मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
अथ मालविकाग्निमित्रम् । प्रथमोऽङ्कः । एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् । अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ १ ॥ वेदादीनां विशुद्धानां विद्यानां जन्महेतवे । पार्वतीपरतन्त्राय परस्मै वस्तुने नमः ॥ भाग्यं नाम समग्रमीदृशमतिस्नेहैकपात्रं यतो वीरं काटयवेमसमुद्धतरिपुध्वंसे नियुज्य स्वयम् । नित्यं नन्दति नर्तनैरभिनवैः कान्तैर्वसन्तोत्सवैः संतानाभ्युदयैः कुमारगिरिभूपालो नृपालोत्तमः ॥ अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थमिष्टदेवता- स्मरणपूर्वकमाशिषं प्रयुङ्क्ते—एकैश्वर्य इत्यादि । स ईशः परमेश्वरः सन्मार्गालो- कनाय । सन् प्रशस्तो मार्गः पन्था मोक्षमार्गस्तस्यालोकनाय दर्शनाय वो युष्माकं तामसीं तमःसंबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्विति संबन्धः । कथंभूत ईशः । यः प्रणतबहुफले । बहूनि फलानि यस्मात्तत्तथोक्तम् । प्रणतानां प्रणामं कृतवताम् । भक्तानामित्यर्थः । तेषां बहुफलं तस्मिन् । एकैश्वर्ये । ईश्वरस्य भाव ऐश्वर्यम् । एकं मुख्यम् । अनन्यसाधारणमित्यर्थः । तच्च तदैश्वर्यं च । तस्मिन्स्थि- तोऽपि । अणिमाद्यैश्वर्ययुक्तोऽपीत्यर्थः। स्वयमात्मना कृत्तिवासाः कृत्तिश्चर्म वासो वसनं यस्य स तथोक्तः। यः कान्तासंमिश्रदेहोऽपि कान्तया स्त्रिया संमिश्रः संमि- लितो देहः शरीरं यस्य स तथोक्तस्तादृशोऽपि सन् । अविषयमनसाम् । न विद्यन्ते विषयाः शब्दादयो येषां तान्यविषयाणि तानि मनांसि येषां ते तथोक्ताः तेषां यतीनां संयमिनां परस्तात्परः श्रेष्ठः । 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दि- ग्देशकालेष्वस्ताति' इत्यस्तातिप्रत्ययः । अष्टाभिस्तनुभिः पृथिव्यादिमूर्तिभिः कृत्स्नं
२ मालविकाग्निमित्रे (नान्द्यन्ते) सूत्रधारः—(नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् । (प्रविश्य ।) पारिपार्श्विकः—भाव, अयमस्मि । सूत्रधारः—अभिहितोऽस्मि विद्वत्परिषदा कालिदासग्रथितवस्तु मालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति । तदारभ्यतां संगीतम् । पारिपार्श्विकः—मा तावत् । प्रथितयशसां भाससौमिल्लकक- विपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं बहुमानः । सूत्रधारः—अयि, विवेकभ्रस्तमभिहितम् । पश्य । सर्वं जगल्लोकं बिभ्रतोऽपि धारयतोऽपि यस्याभिमानः प्रणयो ममत्वं न भवति । एषु विशेषणेषु विरोधाऽलंकारेणासेश्वरस्य लोकातिशायित्वमुक्तं भवति । अत्र प्रण- तबहुफल एकैश्वर्यस्थित्या कान्तासंमिश्रणेन जगद्धरणेन ईश इत्यनेन च लोकोत्तरः कश्चिद्राजास्मिन्नाटके वर्ण्यत इति सूच्यते । सन्मार्गालोकनायेत्यनेनात्र कश्चिन्मा- र्गाभिनयः प्रतिपाद्यत इति सूच्यते । मार्गो नाम नाट्यविशेषः । तथोक्तम्— 'मार्गोऽपि देशी तद्भेदः कथितो नाट्यवेदिभिः । अत्र मार्गो भवेन्नाट्यं नाट्यवे- दोक्तलक्षणम् ॥' इति । एष नान्दीश्लोकः । नान्द्यादिलक्षणं तु शाकुन्तलव्याख्यान एवाभिहितम् । अत्र 'पदादिनियमोऽपि वा' इति विकल्पात्पदादिनियमाभावः ॥ अथ प्रस्तावनां विवक्षुस्तदङ्गयोः प्ररोचनामुखयोः प्ररोचनां प्रस्तौति—नान्द्यन्ते सूत्रधार इत्यादिना । मारिष, इतस्तावत् । आगम्यतामिति शेषः । नटः सू- त्रधारेण मारिष इति वाच्यः । 'सूत्री नटेन भावेति तेनासौ मारिषेति च' इत्यु- क्तत्वात् ॥ परिपार्श्वं यथा भवति तथा वर्तत इति पारिपार्श्विकः । नट इत्यर्थः । 'परिमुखं च' इत्यत्र चकाराद्वक् ॥ अभिहितोऽस्मीत्यादि । विद्वत्परिषदा विदुषां विपश्चितां परिषत्स्रभा तया । अनेन सभाप्रशंसा कृता । कालिदासग्रथि- तवस्तु कालिदासेन ग्रथितं वस्तु कथा यस्मिंस्तत्तथोक्तम् । मालविकाग्निमित्रम् । 'अधिकृत्य कृते ग्रन्थे' इत्यण् । यथा मालतीमाधवम् । वसन्तोत्सव इत्यनेन का- लनिर्देशः कृतः । संगीतं तौर्यत्रिकम् । तथा चोक्तं संगीतरत्नाकरे—'नृत्तं गीतं तथा वाद्यं त्रयं संगीतमुच्यते' इति । आरभ्यतां प्रयोक्तुं यत्नः क्रियताम् ॥ मा तावत् मा इति निवारणे । भास कविपुत्र-सौमिल्लका कवय प्राञ्चना । प्रबन्धा- न्=रूपकाणि । १ परित्यज्येत्यर्थः
