मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
१५८ : मीमांसादर्शनम् [ १० प्रेतत्वनिवृत्त्या पितृत्वप्राप्त्यर्थात्सपिण्डीकरणात्प्राक् पार्वणस्याविधानेन सपिण्डीकरणा- न्तरभाविपार्वणश्राद्धस्यैत्यादिप्रेतश्राद्धस्यामावास्यापितृयज्ञशब्देनाभिधानम् । मांसभक्षणेऽपि विवेकमाह—तथेति । एतदेव मनुवचनेन द्रढयति—यथाहति । श्राद्धभोजनमांसभक्षणाभ्यां दीक्षितान्नभोजनस्य वैषम्यमाशङ्कते—ननु चेति । निःश्रेयसेन कारणेन प्रयोजनेनेति चतुर्थ्यर्थे तृतीया—निःश्रेयसार्थं नियमयतीत्यर्थः । 'न दीक्षितस्या- श्नीयादि'त्यस्यान्यैवैदिकवच्छ्रुतशब्दसामानाधिकरण्यविकल्पप्रसक्तिरूपपर्युदासकारणाभा- न्निषेधार्थत्वप्रतीत्यविशेषेण स्वरूपभेदेऽप्यर्थकत्वमभिप्रेत्य वाक्यैकत्वाभिधानम् । अन्यत्राव्युत्पादितमप्यवधिद्वयान्यथानुपपत्तेः पर्युदासकारणत्वं न्यायोपेतत्वादिहाङ्गी- कार्यमित्यभिप्रायेण परिहरति—स्यादिति । प्रत्यक्षस्यापि वाक्यद्वयस्याभिन्नार्थत्वं न्याय- कल्पमभिप्रेत्य—कल्पितमित्युक्तम् । कथमवधिद्वयेन भिन्नार्थकत्वकल्पनेत्यपेक्षायामाह— यः पूर्व इति । यः प्रतिषेधः, स क्रीतराजके स्थितो निवृत्तः । कथं निवृत्ततावसीयत इत्यपेक्षिते—पूर्वं इत्युक्तम् । अक्रीतराजकस्येति । क्रयप्राग्भावावगममात्रप्रतिषेधस्योत्तरकालं व्यापाराभाव इत्यर्थः । ततश्च तस्य केवलप्राग्भावित्वेनैकरूपत्वाद्वितीयोऽवधिर्नविकल्पत इत्येकत्वादित्यनेनोक्तम् । यदि ह्यसौ प्रतिषेधो राजक्रयात्प्रागुत्तरकालं च व्याप्रियेत ततस्तस्यैवापदनाद्विषययत्वेनाऽवधिद्वयमवकल्पेत । अतोऽन्यथानुपपत्त्यायंवैदिकादन्यस्य त्रयीगतस्य पर्युदासार्थत्वं कल्पनीयमित्याह - द्वितीयेति । नन्वभोजनविधित्वेऽपि तत्र काल- विशेषाश्रवणात् क्रीते त्वभोजनं नामेति निष्प्रमाणमित्याशङ्क्य—अथान्तरालिक इत्युक्तम् । निषेधेनैव प्राग्वर्जनसिद्धेः पर्युदासानर्थक्याद्राजक्रयाग्नीषोमीयान्तरालकालविशेषवत्त्वमपि निश्चीयत इति भावः । दृष्टान्तं विवृणोति—यथेति । "देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ता- भ्यामग्नये जुष्टं निर्वपामी"ति निर्वापमन्त्रे सवित्रादिपूषशब्दानामसभवेतदेवताप्रकाशनार्थ- त्वायोगादन्यदेवत्यायां विकृतावन्नूहे प्रतिपादिते, किमर्थंस्तर्हि सवित्रादिशब्दप्रयोग इत्याशङ्क्य सवित्रादिशब्दानां यजमानपरत्वात्प्रसवशब्दस्य चानुज्ञार्थत्वाद्यजमानानुज्ञाप्रकाशनार्थत्वे- ऽभिहिते, यजमानबहुत्वे तर्ह्यूहो भविष्यतीत्याशङ्क्य पूर्वानुज्ञातत्वेनेदानीं तत्प्रकाशनार्थं- क्यान्निर्वापस्तुत्यर्थत्वेन तत्प्रकाशनस्य परार्थ्याद्यज्ञपतिशब्दवदनूह इति निगमसिद्धो दृष्टान्तः । ननु निर्वापकालेऽपि यजमानहविर्निर्वप्स्यामीत्याध्वर्युणानुज्ञायां पृष्टायामों निर्वपेति यजमानेनानुज्ञानात्तदनुसन्धानार्थं निर्वापमन्त्रे प्रकाशनं भविष्यतीत्याशङ्का- निरासार्थं—तदानीन्तनेत्युक्तम् । पूर्वमेवानुज्ञातत्वान्न निर्वापस्तुत्यर्थमिति भावः । दार्ष्टान्तिके योजयति—तथेहेति । उभयथापि सम्भवे तर्हि कथं पर्युदासत्वावधारणेत्या- शङ्क्य 'न होतारं वृणीत' इति तद्विकल्पप्रसक्त्यैव पर्युदासत्वावधारणमाह—प्रति- षिद्धेति । क्रयोत्तरकालमर्थप्राप्तदीक्षितान्नभोजनप्रतिषेधे पूर्वं प्रतिषेधगतस्याक्रीतराजकस्येति विशेषणस्यानर्थक्यापत्तेः शास्त्रानुज्ञातप्रतिषेधस्याभ्युपगमनीयत्वाद्विकल्पप्रसक्तिरित्यर्थः ।
४] प्रथमाध्याये तृतीयपादः ३३२ उपसंहरति-दीक्षितान्नेति । ननु माभूदनुज्ञाग्नीषोमीयोत्तरकालं दीक्षितान्नभोजनस्य विधिरयं भविष्यतीत्याशङ्क्य, दृष्टार्थस्यादृष्टार्थत्वयोगाद्विशिष्टविधौ च गौरवापत्तेः फला- श्रवणात्प्रकृताश्रयालाभादनेकगुणोपादानाच्च फले गुणविध्ययोगाद्विधित्वं न युक्तमित्याह- अदृष्टार्थेति । 'न दीक्षितस्याश्नीयादित्यस्य त्वदृष्टार्थतोभयसाधारण्याददूषणम् । द्वितीया- नुपपत्त्या च पर्युदासत्वं न्याय्यमेवेति भावः । कोऽनयोः पक्षयोर्मध्ये सम्मत इत्यपेक्षाया- मापद्विषयत्वेऽनुकल्पत्वेन स्वरसावगततुल्यकल्पत्वबाधापत्तेरयंवैदिकस्य च निषेधस्यावध्य- नपेक्षत्वेन तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीत्यस्यावधिसमर्थकत्वा- योगाच्छ्रेयोऽर्थमयं यजते न प्रायश्चित्तार्थमित्येवं विज्ञातस्य क्रीतराजकस्यानमदुष्टमेवेत्यव- ध्यन्तरदर्शनजनितदोषशङ्कानिराकरणार्थत्वप्रतीतेर्द्वितीयस्य पक्षस्य सम्मतत्वं दर्शयितु- माह- एवमिति । ऐतरेयब्राह्मणगतस्य त्वशितव्यं वपायां हुतायामित्यस्याग्निषोमीयसंस्था- वधिवाक्यवत्पर्युदस्तदीक्षितान्नभोजनानुज्ञानार्थत्वेऽपि बह्वल्पफलगुरुलघुकल्पत्वेनावधिद्वय- व्यवस्थानादविरोध इत्येवंशब्देन सूचितम् । पर्युदस्तानुज्ञानार्थत्वसाम्येन चैतदवधिद्वयमेकी- कृत्यावधिद्वयोपन्यासः । अष्टाचत्वारिंशद्वर्षं ब्रह्मचर्यंस्मृत्युदाहरणमपि दूषयति- अष्टेति । स्मार्त्तत्वेन तुल्यत्वाद्विकल्पेनाविरोधं वक्तुं - स्मृतावित्येत्युक्तम् । स्मार्त्तत्वाविशेषेऽपि पक्षाणामसाम्याद्वि- कल्पानुपपत्तेरपरितोषाद्विषयव्यवस्थां वक्तुमाश्रयान्तरेत्युक्तमिति विवेकः । कीदृशानि पक्षान्तराणीत्यपेक्षिते मनुवचनं तावदुदाहरति - तथा हीति । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेदित्युत्तराद्धंम् । तत्र द्वेधा विषयव्यवस्थामाह-सामर्थ्येति । योऽल्पेन कालेन बहून्वेदानध्येतुं समर्थः तं प्रति बहुवेदपक्षः, असमर्थं प्रत्यल्पवेदपक्ष इति सामर्थ्यमङ्गी- कृत्यागार्हस्थ्याश्रमायोग्यं प्रति बहुवेदपक्षः तद्योग्यं प्रत्यल्पवेदपक्ष इत्याश्रमयोग्यत्वमङ्गो कृत्यापेक्ष्यैतन्मनुनोच्यत इत्यर्थः । 'इह षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥' इति मनुनेवोक्तत्वात् ग्रहणान्तिकपक्षे सामर्थ्यापेक्षा । वर्षसंख्यापक्षे त्वाश्रमयोग्यत्वा- पेक्षेति विवेकोऽवसीयते । अष्टाचत्वारिंशद्वर्षब्रह्मचर्यंस्मर्त्रा गौतमेनापि पक्षान्तरमुक्तमित्याह- गौतमे- नापीति । तत्राप्यष्टाचत्वारिंशत्पक्षो गार्हस्थ्याश्रमायोग्यविषय इत्याह - तत्रैवमिति । नन्वाश्रमान्तरं तान्प्रति कस्मान्न विधीयत इत्याशङ्क्य, तेषां बहुक्लेशत्वादविरक्तानधिकारा- च्चाल्पक्लेशबहुफलोपकुर्वाणकत्वेनैव बहुकालक्षपणायैतद्विधानमित्याह-नैष्ठिकेति । उपकुर्वाणकः-अध्ययनार्थं गुरुकुलवासी ब्रह्मचारिविशेषः । गमिष्यतीत्येतदुच्यत इत्यन्वयः । स्वाध्यायमात्रेणेष्टगतिप्राप्त्युपपादनाथं द्वैपायनवचनमुदाहरति-द्वैपायनादयश्चाहुरिति । ब्रह्मयज्ञफलातिशयोपयोगितापि स्वाध्यायतदर्थज्ञानभूयस्त्वस्यास्तीत्याह-यानि चेति ।
