मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः । तदाऽन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ॥ पुण्येषु पुरुषेष्वेषा भूयिष्ठं सत्यदर्शिनी । तस्मात्पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम् ॥ साऽपि प्रागुक्तयोगीन्द्रप्रत्यक्षेऽन्तर्भवत्यसौ । इति तस्मान्न प्रमाणमतिरिक्तं तदिष्यते ॥ (67) सर्वज्ञवादः 1 अथ बुद्धागमादीनां धर्मप्रामाण्यशङ्कया । सर्वसर्वज्ञविद्वेषि मीमांसकमतं त्विदम् ॥ शाक्यार्हतार्षभेदेन सर्वज्ञास्त्रिविधाःश्रुताः । स्वसार्वज्ञ्याय ते सर्वे निरस्ताः श्लोकवार्तिके ॥ सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः । नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥ वागिह श्रूयते यस्मात्प्रायादनृतवादिनी । यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकल्पने ॥ इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥
३20 मानमेयरहस्यश्लोकवार्तिके यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ॥ येऽपिचातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥ सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । निराकरणवच्छक्या नचासीदिति कल्पना ॥ नचागमेन सर्वज्ञः, तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीमो हि ततः परम् ॥ नचापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते । विगानाच्छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् ॥ सर्वज्ञोऽसाविति ह्येव तत्काले तु बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ कल्पनीयाश्च सर्वज्ञाः भवेयुर्बहवस्तदा । य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्ध्यते ॥
सर्वज्ञवादः 321 सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥ रागादिरहिते बुद्धे निष्व्यापारे व्यवस्थिते । देशनाऽन्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥ सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामाणेखिव । निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥ एवमाद्युच्यमानं तु श्रद्दधानस्य शोभते । कुड्यादिनिस्सृतत्वाच्च नाश्वासो देशनासु नः ॥ किंनु बुद्धप्रणीतास्स्युः किमु कैश्चिद्दुरात्मभिः । अदृश्यैर्विप्रलम्भार्थं पिशाचादिभिरीरिताः ॥ एवमेवार्हतैः ज्ञानमिन्द्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं जीवस्य परिकल्पितम् ॥ नर्ते तदागमात्सिद्ध्येत् न च तेनागमो विना । दृष्टान्तोऽपि न तस्यान्यः नृषु कश्चित्प्रवर्तते ॥ किंच नादृष्टपूर्वेऽर्थे क्वचिद्भवति भावना । आगमात्तु परिच्छिन्ने धर्मे भावनयाऽपि किम् ॥ अतश्च संप्रदायेऽस्मिन् नैकः पुरुष इष्यते । बहवः परतन्त्रास्स्युः सर्वेऽप्यद्यत्ववन्नराः ॥ यथाच लङ्घनाभ्यासोऽवधिं नात्येति कुत्रचित् । एवं च भावनाभ्यासः सावधिस्स्यात्स्वभावतः ॥ M. R. 41
