भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

३३ ] प्रथमाध्याये तृतीयपादः . ६७३ आकृतिविशिष्टोऽपि व्यक्तिविशेषो नैव प्रतीयते । व्यक्तिविशेषबुद्ध्यभावाद् व्यक्तिमात्रमिति चेत् ? न तदानीं तस्याऽऽकृतितोऽन्यत्वेनानिरूपणात् । मात्रशब्दो हि सामान्यवाचीत्याकृतिरेवोच्यते । नानाकारेषु च वस्तुषु तद्भेदानुसारित्वाच्छ- क्तीनामन्वयव्यतिरेकाभ्यां गोत्वाकारनिबन्धनेव गोशब्दवाच्यत्वशक्तिर्गम्यते । तदेकाधारसामान्यान्तरादवगतिर्विशेषाकाङ्क्षा वेत्यर्थव्याप्यव्याप्तिभ्याम् । अनत्यन्तव्यतिरेकाच्चाऽऽकृतेरमूर्तत्वाच्चाश्रयदोषाप्रसङ्गः । सा हि निष्कृष्ट- रूपा, क्रियायोगिनी तु व्यक्त्युपेता भवतीवेति प्रोक्षणावेक्षणादि तु न कथंचिन्न सम्भवति । विशसनाद्यपि तु व्यक्त्यव्यतिरेकापेक्षया सम्भवत्येव । तथा हि-पश्वादिष्वपनीताङ्गेषु विशेषबुद्ध्यभावात्सामान्यरूपैव विशसनादिविशिष्टा बुद्धिर्दृष्टा । नन्वेवमनित्याऽऽकृतिः स्यात्, तेनांशेनेष्टैव । आश्रयान्तरविनाशात्तु सर्वैरप्य- विनाशोऽवश्यमेवेष्टव्यः । तेन यत्तावन्मात्रमेव तस्य विनाशः अनेकदेशस्य तु न कथंचिद्विनाशः स्यादित्युभयथा व्यवहारः । अत्यन्तव्यतिरेके तु नैष धर्मविधि- विषयो व्यवतिष्ठेत । न च पशुत्वममूर्तत्वात् । तदुपलक्षितं तु यद् द्रव्यम्, तद् द्रव्यत्वादृते न ताद्रूप्येण गम्यत इत्येकार्थसमवायाद्व्यापकत्वाच्च द्रव्यं गमयि- तव्यम्, तत्राप्यमूर्तत्वे दोषः । आश्रयोपलक्षणाच्च द्रव्यमात्रप्रसङ्गः । विशेषस्तु पशुत्वस्य वा द्रव्यत्वस्य वाऽव्यापकत्वादगम्यः । न वाऽप्रतीतं विधिना संबध्यते । न च यत्र संशयः तत्प्रतीतम् । न चान्यत्रोक्तो धर्मस्तत्रासंभवादन्यत्र कार्यः । तस्मान्न सामान्यकृतो विशेषेषु युक्तः, विशेषा अपि व्यपदेशात्सामान्यमेवेत्य- मूर्तता । असाधारणेन तु नैव व्यवहारस्तस्मादनिरूप्यो धर्मविधिविषयः । सामानाधिकरण्यादि च प्रसिद्धिविपरीतं लक्षणया कल्प्यम् । भाष्यकारेण तु व्यतिरेकाभ्युपगमेनाऽऽश्रयमात्रगतिरुक्ता । विशेषरूपा न कदाचिद् व्यक्तिः प्रतीयते । योऽप्याश्रयिभावः, सोऽप्यौपचारिकः । सामान्याच्च विशेषलक्षणं तत्र नाऽऽश्रयितव्यम् । आक्षेपमात्राभावात्, अथ वैतद्विषय एवायं प्रपञ्चः । किं शब्देनाऽऽकृत्या वेति । अन्वयव्यतिरेकाभ्यां चाऽऽकृत्येति निर्णयः । यो हि धूमादग्निमत्त्वं प्रतिपद्यते, तस्य तैक्ष्ण्येऽप्याकाङ्क्षा सिद्धा । मानसादपचरा- दिति । यो हि जाड्यात्सामान्यवाचितां हित्वा, कंचिदेव विशेषं यत्र सम्बन्धानु- भवः तं वाच्यं मन्यते, तस्य सामान्याप्रतीतेर्न विशेषान्तरापेक्षा भवति । अथ वा यथा शब्दात्स्वतन्त्रामाकृतिं बुध्यते, नेवं कदाचिदाकृतिमबुद्ध्वा व्यक्तिमिति । केन तर्हि गोत्वगोशब्दयोर्विशेषः ? व्यतिरेकांशस्यैकत्र विवक्षा । ४३

पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि-

६७४ मीमांसादर्शनम् [ सू० गोत्ववानिति तु स्फुटं प्रत्ययेन जातिमदभिधानम् । विभागोपपत्तेः । सामान्यस्य वोपलक्षणत्वान्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वाचकः । यस्तू- पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि- शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थम् । प्रयोजनं सामान्यविशेषशब्द- योरेकविषयत्वात्सामान्यशिष्टस्य विशेषशिष्टेनाबाधः पूर्वपक्षे । परमतेनाधिकरणं व्याख्याय स्वमतेन नामाख्यातयोरर्थनिर्णयः इति निरूपणम् एवं वा—गौरित्येवंविधाः शब्दाः साधुत्वेन निरूपिताः । तेषामेवाभिधेयेऽर्थे व्यापारः क्वेति चिन्त्यते ॥ ९९८ चतुर्विधे' पदे चात्र द्विविधस्याऽर्थनिर्णयः । क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ॥ ९९९ तयोरर्थाभिधाने हि व्यापारो नैव विद्यते । यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ॥ १००० वाचकत्वेऽपि पाश्चात्यमनुयात्येवमादिषु । प्रतीयते विशेषो यः संशयेन स नाऽऽप्यते ॥ १००१ यदि ह्यर्थद्वये बुद्धिर्निपातोच्चारणाद्भवेत् । ततो विचारो जायेत न सामान्यधिया विना ॥ १००२ आख्याताथविचारस्य भावार्थाधिकरणे कृतत्वात् अत्र प्रकृत्यर्थविचारः आख्यातस्यापि नन्वत्र न युक्ताऽर्थविचारणा । द्वितीयादावियं यस्माद्विस्तरेण करिष्यते ॥ १००३ कः पुनर्भाव² इत्यादौ विवेकेनार्थनिर्णयः । आख्यातस्य कृतस्तेन तच्चिन्ता नोपपद्यते ॥ १००४ प्रत्ययार्थस्य भावस्य वाच्यता प्रतिपादिता । प्रकृत्यर्थविवेकार्थं विचारः क्रियतेऽधुना ॥ १००५ प्रत्ययस्यापि वा तत्र भावार्थत्वे निरूपिते । सामान्यं वा विशेषो वा किं वाक्यमिति चिन्त्यते ॥ १००६ अत्र सिद्धस्यैव तत्र व्यवहारो भाष्यकृतः या चोक्ता भाष्यकारेण यागादेरभिधेयता । सिद्धा सेह विवेकार्थं तत्र भावस्य भाषिता ॥ १००७ १. नामाख्यातोपसर्गनिपातरूप इत्यर्थः । २. जै० सू० २-१-१ इत्यत्र भाष्यकारेण ।

