमसूत्रपाशमिव मालत्याः कण्ठे ददाति ॥ अवलो- किता । निर्व्यूढो निर्वाहं नीतो भगवत्याः संभावनाभारो बुद्धरक्षितया । संभावना- भारो मदयन्तिकामकरन्दयोर्दूल्यव्यापारः ॥ मालती । अस्माभिरपि प्रियसखी लवङ्गिका दृश्यते । अपि संभावनायाम् । इदमपि संभाव्यत इति शेषः ॥ सर्वाः। परित्रायतां महाभागः । अर्धमार्गे खलु नगररक्षिपुरुषाभियोगो मकरन्दस्य जातः । अभियोगः प्रतिरोधः । ततस्तत्कालमिलितेन मकरन्दसंबाधाद्विनिर्गतेन वृत्तावेद- नाय कलहंसकेन समं वयमनुप्रेषिताः ॥ कलहंसः । यथेतोमुखागतैरस्माभिरायो- धनकलकलः श्रुतः, तथा तर्कयाम्यन्यदपि पारक्यं बलमुपागतमिति । पारक्यं परकी- यसैन्यमिति देशी । 'पार' इति लोके ॥ मालत्यवलोकिते । सममेव हर्षोद्वेगसंभेद-

अष्टमोऽङ्कः । १९३ माधवः—सखि मदयन्तिके, स्वागतम् । अनुगृहीतमसद्गृहं भवत्या । ननु स्वस्था भवन्तु भवत्यः । एकाकिनोऽपि बहुभिरभि- योग इति यत्किंचिदेतद्वयस्यस्य । हरेरतुलविक्रमप्रणयलालासः साहसे स एव भवति कणत्कररुहप्रचण्डः सखा । स्फुटत्करटकोटरस्खलितदानसिक्तानन- द्विपेश्वरशिरःस्थिरास्थिदलनेकवीरः करः ॥ ७ ॥ तदहमपि विक्रान्तिपूतं विलसतः प्रियसूहृदः प्रत्यनन्तरीभवामि । (विकटं परिक्रम्य कलहंसकेन सह निष्क्रान्तः ।) अवलोकितादयः—अँवि णाम अप्पडिहदा पडिणिवट्टि- स्सन्दि महाणुहावा । मालती—सँहिओ बुद्धरक्खिदावलोइदाओ, तुरिअं गदुअ भअवदीए उत्तन्दं णिवेदेहो । तुमं वि सहि लवङ्गिए, तुरिअं १. अपि नामाप्रतिहतौ प्रतिनिवर्तिष्येते महानुभावौ । २. सख्यौ बुद्धरक्षितावलोकिते, त्वरितं गत्वा भगवत्या इमं वृत्तान्तं नि- उपनत उपागतः ॥ माधवः । अस्मद्गृहमनुगृहीतं भवत्येत्युक्त्या मकरन्दे स्वात्म- निर्विशेषत्वं मकरन्दस्वीकारेणास्मद्भवनमेव त्वयालंकृतमित्याशयः । एकाकिनोऽपि वीरस्य बहुभिरभियोगः । तथाविधशार्दूलव्यतिकरप्रत्यक्षीकृतपौरुषस्य मत्सहचरत- या मत्समानपराक्रमस्य मकरन्दस्य न किंचिदेतद्भवति संत्रासनिमित्तं चित्ते न भवि- तव्यम् । स्वस्था भवन्त्वित्यर्थः । हरेरिति । सिंहस्यैकाकिनः साह

(Lines 13-18)**: वेदयतुम् । त्वमपि सखि लवङ्गिके, त्वरितं विज्ञापयार्यपुत्रम् । यदि तावद्यु- ष्माकं वयमनुकम्पनीयास्ततोऽप्रमत्तं परिक्रामतेति । १. हा धिक् । न ज्ञायते कथमियती वेलातिक्रम्यताम् । भवतु । प्रिय- सख्या लवङ्गिकायाः प्रतिनिवृत्तिमार्गमवलोकयन्ती स्थास्यामि । स्फुरितं मे वाममचामनयनेन । २. हा, आर्यपुत्र ।

