भारतकोश
संग्रह पर लौटें

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

चतुर्थोऽङ्कः । ८३ बकुलावलिका—१पसीददु भट्टिणी । किं णु खु दहुरा वा- हरन्ति त्ति देवीए पुढवीए देवो वरिसिदुं विरमदि । विदूषकः—२मो दाव । भोदीए दंसणमेत्तेण अत्तभवं पणिवा- दलङ्घणं विसुमरिदो । तुमं उण अज्जवि पसादं ण गेण्हसि । इरावती—३कुविदा दाणिं अहं किं करिस्सं । राजा—अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि । कदा मुखं वरतनु कारणादृते तवागतं क्षणमपि कोपपात्रताम् । अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति ॥ १६ ॥ इरावती—४अट्ठाणेत्ति सुष्ठु वाहरिदं अज्जउत्तेण । अण्णसंकन्तेसु अह्माणं भाअहेएसु जदि उण कुप्पेअं, तदो हस्सा भवेअं । राजा—त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं न पश्यामि । १. प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्ती देव्या पृथिव्यां देवो वर्षितुं विरमति । २. मा तावत् । भवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः । त्वं पुनरद्यापि न गृह्णासि । ३. कुपितेदानीमहं किं करिष्यामि । ४. अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भाग- धेयेषु यदि पुनः कुप्येयम्, ततो हास्या भवेयम् । षया संपूर्णा ते प्रतिज्ञा ॥ प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्त्या- क्रोशन्तीति देव्यां पृथिव्यां देवो वर्षितुं विरमति ॥ मा तावत् । भवत्या दर्शन- मात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः । त्वं पुनरद्यापि प्रसादं न गृह्णासि ॥ कुपितेदानीमहं किं करिष्यामि ॥ कदेति । स्पष्टोऽर्थः ॥ अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम्, ततो

८४ मालविकाग्निमित्रे नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो दण्डम् । इति मोचितै मयैते प्रणिपतितुं मामुपगते च ॥ १७ ॥ इरावती—णिंउणिए, गच्छ । देवीं विण्णावेहि । दिठ्ठो भ- वदीए पक्खवादो णं अज्जत्ति । निपुणिका—तह । (इति निष्क्रान्ता ।) विदूषकः—(आत्मगतम् ।) ३भो, अणत्थो संपडिदो । बन्धणब्भट्टा गिहकवोदो बिडालिआए आलोए पडिदो । (प्रविश्य ।) निपुणिका—(अपवार्य ।) ४भट्टिणि, जदिच्छादिट्ठाए माहविआए आचक्खिदं एवं खु एदं णिव्वृत्तंति । (इति कर्णे कथयति ।) इरावती—(आत्मगतम् ।) ५उववण्णं । सच्चं अअं एत्थ ब्रह्मबन्धुणा किदो पओओ । (विदूषकं विलोक्य ।) इअं इमस्स कामतन्तसचिवस्स णीदी । १. निपुणिके, गच्छ । देवीं विज्ञापय । दृष्टो भवत्याः पक्षपातो नन्वद्येति । २. तथा । ३. भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहकपोतो बिडालिकाया आलोके पतितः । ४. भट्टिनि, यदृच्छादृष्टया माधविकयाख्यातम् । एवं खल्वेतन्निर्वृ- त्तमिति । ५. उपपन्नम् । सत्यमयमत्र ब्रह्मबन्धुना कृतः प्रयोगः । इयमस्य कामतन्त्रसचिवस्य नीतिः । हास्या भवेयम् ॥ नार्हतीत्यादि । स्पष्टोऽर्थः ॥ निपुणिके, गच्छ । देवीं विज्ञापय । दृष्टो भवत्याः पक्षपातो नन्वद्येति ॥ तथा ॥ भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहकपोतः पारावतो बिडालिकाया आलोके पतितः ॥ भट्टिनि, यदृच्छादृष्टया माधविकयाख्यातम् । एवं खल्वेतन्निर्वृत्तमिति ॥ उपपन्नम्। सत्यमयमत्र ब्रह्मबन्धुना कृत प्रयोगः । इयमस्य कामतन्त्रसचिवस्य नीतिं ॥ भवती, यदि नीतिगतमेक