३३ ] प्रथमाध्याये तृतीयपादः ६७५ यज्याद्यर्थेऽपि वा वाच्ये किं सामान्यविशेषयोः । अभिधेयमिति प्राप्ता चिन्ता कर्तुं क्रियापदे ॥ १००८ अपूर्वं कस्मादिति प्रधानविचारे न पुनरुक्तिशंका अपूर्वं भावशब्देभ्यो द्रव्यादिभ्यः किमिष्यते । एषा तत्र च चिन्तोक्ता शेषा प्रासङ्गिकी कथा ॥ १००९ नामाख्यातपदे तेन कस्यार्थस्याभिधायके । किमाकृतेरुत व्यक्तेरिति चिन्ता प्रवर्तते ॥ १०१० प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे । व्यक्तिपक्षाभिधानाच्च संशयः प्रतिभाति नः ॥ १०११ संगतिसंशययोरुपपादनम् कथं लक्षणसंबन्धश्चिन्तायाः प्रकृतेन वा । स्मृतिमूलविचारेण वक्तव्यं त्विदमादितः ॥ १०१२ इयं प्रासङ्गिकी चिन्ता साधुशब्दे निरूपिते । उदाहृतस्य तस्यैव क्रियतेऽर्थविनिश्चयः ॥ १०१३ वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात् । न हि वाच्यमविज्ञाय साधुत्वमवधार्यते ॥ १०१४ अनिश्चितेऽपि वाच्यत्वे व्यक्ताकृत्योर्विवेकतः । साधुत्वं शक्यते ज्ञातुं तेन वाच्यमिहोच्यते ॥ १०१५ वाच्यमात्रे हि साधुत्वमविज्ञाते न लभ्यते । न चाऽऽकृत्या न च व्यक्त्या विना तन्नोपपद्यते ॥ १०१६ प्रकारान्तरेण संगत्यूत्पादनम् अथ वोक्तेन मार्गेण सर्वा व्याकरणस्मृतिः । प्रयाणमिति सिद्धस्य किंचिदत्र विचार्यते ॥ १०१७ व्यक्तिर्वाच्येति विज्ञानं न सन्मूलमसंभवात् । तेन व्याचरणेऽपीदृग् न प्रमाणं स्मृतिर्मता ॥ १०१८ स्मृतेस्तेनापवादोऽयं प्रामाण्यस्य क्वचित्कृतः । युक्तो लक्षणपादाभ्यां पूर्वया चापि चिन्तया ॥ १०१९ आकृतिपक्षेऽपि क्रियाया उपपत्तिर्व्यक्तिमादायैव वाच्येति फलवैकल्या- भावशंका-समाधाने ननु चाऽऽकृतिपक्षेऽपि व्यक्तावेव क्रियाक्रिये । शब्दार्थे संभवात्तेन किमर्थैषा विचारणा ॥ १०२०

६७६ मीमांसादर्शनम् [ सू० यद्यप्येवं न भेदोऽस्ति वेदार्थकरणे नृणाम् । दधि विप्रेभ्य इत्यादौ फलं लोके भविष्यति ॥ १०२१ व्यक्तिपक्षे विकल्पः स्यात्कौण्डिन्ये दधितक्रयोः । सामान्यवाक्यदौर्बल्यात्क्रममेवेतरत्र तु ॥ १०२२ वेदेऽपि च विशेषोऽस्ति व्रीहिप्रोक्षणचोदके । दध्नेत्यादिषु भेदश्च जायते होमचोदके ॥ १०२३ प्रोक्षणं पूर्वपक्षेऽपि कर्तव्यं लौकिकेष्वपि । व्रीहिषु श्रुतिसामर्थ्याद्वाधित्वा संनिधिक्रमम् ॥ १०२४ प्रकृतेष्वेव सिद्धान्ते श्रुतिसंनिध्यनुग्रहात् । तत्रापि कृत्स्नमस्त्येव व्रीहित्वं हि श्रुतीरितम् ॥ १०२५ एवं होमेऽपि दध्यादौ प्रकृतेऽप्रकृतेऽथ वा । प्रकृते श्रुतिवाच्यस्य होमत्वस्यापि संभवात् ॥ १०२६ सोपपत्तिकमन्यच्च वक्तव्यमनया दिशा । कर्तव्या तेन यत्नेन चिन्तेयं सप्रयोजना ॥ १०२७ ननु गौरितिशब्दादौ सर्वमेतद्विचारितम् ।१ तेन तेन गतार्थत्वात्पुनश्चिन्ता न युज्यते ॥ १०२८ आकृतिश्शब्दार्थ इत्यत्र हेतूपन्यासार्थमिति कथनम् आकृतेरभिधेयत्वप्रतिज्ञा केवला कृता । तत्रेदानीं सहेतुत्वं तस्या एवाभिधीयते ॥ १०२९ यथा वाऽऽकृतिरित्यादौ भाष्यकारेण चोदितम् । पुनरस्याः प्रतिज्ञाया हेतुरप्यभिधास्यते ॥ १०३० आकृतिश्शब्दार्थत्वं पूर्वसिद्धं व्यक्तेर्वाच्यावाच्यत्वचिन्ता यद्वोक्तस्तत्र सद्भावः शब्दार्थत्वमिहोच्यते । या तु शब्दार्थता प्रोक्ता सेह सिद्धा न चिन्तिता ॥ १०३१ उक्ते वाऽप्यभिधेयत्वे जातेः सद्भावसिद्धये । व्यक्तिर्वाच्या न वेत्येतदगतार्थं विचार्यते ॥ १०३२ एतच्चिन्ताप्रसिद्धयर्थमिदं तावद्विचार्यते । शब्दार्थौ लौकिकौ वेदे किमन्याविति संशयः ॥ १०३३ १. जै० सू० ( १-१-५ ) इत्यत्र वृत्तिकारमतानुवादे शब्दार्थसम्बन्धाक्षेपपरिहारग्रन्थे भाष्यकारैरिति शेषः ।

३३ ] प्रथमाध्याये तृतीयपादः ६७७ एकत्वे सति कर्तव्यो विचारः शब्दवाच्ययोः । भेदे तु संशयाभावान्न चिन्तावसरो यतः ॥ १०३४ शब्दार्थेन न कार्यं हि व्यवहारेऽर्थलक्षणे । लौकिकव्यवहारार्थं तेनेदं न विचार्यते ॥ १०३५ वेदे तु प्रत्यभिज्ञाने शब्दार्थविषये सति । विवेकः शक्यते ज्ञातुं प्रतीतेर्वाच्यगम्ययोः ॥ १०३६ अलौकिके च शब्दार्थे वाच्यवाचकरूपयोः । अज्ञातयोर्न जायेत सन्देहो वाच्यवस्तुनि ॥ १०३७ तेन प्रतीतशब्दार्थे निर्णयार्थमिदं पुरा । शब्दनित्यत्वाधिकरणे लौकिकशब्दानामभेदो विचारितः । अत्र लौकिकानां वैदिकानां शब्दानां भेदाभेदविचार इति प्रकारान्तरम् एकत्वं विद्यते नेति चिन्त्यं शब्दाभिधेययोः ॥ १०३८ संख्याभावादिति१ ह्येतन्ननु स्पष्टं निरूपितम् । शब्दस्य प्रत्यभिज्ञानान्नान्यतोच्चारणान्तरे ॥ १०३९ अभेदकारणं चात्र प्रत्यभिज्ञानमेव ते । अन्यतूपचयत्वेन तेन चिन्ता न युज्यते ॥ १०४० लौकिकेष्वेव शब्देषु तत्राभेदः प्रसाधितः । वैदिकानामभेदार्थं चिन्तनीयमिदं पुनः ॥ १०४१ व्यपदेशादिभेदाच्च कथं भेदो न जायते । तवानुक्तमिदं वक्तुं विचारोऽयं प्रवर्तितः ॥ १०४२ लौकिकवैदिकानां शब्दानांमर्थभेदाभेदविचारः एकत्वेऽपि च शब्दस्य सिद्धे तत्रेह चिन्त्यते । किमर्थो भिद्यते नेति तेनाप्यपुनरुक्तता ॥ १०४३ अर्थभेदे च चिन्तेयं शब्दाभेदे तु सत्यपि । घटते कस्य वाच्यत्वं व्यक्त्याकृत्योर्द्वयोरपि ॥ १०४४ व्यपदेशादिभेदेन शब्दे च प्रत्यभिज्ञया । भेदाभेदनिमित्ताभ्यां क्रियते संशयोद्भवः । पूर्वपक्षः किं प्राप्तमुच्यते भिन्नौ शब्दार्थौ लोकवेदयोः ॥ १०४५ १. जै० सू० (१-१-६)।