  1. Commentary (Lines 19-32): वेदयतुम् । त्वमपि सखि लवङ्गिके, त्वरितं विज्ञापयार्यपुत्रम् । यदि तावद्युष्माकं वयमनुकम्पनीयास्ततोऽप्रमत्तं यथा स्यादेवं परिक्रामतेति ॥ मालती । हा धिक् । न ज्ञायते कथमियती वेलातिक्रम्यताम् । केन प्रकारेणातिवाह्यतामित्यर्थः । [

अष्टमोऽङ्कः । १९५

इयेनावपातचकिताननवर्तिकेव किं नेक्षसे ननु मया कवलीकृतासि ॥ ८ ॥ यावच्छ्रीपर्वतमुपनीय प्रतिपर्व तिलश एनां निकृत्य दुःखमारिणीं करोमि । (इति मालतीमादाय निष्क्रान्ता।) मदयन्तिका—अहं वि मालदीं एव्व अणुवट्टिस्सं । (परिक्रम्य ।) सहि मालदि । लवङ्गिका—(प्रविश्य ।) सैहि मदअन्तिए, लवङ्गिआ क्खु अहं । मदयन्तिका—अइ, संभाविदो तुए महाणुहाओ । लवङ्गिका—णैहि णहि । सो क्खु उज्जाणवाडणिग्गमादो एव्व कलअलं सुणिअ साक्खेवावविद्धविअडणिओरुदण्डणिठ्ठुरं पधाविअ पराणीअं पविट्ठो । तदो पडिणिउत्तम्हि मन्दभाइणी । सुणोमि अ घरे घरे गुणाणुराअणिब्भरस्स पोरलोअस्स हा माहव महाभाअ हा

१. अहमपि मालतीमेवानुवर्तिष्ये । सखि मालति । २. सखि मदयन्तिके, लवङ्गिका खल्वहम् । ३. अयि, संभावितस्त्वया महानुभावः । ४. नहि नहि । स खलूद्यानवाटनिर्गमादेव कलकलं श्रुत्वा साक्षेपापवि- द्धविकटनिजोरुदण्डनिष्ठुरं प्रधाव्य परानीकं प्रविष्टः । ततः प्रतिनिवृत्तास्मि मन्दभागिनी । शृणोमि च गृहे गृहे गुणानुरागनिर्भरस्य पौरलोकस्य हा माधव महाभाग हा मकरन्द साहसिकेति परिदेवनानि । महाराजः किल

पक्षिविशेषयुवतिरिव त्वं मया कवलीकृतासीत्यात्मानं नेक्षसे । यदि शक्तिस्तदा तर्हि परिरक्षतु ॥८॥ यावदित्यवधारणे । श्रीपर्वतं नीत्वैव । पर्व पर्व प्रति प्रतिपर्व । प्रतिसंधीत्यर्थः । तिलं तिलं तिलशः । तिलमात्रान्मांसखण्डान्कृत्वा चित्रवधेनैनां दुःखमारिणीं करोमि । इति बन्धुवर्गैरविज्ञातां मालतीमादाय कपालकुण्डला नि- ष्क्रान्ता । मदयन्तिका । अहमपि मालतीमेवानुवर्तिष्ये । अथ मालतीभ्रमेण मदयन्तिका लवङ्गिकामाकारयति । सखि मालतीति ॥ प्रविश्य । लवङ्गिका । वदतीति शेषः । सखि मदयन्तिके, लवङ्गिका खल्वहम् । न मालतीति भावः ॥ मदयन्तिका । अयीति सुकुमारसंबोधने । संभावितो दृष्टस्त्वया महानुभावः । माधव इत्यर्थः ॥ लवङ्गिका । नहि नहि । स खलूद्यानवाटनिर्गमादेव कलकलं श्रुत्वा साक्षेपापविद्धविकटनिजोरुदण्डनिष्ठुरं प्रधाव्य परानीकं प्रविष्टः । साक्षेपं सकोपवचनम् । अपविद्धस्ताडितो निजोरुदण्डो येन स तादृक् । वाटो वृतिः । प्रा- कार इति यावत् । मार्गो वा । ततः प्रतिनिवृत्तास्मि मन्दभागिनी । शृणोमि च गृहे मा० १८