३४० मीमांसादर्शनम् [ सू० प्रतिदिनं प्रतिदिनं प्रयुज्यमानैर्ऋगादिभिर्यो ब्रह्मयज्ञः तन्निमित्तानि यानि यं यं क्रतुमधीयते तस्य तस्याप्नुयात्फलमिति क्रतुसाध्यानि फलानि क्रत्वधिकृतेभ्यो गृहस्थवानप्रस्थेभ्यो निवृत्तत्वादनधिकृतविषयत्वेनावतिष्ठन्त इत्यर्थः । ब्रह्मयज्ञस्याग्निहोत्रादिवन्नित्यकाम्योभय- रूपत्वाद्यथायोगं व्यवस्था न विरुद्धेत्याशयः । द्वादशवर्षपक्षोऽपि गौतमीयेनैव शीघ्रवेदग्रहणसमर्थविषयेण ग्रहणान्तं वेति पक्षान्तर- स्मरणेन स्वविषयाद्ब्यावर्त्तितत्वान्न सर्वगृहस्थविषय इत्याह-यो वेति । वाशब्दोऽष्टा- चत्वारिंशत्पक्षविषयः । पूर्वपक्षीकृतौ स्वविषयाद्व्यावर्त्तितावित्यर्थः । उपसंहरति - इतीति । भाष्यमङ्गमुपसंहरति-तेनेति । स्वयं द्वेधा सूत्रद्वयं व्याचष्टे - तेनात्रेति । ननु न्यायनिष्ठत्वान्मीमांसायाः प्रयोगनिरूपणमयुक्तमित्याशङ्क्य प्रयोगार्थत्वादाश्रयस्य तत्साम्येऽपि, यत्र प्रयोगवैषम्यम्, तत्र तन्निरूपणीयमित्याह - एतद्धीति । किं प्रतिपाद्यत इत्यपेक्षयामाह- यावदिति । ननूभयोः प्रामाण्ये, कथं नियमेनैकार्थानुष्ठानमित्याशङ्कयाह - व्रीहीति । व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेत यवेभ्यो यवैरिष्ट्वा यवैरेव यजेत व्रीहिभ्य इत्याग्रयणेऽवधि- व्यवस्थया व्रीहियवव्यवस्थाविधानदग्निहोत्री वै नानादयित्वात्तस्याः पयसा जुहुयादित्येतत्पक्षा- श्रयणाविषयोऽन्ययो यावज्जीवशब्द इति प्रागेवोपपादितम् । श्रुत्या सह तुल्या कक्षा यस्याः सा तथोक्ता । अनुष्ठाननियमे कारणमाह - यानीति । वेदवचनस्य विश्रम्भणीयत्वं वदता स्मृतेर्यथाश्रुतमूलानिश्चयेनाविश्रम्भणीयताऽर्थादुक्ता । कथमस्मिन्नर्थे सूत्रं योज्यमित्याशङ्कयाह - सूत्रार्थोऽपि चेति । यकाररहितः पूर्वपाठः । तत्सहितो द्वितीयः तावच्छब्दाध्याहारे कारणमाह-तदानीन्तनेति । तावत्कालीनव्यवहार- प्रतिपादनार्थत्वाङ्गीकरणे प्रयोजनमाह -ततश्चेति । आशङ्काशब्दो यथाश्रुतमूलानिश्चया- भिप्रायः । मात्रशब्दव्यावर्त्यमाह - यदा त्विति । ननु प्रामाण्यस्य तुल्यत्वेऽपि केनचिद्विशेषेणैकार्थादरे भिन्नशाखागतयोरुदितादिश्रुत्योरपि पठितत्वविशेषेणैकार्थादरापत्तेः एव प्रातरूपोदयम्, व्युषिते, उदिते वेत्याश्वलायनस्य समवि- कल्पाभिधानं विरुद्धयेतेत्याशङ्कते- नन्विति । स्मृतेर्विध्याक्षेपकमन्त्रार्थवादमूलत्वस्यापि सम्भवान् नैकस्यै बहवः सह पतय इत्यर्थवादाक्षिप्तस्य च निषेधविधेर्नेका बहून्पतीन्विन्देतेति श्रुतिनिषेधविध्यनुसारेणाविवक्षितसाहित्यनानेकपतिमात्रनिषेधपरतया व्याख्यानदर्शनादुच्चा दिवि दक्षिणावन्तो अस्त्वर्ये अश्वदाः सहते सूर्येणेति मन्त्राक्षिप्तस्य चाश्वदानफलविधेर्न केसरिणो ददातीति श्रुतनिषेधानुसारेण साक्षाद्विहिताश्वदानविषयत्वेन व्याख्यानदर्शनात्तन्मू- लानां स्मृतीनां प्रत्यक्षश्रुत्यनुसारेणान्यथाव्याख्यानसम्भवात्प्रत्यक्षमूलादर्शने यथाश्रुतमूलानि- श्चयादनादरो न वैलक्षण्यमात्रमित्यभिप्रायेण परिहरति-सत्यमिति । अभिप्रायं विवृणोति -- अतश्चेति । विप्रलम्भमूलत्वाभावावान्नात्यन्तबाध्यत्वं यथाश्रुतमूलानिश्चयाच्च नात्यन्ततुल्य- तेत्यर्थः । एवं च वदता यथाश्रुतमूलानिश्चयाभिप्रायेणाऽसति ह्यनुमानमिति सूत्रावयवस्य हेतुदर्शनसूत्रस्य च यथाश्रुतमूलत्वनिश्चयानिश्चयरूपविशेषस्यात्यन्तातुल्यत्वहेतोर्दर्शनादित्येवं
४ ] प्रथमाध्याये तृतीयपादः ३४१ व्याख्या सूचिता । भाष्यं च यथाश्रुतार्थप्रामाण्याभावाभिप्रायत्वेन समाहितम् । उदाहरण- भाष्यमप्यदृष्टमूलाव्यस्थास्मृतिविषयत्वेन नेतव्यमिति सर्वमदुष्टम् । इति वार्तिकमतेन प्रथमाधिकरणाशयः अथ द्वितीयव्याख्यानम् द्वितीयव्याख्यानं प्रपञ्चयति—यद्वेति । यान्येतानि सांख्यादिपरिगृहीतानि तैर्विपरीत- गृहीतयोर्धर्माधर्मयोर्निबन्धनानि यानि च बाह्यान्तराणि म्लेच्छाचारस्य बहुसमाहृतैकदेश- मिश्रान्नभोजनाचरणस्य निबन्धनानि तेषामेवैतदनपेक्षणीयत्वं प्रतिपाद्यत इत्यन्वयः । न च तदप्रामण्याङ्गीकरणे पूर्वोक्तमर्यादातिक्रमादिदोषापत्तिः, शिष्टत्रैवर्णिकपरिग्रहादरस्य स्मृति- प्रामाण्यहेतोस्तेष्वसम्भवादिति त्रयीविद्विद्नं परिगृहीतानीत्यनेनोक्तम् । त्रयीवित्परिग्रहा- भावेऽप्यहिंसासत्यवचनादिवाक्येषु वेदमूलत्वदर्शनेन वाक्यान्तरेष्वपि वेदमूलत्वानुमानसम्भ- वात्कथमप्रामाण्यमित्याशङ्क्य किञ्चित्रयीमिश्रस्य धर्मकञ्चुकस्य छायायां पतितानीत्युक्तम् । यथा नर्त्तकी स्वाङ्गवैकल्यं कञ्चुकेन छादयति, तथा लोकवञ्चनार्थं चैत्यवन्दनादिवाक्यानां मिथ्यात्वं छादयितुं क्वचिद्वेदमूलार्थाभिधानं न सर्वत्र तथात्वानुमानायालमित्याशयः । किं तेषां लोकवचनं प्रयोजनमित्यपेक्षायां लोकोपसंग्रहादिप्रयोजनपरत्वमुक्तम् । कस्मात्पुनः क्व- चिद्वेदमूलत्वदर्शनेनान्यत्र तथात्वानुमानं न सम्भवतीत्याशङ्कानिराकरणार्थं—त्रयीत्युक्तम् । त्रय्यप्रामाण्यापादकत्वात्तद्विपरीतेनात एवात्मूलत्वात्तदसम्बद्धेन दृष्टशोभाभिप्रायेण तत्प्रधानेन तन्मूलेनोपनिबद्धानीत्यर्थः, प्रत्यक्षादिमूलत्वस्य प्रागेव निरस्तत्वात् प्रत्यक्षाभा- मासेष्वेव परमिमानात्प्रत्यक्षादिशब्दप्रयोगः । एवं तर्हि प्रामाण्याशङ्कानुपपत्तेस्तन्निराकरणमयुक्तमित्याशङ्क्य—विषचिकित्सेति । पूर्वपक्षबोजमुक्तम् विषचिकित्सादिसमर्थानां कतिपयमन्त्रौषधीनां या कादाचित्कासिद्धिः तन्निदर्शनबलेन जीविकाप्रधानस्यार्थान्तरस्योपदेशकानीत्यर्थः । ननु विषचिकित्सादिदृष्टान्तेन प्रामाण्याध्यवसाने जीविकाप्राधान्याच्चानुष्ठानादरे सत्यपि धर्मत्वाध्यवसाने किं कारण- मित्याशङ्क्य—अहिंसादिस्तोकार्थगन्धवासितत्वमुक्तम् । ननु प्रत्यक्षादीनां धर्मप्रामाण्य- निराकरणेन प्रत्यक्षसूत्र एव तन्मूलानां बाह्यस्मृतीनां प्रामाण्यस्य निराकृतत्वात्पुनरुक्त- मेतत्स्यानित्याशङ्क्याह—न चैतावंत । वेदमूलत्वं पूर्वमनिराकृतम् । इह निराकार्य- मित्याशयः । ननु वेदमूलत्वस्य परेनानङ्गीकृतत्वेन तन्निराकरणमतिप्रसिद्धत्वान्न कार्यमित्या- शङ्कयाह—न चेति । मीमांसकातिरिक्तेः सामवायिकार्थप्रतीत्यभ्युपगमेन कस्मिंश्चिच्छब्दे वाचकत्वानङ्गोकरणाद् गव्यादिशब्दवाचकत्वस्य परैरनङ्गीकृतस्यापि निराकरणं लोके वाचकविवेकस्याप्रसिद्धत्वादथाद्युक्तम्; नैवं बाह्यस्मृतीनां वेदमूलत्वनिराकरणं युक्तमति- प्रसिद्धत्वादिति वैधम्यं दृष्टान्तः ।
सूत्रेण सिद्धान्तमाह—अत आहेति । ननु पारतन्त्र्ये सति विरोधे मूलानुमानासम्भवे-
३४२ मीमांसादर्शनम् [ सू० यद्वा यथा गाव्यादिशब्दानामवाचकत्वे प्रामाण्यस्यातिप्रसिद्धत्वादनादरे लौकिकानां वाचकावाचकेषु समदृष्टित्वापत्तेस्तत्कथनं साधुशब्दाधिकरणे करिष्यते, तथा बाह्यत्वधर्मा- धर्मनिबन्धनाप्रामाण्यस्याप्यतिप्रसिद्धत्वादनादरेणाकथने लौकिकानां मन्वादिनिबन्धनेषु बाह्येषु च समदृष्टित्वापत्तेस्तत्कथनीयमित्युत्तरशेषः साधर्म्यदृष्टान्तः । यद्वा शोभादिविशेषवशेन कलिकालवशेन वाऽधर्मप्राबल्याद् बाह्येष्वेव श्रद्धाविशेषा- पत्तेः श्रौतस्मार्त्तार्थस्यैव त्यागः प्रसज्येतेत्याह—शोभेति । सन्तु वा लौकिकाः परीक्षकाणा- मपि सम्भवद्वेदसंयोगत्रैवर्णिकप्रणीतत्वाविशेषात्समदृष्टित्वापत्तिरित्याह—ब्राह्मणेति । बाह्य- स्मृत्यप्रामाण्यस्यावश्यप्रतिपाद्यतामुपसंहरति—तेनेति । पूर्वपक्षमाह—महाजनेति । (आदिपदेनानुपलब्धिविरोधपरिहाराय मूलश्रुतेरपि द्वीपा- न्तरवर्तित्वमुपादीयते) ननु विरोधे का गतिरित्याशङ्कयाह—तत्रेति । विरोधेऽप्युक्तेन न्यायेन मूलश्रुत्यनुमानाविघाताद्व्यवस्था विकल्पो वा भविष्यतीत्याशयः । मूलानुमानस्य चानुपलब्धिविरोधः । प्रत्यक्षश्रुतिमूलत्वपक्षे तु विरोधशङ्कव नास्तीत्याह—यैश्चेति । अस्मिन्पक्षे यस्मै यद्रोचते तत्प्रमाणीकुर्यादिति पूर्वोक्तं दूषणं परिहरन्नुपसंहरति-ततश्चेति । सूत्रेण सिद्धान्तमाह—अत आहेति । ननु पारतन्त्र्ये सति विरोधे मूलानुमानासम्भवे- नानपेक्षत्वं स्यात्, वेदवत्तु स्वातन्त्र्यसम्भवे मूलानुमानासम्भवेऽपि न किंचिद् दूष्यतीत्या- शङ्कयाह—पारतन्त्र्यं तावदिति । अतो वेदमूलत्वमात्रं निराकार्यम् । तच्चापसिद्धान्तापत्ते- बौद्धादिभिर्वक्तुं न शक्यत इत्याह—वेदमूलत्वं पुनरिति । यदि तु तावदेकदेशी कश्चिदभ्यु- पगच्छेत् तं प्रत्यनेन सूत्रेण निराकरोति -अन्यच्चेति । वेदविरुद्धस्यापि मन्वादिवाक्यस्य