चतुर्थोऽङ्कः । ८५ विदूषकः—भोदि, जदि णीदिगदं एकवि अक्खरं पढेअं, णं मए अत्तभवं पेसिदो हवे । राजा—(आत्मगतम् ।) कथं नु खल्वस्मात्संकटादात्मानं मो- चयिष्यामि । (प्रविश्य ।) जयसेना—देवं, कुमारी वसुलच्छी कन्दुअं अणुधावन्ती पि- ङ्गलवाणरेण बलिअं तासिदा अङ्कणिसण्णा देवीए पवादकिसलअं विअ वेवमाणा ण किंचि पकिदिं पडिवज्जइ । राजा—कष्टम् । कातरो बालभावः । इरावती—(सावेगम्।) तुँवरदु अज्जउत्तो णं समासासिदुं । मा- से संतासजणिदो विआरो वड्डु । राजा—अयमेनां संज्ञापयामि । (इति सत्वरं परिक्रामति ।) विदूषकः—साँहु रे पिङ्गलवाणर, साहु । परित्तादो तुए स- पक्खो । (निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ।) १. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रे- षितो भवेत् । २. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवत्रा- सिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते । ३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो विकारो वर्धताम् । ४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया स्वपक्षः । मप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु- कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते ॥ त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो विकारो वर्धताम् ॥ साधु रे पिङ्गलवानर, साधु । परित्रात- माल० ८

८६ मालविकाग्निमित्रे मालविका—हंला, देविं चिन्तिअ वेवदि मे हिअअं। ण जाणे अदो वरं किं वा अणुहविदव्वं भविस्सदिति। (नेपथ्ये) अच्चरिअं अच्चरिअं। अपुण्णे एव पञ्चरत्ते दोहलस्स मुउलेहिं संगद्धो तवणीआसोओ। जाव देवीए णिवेदेमि। (उभे श्रुत्वा प्रहृष्टे।) बकुलावलिका—आससिदु सही। सच्चप्पइण्णा देवी। मालविका—तेणँ हि पमदवणपालिआए पुट्ठदो होमि। बकुलावलिका—तँह। (इति निष्क्रान्ते।) इति चतुर्थोऽङ्कः। १. सखि, देवीं चिन्तयित्वा वेपते मे हृदयम्। न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति। २. आश्चर्यमाश्चर्यम्। अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्ध- स्तपनीयाशोकः। यावद्देव्यै निवेदयामि। ३. आश्वसितु सखी। सत्यप्रतिज्ञा देवी। ४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः। ५. तथा। स्तया स्वपक्षः। अहमिति शेषः॥ सखि, देवीं चिन्तयित्वा वेपते मे हृदयम्: न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति॥ आश्चर्यमाश्चर्यम्। अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्तपनीयाशोकः। यावद्देव्यै निवेदयामि। आश्वसितु सखी॥ सत्यप्रतिज्ञा देवी। अत्र देव्यनुग्रहरूपकार्यसंग्रहणादादानं नाम संध्यङ्गमुक्तं भवति॥ तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः॥ तथा। इदं मालविकाकृतमुद्यानपालिकानुसरणमुत्तराङ्कोपयुक्तत्वाद्बिन्दुरित्यनुसंधेयम्। इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्नि- चतुर्थोऽङ्कः॥

पञ्चमोऽङ्कः । ८७ पञ्चमोऽङ्कः । (ततः प्रविशत्युद्यानपालिका ।) उद्यानपालिका—उवक्खित्तो मए किदसकारविहिणो तवणी- आसोअस्स वेदिआबन्धो । जाव अणुद्विदणिओअं अत्ताणं देवीए णिवेदेमि । (परिक्रम्य ।) अहो दैवस्स अणुकम्पणीआ मालविआ । तस्सिं तह चण्डिआ देवी इमिणा असोअकुसुमवुत्तन्तेण पसादसुमुही भविस्सदि कहिं णु खु देवी हवे । (विलोक्य ।) अह्मो, एसो देवीए परिअणब्भन्तरो किंपि जदुमुद्दारुन्द्धिदं मञ्जू सं गेण्हिअ चदुस्सा- लादो कुज्जो सारसिओ णिकमदि । पुच्छिस्सं दाव णं । (उपसृत्य ।) सारसिअ, कहिं पत्थिदोसि । सारसिकः—मेहुअरिए, विज्जाभरीआणं बह्मणाणं णिच्छद- क्खिणामाडिआ पुरोहिदस्स हत्थं पावइस्सं । १. उपक्षिप्तो मया कृतसत्कारविधिस्तपनीयाशोकस्य वेदिकाबन्धः । यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति । कुत्र न खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्यन्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको निष्क्रामति । प्रक्ष्यामि तावदेनम् । सारसिक, कुत्र प्रस्थितोऽसि । २. मधुकरिके, विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका पुरोहि- तस्य हस्तं प्रापयिष्यामि । कविरिदानीमङ्कान्तरमारभमाणः यथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षेपकं प्रस्तौति—ततः विशतीत्यादि । उपक्षिप्तो मया कृतसत्कारविधिस्तपनीया- शोकस्य वेदिकाबन्धः । यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति । कुत्र नु खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्य- न्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको निष्क्रामति प्रक्ष्यामि तावदेनम् सारसिक, कुत्र प्रस्थितोऽसि ॥ मधुकरिके,