१९६ मालतीमाधवे मअरन्द साहसिअ त्ति परिदेवणाओ । महाराओ किळ मन्तिधी- आणं विप्पळम्भउत्तन्दं सुणिअ संजाअमच्छरावेओ तक्खणविसज्जि- आणेअपोढपडाइणिवहो चन्दादवसोहिदसोहसिहरद्विदो पेक्खदित्ति मन्तिअदि । मदयन्तिका—हो, हदह्मि मन्दभाइणी । लवङ्गिका—सैहि, मालदी उण कहिं । मदयन्तिका—सैहि, सा क्खु पुढमं एब दे मग्गं ओलोइदुं पसरिदा । पच्छा अहं तं ण पेक्खामि । सा णाम उज्जाणगहणं पविट्ठा हवे । लवङ्गिका—सैहि, तुरिअं अण्णेसह्म । अदिकातरा मे पिअ- सही उववणट्ठिदा इमस्सिं अवसरे न धारेदि अत्ताणं । लवङ्गिकामदयन्तिके—(त्वरितं परिक्रामन्त्यौ ।) सैहि मालदि, णं भणामि सहि मालदि त्ति । (इतस्ततः परिक्रामतः ।) मन्त्रिदुहित्रोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावेगस्तत्क्षणविसर्जितानेकप्रौ- ढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते । १. हा, हतास्मि मन्दभागिनी । २. सखि, मालती पुनः क्व । ३. सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् । ४. सखि, त्वरितमन्विष्यावः । अतिकातरा मे प्रियसख्युपवनस्थिता- स्मिन्नवसरे न धारयत्यात्मानम् । ५. सखि मालति, ननु भणामि सखि मालतीति । गृहे गुणानुरागनिर्भरस्य पौरलोकस्य हा माधव महाभाग हा मकरन्द साहसिकेति परिदेवनानि । महाराजः किल मन्त्रिदुहित्रोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावे- गस्तत्क्षणविसर्जितानेकप्रौढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते ॥ मदयन्तिका । हा, हतास्मि मन्दभागिनी ॥ लवङ्गिका । सखि, मालती पुनः क्व वर्तते ॥ मदयन्तिका । सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् । नामेति संभावनायाम् ॥ लवङ्गिका । सखि, त्वरितमन्विष्यावः । अ- तिकातरा मे प्रियसख्युपवनस्थितास्मिन्नवसरे न धारयत्यात्मानम् । लवङ्गिका-