६७८ मीमांसादर्शनम् [ सू० व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च । स्वरोच्चारणभेदाच्च लोपव्यत्ययदर्शनात् ॥ १०४६ स्वरयूपादिशब्दैश्च स्पष्टभेदैः सह श्रुतेः । अनध्यायादिभेदाच्च शूद्रोच्चारणवर्जनात् ॥ १०४७ अश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनात् । अग्न्यादीनां च भिन्नत्वं भाष्ये यदभिधीयते ॥ १०४८ तदयुक्तं क्रियाभेदे कर्तृभेदे१ हि नेष्यते । हन्ति कर्तृत्वमग्नेश्च पदार्थेभ्यः प्रतीयते ॥ १०४९ अशाब्दं वह्निशब्दस्य तद्वाच्यं कथमुच्यते । हननं किं कृतं नेति प्रमाणं चात्र नास्ति नः ॥ १०५० असता कथमन्यत्वं कर्मणाऽतः प्रतीयते । अपूर्वे वृत्रशब्दार्थे क्रियाशब्देऽप्यलौकिके ॥ १०५१ हन्तिकर्त्तरि वह्नित्वं कथमध्यवसीयते । स्तुतिमात्रपरत्वाच्च न वह्नित्वं विधीयते ॥ १०५२ अक्रियत्वाच्च भाष्योक्तैर्वाक्यैरित्यभिधास्यते । तेनोक्तस्यैव शब्दस्य त्रिवृदादेर्नवादिषु ॥ १०५३ वृत्तिरर्थेष्वपूर्वेषु वक्तव्या भेदसिद्धये । भेदपक्षे हेत्वन्तरोपन्यासः यच्चान्यदिदमित्याह२ रूपभेदं क्रियाश्रुतेः ॥ १०५४ तदसत्यं न शब्दस्य भेदोऽर्थगुणकारितः । तेन स्वरादिभेदेन वक्तव्या भिन्नरूपता ॥ १०५५ पूर्वोक्तेनैव मार्गेण नार्थभेदनिबन्धना । तस्माच्छब्दार्थयोर्भेदः स्पष्ट इत्यवधारिते ॥ १०५६ तावेव वेदे शब्दार्थौ लोके याविति भाष्यते । वेदस्यैव प्रसज्येत सकलस्याप्रमाणता ॥ १०५७ अविज्ञातार्थसंयोगात्स्थितप्रामाण्यबाधया । प्रयोगस्याग्निहोत्रादेश्चोदनायाश्च जायते ॥ १०५८ १ क. कर्तृभेदो । २. लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणावसरे भाष्यकार इति शेषः ।

३३ ] प्रथमाध्याये तृतीयपादः ६७९ अभावः प्रत्ययार्थस्य विधेरप्रतिपादनात् । अर्थान्तरे च शब्दस्य न प्रयोगो विधीयते ॥ १०५९ वेदेनाशास्त्रहेतुत्वात्सम्बन्धस्येति हि स्थितम्१ । सिद्धान्तः किं चाविभक्तरूपत्वं प्रत्यभिज्ञायते स्फुटम् ॥ १०६० वैदिकेष्वपि शब्देषु प्रत्यक्षेण पुनः पुनः । यद्वा विभागशब्देन शब्दस्योच्चारणे सति ॥ १०६१ गोत्वबुद्धेः समानत्वान्न भेद इति कीर्त्यते । लक्षणस्याविभक्तत्वं शब्दानां वेदमुच्यते ॥ १०६२. सर्वथा शक्यते भेदो न वक्तुं शब्दवाच्ययोः । एकत्वे याज्ञिकानां च प्रसिद्धिर्नुगृह्यते ॥ १०६३ मीमांसा चापि वेदार्थतत्त्वनिर्णयकारणम् । व्यपदेशादिभेदैश्च न भेदोऽत्रानुमीयते ॥ १०६४ प्रत्यक्षप्रत्यभिज्ञाते वेदशब्देऽन्यरूपता । व्यपदेशादिभेदश्च स्वरभेदादिकारितः ॥ १०६५ स्वरादयश्च भिद्यन्ते वेदत्वात्किमिहोच्यते । स्वरयूपादिशब्दानामन्यत्वेनेतरत्र२ च ॥ १०६६ नान्यत्वं युज्यते बाधात्प्रत्यक्षप्रत्यभिज्ञया । वचनाद्धर्मभेदस्तु शूद्रवर्जितताऽपि वा ॥ १०६७ धर्मवुच्चारणस्यैतौ न शब्दस्य स्वरश्च यः । अश्वबालादिशब्दार्थभेदे वचनकारिते ॥ १०६८ न च भिन्नत्वमन्येषु प्रज्ञातार्थेषु युज्यते । उत्तानानां च केषांचिद्वह्रतां न विधीयते ॥ १०६९ गोत्वं तेषामसिद्धत्वात्पदार्थग्रहणादपि । विधेरन्यस्य शेषत्वात्स्तुतिरेषाऽवगम्यते ॥ १०७० उत्तानेत्यादिका तेन नातो भेदः प्रतीयते । तस्माद्यावेव शब्दार्थौ लोके पूर्वं निरूपितौ ॥ १०७१ १. जै० सू० ( ३-२-२ ) इत्यत्र । २ ब. स्वर ।

६८० मीमांसादर्शनम् [ सू० वेदे तावेव विज्ञेयाविति सिद्धं प्रमाणवत् । प्रकारान्तरोपन्यासेन प्रकृतस्यानुसन्धानम् यद्वा चैवं यदा युक्ता चिन्तेयं क्रियतेऽधुना ॥ १०७२ किमाकृतेः पदार्थत्वं किं व्यक्तेः किं द्वयोरिति । बहवः प्रतिभान्त्यत्र पक्षाः प्रतिपदं च ये ॥ १०७३ ते च सर्वेऽभिधीयन्ते व्यामोहविनिवृत्तये । गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः ॥ १०७४ जातिर्व्यक्तिश्च सम्बन्धः समूहो लिङ्गकारके । संख्या च सप्तमी तेषामष्टपक्षी द्वयोर्द्वयोः ॥ १०७५ किं जातिरेव शब्दार्थो व्यक्तिरेवाथ वोभयम् । किं विकल्पोऽथ सम्बन्धः समुदायो निरूप्यताम् ॥ १०७६ जातिर्व्यक्तिविशिष्टा वा व्यक्तिर्जातिविशेषिता । जातिसम्बन्धयोरेवं सामान्यसमुदाययोः ॥ १०७७ जातिकारकयोश्चैवं संख्यासामान्ययोरपि । लिङ्गसामान्ययोरेवमेकैकस्येतरैः सह ॥ १०७८ अष्टौ पक्षा नियोक्तव्याः षड्भिः प्रत्येकमुक्तवत् एवमानन्त्यमेतेषां पक्षाणामिह गम्यते ॥ १०७९ पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयवर्णनम् । पूर्वपक्षेऽपि चत्वारो भाष्ये चैते प्रदर्शिताः । व्यक्तेरेवाभिधेयत्वं द्वयोर्वा स्वप्रधानयोः ॥ १०८० व्यक्तेर्जातिविशिष्टाया विपरीतमथापि वा । उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चिताः ॥ १०८१ निराकरणयुक्त्या च निषिद्धा इति नोदिताः । तेनाऽऽद्यौ द्वावेव पक्षौ विचार्येते किमाकृतिः शब्दार्थो व्यक्तिरिति । भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययाद्व्यक्तौ च क्रियासंभवा- दिति । एतदयुक्तम् ! व्यक्तेरपि प्रतीयमानत्वात्कथं जातेरेव प्रतीतिरुपन्यस्यते ? यदि च व्यक्तिर्न संप्रतीयेत, ततः संशय एव न स्यात्किमभिधीयतेऽनेनेति । न च क्रियासंभवोऽभिधेयत्वे कारणं व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव संशयकारणं मन्तव्यम् । प्रयोजनप्रतीत्योः साधारणत्वात् शास्त्रान्तरे व्यक्तिपक्षाभ्यु पगमात्संशयः ।

