मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
तृतीयाऽङ्कः । ५१ राजा—सखे, पश्य । आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् । प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥ विदूषकः—१कुदो दे अणुसओ । चिरं भवदा एदं कमेण अ- णुहविदव्वं । बकुलावलिका—२सेहि, अरुणसदपत्तं विअ सोहदि दे च- रणं । सबहा भत्तुणो अङ्कपरिवट्टिणी होहि । (इरावती निपुणिकामपेक्षते ।) राजा—ममेयमाशीः । मालविका—३मा अवअणीअं मन्तेहि । बकुलावलिका—४मए मन्तइदव्वं एव्व मन्तिदं । मालविका—५पिआ खु अहं तव । बकुलावलिका—६ण केवलं मह । मालविका—७कस्स खु अण्णस्स । १. कुतस्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् । २. सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि- वर्तिनी भव । ३. मा अवचनीयं मन्त्रयस्व । ४. मया मन्त्रयितव्यमेव मन्त्रितम् । ५. प्रिया खल्वहं तव । ६. न केवलं मम । ७. कस्य खल्वन्यस्य । स्तो लम्भयितव्यः । अथवा प्रवातमेतत्स्थानम् ॥ आर्द्रालक्तकमित्यादि । मुखमारुतेन वीजयितुं शोषयितुं प्रथमसरो मुख्यतरः प्रतिपन्नः प्राप्तः ॥ कुत- स्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्त्रयस्व ॥ मया मन्त्रयितव्यमेव मन्त्रितम् ॥ प्रिया खल्वहं तव ॥ न केवलं मम ॥ कस्य खल्व-
५२ मालविकाग्निमित्रे बकुलावलिका—^१गुणेसु अहिणिवेसणो भत्तुणो वि । मालविका—^२अलीअं मन्तेसि । एदं एव्व मइ णत्थि । बकुलावलिका—^३सच्चं तुइ णत्थि । भत्तुणो किसेसु वरपण्डुरेसु दीसइ अङ्गेसु निपुणिका—^४पुढमं गुणिदं विअ हदासाए उत्तरं । बकुलावलिका—^५अणुराओ अणुराएण पच्छेइव्वो त्ति सुअ- णवअणं पमाणीकरेहि । मालविका—^६किं अत्तणो छन्देण मन्तेसि । बकुलावलिका—^७णहि णहि । भत्तुणो खु एदाई पणअमिदु- आईं अक्खराई वत्तन्तरिदाई । मालविका—^८हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि । बकुलावलिका—^९मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा- रसस्र्वस्सं किं ण चूदप्पसवो ओदंसिदव्वो । १. गुणेष्वभिनिवेशिनो भर्तुरपि । २. अलीकं मन्त्रयसे । एतदेव मयि नास्ति । ३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु । ४. प्रथमं गुणितमिव हताशाया उत्तरम् । ५. अनुरागोऽनुरागेण प्रष्टेष्टव्य इति सुजनवचनं प्रमाणीकुरु । ६. किमात्मनश्छन्देन मन्त्रयसे । ७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्त्रान्तरितानि । ८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति । ९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत- प्रसवोऽवतंसितव्यः । न्यास ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥ सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥ किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्ष- राणि वक्त्रान्तरितानि ॥ सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न ... ॥
तृतीयोऽङ्कः । ५३ मालविका—तुमं दाव दुज्जादे अच्चंतं सहाया होहि । बकुलावलिका—विमद्देसुरही बउलावलिआ खु अहं । राजा—साधु बकुलावलिके, साधु । भावज्ञानानन्तरं प्रस्तुतेन प्रत्याख्याने दत्तयुक्तोत्तरेण । वाक्येनेयं स्थापिता स्वे निदेशे स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥ इरावती—पेक्ख । कारिदं एव्व बउलावलिआए एदं पदं मालविआए । निपुणिका—भट्टिणि, अहिआरस्स उइदो उवदेसो । इरावती—ठाणे खु संकिदं मे हिअअं । गहीदत्था अणन्तरं चिन्तइस्सं । बकुलावलिका—एसो दुदीओवि दे णिव्वुत्तपरिकम्मा चलणो । जाव णं सणूउरं करेमि । (इति नाट्येन नूपुरयुगलमामुच्य ।) हला, उ- ट्ठेहि । असोअविआसइत्तअं देवीए णिओअं अणुचिट्ठ । (उभे उत्तिष्ठतः ।) १. त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव । २. विमर्दसुरभिर्बकुलावलिका खल्वहम् । ३. पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः । ४. भट्टिनि, अधिकारस्योचित उपदेशः । ५. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि । ६. एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । यावदेनं सनूपुरं क- रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ । त्वं तावद्दुर्जाते दुःखेऽत्यन्तं सहाया भव । 'दुर्वातं व्यसने क्लीबमसम्यग्जात- वस्तुनि' इति केशवस्वामी ॥ विमर्दसुरभिर्बकुलावलिका खल्वहम् ॥ भावज्ञाने- त्यादि । स्पष्टोऽर्थः ॥ पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ॥ भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । गृही- तार्थानन्तरं चिन्तयिष्यामि । एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । या- वदेनं सनूपुरं करोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोग-
५४ मालविकाग्निमित्रे इरावती—सुदो देवीए णिओओ। होदु दाणिं। बकुलावलिका—एसो उवारूढराओ उअभोअक्खमो पुर दे वट्टइ। मालविका—(सहर्षम्।) किं भट्टा। बकुलावलिका—(सस्मितम्।) ण दाव भट्टा। एसो असोअस हावलम्बि पल्लवगुच्छओ। ओदंसेहि णं। विदूषकः—सुदं भवदा। राजा—सखे, पर्याप्तमेतावता कामिनाम्। अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति। परस्परप्राप्तिनिराशयोर्र्वरं शरीरनाशोऽपि समानुरागयोः ॥ १५ ॥ (मालविका रचितपल्लवावतंसा पादमशोकाय प्रहिणोति।) राजा—वयस्य, आदाय कर्णकिसलयमसादियमत्र चरणमर्पयति। उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ १६ ॥ १. श्रुतो देव्या नियोगः। भवत्विदानीम्। २. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते। ३. किं भर्ता ! ४. न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतं सयैनम्। ५. श्रुतं भवता। मनुतिष्ठ ॥ श्रुतो देव्या नियोगः। भवत्विदानीम् ॥ एष उपारूढराग उपभोगक्षम पुरतस्ते वर्तते ॥ किं भर्ता ॥ न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतंसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि। अनातुरोत्कण्ठितयोः। अना तुरोऽनार्तः। उत्कण्ठितः कामोत्कण्ठित इत्यर्थः। प्रसिध्यता संभवता समागमे नापि संसर्गेणापि मां प्रति मामनु। मत्पक्ष इत्यर्थः। रतिर्न शृङ्गारो=भवति। एकानुरागस्य रसाभासत्वात्। तथा चोक्तम्—‘एकत्रैवानुरागश्चेद्वहुसक्तिश्च योषितः। अनौचित्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥’ इति। शेषं स्पष्टम् ॥ आदायेत्यादि। कर्णकिसलयं कर्णपूरार्थं किसलयम् अत्र कर्णशब्देन कर्णपूरो लक्ष्यते ससि
तृतीयोऽङ्कः । ५५ बकुलावलीका—हंला, णत्थि दे दोसो। णिग्गुणो अअं असो- ओ जइ कुसुमोब्भेदमन्धरो हवे, जो दे चलणसक्कारं लब्भिअ । राजा— अनेन तनुमध्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन संभावितः । अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १७ ॥ सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि । विदूषकः—एहि । णं परिहासइस्सं । (उभौ प्रवेशं कुरुतः ।) निपुणिका—भट्टिणि भट्टिणि, भट्ठा एत्थ पविसदि । इरावती—एव्वं पुढमं मम चिन्तिदं हिअएण । विदूषकः—(उपेत्य ।) जुत्तं णाम अत्तहोदो पिअवअस्सो अअं असोओ णं वामपादेण ताडिदुं । उभे—(ससंभ्रमम् ।) अह्मो, भट्ठा । १. सखि, नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदम- न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा । २. एहि । एनां परिहासिष्यामि । ३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति । ४. एवं प्रथमं मम चिन्तितं हृदयेन । ५. युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । ६. अहो, भर्ता । नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्धरो भवेत्, यस्ते चरणस- त्कारं लब्ध्वा ॥ अनेनेत्यादि । स्पष्टोऽर्थः ॥ एहि। एनां परिहासयिष्यामि ॥ भट्टिनि भट्टिनि, भर्तात्र प्रविशति ॥ एवं प्रथमं मम चिन्तितं हृदयेन ॥ युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । 'जुत्तं णाम' इत्यत्र काकुरनुसं-