वेद- मूलत्वाभ्युपगमान्न तेन वेदमूलत्वं निराकर्त्तुं शक्यमित्याशङ्क्य समस्तविद्यास्थानविरुद्धत्व- मुक्तम् । ग्रन्थकाराणां वा अनेन सूत्रेण वेदविरोधोऽभिधीयत इत्याह —त्रयीमार्गेति । वेद- विरुद्धाचरणानां तन्मूलोपदेशानुपपत्त्या वेदमूलानुमानस्य बाध इत्याशयः । वेदविरोधिभ्यश्च सम्पर्कं वेदविरोधिनां वेदमूलोपदेशपरिग्रहानुपपत्तेर्वेदमूलानुमानस्य बाधकमित्याह— त्रयी बाह्येभ्यश्चेति । चतुर्थवर्णः शूद्रः । निरवसितः वर्णाश्रमाचाररहितः । परिग्रही- तॄणामपि वेदविरोधो वेदमूलानुमानस्य बाधकोऽनेन ग्रन्थेनोक्तो भवति । आत्मविरुद्धा- चरितृत्वेन च शाक्यादेर्लोकहितैषित्त्वस्य दूरनिरस्तत्वात्तदुपदेशस्य प्रमाणमूलत्वानुमानं न युक्तमित्याह—स्वधर्मेति । एतदेवाभियुक्तवचनेन द्रढयति—उक्तं चेति । मनोस्तु क्षत्रिय- स्यापि प्रवर्त्तकत्वे 'यद्वै किंचिन्मनुरवदत्तद्भेषजमिति वेदानुज्ञातत्वादविरुद्धमित्याशयः । स्वधर्मातिक्रम एवालङ्काराभिमानादत्यन्तमूढत्वं प्रतीयत इत्याह — बुद्धादेः पुनरिति । तद्ग्रन्थपरिग्रहीतॄणामपि' न शूद्राय मतिं दद्यादित्यादिप्रतिषेधातिक्रमसामर्थ्येन ब्राह्मण- निन्दाम् तत्कारित्वेन च शाक्यस्तुतिं कुर्वतामत्यन्तमूढत्वमाह—स किलेति । तद्ग्रन्थ- विहिताचरितॄणां च वेदविरोधो वेदमूलत्वस्य बाधक इत्याह—तदनुशिष्टेति । षट्स्वप्यर्थेषु सूत्रं योजयति—तेनेति । बाह्यग्रन्थजातं वेदविरोधादनपेक्ष्यमिति- प्रथमव्याख्यानेऽर्थः । ग्रन्थकारिणां वेदविरोधात्तत्कृतं ग्रन्थजातमनपेक्ष्यमिति द्वितीये परि-
४ | प्रथमाध्याये तृतीयपादः १४३ ग्रहीतॄणां वेदविरोधात्तेभ्यः समर्पकाणां ग्रन्थकारिणां सम्बन्धिग्रन्थजातमपेक्ष्यमिति तृतीये परिग्रहीतॄणां वेदविरोधात्त्परिगृहीतं ग्रन्थजातमनपेक्ष्यमित्यर्थोक्ते चतुर्थे । ग्रन्थकारिणा- मात्मविरुद्धाचरितृत्वात्तत्कृतं ग्रन्थजातमनपेक्ष्यमिति पञ्चमे । आचरितॄणां वेदविरोधात्त- दनुस्मृतं ग्रन्थजातमनपेक्ष्यमिति षष्ठे । वेदविरोधाभावेऽप्यनुपलब्धिविरोधेन पठितश्रुत्यनुमानायोगान्नित्यत्वबाधापत्तेश्च प्रलीन- शाखागतश्रुत्यनुमानायोगाद् बाह्यग्रन्थप्रामाण्यबाधमित्याह—न चेति । ननु मन्वादिस्मृति- वद्विप्रकीर्णशाखागतश्रुतिमूलत्वेनानुपलब्धिविरोधपरिहारो भविष्यतीत्याशङ्क्य तासां क्वचित्संवाददर्शनात् तद्दृष्टान्तेनान्यत्रापि वेदमूलत्वानुमानं युक्तमिति, इह तु क्वचिदपि संवादाभावाद्दैषम्यमित्याह—न हीति । अहिंसादिवचनस्यापि विषयविशेषानवच्छिन्नस्य विहितव्यतिरिक्तविषयहिंसादिनिषेधश्रुत्या संवादो नास्तीत्याशयः । ननु श्रुतिमूलत्वासम्भवेऽपि प्रमाणान्तरमूलत्वेन प्रामाण्योपपत्तेर्ग्रन्थप्रामाण्यबाधनं न युक्तमित्याशङ्क्याह—मूलान्तरेति । अत्रैव हेतुदर्शनाच्चेतिसूत्रं योजयति—लोभादीति । किञ्चात्रोत्प्रेक्षणीयलोभादिविषयतया हेतुशब्दव्याख्यानेन युक्त एव हेतुशब्दाभिधेया धर्मा- धर्मोपदेशमूलत्वेन तैरुपन्यस्ताः प्रत्यक्षं दृश्यन्ते इत्याह शाक्यादयश्चेति । ननु याज्ञ- वल्क्यादिभिरपि । 'यदुच्यते द्विजातीनां शूद्राद्यारोपसंग्रहः । न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ।।' या० स्मृ० अ० ५६ तेन पुनरित्यादिहेतुदर्शनपूर्वकं धर्माधर्मोपदेशनान्न तन्मात्रेण वेदमूलत्वनिराकरणं युक्तमित्याशङ्क्य वेद एव द्विजातीनां निःश्रेयसकरः परः इत्यादिना तैः प्राधान्येन वेद- मूलत्वाद्यभिधानात् तेन ह्यन्नं क्रियत इति वदर्थवादार्थं हेत्वभिधानं विज्ञायते । ननु शाक्यादिभिर्वेदमूलत्वं क्वचिदुक्तमित्याह—न चेति । हेतुमूलत्वेनैव तर्हि प्रामाण्यं भविष्यत्यत आह—हेतवश्चेति । हेत्वाभासाः-ते, न सम्यग्हेतव इति भावः । हेतुकत्वेन वा शाक्यादीनामनपेक्ष्यत्वप्रतिपादनायैतत्सूत्रमित्यर्थान्तरन्यासेनाह—एत एव चेति । पाषण्डिनो विकर्मस्थान्वैडालव्रतिकांश्छठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ।। मनु० अ० श्लो० इति स्मरणाद्वाङ्मात्रेणापि येषामर्चनं न कार्यं ते शाक्यादय एवेत्यर्थः । पाखण्डित्वम्, विकर्मस्थत्वं च प्रसङ्गादुक्तम्, हेतुदर्शनाच्चेति चकारसूचितं वा । अस्यैव सूत्रस्यान- पेक्ष्यत्वहेतोर्वेदबाह्यत्वस्य कुदृष्टित्वस्य च दर्शनादिति चतुर्थं व्याख्यानमाह—एतदीयेति । स्वामिप्रेतं सिद्धान्तमुपसंहरति तस्मादिति । ।। इति वार्तिकमतेन द्वितीयं बाह्यमताप्रामाण्यम् ।। ४ ।। मा० प्र०—औदुम्बरीस्तम्भ के सम्पूर्ण वेष्टन को कहने वाली स्मृति का आशय प्रदर्शन करते हुए सूत्रकार ने कहा कि सम्पूर्ण औदुम्बरी के वेष्टन करने पर बड़ा वस्त्र
३४४ मीमांसादर्शनम् [ सू० होगा और उससे उपकार होगा । इसी दृष्टि से किसी ऋत्विक् ने औदुम्बरी स्तम्भ प्रमाण वस्त्र से उसका वेष्टन किया था और वही स्मृति हो गई, अतः, लोभ आदि दृष्ट कारणों के आधार पर ही स्मृति होने से श्रुतिमूलक यह स्मृति नहीं है । यतः श्रुतिमूलक यह स्मृति नहीं है, अतः यह आदरणीय नहीं है । फलतः यह स्मृति अप्रमाण है । 'हेतुदर्शनाच्च' इस सूत्र का भाष्यकार ने स्वतन्त्र एक अधिकरण के रूप में व्याख्यान किया है । यथाः-वैसर्जनहोमीयं वासः अध्वर्युर्गृह्णाति अर्थात् वैसर्जन नामक होम का वस्त्र अध्वर्यु ग्रहण करे, इत्यादि स्मृति प्रमाण है या अप्रमाण है- इस प्रकार के संशय में पूर्वपक्षी ने कहा कि प्रथम अधिकरण में कथित नियम के अनुसार ही यह स्मृति भी प्रमाण होगी । इसी प्रस्तुत प्रसङ्ग में सिद्धान्ती ने कहा है कि-"'हेतुदर्शनात् च'" । इस प्रकार का स्मृतिवचन प्रमाण नहीं । क्योंकि ऐसे स्थल में स्मृति का मूल लोभादि ही हेतु के रूप में दृष्ट होता है । किसी ऋत्विक् के द्वारा लोभ आदि के कारण सभी वस्त्रों का ग्रहण करने पर इस प्रकार की प्रथा का प्रचलन हुआ । अतः इस प्रकार की स्मृति श्रुतिमूलक नहीं है, किन्तु लोभादिमूलक है, अतः यह श्रुतिमूलक न होने से अप्रमाण है । यह भी आशङ्का सङ्गत नहीं है कि एकत्र अप्रमाण होने पर सर्वत्र ही अप्रामाण्य होगा; कारण, ऐसा मानने पर उत्सर्ग और अपवाद का नियम ही समाप्त हो जायेगा । सभी शास्त्रों में सामान्य विधि और विशेष विधि है और सामान्य विधि विशेष विधि से बाधित होती है । किन्तु ऐसा होने से ही क्या सामान्य विधि सर्वथा अप्रमाण हो जाती है ? अतः विशेष विधि के द्वारा सामान्य विधि का बाध होने पर भी जैसे सामान्य शास्त्र का अप्रामाण्य नहीं होता है वैसे ही किसी-किसी स्थल में स्मृति अप्रमाण होने पर भी उसका सामान्यतः प्राप्त प्रामाण्य व्याहत नहीं होता है । वरन् वह प्रामाण्य अव्याहत ही रहता है । तन्त्रवार्तिक में इस सूत्र की व्याख्या भिन्न रूप से की गई है उनका कथन है कि- "स्मृतीनां श्रुतिमूलत्वे दृढ़े पूर्वं निरूपिते । विरोधे सत्यपि ज्ञातुं शक्यं मूलान्तरं कथम् ॥" पूर्व अधिकरण में वर्णित युक्तियों के द्वारा महाजन परिगृहीत स्मृतियों की वेदमूलकता जब दृढ़ रूप से अवधारित है तब उसकी स्थल विशेष में अन्यमूलकता स्वीकार करना उचित नहीं है, विभिन्न वेद शाखाओं में उपदिष्ट सामान्य आवश्यककर्तव्य वचन का मनु आदि सर्वज्ञ महर्षियों के द्वारा स्मृति के रूप में स्वतन्त्र भाव से निबद्ध किया गया है । क्योंकि, उसमें साधारण अनुष्ठेय अन्य शाखाओं में उपदिष्ट सभी विषयों की अवगति होती है एवं शाखा के साङ्कर्य से सम्प्रदाय का भी उच्छेद नहीं होता है । ऐसी स्मृति को स्थल विशेष में श्रुतिमूलक और स्थल विशेष में लोभादिपूर्ण कहना शोभा- दायक नहीं है । यदि यह कहा जाय कि उन स्थलों में लोभादिरूप कारण का जब अनुमान होता है तब अनुमित का पुनः अनुमान न होने से श्रुतिमूलकता या मूल प्रकृति का अनुमान नहीं हो सकता है । ऐसी स्थिति में कहना है कि-