322 मानमेयरहस्यश्लोकवार्तिके 2 अत्र सर्वज्ञसिद्धान्तवादिनेयायिकादिभिः । प्रत्युक्तं विस्तरेणात्र सारांशस्त्वयमुच्यते ॥ परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलम्भबले स्थेयं तदादावेव गृह्यताम् ॥ वैशेषिकादिभिस्त्वार्षं सिद्धदर्शनमित्यपि । अलौकिकं च विज्ञानं किंचिदङ्गीकृतं यथा ॥ विद्याऽविद्याविभेदेन ज्ञानं द्विविधमिष्यते । प्रात्यक्षिकी लैङ्गिकी च स्मृतिश्चाप्यार्षलक्षणा ॥ एवं चतुर्विधा विद्या तथाऽविद्या चतुर्विधा । विपर्ययस्संशयश्च यश्चाप्यालोचनात्मकः ॥ स्यादनध्यवसायस्सः चतुर्थस्स्वप्नलक्षणः । एवं ये ऋषयस्सिद्धाः ते वै सर्वज्ञलक्षणाः ॥ मनःकरणकं ज्ञानं भावनाभ्याससंभवम् । भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः । स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ तथैव भावनाभ्यासात् योगिनामपि मानसम् । ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥ अस्मदादेश्च रागादिमलावरणधूसरम् ।
प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् । योगिनां तु मनश्शुद्धं कमिवार्थं न पश्यति ॥ तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् । निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥ अपिचानागतज्ञानं अस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते । नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ क्वचिद्बाधकयोगश्चेत् अस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ काकतालीयमिति चेत् न प्रमाणं प्रदर्शितम् । नैतत्काकतालीयमिति चाशङ्कितुं क्षमम् ॥ स्वप्नज्ञाने हि संवादोऽदृष्टेन क्वचिदिष्यते । एवं प्रकृष्टदृष्टेन किमसाध्यं भविष्यति ॥ न त्वं वेत्सि मदध्यक्षं त्वदध्यक्षं न वेद्म्यहम् । अन्याध्यक्षं पुनश्चावां नैव जानीवहे उभौ ॥ योगीन्द्रियागोचरत्वं धर्मे वेत्ति कथं भवान् । उभयस्यापरोक्षत्वान्निषेद्धुं न हि शक्यते ॥ त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥
य एव स्यादसर्वज्ञस्स सर्वज्ञं न बुद्ध्यते । इति तद्बोधबोधार्थी तन्निषेधेऽपि न क्षमः ॥ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्ध्यते । इति ब्रुवाणास्सार्वज्ञ्यं लभन्तां तन्निषेधतः ॥ 3 इदं च पद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् । फलाफलविचारोऽथ क्रियते संग्रहादिह ॥ जायमाने भावनयाऽप्यनया धर्मदर्शने । चोदनैवेत्येवकारः शिथिलस्त्विति तार्किकाः ॥ मीमांसकास्तु तां दृष्टिं स्मृतिरित्येव जानते । पातञ्जलाः पुनर्योंगदृष्टिमन्यां प्रचक्षते ॥ साक्षात्कुर्वन्ति मन्वाद्याः न हि धर्मं स्वरूपतः । किंतु वेदैकवेद्यत्वाकारेणेति विनिर्णयात् ॥ न चोदनालक्षणत्वशास्त्रयोनित्वयोरपि । विरोधो योगिदृष्ट्येति वेदान्ताचार्यनिर्णयः ॥ किमर्थं तर्हि वेदानां वेदान्तानां च यत्नतः । अप्राप्तविषयत्वं यद्भवदीयैस्समर्थ्यते ॥ उच्यतेऽत्रातथाप्राप्तौ साक्षादेवाप्रमाणता । तथाप्राप्तौ पुनः प्रेक्षावद्भिरालस्यशालिभिः ॥ मानान्तरमपेक्ष्येत वेदस्य त्याज्यताऽऽपतेत् । फलतोऽप्रामाण्यमेतत् इति सिद्धान्तसंग्रहः ॥