कलहंसः—(इतः प्रविश्य ।) १दिट्ठिआ कुसलेण म्हि णिग्गदो सं- घट्टमग्गादो। हिमाणहे। पेक्खामि विअ णिम्मलणिरन्तरव्वुत्तरखा- रिधारापडिफलिदचन्दकिरणुज्जुलन्तपिञ्जरिअमीसणदंसणं मदलीला- कलिदकामवालविअडभुअदण्डावविद्धहलहेलावित्थारिदुद्धक्खुभिद- कलिन्दतणआसोत्तसंणिहं विसङ्खलुप्वदिदणिद्दआणन्दमअरन्दक्खो- भविअलपडिरोधपडिणिउत्तणुद्धअसमत्थगणङ्गणावआसविअसन्द- कोलाहलं पारक्कसमूहं दाणिं वि पेक्खामि विअ । सुमरामि अ भीसण- भुअवज्जखचितपञ्जरपज्जत्थसमरविमुहसुभटहत्यावलुत्तविविहाउहोव- रुद्धअसेसरिपुसेण्णविअडापसारवहरिक्कमग्गसंचारनिव्वत्तिदविसमसाहसं णाहं माहवम् । अहो गुणाणुराओ णरेन्दस्स, जं दाणिं सो- १. दिष्ट्या कुशलेनास्मि निर्गतः संघट्टमार्गात् । हिमापहॆ । पश्या- मीव निर्मलनिरन्तरोद्भूततरवारिधाराप्रतिफलितचन्द्रकिरणोज्ज्वलपिञ्जरित- भीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्धहलहेलाविस्तारितो- र्ध्वक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयानन्दमकरन्दक्षोभ- विकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्कोलाहलं पार- क्यसमूहमिदानीमपि पश्यामीव । स्मरामि च भीषणभुजवज्रखचितपञ्जरपर्य- स्तसमरविमुखसुभटहस्तावलुप्तविविधायुधोपरुद्धाशेषरिपुसैन्यविकटापसारव्यति- रिक्तमार्गसंचारनिर्वर्तितविषमसाहसं नाथं माधवम् । अहो गुणानुरागो नरेन्द्रस्य, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्यासप्रशमितविरोधः मदयन्तिके। सखि मालति, ननु भणामि सखि मालतीति ॥ कलहंसः । दिष्ट्या कुशलेनास्मि निर्गतः संघट्टमार्गात् । सहर्षं हिमाणहे । 'हिमाहने भय- हर्षे' इति देशी । पश्यामीव निर्मलनिरन्तरोद्भूततरवारिधाराप्रतिफलितचन्द्रकि- रणोज्ज्वलपिञ्जरितभीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्ध- हलहेलाविस्तारितोर्ध्वक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयान- न्दमकरन्दक्षोभविकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्को- लाहलं पारक्यसमूहमिदानीमपि पश्यामीव । प्रतिनिवर्तनं पलायनम् । स्मरामि च भीषणभुजवज्रखचितपञ्जरतया पर्यस्ताः प्रसृताः समरविमुखा ये सुभटा- स्तेषां हस्तेभ्योऽवलुप्तान्यवच्छेदितानि विविधान्यायुधानि तैरपरुद्धं पतितमशेषं यद्रिपुसैन्यं तेन दत्तो यो विकटापसारः । पलायनं तेन व्यतिरिक्तः शून्यो यो मार्गस्तत्र संचारेण निर्वर्तितविषमसाहसं स्मरामि च माधवमिति संबन्धः । अहो गुणानुरागो नरेन्द्रस्य, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्या- सप्रशमितविरोधः सौम्येकरसोपनीतो यौ संकटाभिश्रान्तौ माधवमकरन्दौ

१९८ मालतीमाधवे णसिहरावदिण्णपडिहारविणओवण्णासपसमिअविरोहो सोम्मेक्करसो- वणीदमाहवमअरन्दमुहचन्दे ओलोइअ बारंवारं पसारिदसिणिद्धलो- अणो कलहंसआदो अहिजणं सुणिअ णिवत्तिअमहग्घगुरुबहुमाणो फुरन्तमच्छरेस्सावेल्लक्खमसीमलिणिअमुहे भूरिवसुणन्दणे महुरो- वण्णासेहिं किं दाणिं तुह्माणं भुवणाभोअभूसणेहिं महाणुहावेहिं णवजोबणगुणाभिरामेहिं जामाउएहिं परितोसेत्ति पडिबोधिअ गओ अब्भन्दरं राजा । इमे वि माहवमअरन्दा आअच्छन्दि इति अहं वि एदं भअवदीए उत्तन्दं णिवेदेमि । (इति निष्क्रान्तः ।) (ततः प्रविशतो माधवमकरन्दौ ।) माधवः—अहो, प्रेयसः सर्वपुरुषातिशायि निर्व्याजमूर्जितं तेजः । तथा हि । दोर्निष्पेषविशीर्णसंचयगलत्कङ्कालमुन्मथ्नतः प्राग्वीराननुपात्य तत्प्रहरणान्याच्छिद्य विक्रामतः । सौम्यैकरसोपनीतमाधवमकरन्दमुखचन्द्राववलोक्य वारंवारं प्रसारितस्नि- ग्धलोचनः कलहंसकादभिजनं श्रुत्वा निर्वर्तितमहार्घगुरुबहुमानः स्फुरन्मत्सरेर्ष्यावैलक्ष्यमषीमलिनितमुखौ भूरिवसुनन्दनौ मधुरोपन्यासैः किमि- दानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभावाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य गतोऽभ्यन्तरं राजा । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि । तयोर्मुखचन्द्राववलोक्य वारंवारं प्रसारितस्निग्धलोचनः कलहंसकादमिजनं श्रुत्वा निर्वर्तितमहार्घगुरुबहुमानः स्फुरन्मत्सरेर्ष्यावैलक्ष्यमषीमलिनितमुखौ भूरि- वसुनन्दनौ मधुरोपन्यासैः किमिदानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभा- वाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य ततो गतोऽभ्यन्तरं राजा । अत्र मत्सरः क्रोधः, उद्वेग ईर्ष्या एतौ द्वौ मषी- स्थानीयौ । आभ्यां मलिनितं मुखं नन्दनस्य । वैलक्ष्यं मषीस्थानीयं भूरिवसो- रिति विवेकः । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि ॥ माधवः । प्रेयसो मकरन्दस्य । निर्व्याजं स्वाभाविकमूर्जितं बलवत्तेजः ॥ दोर्निष्पेषेति । तथा ह्यस्य प्रेयसो मित्रस्य प्राक्प्रथमं वीरानुन्म- थ्नतः । कथमून्मथ्नत इत्यपेक्षायां दोर्भ्यामेव यो निष्पेषः संचूर्णंनं तेन शीर्णे संच्छिन्नत्वेन दलत्कङ्कालं यथा स्यादिति क्रियाविशेषणम् । अनुपात्य च तेषां प्रह- रणान्याच्छिद्य विक्रामतो विक्रमं कुर्वतः । एवंभूतस्य प्रेयसो यः संयोधिभिः संप्रा- मसमुद्रस्तस्य पन्थाः पुरोदेशो द्वेधा पार्ष्णिद्वये स्तम्भिता निश्चेष्टा या पदातिपङ्कि-