प्रथमोऽङ्कः । ३ पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥ पारिपार्श्विकः—आर्यमिश्राः प्रमाणम् । सूत्रधारः—तेन हि त्वरतां भवान् । शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् । देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ॥ ३ ॥ (इति निष्क्रान्तौ ।) प्रस्तावना । (ततः प्रविशति बकुलावलिका ।) बकुलावलिका—आणत्तम्हि देवीए धारिणीए । अइरप्पउत्तोव- १. आज्ञाप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्य- कवेः।क्रियायां कृतौ रूपके। कथं बहुमान आदरातिशयः कथनमीक्ष्यते॥विवेकभ्रस्तं विवेकदुर्बलम् । विवेकशून्यमित्यर्थः । क्रियाविशेषणं चैतत् । पुराणमित्यादि । सर्वं काव्यं कवेः कर्म । कृतिरित्यर्थः । पुराणमित्येव पुराणत्वादेव साधु रम्यं न भवति । नवमिति च नवत्वादेव अवद्यं गर्ह्यं न भवति । किंतु सन्तो विद्वांसः परीक्ष्य पुराणं नवं च काव्यं गुणतो दोषतश्च परामृश्य अन्यतरत्तयोरेकं पुराणं नवं वा । गुणयुक्तमित्यर्थः । भजन्ते । स्वीकुर्वन्तीत्यर्थः । मूढोऽज्ञस्तु परप्रत्य- यनेयबुद्धिः परस्यान्यस्य प्रत्ययेन ज्ञानेन नेया प्राप्या बुद्धिर्यस्य स तथोक्तः । अनेन कविकव्यप्रशंसा कृता ॥ शिरसेत्यादि । शिरसा मूर्ध्ना प्रथमगृहीतां पूर्वस्वीकृताम् । शिरसा ग्रहणेन भक्त्यतिशयो गम्यते । परिषदः सभाया आज्ञां शासनं कर्तुं निर्वर्तयितुमिच्छाम्यभिलषामि। अत्रोपमामाह—धारिण्या देव्याः। धा- रिणी नाम कथानायकस्य पत्नी । तस्या आज्ञां सेवादक्षः परिचर्यानिपुणोऽयं पुरोवर्ती परिजन इव । परिचारको जनः परिजनः । अनेन पात्राक्षेपहेतुः प्रयोगातिशयो नाम मुखाङ्गमुक्तं भवति ॥ प्रस्तावना ॥ कविरिदानीमङ्कमारभमाणः कथोपयो- गितया प्रथमं मिश्रविष्कम्भं नामार्थोपक्षेपकं प्रस्तौति—ततः प्रविशतीत्या- दिना । आज्ञाप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्यमन्त- रेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तस्मात्तावत्सङ्गीतशाळां
४ मालविकाग्निमित्रे देसं छलिअं णाम णट्टअं अन्तरेण कीरिसी मालविअत्ति णट्टाअरिअं अज्जगणदासं पुच्छिदुं । ता दाव संगीतसालं गच्छम्मि (इति परिक्रामति ।) (ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ।) प्रथमा---(द्वितीयां दृष्ट्वा ।) हँला कौमुदीए, कुदो दे इअं धीरदा । जं समीवेण वि अदिक्कमन्ती इदो दिट्ठिं ण देसि । द्वितीया---अम्हो बउलावलिआ । सहि, इदं देवीए सिप्पिस- आसादो आणीदं णाअमुद्दासणाहं अङ्गुलीअअं सिणिद्धं णिज्झा- अन्ती तुह उवालम्भे पडिदम्हि । प्रथमा---(विलोक्य ।) ठाणे सज्जदि दिट्ठी । इमिणा अङ्गुलीअ- एण उत्थिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहत्थो । द्वितीया---हँला, कहिं पत्थिदा सि । मन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तत्तावत्सङ्गीत- शालां गच्छामि । १. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतो दृष्टिं न ददासि । २. अहो बकुलावलिका ! सखि, इदं देव्याः शिल्पिसकाशादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि । ३. स्थाने सज्जति दृष्टिः । अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेऽग्रहस्तः । ४. 'सखि, कुत्र प्रस्थितासि । गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते। छलिकं नाम नाट्यविशेष इत्यर्थः। तथा चोक्तम् --'तदेव च्छलिकं नाम साक्षाद्यदभिनीयते। व्यपदिश्य पुरावृत्तं स्वा- भिप्रायप्रकाशकम्॥' इति ॥ सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यति- क्रामन्तीतो दृष्टिं न ददासि ॥ अहो बकुलावलिका । सखि, इदं देव्याः शिल्पिसका- शादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती पश्यन्ती तवोपालम्भे प- तितास्मि ॥ स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेऽग्रहस्तः॥ सखि, कुत्र प्रस्थितासि ॥ देव्या एव वचनेन नाटकाचार्यमार्यगणदासं
प्रथमोऽङ्कः । ५ प्रथमा देवीए एव वअणेण नाडआआरिअं अज्जगणदास देखिदु । उवदेसग्गहणे कीरिसी मालविअत्ति । द्वितीया—२सेहि, ईरिसेण वावारेण असंणिहिदा वि सा कहं भटुणा दिट्ठा । प्रथमा—३आम । सो जणो देवीए पस्सगदो चित्ते दिट्ठो । द्वितीया—४कँहं विअ । प्रथमा—५सुँणु । चित्तसालं गदा देवी पच्चग्गवण्णराअं चित्तलेहं आआरिअस्स ओलोअन्ती चिट्ठदि । भट्ठा अ उवट्ठिदो । द्वितीया—६तैदो तदो । प्रथमा—७उँवआराणन्तरं एकासणोवविट्ठेण भटुणा चित्तगदाए देवीए परिअणमज्झगदं आसण्णदारिअं देखिअ देवी पुच्छिदा । द्वितीया—८किं ति । १. देव्या एव वचनेन नाट्याचार्यमार्यगणदासं द्रष्टुम् । उपदेशग्रहणे कीदृशी मालविकेति । २. सखि, ईदृशेन व्यापारेणासंनिहितापि सा कथं भर्त्रा दृष्टा । ३. आम । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः । ४. कथमिव । ५. शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्याव- लोकयन्ती तिष्ठति । भर्ता चोपस्थितः । ६. ततस्ततः । ७. उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजन- मध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा । ८. किमिति । द्रष्टुम्। उपदेशग्रहणे कीदृशी मालविकेति ॥ सखि, ईदृशेन व्यापारेणासंनिहितापि सा कथं भर्त्रा दृष्टा ॥ आमेल्यभ्युपगमे । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ॥कथमिव॥ शृणु। चित्रशालांगता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्यावलोकयन्ती तिष्ठति। भर्ता चोपस्थितः॥ ततस्ततः ॥ उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ॥ किमिति॥ अपूर्वेयं दारिका,
