मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
महायोगी तावुवाच प्रहर्षितः । योगं शांतिप्रदं पूर्णं गाणपत्यप्रियः सदा ॥३९॥ विष्णुरुवाच । चित्तं पंचविधं प्रोक्तं तदैश्वर्यं च यत् स्मृतम् । मायारूपं तदेवाशु त्यक्त्वा योगं समाप्स्यथः ॥४०॥ यद्यच्चित्तेन संप्राप्तं तत्तद्योगेन मानदौ । योगरूपं प्रकर्तव्यं तदाकारसमाधिना ॥४१॥ यद्यच्चित्तेन न ज्ञातं तत्तन्निवृत्तिवाचकम् । तदेव योगरूपं वै कर्तव्यं योगसेवया ॥४२॥ चित्ते चिंतामणिर्नित्यं तिष्ठेद्वै चित्तचालकः । भजतं तं महाभागौ तेन शांतिमवाप्स्यथः ॥४३॥ मायामोहयुतं चित्तं नानाभावेषु लालसम् । मायाहीनं सदा चित्तं शांतिरूपं भविष्यति ॥४४॥ चित्तमिच्छति धर्मं वै तथार्थं काममादरात् । मोक्षं च ब्रह्मभूतत्वं भ्रमयुक्तं न संशयः ॥४५॥ अहं चिंतामणिः साक्षान्न मे भिन्नं प्रविद्यते । तदिच्छेयं भ्रामयति किमर्थं मां भ्रमात्मिका ॥४६॥ अनेन योगमार्गेण चित्तं त्यक्त्वा महामुनी । शांतियोगस्वरूपौ वै संशयो न भविष्यथः ॥४७॥ एवमुक्त्वांतर्दधेऽसौ विष्णुर्वैकुंठगोऽभवत् । नरनारायणौ तत्र योगयुक्तौ बभूवतुः ॥४८॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ बालखिल्या ऊचुः । वद भानो महायोगिन्नरनारायणावृषी । किं चक्रतुस्ततः सर्वं ब्रह्मभूतौ विशेषतः ॥१॥ रविरुवाच । स्वाश्रमे तौ स्थितौ देवौ नरनारायणावृषी । विष्णुना कथितो योगः साधयामासतुः परम् ॥२॥ क्रमेण शांतिमवाप्तौ गाणपत्यौ बभूवतुः । गणपस्य महामंत्रं शिवात् संगृह्य जेपतुः ॥३॥ चतुरक्षरकं मंत्रं हेरंबस्य विशेषतः । मूर्तिं रत्नमयीं कृत्वा पूजयेतां महामुनी ॥४॥ हेरंबस्य हृदि ध्यानं चक्रतुः परमाइतौ । शांतिं प्राप्तौ ततो विप्रा न मुंचंतौ गजाननम् ॥५॥ एवं वर्षशते पूर्णे तयोराश्रमगोऽभवत् । हेरंबः सिंहगो भूत्वा नागयज्ञोपवीतवान् ॥६॥ चतुर्बाहुर्धरश्चैव त्रिनेत्रो भूषणैर्वरैः । भूषितः सिद्धिवृद्धिभ्यां युतो लंबोदरः प्रभुः ॥७॥ नानापुष्पमयीं मालां त्रिशूलं मुद्गरं तथा । अंकुशं च करैर्विप्रा दधानस्तेजसा युतः ॥८॥ एतादृशं च हेरंबं दृष्ट्वा तौ मुनिसत्तमौ । प्रणेमतुर्दंडवत्तु पादयोस्तस्य योगिनौ ॥९॥ हेरंबं तत उत्थायापूजयेतां यथाविधि । पुनस्तुष्टुवतुस्तत्र तौ प्रणम्य गजाननम् ॥१०॥ नरनारायणावूचतुः । नमस्ते गणनाथाय भक्तसंरक्षकाय ते । भक्तेभ्यो भक्तिदात्रे वै हेरंबाय नमो नमः ॥११॥ अनाथानां विशेषेण नाथाय गजवक्त्रिणे ।
चतुर्बाहुधरायैव लंबोदर नमोऽस्तु ते ॥१२॥ ढुंढये सर्वसाराय नानाभेदप्रचारिणे । भेदहीनाय देवाय नमश्चिंतामणे नमः ॥१३॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे । योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥१४॥ सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने । सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥१५॥ ब्रह्मणां ब्रह्मणे तुभ्यं सदा शांतिप्रदायक । सुखशांति- धरायैव नाभिशेषाय ते नमः ॥१६॥ पूर्णाय पूर्णनाथाय पूर्णानंदाय ते नमः । योगमायाप्रचालाय खेलकाय नमो नमः ॥१७॥ अनादये नमस्तुभ्यमादिमध्यांतमूर्तये । स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥१८॥ गताभिमानिनां नाथस्त्वमेवात्र न संशयः । तेन हेरंबनामाऽसि विनायक नमोऽस्तु ते ॥१९॥ किं स्तुवस्त्वं गणाधीश योगाभेदमयं परम् । अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥२०॥ एवमुक्त्वा नतौ तत्र नरनारायणावृषी । तावुत्थाप्य गणेशान उवाच घननस्वनः ॥२१॥ हेरंब उवाच । वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियंत्रितः । महाभागावादिमुनी योगमार्गप्रकाशकौ ॥२२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥२३॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥२४॥ भानुरुवाच । हेरंबवचनं श्रुत्वा हर्षितौ मुनिपुंगवौ । कृतांजलिपुटौ चोभावूचतुस्तं गजाननम् ॥२५॥ यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तदा ते भक्तिमुग्रां नौ देहि चाव्यभिचारिणीम् ॥२६॥ तथेति गणनाथास्तौ जगाद भक्तिभावितः । अंतर्धानं चकाराऽसौ स्वानंदस्थो बभूव ह ॥२७॥ ततस्तौ नित्यमत्यंतं गणेशभजने रतौ । हेरंबेति सदा मंत्रं वाण्या प्रोचतुरादरात् ॥२८॥ ततो बहुगते काले मार्कंडेयाश्रमे द्विजाः । जग्मतुर्ज्ञानदानार्थं करुणायुक्तमानसौ ॥२९॥ नरनारायणौ दृष्ट्वा मार्कंडेयो महामुनिः । प्रणाम स साष्टांगं पूजयन् भक्तिसंयुतः ॥३०॥ पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः । उवाच तौ विनीतात्मा मार्कंडेयो महामुनिः ॥३१॥ मार्कंडेय उवाच । धन्यं मे जन्म विद्या च तपो ज्ञानादिकं तथा । धन्यौ मे जनकौ चैव युवयोः पाददर्शनात् ॥३२॥ एवं नानाविधैर्वाक्यैः संस्तुतौ मुनिपुंगवौ । ऊचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ ॥३३॥ नरनारायणावूचतुः । मार्कंडेय वृणुष्व त्वं वरं स्वमनसीप्सितम् । तवातिथ्यकृतेनैव संतुष्टौ नात्र संशयः ॥३४॥ तयोर्वचनमाकर्ण्य मार्कंडेयः प्रतापवान् । प्रणम्य तावुवाचाऽथ भक्तिनम्रात्मकंधरः ॥३५॥ मार्कंडेय उवाच । ज्ञानं शांतिप्रदं पूर्णं वदतं मुनिसत्तमौ । तेन तृप्तो भविष्यामि शांतियोगपरायणः ॥३६॥ दर्शयेथां महामायां तां ज्ञात्वा संत्यजाम्यहम् ।
भक्तिरेव गुरोः पादे दीयतां मे वरस्त्वयम् ॥३७॥ रविरुवाच । तथेति तं महात्मानावूचतुर्ज्ञानमुत्तमम् । शांतियोगप्रदं पूर्णं गाणेशं मुनिपुंगवौ ॥३८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते नरनारायणमार्कंडेयसमागमो नाम त्रयोदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ज्ञानं शांतिप्रदं पूर्णं शृणु त्वं मुनिसत्तम । तपसा ब्रह्मचर्येण सिद्धोऽस्यत्र न संशयः ॥१॥ शिवेन रामचंद्राय कथितं योगदायकम् । तेन शांतिसमायुक्तो बभूवे लक्ष्मणाग्रजः ॥२॥ राज्य- संगसमायुक्तस्तेनाभूत्तच्च विस्मृतम् । पुनर्वसिष्ठवाक्येन तज्ज्ञानं समपद्यत ॥३॥ मार्कंडेय उवाच । कोऽसौ रामो महाभागः कस्मिन् वंशे समुद्भवः । कस्य पुत्रश्च तत्सर्वं वदत मां महामुनी ॥४॥ रविरुवाच । एवं पृष्टौ महात्मानौ मार्कंडेयेन धीमता । ऊचतुः परमप्रीतौ चेष्टितं राघवस्य च ॥५॥ नरनारायणावूचतुः । मरीचिर्ब्रह्मणः पुत्रस्तस्माज्जातश्च कश्यपः । अदित्यां कश्यपाज्जज्ञे सूर्य आत्मा शरीरिणाम् ॥६॥ सूर्याच्च मनुनामा यो वैवस्वत इति श्रुतः । तस्य मन्वंतरं प्रोक्तं सप्तमं भूमिमंडले ॥७॥ ब्रह्मणो दिवसः प्रोक्तो मुनिभिः कालवादिभिः । चतुर्युगसहस्राण्यस्तावती रात्रिरुच्यते ॥८॥ एकस्मिन् दिवसे विप्र मनवश्च चतुर्दश । भवंति स्वस्वकालेन प्रेरिताः क्षत्रकर्मणि ॥९॥ एकसप्ततिरेवैवाधिका किंचिन् महामुने । मन्वंतरं चतुर्णां च युगानां वै प्रकथ्यते ॥१०॥ स्वायंभुवादयश्चैव मनवः कथिता बुधैः । तेषु षट्कं तथा भिन्नं भवति स्वाधिकारात: ॥११॥ मनुर्देवाश्च विप्रा वै सप्त चैव पुरंदरः । मनुपुत्राश्च विष्णोर्यत्रावतारः प्रकीर्तितः ॥१२॥ विभागतश्च मनुना सर्वधर्मः प्रकाश्यते । भूमिपालनकं कार्यं वर्णाश्रमविधानतः ॥१३॥ ऋषिभिस्तत्त्वमार्गेण कर्मज्ञानादिकं मुने । सुबोधेन नराणां तत् प्रकाश्यं सर्वमादरात् ॥१४॥ यजमानस्य यज्ञादि कर्म सर्वं तथा मुने । कारणीयं प्रकर्तव्यं स्वस्वमन्वंतरेषु तैः ॥१५॥ वृष्ट्यादिना त्रिभुवनं महेंद्रेण विशेषतः । कर्मानुसारभोगेन पालनीयं यथातथम् ॥१६॥ देवैः स्वयज्ञभागस्थं भोगं भुक्त्वा स्वलोकदम् । कर्मकर्त्रे तथा स्वर्गे फलं दातव्यमादरात् ॥१७॥ इंद्रस्य दैत्यजं घोरं भयं प्राप्तं यदा मुने । तदा विष्णुः कलांशेन तं रक्षति बिडौजसम् ॥१८॥ मनोः पुत्रैश्च पौत्रैश्च तेषां संततिभिः सदा । प्रजापालनकं
पान ३०
कार्यं क्षात्रधर्मपरायणैः ॥१९॥ एवं षट्कं समाख्यातं मन्वंतरमयं मुने । मन्वंतरे समाप्ते वै द्वितीयस्य समुद्भवः ॥२०॥ ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् । तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥२१॥ लयस्तत्र समाख्यातो मन्वंतरलयात्मकः । तत्र सर्वे लयं प्राप्ता जनाः स्थावरजंगमाः ॥२२॥ द्वितीये मनुमुख्ये समुद्यते वै महामुने । भृग्वादयः स्वमात्मानं ससृजुर्योगसेवया ॥२३॥ पुनः सृष्टिं प्रचक्रुस्ते चराचरमयीं मुने । एवं सर्वांतरे प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥२४॥ ब्रह्मणो दिवसान्ते यो लयो नैमित्तिकाह्वयः । भवति तत्र त्रैलोक्यं नाशमेति न संशयः ॥