अष्टमोऽङ्कः। १९९ उद्वेल्लद्धनरुण्डखण्डनिकराकीर्णस्य संख्योदधे- द्वैधास्तम्भितपत्तिपङ्क्तिविकटः पन्थाः पुरस्तादभूत् ॥ ९ ॥ वयस्य, नन्वनुशयस्थानमेतत् । पश्य । अद्यैवेन्दुमयूखखण्डनिचितं पीतं निशीथोत्सवे यैर्लीलापरिरम्भदायिदयितागण्डूषशेषं मधु । संप्रत्येव भवद्भुजार्गलगुरुव्यापारभग्नास्थिभि- र्गात्रैस्ते कथयन्त्यसारभिदुरान्व्रायेण संसारिणः ॥ १० ॥ स्मर्तव्यं तु नरपतेरस्य सौजन्यम् । यदपराद्धयोरप्यनपराद्धयोरिव नौ कृतोपसदनं चेष्टितवान् । तदेहि, मालतीसमक्षमधुना मदयन्ति- काहरणवृत्तान्तं विस्तरतः कथ्यमानमनुभवामः । (पुरोऽवलोक्य ।) कथं शून्या इवामी प्रदेशाः । मकरन्दः—नूनं शङ्के आवयोः समरसंकटोद्वेगेन व्याकुलत्वा- दितस्ततो भ्रमन्त्यस्ता अत्रैवात्मानं विनोदयन्ति । माधवः— कथयति त्वयि सस्मितमालती- वलितलोलकटाक्षपराहतम् । वदनपङ्कजमुल्लसितत्रपं स्तिमितदृष्टि सखी नमयिष्यति ॥ ११ ॥ अयमसावुद्यानवाटः । क्त्या विकटो विपुलः पुरस्तादभूत् । उद्वेल्लन्त ऊर्ध्वं ललन्तो ये रुण्डखण्डनिक- रास्तैः शीर्णस्य व्याप्तस्येति संख्योदधेर्विशेषणम् ॥ ९ ॥ वयस्य, अहो एतज्जग- त्समरकर्म वानुशयस्थानं पश्चात्तापस्थानम् । अद्येति । यैः सुभटैश्चन्द्रिकोप- भोगसमये निशीथे लीलालिङ्गनदायिप्रेयसीपानावशिष्टं तथा प्रतिफलितेन्दुकर- करम्बितमिन्दुप्रभाखण्डरुचिरं मधु पीतं संप्रत्येव ते गात्रैर्भवदीयव्यापारभग्ना- स्थिभिः संसारिणः पुरुषानसारांस्तुच्छांस्तथा भिदुरान्विकलान्कथयन्ति ॥ १० ॥ तन्मालत्यग्रतो मदयन्तिकायाः कृते कलहंसकेन विस्तरतो वर्ण्यमानमावयो- र्व्यापारमतर्किंतोपस्थितमनुभवामः । पुरोऽवलोक्य । कथं शून्या इव मालत्या विरहिता इवामी प्रदेशाः । दृश्यन्त इति शेषः ॥ मकरन्दः । नूनं शङ्के । आवयोः समरसंकटोद्वेगेनाकुलत्वादुद्विग्नत्वादितस्ततो भ्रमन्त्यस्ता मालत्यादयो- ऽत्रैवोद्यानगम्भीरस्थानं आत्मानं विनोदयन्ति ॥ माधवः । कथयतीति । वयस्य मकरन्द, त्वयि कथयति सत्यावयोः समरसंकटवृत्तान्तं मालत्याः सखी मदयन्तिका मन्निमित्तमनयोः पुरुषप्रकाण्डयोः शरीरसंदेहादयो जायन्त इत्यत्यन्त-