६ मालविकाग्निमित्रे प्रथमा - अपुव्वा इअं दारिआ, आसण्णा अ देवीए आलिहिदा, किंनामहेएत्ति। द्वितीया - आकिदिविसेसेंसु आअरो पदं करेदि। तदो तदो। प्रथमा - तदो अवहीरिअवअणो भट्टा देवीं पुणो अणुबन्धिदुं सङ्किदो। तदो कुमारीए वसुलच्छीए आचक्खिदम्। अज्ज, एसा मालविअत्ति। द्वितीया - (सस्मितम्) सैरिसं खु बालभावस्स। अदो वरं कहेहि। प्रथमा - किं अण्णं। संवदं मालविआ सविसेसं भत्तुणो दंसण- पहादो रक्खीअदि। द्वितीया - हँला, अत्तणो णिओअं अणुचिट्ठ। अहं वि एदं अङ्गुलीअअं देवीए उवणेइस्सम्। (इति निष्क्रान्ता।) प्रथमा - (परिक्रम्यावलोक्य ।) ऎसो णट्टाअरिओ संगीदसालादो णिग्गच्छदि। जाव से अत्ताणं दंसेमि। (इति परिक्रामति।) १. अपूर्वैयं दारिका, आसन्ना च देव्या आलिखिता किंनामधेयेति। २. आकृतिविशेषेष्वादरः पदं करोति। ततस्ततः। ३. ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्धुं शङ्कितः। ततः कुमार्या वसुलक्ष्म्याख्यातम्। आर्य, एषा मालविकेति। ४. सदृशं खलु बालभावस्य। अतः परं कथय। ५. किमन्यत्। सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते। ६. सखि, आत्मनो नियोगमनुतिष्ठ। अहमप्येतदङ्गुलीयकं देव्यै उपनेष्यामि। ७. एष नाट्याचार्यः संगीतशालातो निर्गच्छति। यावदस्यात्मानं दर्शयामि। आसन्ना च देव्या आलिखिता, किंनामधेयेति ॥ आकृतिविशेषेष्वादरः पदं करोति। ततस्ततः ॥ ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्धुं शङ्कितः। ततः कुमार्या वसुलक्ष्म्याख्यातम्। आर्य, एषा मालविकेति। सदृशं खलु बालभावस्य। अतः परं कथय॥ किमन्यत्। सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते।'अपुव्वा इअं दारिआ' इत्यारभ्य 'दंसणपहादो रक्खिअदि' इत्यन्तेन वाक्यकदम्बकेन गम्यमानो मालविकागोचरो राज्ञोऽभिलाषोऽत्र नाटके बीजमित्यनुपश्येयम्॥ सखि, आत्मनो नियोगमनुतिष्ठ। अहमप्येतदङ्गुलीयकं देव्यै उपनेष्यामि॥ एष नाट्याचार्यः
(प्रविश्य ) गणदासः—कामं खलु सर्वस्यापि कुलविद्या बहुमता । न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम् । तथा हि । देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥
संगीतशालातो निर्गच्छति । यावदस्या आत्मानं दर्शयामि ॥ देवानामित्यादि । मुनयो भरतमतङ्गादय इदं नाट्यं देवानामिन्द्रादीनां क्रतुं यज्ञमामनन्ति । कीदृशम् । शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुस्तु- ष्ट्याव्यम् । अस्य नाट्यस्य क्रतुत्वनिरूपणं चतुर्वेदसारनाट्यवेदविहितकर्मत्वादिति मन्तव्यम्। तथा च कुमारसंभवे—'कर्म यज्ञः फलं स्वर्गः' इति। अत्र चतुर्वेदसारत्वं भारतीये प्रतिपादितम्—'सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रदर्शकम् । नाट्यसंज्ञमिमं वेदं सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत- श्चक्रे चतुर्वेदाङ्गसंभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभि- नयान्रसानाथर्वणादपि ॥ वेदोपवेदसंबद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा ललितात्मना ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ॥' इति । प्रकारा- न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम्—'प्रयोगं यश्च कुर्वीत प्रेक्षते चावधानवान् । या गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्।या गतिर्दानशीलानां तां गतिं प्राप्नुयान्नरः॥' इति । पुनः कीदृशमिदं नाट्यम् । रुद्रेणेश्वरेणोमाकृतव्यतिकरे उमया पार्वत्या कृतो व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्स्वाङ्गे आत्मदेहे द्विधा द्विप्रकारेण लास्य- ताण्डवरूपेण विभक्तं पृथक्कृतम् । तथा चोक्तं संगीतविद्याविनोदे—'उद्दण्डताण्डव- मुदञ्चितलास्यलीलां कर्तुं स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्प्रतरा- र्धकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाट्य त्रैगुण्योद्भवम् । त्रयो गुणाः सत्त्वरजस्तमांस्येव त्रैगुण्यम् । चतुर्वर्णादित्वात्स्वार्थे ष्यञ् । तस्मादुद्भवमुद्भूतं लोकचरितं लोकानां लोकस्थानां रामाद्यनुकार्याणां चरितं सुखदुःखमिश्रात्मकं चरितं नानारसं नाना बहुविधा रसाः प्रियतमोपभोग्या यस्मिंस्तत्तथोक्तं दृश्यते ज्ञायते । सामाजिकैरनुभूयत इत्यर्थः। लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं नटेनाभिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः। पुनः कीदृशम् । नाट्यं नटनप्र- योगः । एकमप्येकैकमपि भिन्नरुचेर्भिन्ना बहुविधा रुच्यः प्रीतयो यस्य स तथोक्त-