२५॥ एवं दिनक्रमेणैव शतवर्षमयं मुने । ब्रह्मणः पूर्णमायुष्यं भविष्यति न संशयः ॥२६॥ तदा स्वयं लयेनैव मरिष्यति पितामहः । एवं क्रमेण त्रैगुण्यं नाशरूपं वदंति च ॥२७॥ जन्ममृत्युमयी पूर्णा नानाद्वंद्वप्रकाशिनी । माया ते कथिता विप्र द्वंद्वभावेषु भ्रांतिदा ॥२८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मायावर्णनं नाम चतुर्दशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मार्कंडेय उवाच । भवद्भ्यां कथितं चित्रं मायारूपं विशेषतः । श्रुत्वाऽहं तृप्तिसंयुक्तो भवामि भृशहर्षितः ॥१॥ मायारूपं मया नाथौ न ज्ञातं पूर्णभावतः । अतो मां विस्तरेणैव वदतं योगिनां वरौ ॥२॥ वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितम् । युगमानं तथा विप्रो युगधर्मान् विशेषतः ॥३॥ पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् । सूर्यचंद्रप्रसूतानां राज्ञां सर्वं चरित्रकम् ॥४॥ एतानि प्रश्नपीठानि वदतं चर्षिसत्तमौ । तत्र द्वंद्वादिकस्यैव ज्ञानं मे प्रभविष्यति ॥५॥ भानुरुवाच । एवं पृष्टौ महाभागौ नरनारायणावृषी । ऊचतुस्तं दयायुक्तौ मार्कंडेयं तु तापसम् ॥६॥ नरनारायणावूचतुः । सम्यक् पृष्टं महाभाग वदिष्यावोऽखिलं च ते । येन मायाचरित्राणां ज्ञानं भवति निश्चलम् ॥७॥ निमेषमात्रः कालो यो लघ्वक्षरसमन्वितः । दशपंचनिमेषैश्च काष्ठाकालः प्रकीर्तितः ॥८॥ त्रिंशत्काष्ठाभिरेवं यः कलाकालः प्रजायते । त्रिंशत्कलाभिरेकं वै मुहूर्तं परिकीर्तितम् ॥९॥ त्रिंशन्मुहूर्तमानेन दिवानक्तमयो मतः । तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्र जायते ॥१०॥ मासपक्षद्वयाकारः शुक्लकृष्णविभागतः । मासैर्द्वादशभिः संवत्सरः पूर्णश्च जायते ॥११॥ द्वाभ्यामाभ्यामृतुः प्रोक्तः स षडृतुभिरुच्यते । संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः ॥१२॥ निमेषादिभिरेवं स
यहाँ पृष्ठ पर मुद्रित पाठ का लिप्यंतरण प्रस्तुत है:
खं. ३ अ. १५ | पान ३१
कालः संवत्सरांतगः । नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥१३॥ संवत्सरात्मकः कालः पंचधा परिकीर्तितः । आद्यः संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥१४॥ इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः । वत्सरश्चैव पंचैते शृणु तेषां गतिं मुने ॥१५॥ अंगप्रत्यंगसंयोगः कालेनैव प्रजायते । अग्निर्जठरसंस्थश्च कुरुते सर्वमंजसा ॥१६॥ देहोत्पत्तिः स्थितिश्चैव नाशस्तस्य प्रकीर्तितः । कालेन जायते सर्वं सोऽग्निः संवत्सरः स्मृतः ॥१७॥ पंचानां मुख्यरूपोऽयं कालकर्मप्रवर्तकः । देहसंस्थो महायोगी बुधैः कालः प्रकथ्यते ॥१८॥ परिवत्सरनामाऽयं सूर्यः कालमयो मुने । अयनादिस्वभावेन स्मृतः कालस्य चालकः ॥१९॥ वर्षाशीतोष्णकालेषु ऋतुमासक्रमादिषु । कालधर्मं स चरति प्रकाशयति नित्यशः ॥२०॥ इडावत्सरनामाऽयं चंद्रः प्रोक्तो मनीषिभिः । तारानक्षत्रादीनां चालकश्च प्रजायते ॥२१॥ पितॄणां ज्ञानकारी च कालस्यात्र न संशयः । कालक्रमेण सोमोऽयं दधात्यमृतमंशुभिः ॥२२॥ ओषधीनामंशुभिर्वै काले भावं प्रकाशते । काले देवजनानाम- मृतपानं ददाति सः ॥२३॥ अनुवत्सरनामाऽसौ वायुः सर्वत्र पठ्यते । प्राणापानादिभिर्भावैश्चालकः कामकारकः ॥२४॥ आवहप्रवहाद्यैः स नेमिभिर्ज्योतिषां गणम् । संचालयति कालेन कालज्ञः कालरूपधृक् ॥२५॥ वत्सरो रुद्ररूपोऽयं तथा कालः प्रकाशते । महालये समुत्पन्ने लयमोषधयो गताः ॥२६॥ तत्र कालप्रमाणेन् त्र्यंबकः पुनरेव च । स ओषधीनां प्रस्रष्टा जायते कालसंस्थितः ॥२७॥ गायत्री जगती त्रिष्टुबंबिका नामतः स्मृताः । ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥२८॥ पुनश्चौषधयः सृष्टास्तत्र रुद्रेण कालतः । तेनाऽयं कालभावेन जगद्भावयति प्रभुः ॥२९॥ एवं पंचविधं कालं यो जानाति स्वभावतः । न तस्य कालभावस्य दुःखं भवति कर्हिचित् ॥३०॥ अधुना शृणु विप्रर्षे कालमानं विशेषतः । अयनं द्विविधं प्रोक्तं षण्मासात्मकमुच्यते ॥३१॥ तदेव देवतानां वै दिनमेकं प्रकथ्यते । उत्तरायणरूपश्च दिवसः परिकीर्तितः ॥३२॥ दक्षिणायनरूपा वै रात्रिस्तेषां प्रकीर्तिता । एवं त्रिंशद्दिराख्यातो मासश्चैव महामुने ॥