२४० मालतीमाधवे (प्रवेशं नाटयतः ।) लवङ्गिकामदयन्तिके—सहि मालदि । (सहसा विलोक्य सहर्षम्) दिद्विआ पुणो वि अ महाणुहावा दिस्सन्दि । माधवमकरन्दौ—भवत्यौ, क्व सा मालती । उभे—कुदो मालती । पदसद्देण अम्हे विप्पलब्धाओ मन्द- भाइणीओ । माधवः—भवत्यौ, कथंकथमपि सहस्रधैव ध्वंसते मे हृदयम् । ततः स्फुटमभिधीयताम् । मम हि कुवलयाक्षीं प्रत्यनिष्ठैकबुद्धे- रविरतमनुबद्धोत्कम्प एवान्तरात्मा । स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमपि भवत्योः सर्वथा हा हतोऽस्मि ॥ १२ ॥ १. सखि मालति, दिष्ट्या पुनरपि च तौ महानुभावौ दृश्येते । २. कुतो मालती । पदशब्देनावां विप्रलब्धे म

अष्टमोऽङ्कः । १०१ मदयन्तिका—तह खु इदो विणिग्गदे महाणुभावे बुद्धर- क्खिदं अवलोइदं अ भयवदीसआसं विसज्जिअ अप्पमादणिमित्तं विष्णवेहि अज्जउत्तं ति लवङ्गिआ अणुप्पेसिदा । तदो उत्तम्माणा अ एदाए मग्गं ओलोइदुं अग्गदो पसरिदा मालदी । पच्छादो अहं । तदो ण पेक्खामि । तदो अह्मेहिं मग्गिदा एत्थ विडवन्तराई जाव तुम्हे दिट्ठत्ति । माधवः—हा प्रिये मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य- द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ १३ ॥ उभे—हा पिअसहि, कहिं ग आसि । मकरन्दः—वयस्य, किमित्यविज्ञाय वैक्लव्यमवलम्ब्यते । माधवः—सखे, त्वमपि किं न जानासि मत्स्नेहदुःखिताया- स्तस्याः कातर्यचेष्टितानि । १. तथा खल्वितो विनिर्गते महानुभावे बुद्धरक्षितामवलोकितां च भग- वतीसकाशं विसृज्याप्रमादनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसृता मालती । पश्चाद- हम् । ततो न पश्यामि । ततोऽस्माभिर्मार्गितात्र विटपान्तराणि यावद्युवां दृष्टाविति । २. हा प्रियसखि, कुत्र गतासि । तद्गतकदैवेन हतोऽस्मि ॥ १२ ॥ मदयन्तिका । तथा खल्वितो विनिर्गते महानुभावे त्वयि सति बुद्धरक्षितामवलोकितां च भगवतीसकाशं विसृज्याप्रमा- दनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसृता मालती । पश्चादहं प्रसृतेत्यर्थः । न ततः पश्यामि । ततोऽस्माभिरत्र विचिता यावद्युवां दृष्टाविति ॥ माधवः । किमपीति । हे चण्डि अतिकोपने, अयं परिहासः स्वात्मप्रच्छादनरूपो विरमतु । परिहासं परित्यज । ततः किमपि किमपीति यद्वक्तुमपि न शक्यते मङ्गलेभ्यो यदन्यदमङ्गलं तदहं