८ मालविकाग्निमित्रे बकुलावलिका—(उपेत्य १) अज्ज, वन्दामि । गणदासः—भद्रे, चिरं जीव । बकुलावलिका—२अज्ज, देवी पुच्छदि । अवि उवदेसग्गहणे णादिक्किलिस्सदि वो सिस्सा मालविअत्ति । गणदासः—भद्रे, विज्ञाप्यतां देवी परंमनिपुणा मेधाविनी चेति । किंबहुना । यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै । तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥ बकुलावलिका—(आत्मगतम् ।) ३अदिकन्तं विअ इरावदिं पेक्खामि । (प्रकाशम् ।) किदत्था दाणिं वो सिस्सा । जाए गुरुअणो एवं तुस्सदि । १. आर्य, वन्दे । २. आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्यति वः शिष्या मालविकेति । ३. अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या । यस्या गुरुजन एवं तुष्यति । स्तस्य जनस्य बहुधा बहुप्रकारेण शृङ्गारहास्यादिरूपेण समाराधकं संतर्पकम्। तथा चोक्तं भारतीये—'त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् । धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम्। अर्थोपजीविनामर्थो धृतिरुद्विग्नचेतसाम् ॥ नानाभावोप- संपन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ एतद्रसेषु भावेषु सर्वकर्मक्रियासु वा।सर्वोपदेशजननं नाट्यमेतद्भविष्यति॥न तज्ज्ञानं न तच्छिल्- रूपं नासौ विद्या न सा कला । नासौ योगो न तत्कर्म नाट्यऽस्मिन्यन्न दृश्यते ॥'इति॥ आर्य, वन्दे॥ आर्य, देवी पृच्छति। अप्युपदेशग्रहणे नातिक्लिश्यति वः शिष्या मालवि- केति॥ यद्यदित्यादि । प्रयोगविषयेऽभिनयार्थे मया तस्यै मालविकायै यद्यद्भाविकं भाववत् । 'अत इनिठनौ' इति ठन्। नृत्यमित्यर्थः । यथोक्तम्—'अङ्गिकामिनयप्राय- मल्पवाचिकासात्विकम् । भावानामास्पदं नृत्यं पदार्थव्यञ्जनात्मकम् ॥' इति । उप- दिश्यते बोध्यते । तत्तद्विशेषकरणात्तस्य तस्य भाविकस्य विशेषेणातिशयेन करणं निर्वर्तनं मे तस्मात्सा बाला प्रत्युपदिशतीव प्रतिबोधयतीव । अनेन तस्या नृत्ये प्रावीण्यातिशयो गम्यते॥अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या। यस्यां गुरुजन एवं तुष्यति ॥ अस्ति देव्या वर्णवरो भ्राता वीरसेनो नाम भर्त्रा
प्रथमोऽङ्कः ९ गणदासः—भद्रे, । कुतो देव्या तत्पात्रमानीतम् । बकुलावलिका—अत्थि देवीए वण्णावरो भादा वीरसेणो णाम भत्तुणा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे जोग्गा इअं दारिअत्ति भणिअ भइणीए देवीए उवाअणं पेसिदा । गणदासः—(स्वगतम् ।) आकृतिविशेषप्रत्ययादेनामूनवस्तुकां संभावयामि । (प्रकाशम् ।) भद्रे, मयापि यशस्विना भवितव्यम् । यतः । पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥ बकुलावलिका—अह इं । अह कहिं वो सिस्सा । गणदासः—इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यता- मित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति । १. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भर्त्रा नर्मदातीरेऽन्त- पालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता । २. अथ किम् । अथ कुत्र वः शिष्या । नर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्पाधिकारे कलाविद्याधिगम इयं योग्या दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता ॥ अनूनवस्तुकामूनमनल्पं विशिष्टं वस्तु वृत्तं यस्याः सा तथोक्ता तां संभावयामि मन्ये । पात्रविशेष इत्यादि । आधातुरुपदेष्टुः शिल्पं कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं सत् गुणान्तरं गुणविशेषं व्रजति प्राप्नोति। अत्रोपमामाह-पयोदस्य मेघस्य जलं समु- द्रशुक्तौ न्यस्तं सत् मुक्ताफलतां मौक्तिकत्वमिव॥ अथ किम्। अथ कुत्र वः शिष्या॥ इदानीमित्यादि। पञ्चाङ्गाभिनयं पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमित्यर्थः। तस्याभिनयः प्रयोगस्तमिदानीमद्यैवोपदिश्य शिक्षयित्वा। प्रवातं प्रशस्तो वातो यस्मि- न्देशे स तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुक्तं संगीतरत्नाकरे-‘नृत्तं तथा च कैवारो मर्मरो जागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम्॥ त्रिभिस्त्वेवैतत्प्रयोज्यं स्यात्कैवारं जागरं विना ॥’इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं नृत्तं साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानातु मामार्यः ।