८८ मालविकाग्निमित्रे उद्यानपालिका—¹किंणिमिचं । सारसिकः—²जैदप्पहुदि सेणावदी जण्णतुरंगरक्खणे णिउत्तो भद्दिदारओ वसुमित्तो, तदप्पहुदि तस्स आउसणिमित्तं णिक्कसदसु- वण्णपरिमाणं दक्खिणं देवी दक्खिणीएहिं परिग्गाहेदि । उद्यानपालिका—³अह कहिं देवी । किं वा अणुचिट्ठदि । सारसिकः—⁴मङ्गलघरे आसणत्था भविअ विदब्भविसाआदो भादुणा वीरसेणेण पेसिदं लेहं लेहकरेहिं वाइअंमाणं सुणादि । उद्यानपालिका—को⁵ उण विदब्भराअव्वुत्तन्तो सुणीअदि । सारसिकः—⁶वसीकिदो किल वीरसेणप्पमुहेहिं भत्तुणो विजअ- दण्डेहिं विदब्भणाहो मोइदो से दाआदो माहवसेणो । दूदो अ १. किंनिमित्तम् । २. यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको ˚वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः परिग्राहयति । ३. अथ कुत्र देवी । किं वानुतिष्ठति । ४. मङ्गलगृह आसनस्था भूत्वा विदर्भविषयाद्भात्रा · वीरसेनेन प्रेषितं लेखं लेखकैर्वाच्यमानं शृणोति । ५. कः पुनर्विदर्भराजवृत्तान्तः श्रूयते । ६. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः । मोचितो- ऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शि- ल्पकारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति । यिष्यामि ॥ किंनिमित्तम् ॥ यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः परिग्राहयति । दक्षिणीयो दक्षिणार्हः । 'कडङ्करदक्षिणाच्च च' इति छप्र- त्ययः ॥ अथ कुत्र देवी । किं वानुतिष्ठति ॥ मङ्गलगृह आसनस्था भूत्वा विदर्भ- विषयाद्भात्रा वीरसेनेन प्रेषितं लेखं लेखकैर्वाच्यमानं शृणोति । कः पुनर्विदर्भरा- जवृत्तान्तः श्रूयते ॥ वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः ।

पञ्चमोऽङ्कः । ८९ तेण महासाराणि रअणाणि वाहणाइ सिप्पआरिआभूइट्ठं परिअणं उवाअणीकरिअ भट्ठिणो सआसं पेसिदोत्ति । उद्यानपालिका—अहं वि देवीए सआसं गच्छम्हि । तुमं वि अत्तणो णिओअं अणुचिट्ठ । (इति निष्क्रान्तौ ।) इति प्रवेशकः । (ततः प्रविशति प्रतीहारी ।) प्रतीहारी—आणत्तम्हि असोअसक्कारवावुदाए देवीए । विण्णावे- हि अज्जउत्तेण सह असोअरुक्खस्स पसूनलच्छिं पच्चक्खीकादुंति । ता जाव धम्मासणगदं देवं पडिवालेमि । (इति परिकामति ।) (नेपथ्ये वैतालिकाः ।) प्रथमः—दिष्ट्या दण्डैरेव रिपुशिरःसु वर्तते देवः । परभृतकलव्याहारेषु त्वमाचरतिर्मधुं नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् । विजयकरिणामालानत्वं गतैः प्रबलस्य ते वरद वरदारोधोवृक्षैः सहावनतो रिपुः ॥ १ ॥ १. अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ । २. आज्ञाप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तद्यावद्धर्मासनगतं देवं प्रतिपालयामि । मोचितोऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शिल्प- कारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ॥ अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ ॥ ततः प्रविशतीत्यादि । आज्ञाप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तस्माद्यावद्धर्मासनगतं देवं प्रतिपालयामि ॥ परभृतेत्यादि । स्रग्धोऽधैः ॥ विरचितेति । क्रथकैशिकान्विदर्भदेशान्मध्ये-