३३ ] प्रथमाध्याये तृतीयपादः ६८१ यद्वा शब्द उच्चारिते सामान्यप्रत्ययाद् व्यक्त्याकृत्योः सामान्यात्तुल्यात्प्रत्ययात् व्यक्तौ च शब्दादाकृतावालम्भनस्पर्शनशयनसहशयनादिक्रियासंभवात्सामान्ये व्यक्तौ च प्रत्ययात्क्रियासंभवादिति चोक्तम् । का पुनराकृतिः, का व्यक्तिरिति । कथं पुनरयं प्रश्नो यदा गौरित्येतस्य शब्दस्य कोऽर्थ इत्यत्र जातिर्निरूपिता । नैष दोषः । येनैतन्न ज्ञातमसौ पृच्छति का पुनराकृतिः ? का व्यक्तिरिति ? संदेहाद्वाऽत्र पुनरुभयस्मिन्प्रतीयमाने का व्यक्तिः ? कियती वा जातिरिति । वैपरीत्येनैव कश्चित्पृच्छति यदा शाबलेयादि- पिण्डान्न किंचिद् व्यक्तं वस्त्वन्तरं भिन्नमुपलभ्यते, तदा कुतोऽयं विवेको व्यक्तिरियम्, जातिरियमिति । अथ वा व्यवहारार्थं सर्वैव चिन्ता क्रियते जातेश्च पदार्थत्वेऽपि व्यक्तौ क्रियासं- भवान्निष्प्रयोजना चिन्ता । यतस्त्वसौ प्रयत्नेनैतद्विचारयति । तेन नूनं काऽप्यस्य पिण्डादत्यन्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राऽऽह । द्रव्यगु- णकर्मणां सामान्यमात्रमाकृतिरिति । यौ तावदज्ञानसंशयवादिनौ, तयोः स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् । यस्तु विपरीतवादी तस्यैव निराकरणमभिधीयते । यद्यपि जातिर्व्यक्तेर- त्यन्तभिन्ना नोपलभ्यते, तथाऽपि शबलाकारे तस्मिन्नुपलभ्यमाने सामान्यबुद्धेरा- लम्बनं प्रथमपादोक्तेन न्यायेनाऽऽकृतिः । इतरा व्यक्तिः । न चानेन ग्रन्थेन जातेः सद्भावः, प्रमाणं वा प्रतिपाद्यते । व्यक्तेर्विवेकः केवलं कथ्यते । तेनैवाभि- प्रायेण मात्रशब्दप्रयोगः अन्यथा तस्य गतार्थतैव भवेत् यदप्युक्तं नूनं काऽप्यत्यन्त- भिन्ना जातिरभिप्रेतेति । तस्याप्युत्तरं द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरभि- प्रेता, नात्यन्तव्यतिरिक्तेति । द्रव्यादीनां च सर्वेषां यत्सामान्यं सत्तारूपं तदनेन निर्दिश्यते, तन्निर्देशेनावान्तरसामान्यानामपि निर्देशसिद्धिः । यद्वा सामान्यशब्दस्य प्रत्येकसंबन्धाद् द्रव्यत्वादीनि त्रीणि सामान्यानि निर्दि- श्यन्ते, सत्तया व्यवहाराभावात् । अथ वा मात्रशब्दप्रयोगाद् द्रव्यादिषु यावन्त्यवान्तरसामान्यानि, महासा- मान्यं च तत्सर्वमभिधीयते । असाधारणविशेषा व्यक्तिरिति बहुव्रीहिः । असाधारणविशेषा यस्यां व्यक्तौ, सेयमसाधारणविशेषा, न त्वसाधारणाश्च ते विशेषाश्चेति सामानाधिकरण्यं संभवति , उपरिष्टाद्विशेषाधारस्य व्यक्तित्वाभि- धानात् । स्मृतेश्च १ । तेन सम्यगभिहितं किमाकृतिर्वा व्यक्तिरिति । १. नित्यद्रव्यवृत्तयो विशेषा इति स्मृति ।

६८२ मीमांसादर्शनम् [ सू० तत्र पूर्वपक्षः किं प्राप्तम् । आलम्भन-प्रोक्षण-विशसनादिप्रयोगचोदनाया व्यक्तिपक्षे भावात्, अकृतिपक्षे चाभावात्, 'ब्राह्मणो न हन्तव्यः' 'सुरा न पातव्या' इत्यादिप्रतिषेध- चोदनायाश्च व्यक्तिपक्ष एव संभवाद्देवदत्त गमभ्याजयेत्येवमादिलौकिकव्यवहार- चोदनायाश्चोपपत्तेर्व्यक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि व्यक्तिः शब्दार्थो भवति, ततो वृक्षौ वृक्षाभ्यामिति प्रातिपदिकाभिहितासु व्यक्तिषु प्रत्ययाभिहितद्वित्वादिसंख्या, करणादिकारकं चोभयमुपपद्यते, इतरत्र तु जातेरसंख्येयत्वादकारकत्वाच्चोभयमप्यनुपपन्नम् १। लाक्षणिकव्यक्त्याश्रयणं चाऽऽपद्येताम् । तथा च सर्ववैदिकवाक्यार्थानां लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च पुरुषो देवदत्त इति मुख्यशब्दसामानाधिकरण्योपपत्तिः । जातिपक्षे लाक्षणिकद्वारं सामानाधिकरण्यं कल्पयितव्यं भवेत् । तेनापि व्यक्तेः पादर्थत्वमवसीयते । 'पशुमालभेत' इति च श्रुतेर्हृदयजिह्वादिभिर्व्यक्त्यवयवैरुपस्रिष्टाद् व्यवहारो दृश्यते, न जात्या । कर्मभिश्च द्रव्यस्यापेक्षितत्वाद् व्यक्तिपक्षेऽपेक्षिताभिधानम्, नेतरत्र । सिद्धस्वरूपायाश्च व्यक्तेरभिधेयत्वं युक्तम्, नाप्रसिद्धाया जातेः । अतो व्यक्तिः शब्दार्थः । किमित्युभयं वाच्यं नाऽऽश्रीयते, प्रयोगप्रतीतिक्रियोपपत्तेरिति चेत् ? न । अनेकक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादिरत्र प्रतीतेरुपपन्नत्वाद् व्यक्तेरे- वाभिधेयत्वम् । सामान्यप्रत्ययः कथमिति चेद् ? व्यक्तिसंबन्धादुपपत्स्यते । यत्रैव क्रियानुपपत्तिः, तत्रैव वाऽर्थापत्त्या व्यक्तिवचनत्वं युक्तम्, अन्यत्र तु पूर्वं- प्रतीतेर्जातिवचनत्वमेव न्याय्यमिति चेत् ? न । उक्तमार्गेणानेकक्तिकल्पनादि- दोषप्रसङ्गात् । अनवस्थितशब्दार्थसंबन्धापत्तेः, संशयापत्तेश्च । व्यक्तिवादिनः कथं निर्निमित्तता व्यक्त्यन्तरे शब्दस्य प्रवृत्तिरिति चेत् ? तदाकृतिचिह्ननिमित्त- त्वाद् व्यक्त्यन्तरे प्रयोगस्याविरोधः । भाष्यकारस्तु कथं सामान्यावगतिरित्युपन्यस्याऽऽकृतिश्चिह्नभूता भविष्यती- त्युत्तरं ददाति, तदसंबद्धम् । कथं सामान्यप्रत्ययकारणे २ पृष्टे व्यक्त्यन्तरप्रयोग- निमित्तं कथ्यते । तेनाध्याहारेणैतद् व्याख्येयम् । कथं सामान्यावगतिरिति चेत् ? व्यक्तिसंबन्धात् । कथं व्यक्त्यन्तरे प्रयोगः ? चिह्नत्वादाकृतेरित्येवम् । यद्वा कथं सामान्यावगतिरिति चेदित्यपन्यस्ते, पूर्वपक्षवादी सामान्यावगति- मपह्नोतुमशक्नुवन्नाकृतिविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णात्याकृतिश्चिह्नभूता- १. ब. संख्येयत्वाद् कारकत्वाच्चो । २. क. सामान्याप्रत्ययः कारणे ।