५६ मालविकाग्निमित्रे विदूषकः-बँउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं अविणअं करन्ती कीस ण णिआरिदा । ( मालविका भयं रूपयति ।) निपुणिका-भट्टिणि, पेक्ख । किं पउत्तं अज्जगोदमेण । इरावती-कहं खु बम्हबन्धु अण्णहा होदि । बकुलावलिका-अज्ज एसा देवीए णिओअं अणुचिट्ठदि । एदस्सि अदिक्कमे परवदी इअं । पसीददु भट्टा । (इत्यात्मना सहैना प्रणिपातयति ।) राजा-यद्येवमनपराधासि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वै- नामुत्थापयति ।) विदूषकः-जुज्जइ । देवी एत्थ माणइदव्वा । राजा- किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे । चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥ (मालविका लज्जां रूपयति ।) १. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न निवारिता । २. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन । ३. कथं खलु ब्रह्मबन्धुरन्यथा भवति । ४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव- तीयम् । प्रसीदतु भर्ता । ५. युज्यते । देव्यत्र मानयितव्या । धेया ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्सम्भ्रमणं नाम संध्यङ्गमुक्तं भवति ॥ भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म- बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति। एतस्मिन्नतिक्रमे परवती- यम्। प्रसीदतु भर्ता ॥ युज्यते। देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।
तृतीयोऽङ्कः । ५७ इरावती—अहो णवणीदकप्पहिअओ अज्जउत्तो । मालविका—बेउलावलिए, एहि । अणुचिट्ठिदं अत्तणो णि- ओअं देवीए णिवेदेह्म । बकुलावलिका—विष्णोवेहि भट्टारं विसज्जेहित्ति । राजा—भद्रे, यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् । बकुलावलिका—अवहिदा सुणाहि । आणवेदु भट्टा । राजा— धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति । स्पर्शामृतेन पूरय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥ इरावती—(सहसोपसृत्य ।) पूरेहि पूरेहि । असोओ कुसुमं ण दंसेदि । अअं उण पुप्फदि एव । (सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः ।) राजा—(अपवार्य्य ।) वयस्य, का प्रतिपत्तिरत्र । विदूषकः—किं अण्णं । जङ्घाबलं एव । १. अहो नवनीतकल्पहृदय आर्यपुत्रः । २. बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः । ३. विज्ञापय भर्तारं विसर्जयेति । ४. अवहिता शृणु । आज्ञापयतु भर्ता । ५. पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्यत्येव । ६. किमन्यत् । जङ्घाबलमेव । स्पष्टोऽर्थः । अत्र प्रसक्त्या संग्रहो नाम संध्यङ्गमुक्तं भवति ॥ अहो नवनीतकल्प- हृदय आर्यपुत्रः ॥ बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवे- दयावः ॥ विज्ञापय भर्तारं विसर्जयेति ॥ अवहिता शृणु । आज्ञापयतु भर्ता ॥ धृतिपुष्पेति । स्पष्टोऽर्थः ॥ पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्यत्येव । अत्र संरम्भवचनात्तोटकं नाम संध्यङ्गमुक्तं भवति ॥ वयस्येत्या- दि । का प्रतिपत्तिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानार्थ- त्वाद्द्वेगो नाम संध्यङ्गमुक्तं भवति ॥ किमन्यत् । जङ्घाबलमेव ॥ बकुलावलिके,
तृतीय अङ्क: दोहद सत्कार, अशोक वृक्ष व इरावती मान