३३॥ मासैर्द्वादशभिश्चैव वर्षस्तेषां प्रकीर्तितः । एवं सर्वत्र विप्राग्र्य ज्ञातव्यं कालजं वपुः ॥३४॥ शुक्लपक्षमयी रात्रिः कृष्णपक्षोऽहरेव च । पितॄणां सुखदः कालो मासेन दिवसो भवेत् ॥३५॥ मासौ च द्विविधौ प्रोक्तौ सौरचांद्रौ विधानतः । संक्रमेण रवेर्मासो जायते रविजः स्मृतः ॥३६॥ पूर्णिमायां स संपूर्णश्चंद्रो लोकैः प्रदृश्यते । तदाधारेण मासो वै ज्ञातव्यश्चंद्रमानतः ॥३७॥ अथवा क्षीणचंद्रायाममायां ज्ञायते बुधैः । मासश्चांद्रमसो विप्र द्विविधः परिकीर्तितः ॥३८॥ तत्रैव कारणं ब्रूवः शृणु तत्त्वार्थसिद्धये ।
अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥३९॥ अमायां चंद्रचिह्नेन ज्ञायते नान्यथा क्वचित् । स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः ॥४०॥ चंद्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा । अन्यच्च पितॄणां कालश्चंद्रमासेन जायते ॥४१॥ देवानां पितॄणां स्वर्गे सुधापानं प्रकीर्तितम् । पूर्णं सोमकलाभूतं चांद्रमासे न जायते ॥४२॥ देवानां दिवसे कालः सूर्यचिह्नेन जायते । शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥४३॥ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशताधिक- रूपाणि मतः सप्तर्षिवत्सरः ॥४४॥ नव वर्षसहस्राणि मानुषेण प्रमाणतः । अन्यानि नवतिश्चैव ध्रौव्यः संवत्सरः स्मृतः ॥४५॥ एवं कालप्रमाणं यत् कथितं ते द्विजोत्तम । मृत्युयुक्तं सदा क्रांतं ज्ञातव्यं द्वंद्वसंयुक्तम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते कालगतिवर्णनं नाम पंचदशोऽध्यायः ।
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । दिव्यवर्षसहस्राणि द्वादशाऽथ महामुने । चतुर्युगमयः कालो ज्ञातव्यो विबुधैः सदा ॥१॥ चत्वारि च सहस्राणि वर्षाणि कृतनामकम् । युगं प्रकीर्तितं तत्राष्टशतैः संधिरुच्यते ॥२॥ त्रीणि वर्षसहस्राणि युगं त्रेता प्रकीर्तितम् । संध्यांशो द्विगुणैस्तत्र ज्ञातव्यो विबुधैः शतैः ॥३॥ सहस्रे द्वे च वर्षाणि द्वापरः परिकीर्तितः । संध्यांशो द्विगुणैस्तस्माच्छतैस्तु परिकीर्तितः ॥४॥ एकवर्षसहस्रं वै कलिः परमदारुणः । तस्याऽपि संधिर्द्विगुणो ज्ञातव्यो विबुधैस्तथा ॥५॥ शतानि संधिरूपाणि ज्ञातव्यानि विशेषतः । सर्वत्र युगमानेष्वाद्यं तयोर्भोगदानि वै ॥६॥ एवं द्वादश- साहस्रदेववर्षाणि तानि वै । चतुर्युगानां मानं च कथितं कालवेदिभिः ॥७॥ आद्यं कृतयुगं प्रोक्तं ततस्त्रेता प्रकीर्तिता । ततो द्वापरनामाऽपि कलिस्तस्मात् प्रकीर्तितः ॥८॥ ध्यानं कृतयुगे मुख्यं त्रेतायामध्वरस्तपः । द्वापरे पूजनाचारः कलौ स्तवन- मुच्यते ॥९॥ ब्राह्मः कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायां त्रिपदः प्रोक्तो धर्मो धर्मविदां वरैः ॥१०॥ द्वापरे द्विपदो धर्मः सर्वशास्त्रेषु संमतः । कलावेकपदः प्रोक्तः सोप्यंऽते नाशमेष्यति ॥११॥ कृते ज्ञानं सदा पूज्यं त्रेतायां रविरुच्यते । द्वापरे दैवतं विष्णुं कलौ शंभुं वदंति च ॥१२॥ चतुर्युगानां मानेषु गणेशो मुख्यभावतः । पूज्यते मानवैः सर्वैः स्वस्व- सिद्ध्यर्थमादरात् ॥१३॥ कृते विनायकः प्रोक्तः कश्यपात्मज एव सः । सिंहारूढश्च दिग्बाहुस्तेजोरूपी प्रकथ्यते ॥१४॥
खं. ३ अ. १६ पान ३३ त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः । मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥१५॥ द्वापरे मूषकारूढः पूज्यते च चतुर्भुजः । गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥१६॥ कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् । तारकः सर्वभावज्ञो गणेशः पूज्यते जनैः ॥१७॥ ब्रह्माकारमयश्चैव तेन भेदो न विद्यते । चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥१८॥ कृते नराणामायुष्यं लक्षवर्षाणि संमतम् । त्रेतायां दशसाहस्रं द्वापरे तु सहस्त्रकम् ॥१९॥ कलौ तु शतवर्षाण्यंते तद्न्यूनं भविष्यति । वर्षाणि पंचदश वै क्रमेण परमं मतम् ॥२०॥ कृते स्वधर्मसंनिष्ठा जनाः सर्वे हिते रताः । परस्परं भावयंतो भेदहीना विशेषतः ॥२१॥ न मात्सर्यादि संयुक्ताः कलहादिविवर्जिताः । बाल्याद् धर्मधरा विप्र सदानंदयुतास्तथा ॥