सर्वज्ञवादः 325 4 यदि प्रामाणिको योगी पुराणं च श्रुतिः स्मृतिः । तत्र मानं, नानुमानं वर्ततेऽतिप्रसङ्गतः ॥ धर्मादिविषयत्वं तु मनसो यदि शिष्यते । चक्षुरादेस्तथाभावः नेष्यते केन हेतुना ॥ यथौपनिषदस्त्वीशः नानुमानेन सिद्धयति । तथा योगी च शास्त्रेण केवलेन प्रसिद्धयतु ॥ कैश्चित्तु चक्षुषाऽनेन ब्रह्मदर्शनमिष्यते । योगजेनाचिन्त्यशक्तिधर्मेण सहकारिणा ॥ दिव्येन चक्षुषा कैश्चिद्ब्रह्मदर्शनमिष्यते । शब्दादप्यपरोक्षस्य संभवः कैश्चिदुच्यते ॥ अतीतेऽनागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपिच । प्रत्यक्षं योगिनामिष्टं कैश्चिन्मुक्तात्मनामपि ॥ वैशद्यातिशयात्कैश्चित् स्मृतेर्दर्शनरूपता । भावनाया महिम्नेष्टा समानाकारता तु सा ॥ जैमिनीयाश्शाबराश्च भाट्टाः प्राभाकरा अपि । सर्वज्ञप्रतिषेद्धारः, सौगता आर्हताः तथा ॥ कापिलाद्या दार्शनिकाः सादिसर्वज्ञवादिनः । यौगास्तार्किकमुख्याश्चानादिसर्वज्ञवादिनः ॥ स्यातामागमसर्वज्ञावनादी च प्रवाहतः । बीजाङ्कुरवदित्युक्तं सादिसर्वज्ञवादिभिः ॥
326 मानमेयरहस्यश्लोकवार्तिके ज्ञानमेव हि सर्वेषां सिद्धान्तानां समाश्रयः । तत्रापिच विवादश्चेन्नियन्ता जन्तुरत्र कः ॥ नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ (68) विज्ञानवादः. 1 अथ विज्ञानवादस्य सारोपन्यासपूर्वकम् । संगृह्यते प्रतिक्षेपसारो नयविदां मतः ॥ योगस्य लक्षणं त्वेतत् शमथा च विपश्यना । समाधिशमधेत्युक्तः सम्यग्ज्ञानं विपश्यना ॥ ताभ्यां द्वाभ्यां बलीवर्दसदृशाभ्यां य ऊह्यते । स मार्गो योग इत्युक्तः तेनाचरति यः पुनः ॥ स योगाचार इत्युक्त इति भास्करभाषितम् । शमथादिपदं प्रायः पालीभाषेति गम्यते ॥ अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति योगाचारमतं प्रायः सर्वत्र विश्रुतम् । वैशेषिकमतं चापि यौगमित्येव कीर्त्यते ॥ योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रमिति प्राशस्तभाषितम् ॥
विज्ञानवादः 327 तथाच योगाचाराख्याः केचिद्वैशेषिका अपि । प्रथिता इति गम्यन्ते युक्तिमानादिसाम्यतः ॥ २ तद्योगाचारसिद्धान्तयुक्तयः क्रमशॊऽधुना । निरूप्यन्तेऽत्र संगृह्य विप्रकीर्णाः क्वचित्क्वचित् । नीलपीतादिवस्तूनां ज्ञानाकारत्वकल्पना । लघ्व्यर्थाकारपक्षे तु न स्वतो भासते जडः ॥ तद्ग्राहकाकारता च कल्पनीयेति गौरवम् । बाह्यान्तरकृतो भेदः परमार्थो न हीष्यते ॥ ग्राहकाद्विच्छिन्नता हि मता ग्राह्यस्य बाह्यता । न शरीरापेक्षयाऽतः विच्छेदोऽसिद्ध एव सः ॥ बहिर्वदवभासोऽपि भेदवासनया कृतः । परिच्छेदान्तराद्योऽयं भावो बहिरिव स्थितः ॥ ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः । सहोपलम्भनियमाद्भेदो नीलतद्धियोः ॥ ज्ञानमेवैवमाकारमात्मना प्रथते यतः । नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥ संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः । अर्थान्तरस्य च ग्राह्यलक्षणं न हि युज्यते ॥ ज्ञानं प्रकाशकं लोके ह्यप्रकाशस्य वस्तुनः । तस्मात् ज्ञानं ग्रहीतव्यं प्रागर्थादिति निश्चितम्