५८ इरावती—^१बउलावलिए, तुए साहु उवक्कन्तं। दाणिं सफलब्भ- त्थणं करेहि उज्जउत्तं। उभे—^२पसीददु भट्टिणी। काओ अह्मे भत्तुणो पणअपरिग्ग- हस्स। (इति निष्क्रान्ते।) इरावती—^३अविस्सणीआ पुरिसा। अत्तणो वञ्चणवअणं पमाणीकरिअ अक्खित्ताए बाहजणगीदगहीदचित्ताए विअ हरिणीए एदं ण विण्णादं। विदूषकः—(जनान्तिकम्।) ^४पडिओएहि दाणिं किंपि। कम्म- ग्गहीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओम्हित्ति वत्तव्वं होदि। राजा—सुन्दरि, न मे मालविकया कश्चिदर्थः। मया त्वं चि- रयसीति यथाकथंचिदात्मा विनोदितः। इरावती—^५विस्संसणीओसि। मएं ण विण्णादं ईरिसं विनोदव- १. बकुलावलिके, त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कु- र्वार्यपुत्रम्। २. प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य। ३. अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चनावचनं प्रमाणीकृत्या- क्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम्। ४. प्रतियोजयेदानीं किमपि। कर्मगृहीतेनापि कुम्भीलकेन संधिच्छेदे शिक्षितोऽस्मीति वक्तव्यं भवति। ५. विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोप- लब्धमिति। अन्यथा दुःखभागिन्यैवं न क्रियते। त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कुर्वार्थपुत्रम्॥ प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य॥ अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चना- वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्येवैतन्न विज्ञा- तम्। एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि। संधेः कृत्रिमभूसंघेश्छेदे भेदने। सुरङ्गाकरण इत्यर्थः। शिक्षितः अभ्यसितोऽस्मीति वक्तव्यं भवति। किमपि प्रतियोजय। उपपन्नमनुपपन्नं वा उत्तरं कुर्वित्यर्थः। विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति।
तृतीयोऽङ्कः । ५९ त्थुअं अज्जउत्तेण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण करीअदि । विदूषकः—मा तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणिदुं समावत्तिदिट्ठेण देवीए परिअणेण संकहाअबराहेण संधावीअदु । इत्थ तुमं एव्व पमाणं । इरावती—णं संकहा णाम होदु । किंति अत्ताणं आआ- सइस्सं । (इति रुषा प्रस्थिता ।) राजा—(अनुसरन् ।) प्रसीदतु भवती । (इरावती रशनासंधारितचरणा व्रजत्येव ।) राजा—सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता । इरावती—सँठ, अविस्ससणीअहिअओसि । राजा— शठ इति मयि तावदस्तु ते परिचयवत्यवधीरणा प्रिये । चरणपतितया न चण्डितां विसृजसि मेखलयापि याचिता ॥ २० ॥ इरावती—इँअं पि हदासा तुमं एव्व अणुसरदि । (इति रशना- मादाय राजानं ताडयितुमिच्छति ।) १. मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् । २. ननु संकथा नाम भवतु । किमित्यात्मानमायासिष्यामि । ३. शठ, अविश्वसनीयहृदयोऽसि । ४. इयमपि हताशा त्वामेवानुसरति । अन्यथा दुःखभागिन्यैवं न क्रियते ॥ विश्वसनीय इत्यत्र विपरीतलक्षणानुसंधेया ॥ मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ॥ ननु संकथा नाम भवतु । किमित्यात्मानमायासिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि । हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।
६० मालविकाग्निमित्रे राजा—इयमिरावती बाष्पसारा हेमकाञ्चीगुणेन श्रोणीबिम्बादप्युपेक्षाच्युतेन । चण्डी चण्डं हन्तुमभ्युद्यता मां विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥ २१ ॥ इरावती—किं^१ मं एव भूओ वि अवरद्धं करेसि । राजा—(सरशनं हस्तमवलम्बयति ।) अपराधिनी मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि । वर्धयसे विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥ नूनमिदमनुज्ञातम् । (इति पादयोः पतति ।) इरावती—णे^२ खु इमे मालविआचलणा, जा दे हरिसदोह पूरियिस्सन्ति । (इति निष्क्रान्ता सह चेट्या !) विदूषकः—उट्ठेहि^३ । किदप्पसादोऽसि । राजा—(उत्थाय इरावतीमपश्यन् ।) कथं गतैव प्रिया । विदूषकः—वँअस्स^४, दिट्ठिआ इमस्स अविणअस्स अप्पसण्ण १. किं मामेव भूयोऽप्यपराद्धां करोषि । २. न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः । ३. उत्तिष्ठ । कृतप्रसादोऽसि । ४. वयस्य, दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा तद्वयं शीघ्रमपक्र- मामः । यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति । तस्मिन्मयि शठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति परिचयादवज्ञा' इति वदन्ति । तस्मादियमवधीरणा युक्तैवेत्यर्थः । हे चण्डि अ त्यन्तकोपने, चरणपतितया मेखलया रशनया याचितापि प्रार्थितापि तामवधीरणां न विसृजसि न त्यजसि । किमिदं युक्तमिति शेषः ॥ इयमपि हताशा त्वामेवानु सरति ॥ बाष्पसारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥ अपराधिनीत्यादि । स्पष्टोऽर्थः ॥ नूनमित्यादि । इदमेतद्रशनासंहरणमनु ज्ञातमनुमतम् । मत्प्रार्थनाया इति शेषः ॥ न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः ॥ उत्तिष्ठ । कृतप्रसादोऽसि । वयस्य, दिष्ट्या अनेनाविनयेना
गदा एसा । ता वअं सिग्धं अवक्कमाम । जाव अङ्गारओ रासिं वि- अ अणुवक्कं परिगमणं ण करेदि । राजा—अहो मदनस्य वैषम्यम् । मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् । एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥ (इति निष्क्रान्तः सह वयस्येन ।) इति तृतीयोऽङ्कः ।
प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति- गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहतमनाः प्रणि- पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः फलमाह—कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि- पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति निपातः। अत्र बीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो- त्तराङ्ककथोपयोगित्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥
माल० ६
६२ मालविकाग्निमित्रे चतुर्थोऽङ्कः । (ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।) राजा—(आत्मगतम् ।) तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः संप्राप्तायां नयनविषयं रूढरागः प्रवालः । हस्तस्पर्शैर्मुकुलित इव व्यक्तरोमोद्गमत्वा- त्कुर्यात्कान्तं मनसिजतरुर्मा रसज्ञं फलस्य ॥ (प्रकाशम् ।) सखे गौतम । प्रतीहारी—जेदुं जेदु भट्ठा । असंणिहिदो गोदमो राजा—(आत्मगतम् ।) आः, मालविकावृत्तान्तज्ञान- प्रेषितः । (प्रविश्य ।) विदूषकः—२वड्ढदु भवं ! राजा—जयसेने, जानीहि तावत्क्व देवी धारिणी त्वाद्विनोद्यत इति । प्रतीहारी—३जं देवो आणवेदि । (इति निष्क्रान्ता ।) राजा—गौतम, को वृत्तान्तस्तत्रभवत्यास्ते सख्याः । विदूषकः—४जो बिडालगहीदाए परहुदिआए । राजा—(सविषादम् ।) कथमिव । १. जयतु जयतु भर्ता । असंनिहितो गौतमः । २. वर्धतां भवान् । ३. यद्देव आज्ञापयति । ४. यो बिडालगृहीतायाः परभृतिकायाः । कविरिदानीमङ्कान्तरमारभते—ततः प्रविशतीत्यादिना । त कुलित इव संजातमुकुल इव कान्तं कामनायुक्तं कुर्यादिति प्रार्थनायां प्रसङ्गितं बीजं प्रकरीस्थाने कृतमिति मन्तव्यम् ॥ जयतु जयतु भर्त हितो गौतम वर्धतां भवान् ॥ यद्देव आज्ञापयति ॥ यो बिडालगृही
चतुर्थोऽङ्कः । ६३ विदूषकः—१सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभू- घरए गुहाए विअ णिक्खित्ता । राजा—ननु मत्संपर्कमुपलभ्य । विदूषकः—२अह इं । राजा—क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी । विदूषकः—३सुणादु भवं । परिव्वाजिआए मे कहिदं । हिओ किल तत्तहोदी इरावती रुअक्कन्तचलणं देविं सुहपुच्छिआ आगदा । राजा—ततस्ततः । विदूषकः—४तदो सा देवीए पुच्छिदा । किणु ओवलोइदो वल्ल- हजणो त्ति । ताए उत्तं । मन्दो वो उवआरो । जं परिजणे संकन्तं वल्लहत्तणं ण जाणीअदि । राजा—निर्भेदाहतेऽपि मालविकायामयमुपन्यासः शङ्कयति । विदूषकः—५तदो ताए अणुखिज्जमाणा सा भवदो अविणअं अन्तरेण परिगदत्था किदा । १. सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव निक्षिप्ता । २. अथ किम् । ३. शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः किल तत्रभवती- रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता । ४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वल्लभजन इति । तयोक्तम् । मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते । ५. ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता । तिकायाः सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव नि- क्षिप्ता ॥ अथ किम् ॥ शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः पूर्वद्युः किल तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकया गता।। ततः सा देव्या पृष्टा।किं न्ववलोकितो वल्लभजन इति । तयोक्तम् ! मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते ॥ निर्भेदादृतेऽपि स्फुटीकरणं विनापि ॥ ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता । धारिणी राजाविनयमिरावत्याः सकाशा-
६४ मालविकाग्निमित्रे राजा—अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय । विदूषकः—किं¹ अदो वरं । मालविआ बउलावलिआ अणि- अलपदीओ अदिट्ठसुज्जपादं पादालवासं णाअकण्णआओ विअ अणुहोन्ति । राजा—कष्टं कष्टम् । मधुरस्वरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ । कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ २ ॥ अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् । विदूषकः—कंहं² भविस्सदि । जं सारभाण्डघरए बाउदा माह- विआ देवीए संदिट्ठा । मह अङ्गुलीअअमुद्दं अदेखिअ ण मोत्तव्वा, मालविआ बउलावलिआ अ त्ति । राजा—(निःश्वस्य । सपरामर्शम् ।) सखे, किमत्र कर्तव्यम् । विदूषकः—(विचिन्त्य ।) अत्थि³ एत्थ उवाओ । राजा—क इव । विदूषकः—(सदृष्टिक्षेपम् । ) को⁴ वि अदिट्ठो सुणोदि । कण्णे दे कहेमि । (इत्युपश्लिष्य कर्णे ।) एवं विअ । (इत्यावेदयति ।) १. किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू- र्यपादं पातालवासं नागकन्यके इवानुभवतः । २. कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सं- दिष्टा । ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति- ३. अस्त्यत्रोपायः । ४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । ज्ञातवतीत्यर्थः ॥ किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू- र्यपादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । स्पष्टोऽर्थः । कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या संदिष्टा । ममाङ्गुलीय- कमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति ॥ अस्त्यत्रोपायः ॥ को- ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । अत्र राज्ञः कर्णे विदूषकोक्त उपायो
चतुर्थोऽङ्कः । ६५ राजा—(सहर्षम् ।) सुष्ठु । प्रयुज्यतां सिद्धये । (प्रविश्य ।) प्रतीहारी—देवं, पवादसयणम्मि देवी णिसण्णा रत्तचन्दण- धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि- ज्जमाणा चिट्ठदि । राजा—तेन ह्यसत्प्रदेशयोग्योऽयमवसरः । विदूषकः—तो गच्छदु भवं । अहं वि देवीं पेक्खिदुं अरि- त्तपाणी भविस्सं । राजा—जयसेनायास्तावदस्मद्रहस्यं विदितं कुरु । विदूषकः—तँह । (इति कर्णे ।) एवं विअ होदि । (इत्यावेद्य नि- ष्क्रान्तः ।) राजा—जयसेने, प्रवातशयनमार्गमादेशय । प्रतीहारी—इँदो इदो देवो । (ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।) देवी—भैअवदि, रमणिज्जं कहावत्थु । तदो तदो । परिव्राजिका—देवि, अतःपरं पुनःकथयिष्यामि । अत्र भगवान्विदिशेश्वरः संप्राप्तः । १. देव, प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्त- गतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति । २. तद्गच्छतु भवान् । अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि । ३. तथा । एवमिव भवति । ४. इत इतो देवः । ५. भगवति, रमणीयं कथावस्तु । ततस्ततः । नियमेन मालविकाप्राप्तिहेतुत्वान्नियताप्तिर्नाम चतुर्थावस्था सूचिता॥अत्रपूर्वं प्रकरी- स्थानोक्तबीजस्यानया नियताप्त्या समन्वयाद्वमशों नाम चतुर्थसंधिः प्रतिपादित इति मन्तव्यम्॥देव,प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ॥ तस्माद्गच्छतु भवान्।अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि ॥ तथा । एवमिव भवति ॥ इत इतो देवः ॥ भगवति,