४ ] प्रथमाध्याये तृतीयपादः ३४५ रागद्वेषमदोन्मादप्र मादालस्यलुब्धताः । क्व वा नोत्प्रेक्षितुं शक्याः स्मृता प्रामाण्यहेतवः ॥ का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते । कथञ्चिद् वा विरुद्धत्वं प्रत्यक्षश्रुतिभिः सह ॥ लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते । यावत्, किञ्चिददृष्टार्थं तत् दृष्टार्थं हि कुर्वते ॥ वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः । अर्थात् राग, द्वेष, मद, प्रमाद आलस्य एवं लुब्धता=लोभ आदि के स्थलों में जिसको स्मृति के मूल की कल्पना कर विशेष स्मृतियों का अप्रामाण्य माना जाता है, किसी स्थल में ही या उनको स्मृति का मूल मानकर स्मृति के अप्रामाण्य की कल्पना नहीं की जा सकती है। क्योंकि, सभी स्मृति-वाक्य को राग, द्वेष लोभादिमूलक ही मानना पड़ेगा। कारण, ऐसा कोई भी धर्म, कर्म नहीं है; जिसके द्वारा साध्य कोई न कोई लौकिक प्रयोजन न रहे अर्थात् सभी धर्मों का साध्य कोई लौकिक प्रयोजन रहेगा ही और ऐसी कोई स्मृति भी नहीं है जिसका किसी न किसी श्रुतिवाक्य से किसी न किसी अंश में विरोध न हो। लोकायतिक एवं मूर्खों को इससे अतिरिक्त कोई काम भी नहीं है। उनको जो भी अदृष्टार्थक कर्म है सभी को दृष्टार्थक अर्थात् ऐहिक प्रयोजन सम्पादक सिद्ध करना है। जैसे होम लक्ष्यकर इस समय के चार्वाक कहते हैं कि इससे दूषित वायु नष्ट होती है। इसीप्रकार जितने भी वैदिक कर्म समूह है उनको दृष्टार्थक अर्थात् लौकिक प्रयोजन का सम्पादक मानते हैं। यदि स्मृति को लोभादि मूलक कहते हैं तो वेद में भी दक्षिणा- दान, तुलापुरुषदान, महादान आदि जो कर्म हैं उनको भी स्मृति के समान लोभमूलक कहा जा सकता है। इसकी पर्यालोचना कर कहा जा सकता है कि -- ‘तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् । एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥ यच्चादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम् । आज्ञासिद्धप्रमाणत्वं पुराणादिचतुष्टयम् ॥ तत्तथैवानुमन्तव्यं कर्तव्यं नान्तराश्लथम् ॥” आशय यह है कि - इस प्रकार से लोकायतमतावलम्बियों के मनोरथ को पूर्ण करना मीमांसकों का कर्तव्य नहीं है। किन्तु पुराण, न्याय, मीमांसा और धर्मशास्त्र इन स्मृतियों का प्रामाण्य उनके द्वारा उपदिष्ट विधि से ही सिद्ध है, इसलिए वैदिक पूर्व से ही स्वाभाविक श्रद्धा से इन्हें स्वीकार करते हैं और यह युक्तियों से भी साधित है। इनका प्रामाण्य इसी रूप में अर्थात् वेदमूलक ही सिद्ध करना उचित है, किन्तु मध्य में उसको शिथिल करना उचित नहीं है अर्थात् स्मृति को स्थल विशेष में लोभादिमूलक
सूत्रार्थ भी इस रूप में योजनीय है। यथा—'विरोधे' अर्थात् प्रत्यक्ष श्रुति के साथ
३४६ मीमांसादर्शनम् [ सू० कहना उचित नहीं है। यद्यपि इस उद्धृत कारिका में प्रथम को छोड़कर अन्य सभी भाष्यकार के सिद्धान्त की व्याख्या का पूर्वपक्ष है, तथापि वार्तिककार ने बाद में जो अपने सिद्धान्त को व्यक्त किया है, वे उस सिद्धान्त पक्ष में प्रयोज्य हैं। भाष्यकार एवं वार्तिककार के मत के भेद का कारण प्रदर्शन करते हुए भाट्टदीपिका में वार्तिक का सार सङ्कलन करते हुए कहा है कि—भाष्यकार के मत में जिज्ञासा अर्थात् साध्य सन्देह भाट्टदीपिका के भाट्ट चिन्तामणि टीकाकार यज्वा के मत में अनुमान का कारण है— अतः, औदुम्बरी स्पर्श विधि के द्वारा आवेष्टित रूप में ही औदुम्बरी का निश्चयात्मक ज्ञान होता है और उसी से जिज्ञासा की निवृत्ति हो जाती है। इसलिए स्मृति के मूली- भूत वाक्य का अनुमान नहीं होता है। वार्तिककार ने कहा है कि अन्वय और व्यतिरेक व्यभिचार होने से जिज्ञासा अर्थात् साध्य सन्देह अनुमिति का कारण नहीं है। अतः, प्रत्यक्ष श्रुति विरुद्ध स्मृति का भी मूलीभूत श्रुतिवाक्य अनुमेय है और उस अनुमेय श्रुति के साथ प्रत्यक्ष श्रुति का विरोध होने पर व्रीहि यव के समान विकल्प ही आश्रयणीय है। ऐसी स्थिति में विकल्प होने पर भी ऐसे स्थल में प्रत्यक्ष श्रुतिविहित पदार्थ ही अनुष्ठेय है क्योंकि, प्रत्यक्ष श्रुति से बोधित अर्थ का अनुष्ठान करने पर किसी भी दोष की सम्भावना नहीं है। दूसरी बात यह है कि अनुमान को अपेक्षा प्रत्यक्ष पर ही अधिक आस्था होनी चाहिए और ऐसी स्थिति में स्मृति के द्वारा अनुमेय श्रुति के अर्थ का उस समय अनुष्ठान न करने पर ही स्मृति का अननुष्ठापकत्व रूप अप्रामाण्य होगा, किन्तु बाधितार्थकत्व रूप अप्रामाण्य नहीं है भाष्यकार का भी यही अभिप्राय है। इस पक्ष में सूत्रार्थ भी इस रूप में योजनीय है। यथा—'विरोधे' अर्थात् प्रत्यक्ष श्रुति के साथ विरोध होने पर “अनपेक्षं स्यात्” अर्थात् स्मृति वचन अपेक्षणीय अर्थात् उस समय तक जब तक उस स्मृति का मूलभूत श्रुतिवचन उपलब्ध नहीं हो जाता है तब तक आदरणीय या अनुष्ठेय नहीं है। वस्तुतः कात्यायनी ब्राह्मण, गोपथब्राह्मण आदि में इन स्मृतियों का मूलीभूत वेदवचन मिलता है। इस प्रकार आचमन, उपवीतित्व, बद्धशिखत्व, दक्षिणा- चारता आदि का मूलीभूत श्रुतिवचन उपलब्ध है। “हेतुदर्शनात्” लोभरूप हेतु दृष्ट होने से, 'च' = और। लोभरूप हेतु दृष्ट होने से ही उक्त स्मृति प्रमाण नहीं है ॥ ४ ॥ अथ तृतीयं शिष्टाकोपाधिकरणम् [ ३ ] शिष्टाकोपेऽविरुद्धमिति चेत् ॥५॥ सि० शा० भा०—आचान्तेन कर्त्तव्यम्, यज्ञोपवीतिना कर्त्तव्यम्, दक्षिणाचारेण कर्त्तव्यमित्येवंलक्षणान्युदाहरणानि । किमेतानि श्रुतिविरुद्धानि न कर्त्तव्यानि, उताविरुद्धानि कार्याणीति चेत्पश्यसि, तैरप्यनुष्ठीयमानैर्वैदिकं किञ्चिन्न कुप्यति । तस्मादविरुद्धानीति ॥५॥
५ ] प्रथमाध्याये तृतीयपादः ३४७ भा० वि०—विषयमाह—आचन्तेत्यादिना । यद्यप्यत्र कर्तव्यमात्रमनूद्या- चमनादिविधायकानामुदाहरणत्वं प्रतीयते, तथापि पुरुषार्थाचमनादिस्मृतीना- मप्यविरोधे, विरोधे च प्रमाणत्वाप्रमाणत्वयोर्निरूपितत्वात् क्रत्वर्थाचमनादि- विशेषविषयाणामेवोदाहरणत्वमिति मन्तव्यम् । तत्र श्रुत्यर्थाबाधकत्वबाधकत्वाभ्यां सन्देहमाह—किमेतानीति । इति विचार्यत इति शेषः, विरुद्धान्येताविरुद्धानीत्येवं सन्देहः, न कर्तव्यानि, कार्याणीति तु तत्फलनिर्देशः, अत्र विरोधाविरोधमात्रं विचार्यम्, अप्रामाण्यप्रमाणते तु पूर्वाधिकरणाभ्यामेव सिध्यत इति भावः । तदनेन यदि विरोधादप्रामाण्यम् तर्ह्याचमनादिस्मृतीनामपि क्रमादिश्रुतिविरोधाद- प्रामाण्यं स्यादित्याशङ्कयाविरोधप्रतिपादनात् अधिकरणसङ्गतिस्सूचिता । यद्वा क्रमकालादिश्रुतिविरोधमङ्गीकृत्य तद्विरुद्धान्याचमनादीनि न कर्तव्यानि उत धर्मविरोधेऽपि धर्मिभिः पदार्थैरविरुद्धानि कर्तव्यानीति विचार्यत इत्यर्थः । इह तूत्सृष्टस्य विरोधादप्रामाण्यस्य प्रमेयबलीयस्त्वेनापवादात् सङ्गतिः, विचार- फलं च आचमनादीनां क्रत्वङ्गत्वसिद्धिः, अत्राप्याचारपक्षे क्रत्वङ्गपदार्थविष- याणामाचाराणां क्रमाद्यविरोधं विरोधेऽपि वा प्रमेयबलीयस्त्वेनाप्रामाण्यापवादं वक्तुमारम्भः, सिद्धान्तनिरासेन पूर्वपक्षं दर्शयितुं तदनुवादपरं सूत्रं—तस्येति । चेदितिभागं व्याचष्टे—इति चेदिति । इति शब्दार्थं दर्शयन् अवशिष्टं व्याचष्टे— तैरिति । न विरुध्यते न बाध्यत इत्यर्थः । यथैव हि श्रुत्यादिभिः समाख्यापर्यन्तैः प्रापितान् पदार्थानादाय क्रमादीनां प्रवृत्तिः, तथा स्मृत्याचारप्राप्तानपीति, न स्मार्तैराचमनादिभिः अनुष्ठीयमानैर्वैदिकं किंचिदपि हीयत इति भावः । अबाध- फलमाह-तस्मादिति । क्रमादिभिरविरुद्धानि, विरोधेऽपि वा तैः पदार्थैरविरुद्धानि कर्तव्यानीति भावः ॥ ५ ॥ त० वा०—शिष्टाकोपे-एवं तावत्पुरुषार्थस्मृतीनामविरोधे विरोधे च प्रमाण- त्वाप्रमाणत्वे निरूपिते । संप्रति तु क्रत्वर्थानां यज्ञोपवीतोदकाचमनदक्षिणहस्ता- चरणस्मृतीनां बहुश्रुत्यर्थमध्यपातिनीनां विरोधाविरोधमात्रमेव विचार्यते । तन्निर्णये तु कृते, पूर्वाधिकरणाभ्यां प्रमाणत्वाप्रमाणत्वसिद्धिः । कथं पुनर्वरुद्धत्वं कथं वा न विरुद्धता । श्रुत्यर्थविगुणत्वेन तदभावेन चेष्यते ॥ २७८ यदि यज्ञोपवीतादीनि क्रतुमनुप्रवेश्यमानानि चोदकप्रयोगवचनाभ्यां न परि- गृह्यन्ते, निराक्रियन्ते वा, ततो विरोधः । यदि पुनरानुगुण्यात्प्रकरणादिपठित- वत्स्मृत्यनुमितवाक्यसंयोगेन क्रतुमनुप्रविशन्ति, न च पूर्वगृहीतं किंचिद्बाधन्ते, ततो न विरुद्धानीति ।
३४८ मीमांसादर्शनम् [ सू० प्रमाणप्रमेयबलाबलविचारः अन्यत्तु दर्शनं सत्यपि विरोधे प्रमाणप्रमेयबलाबलविसंवादात्संदेहः । तथा हि— श्रुतिस्मृत्योर्विरुद्धत्वे ज्ञातमेव बलाबलम् । धर्मधर्मिविरोधे च धर्मिणो बलवत्तराः ॥ २७९ वक्ष्यति हि 'अङ्गगुणविरोधे च तादर्थ्यादिति' न चेह स्मार्तः कस्यचिदपि श्रौतस्य पदार्थस्य बाध आशङ्क्यते । क्रमकालपरिमाणानि तु समस्तपदार्थ- धर्मत्वेन निश्चितानि । तत्र यदि प्रमाणबलाबलं बलीयः ततो बलवच्छ्रुतिप्रमे- यत्वाद् दुर्बलस्वभावैरपि क्रमादिभिराचमनादीनां बाधः । प्रमेयबलाबलबली- यस्त्वे तु पदार्थधर्मेभ्यः क्रमादिभ्यः पदार्थत्वेनाऽऽचमनादयो बलीयांस इति । सत्यपि स्मृत्याख्यप्रमाणे दुर्बलत्वे बलवदाश्रयानपि स्वरूपेण दुर्बलान्क्रमादीनेव बाधिष्यन्ते । किं युक्तमविरुद्धत्वं क्रत्वर्थाङ्गस्मृतेरपि । न तदर्थक्रियायां हि श्रुतं किंचन हीयते ॥ २८० यथैव विज्ञातबलाबलैरपि श्रुत्यादिभिः समाख्यापर्यन्तैर्यावन्तः शेषाः प्रमी- यन्ते, ते सर्वे शेषिकथंभावेन प्रार्थिता इत्थंभावेन सहानारभ्यवादाधीतैर्गृह्यन्ते । स्मृत्या तथैव सन्तुष्ट्या शिष्टाचारेण चार्पिताः । गृह्यन्ते भावनाभाग्यैरपूर्वैः साधनांशवत् ॥ २८१ कथंभावापेक्षितापूर्वोऽपकारस्याज्ञातपरिमाणाङ्गसाध्यत्वाद् यावत्किंचिद्येन केनचिदपि प्रमाणेन प्राप्नोति, तत्सर्वमङ्गं भवति । तस्मादाचमनादीन्यपि यज्ञप्रयोगाङ्गानीत्युपन्यस्ते अभिधीयते ॥ ५ ॥ अथ चतुर्थं शिष्टाकोपाधिकरणम् न्या० सु० -- अत्र भाष्यकारेणाचमनादीन्युदाहृत्य किमेतानि श्रुतिविरुद्धानि न कर्त्त- व्यानि, उताविरुद्धानि कार्याणीति विचाररूपं दर्शितम्, तच्छ्रुतिविरुद्धस्मृत्यर्थाकर्त्तव्यत्वस्य पूर्वाधिकरणे सिद्धत्वात्, अविरुद्धार्थकार्यंत्वस्य चाद्याधिकरणसिद्धत्वादनर्थकम् । भोजनादि- निमित्तस्य चाचमनस्य शुद्धयर्थत्वेन पुरुषार्थस्य यज्ञोपवीतस्य च हिरण्यादिवत्पुरुषार्थ- रूपेण नित्यधार्यंतया विहितस्य, दक्षिणाचारत्वस्य च भोजनादौ पुरुषार्थतया विहितस्या- नाशङ्काविरोधत्वेन पूर्वपक्षासम्भवादयुक्तमाशङ्क्य व्याचष्टे— एवं तावदिति । उक्तेन न्यायद्वयेन यद्यपि सर्वासां पुरुषार्थानां क्रत्वर्थानां च स्मृतीनामविरोधाविरोधयोः प्रामाण्या प्रामाण्ये निरूपिते, यद्यपि च तावन्मात्रेण पुरुषार्थानामाचमनादिस्मृतीनामनाशङ्क्य
५ ] प्रथमाध्यायस्य तृतीयपादः ३४९ विरोधत्वेन पर्यवसितं निरूपणम्। तथापि सम्प्रति क्रत्वर्थानां यज्ञोपवीतादिस्मृतीनां विरोधाविरोधमात्रमेव विचार्यंत इत्यर्थः । ननु क्रत्वर्थस्मार्त्तपदार्थानुष्ठानस्य श्रौतपदार्थपरिमाणविरोधाविरोधशङ्काऽस्तु नाम, न तु किंचिन्मात्राधिक्येन पूर्वाह्नादिकालविरोधशङ्का। न च सर्वादावनुष्ठीयमानस्य क्रमविरोधशङ्केत्याशङ्कय, बहुश्रुत्यर्थेत्युक्तम्। श्रौतपदार्थानां बहुत्वेन सकलपूर्वाह्नादि- व्यापित्वात्किंचिदाधिक्येऽपि कालातिक्रमापत्तिः। तन्मध्ये च स्मार्त्तपदार्थानुष्ठानक्रमबाधा- पत्तिरित्याशयः। ननु विरोधाविरोधमात्रस्य विचार्यत्वे कार्याकार्यशब्दावनर्थकौ स्याता- मित्याशङ्क्य, विचारप्रयोजनप्रतिपादनार्थत्वेन तयोः साफल्य माह—तन्निर्णये त्विति। नन्वाचमनादीनां निषेधाश्रवणे विरोधो नास्ति श्रवणे विरोध इति सन्देहानुपपत्ति- माशङ्कते—कथं पुनरिति। नात्र निषेधश्रवणाश्रवणाभ्यां सन्देहः, किन्तु स्मार्त्तपदार्थानुष्ठाने श्रुत्यर्थवैगुण्यापत्त्यनापत्तिसन्देहादिति परिहरति—श्रुत्यर्थेति। एतदेव विवृणोति— यदोति। प्रकृतिमनुप्रवेश्यमानानि प्रयोगवचनेन निराक्रियन्ते, तन्निराकृतानि च सामि- धेनी सादृश्यवद्विकृतिमनुप्रवेश्यमानानि प्राकृताङ्गनिरकाङ्क्षत्वाच्चोदकेन न परि- गृह्यन्त इत्यर्थः । यद्वा नात्र विरोधाविरोधमात्रं विचार्यते किं तु सत्यपि विरोधे किमाचमनादीनां धर्मित्वेन बलीयस्त्वाद्बाधः, प्रमाणदौर्बल्याद् बाध इति विरोधाधिकरणापवादार्थं विचार्यंत इति, अन्यथा सन्देहभाष्यं व्याख्यातुमाह — अन्ये त्विति। सन्देहः किं कर्त्तव्यान्युता- कार्याणीत्येवंरूप इति शेषः। अस्मिन्पक्षे सिद्धान्तवचनव्यक्तिप्रतिपादकमुताविरुद्धानि कार्याणीति भाष्यमविरुद्धानि, विरुद्धान्यपि वा धर्मितया बलीयस्त्वेनाबाधितत्वात्कार्याणीति द्विविधसिद्धान्तप्रतिपादकतया व्याख्येयम्। यद्वा श्रौतैः क्रम-काल-परिमाणविरोधेऽपि तदीयैः पदार्थैरविरुद्धत्वात्कार्याणीत्येक- रूपसिद्धान्तप्रतिपादकतयेति। यद्यपि शाखान्तराधिकरणसमाप्तावपि वा क्रमसंयोगाद्विधि- पृथक्त्वमेकस्यां व्यवतिष्ठेते (२-४-३२) इति सूत्रेण क्रम-काल-परिमाणविरोधाच्छाखान्तरीय- पदार्थानानुपसंहारमाशङ्क्य विरोधेनाथसंयोगादेकधर्म्ये तत्संयोगाद्विधीनां सर्वप्रत्यय (२-४-३३) इति सूत्रेण पदार्थानां क्रमादिबाधकत्वं वक्ष्यते तथापि स्मार्त्तानां पदार्थानां प्रमाणदौर्बल्याद् बाध्यत्वाशङ्का न विरुध्यते। तत्रत्यस्यैव प्रमेयबलाबलस्य प्रमाणबलाबल- बाधायाऽत्रोपन्यासात् तस्यापि नानेन पौनरुक्त्यं शङ्कनीयम्। यद्यपि च पिकनेमाधिकरणे स्वरूपबलाबलेन आश्रयबलाबलस्य बाध्यत्वं वक्ष्यते, तथाप्यनादित्वेन लब्धात्मकत्वात्समु- दायप्रसिद्धेराश्रयदौर्बल्येऽपि, क्लृप्तत्वेन स्वरूपबलीयस्त्वादलब्धात्मकवयवप्रसिद्धेर्बाध- कत्वेऽपि प्रमाणदौर्बल्ये प्रमेयस्यात्मलाभायोगादलुब्धात्मकस्मर्तृप्रमेयबाधकत्वं युक्तमित्या- शङ्काऽत्र न विरुध्यते। आश्रयदौर्बल्येन त्वात्मलाभायोगाशङ्का तत्र निराकरिष्यत इति विवेकः ।