प्रकाशकोऽप्यविदितो दीपादिर्न प्रकाशकः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥ अविशेषोऽन्यथा स्वीयपरकीयोपलम्भयोः । निराकारं च विज्ञानं ग्रहीतुं नैव शक्यते ॥ प्रतिकर्मव्यवस्थाऽपि साकारत्वे प्रकल्पते । आकारसहितैवैषा धीः कारकसमुद्भवा ॥ नैवान्यथा स्याद्विषयनियमस्यावधारणा । नार्थैरेव विशेषस्तु निराकाराधियां भवेत् ॥ तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥ अर्थेन रज्यमानं हि निराकारं निसर्गतः । ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा । इत्थं सत्यपि बाह्येऽर्थे ज्ञानस्याकारकल्पना । भवेदेवेति तत्रैव संतोषेण स्थितिः वरम् ॥ अर्थाकारो गृहीतश्चेत् ज्ञानेन स्वगतः पुनः । ज्ञानान्तरेण ग्राह्यस्स्यात् तदाऽऽकारद्वयग्रहः ॥ एवमेवाभ्युपगमे भवेदेवानवस्थितिः । तद्ग्रहस्यानपेक्षायामाद्यस्यैवाग्रहो वरम् ॥ 3 अन्योन्यसंसर्गधर्मो नाकार इति साम्प्रतम् । अनर्थजस्मृतिस्वप्नबुद्धिष्वाकारदर्शनात् ॥
ज्ञानं स्वच्छं हि चिन्मात्ररूपं चाप्यविलक्षणम् । तस्य नीलादिभेदस्तु वासनैकनिबन्धनः ॥ अत एव तुरीये तद्वासनोच्छेदसंभवे । सच्चिन्मात्रैकरूपेण विज्ञानमवभासते ॥ 4 वासना नाम ताद्रूप्यं बीजपूरसुमादिवत् । पूर्वमात्मस्वरूपेण चोत्तरं जनयेत्सदा ॥ उत्तरं वास्यत इति पूर्वं वासयतीत्यपि । व्यवहारः परं सर्वं सर्वात्मकमिति स्थितम् ॥ अपि सर्वं च विज्ञानं सर्वाकारं तथाऽपिच । कदाचित्कुत्रचित्काचित् वासनाऽर्थक्रियां क्रियात्॥ यथा परेषां संस्कारः कश्चित्कांचित् स्मृतिं क्रियात् यथा च शब्दः सर्वार्थः बोधकोऽर्थस्य कस्य चित् ॥ न संवितेस्सत्तयैव युक्ता विषयवेदना । तस्यास्सर्वत्राविशेषादविशेषप्रसङ्गतः ॥ ग्राह्यलक्षणतादात्म्यात्तत्सरूपयितुं क्षमम् । ततश्च ज्ञानवैचित्र्यं समनन्तरसात्कृतम् ॥ 5 ग्राह्यलक्षणयोगाच्च ग्राहकान्न विभिद्यते । विधान्तरासंभवेन तादात्म्यं ग्राह्यलक्षणम् ॥ ग्राह्यत्वं यदि हेतुत्वं ग्राह्यं स्याच्चक्षुराद्यपि । आकारार्पणयोग्यत्वं नीलादौ न हि निश्चितम् ॥ M.R. 42
330 मानमेयरहस्यश्लोकवार्तिके नार्थकारस्य चारोपः नैव च प्रतिबिम्बनम् । नचापि तस्य निष्पत्तिः नापि संसर्गरूपता ॥ नानन्तरप्रत्ययाख्यवासनायोग एववा । न मध्यवस्वाकारश्च नैवं वादान्तराण्यपि ॥ ग्राह्यत्वं नापि सारूप्यं नापि सान्निध्यलक्षणम् । एकदेशेन सारूप्ये सर्वस्स्यात्सर्ववेदकः ॥ सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् । तादात्म्यमेव ग्राह्यत्वं परिशेषाद्व्यवस्थितम् ॥ 6 नीलं संवेदनादेव स्वात्मनो न विभिद्यते । संवेद्यते न ह्यनात्मा नीलवित्तौ च पीतवत् ॥ यद्वेद्यते यया बुद्ध्या तत्तया न विभिद्यते । यथाऽऽत्मा वेद्यते बुद्ध्या तथा नीलादयस्तथा ॥ संयोगात्समवायाद्वाऽप्येकार्थसमवायतः । कार्यकारणभावाद्वा व्याप्तिरव्याप्तिदूषिता ॥ परिशेषात्तु तादात्म्यमास्थेयं सर्ववादिभिः । तस्माद्विज्ञानमेवार्थः कामदोग्ध्री हि वासना ॥ (69) विज्ञानवादनिरासः. 1 अत्रोच्यते न्यायविदां प्रत्युक्तीनां च संग्रहः । न ह्यर्थः कल्प्यते किंतु सन्नेव प्रतिभासते ॥