३. अङ्क ६-८: कपालकुण्डला प्रतिशोध, मालती-अपहरण, पद्मावती राजसभा व विलाप

२०२ मालतीमाधवे मकरन्दः—अस्त्येतत् । किंतु भगवतीपादमूलगमनमप्या- शङ्क्यते । तदेहि । तत्र तावद्गच्छावः । उभे—एंदं वि संभाविअदि । माधवः—एवमस्तु नाम । (इति परिक्रामति ।) मकरन्दः—(स्वगतम् ।) याता भवेद्भगवतीभवनं सखी सा जीवन्त्यथैष्यति न वेत्यभिशङ्कितोऽस्मि । प्रायेण बान्धवसुहृत्प्रियसंगमादि सौदामिनीस्फुरणचञ्चलमेव सौख्यम् ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवेऽष्टमोऽङ्कः । १. एतदपि संभाव्यते । लमपि किं मालतीति न जानासि । मम प्राप्तौ मत्स्नेहेन दुःखितया कातरया तया यच्चेष्टितमिति चौरिकाविवाहप्रस्तावे मालत्याः स्वशरीरपरित्यागाध्यवसायं स्मारयति ॥ उभे । एतदपि संभाव्यते । यद्भगवतीपादसेवां कर्तुं गता भवि- ष्यतीत्येतत् ॥ माधवः । एवं नामास्तु । नामशब्दः संभावनायाम् ॥ मक- रन्दः । यातेति । सा नोऽस्माकं सर्वेषां माधवप्रेमविषयतया तस्या एव गुण- विशेषैश्च निःसीमस्नेहविषयत्वात्सखीव सखी मालती याता गता । तद्भगवती- भवनम् नगराध्यक्षपुरुषावरोधव्यतिकरसंभ्रमादिभिः सत्यमेव जीवन्ती प्राणान्धा- रयन्ती पुनरेष्यति न वेत्याशङ्कितोऽस्मि । अघोरघण्टव्याघ्रवधराजविरुद्धव्या- पाराश्च मालतीजीवितसंदेहाशङ्कामिज्ञानानि । अथ मालतीविपदमनया निधित्य । वैषयिकसुखस्यास्थिरत्वं श्लोकस्योत्तरार्धेन व्यवस्थापयति—प्रायेणेति । बान्धवा- दिसंगमसौख्यं सौदामिनीस्फुरणवच्चञ्चलम् । भवतीति शेषः । बान्धवादिसङ्ग आदियस्य सौख्यस्य तत्तादृक् । अथ च प्रथमाङ्कमुखसंधिसूचितायाः सौदामिन्याः स्फुरणं स्फूर्तिर्व्यापारविशेषो वा तन्मात्रनिदानं मालतीविपत्प्रतिकरणं माधव- दुःखप्रहाणं च मनसि कृत्वा प्रकरणकृदग्रिमाङ्के सौदामिनीप्रवेशसूचनाय च सौदामिनीपदमङ्गान्तश्लोके निवेशितवान् ॥ १४ ॥ शबरस्वामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः । सारोद्धारे मन्दरमकृत कृती व्याकृतिं नान्यः ॥ इति श्रीनान्यदेवस्य कृतौ विबुधरञ्जाख्यां मालतीमाधव- टीकायामष्टमाङ्कविवरणम् ॥