द्वितीयः— विरचितपदं वीरप्रीत्या सुरोपमसूरिभि- श्चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान् । तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं परिघगुरुभिर्दोर्भिर्विष्णोः प्रसभ्य च रुक्मिणीम् ॥ २ ॥ प्रतीहारी—ऐसो जससद्दसूइदपत्थाणो भट्टा इदो एव्व आअ- च्छदि । अहं वि दाव इमस्स पमुहादो लोआदो ओसरिअ खम्भ- न्तरिदा होमि । (इत्येकान्ते स्थिता ।) (प्रविश्य सवयस्यः ।) राजा— कान्तां विचिन्त्य सुलभेतरसंप्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च । धाराभिर्रातप इवाभिहतं सरोजं दुःखायते मम मनः सुखमश्नुते च ॥ ३ ॥ विदूषकः—जेह अहं पेक्खामि । एकन्तसुहिदो भवं भविस्सदि। राजा—कथमिव । विदूषकः—अज्ज किल देवीए एवं पण्डितकौशिकी भणिदा । १. एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति । अहमपि ताव- दस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि । २. यथाहं पश्यामि । एकान्तसुखितो भवान्भविष्यति । ३. अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसा- धनगर्वं वहसि, तद्दर्शय मालविकायाः शरीरे विवाहनेपथ्यमिति । तया सविशेषांलंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् । कृत्य । आक्रम्येत्यर्थः । 'मध्ये पदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति समासः । 'समासे नञ्पूर्वे क्त्वो ल्यप्' । शेषं स्पष्टम् ॥ एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति। अहमपि तावदस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ॥ कान्तां विचिन्त्येत्यादि । सुलभेतरसंप्रयोगामसुलभसमागमाम् । दुःखायते 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । अत्र मालविकारूपबीजानुसंधानात्संधिर्ना- म निर्वह भवति यथाहं पश्यामि एकान्तसुखितो भवान्भविष्यति ॥

पञ्चमोऽङ्कः । ९१ भअवदि, जं तुमं पसाहणगव्वं वहसि, तं दंसेहि मालविआए स- रीरे विवाहुणेवच्छं ति । ताए सविसेसालंकिदा मालविआ । तत्तहोदी कदावि पूरए भवदोवि मणोरहं । राजा—सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वाचरितैः संभाव्यत एवैतत् । प्रतीहारी—(उपगम्य ।) जेदुं भट्टा । देवी विण्णावेदि । तवणी- आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु त्ति । राजा—ननु तत्रैव तिष्ठति । प्रतीहारी—^२अह इं । जहारहसंमाणसुहिअं अन्तेउरं विस- जिअ मालविआपुरोएण अत्तणो परिअणेण सह देवं पडिवालेदि । राजा—(सहर्षं विलोक्य विदूषकम् ।) जयसेने, गच्छाग्रतः । प्रतीहारी—^३एदु एदु देवो । (इति परिक्रामति ।) विदूषकः—(विलोक्य ।) भो^४ वअस्स, किंचि परिवुत्तजोव्वणो विअ वसन्तो पमदवणे लक्खीअदि । १. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद- र्शनेन ममारम्भः सफलः क्रियतामिति । २. अथ किम् । यथार्हसंमानसुखितमन्तःपुरं विसृज्य मालविकापुरो- गेणात्मनः परिजनेन सह देवं प्रतिपालयति । ३. एत्वेतु देवः । ४. भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते कथमिवेति प्रश्ने । अत्र कार्यानवेषणाद्रोधो नाम संध्यङ्गमुक्तं भवति ॥ अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसाधनगर्वं वहसि, तद्दर्शय माल- विकायाः शरीरे विवाहनेपथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती धारिणी कदाचित्पूरयेद्भवतोऽपि मनोरथम् । अत्र कार्योपदर्शनात्पूर्वभाव इति संध्य- ङ्गमुक्तं भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहदर्शनेन समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्हसंमानसुखितमन्तःपुरमव- रोधजनं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति ॥ एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते ॥ अग्रे

९२ मालविकाग्निमित्रे राजा—यथाह भवान् । अग्रे विकीर्णकुरवकफलजालकभिद्यमानसह्कारम् । परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ४ ॥ विदूषकः—(परिक्रम्य ।) अहो, अअं सो दिण्णणेवच्छो विअ कुसुमत्थवएहिं तवणीआसोओ । ओलोअदु भवं । राजा—स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्या- धारणीं शोभामुद्वहति । पश्य । सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् । निर्वृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥ विदूषकः—तंह । भो, वीसद्धो होहि । अम्हेसु संणिहिदेसु वि- धारिणी पासपरिवट्टिणिं मालविअं अणुमण्णेदि । राजा—(सहर्षम् ।) सखे, पश्य । मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रिया । विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥ (ततः प्रविशति धारिणी मालविका परिव्राजिका विभवतश्च परिवारः ।) मालविका—(आत्मगतम् ।) जाणामि णिमित्तं कोदुआलंकारस्स । १. अहो, अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव- लोकयतु भवान् । २. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व- परिवर्तिनीं मालविकामनुमन्यते । ३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृदयं बिसिनीप- त्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरति विकीर्णकुरबकेत्यादि । स्पष्टोऽर्थः ॥ अहो, अयं स दत्तनेपथ्य इव कुसुमस्तब- कैस्तपनीयाशोकः । अवलोकयतु भवान् ॥ सर्वाशोकतरूणामित्यादि । स्पष्टो- ऽर्थ ॥ तथा मो, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्वपरिवर्तिनीं ते मामियमिति स्पष्टोऽर्थ ॥जानामि निमित्त कौतुकाम्फा