विज्ञानवादनिरासः 33 लघ्वी युक्तिः कल्पनायां न हि कॢप्ते प्रसर्पति । आकारोऽनतिरिक्तश्चेत्समूहालम्बने धियः ॥ ऐक्यं स्यान्नीलपीतादेरतिरिक्तो न संमतः । अपोहरूपं नैल्याद्यमितिचेन्नीलपीतते ॥ समाविशेतां नैकत्र विरोधो वा विलीयते । ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते ॥ इदं नीलमिति ह्येव न त्वहं नीलमित्यपि । तदैक्येनावभासोऽस्ति नापि धीः स्वप्रकाशिनी । यदि ज्ञानं स्वप्रकाशं अहं नीलमिति प्रजाः । सर्वा अप्यनुसंदध्युः नच मुह्यति कश्चन ॥ उपेयनिह्नवश्शक्यः नोपायेनेह कुत्रचित् । रूपप्रकाशकं चक्षुः चक्षुरेव प्रकाशताम् ॥ इत्युक्त्वा न क्वचिद्रूपमपह्नोतुं हि साम्प्रतम् । मूर्तो द्रवश्च कठिनः महान् बाह्योऽवगम्यते ॥ स्वच्छं तद्विपरीतं च ज्ञानं भासकमिष्यते । अतस्तदैक्यवादोऽसौ नाविवादो विदां मतः ॥ 2 उपलब्धोऽर्थदृष्टिः स्यात् न तु तद्दृष्टिरिष्यते । अगृहीतं ज्ञानमेव भवेदर्थप्रकाशकम् ॥ किंच प्रदीपवद्द्धूमवद्वा स्याद्यदि धूमवत् । भवेदर्थानुमेयत्वं तदिदं त्वदसंमतम् ॥
-32 मानमेयरहस्यश्लोकवार्तिके आकारद्वयसंवित्तिविरहान्न च दीपवत् । घटं दीपं च पश्यामीत्यस्ति द्वितयवेदनम् ॥ न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः । उट्टङ्कितोऽसौ दीपादिदृष्टान्तश्चक्षुरादिना ॥ त्रयः प्रकाशकाः दीपधीशब्दाः स्वप्रकाशकाः । इत्युक्तं तत्र शब्दः समयग्रहपूर्वकम् ॥ अर्थं प्रकाशयत्यात्मग्रहे श्रोत्रमपेक्षते । दीपोऽपि चक्षुषा ग्राह्यः ग्राहयत्यर्थमञ्जसा ॥ इयान् विशेषः कुम्भादौ चक्षुरालोकमिच्छति । आलोकग्रहणे तेन निरपेक्षमिति स्थितम् ॥ एतावत्तैव दीपस्य न भवेत्स्वप्रकाशता । स्यादन्यथा घटस्यापि बैडालाक्ष्याद्यपेक्षया ॥ तस्मात् ज्ञानं नाम वस्तु परस्यैव प्रकाशकम् । दृश्यते न स्वप्रकाशमिति न्यायविदां मतम् ॥ 3 या चोपजनिता यस्मात्कर्मकारकतः मतिः । तादृग्विषयनैयत्यवती सा व्यवतिष्ठते ॥ अयं च नियमो वस्तुस्वभावैकनिबन्धनः । समः पर्यनुयोगोऽयं ज्ञानाकारमतेऽपि ते ॥ अन्वयव्यतिरेकाभ्यामर्थः स्याज्जनको धियाम् । अपि प्रवृत्तिर्व्याख्याता ततो नियतगोचरा ॥
विज्ञानवादनिरासः नीलपीतादिविषयाः सर्वसाधारणा मताः । तेषां विज्ञानरूपत्वेऽसाधारण्यं प्रसज्यते ॥ नर्तकीभ्रूलताक्षेपः न ह्येकः पारमार्थिकः । परमाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥ साधारण्यस्योपपत्तिरित्थं या चोपवर्णिता । न्यायवार्तिकतात्पर्यटीकायां सा प्रतीरिता ॥ 4 अभेदपक्षे सुदृढसहार्थानुपपत्तिः । सहोपलम्भनियमोऽसिद्धः हेतुस्त्वदीरितः ॥ सहधीरेकसामग्रीवेद्यत्वेनेष्यते क्वचित् । तावन्मात्रेण चैकत्वे व्यवहारो विरुध्यते ॥ नीलग्रहणवेलायां ग्राहको नैव गम्यते । ग्राह्यमात्रावभासोऽयमिदं नीलमिति ग्रहः ॥ न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हि । ग्राह्याकारानुपश्लिष्टः ग्राहकोऽप्यवमृश्यते ॥ ग्राह्यग्रहणतादात्म्यं शशशृङ्गाद्यसद्ग्रहे । अस्तिचेद्व्याहतिः नो चेत् व्यभिचारस्सुदुस्तरः ॥ किंच सर्वज्ञसंवित्तौ सर्वाकारानुबन्धतः । सर्वस्वभावता वा स्यान्निस्स्वभावत्वमेव वा ॥ इत्थं विभक्तज्ञानार्थाकारसंवेदनात्कथम् । एकोपलम्भनियमादभेदोक्तिर्न साहसम् ॥
334 मानमेयरहस्यश्लोकवार्तिके 5 ननु चैकत्र नक्षत्रं तारका तिष्य इत्यपि । विरुद्धलिङ्गसंसर्गः कथं तस्मादुपप्लवः ॥ परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । एकस्यां लिङ्गवचने दाराः इति कथं स्मृते । एकता स्त्रीलिङ्गता च कथं षण्णगरीत्यपि ॥ कथंवा ह्रस्वदीर्घादिव्यवहारो मिथो भवेत् । तस्माद्विज्ञानभेदेन वासनाभेदहेतुना ॥ विरोधस्सुपरीहार्यः न स्वतन्त्रार्थकल्पना । अत्रोच्यते शब्दशास्त्रान्नार्थतत्त्वस्य निह्नवः ॥ लिङ्गसंख्याविपर्यासः शब्दसाधुत्वमूलकः । नार्थं भिनत्ति साधुत्वं समयैकनिबन्धनम् ॥ नार्थासंस्पर्शिता चास्य तावता व्यवतिष्ठते । यथा संकेतितो लोके तथा शक्नोति भाषितुम् ॥ अपिवा वस्तुताद्रूप्यसदसत्त्वानपेक्षया । शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥ संस्त्यानप्रसवस्थानैः यथा पातअले मते । लिङ्गत्रयस्य सद्भावः स्यात्सत्त्वादिगुणात्मनः ॥ 6 परिव्राट्प्रभृतीनां तु कुणपादिप्रतीतयः । अर्थस्यानेक शक्तित्वान्नावहन्त्यर्थशून्यताम् ॥
विज्ञानवादनिरासः 335 किं न भक्षयितुं शक्या नारी कौलेयकेन सा । किंवा न शमयत्येषा कामिनो मदनज्वरम् ॥ कुणपात्केन रूपेण योगिनः सा विशिष्यते । धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥ या प्रतिप्राणि नियता विविधा सहकारिणी । वासना तदपेक्षः स्यात् आत्मलाभो धियां पुनः॥ स्वप्रत्ययानुकारोऽपि बह्वाकारेषु वस्तुषु । निर्धारणे भवेद्धेतुः नापूर्वाकारकल्पने ॥ तथैव तदुपेतव्यं यद्यथैवोपलभ्यते । न चार्थरूपात् भेदेन धियामस्ति निरूपणम् ॥ तस्माद्देशादिसद्भावनिमित्तैः प्रत्ययैः पृथक् । वस्त्वाकाराः प्रतीयेरन् उद्भवाभिभवात्मकाः ॥ हेतुश्चेद्वासनाभेदः विविधप्रतिभोद्भवे । तेनैव सर्वनिर्वाहे किमर्थः परिकल्प्यते ॥ न ह्यर्थः कल्प्यते किं तु क्लृप्त एवावभासते । बहुरूपस्य चार्थस्य त्वेकरूपत्वभासने ॥ कल्प्यते कारणं किंचिन्नियतं वासनादिकम् । भवन्मते वासनायाः ज्ञानरूपत्वमिष्यते ॥ न हि स्वच्छे च विज्ञाने किंचित्कालुष्यकारणम् । अतिरेके तु पर्यायात्सोर्थ एव विनिश्चितः ॥
३३६ मानमेयरहस्यश्लोकवार्तिके