नवमोऽङ्कः । (ततः प्रविशति सौदामिनी ।) सौदामिनी—एषास्मि सौदामिनी भगवतः श्रीपर्वतादुपैत्य पद्मावतीं तत्र मालतीविरहिणो माधवस्य संस्तुतप्रदेशदर्शनासहिष्णोः संस्थायं परित्यज्य सह सुहृद्वर्गेण बृहद्द्रोणीशैलकान्तारप्रदेशमुपश्रु- त्याधुना तदन्तिकं प्रयामि । भोः, तथाहमुत्पतिता यथा सकल एव गिरिनगरग्रामसरिद्वरण्यव्यतिकरश्चक्षुषा परिषिच्यते । (पश्चाद्विलोक्य ।) साधु साधु । पद्मावती विमलवारिविशालसिन्धु- पारासरित्परिकरच्छलतो बिभर्ति । श्रीपर्वते कपालकुण्डलापहृतां मालतीमाच्छिद्य निष्प्रत्यूहे देशे निधाय माल- तीविनाशशङ्किनो माधवस्यावशयंभाविनाशमाशङ्क्य जीवत्येव समागमिष्यतीति माधवप्रतीतिहेतोः मालतीकण्ठाद्वकुलावलीमादाय सौदामिनी सत्वरमुत्पतिता । अस्मिन्नवसरे नवमाङ्कारम्भः । तत इति । सौदामिनी स्वात्मगतमेव स्वविधेयं विचारयति—एषास्मीति । एषाहं सैव सौदामिनी नान्या । या भगवत्याः कामन्दक्या योगाभ्यासाद्युपदेशेनानुगृहीतैतावत्पदं प्रापिता । तदवश्यं मया कामन्दक्या प्राणेनापि रक्षणीययोर्मावतीमाधवयोर्विपत्तिप्रतीकारः प्राणव्ययेनापि विधेय इत्येषास्मीति पदस्याशयः । भगवतः पूज्याच्छ्रीपर्वतादुपैत्य गत्वा पद्मा- वतीम् । तत्र पद्मावत्यां मालतीविप्रयुक्तस्य माधवस्य बृहद्द्रोण्योपलक्षितो यः शैलस्तस्य कान्तारं दुर्गमार्गस्तत्र प्रदेशस्तत्र प्रवेशमुपश्रुत्याधुना तदन्तिक- मनुप्रयामि । भवतु तस्य कान्तारप्रवेशः किमेतावता स्यादित्याशयः । किंभूतस्य माधवस्य—मालत्या सह क्रीडाद्यधिकरणत्वेन संस्तुतः परिचितो देशस्तस्येदानीं मालतीं विना तदवलोकनासहिष्णोः कथं कान्तारप्रवेशः किंविधो वेत्यपेक्षाद्वये सह सुहृद्वर्गेण संस्थायं गृहं परित्यज्येति पदद्वयं योज्यम् । अत्र भगवच्छब्दो- क्तपूज्यत्वं च श्रीपर्वतस्यानेकमन्त्रसाधनक्षेत्रत्वेन । तथाहमिति । तथा तेन वेगातिशयेन तथोच्चदेशगमनमाश्रित्य वोत्पतितेनात्मनः शरीरलघुतोत्कर्षसहितं योगपरिपालनलिङ्गभूतं तथा शीघ्रगामितां चाश्चर्यहेतुत्वेनात्मगतमेव चिन्तयति । लघिमा लघुर्भवति येन सूर्यकरानवलम्ब्य तद्विम्बं प्रविशतीत्युच्चैर्गगनारोहणं च माधवस्य गिरिद्रोण्या श्रीपर्वतस्यापि स्पष्टदर्शनार्थम् । व्यतिकरो विशेषः समूहो वा । चक्षु रश्मिमण्डलेन परिषिच्यतेऽभिव्याप्य गृह्यते । साधु साधु । पद्मावतीं शीघ्रं प्राप्तास्मि । भद्रमापन्नमिति साधुपदाभ्यासहेतुः । पद्मावतीति । पद्मा- वती नगरी अन्तरिक्षं गगनमिव बिभर्ति । कस्मादित्यपेक्षायां विमलवारिभिर्वि-