३३ ] प्रथमाध्याये तृतीयपादः ६८३ विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला, विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च 'षड् देया' इत्येवमादिषु षडादिका संख्योपपत्स्यते अन्यं तद्गुर्णमिति१ च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरन्यत्वादगुणत्वाच्चोभयमनुप- पन्नम् । तस्माद् व्यक्तिः शब्दार्थ इति प्राप्ते । सिद्धान्तः अभिधीयते । नैतत् शब्दवाच्येति; किं त्वाकृतिः पदार्थ इति विज्ञायते, 'श्येनचितं चिन्वीत' इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं वेति वाक्यार्थी स्याताम् । यावदिष्टकाभिः२ श्येनव्यक्तेः कर्तुमशक्यत्वात्, स्नाव्या- दिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छ्येनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेर्मुख्यार्थत्वात् 'कर्मण्यग्न्याख्यायाम्३ इति स्मृतिपरित्यागप्रसङ्गाच्च । चयनेन श्येनव्यक्तिं कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽकृतेरपीष्टकाभिः कर्तुमशक्यत्वात् दैवनिर्मित- त्वात्, प्रयोजनकल्पनाच्चिनोतेर्यथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्या- दित्यपि नोपपद्यते । परिशेषाच्छ्येनमिव चितमग्निस्यलं चयनेन निर्वर्तयेदिति वाक्यार्थः । ततश्च यया कयाचिच्छ्येनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात् । सर्वव्यक्तिसादृश्यासम्भवात्, अतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृति- सादृश्यसंपत्तिसंभवाच्चाकृतिः शब्दार्थ इति निश्चीयते । अथ कस्माच्छ्येनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्रीयते 'श्येनचितं चिन्वीत' इति । तत्र भाष्यकारेणोत्तरं दत्तम् 'ईप्सिततमो ह्यसौ४ श्येनशब्देन निर्दिश्यते' इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थः, न च सकलश्येनचिच्छब्दोत्तरकालं श्रुतत्वाद् द्वितीयायास्तदन्तो५, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्या- ख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः क्विप्प्रत्ययः स्मर्यते । यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवल- स्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकल- स्याग्निवचनत्वं निश्चीयते, न श्येनशब्दस्य पृथगर्थता । तेन न श्येनशब्दार्थं करणतया विज्ञायते । यदि वासौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमास- वचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता कल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च १. क. तद्गुर्णामिति । २. क. दिष्टकादिः । ३. पा० सू० ( ३-२-९२ ) । - ४. क. न ह्यसौ । ५. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।

५८४ मीमांसादर्शनम् [ सू० स्यात् । सत्यां च गतौ प्रतिषिद्धाऽनेकश्येनव्यक्तिहिंसा जायते, तेन करणत्वानु- पपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थः । अतश्चोक्तेन न्यायेनाऽस्य वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति । नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते, व्यक्तिप- क्षेऽप्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या व्यक्तेरेव पदार्थत्वमवसीयते । अथाकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त इत्युच्यते, तदैतदपि¹ शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता चैकत्र लक्षणा, नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये करिष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते अभिधीयते जातिरभिधेयेति । कुतः—पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् । गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥ १०८२ गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकार- ज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते अतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तरा- भावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुः ततः तासां चित्रखण्डमुण्डादिविशेष- स्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । तेनाप्या- कृतिः शब्दार्थ इति निश्चीयते । सामान्यस्य वाच्यत्वसमर्थनम् गामानयेति चोदितेऽर्थप्रकरणाभावे यां कांचित्सामान्ययुक्तां व्यक्तिमानयति, न सर्वाम्, न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वम्, ततः सर्वासां युगपदभिहि- तत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत, यतस्त्वविशेषेण जाति- मात्रयुक्ताऽऽनीयते । तेनापि सामान्यस्य पदार्थत्वं विज्ञायते । व्यक्तेर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम् व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन्, व्यक्तिविशिष्टो वा समु- दायः, काचिद्ध्येका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचक- शक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसम्बन्धापत्तेरशेषव्यक्तिग्रहणशक्तेश्च सम्बन्धा- ग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद् बहुविषयत्वादेक- १. क. तदेतदपि ।

· ३३ ] प्रथमाध्याये तृतीयपादः ६८५ वचनद्विवचनश्रुत्यसम्भवाद् गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः शुक्ल इति सामानाधिकरण्यासम्भवात् । 'पशुना यजेत' इति च पशुशब्दोपात्ताभिः सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदप्रामाण्यप्रसक्तिः । समुदायस्य वाच्यत्वनिरासः एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभि- धातव्याः ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च व्यवहाराभावादभिधानानानर्थक्यम्, समुदायिविनाशे च तस्याप्यनित्यत्वादनित्य- शब्दार्थसम्बन्धप्रसङ्गः । समुदायस्य चैकत्वाद् द्विवचनबहुवचनानुपपत्तिः सामाना- धिकरण्यासम्भवश्च चामूर्तेन यागाद्यसम्भवाद् वेदस्याप्रामाण्यम् । अथैका व्यक्तिरभिधीयत इत्युच्यते ? तत्रापि सम्बन्ध्यानित्यत्वम् । काऽसाव- भिधीयत इत्यज्ञानाद्व्यवहाराणामसम्भवः । सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहु- वचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासम्भवः । समाने च गोत्वे प्रतीतौ चेयमभिधीयते, नेयमिति विशेषकारणं नास्ति । एतावता वार्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः समर्थितः अपरभाष्यव्याख्यायाम् अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेत्, व्यक्त्यन्तरे प्रयोगो न स्यात् अभिधेयव्यक्तेस्तत्राभावादत्यन्तविलक्षणत्वाच्च । सामान्यविशेषविनि- र्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति, येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता, तथा द्वितीया, यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिः एवमविशेषा- दितरत्रापि भविष्यति । यदि सामान्यरूपम्, विशेषरूपं वा व्यक्त्यन्तरं स्यात् ततो विलक्षणत्वाच्छब्दो न प्रवर्तेत. यदा तु तदप्युभयविनिर्मुक्तं रूपम्, तदा तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वा- देकत्रैतरत्र च शब्दो वर्तते; हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं भवतः प्रद्वेष इति । पूर्वपक्षवाद्याह नेवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्तौ शब्दो वर्तते व्यक्त्यन्तरे वेति, किन्तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्व्यक्तिः कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते । यो ह्यर्थः सामान्यस्य