पदार्थसमसंख्याकाः स्वीकार्या एव वासनाः। नहि गोवासनाभेदादुदेतुं हस्तिधीरलम् ॥ निरन्वयविनाशाच्च न तदंशोऽनुवर्तते । यतः कथंचिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥ तस्मात्प्रतीतिशरणा पदार्थानां व्यवस्थितिः । प्रतीतिनिह्नवे सर्वन्निह्नवात्स्वार्थनिह्नवः ॥ 7 विषयाणां मिथो भेदो यदि स्याद्बुद्धिभेदतः । बुद्धिभेदोऽपि विषयभेदादिति कथं भवेत् ॥ बुद्धयो विषयाश्चैव स्वतएव परस्परम् । भिन्नाः किन्त्वर्थभेदोऽयं बुद्धिभिः ज्ञायते स्वयम् ॥ अतः प्रत्यक्षबुद्धेस्सः कारणं विषयात्मना । इति स्वीकुर्वते प्राज्ञाः तस्मान्नान्योन्यसंश्रयः ॥ अर्थस्य बुद्धिहेतुत्वमन्वयव्यतिरेकतः । सिद्ध्यतीत्यत्र विज्ञेया प्रसिद्धोदाहृतिः पुनः ॥ यदाहि देवदत्तार्थी कश्चिद्गच्छति तद्गृहम् । तत्रासन्निहितं चैनं गत्वाऽपि स न पश्यति ॥ क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते । तत्र तत्सदसत्त्वेन तथात्वमवगम्यते ॥ 8 क्षणभेदश्च सन्तानभेदो ज्ञानान्तरेण चेत् । गृहीतश्चागृहीतश्चानिष्टो विज्ञानवादिनाः ॥
विज्ञानवादनिरासः 33 ज्ञानान्तरेण ज्ञानेषु गृह्यमाणेष्वसंभवि । तादात्म्यं तत्र यः पन्थाः सर्वत्रापि स एव नः । यदि त्वनागतातीतज्ञानग्राहिषु चैकता । अनागतमतीतं वा स्वयं स्यात्किं ग्रहीष्यति ॥ तर्ह्येकक्षणशेषो वा नित्यैका संविदेव वा । स्वीक्रियेत स्वसिद्धान्तोऽप्यर्थायोगान्न सिद्ध्यति । अथ बोधेन तादात्म्ये नृशृङ्गाद्यपि सङ्गवेत् । किंच बोध्येन तादात्म्ये कुशली मध्यमागमः ॥ मिथोविरुद्धैः युगपत् ज्ञातैः बुद्धेस्तदात्मता । कथं स्यात् बोध्यतादात्म्यानुपपत्तिपराहता ॥ अथ बोध्यस्य मिथ्यात्वात्तादात्म्यमुपचर्यते । तदा सहोपलम्भादिहेतवः नहि साधकाः ॥ वेदान्ताद्वैतसिद्धान्तेऽप्यभेदो नहि साध्यते । भेदो व्यासिद्ध्यत इति भाष्यभामत्युदीरितम् ॥ भेदमात्रापह्नवस्तु त्रय्यन्ताद्वैतवादिनाम् । भिद्यमानापह्नवस्तु स्याद्वाह्याद्वैतवादिनाम् ॥ किंचासद्विषया सर्वा बुद्धिर्यद्युपगम्यते । ज्ञानमेकं सत्यमिति बुद्धबुद्धिरपीदृशी ॥ तदप्यस्त्वितिचेत्सर्वा धीर्मृषेत्यापि धीर्मृषा । तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते ॥ M.R. 43
338 मानमेयरहस्यश्लोकवार्त्तिके 9 चिन्तनीयमिदं चात्र परीक्षकविशोधितम् । विज्ञानवादसर्वस्वं केवलं सूक्ष्मया दृशा ॥ ज्ञानाकारात्मके लोके बाह्याकारविकल्पना । अपरस्सोऽपि विज्ञानाकार एवेति निर्णयः ॥ पञ्चभूतात्मके लोके यद्यद्वस्तूपजायते । तावद्भूतात्मकं सर्वं न च किंचिदभौतिकम् ॥ सौवर्णमेरुसंभूतं नादुर्वर्णं कथं भवेत् । ज्ञानात्मके प्रपञ्चेऽस्मिन् दुर्लङ्घा ज्ञानवागुरा ॥ इति विज्ञानवादस्य मूलं विज्ञानवासना । वासना चेत् ज्ञानशक्तिः ज्ञानमेवावशिष्यते ॥ वासना बाह्यशक्तिश्चेत् बाह्यमेवावशिष्यते । यदि चोभयशक्तिस्स्यादुभयं चैव सिद्धयति ॥ आन्तरं बाह्यमित्येवं व्यवहारो हि वासना । यथैव वासितो जन्तुः तथैव प्रतिपद्यते ॥ विद्या च पूर्वप्रज्ञा च श्रद्धा संस्कारकर्मणी । आत्मनो रूपमेतत्स्यात्तथा काममयः पुमान् ॥ 70 क्षणभङ्गवादनिरासः. 1 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः । गृह्यतां क्षणभङ्गत्वं परवैराग्यकारणम् ॥