पञ्चमोऽङ्कः । ९३ तह वि मे हिअअं बिसिणीपत्तगदं विअ सलिलं वेवदि । अविअ दक्खिणेदरं वि णअणं बहुसो फुरदि । विदूषकः—१भो वअस्स, विवाहेणवेच्छेण सविसेसं खु सोहदि मालविआ । राजा—पश्याम्येनाम् । यैषा अनतिलम्बिदुकूलनिवासिनी बहुभिराभरणैः प्रतिभाति मे । उडुगणैरदयोन्मुखचन्द्रिका हतहिमैरिव चैत्रविभावरी ॥ ७ ॥ देवी—(उपेत्य ।) २जेदु अज्जउत्तो । विदूषकः—३वढ्ढदु भोदी । परिव्राजिका—विजयतां देवः । राजा—भगवति, अभिवादये । परिव्राजिका—अभिप्रेतसिद्धिरस्तु । देवी—(सस्मितम् ।) ४अज्जउत्त, एस ते अह्मेहिं तरुणीजणसहा- .स्स असोओ संकेदघरो कप्पिदो । विदूषकः—५मो, आराहिओसि । १. भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका । २. जयत्वार्यपुत्रः । ३. वर्धतां भवती । ४. आर्यपुत्र, एष तेऽस्माभिस्तरुणीजनसहायस्याशोकः संकेतगृहं कल्पितः । ५. भोः, आराधितोऽसि । .स। तथापि मे हृदयं बिसिनीपत्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे यनं बहुशः स्फुरति ॥ भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका॥ नतिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयत्वार्यपुत्रः ॥ वर्धतां भवती ॥ आर्य- त्र, एष तेऽस्माभिस्तरुणीजनहितस्याशोकः संकेतगृहं कल्पितः ॥ भोः, आरा-

९४ मालविकाग्निमित्रे राजा—(सव्रीडमशोकमभितः परिक्रामन् ।) नायं देव्या भाजनत्वं न नेयः सत्काराणामीदृशानामशोकः । यः सावज्ञो माधवश्रीनियोगे पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥ विदूषकः—१भो, वीसद्धो भविअ तुमं जोबणवदिं इमं देवी—२कं । विदूषकः—३भोदि, तवणीआसोअस्स कुसुमसोहम् । (सर्व उपविशन्ति ।) राजा—(मालविकां विलोक्य । आत्मगतम् ।) कष्टः खलु वियोगः । अहं रथाङ्गनामेव प्रिया सहचरीव मे । अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ९ ॥ (प्रविश्य ।) कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति विषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलघुशरे इति प्रवेशिते । संप्रति देवोपस्थानयोग्ये संवृत्ते । तदाज्ञां देवो ऽर्हतीति । राजा—प्रवेशय ते । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह इतो भवत्यौ । १. भोः, विस्रब्धो भूत्वा त्वं यौवनवतीमिमां पश्य । २. काम् । ३. भवति, तपनीयाशोकस्य कुसुमशोभाम् । ष्ठितोऽसि ॥ नायं देव्या इत्यादि । स्पष्टोऽर्थः ॥ भोः, विस्रब्धो भू- नवतीमिमां पश्य ॥ काम् ॥ भवति, तपनीयाशोकस्य कुसुमशोभाम् रथाङ्गेत्यादि स्पष्टोऽर्थः ॥ सखि मदनिके, अपूर्वमिमं राजकुलं प्रविष्टा

पञ्चमोऽङ्कः । ९५ प्रथमा—१हेला मदणिए, अपुव्वं इमं राउउलं पविसन्तीए पसी- ददि मे हिअअं । द्वितीया—२जोसिणीए, अत्थि खु लोअप्पवादो । आआमि सुहं दुक्खं वा हिअअसमवस्था कहेदित्ति । प्रथमा—३सो सच्चो दाणिं होदु । कञ्चुकी—एष देव्या सह देवस्तिष्ठति । उपसर्पतां भवत्यौ (उभे उपसर्पतः ।) (मालविका परिव्राजिका च चेष्ट्यौ दृष्ट्वा परस्परमवलोकयतः ।) उभे—(प्रणिपत्य ।) ४जेदुं भट्टा । जेदु भट्टिणी । (राजाज्ञया उभे उपविष्टे ।) राजा—कस्यां कलायामभिविनीते भवत्यौ । उभे—५भट्टा, संगीदे अब्भन्तरह्म । राजा—देवि, गृह्यतामनयोरन्यतरा । देवी—६मालविए, इदो पेक्ख । कदरा ते संगीदसहआरिणी रुच्चदि । १. सखि मदनिके, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसीदति मे हृदयम् । २. ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगमि सुखं दुःखं वा हृदयसमवस्था कथयतीति । ३. स सत्य इदानीं भवतु । ४. जयतु भर्ता । जयतु भट्टिनी । ५. भर्तः, संगीतेऽभ्यन्तरे स्वः । ६. मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी रोचते । दति मे हृदयम् ॥ ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगमि सुखं दुःखं वा हृदयसमवस्था कथयतीति ॥ स सत्य इदानीं भवतु ॥ जयतु भर्ता। जयतु भट्टिनी ॥ भर्तः, संगीतेऽभ्यन्तरे स्वः ॥ मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी

पञ्चम अङ्क: वसुमित्र की विजय, विवाह व उपसंहार

९६ मालविकाग्निमित्रे उभे-(मालविकां दृष्ट्वा ।) १अह्मो भट्टदारिआ । (इति प्रणम्य ।) जे- दु जेदु भट्टदारिआ । (तया सह बाष्पं विकिरतः ।) (सर्वे सविस्मयमवलोकयन्ति ।) राजा-के वा भवत्यौ । का वा इयम् । उभे-२भट्ठा, एसा अह्माणं भट्टदारिआ । राजा-कथमिव । उभे-३सुणादु भट्ठा । जोसो भट्टिणा विजअदण्डेहिं विदब्भ- णाथं वसीकरिअ बन्धणादो मोइओ कुमारो माहवसेणो णाम, तस्स इअं कणीअसी भइणी मालविआ णाम । देवी-४कहं राजदारिआ इअं । चन्दणं खु मए पादुआवओ- एण दूसिदं । राजा-अथात्रभवती कथमित्थंभूता । मालविका-(निःश्वस्य । आत्मगतम् ।) ५विहिणिओएण । द्वितीया-६भत्तुदाआदवसङ्गदे भट्टदारए माहवसेणे तस्स अम- १. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका । २. भर्तः, एषास्माकं भर्तृदारिका । ३. शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी माल- विका नाम । ४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् । ५. विधिनियोगेन । ६. भर्तृदायादवशंगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिना- सादृशं परिजनमुज्झित्वा गूढमानीतैषा । रोचते॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ॥ भर्तः, एषास्माकं भर्तृदारिका शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कु- मारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी मालविका नाम ॥ कथं राजदारि- केयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विधिनियोगेन ॥ भर्तृदायादव-

पञ्चमोऽङ्कः । ९७ णेण अज्जसुमदिणा अह्मारिसं परिअणं उज्झिअ गूहं आणीदा एसा । राजा—श्रुतपूर्व्वं मयैतत् । ततस्ततः । द्वितीया—१भट्टा, अदो वरं ण आणीमो । परिव्राजिका—ततः परं मन्दभागिनी कथयिष्यामि । उभे—२अज्जकोसिईए विअ सरसंजोओ । मालविका—३णं सा एव । उभे—४जदिवेसधारिणी अज्जकोसिई दुक्खेण विभावीअदि । भअवदि, वन्दामो । परिव्राजिका—स्वस्ति भवतीभ्याम् । राजा—कथमाप्तवर्गोऽयं भगवत्याः । परिव्राजिका—एवमेतत् । विदूषकः—५तेणं हि कहेदु भअवदी अत्तहोदीए उत्तन्तं असेसं । परिव्राजिका—(सवैक्लव्यम् ।) तावच्छ्रूयताम् । माधवसेनसचिवं ममाग्रजं सुमतिम् अवगच्छ । राजा—उपलक्षितम् । ततस्ततः । परिव्राजिका—स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ- वत्सम्बन्धापेक्षया पथिकसार्थं विदिशागामिनमनुप्रविष्टः । राजा—ततस्ततः । १. भर्तः, अतः परं न जानीमः । २. आर्य्यकौशिक्या इव स्वरसंयोगः । ३. ननु सैव । ४. यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, व- न्दावहे । ५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् । शंगते भर्तृदारके माधवसेने तस्यामात्येनार्य्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढ- मानीतैषा ॥ भर्तः, अतः परं न जानीमः ॥ आर्य्यकौशिक्या इव स्वरसंयोगः ॥ ननु सैव ॥ यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, वन्दावहे ॥ तेन माल० ९