६६ मालविकाग्निमित्रे देवी—¹अह्नो, भट्ठा । (इत्युत्थातुमिच्छति ।) राजा—अलमलमुपचारयन्त्रणया । अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि । चरणं रुजा परीतं कलभाषिणि मां च पीडयितुम् ॥ ३ ॥ धारिणी—²जेदु अज्जउत्तो । परिव्राजिका—विजयतां देवः । राजा—(परिव्राजिकां प्रणम्योपविश्य ।) देवि, अपि सह्या वेदना । धारिणी—³अज्ज अत्थि मे विसेसो । (ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्ठः संभ्रान्तो विदूषकः ।) विदूषकः—⁴परित्ताअदु परित्ताअदु भवं । सप्पेणह्मि दट्ठो । (सर्वे विषण्णाः ।) राजा—कष्टं कष्टम् । क्व भवान्परिभ्रान्तः । विदूषकः—देविं⁵ देखिस्सं ति आआरपुप्फग्ग्रहणकारणादो पमदवणं गदोह्मि । देवी—⁶हद्धि हद्धि । अहं एव बह्मणस्य जीविदसंसअनिमित्तं जादह्मि । १. अहो, भर्ता । २. जयत्वार्यपुत्रः । ३. अद्यास्ति मे विशेषः । ४. परित्रायतां परित्रायतां भवान् । सर्पेणास्मि दष्टः । ५. देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि । ६. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि । रमणीयं कथावस्तु । ततस्ततः ॥ अहो, भर्ता ॥ अनुचितेनेति । स्पष्टोऽर्थः॥ जयत्वा- र्यपुत्रः॥अद्यास्ति मे विशेषः ॥ तत इति । यज्ञोपवीतेन बद्धोऽङ्गुष्ठो यस्य स तथोक्तः। अत्र कल्पनाया गम्यमानत्वाच्चलनं नाम संध्यङ्गमुक्तं भवति ॥ परित्रायतां परित्रा- यतां भवान् । सर्पेणास्मि दष्टः ॥ देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि ॥ हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि ॥
चतुर्थोऽङ्कः । ६७ विदूषकः—तहिं असोअथवअकारणादो पसारिदे दक्खि- णहत्थे कोडरणिग्गदेण सप्परूवेण कालेण दट्टोम्हि । णं एदे दुवे दंसणपदानि । (इति दंशं दर्शयति ।) परिव्राजिका—तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स ता- वदस्य क्रियताम् । छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोचनम् । एतानि दष्टमात्राणामायुष्याः प्रतिपत्तयः ॥ ४ ॥ राजा—संप्रति विषवैद्यानां कर्म । जयसेने, ध्रुवसिद्धिः क्षि- प्रमानीयताम् । प्रतीहारी—²जं देवो आणवेदि । (इति निष्क्रान्ता ।) विदूषकः—³अहो, पावेण मिच्छुणा गहीदोम्हि । राजा—मा कातरो भूः । अविषोऽपि कदाचिद्दंशो भवेत् । विदूषकः—⁴कँहं ण भाइस्सं । सिमसिमाअन्ति मे अङ्गाईं । (इति विषवेगं रूपयति ।) देवी—⁵हाँ दंसिदं असुहं विआरेण । अवलम्बध बह्मणं । १. तस्मिन्नशोकस्तंबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन स- र्परूपेण कालेन दष्टोऽस्मि । नन्वेते द्वे दंशपदे । २. यद्देव आज्ञापयति । ३. अहो, पापेन मृत्युना गृहीतोऽस्मि । ४. कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । ५. हा, दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् । तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि । नन्वेते द्वे दंशपदे ॥ छेदो दंशस्येत्यादि । स्पष्टोऽर्थः ॥ ध्रुवसिद्धि- रिति तस्य वैद्यस्य नाम ॥ यद्देव आज्ञापयति ॥ अहो, पापेन मृत्युना गृहीतोऽस्मि ॥ कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । अनेन संतापः सूच्यते । विषवेगं विष- प्राप्तिं रूपयति प्रकाशयति विषवेगास्तु कथिता 'वैवर्ण्यं वेपथुर्दाह-