२२॥ विषयात्मसुखं तुच्छं मन्यंते सततं नराः । सुखे संति सदा ज्ञानयुक्ता ध्यानपरायणाः ॥२३॥ वर्णाश्रमविभागस्थाः स्वस्वाचारसमन्विताः । ब्रह्मणि श्रद्धया युक्ता योगाभ्यासपरायणाः ॥२४॥ ऋतुगामिन एवं ते नानाधर्मकराः सदा । अंतर्बाह्यैकभावाश्च भवंति सुखभोगिनः ॥२५॥ त्रेतायां पादहीनेन नरा धर्मेण संयुताः । तत्रांतर्बाह्यभावेषु भिन्नभावधरा मताः ॥२६॥ तथा स्वार्थं परार्थं ते न समाना विशेषतः । विषयेच्छायुता विप्र किंचित् किंचित् क्रमेण वै ॥२७॥ तत्र संध्यांशमार्गं त्वं शृणुष्वैतं महामुने । अष्टौ शतानि वर्षाणि कृते संध्यांश उच्यते ॥२८॥ चतुःशतानि तत्रैव कृतांत वर्षाणि च । शतानि त्रीणि त्रेताया अर्धांशेन युतानि च ॥२९॥ शतसप्तकवर्षाणि संध्यांशः परिकीर्तितः । दिने दिने क्रमेणैव कृतधर्मो विनश्यति ॥३०॥ त्रेताधर्मोऽधिकत्वेन तत्र तिष्ठति निश्चितम् । शतसप्तकवर्षेषु गतेषु मुनिसत्तम ॥३१॥ केवलं प्रभवे त्रेतायुगं सर्वस्वभावतः । ज्ञातव्यमेवं सर्वत्र संध्यांशेषु युगक्रमैः ॥३२॥ द्वापरे द्विपदो धर्मस्तत्र स्वार्थपरायणाः । कलहादिसमायुक्ता भवंति किल मानवाः ॥३३॥ बाह्यभावेषु साधूनां धर्माणां सेवका मताः । लज्जायुक्ततया विप्र अंतरे विषयप्रियाः ॥३४॥ परेषां लज्जया धर्मं चरंति द्वापरे नराः । विषयेच्छायुताः सर्वे स्वगृहे धर्मलोपकाः ॥३५॥ एतादृशास्ते भवंति द्वापरे मलसंयुताः । नराः सर्वत्र भावेषु जानीहि मुनिसत्तम ॥३६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते युगधर्मवर्णनं नाम षोडशोऽध्यायः ॥
[header] खं. ३ अ. १७ पान ३४ [/header]
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी । द्वापरस्तमसा युक्तः स्वयं राजस उच्यते ॥१॥ कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति । पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥२॥ कलौ प्रमारको रोगः सततं क्षुद्भयं मुने । अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥३॥ अधार्मिका अनाचारा महाकोपाऽल्पचेतसः । वदिष्यंत्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥४॥ अरिष्टैर्दुर्धीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥५॥ नाधीयते कलौ वेदान्न यजंति द्विजातयः । पठंति न्यायतो वेदान् शूद्राग्रे चाल्पबुद्धयः ॥६॥ शूद्राणां मंत्रयोगैश्च संबंधो ब्राह्मणैः सह । भविष्यति कलौ विप्र शयनासनभोजनैः ॥७॥ शूद्रा भवंति राजानो ब्राह्मणान् बाधयंति ते । ब्रह्महत्यां पशोर्हत्यां कुर्वंते वै नरेश्वराः ॥८॥ स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वंति द्विजातयः ॥९॥ विनिंदंति गणेशानं ब्राह्मणान् दैवतान्यपि । वेदान् शास्त्राणि सर्वाणि पुराणानि कलौ युगे ॥१०॥ कुर्वंत्यवेदकर्माणि ह्यनाधाराणि भो मुने । स्वधर्मेषु रुचिर्नैव द्विजादीनां प्रजायते ॥११॥ कुशीलचर्या- पाखंडो वृथाऽनृतभयं भवेत् । याचकाः सर्ववर्णाश्च भविष्यंति कलौ युगे ॥१२॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यंति कलौ युगे ॥१३॥ शुक्लदंता अक्षजिता मुंडाः काषायवाससः । शूद्रा धर्मं चरिष्यंति ब्राह्मणानां कलौ युगे ॥१४॥ अन्नचौरा भविष्यंति तथा वेलाभिमर्षिणः । चौरा चौरस्य हर्तारो भर्तुर्हर्तार एव च ॥१५॥ दुःखप्रचुरताऽल्पायुः शिश्नोदरपरायणाः । द्यूतमद्यादिसंसक्ताः परस्त्रीलंपटा मुने ॥१६॥ कापालिकास्तथा चान्ये यतयो गृहमेधिनः । वेदविक्रयिणो विप्रास्तीर्थविक्रयिणस्तथा ॥१७॥ आसनस्था द्विजान् दृष्ट्वा न चलंत्यल्पबुद्धयः । ताडयंति द्विजान् शूद्रा राजानो राजजीविनः ॥१८॥ उच्चासनसमासीना ब्राह्मणानां च पूजकाः । भविष्यंति कलौ शूद्रा वेदाध्ययन- तत्पराः ॥१९॥ सेवावसरमालोक्य द्वारि तिष्ठंति वै द्विजाः । उपायनादि संगृह्य शूद्राणां राजजीविनाम् ॥२०॥ बुद्धिशालिन एवं वै शूद्रा धर्मान् वदंति वै । वेदवादविचारज्ञा ब्राह्मणान् शिक्षयंति ते ॥२१॥ तपो यज्ञफलानां वै वेदानां च सुकर्मणाम् । विक्रेतारो भविष्यंति ब्राह्मणाश्च कलौ युगे ॥२२॥ पतिं त्यक्त्वा स्त्रियश्चैव परे पुंसि निरंतरम् । संसक्ताश्च भविष्यंति पतिद्रोहपरायणाः ॥२३॥ यतयश्च भविष्यंति शतशोऽथ सहस्रशः । मद्यस्त्रीसंगसंसक्ताश्चरंति च कलौ युगे ॥२४॥ वाममार्गाः पाशुपताः सांख्या वै पंचवाहकाः । भविष्यंति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥२५॥