१० मालविकाग्निमित्रे बकुलावलिका-तेणं हि पुणो अणुजाणादु मं अज्जो। जाव से अज्जस्स परितोसणिवेयणेण उस्साहं वड्ढेमि। गणदासः-दृश्यतां सखी। अहमपि लब्धक्षणः स्वगृहं गच्छामि। (इति निष्क्रान्तौ।) मिश्रविष्कम्भः। (ततः प्रविशत्येकान्तस्थित परिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा।) राजा-(अनुवाचितलेखममात्यं विलोक्य।) वाह्तव, किं प्रतिप- द्यते वैदर्भः। अमात्यः-देव, आत्मविनाशम्। राजा-संदेशमिदानीं श्रोतुमिच्छामि। अमात्यः-इदमिदानीमनेन प्रतिलिखितम्। पूज्येनाहमादिष्टः। पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसंबन्धो ममोपान्तिकमु- पसर्पन्नन्तरा त्वदीयेनान्तपालेनावस्कन्द्य गृहीतः। स त्वया मदपेक्षया सकलत्रसोदर्यो मोक्तव्य इति। एतन्ननु वो विदितम्। यत्तुल्या- १. तेन हि पुनरनुजानातु मामार्यः। यावदस्या आर्यस्य परितोषनिवे- दनेनोत्साहं वर्धयामि। यावदस्या आर्यस्य परितोषनिवेदनेनोत्साहं वर्धयामि॥ लब्धक्षणो लब्धः प्राप्तः क्षणो निर्व्यापारस्थितिर्विश्रमो येन स तथोक्तः स्वगृहमात्मगृहं गच्छामि॥ मिश्रविष्क- म्भः॥ ततः प्रविशतीत्यादि। वाह्तवेति तस्यामात्यस्य संज्ञा। वैदर्भो विदर्भराजः किं प्रतिपद्यते किं कार्यं मन्यते। संदेशं संदिष्टार्थं श्रोतुमिच्छामि॥ अनेन वैदर्भेणेदं प्रतिलिखितं प्रत्युत्तरत्वेनाभिलिखितम्। पूज्येन पूजार्हेण त्वया अग्निमित्रेणेत्यर्थः। अहं वैदर्भ आदिष्ट आज्ञप्तः। तमेवादेशं विवृणोति-भवत इत्यादिना। भवतस्तव पितृव्यपुत्रः पितृभ्रातृसुतो माधवसेनो नाम प्रतिश्रुतसंबन्धः प्रतिश्रुतोऽङ्गीकृतः संब- न्धः कन्याकप्रदानरूपो येन स तथोक्तो ममोपान्तिकं मत्समीपमुपसर्पन्नुपगच्छन्नाग- च्छन्नन्तरा मध्ये त्वदीयेन त्वत्संबन्धिनान्तपालेन सीमादुर्गरक्षकेणावस्कन्द्य पथिप्र- हृत्य गृहीतो निरुद्धः। बन्दीकृत इत्यर्थः। समाधवसेनस्त्वया भवता मदपेक्षया मय्यपे- क्षा इच्छा। स्नेह इत्यर्थः। तया हेतुना। सकलत्रसोदर्यो भार्याभगिनीसहितः। 'वोपसर्ज- नस्य' इति सहशब्दस्य सादेशः। मोक्तव्यो विसर्जनीयः। इतिः समाप्तौ। एतावता वैदर्भेणाग्निमित्रप्रेषितपत्रिकाथौनुवादः कृत इत्यनुसंधेयम्। इतः परं प्रत्युत्तररूपं वै- दर्भवचनमुच्यते-एतन्ननु वो विदितमित्यादि। एतद्वक्ष्यमाणं वो युष्माकं
भिजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सो- दर्या पुनरस्य ग्रहणविप्लवे विनष्टा . तदन्वेषणाय प्रयतिष्ये . अ थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम- भिसंधिः । मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् । मोक्ता माधवसेनस्ततो मया बन्धनात्सद्यः ॥ ७ ॥ इति । राजा-(सरोषम् ।) कथं कार्यविनिमयेन मयि व्यवहरत्यात्मज्ञः। वाहृतव, प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितसमुन्मूलनाय वीरसेनमुखं दण्डचक्रमाज्ञापय । अमात्यः-यदाज्ञापयति देवः । राजा-अथवा किं भवान्मन्यते । अमात्यः-शास्त्रदृष्टमाहं देवः । अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसंरोपणशिथिलस्तरुखि सुकरः समुद्धर्तुम् ॥ ८ ॥ राजा-तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव वचनं निमित्त- मुपादाय समुद्योज्यतां सेनाधिपतिः । विदितं नन्वित्यत्र काकुरनुसंधेया । तुल्याभिजनेषु समानवंशेषु । ज्ञातिष्वित्यर्थः । राज्ञां वृत्तिर्वर्तनमीदृशयेवंविधेति यत्तन्नु वो विदितमिति संबन्धः । अतोऽस्मात्का- रणादत्रास्मिन्नर्थे पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । अस्य माधवसेनस्य सोदर्या पुनः स्वसा पुनर्गहणविप्लवे विनष्टा तिरोहिता । तदन्वेषणाय तस्या अन्वे- पणाय गवेषणाय प्रयतिष्ये। अथवेति पक्षान्तरे। मोचयितव्यस्त्याजयितव्यः । अभि- संधिर्निश्चयः। मौर्यसचिवमित्यादि। पूज्यो भवान्संयतं लया निगलितं मम श्यालं पत्नीभ्रातरं मौर्यसचिवं मौर्यसचिवनामानं विमुञ्चति यदि त्यजति चेद् तत- स्तस्मात्कारणान्मया सद्यः सपदि माधवसेनो बन्धनान्निगलान्मोक्ता मुक्तो भविता । मुञ्चतेः कर्मणि लुट् । इतिः लिखितार्थसमाप्तौ ॥ प्रकृत्यमित्रः स्वभावतः शत्रुः। अत्र प्रकृत्यमित्रत्वं च विषयानन्तरत्वादिति मन्तव्यम् ॥ अचिराधिष्ठितेत्यादि । स्पष्टोऽर्थः ॥ तेनारूढमूलत्वेन हेतुना तन्त्रकारवचनमर्थशास्त्रकारवचनमवितथं
१२ मालविकाग्निमित्रे अमात्यः—तथा (इति निष्क्रान्त ) (परिजनो यथाव्यापारं राजानमभितः स्थितः ।) (प्रविश्य ।) विदूषकः—आणत्तोम्हि तत्तभवदा रण्णा । गोदम, चिन्तेहि दाव उवाअं । जहा मे जदिच्छादिट्ठपदिकिदी मालविआ पच्छक्ख- दंसणा होदित्ति । मए अ तत्तहा किदं । दाव से णिवेदेमि । (इति परिक्रामति ।) राजा—(विदूषकं दृष्ट्वा ।) अयमपरः कार्यान्तरसचिवोऽस्मा- नुपस्थितः । विदूषकः—(उपगम्य ।) वड्ढदु भवं । राजा—(सशिरःकम्पम् ।) इत आस्यताम् । (विदूषक उपविष्टः ।) राजा—अपि किंचिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः । विदूषकः—३ पओअसिद्धिं पुच्छ । १. आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय तावदुपायम् । यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च तत्तथा कृतम् । तावदस्मै निवेदयामि । २. वर्धतां भवान् । ३. प्रयोगसिद्धिं पृच्छ । हि सत्यमेव । भविष्यतीति शेषः। हिशब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । इदमेव वैदर्भस्य कार्यविनिमयरूपमेव वचनं वाक्यं निमित्तं हेतुमुपादायावलम्ब्य समुद्योज्यतां प्रत्याचर्य्यताम् ॥ आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय ता- वदुपायम् । यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च तत्तथा कृतम् । तावदस्मै निवेदयामि । अत्र गम्यमानं राज्ञो मालविकादर्शनौ- त्सुक्यमारम्भो नाम प्रथमावस्थेति मन्तव्यम्। अत्र बीजारम्भयोः समन्वयान्मुख- संधिरित्यनुसंधेयम्॥वर्धतां भवान् ॥ उपेयोपायदर्शने उपेयस्य साध्यस्य मालविका- साक्षाद्दर्शनस्योपायदर्शने साधनज्ञाने ते प्रज्ञाचक्षुः प्रतिभादृष्टिः किंचिदीषदपि व्या- पृतं प्रसृतम् । अपिः प्रश्ने । अत्र गम्यमानस्य मालविकारूपस्य बीजस्य विन्यासा- दुपेक्षेपो नाम संध्यङ्गमुक्तं भवति ॥ प्रयोगसिद्धिं पृच्छ॥कर्णे । एवमिव । एतद्वचनं
प्रथम अङ्क: हरदत्त-गणदास नाट्य विवाद व मालविका दर्शन
प्रथमोऽङ्कः । ११ राजा—कथमिव विदूषकः—(कर्णे ।) ऐवमिव । राजा—साधु वयस्य; निपुणमुपक्रान्तम् । इदानीं दुरधिगम- सिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे । कुतः । अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ९ ॥ (नेपथ्ये ।) अलं बहु विकत्थ्य । राज्ञः समक्षमेवावयोरधरोत्तरयोर्व्यक्ति- र्भविष्यति । राजा—(आकर्ण्य ।) सखे, त्वत्सुनीतिपादपस्य पुष्पमुद्भिन्नम् । विदूषकः—फलं वि अइरेण दक्खिस्ससि । (ततः प्रविशति कञ्चुकी ।) कञ्चुकी—देव, अमात्यो विज्ञापति अनुष्ठिता प्रभोराज्ञेति । एतौ पुनर्हरदत्तगणदासौ उभावभिनयाचार्यौ परस्परजयैषिणौ । त्वां द्रष्टुमुद्यतौ साक्षाद्भावाविव शरीरिणौ ॥ १० ॥ १. एवमिव । २. फलमप्यचिरेण द्रक्ष्यसि । नियतस्य व्यापारान्तरभेदस्य गुह्यतरार्थस्य प्रयोगे कविना प्रयुक्तम् । तथोक्तम्— ‘कर्णे एवमिवेत्युक्त्वा ज्ञाप्यः पश्चात्प्रसङ्गतः’ इति ॥ इदानीमित्यादि । अस्मि- न्नारम्भे मालविकासाक्षाद्दर्शनोद्योगे दुरधिगमसिद्धावपि दुर्लभसिद्धौ सत्यपीदानीं त्वद्वचनश्रवणानन्तरं वयमाशंसामहे सिद्धिमपेक्षामहे ॥ अर्थमित्यादि । सप्रति- बन्धं सप्रतिरोधमर्थं प्रयोजनमधिगन्तुं लब्धुं सहायवानेव जनः प्रभुः समर्थो भ- वति । ‘इदानीम्’ इत्यादिना ‘सहायवानेव’ इत्यन्तेन तस्य बीजस्य बहुलीकरणत्परि- कर इति संध्यङ्गमुक्तं भवति ॥ नेपथ्य इत्यादि । बहु विकत्थ्यात्मश्लाघां कृत्वारम्। अलमिति प्रतिषेधे । ‘अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति क्त्वाप्रत्ययः॥फल- मप्यचिरेण द्रक्ष्यसि । अत्र बीजस्य दृढीकरणात्परिन्यासो नाम संध्यङ्गमुक्तं भवति॥ उभावित्यादि । शरीरिणौ मूर्ती साक्षाद्भावौ प्रत्यक्षभावाविव नृत्सामिनयार्थाविव॥ माल० २
१४ मालविकाग्निमित्रे राजा—प्रवेशय । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह प्रविष्टः । इत इतो भवन्तौ । गणदासः—(राजानं विलोक्य ।) अहो दुरासदो राजमहिमा । न च न परिचितो न चाप्यरम्य- श्चकितमुपैमि तथापि पार्श्वमस्य । सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥ हरदत्तः—महत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि । द्वारे नियुक्तपुरुषाभिमतप्रवेशः सिंहासनान्तिकचरेण सहोपसर्पन् । तेजोभिरस्य विनिवर्तितदृष्टिपातै- र्वाक्यादृते पुनरिव प्रतिवारितोऽस्मि ॥ १२ ॥ कञ्चुकी—एष देवः । उपसर्पतां भवन्तौ । उभौ—(उपेत्य ) विजयतां देवः । राजा—स्वागतं भवद्भ्याम् (परिजने विलोक्य ।) आसने तावदत्र- भवतोः । (उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ।) राजा—किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप- स्थानम् । गणदासः—देव,श्रूयताम् । तीर्थादभिनयविद्या शिक्षिता। दत्त- प्रयोगश्चास्मि देवेन देव्या च परिगृहीतः । न च न परिचित इत्यादि । अयं राजा परिचितः संस्तुतश्च न भवतीति न, किं तु परिचित एव । अरम्योऽसौम्यश्च न किं तु रम्य एव । तथापि चकितं सभयं यथा भवति तथास्य पार्श्व समीपमुपैमि । शेषं स्पष्टम्॥द्वारे नियुक्तेत्यादि । विनिवर्ति- तदृष्टिपातैर्विनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनःप्रकाशविशेषैस्तु वाक्या- दृते प्रतिषेधवाक्यं विना प्रतिवारित इव निरुद्ध इवास्मि । तीर्थादभिनय विद्ये