६८ मालविकाग्निमित्रे (परिव्राजिका ससंभ्रममवलम्बते ।) विदूषकः—(राजानं विलोक्य ।) १भोः, भवदो बाह्लादोवि पिय- वअस्सोह्नि । तं विआरिअ अवुत्ताए मे जणणीए जोगक्खेमं वहेसु । राजा—मा भैषीर्गौतम । स्थिरो भव । अचिरात्त्वां वैद्यश्चिकि- त्सिष्यति । (प्रविश्य ।) जयसेना—देवे, आणाविदो धुवसिद्धी विण्णावेदि । इह एव आणीअदु सो गोदमोत्ति । राजा—तेन हि प्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय । जयसेना—३तहा । विदूषकः—(देवीं विलोक्य ।) ४भोदि, जीवेअं वा ण वा । जं मए अत्तभवन्तं सेवमाणेण ते अवरद्धं तं मरिसेहि । देवी—दीहाऊ होहि । (निष्क्रान्तौ विदूषकः प्रतीहारी च ।) राजा—प्रकृतिभीरूस्तपस्वी ध्रुवसिद्धिमपि यथार्थनामानं सि- द्धिमन्तं न मन्यते । १. भोः, भवतो बाल्यादपि प्रियवयस्योऽस्मि । तं विचार्यापुत्राया मे जनन्या योगक्षेमं वह । २. देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानी्यतां स गौतम इति । ३. तथा । ४. भवति, जीवेयं वा न वा । यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व । ५. दीर्घायुर्भव । ष्टम् । दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ॥ भोः, भवतो बाल्यादपि प्रि- यवयस्योऽस्मि । तं विचार्यापुत्राया मे जनन्या योगक्षेमं वह ॥ देव, आज्ञापितो ध्रु- वसिद्धिर्विज्ञापयति । इहैवानी्यतां स गौतम इति ॥ तथा ॥ भवति, जीवेयं वा न वा। यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व ॥ दीर्घायुर्भव ॥ जयतु भर्त्ता । ध्रुव-
चतुर्थोऽङ्कः । ६९ (प्रविश्य ।) जयसेना—जेदुं भट्टा । धुवसिद्धी विष्णावेदि । उदकुम्भवि- हाणेण सप्पमुद्दिअं किंपि कप्पिदव्वं । तं अण्णेसीअदु त्ति । देवी—इदं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि णं । (इत्यङ्गुलीयकं ददाति ।) (प्रतीहारी गृहीत्वा स्थिता ।) राजा—कर्मसिद्धावाशु प्रतिपत्तिमानय । प्रतीहारी—जं³ देवो आणवेदि । परिव्राजिका—यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः । राजा—भूयादेवम् । (प्रविश्य ।) जयसेना—जेदुँ⁴ देवो । णिवुत्तविसवेगो गोदमो मुहुत्तेण पकिदित्थो संवृत्तो । देवी—⁵दिट्ठिआ । प्रतीहारी—⁶एसो उण अमच्चो वाहतओ विण्णावेदि । रा- अकज्जं बहु मन्तिदव्वं । दंसणेण अणुग्गहं इच्छामि त्ति । १. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्विष्यतामिति । २. इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् । ३. यद्देव आज्ञापयति । ४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः । ५. दिष्ट्या । ६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्यं बहु मन्त्रयित- व्यम् । दर्शनेनानुग्रहमिच्छामीति । सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि- ष्यतामिति ॥ इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतद् ॥ यद्देव आज्ञाप- यति जयतु देव । गौतमो मुहूर्तेन प्रकृतिस्थ संवृत्त दिष्ट्या ॥
७० मालविकाग्निमित्रे देवी—^१गच्छदु अज्जउत्तो कज्जसिद्धीए । राजा—आतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र- शस्ता । तदन्यत्र नीयतां शयनम् । देवी—^२बालिआओ, अज्जउत्तवअणं अणुचिट्ठह । परिजनः—^३तह । (निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।) राजा—जयसेने, मां गूढेन पथा प्रमदवनं प्रापय । प्रतीहारी—^४इँदो इदो देवो । राजा—जयसेने, समाप्तकरणीयो ननु गौतमः । प्रतीहारी—^५अह इं । राजा— इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा । संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥ (प्रविश्य ।) विदूषकः—^६वँड्ढदु भवं । सिद्धांई दे मङ्गलकम्माईं । राजा—जयसेने, त्वमपि नियोगमशून्यं कुरु । प्रतीहारी—^७जं देवो आणवेदि । (इति निष्क्रान्ता ।) १. गच्छत्वार्यपुत्रः कार्यसिद्धये । २. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत । ३. तथा । ४. इत इतो देवः । ५. अथ किम् । ६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि । ७. यद्देव आज्ञापयति । हमिच्छामीति ॥ गच्छत्वार्यपुत्रः कार्यसिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥ तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ- वान् । सिद्धानि ते यद्देव देव्या अङ्गुलीयकमुद्रा