खं. ३ अ. १७ पान ३५ ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षिष्यंति मानवान् ॥२६॥ करिष्यंत्यवतारांश्च ब्राह्मणानां कुलेषु ते । दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥२७॥ शापयुक्ता गौतमस्य भविष्यंति विशेषतः । वामादिमार्ग- संसक्ता जनान् भ्रष्टांश्च कुर्वते ॥२८॥ अन्यजातिषु सर्वत्र भविष्यंति तथा नराः । दक्षाध्वरे सर्ववर्णाः शापितास्ते दुराग्रहाः ॥२९॥ मोहयिष्यंति च जनान् दर्शयित्वा फलानि वै । तमसाऽऽविष्टहृदया बिडालव्रतिकाऽधमाः ॥३०॥ बौद्धमायाधरस्तत्र विष्णुः पाखंडपोषकः । सहायस्तान् सदा देवो दधीचेः शापकारणात् ॥३१॥ कर्ममार्गस्य सञ्छेत्ता भ्रष्टा चार युतान्नरान् । करिष्यति स्वयं विष्णुर्युगधर्मप्रवर्तकः ॥३२॥ अतज्ज्ञास्तं भविष्यंति शरणागतवत्सलम् । बौद्धमाया- श्रितं सर्वे भ्रष्टा चार युता नराः ॥३३॥ कलौ दशसहस्रं वै वर्षाणां च यदा भवेत् । विष्णुस्त्यक्त्वा तदा पृथ्वीमालयं स्वं गमिष्यति ॥३४॥ वर्षपंचसहस्राणि स्थिरा भागीरथी नदी । ग्रामदेवास्तदर्धेन गताः स्वर्गं महामुने ॥३५॥ स्वधर्मविधि- संयुक्तं कर्म यत् क्रियते नरैः । तदेव देवभोग्यं वै भवति द्विज सर्वदा ॥३६॥ विपरीतं कृतं कर्म त्वासुरं तत् प्रजायते । कलावासुरभावेन गता देवा निजालयम् ॥३७॥ आसुरेण स्वभावेन तीर्थायतनकादिषु । समागतं नरं दृष्ट्वा गच्छंति तीर्थदेवताः ॥३८॥ तेषु तीर्थेषु देवानां मूर्त्यादिषु तदाऽसुराः । प्रविश्य कर्मभोक्तारो भविष्यंति कलौ युगे ॥३९॥ तीर्थानि गुप्तभावेन देवतायतनानि वै । संस्थितानि कलौ तस्मिन्नुपवासयुतानि च ॥४०॥ दैवेन संयुक्तं दृष्ट्वा स्वभावेन महासुराः । गच्छंति मानवं तीर्थदेवाः स्वस्थानगाः पुनः ॥४१॥ तत्र वै कर्मकर्तारो नरा आसुरभावतः । भविष्यंति सदा विप्र भ्रष्टा वै दोषसंयुताः ॥४२॥ क्रियारूपा महाशक्तिः संस्थिता जगतीतले । क्रियाफलप्रदाता वै गणेशः संस्थितो भवेत् ॥४३॥ असुराणां सुराणां च सिद्धिदाता गजाननः । महिमानं स्वकीयं स कलौ संगोप्य संस्थितः ॥४४॥ धर्मपादाश्च चत्वारस्तपः शौचं दया तथा । सत्यं तत्र क्रमेणैव सर्वे नश्यंति धर्मजाः ॥४५॥ त्रेतायां च दया नष्टा नष्टं च द्वापरे तपः । आचारश्च कलौ प्राप्ते नष्टरूपो भविष्यति ॥४६॥ सत्यरूपमयः पादः कलौ तिष्ठति मानद । तेन सर्वे जना भूमौ व्यवहारं प्रकुर्वते ॥४७॥ द्वापरस्य तु संध्यांशे गते पृथुबलः कलिः । बहुलानृतभावेनादरात् सत्यं छिनत्ति च ॥४८॥ ततः क्रमेण सत्यस्य विनाशश्च भविष्यति । तदा कोलाहलो विप्र देवानां सदने भवेत् ॥४९॥ कलौ दुःखयुता लोका अन्नादिकविवर्जिताः । ग्रामादि सकलं त्यक्त्वा वसंति वनगोचराः ॥५०॥ परस्परं क्षुधाविष्टा भक्षयंति विचेतसः । सत्यहीना धरित्री वै भविष्यति
महामते ॥५१॥ षोडशाब्दं परं चायुः पंचवर्षसमन्विता । अंतर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥५२॥ एवमासुर- भावेन जितं सर्वं महामुने । देवता मुनयः सर्वे गणेशानं स्तुवंति ते ॥५३॥ तदा ढुंढिः सुराणां स हितायाऽवतरिष्यति । धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥५४॥ धर्मं प्रवर्तयित्वा स अंतर्धानं गमिष्यति । तदा पुनः कृतं प्राप्तं संध्यांशेन युगक्रमैः ॥५५॥ एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः । मायामयमिदं सर्वं त्वं जानीहि भ्रमात्मकम् ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कलियुगवर्णनं नाम सप्तदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्रमाश्च चत्वारस्ताञ्छृणुष्व महामुने । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णाः प्रकीर्तिताः ॥१॥ ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थ्यं तथैव च । प्रोक्ता वेदेषु संन्यास आश्रमा वेदवादिभिः ॥२॥ ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः । क्षत्रियाणां च वैश्यानां संन्यासो न प्रविद्यते ॥३॥ गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः । अंत्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा ॥४॥ ब्राह्मणश्च समुत्पन्नो बालभावपरायणः । पंचमे सप्तमे चैवाऽष्टमे मौंजीं समाचरेत् ॥५॥ कृतोपवीतको विप्रः प्रगच्छेद्गुरुसन्निधौ । तत्र वेदादिकं सर्वमभ्यसेद् विनयान्वितः ॥६॥ तत्रैव ब्रह्मचर्यांतं ब्राह्मणः प्रसमाचरेत् । सायं प्रातश्चरेद्भिक्षां गायत्रीमभ्यसेत्ततः ॥७॥ प्रातःकाले ब्रह्मरूपां मध्याह्ने रूद्ररूपिणीम् । गायत्रीं विष्णुरूपां तां ध्यायेत् सायाह्न आदरात् ॥८॥ भूर्भुवःस्वस्त्रिभिश्चैवाचामेन्नियमसंयुतः । स्वाहांता- भिर्महातेजाः स्पृशेद्व्यासेषु चेंद्रियम् ॥९॥ तर्जन्यांगुलीभिश्च तिसृभिः संस्पृशेन् मुखम् । तर्जन्यंगुष्ठयोगेन नासिकां संस्पृशेद् बुधः ॥१०॥ अंगुष्ठानामिकाभ्यां वै तथा चक्षूंषि संस्पृशेत् । कनिष्ठया च कर्णौ वै संस्पृशेन्नात्र संशयः ॥११॥ अंगुष्ठाभ्यां स्पृशेन्नाभिमुरः करतलेन च । सर्वांगुलीभिर्भ्रूमध्यमंगुष्ठाग्रेण वै शिखाम् ॥१२॥ सर्वांगुलीभिर्बाहुं स्वं स्पृशे- द्व्यासादिकर्मसु । एवमाचमनं प्रोक्तं स्वस्वशाखोक्तनामभिः ॥१३॥ मंत्रैर्वैदिकसंभूतैः संध्या कार्या विशेषतः । न्यासांश्च कारयेत्तत्र प्रणवस्य महामुने ॥१४॥ व्याहृतीनां च गायत्र्याः षडंगेष्वक्षरोद्भवान् । गायत्रीशिरसो न्यासांस्तत आचमनं चरेत् ॥१५॥ सूर्यश्चेति च मंत्रेण प्रातःकाले विशेषतः । आपः पुनंतु मध्याह्ने सायाह्नेऽग्निश्च मंत्रतः ॥१६॥ ततो मार्जनकं
कुर्यान्नवविंशतिसंख्यया । ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥१७॥ गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं चरेत् । ब्रह्मचारी शतान्येव पंचकालेषु वै पृथक् ॥१८॥ गायत्र्याश्च जपं कुर्याद्भागवतो मानसैक्यतः । अष्टोत्तरशतं काले गृहस्थो जपमाचरेत् ॥१९॥ वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् । एवं संध्या त्रिकालेषु ब्राह्मणैः क्रियते सदा ॥२०॥ त्रिपदां चैव गायत्रीं जपेदोंकारसंयुताम् । तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥२१॥ आदौ प्रणवमुच्चार्य पश्चाद्व्याहृतिरुच्यते । भूर्भुवः स्वरिति प्रोक्ता ततः प्रणव उच्यते ॥२२॥ ततः सा त्रिपदा विप्र गायत्री च ततः पुनः । ओंकारो विधिना नित्यं जपः संक्रियते द्विजैः ॥२३॥ संन्यासिभिश्च विप्रेंद्र चतुष्पादा विशेषतः । जप्यव्या सैव गायत्री स्वस्वाश्रमविभागशः ॥२४॥ ब्रह्मचारी स्वगोत्रादिगृहस्थेषु महामुने । भिक्षां चरेद्विधानेन गुरवे तां निवेदयेत् ॥२५॥ भवत् पूर्वं व्रती विप्रो भवन् मध्यं तु क्षत्रियः । भवदंतं तथा वैश्यः सदा भिक्षार्थमुच्चरेत् ॥२६॥ गृहीता गुरुणा भिक्षा संपूर्णा यदि मानद । तदोपवाससंयुक्तो वसेद्वै ब्रह्मचर्यवान् ॥२७॥ स्वल्पा वा परिपूर्णा वा दत्ता भिक्षा महात्मना । गुरुणा तावतीं भुक्त्वा संतिष्ठेत्तस्य सन्निधौ ॥२८॥ पालाशदंडसंयुक्तः सायं प्रातः स वह्निषु । जुहुयात् समिधं चैव नखलोमधरो भवेत् ॥२९॥ गुरुदेवपरं तस्य दैवतं सर्वभावतः । गुरुस्त्रीपुत्रसेवां स गुरुवत्तां समाचरेत् ॥३०॥ एकांते गुरुपत्नीभिर्न वसेच्च कदाचन । न स्त्रीभिः सह संभाशां स कुर्यात् कार्यहीनकः ॥३१॥ स्त्रीगानादिकभावान् वै शृणुयान्न सुयंत्रितः । न शुक्लं संत्यजेतापि ब्रह्मचारी विशेषतः ॥३२॥ स्वप्ने शुक्लं गतं चेद्वै तदा स्नानं समाचरेत् । अष्टोत्तरशतं तत्र गायत्री जप उच्यते ॥३३॥ गुरुणाऽध्यापितश्चैव कुर्यादध्ययनं मुने । न स्वयं संवदेत् प्राज्ञो गुरुं विद्यापरायणः ॥३४॥ एवं नानाविधैः प्रोक्तैर्लक्षणैः संयुतो भवेत् । ब्रह्मचारी महाभागो वेदाध्ययनतत्परः ॥३५॥ वर्षाणि द्वादशैवाऽथ षोडशाऽप्यथ वा द्विजः । अथ वेच्छाप्रमाणेन ब्रह्मचर्यं समाचरेत् ॥३६॥ वेदादिकं समभ्यस्य कृत्वा कंठगमादरात् । पश्चाद्गुरुं समभ्यर्च्य दद्यात्तस्मै स दक्षि- णाम् ॥३७॥ मनोविषयसंयुक्तं यदा तत्र गृही भवेत् । नोचेत् संन्यासनं कुर्यादथवा वनगो भवेत् ॥३८॥ अथवा ब्रह्मचर्यस्थः सदा तिष्ठेद् द्विजोत्तमः । यादृशी चित्तशुद्धिर्वै तादृशं सर्वमाचरेत् ॥३९॥ कृतमध्ययनं येन तदधीनं महामुने । ज्ञानं योगादिकं कर्म तस्मात्तच्च समाचरेत् ॥४०॥ ब्रह्मचर्यमिदं प्रोक्तं संक्षेपेण महामुने । श्रवणात् पुण्यदं पूर्णं लोकोपकृतये भवेत् ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः ॥