६८६ मीमांसादर्शनम् [ सू० विशेषाणां चाऽऽश्रयः, सा व्यक्तिः न सामान्यविशेषौ ततश्च यथैकस्यां सामान्य- विशेषव्यतिरिक्तायां व्यक्तौ शब्दस्य वृत्तिः तथाऽन्यस्यापि भविष्यति । सिद्धान्तवाद्याह—यदि तावत्सामान्यविशेषविनिर्मुक्तत्वाच्छब्दो वर्तते, ततः सामान्यमेव वाच्यम् । अथ समानं निमित्तं नास्ति, तदा व्यक्त्यन्तरे वृत्तिर्न प्राप्नोति , तदभावेऽपि चेद्वर्तेत, ततोऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः स्यादिति । नैवम् । सामान्यनिरपेक्षायामेव शब्दप्रवृत्तौ प्रयोगकृतव्यवस्थाश्रयणा- न्न'तिप्रसङ्गो भविष्यति । यद्येवं प्रयोगवशेन शब्दो वर्तेत, ततोऽद्य जातायां गवि न दृष्ट इति शब्दो न प्रवर्तेत । तेन प्रयोगकृता चेद् व्यवस्था, क्वचिदप्रसङ्गः न चेदतिप्रसङ्ग इति । यत्तु भिन्नासु व्यक्तिषु सामान्यप्रत्ययो न प्राप्नोत्ययमपि गौः, अयमपीति तदिहातिप्रसङ्गापादनेन न संबध्यत इति व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीत्यस्मिन्न- वसरे वक्तव्यम् । शक्त्या र्तार्ह व्यवस्था भविष्यति । यत्र शक्तः शब्दः तत्र वर्तिष्यते प्रयोक्ष्यते च, यत्र तु शक्तिर्नास्ति, तत्र प्रयोगप्रवृत्ती न भविष्यतः ततश्च गोव्यक्तिष्वेव शक्तेः प्रयोगव्यवस्था भविष्यति । नैवमपि व्यवस्था लभ्यते । प्राक् प्रयोगाच्छब्दशक्तेरविज्ञानात्प्रयोगप्रतीत्य- धीनं हि शब्दशक्तिज्ञानम् । तत्कथमिवाऽनुत्पन्नं प्रयोगकालेन व्यवस्थाकारण- त्वेनाऽऽश्रयितुं युक्तम् । यद्यपि प्रयोगाच्छक्तिं जानाति, तथाऽपि प्रयोक्त्रा कथं ज्ञातं गोव्यक्तावयं शक्तः शब्दः नाश्वव्यक्ताविति, तेनाश्वव्यक्तावपि प्रयोगः प्राप्नोति । जात्या किमिति व्यवस्था नाऽऽश्रीयते यत्र गोत्वमुपलक्षणम्, तत्र शब्दो वर्तिष्यते, यत्र तन्नास्ति, तत्राश्वव्यक्तादौ वृत्तिर्न भविष्यति ततश्च व्यवस्था- सिद्धिरिति । सत्यमेवं सिध्यति, किं त्वापन्नो भवानस्मत्पक्षमाकृतिर्वाच्येति । न ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते, तच्चेदमभिहितं सिद्धमाकृतिशब्दार्थत्वमिति । पूर्वपक्षवादी तु द्वितीयं पूर्वपक्षमुपन्यस्यति सत्यमाकृतिरभिधीयते, किं तु गुणत्वेन स्थिता, व्यक्तिः प्राधान्येन शब्दार्थः । न चाऽऽवयोरुभयं नाभिधीयत इति प्रतिज्ञा । कस्यचित्प्राधान्येन किंचिदभिधेयतया विवक्षितम्, किंचिद् गुणत्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेति । एवं सति प्रयोगव्यवस्थोभय- प्रतीतिश्च तथाऽऽलम्भनादिक्रियोपपत्तिश्च भविष्यति ।

३३ ] प्रथमाध्याये तृतीयपादः ६८७ इतरस्त्वाह---नैवं लभ्यते । जातिश्चेत्पूर्वमभिधेयत्वेनाभ्युपगताऽत्रैव शब्द- स्योपक्षीणशक्तित्वान्न व्यक्तिवचनता लभ्यते । न चाऽऽकृतिसंवेदनेनापि व्यक्ति- प्रतीतेरन्यथाऽप्युपपन्नत्वात्सत्यां गतावनेकार्थता युज्यतेऽभ्युपगन्तुम् । अर्थापत्त्या च शब्दस्य वाचकशक्तिः कल्प्यते । सा च यदा व्यक्तिप्रतीतेरन्यथाऽप्युपपन्नत्वात् क्षीणा, तदा वाचकशक्तिकल्पनायां प्रमाणं नास्ति । न च सामान्यविशेषवचनत्वं शब्दस्य दृष्टम्, अक्षादिशब्दानामनेकसामान्यवचनत्वात् । अन्वयव्यतिरेकाभ्यां च व्यक्तेरशब्दार्थत्वं निश्चीयते । अनुच्चरितेऽपि शब्दे प्रतीतसामान्यस्य व्यक्तिप्रतीतेः श्रुतशब्दस्य चाऽगृही- सामान्यस्य व्यक्तिप्रत्ययाभावात्तेनाऽऽकृतिरेव शब्दार्थ इति । साम्प्रतं पक्षान्तरमुपन्यस्यति अथ व्यक्तिविशिष्टायामाकृतौ किमिति न वर्तते । तदेतत् प्रयोगप्रतीतिक्रियासंभवत्वेन वा पक्षान्तरमुपन्यस्तम् । यद्वा व्यक्तेरेव शब्दार्थत्वं साधयितुमिदमुच्यते । अनेनाभिप्रायेण कदाचित्सिद्धान्तवाद्याकृतेः शब्दार्थत्वमनेनाभ्युपगतमेवाऽऽलम्भनादिक्रियासंभवश्च भविष्यतीत्यनेनाभिप्रायेण व्यक्तेरपि गुणत्वेनाभिधानमिच्छति । ततोऽहं पूर्वं तावद्विशेषणे वर्तितुमर्हंतीति व्यक्तिवचनत्वमेव साधयिष्यामीति । इतरस्तु—तदभिप्रायं ज्ञात्वोत्तरं वदति व्यक्त्यन्तरविशिष्टायां प्रयोगो न प्राप्नोति । यदि हि व्यक्तिविशिष्टा जातिरभिधीयते, ततो व्यक्त्यभिधानपक्षोक्त- दोषप्रसङ्गः, अनेकशक्तिकल्पनादिरूपो व्यक्त्यन्तरे प्रयोगश्च न प्राप्नोति, विशेषणस्यान्यत्वादिति, तेन जातिरेव शब्दार्थः । ननु गुणभूता प्रतीयते, अतश्चान्येन प्रधानेनाभिधेयेन भवितव्यमिति । नैवं शब्देन तावत्सैवाऽभिधीयते । यदि विवक्षावशेनार्थाद् गुणत्वम्, प्राधान्यं वा भवति, भवतु नाम । न तावता शब्दाभिधेयत्वं व्याहन्यते । यदा चासौ शब्देना- भिधीयते, तदा गुणत्वं नैव प्रतीयते । तेनार्थाद् गुणत्वप्रतीतिरदोषः । नन पूर्व- पक्षोक्तैः कारणैर्व्यक्तेरेव शब्दार्थत्वं युक्तम्, व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीति चेत् ? आकृतिचिह्नभूता भविष्यति । यथाऽनभिधीयमानमपि काकनिलयनं देवदत्तगृहशब्दस्य स्वार्थमभिदधतश्चिह्नभूततां प्रतिपद्यते, तद्वदाकृतिश्चिह्नं व्यक्त्यभिधाने भविष्यति । भाष्यकारेण तु दण्डिशब्दो दृष्टान्तत्वेनोपात्तः । यथा तेन न नाम किल दण्डोऽभिधीयते । अथ च दण्डविशिष्टः पुरुषः प्रत्याय्यते, तद्वदाकृतावपीति । ननु दण्डिशब्दे प्रकृत्या दण्डोऽभिधीयत एव । कथमुच्यते न च तावद्दण्डोऽभिधीयत

६८८ मीमांसादर्शनम् [ सू० इति ? कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः प्रत्याय्यत इति विशेषणं दृष्टान्ततयोपन्यस्तमिति ? नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वा- द्दण्डानभिधानस्य, यथा प्रत्ययेन, न च तावद् दण्डोऽभिधीयते । अथ च तद्विशिष्टः पुरुषः प्रत्याय्यत, तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सा- मान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टम्, ततश्च सम्यग- भिहितं यथा दण्डिशब्दे, तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न भविष्यत इति । तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य, पुरुषस्य च केवलस्याभिधानम्, विशिष्ट- प्रतीतावपि काकनिलयन-दण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणं विशेष्याप्रतीतेनं च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमः, येन द्वितीयावयवेन व्यक्तेरेवा- भिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते, ततस्तदेवोक्तेन न्यायेन वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽव- धायंते, तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादा- वाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते । श्येन- चिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे प्रयोगादर्शनात् । एवं येऽपि सम्बन्धसमुदायादयः पूर्वपक्षाः । तेऽप्युक्तेन न्यायेन निराकृताः । तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥ न्या० सु०—अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तर्गतभाष्यं स्पष्टत्वादुपेक्ष्य, आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतोति भाष्यं दुष्टत्वसामान्येन बुद्धिस्थमपठित्वैव दूषयति—किं चेति । न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति किं च शब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानात्, एक- शब्दस्य चापो भूयिष्ठा इत्येको अन्नवोदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थं- लाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् । नैवाकृतिस्तु क्रियार्थत्वादिति वदता सूत्रकृतेष्टकामिश्राकृतिसम्पादनमभ्युपगतम्, येन च यत्र साऽऽकृतौ सम्भवतीत्येवं सूत्रव्याख्या युज्येतेत्यर्थः । किमिति नाभ्युपगतमित्याशङ्कयाह—यत इति । स्वरूपेण जाते- र्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यम् । तदपि नित्येष्वात्मादिषु नित्य- सिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव यदारब्धे द्रव्ये जातिसम-