१५० श्रीमीमांसादर्शनम् [सू० प्रत्यक्षश्रुतिरोधे तु स्मृतिमूलश्रुत्यननुमाने स्मार्त्तपदार्थानामात्मलाभायोगाद्विरोधेऽपि श्रुत्यनुमानमङ्गीकृत्य यथाश्रुतमूलानिश्चयात्प्रत्यक्षश्रुत्यनुरोधवृत्तित्वप्रतिपादनपरतया नात्यन्त- बाध्यत्वम् । 'न चाप्यत्यन्ततुल्यतेत्यनेन यत्पूर्वाधिकरणस्य व्याख्यानं कृतम् तदभिप्रायेण पूर्वाधिकरणोक्तस्य श्रुत्यनुरोधवृत्तित्वस्यापवादार्थमेतदधिकरणमिति योजयितुम्—अन्य- दर्शनमित्युक्तम् । एतदेव विवृणोति—तथा हीति । कथं धर्मिणां बलवत्तेत्यपेक्षायां द्वादशाधिकरण- न्यायमुदाहरति—वक्ष्यति हीति । यथा य इष्ट्या पशुना सोमेन वा यजेत, सोऽमावास्यायां पौर्णमास्यां वेति दीक्षणीयेष्ट्यादीनामङ्गानाम्, प्रधानस्य च सोमस्य बहुदिनव्यवधानेनोभयोः पर्वकालत्वसम्पादनाशक्तेः किं पर्वणि सोमः, पर्वणि दीक्षा, विपरीतं वेति सन्दिग्धे प्राथम्यात् दीक्षायाः पर्वकालत्वे प्राप्ते—प्रधानसाद्गुण्यार्थत्वादङ्गानामनुष्ठानस्य प्रधानस्यैव पर्वकालतेति वक्ष्यते । तथेहापि प्रधानस्याचमनादेर्यथाश्रुतस्यानुष्ठानक्रमोदस्तदनुरोधेनान्यथा- करणं प्रतीयत इत्यर्थः । सूत्रं च मुख्यं वा पूर्वचोदनाल्लोकवदिति (१२-२-२५) पूर्वाधि- करणसूत्रात्प्राथम्यार्थं मुख्यशब्दं प्राधान्यार्थत्वेनानुषज्य विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् स्वधर्मत्वमिति तत्पूर्वसूत्राच्च स्वधर्मत्वशब्दं मुख्यशब्दान्वयाय भावप्रत्ययलोपेना- नुषज्य प्रधानगुणस्याङ्गगुणेन सह विरोधे मुख्यं प्रधानं स्वधर्मकं कार्यं प्रधानायत्त्वादङ्ग- गुणस्येति योज्यम् । नन्वस्तु क्रमपरिमाणयोर्द्धर्मरूपत्वाद्दोर्बल्यम्, कालस्य स्वतन्त्रद्रव्यत्वेन धर्मिरूपत्वात्कथं दौर्बल्यमित्याशङ्कयाह—न चेति । अनुष्ठेयपदार्थावच्छेदकत्वेन कालस्यापि विधेयत्वात्स्व- तन्त्रविधेयतवस्य धर्मित्वेन विवक्षितस्याभावाक्रमपरिमाणवद्धर्मत्वनिश्चय इत्याशयः । नन्वस्तु प्रमाणप्रमेयबलाबल्योर्विसंवादः, कथं त्वाचमनादीनामकर्त्तव्यत्वम् । कथं वा कार्यतेत्य- पेक्षायामाह—तत्रेति । सिद्धान्तोपक्रमार्थत्वेन सूत्रं व्याख्यातुमिति चेदिति भाष्यं व्याचष्टे - किं युक्तमिति । द्वितीयविचारेऽपि सिद्धान्तद्वैविध्ये क्रमादिविरोधेऽपि वा पदार्थैः सहाविरोधाद्विरोधा- भावामिधानमविरुद्धम् । नन्वविरोधेऽपि शीघ्रप्राप्तैः श्रौतैरेवाङ्गैर्निराकाङ्क्षत्वेन मन्थराणां स्मार्त्तानाममङ्गानां क्रत्वपूर्वैर्ग्रहणान्नानुष्ठानं सिद्ध्यतीत्याशङ्क्य, क्रत्वपूर्वाणामनिर्ज्ञातोपाय- परिमाणतया श्रौताङ्गमात्रेण नैराकाङ्क्ष्याभावाल्लिङ्गादिगम्याङ्गवत्स्मृत्याचारप्रापि- ताङ्गानामपि ग्रहणमित्याह—यथैवेति । भावनाभिर्माद्यैरपूर्वैरशेपेापिकथम्भावेन प्राथिताः सन्तस्ते सर्वैऽनारभ्यवादाधीतैः सह यथेच्छभावेन गृह्यन्ते, तथैव स्मृत्याचारापिता अपि गृह्यन्त इत्यन्वयः । स्मृत्याचारार्पितानामवैदिकत्वेनापूर्वंग्राह्यत्वाशङ्कानिराकरणार्थम्— साधनांशवदित्युक्तम् । यथाऽष्टकादयः साधनांशाः स्मृत्याचारापिता अप्यपूर्वैर्गृह्यन्ते, तथेति- कर्त्तव्यतांशा अपीत्यर्थः । एतदेव विवृणोति—कथम्भावेति । उपसंहरति—तस्मादिति ॥५॥ मा० प्र०—"शिष्टाकोपे" = शिष्ट अर्थात् अनुशिष्ट अर्थात् श्रुतिविहित विषय के अकोप से = अनुष्ठेयमान स्मार्त पदार्थ के द्वारा व्याकोप अर्थात् बाधा न होने पर
Here is the accurate transcription of the scripture page in pure Markdown with Unicode Devanagari:
९] प्रथमाध्याये तृतीयपादः ३५१ "अविरुद्धम्" = आचमनादि आदि स्मृतिविहित पदार्थ = कर्म अविरुद्ध अर्थात् प्रमाण या अनुष्ठेय होता है, "इति चेत्" = यदि यह कहा जाय तो । जिस स्थल में स्मृति विहित कर्म का अनुष्ठान करने पर श्रुति अनुशिष्ट विषय का व्याकोप अर्थात् पीडा या बाधा नहीं होती है, वहां स्मार्त्तं कर्म का अनुष्ठान करना कर्त्तव्य है-यदि सिद्धान्ती ऐसा समझता है ॥ ५ ॥ न शास्त्रपरिमाणत्वात् ॥ २॥ पू० शा० भा०-नैतदेवम् । शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन् । कथम् ? 'वेदं कृत्वा वेदिं कुर्वीते'तीमां श्रुतिमुपरुन्ध्यादन्तरा वेदं वेदिं चानुष्ठीयमानमाचम- नादि । दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित्प्रधानं स्वकालमति- क्रामेत् । उभाभ्यां हस्ताभ्यामनुतिष्ठन्प्रधानकालं संभावयिष्यति ॥६॥ भा० वि०-एवं सिद्धान्तमनूद्य पूर्वपक्षमाह-इति । नञर्थमाह-नैतदेव- मिति । हेतुं व्याचष्टे - शास्त्रेति । हिशब्दो यस्मादर्थः । यतः स्मार्ताः पदार्थाः श्रौतपदार्थानुप्रवेशिनः शास्त्रेण श्रुत्या प्रथमत एव परिच्छिन्नं प्रमितं क्रमादिकं बाधेरन्, अतो नाविरोध इत्यर्थः, एवं च शास्त्रेणावगतं परिमाणं क्रमादि- नियमरूपं येषामङ्गानां तेषां भावः तत्त्वं तत्त्वादिति सूत्रावयवो व्याख्यातः, अनेनैव शास्त्रशब्देन पदार्थविषयस्मृतेः बहिरङ्गरूपप्रमेयप्राबल्ये सत्यपि श्रुतेः स्वरूपप्राबल्यात् तद्विरोधे स्मार्ताचमनादीनामननुष्ठेयत्वं सूचितम् । ननु यदि पदार्थविधायिना शास्त्रेण क्रमादयोऽपि परिच्छिन्नाः, ततो बाध्येरन् तदेव कथमिति चोदयति-कथमिति । तत्र तावत् क्रमस्य सह पदार्थैः प्रमि- तस्यान्तरनुप्रवेशिना स्मार्तेन बाधमुपपादयति-वेदमिति । कालस्यापि प्रयोग- विधिविहितस्य प्रधानप्रत्यासत्त्यादिरूपस्य बाधमाह-दक्षिणेनेति । प्रधानकालं पूर्वाह्नादिरूपं सम्भावयिष्यति नातिक्रमिष्यतीत्यर्थः ॥ ६ ॥ त० वा०-न शास्त्रपरिमाणत्वात्पदार्थोऽभ्यधिको भवेत् । शास्त्रितं परिमाणं हि कोऽतिक्रमितुमर्हति ॥ २८२ शास्त्रेण हि पदार्थानां परिमाणं त्रिधा गतम् । क्रमेयत्ताशुनिर्मांणरू । तदिह बाध्यते ॥ २८३ द्वाभ्यां श्रुत्यादिषट्काभ्यां कालेयत्ताक्रमात्स्थितान् । पदार्थाः प्रविशन्तो हि बाधेरन्स्मार्तलौकिकाः ॥ २८४ सर्वे हि पदार्थाः प्रधानकालान्न विप्रक्रष्टव्या इति प्रयोगवचनेन प्रतिपादितम् । तत्र स्मार्तशिष्टलोकाचारप्रमाणकपदानुष्ठानविक्षेपादक्षिणैकहस्ताधीनविल-
१५२ मीमांसादर्शनम् [ सू० म्बितानुष्ठानाच्च प्रधानप्रत्यासत्तिबाधप्रसङ्गः । समस्तप्रयोगकालाच्च पूर्वाह्नमध्यं- दिनादयोऽतिक्रम्येरन् । क्रमश्च यः श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तित्वक्रमैरवगतः, स च वैदिकपदार्था- रूढतया विज्ञाताश्रयप्रमाणपरिमाणः सन्नन्यथात्वं क्षुतादिनिमित्ताचमनव्यवधाना- त्प्रतिपद्येत । एवमायासस्रस्तोपवीतपुनःकरणव्यवधानेऽपि योजनीयम् । यो ह्यसावन्तः स्मार्तः पदार्थः क्रियते तदा । तस्य क्रमप्रमाणं हि न श्रुत्याद्यवगम्यते ॥ २८५ उक्तपरिमाणस्य क्रमस्य नान्यदपि किंचित्प्रमाणमवकल्पते । तथा श्रुत्याद्यवगतप्रचयशिष्टपदार्थपरिमाणमवश्यमध्वर्य्यादिभिरविस्मृतसम- स्तपदार्थनिर्माणयावधारणीयम् । ततश्च प्रथमपरिकल्पितपश्चादागतस्मार्त- पदार्थानुष्ठाने पूर्वावधारणभ्रंशात्समस्तकृताकृतानिरूपणादनिवृत्तवैगुण्याशङ्कस्य सम्यक्कृतत्वदाढर्यनिमित्तसंस्कारपाटवाभावादपूर्वदौर्बल्येन न्यूनफललाभप्रसङ्गः। तच्चातिशयवत्सर्वं सार्थवादाद्विधेर्गतम् । न्यूनत्वाक्षमयाऽवश्यं विरुद्धं बाधते स्मृतिम् ॥ २८६ परिमितश्रुत्याद्युपदेशातिदेशात्मकाङ्गशास्त्रपरिमाणत्वाद्वा न तद्व्यतिरिक्ता- ङ्गशास्त्रावकाशः सहकर्तव्यावगतेषु च पदार्थेषु सर्वात्मना त्वरमाणस्य यावाने- वात्यन्ताशक्त्या कालविप्रकर्षो भवति; तावन्मात्रमेव प्रयोगवचनोऽनुमन्यते । शक्तस्तु क्षणमात्रमपि यदि विक्षेपं कुर्यात्, तदस्य प्रयोगवचनविधिर्न सहेत । तस्मात्त्रिविधस्यापि शास्त्रपरिमाणस्यान्यथाकरणान्नाऽऽचमनाद्यविरुद्धमिति । १ तदुच्यते ॥ ६ ॥ न्या० सु०—पूर्वपक्षसूत्रमवतारणपूर्वकं व्याचष्टे—इतीति । नाचमनादिपदार्थः कर्त्तव्यो भवेदिति नञर्थव्याख्या । अभ्यधिकत्वापत्तेरिति शास्त्रपरिमाणत्वादित्यस्य विरोधोप- पादनार्थत्वेन व्याख्या । न तु सत्यपि विरोधे प्रमेयबलाबलानुसारेणाचमनाद्यनुष्ठानं भविष्य- तीत्याशङ्क्य, प्रमाणाधीनत्वात्प्रमेयसिद्धेः प्रमाणबलाबलस्य तस्माद् बलीयस्त्वाभिधानार्थं शास्त्रशब्दं व्याचष्टे—शास्त्रितमिति । ननु सूत्रकृता परिणामशब्देनेयत्ताबाधापत्तेरुक्तत्वात् शास्त्रपरिच्छन्नं हीत्यादिक्रमकालबाधापत्त्यभिधानभाष्यमयुक्तमित्याशङ्क्य नेयत्तावचनः परिमाणशब्दः, किं तु परिच्छेदाश्चात्रैतत्क्रमका एव, एतत्संख्याका एवैतत्काला एवेति त्रिविधावधारणरूपान्तराचमनाद्यनुष्ठाने बाध्येतेत्याह—शास्त्रेण हीति । आशुनिर्माणशब्देन प्रधानप्रत्यासत्तिः, पूर्वाह्नाद्यनतिक्रमः, प्रयोगशैघ्र्यं चेति त्रिविधा कालावच्छिन्नतोक्ता । समासश्चात्र शास्त्रेण परिमाणं येषां पदार्थानामिति बहुव्रीहिरभिमतः । कथं शास्त्रेण १. मु० मु० उच्यत इत्येव पाठः ।
१ ] प्रथमाध्याये तृतीयपाद। : ३५३ क्रमेयत्ता कालावगतिः ? किं च तेषां बाधक मित्यपेक्षायामाह - द्वाभ्यामिति । प्रयोगविधि- श्रुत्याऽङ्गप्रधानविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्च प्रधान- प्रत्यासत्तिलक्षणप्रयोगप्रांशुमावलक्षणश्च कालोऽवगम्यते । पूर्वाह्नादिकालः पूर्वाह्लादिश्रुत्या, अङ्गान्तरविनियोजकैः श्रुतिलिङ्गादिभिः प्रचयशिष्टाङ्गसंख्यावगम्यते । क्रमनियामकैः श्रुत्यर्थादिभिः क्रमः तेषां श्रौतपदार्थेषु प्रविशन्तः स्मृत्याचारप्राप्ताः पदार्था बाधका इत्यर्थः । प्रयोगवचनावगतस्य प्रधानप्रत्यासत्तिलक्षणस्य च शेषरूपप्रत्यासत्तिलक्षणस्य च कालस्य पूर्वाह्लादिविनियोजकश्रुत्यवगतस्य च पूर्वाह्लादिकालस्य स्मृत्याचारप्राप्तपदार्थानुष्ठाने बाधापत्तिं विवृणोति - सर्वे हीति । अनेन च भाष्यकारीयस्य दक्षिणाचारप्रधानकालयो- विरोधोपन्यासस्योपलक्षणार्थत्वं दर्शितम् । प्रयोगवचनावगम्यस्य प्रत्यासत्तिलक्षणस्य च कालस्योपपाद्यत्वेनाभ्यर्हितत्वात्पूर्वं तद्बाधप्रसङ्गापादभाष्यव्याख्येति व्युत्क्रमदोषाभावः । क्रमबाधप्रसङ्गभाष्ये प्रकृतोदाहरणविषयं श्रुतिग्रहणं क्रमप्रमाणमात्रोपलक्षणार्थम् । आचमनग्रहणं च प्रयोगमध्यपातियज्ञोपवीतकरणोपलक्षणार्थमिति व्याचष्टे - क्रमश्चेति । ननु वेदवेद्यन्तरालाचमनविध्यभावात्सर्वादौ च क्रियमाणस्य क्रमविरोधाभावात्कथमन्य- थात्वप्रतिपत्तिरित्याशङ्क्य-क्षुतादिनिमित्तेत्युक्तम् । ननु क्षुतादिनिमित्ताचमनप्रसक्तौ तावदाश्रयः क्रमो भविष्यतीत्याशङ्क्य - विज्ञातेत्युक्तम् । यस्याश्रयणं प्रमाणानां च परिमाणमेतावत्त्वं विज्ञातम्, स तथोक्तः, कीदृशमाश्रयपरिमाणमित्यपेक्षिते यावन्तो वैदिकाः पदार्थाः तावन्तः एवेति-वैदिकैरित्यनेनोक्तम् । प्रमाणपरिमाणं तु श्रुत्याद्यनुक्रमेण ज्ञातमेवान्तराले यज्ञोपवीतस्य नैमित्तिकस्याप्यप्राप्तेः कथं क्रमान्यथात्वापादकत्वमित्या- शङ्क्य-आयासेत्युक्तम् । नन्वन्तराले स्मृत्याचारप्रमाणकपदार्थप्राप्त्यभावे वैदिकमात्राश्रयत्वेऽपि तत्प्राप्तावधि- काश्रयत्वं भविष्यतीत्याशङ्कयाह -यो हीति । प्रमाणान्तरं तर्हि कल्पयिष्यते, अत आह -- उक्तेति । अङ्गपरिमाणप्रमाणस्येति पाठे त्वक्षुगविपूजनयोरिति गत्यर्थाद्च्चेतेरकत्तरि च कारके संज्ञायामिति को भवता दायो दत्त इत्यादिषु संज्ञाव्यभिचार्यत्वाच्च कारकस्या- संज्ञायामपि कर्मणि घञमुत्पाद्यः चजोः कुघिण्यतोरिति कुत्वेन गतशब्दार्थे गमिति रूपानु- सारेणावगतपरिमाणस्येत्यर्थः । नन्वियत्तायाः केनचिच्छास्त्रेणाविधानात्तद्वाधेऽपि न शिष्टकोपापत्तिरित्याशङ्क्य, तस्या अपि शास्त्रीयतामाह - तथेति । किं कश्चित्पदार्थो विस्मृतः, कृतं वा सर्वमिति सन्देहस्या- नुष्ठेयपदार्थसंख्यासम्पत्तिपर्यालोचनं विना निराकर्तुमशक्यत्वात्प्रयोगवचनेनेयत्तावधारण- मप्यर्थादाक्षिप्यते । अज्ञातस्य परिमाणस्यानुष्ठानकालेऽवधारणासम्भवमाशङ्क्य श्रुत्याद्यव- गतानां पदार्थानां प्रचयशिष्टमित्युक्तम् । ननु विस्मरणेऽपि सकलवैदिकपदार्थानुष्ठाने कृते सम्पूर्ण- फलप्राप्तेर्न कश्चिद्दोष इत्याशङ्कयाह -ततश्चेति । यतश्च पदार्थपरिमाणमवधारणीयम्, ततश्च स्मार्त्तपदार्थानुष्ठानेन न्यूनफलमप्रसङ्ग इत्यन्वयः । अपूर्वबलदौर्बल्येनेति न्यूनत्वकरणम् अपूर्वदौर्बल्ये किं कारणमित्यपेक्षायामनिवृत्ते वैगुण्याशङ्क्येति हेतुगर्भं विशेषणम्, किं कृतं किं २३
१५४ मीमांसादर्शनम् [ सू० वा नेति कृताकृतनिश्चयो वैगुण्याशङ्काकारणम् । कृताकृतनिश्चयकारणं-पूर्वावधारणभ्रंशः । कथं तस्यानिश्चयकारणत्वमित्यपेक्षिते सम्यक्कृतत्वदाढर्चनिमित्तसंस्कारपाटवाभावादित्युक्तम् । सम्यग्व्यैतत्कृतमिति स्मृतिदाढर्चंस्य यन्निमित्तं संस्कारपाटवम्, तस्याभावादित्यर्थः । अनुष्ठानात्पूर्वं ह्येतावन्तोऽनुष्ठेया इत्यवधारिते यावन्तोऽनुष्ठेयाः तावतामनुष्ठानोत्तरकाले- ऽनुष्ठितत्वावधारणात्तत्प्रसूतसंस्कारपाटवेन सम्यक्कृतत्वस्मृतिदाढर्यात्कृताकृतसन्देहो निवर्तते, नान्यथा । ननु सहेयत्तायाः पूर्वमवधारणात्कथं स्मार्त्तपदार्थानुष्ठाने पूर्वावधारण- भ्रंश इत्याशङ्क्य—प्रथमेत्युक्तम् । प्रयोगवचनस्य श्रुत्याद्यवगतपदार्थमात्रपर्यवसायित्वेन स्मार्त्तेष्वव्यापारात्प्रथमं प्रयोगवचनव्यापारवेलायामित्यत्थाश्रयत्वेनापरिकल्पितस्य पश्चात्- द्वद्यापारपर्यवसानोत्तरकालं स्मृतिवशादागतस्य प्राप्तस्य पदार्थस्यानुष्ठानेन पूर्वस्य प्रयोग- विधिब्यापारकालोनस्येयत्तावधारणस्य भ्रंशादित्यर्थः । वैदिकस्य सुनेदेन होमादेर्नैमित्ति- कस्यापि प्रयोगविधिब्यापारवेलायामेवानुष्ठेयत्वावधारणान्न तदनुष्ठाने पूर्वावधारणभ्रं- शापत्तिः । वैगुण्याशङ्कायां चापूर्वातिशयहेतुश्रद्धाविरहादपूर्वदौर्बल्यमात्रं भवति न तु सर्वथाऽनुपपत्तिः । तदुत्पादकसमस्ताङ्गप्रधानानुष्ठानस्य निष्पन्नत्वाच्छ्रद्धायाश्चापूर्वातिशय- हेतुत्वं 'यदेव विद्यया करोति, श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती (छा० उ० १.१.४) त्यतिशयवाचितरप्रत्यययुक्त्या श्रुत्या । श्रद्धयेष्टं च पूत्तं च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ इति स्मृत्या चाक्षयहेतुत्वं श्रद्धाया वदन्त्यार्थान्तरभावे क्षीणत्वप्रतिपादनादवसीयते । ननु किंचित्फललाभेऽपि विधेरर्थवत्त्वान्न शिष्टकोपापत्तिरित्याशङ्क्याह – तच्चेति । विधिसिद्धप्रवर्त्तनातिशयार्थेनार्थवादेन प्रवर्त्तनातिशयावसेयफलातिशयावसायात्तत्फलं सर्वं समग्रमतिशयवच्चार्थवादसहिताद्विधेरवगतमिति कृत्वा न्यूनत्वासहिष्णुतया फलातिशय- हेतुश्रद्धाविरहवैगुण्याशङ्कापादकपदार्यान्तरविधायकत्वेन विरुद्धामाचमनादिस्मृति बाधत- इत्यर्थः । इयत्ताविरोध एव सूत्रं योजयति-परिमितॆति । अङ्गशास्त्राणां यत्परिमाणम्, तदेवाङ्ग- नामित्यर्थः । क्रमकालेयत्तासाधारणपूर्वव्याख्यानापेक्षा वाशब्दः । प्रयोगविधिप्रमितप्रधान- प्रत्यासत्त्याक्षिप्तप्रयोगशैघ्रयविरोधं प्रधानप्रत्यासत्तिविरोधाभिधानेनार्थोक्तमपीदानीं प्रयोग- विधिना साक्षादपि प्रयोगशैघ्रयावगमात्पदार्थान्तरानुष्ठाने तद् विरोध इति प्रकारान्त- रेणाह—सहेति । उपसंहरति—तस्मादिति ॥ ६ ॥ भा० प्र०—'न' ना अर्थात् यह सङ्गत नहीं है, "शास्त्र परिमाणत्वात्” = क्योंकि शास्त्र परिमाण अर्थात् वेदशास्त्र से उपदिष्ट कर्म रहता है । किन्तु सिद्धान्ती का यह मत ठीक नहीं है, क्योंकि वेद वचन विहित अनन्तर कर्तव्य कर्म रहता है । यह पूर्व पक्ष है । आशय यह है कि भाष्यकार के मत के अनुसार प्रत्यक्ष श्रुति विरुद्ध स्मृति अप्रमाण है—यह पूर्वं अधिकरण में कहा गया है । प्रकृत में यह विचारणीय है कि वह कहाँ