९८ मालविकाग्निमित्रे परिव्राजिका—स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः राजा—किं चान्यत् । परिव्राजिका—ततः तूणीरपट्टपरिवद्धभुजान्तराल- मापार्णलम्बिशिखिपिच्छकलापधारि । कोदण्डपाणि निनदत्प्रतिरोधकाना- मापातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥ (मालविका भयं रूपयति ।) विदूषकः—भोदि, मा भआहि । अदिक्कन्तं खु तत्तहोदी क- हेदि । राजा—ततस्ततः । परिव्राजिका—ततो मुहूर्ते बद्धायुधास्ते पराङ्मुखीभूताः सार्थ- वाहयोद्धारस्तस्करैः । राजा—हन्त, इतः परं कष्टतरं श्रोतव्यम् । परिव्राजिका—ततः सुमतिः इमां परीप्सुर्दुर्जाते पराभिभवकातराम् । भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥ प्रथमा—अहो, हदो सुमदी । १. भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति । २. अहो, हतः सुमतिः । हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीरपट्टेत्यादि । स्पष्टोऽर्थः। भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इमामित्यादि दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिभव आक्रमणं त- स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्तुं परित्रातुमिच्छुः । ‘आपङ्ग- प्यृधामीत्’ इतीत्वम् । ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपः ‘पर्याप्तिः स्यात्परि- त्राणं हस्तधारणमित्यपि’ इत्यमरः । भर्तृप्रियः स्वामिभक्तः । प्रियैरिष्टैरसुरि- प्राणैर्भर्तुर┈┈┈┈गत प्राप्त ॥ अहो, हत सुमति ॥ अत खलु भर्तृदारि

पञ्चमोऽङ्कः । ९९ द्वितीया—अहो खु भट्ठिदारिआए इमं समवस्था संवृत्ता । (परिव्राजिका बाष्पं विसृजति ।) राजा—भगवति, तनुत्यजामीदृशी लोकयात्रा । न शोच्यं तत्र- भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः । परिव्राजिका—ततोऽहं मोहमुपगता यावत्संज्ञां लभे, ताव- दियं दुर्लभदर्शना संप्रवृत्ता । राजा—महत्खलु कृच्छ्रमनुभूतं भगवत्या । परिव्राजिका—ततो भ्रातृशरीरमभिसात्कृत्वा पुनर्नवीभूतवैध- व्यदुःखया मया त्वदीयदेशमवतीर्य इमे काषाये गृहीते । राजा—युक्तः सज्जनस्यैष पन्थाः । ततस्ततः परिव्राजिका—सेयमाटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं गता देवीगृहे लब्धप्रवेशया दृष्टेत्येतदवसानं कथायाः । मालविका—किं² णु खु संपदं भट्ठा भणादि । राजा—अहो परिभवोपहारिणो विनिपाताः । कुतः । प्रेष्यभावेन नामेयं देवीशब्दक्षमा सति । स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते ॥ १२ ॥ देवी—भ³अवदि, तुए अभिअणवदिं मालविअं अणाचक्खन्तिए असंपदं किदम् । परिव्राजिका—शान्तं पापम् । केन च कारणेन मया नैर्घृ- ण्यमवलम्बितम् । १. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता । २. किं नु खलु सांप्रतं भर्ता भणति । ३. भगवति, त्वयाभिजनवतीं मालविकामनाचक्षाणायासांप्रतं कृतम् । काया इयं समवस्था संवृत्ता ॥ किं नु खलु सांप्रतं भर्ता भणति ॥ प्रेष्यभावेने- त्यादि। देवीशब्दक्षमा देवीशब्दयोग्या सतीयं मालविका प्रेष्यभावेन परिचारक- त्वेन उपयुज्यते किल। पत्रोर्णं वा धौतकौशेयमिव। वेत्युपमायाम् । 'उपमायां विकल्पे

१०० मालविकाग्निमित्रे देवी—किं' विअ तं कारणम् । परिव्राजिका—इयं पितरि जीवति केनापि दैवयात्रागतेन सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य- भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभाविनमादे- शमस्यास्त्वत्पादशुश्रूषया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया साधु कृतमिति पश्यामि । राजा—युक्ता प्रतीक्षा । कञ्चुकी—देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति । विदर्भगतमनुष्ठेयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा- मीति । राजा—मौद्गल्य, तत्रभवतोर्यज्ञसेनमाधवसेनयोद्वैराज्यमिदानीम- वस्थापयितुकामोऽस्मि । तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे । नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥ कञ्चुकी—देव, एवममात्यपरिषदे निवेदयामि । (राजाङ्गुल्यानुमन्यते ।) (निष्क्रान्तः कञ्चुकी ।) प्रथमा—(जनान्तिकम् ।) भट्टदारिए, दिट्ठिआ भट्टिणा भट्टदारओ अद्धरज्जे पडिट्ठं गमइस्सिदि । १. किमिव तत्कारणम् । २. भर्तृदारिके, दिष्ट्या भर्त्रा भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते । द्वा' इत्यमरसिंहः। स्नानीयवस्त्रक्रियया स्नानीयवस्त्रकरणेन॥भगवति, त्वयाभिजनवती मालविकामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमिव तत्कारणम् ॥ तौ पृथगि- त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षिणे वरदाकूले । वरदा नाम तत्रत्या नदी तस्याः कूले उभे तीरे शिष्टां रक्षताम् ॥ भर्तृदारिके, दिष्ट्या भर्-