३३ ] प्रथमाध्याये तृतीयपादः ६८९ वायाच्छ्येनत्वजातीयव्यक्त्यनारम्भिकाभिरिष्टकाभिः श्येनत्वजातिसम्पादनमयुक्तमित्येवंरूप- स्योपालम्भस्य दोषस्येष्टकाभिः श्येनत्वाकृतिसम्पादनाभ्युपगमे प्रसङ्गानेदमभ्युपगत- मित्यर्थः । कस्तर्हि श्येनवचनचोदनार्थ इत्याशङ्कयाह—पिष्टेति । अमी पिष्टपिण्डाः सिंहाः कार्या इत्युक्ते पिष्टपिण्डेन सिंहाकृतिव्यक्त्योः सम्पादनाशक्तेर्यथा पिष्टपिण्डानामेव सिंहा- कृतिसादृश्यसम्पादनं चोदनार्थः तथात्रापीत्यर्थः । प्रयोज्यव्यापारवाचिना सम्पत्तिशब्देन प्रयोजकव्यापारः सम्पादनं लक्ष्यते । नन्वाकृतेर्नित्यत्वे सम्पाद्यत्वाभावात्तद्वाचित्वे श्येन- शब्दस्य सादृश्यपरत्वेन गौणत्वापत्तेस्तत्परिहाराय व्यक्तिपक्ष एवात्राश्रीयते । श्येनव्यक्तेश्च यत्नेनानुत्पाद्यत्वेऽपि श्येनस्त्रीपुंसयोगेनोत्पादयितुं शक्यत्वात्प्रथमश्रुतश्येनशब्दानुरोधेन च पश्चाच्छ्रुतस्य चिनोतेस्तल्लक्षणार्थतया व्याख्यातुं शक्यत्वादित्याशङ्क्य—पक्षद्वयेऽपोत्यु- क्तम् । श्येनस्त्रीपुंसयोगेनोत्पादिताया अपि श्येनव्यक्तेरग्न्यनाधारत्वायोगानाग्न्याधारानु- पपत्तेः । 'कर्मण्यन्वाख्यायामिति स्मृतिबाधप्रसङ्गाददृष्टार्थत्वापत्तेश्च तत्परिहाराय गौणत्वा- श्रयणमप्युचितमित्याशयः । नन्वेवं सति व्यक्तिसादृश्यस्यापि सम्पादयितुं शक्यत्वात्कथ- मस्य श्येनशब्दस्याकृतित्वाचित्वेन निश्चय इत्याशङ्कयाह—सा त्विति । सा सादृश्यसम्पत्तिः श्येनाकृत्यास्या आकृत्यन्तरमात्रविलक्षणत्वात्, तस्य च कतिपयविशेषोपादानेन सम्पाद- यितुं शक्यत्वात् सकलव्यक्त्यन्तरविलक्षणेन श्येनविशेषेण व्यक्तिशब्दाभिलप्येन सादृश्य- सम्पादनं सकलविशेषोपादानेन स्यान्न चेष्टकाभिरन्ततःकुशलेनापि सम्पादयितुं शक्यमिति भावः । अथ सामान्यविशेषाश्रयभूतमसाधारणं व्यक्तिशब्देनाभिप्रेतम्, ततस्त्वस्यैवंविधमिति निरूपणरूपविकल्पगोचरत्वाभावाज्ञानेन सह विकल्पगोचरस्य सादृश्यसम्पादनं कथञ्चिच्छ- क्यमित्यर्थः । ननु यद्यपि सामान्यविशेषाश्रयस्य व्यक्त्याख्यस्यासाधारणस्य रूपेणैवंविध- मिति विकल्पगोचरत्वात्सा दृश्यप्रतियोगित्वं न सम्भवतीति विशेषावच्छिन्नेन च तेन सादृश्यमिष्टकाभिरशक्यसम्पादं सामान्यावच्छिन्नेन च सादृश्यमुच्यमानं विशेषणे पूर्वनिपा- तात्सामान्येनेवोक्तं स्यात् तथापि सामान्यविशेषाभ्यामन्यदित्येवंरूपविकल्पगोचरत्वोपपत्तेर- साधारणशब्दाभिलप्यया व्यक्त्या सह सादृश्यं सम्पादयिष्यत इत्याशङ्कयानिर्धारितविशेषया यया कयाविद्वयक्त्या सादृश्यं (विधीयेत निर्धारितविशेषया वा यया कयाचिदिति विकल्प्याद्यपक्षे तावद् दूषणमाह--सामान्येति । सामान्यविशेषावच्छेदकत्वेन यज्ञापेक्षते सादृश्यं१) तत्तयोक्तम् । तच्च व्यक्तिमात्रेऽपि नित्यप्राप्तं सर्वस्य येन केनचित्सा दृश्यावश्यं भावादित्यर्थः । श्येनव्यक्त्या यया कयाचिदपि तु विशेषणे श्येनत्वाकृतिव्यतिरिक्तस्य १. अयं पा० २ पु० ना० । ४४

६९० मीमांसादर्शनम् [ सू० श्येनव्यक्तिमात्रस्याभावाच्छ्येनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु यद्व्यक्तिसादृश्यं विहितम्, तद्धि शिष्टैस्तत्साहश्यस्याशक्यसम्पाद्यत्वाद्व्यक्त्यन्तरसादृश्यस्य चाविहितत्वात्सर्वपुरुषविषयत्वं शास्त्रस्य व्याहन्येतेत्याह — एकेति । सूत्रार्थमुपसंहरति — तस्मादिति । ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगेऽपि चयनोत्पादकत्वेन विधिः सम्भ- वति, एकव्यक्त्यनुत्पाद्यत्वेऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साध- कतम इत्यनेन श्येनशब्दार्थस्येप्सिततत्वावगतेः साधनत्वेन विधानं सम्भवतीत्युक्तम् । तदुपपादयति — न हीति । यद्यप्ययं कर्मशब्दः क्तिन्प्रत्ययवाच्यविशेषणत्वान्नौपपदविशे- षणम्, तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न शब्दार्थस्य कर्मतावसीयत इत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे — श्येनेमिति । ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्या- शङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह — तत्रापीति । श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थोऽनेन दर्शितः । चयनमाकृतौ सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोरपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य, किं पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तम्, नाकृतिवाच्यत्व- निश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तह्यीकृतिवाच्यत्वनिश्चय इत्यपेक्षाया- माकृतिस्त्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणाद् युक्तमाशङ्क्य संक्षेपेण व्याचष्टे — असाधारण इति । व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृति- वाच्यत्वं निश्चीयत इति भावः । ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति, तदा पारि- शेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदिद्भिभाष्यं व्याख्यातुमसाधारणे वाच्येऽङ्गीक्रियमाणे शब्दस्य प्रभृतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येत- देवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषैर्मुक्ता हीत्यनेनैकापि व्यक्तिर्न शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यम् । किंचिद्धि सामान्यरूपं किंचिद्धि विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं तद्वियुक्ते रूपं कथं प्रवर्त्तेतेत्याशयः । ननु सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावेऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति । न च तदेव सामान्यम् वस्तुरूपत्वादिति 'नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन

३३ ] प्रथमाध्याये तृतीयपादः ६९१ भाष्येणाशङ्क्य सामान्यविशेषरपरहितत्वस्य तदाश्रयाव्यपदेश्यत्वापरपर्यायस्याश्वादिव्यक्ति- ष्वापि भावाद् गोशब्दप्रवृत्तिः प्रसज्येतेति प्रतिपादनाथं यदीति भाष्यं व्याख्यातुम्— अव्यपदेश्यत्वेन चेत्युक्तम् । ननु सामान्यविशेषविमुक्तत्वाविशेषेऽप्युगादिशब्दवत्प्रयोगतो व्यवस्था भविष्यतीत्याहेतिभाष्येणाशङ्क्य तथा सत्यद्यजातायाङ्गव्यदृष्टप्रयोगत्वात्प्रथमः प्रयोगो न स्यादिति यदीत्यनेन दूषणमुक्त्वा कथंचित्प्रयोगसम्भवेऽपि व्यवहारकालीनस्य प्रयोगस्य निर्द्धारितैकव्यक्तिविषयत्वेनानेकव्यक्तिसाधारण्याभावाद् गौर्न पदा स्पृष्टव्येत्यादौ शाबलेया बाहुलेया वेति विकल्पबुद्धिः स्यान्न गोमात्रमिति सामान्यबुद्धिरित्येतदर्थंप्रतिपादकं सामान्यप्रत्ययश्चेति भाष्यं व्याख्यातुम्—सामान्याकारेण वेत्युक्तम् । गौर्न पदा स्पृष्ट- व्येत्यादौ यत्र सामान्याकारेण व्यक्तिविशेषमनाश्रित्य शब्दः प्रयुज्यते, तत्र विकल्पः प्रसज्ये- तेत्यर्थः । ननु व्यक्तिवाचिनोऽपि शब्दादभिधेयाविनाभावेन सामान्यप्रत्ययोपपत्तिरित्या- शङ्क्य—व्यापकेत्युक्तम् । गोत्वैकार्थसमवायिनां शावलेयत्वाद्यवान्तरसामान्यरूपाणां विशे- षाणां गोत्वव्याप्यत्वाच्चव्यापकगोत्वापेक्षामात्रेणेतरत्र तदाश्रयभूतमसाधारणं व्यक्तिशब्दा- भिलप्यं नैव गोत्वापेक्षं भवति । इतरेति पाठे त्वसाधारणशब्देनोक्तत्वात् व्यक्तिः परामृश्यते । ननु विशेषाणां गोत्वापेक्षत्वे तदाश्रयस्यासाधारणस्याप्यव्यभिचाराद् गोत्वा- पेक्षाबलादापद्येतेत्याशङ्क्य व्याप्यस्य धूमत्वसामान्यस्य व्यापकत्वाग्न्यपेक्षत्वेऽपि तदाश्रयस्या- साधारणस्याग्न्यपेक्षा नास्ति । वाक्यादिभावेन सन्दिग्धे धूमे असाधारणनिश्चयेऽप्यनिश्चया- दिति प्रतिपादयितुम् व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षेत्युक्तम् । नन्वसाधारण- रूपेण व्यक्तेः शब्दार्थत्वासम्भवेऽपि शावलेयत्वाद्यवान्तरसामान्यात्मकविशेषावच्छिन्नत्व- रूपेण शब्दार्थत्वोपत्तेः कथं पारिशेष्यादाकृतेः शब्दार्थत्वावधारणेत्याशङ्कयाह - तत्रेति । तत्रैवं साधारणरूपेण शब्दप्रवृत्त्यसम्भवे सति विशेषावच्छिन्नत्वरूपेण व्यक्तेरभिधेयं वाच्यम्, तस्मिंश्च पक्षे सम्बन्धकथनासम्भवादयो दोषाः स्युरित्यर्थः । वाच्यवाचकनियमहानिः, सम्बन्धानित्यत्वापत्तिः विकल्पप्रसङ्गः, शेषव्यक्त्यानयनापत्तिः । नित्यबहुवचनप्रसङ्ग- शुक्लादिशब्दसामानाधिकरण्यासम्भवश्चादिशब्देनोपात्ताः । एते च व्यक्त्यभिधानपक्षे, सर्वव्यक्त्यभिधानपक्षे च यथासम्भवं योज्याः । अनिश्चीयमानत्वादपि न विशेषाणां वाच्यतेत्याह—न चेति । नन्वेवमपि विकल्पसमुच्चयाद्यनेकपक्षसम्भवान्नाकृतेः परिशेषसिद्धिरित्याशङ्क्य स्वतन्त्रयोर्विशेषणविशेष्यभावरहितयोस्तावद्व्यक्त्याकृत्योर्विकल्पेन, समुच्चयेन वाभिधान- निरासेनैव निरस्तमित्याह एतेनेति । व्यक्तिविशिष्टाकृतिपक्षोऽपि व्यक्तेर्विशेषणत्वेन पूर्वाभिधानापत्तेस्तन्निरासेनैव निरस्त इत्याह—व्यक्तीति । एतेन प्रयुक्त इत्यनुषङ्गः । आकृतिरिति पाठे प्रयुक्तेति विपरिणतानुषङ्गः सम्बन्धसमुदायाभिधानपक्षैन्निराकर्तुमाह— सम्बन्धेति । सम्बन्धसमुदायोरपि वाच्यत्वाभ्युपगमेऽवश्यवाच्यभूतसम्बन्धिसमुदायिविशे- षणताऽभ्युपगन्तव्या भवतीत्यन्वयः । कस्मादित्यपेक्षिते—स्वरूपेत्युक्तम् । सम्बन्धोऽयम्, समुदायोऽयमिति स्वतन्त्ररूपेणाप्रतीते। सम्बन्धिसमुदायिनिरपेक्षस्य सम्बन्धसमुदायिनिरूपण-

६९२ मीमांसादर्शनम् [ सू० स्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षाया- माह—तत्रापीति । व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह— व्यक्त्यंशे चेति । समुदायस्य यस्य स्पृष्टंमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिः क्रियासाधनविशेषाणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पृष्टंमानयोर्व्यक्त्या- कृत्योर्न्नास्त्येवेत्याह—न चेति । जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह— अनन्त्यन्तेति । आकृतिविशिष्टव्यक्तिपक्षेऽपि व्यक्तिविशिष्टो वा, आकृतिविशिष्टो वा व्यक्ति- मात्रं वा विकल्प्य आद्यपक्षं तावद् दूषयति—आकृतीति । द्वितीयपक्षे त्वाकृतिव्यतिरिक्त- तद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह—व्यक्त्यैौति । एव- माकृतिव्यतिरिक्तायास्सपक्ष्या निरस्तत्वात् । तन्निरासेनेव च व्यतिकीर्णपक्षनिराससिद्धे- र्लिङ्गकारकसंख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वासिद्धेः शब्दस्वरूपस्य च प्रत्यक्ष- सिद्धत्वेनाऽवाच्यत्वस्य । नात्मानमभिधत्ते हि शब्दः कश्चित्कदाचनेति शून्यवाद्रवार्त्तिकपाठनिरस्तत्वात्पारि- शेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम्---इदानीम् । 'तत्र प्रयोगबाहुल्यात्द्विशेषेषु सत्स्वपि । प्रयोगात्परसामान्ये सति वाऽप्यप्रयोगतः ॥ सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः । गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥' इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यताऽवसीयत इत्याह— नानेति । गोत्वाकारविषयं व गोशब्दस्य वाच्येन सह सम्बन्धे वाचकत्वरूपे शक्तिरन्वय- व्यतिरेकाभ्यां गम्यत इत्यर्थः । कृत्तद्धितसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्दः । शब्दशक्तिजन्यज्ञानकर्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य, गोत्वाकाराश्रितैव गोशब्दं प्रति वाच्यत्वरूपा शक्तिरिति योज्यम् । ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः, तस्य च सन् द्विष्टवस्तुविषयत्वात् कथं निष्कृष्टैका- कारविधया शक्तिरवसीयत इत्याशङ्क्य तद्भूदेत्युक्तम् । सर्वात्मकवस्तुविषयत्वे शब्दशक्ते- रेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात् तद्भेदा- द्वस्तुगतान् भिन्नाकारांश्छन्दशक्तयोऽनुसरन्तीत्यर्थः । भिद्यन्त इति भेदा इति व्युत्पत्त्या वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसार्यभावेनैकशब्दव्यक्त्यानर्थक्य- प्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिंन निराकर्तु -नानाकारेष्वित्युक्तम् । नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः । ननु गोमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्व-प्राणित्व-पार्थिवत्व-द्रव्यत्व- सत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शावलेयत्वादीनामपि निश्चयः