**राजा—**बाढं जाने । ततः किम् । **गणदासः—**सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न पादरजसापि तुल्य इत्यधिक्षिप्तः । **हरदत्तः—**देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकः । **विदूषकः—**समत्थं पडिण्णादं । **गणदासः—**प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति । **राजा—**तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः पण्डितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः । **विदूषकः—**सुट्ठु भवं भणादि । **आचार्यौ—**यद्देवाय रोचते । **राजा—**मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध- माहूयतां देवी । **कञ्चुकी—**यदाज्ञापयति देवः । (इति निष्क्रम्य सपरिव्राजिकया देव्या सह प्रविष्टः ।) इत इतो भवती । धारिणी—(परिव्राजिकां विलोक्य ।) भअवदि, हरदत्तस्स गण- दासस्स अ संरम्भे कहं पेक्खसि । **परिव्राजिका—**अलं स्वपक्षावसादशङ्कया । न परिहीयते प्रति- वादिनो गणदासः । १. समर्थं प्रतिज्ञातम् । २. सुष्ठु भवान्भणति । ३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि । त्यादि । तीर्थाद्विशिष्टाद्गुरोरभिनयविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तप्रयो- गश्चास्मि । दत्तः शिष्येभ्यः प्रतिपादितः प्रयोगो विनियोगो येन स तथोक्तः ॥ समर्थं प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पक्षः ॥ न्याय्यो युक्तः । व्यवहारो वि- वादः ॥ सुष्ठु भवान्भणति ॥ भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि कथं मन्यसे । अनयो कतरस्य पराजयं ^ * * । अलं स्वपक्षे
१६ मालविकाग्निमित्रे धारिणी—जंइवि एवं राजपरिग्गहो से पहाणत्तणं उवहरइ । परिव्राजिका—अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु भवती । पश्य । अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादर्कः । अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥ विदूषकः—अइ, उअट्ठिदा देवी पीठमद्दिं पण्डिअकोसिइं पुरोकरिअ धारिणी । राजा—पश्याम्येनाम् । यैषा मङ्गलालंकृता भाति कौशिक्या यतिवेषया । त्रयी विग्रहवत्येव सममध्यात्मविद्यया ॥ १४ ॥ परिव्राजिका—(उपेत्य) विजयतां देवः । राजा—भगवति, अभिवादये । १. यद्यप्येवं राजपरिग्रहोऽस्य प्रधानत्वमुपहरति । २. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य धारिणी । त्यादि । अत्र परिव्राजिकायाः स्त्रीत्वात्प्राकृते प्राप्ते संस्कृताश्रयणं लिङ्गित्वादिति मन्तव्यम् । तथा चोक्तम्—'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥ यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वंमुपहरति ॥ अतिमात्रभासुरत्व- मित्यादि। स्पष्टोऽर्थः ॥ अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुर- स्कृत्य धारिणी। पीठमर्दो नाम कामपुरुषार्थसहायो नायकसमीपवर्ती पुरुषःकथ्यते । तथा चोक्तम्—'पीठमर्दः समीपस्थः कार्यालोचनकोविदः'इति। अत्र विदूषकः परि- हासेन परिव्राजिकायां पण्डितकौशिक्यां तद्धर्ममारोपयतीति मन्तव्यम् ॥ मङ्गले- त्यादि । मङ्गलालंकृता मङ्गलं शोभनं यथा भवति तथालंकृता भूषितैषा धारिणी यतिवेषया यतेः परिव्राजकस्य वेष इव वेषः काषायादिधारणं यस्याः सा तथोक्ता तया कौशिक्या समं सार्धं भाति प्रकाशते । अत्रोपमामाह—विग्रहवत्या शरी- रिण्याध्यात्मविद्यया समं त्रयीव वेदत्रयीव। विग्रहवतीव विभक्तिविपरिणामेन योज-
प्रथमोऽङ्कः । १७ परिव्राजिका— महासारप्रसवयोः सदृशक्षमयोर्द्वयोः । धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥ धारिणी—१जेदुं अज्जउत्तो । राजा—स्वागतं देव्यै । (परिव्राजिकां विलोक्य ।) भगवति, क्रि- यतामासनपरिग्रहः । (सर्वे उपविशन्ति ।) राजा—भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान- संघर्षिणोर्भगवत्या प्राश्निकपदमध्यासितव्यम् । परिव्राजिका—(सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे रत्नपरीक्षा । राजा—नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति- नावहं देवी च । आचार्यो—सम्यगाह देवः । मध्यस्था भगवती नौ गुणदोषतः परिच्छेत्तुर्महति । राजा—तेन हि प्रस्तूयतां विवादः । परिव्राजिका—देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र वाग्व्यवहारेण । कथं वा देवी मन्यते । देवी—२जंइ मं पुच्छसि, एदाणं विवादो एव ण मे रोअदि । गणदासः—देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि । विदूषकः—³भोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ- णदाणेण । १. जयत्वार्यपुत्रः । २. यदि मां पृच्छसि, एतेषां विवाद एव न मे रोचते । ३. भवति, पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन । नीयम् ॥ महासारेत्यादि । महासारप्रसवयोः । महान्सारो वरः प्रसवः संतानं ययोस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं ययोस्ते तयोः । शेषं स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छसि, एतयोर्विवाद एव न मे रोचते ॥ भवति,