पञ्चमोऽङ्कः । १०१ मालविका—एदं दाव बहु मण्णिदव्वं, जं जीविदसंसआदो मुत्तो । (प्रविश्य ।) कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति । क- ल्याणी देवस्य बुद्धिः मन्त्रिपरिषदोऽप्येतदेव दर्शनम् । कुतः । द्विधा विभक्तां श्रियमुद्वहन्तौ धुरं रथाश्वाविव संग्रहीतुः । तौ स्थास्यतस्ते नृपतेर्निदेशे परस्परोपग्रहानिर्विकारौ ॥ १४ ॥ राजा—तेन हि मन्त्रिपरिषदं ब्रूहि । सेनान्ये वीरसेनाय लेखप्र- तामेवं क्रियतामिति । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य सप्राभृतकं लेखं गृ- हीत्वा पुनः प्रविष्टः ।) अनुष्ठिता प्रभोराज्ञा । अयं देवस्य सेनापतेः पुष्पमित्रस्य सकाशात्सोत्तरीयप्राभृतको लेखः प्राप्तः । प्रत्यक्षीक- रोत्वेनं देवः । (राजोत्थाय सप्राभृतकं लेखं सोपचारं गृहीत्वा परिजनायार्पयति ।) (परिजनो लेखं नाट्येनोद्घाटयति ।) देवी—(आत्मगतम् ।) अंझहे, तदोमुहं एव णो हिअअं । सु- णिस्सं दाव गुरुअणस्स कुसलाणन्तरं वसुमित्तस्स वुत्तन्तं । अदिघोरे खु पुत्तओ सेनावदिणा णिउत्तो । १. एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशयान्मुक्तः । २. अहो, ततोमुखमेव नो हृदयम् । श्रोष्यामि तावद्गुरुजनस्य कुश- लानन्तरं वसुमित्रस्य वृत्तान्तम् । अतिघोरे खलु पुत्रकः सेनापतिना नियुक्तः । भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ॥ एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशया- न्मुक्तः ॥ द्विधा विभक्तामित्यादि । स्पष्टोऽर्थः ॥ अंझहे इति हर्षे।ततोमुख- मेव नो हृदयम्।श्रोष्योमि तावद्गुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् । अ- तिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ॥ यज्ञशरणादित्यादि । अत्र राज-

१०२ मालविकाग्निमित्रे राजा—(उपविश्य लेखं सोपचारं गृहीत्वा वाचयति।) स्वस्ति । यज्ञ- शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमग्निमित्रं स्नेहा- त्परिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसौ राजयज्ञदीक्षितेन मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्तनियमो निरर्गलस्तुरंगो विसृष्टः, स सिन्धोर्दक्षिणरोधसि चरन्नश्वानीकेन यव- नेन प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः । (देवी विषादं नाटयति ।) राजा—कथमीदृशं संवृत्तम् । (शेषं पुनर्वाचयति ।) ततः परान्पराजित्य वसुमित्रेण धन्विना । प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १५ ॥ देवी—ईमिणा आससिदं मे हिअअं । राजा—(शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सगरपुत्रेणेव प्रत्याहताश्वो यक्ष्ये । तदिदानीमकालहीनं विगतरोषचेतसा भवता वधूजनेन सह यज्ञसेवनायागन्तव्यमिति । राजा—अनुगृहीतोऽस्मि । परिव्राजिका—दिष्ट्या पुत्रविजयेन दम्पती वर्धेते । भर्त्रासि वीरपत्नीनां श्लाघ्यानां स्थापिता धुरि । वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः ॥ १६ ॥ देवी—भअवदि, परितुट्ठह्नि । जं पिदरं अणुजादो मे वच्छओ। राजा—मौद्गल्य, ननु कलभेन यूथपतिरनुकृतः । १. अनेनाश्वस्तं मे हृदयम् । २. भगवति, परितुष्टास्मि । यत्पितरमनुजातो मे वत्सकः । यज्ञो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च श्रुतावश्वमेधप्रकरणे'शतेन राजपुत्रैः सह'इति॥ततः परानित्यादि। स्पष्टोऽर्थः॥ अनेनाश्वस्तं मे हृदयम् ॥ भर्त्रासीत्यादि । स्पष्टोऽर्थः ॥ भगवति,परितुष्टास्मि ।