७ ] प्रथमाध्याये तृतीयपादः ३५५ प्रमाण है और कहाँ अप्रमाण है । स्मृतियों में कहा गया है कि "क्षुत आचमेत", "आचान्तेन कर्तव्यम्", एक शास्त्रोक्त कर्म के करने के बाद दूसरे कर्म को करने से पूर्व यदि क्षुत् (छींक) होने पर आचमन करना चाहिये अर्थात् आचमन पूर्वक कर्म करना चाहिए । श्रुति में कहा गया है कि "वेदं कृत्वा वेदिं करोति" वेद अर्थात् कुश के गुच्छे से निर्मित सम्मार्जनी कर वेदि = आहवनीय एवं गार्हपत्य इन दो अग्नियों के मध्य में चार अङ्गुल परिमाण भूमि में गड्ढा करे इस स्थल में वेद करने के बाद यदि छींक हो तब स्मृति से विहित आचमन का अनुष्ठान करे और इसके बाद वेदि करे या आचमन किए विना ही वेदि का निर्माण करे ? इस प्रकार के संशय होने पर सिद्धान्ती यदि यह कहते हैं कि प्रकृत में जब श्रुति के साथ स्मृति का विरोध नहीं है, तब स्मृति के वचन से श्रुति वचन का व्याकोप या बाधा नहीं है, अतः स्मृति से उपदिष्ट वचन अविरुद्ध या प्रमाण होने से अनुष्ठेय है, किन्तु यह सङ्गत नहीं है, क्योंकि, "वेदं कृत्वा वेदिं करोति", इस स्थल में श्रुति में प्रयुक्त कृत्वोपद में 'क्त्वा', प्रत्यय से आनन्तर्य अर्थ का बोध हो रहा है । अतः वेद के बाद वेदि का निर्माण करना होगा—यही वेदवचन के द्वारा अर्थ अवगत हो रहा है, किन्तु स्मृति वचन के अनुसार यदि वेद करने के बाद आचमन करके अनन्तर वेदि किया जाय तो श्रुति के द्वारा कथित आनन्तर्य क्रम का बाध होगा । इसलिए श्रौतक्रम का विरोध होने से स्मृति के द्वारा प्रतिपादित आचमन कर्तव्य नहीं है, क्योंकि स्मृति की अपेक्षा श्रुति बलवती होती है । यही पूर्वपक्षियों का आशय है । इसी प्रकार "दक्षिणाचारेण कर्तव्यम्" दक्षिण हस्त से ही शास्त्रोक्त कर्म करे, यह स्मृति वचन श्रौत काल के साथ विरुद्ध होने से अनादरणीय है, क्योंकि, श्रुति में पूर्वाह्ण आदि काल नियमित है, किन्तु केवल दक्षिण हस्त से कर्म का अनुष्ठान किया जाय तो पूर्वाह्ण आदि श्रौतकाल के मध्य में कर्म का समापन नहीं होगा, अतः, दोनों हाथ से शास्त्रीय कर्मों का सम्पादन करना उचित है । क्योंकि; ऐसा करने से अतिशीघ्र कर्म का सम्पादन होने से श्रौतकाल का अतिक्रमण नहीं होगा । परिमाण के सम्बन्ध में इसी प्रकार समझना चाहिये । अत एव श्रुति संबोधित पदार्थ के = कर्म के समान श्रौत क्रम काल एवं परिमाण आदि के साथ विरोध होने पर भी स्मृति विहित कर्म अनुष्ठेय नहीं है ॥ ६ ॥ यह पूर्व पक्ष है । अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥७॥ सि० शा० भा०—अपि वेति पक्षव्यावृत्तिः । अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम् । ननु क्रमकालौ विरुन्धन्ति ? विरुन्धन्तु । नैष दोषः । आचमनं पदार्थः, पदार्थानाञ्च गुणः क्रमः । न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति । अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति । यदा पदार्थः प्राप्नोति, तदा क्रम
१५९ मीमांसादर्शनम् [ सू० एव नास्ति, केन सह विरोधो भविष्यति इति । तथा यदि दक्षिणेन नाऽऽचर्यते, मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नाऽऽन्यथात्वमभ्युपगच्छेत् । प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः पदार्थः । अपि च शौचम्, दक्षिणाचारता, यज्ञोपवीतित्वम्, चैवंजातीयका अर्था व्यवघातारो न भवन्ति, सर्वपदार्थानां शेषभूतत्वात् । तस्मादाचमनादीनां प्रामाण्यम् ॥ ७ ॥ भा० वि०-एवं श्रौतार्थबाधकतया विरोधे, विरोधाद्वाननुष्ठाने प्राप्ते सिद्धान्तयति - अपि वेति । तत्र विरोधादननुष्ठानमिति मतं व्यावर्तयितुं सूत्रा- वयवं व्याचष्टे - अपि वेति । अवशिष्टं व्याकरोति - गृह्यमाणेति । यस्मादपरि- दृश्यमानलोभादिकारणाः आचमनादयोऽर्थाः, तस्मात्प्रमाणमनुष्ठेया इत्यर्थः । यद्यपि स्मार्ताचमनाद्यनुप्रवेशे श्रौतक्रमादिबाधात् श्रुत्या सह स्मृतेर्विरोधः, तथापि हेतुदर्शनविशिष्टस्यैव विरोधस्याप्रामाण्यप्रयोजकत्वाद्विशेषणाभावे च विशिष्ट- प्रयोजकाभावेन तदप्रामाण्याभावाद्युक्तं तदनुष्ठानमित्यभिसन्धिः । कारणा- ग्रहणे सति प्रयुक्तानि-शिष्टैरनुष्ठीयमानानि, प्रतीयेरन्-आश्रीयेरन् इति सूत्रार्थः । परिहारान्तरं वक्तुं चोद्यमुद्भावयति - नन्विति । विरुन्धन्ति एवंजातीयका इत्यनुषङ्गः, क्रतुमनुप्रवेश्यमाना आचमनादय इत्यर्थः । आचमनादीनां पदार्थतया प्राधान्यात्, क्रमादीनां च पदार्थधर्मतया गुणत्वात्, गुणानुरोधेन च प्रधान- बाधासम्भवाद्युक्तमाचमनादीनामनुष्ठानमिति, परिहरति - विरुन्धिन्त्विति । एत- दुपपादयति - आचमनमित्यादिना । क्रम इति कालस्याप्युपलक्षणम्, न च कालस्य स्वतन्त्रपदार्थतया पदार्थधर्मत्वासंभवः । अनुष्ठेयपदार्थविच्छेदकतया तस्यापि तद्धर्मत्वादिति द्रष्टव्यम् । एवं तावद्विरोधेऽप्याचमनादीमनुष्ठेयतां प्रतीयेरन्नित्येतदन्तस्य सूत्रवाक्य- स्यार्थतया व्युत्पाद्येदानीं तेष्वदर्शनाद्विरोधस्येत्युक्तसूत्रावयवमनुषङ्गेणात्रापि योजयन् विरोधपूर्वकपक्षं दूषयति - अपि चेत्यादिना । तत्र क्रमविरोधं तावन्नि- रस्यति - प्राप्तानामिति । विनियोगवचनवशेन हि पदार्थेषु प्राप्तेषु पश्चाद- नुष्ठानाङ्गतया क्रमोऽपेक्ष्यते अतः प्राप्तेषु पदार्थेषु पश्चात् क्रमः प्राप्तः, ततः किमत आह - यदेति । इति शब्दः क्रमनिराससमाप्तौ, कालविरोधं निरस्यति - तथेति । प्रधानप्रत्यासत्यादिरूपः कालो बाधितो मा भूदिति, यदि दक्षिणेनैव हस्तेन नाचायेँतेत्यर्थः । व्यथाबाधः अस्तु को दोषस्तत्राह - प्रयोगेति । न हि पदार्थानां उत्पत्तिविनियोगयोः कालापेक्षा, अपि र्तहि प्रयोगे कर्तव्यमित्युक्ते कदेत्यपेक्षा भवति । तेन प्रयोगाङ्गत्वात् कालोऽपि पदार्थसिद्धयुत्तरकालीन इत्यर्थः । इतोऽपि तत्सिद्धयुत्तरकालीन इत्याह - पदार्थानामिति । करणोप-
७ ] प्रथमाध्याये तृतीयपादः ३५७ कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या- नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति, तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः, तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना- दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः । विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम- यति—तस्मादिति ॥ ७ ॥ त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु- पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच- नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् । अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते । तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७ विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क- प्रमाणत्वं निश्चीयते । यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते । अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८ न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते, यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत । अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते । विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९ इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः । पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९० ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति । उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता । बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१ प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति । तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः । प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२