१८ मालविकाग्निमित्रे देवी- १णं कलहप्पिओसि । विदूषकः- २मा एवं । अण्णोण्णकलहप्पिआणं मत्तहत्थीं एक्कदरस्सि अणिज्जिदे कुदो उवसमो । राजा-ननु स्वाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती । परिव्राजिका-अथ किम् । राजा-तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् । परिव्राजिका-तदेव वक्तुकामास्मि । श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता । यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥ विदूषकः- ३सुदं अज्जेहिं भअवदीए वअणं । एसो पिण्डितत्थे उवदेसदंसणादो णिण्णओत्ति । हरदत्तः-परमभिमतं नः । गणदासः-देवि, एवं स्थितम् । १. ननु कलहप्रियोऽसि । २. मैवम् । अन्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत- उपशमः । ३. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शना- न्निर्णय इति । पश्याम उरअसंवादम् । किं मुधा वेतनदानेन ॥ ननु कलहप्रियोऽसि ॥ मैवम् । अ- न्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः॥श्लिष्टेत्यादि कस्यचित्कस्यापि पुरुषस्यापि क्रिया शिक्षा । विद्याभ्यास इत्यर्थः । आत्मसंस्था आ- त्मनिष्ठा सती श्लिष्टा संगता । रम्या भवतीत्यर्थः । अन्यस्य पुरुषस्य संक्रान्तिःशिष्येषु क्रियासंक्रमणम् । संक्रान्तिशब्दोऽत्रान्तर्भावितण्यर्थः । विशेषयुक्तातिशयवती । यस्य पुरुषस्योभयम्,आत्मसिद्धिःपरसंक्रमणं च, साधु रम्यं स पुरुष एव शिक्षकाणामुपदे- शकानां धुर्यग्रे प्रतिष्ठां प्रापयितव्य । श्रुतमार्याभ्यां एष पिण्डितार्थ इति अत्र माठ
प्रथमोऽङ्कः । १९ देवी—जँदा उण मन्दमेधा सिस्सा उवदेसं मलिणेन्ति, तदा आअरिअस्स दोसो णु । राजा—देवि, एवमापठ्यते । विनेतुराद्रव्यपरिग्रहोऽपि बुद्धि- लाघवं प्रकाशयतीति । देवी—(स्वगतम्) कँहं दाणिं (गणदासं विलोक्य प्रकाशम् ।)— अलं अज्जउत्तस्स ऊसाहकारणं मणोरहं पूरिअ । विरम णिरत्थ- आदो आरम्भादो । विदूषकः—सुँट्ठु भोदी भणादि । भो गणदास, संगीदपदं लब्भिअ सरस्सईए उवाअणमोदअं खादमाणस्स किं ते सुहणि- ग्गहेण विवादेण । गणदासः—सत्यसमयमेवार्थो देवीवाक्यस्य । श्रूयतामवसरप्रा- प्तमिदानीम् । लब्धास्पदोऽस्मीति विवादभीरो- स्तितिक्षमाणस्य परेण निन्दाम् । यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥ १. यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य दोषो नु । २. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । विरम निरर्थकादारम्भात् । ३. सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपाय- नमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन । क्तिर्नाम संध्यङ्गमुक्तं भवति ॥ यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति,तदा- चार्यस्य दोषो नु । नुः प्रश्ने॥कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा विरम निरर्थकादारम्भात् ॥ सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपायनमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा- स्पदोऽस्मीत्यादि । स्पष्टोऽर्थः ॥ अचिरोपनीतायां शिष्यायां पुनःप्रतिष्ठितस्योप-
२० मालविकाग्निमित्रे देवी—अंइरोवणीदाए सिस्साए उण पडिट्ठिदस्स उवदेसस्स अण्णाय्यं पआसणं । गणदासः—अत एव मे निर्बन्धः । देवीः—तेणं हि दुवेवि उवदेसं भववदीए दंसेध । परिव्राजिका—देवि, नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण- याभ्युपगमो दोषाय । देवी—(जनान्तिकम् ।) मूढे परिव्वाजिए, मं जाग्गंतिंपि सुत्तं विअ करेसि । (इति सासूयं परावर्तते ।) (राजा देवीं परिव्राजिकायै दर्शयति ।) परिव्राजिका— अनिमित्तमिन्दुवदने किमत्र भवतः पराङ्मुखी भवसि । प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ १८ ॥ विदूषकः—णं सकारणं एव । अत्तणो पक्खो रक्खिदव्वो । (गणदासं विलोक्य) दिट्ठिआ कोववाजेण देवीए परित्तादो भवं । सुसिक्खिदो वि सव्वो उवदेसेण णिण्हादो होदि । गणदासः—देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम् १. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यान्याय्यं प्रका- शनम् । २. तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् । ३. मूढे परिव्राजिके, मां जाग्रतीमपि सुप्तामिव करोषि । ४. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । देशस्यान्याय्यं प्रकाशनम् । तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् ॥ मूढे परिव्रा- जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमित्यादि स्पष्टोऽर्थः ॥ ननु सकारणमेव आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भ- वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । अत्र देवीकोपेन वस्तुवि- च्छेदे प्राप्ते विदूषककृत