खं. ३ अ. १९ पान ३८ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः । स्वगृहे वासमातिष्ठेत् द्विजदेव- परायणः ॥१॥ ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् । सर्वावयवसंपूर्णां वधूं स वरयेत्ततः ॥२॥ ऋतुगामी भवेच्चैव संतानार्थं कलत्रवान् । देवविप्रातिथिप्रेप्सुः संतिष्ठेत् स गृहाश्रमी ॥३॥ यजनं याजनं चैव दानमध्ययनं तथा । प्रतिग्रहो- ऽध्यापनं च षट् कर्माणि समाचरेत् ॥४॥ स्नानं संध्यां जपं होममातिथ्यं देवतार्चनम् । स्वाध्यायं वैश्वदेवं वै गृही नित्यं समाचरेत् ॥५॥ चतुर्थीव्रतमाद्यं च कर्तव्यं त्वाश्रमस्थितैः । तथाऽन्यानि व्रतादीनि कर्तव्यानि विशेषतः ॥६॥ चतुर्थी व्रतहीनस्य नाधिकारो व्रतेषु वै । सदा शौची भवेन्नूनं चतुःपदविवर्जितः ॥७॥ शुक्रे चतुर्थिकायां वै योऽन्नं भुंक्ते महामुने । मांसाहारी मतो नूनं तथा भवति नारकी ॥८॥ अग्निहोत्रं चरेन्नित्यं तथा श्राद्धादिकं मुने । सदा दयापरो भूत्वा संतिष्ठेद् गृहसंस्थितः ॥९॥ अभक्ष्यभक्षणं क्वापि न कुर्यात् स गृहाश्रमी । शौचाचारसमायुक्तो भवेन्नियमसंयुतः ॥१०॥ तर्पणं पितृदेवानां मुनीनां च समाचरेत् । पंचयज्ञादिकं सर्वं नित्यं शास्त्रे प्रकीर्तितम् ॥११॥ स्वस्वसत्ताप्रमाणेन कर्तव्यं गृहमेधिना । तत्र धर्ममनुप्रोक्तं तं शृणुष्व महामुने ॥१२॥ अर्धेन पुत्रदारादींश्चतुर्थांशेन सौहृदम् । चतुर्थांशेन देवादीन् तोषयेच्च गृहाश्रमी ॥१३॥ एवं नानाविधं धर्मं गृहस्थश्च समाचरेत् । तृतीयभाग आयुष्ययुक्तः सोऽपि वनी भवेत् ॥१४॥ संस्थाप्य दारान् पुत्रादिसमीपे वा सह स्त्रिया । वनं गच्छेत् स धर्मार्थं तपस्वी कर्मसिद्धये ॥१५॥ पुत्रा जाताश्च नोत्पन्ना अपि तद् वनगो भवेत् । तपस्तत्र प्रकुर्यात् स फलकंदादि भक्षयन् ॥१६॥ वन्येन चाग्निहोत्रायतिथीनां पूजनादिकम् । समाचरेद्वनस्थश्च नानातपसि संस्थितः ॥१७॥ समीपे संस्थिता पत्नी मैथुनं न समाचरेत् । मनसाऽपि महाभाग वानप्रस्थः कदाचन ॥१८॥ वायुभक्षादिकं कुर्याद्वायुसाधनमेव सः । प्राणायामैश्च विप्रेश आचरेद्वनसंस्थितः ॥१९॥ पंचाग्निसाधनं ग्रीष्मे हेमंते जलवासनम् । वर्षास्वाकाशवासी स वानप्रस्थो भवेत्तथा ॥२०॥ संकटे च वनस्थः स ग्रामे नैव वसेत् कदा । प्रवेशोऽपि न कर्तव्यो ग्रामे तेन महात्मना ॥२१॥ एवं नानाविधान् धर्मान् वानप्रस्थग आचरेत् । चतुर्थांशं यदा तस्यायुष्यं विद्येत भो मुने ॥२२॥ चतुर्थांशायुषि स्थिता संन्यासं स समाचरेत् । तदा स्त्रियाऽपि तस्यैवाशां त्यक्त्वा ज्ञापितो भवेत् ॥२३॥ आज्ञा तस्मै प्रदातव्या स्त्रिया चैव विशेषतः । स्वयं तपसि देहं स्त्री शोषयेन् मरणावधि ॥२४॥ अग्निहोत्रं स्वदेहेऽसावात्मन्येकस्वभावतः । कृत्वा च निःस्पृहो भूत्वा विचरेत् पृथिवीमिमाम् ॥२५॥ अहं ब्रह्मेति भावेन
खं. ३ अ. १९ पान ३९ योगभूमिक्रमेण च । योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥२६॥ कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै । ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥२७॥ द्वंद्वभावविहीनः स भिक्षां नित्यं समाचरेत् । करपात्री भवेद्वाऽपि संन्यासी च सदा मुने ॥२८॥ करपात्री स संन्यासी ग्रासे ग्रासे महामुने । अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥२९॥ चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु । जितेंद्रियो जितप्राणो निःसंगः सर्वकर्मसु ॥३०॥ अहिंसा परमो धर्मः संन्यासानां विशेषतः । तृणादिकं च विप्रेश च्छेदयेन्न कदा न च ॥३१॥ त्रिदंडी यस्तु संन्यासी कुटीचक उदाहृतः । विधिं तत्र प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ॥३२॥ स्वधर्माचरणं नित्यं देहदंडः स उच्यते । मौनं वाचामयं दंडो द्वितीयश्च प्रकीर्तितः ॥३३॥ सर्वत्र रसहीनं च मानसं वर्तते यथा । कर्तव्यं तत्तथा तेन मनोदंडः प्रकीर्तितः ॥३४॥ कुटीं देहमयीं योगी चालयेत् बिंबभावतः । ब्रह्मणि ब्रह्मभूतश्च स कुटीचक उच्यते ॥३५॥ ततो बहूदको योगी द्विदंडी स भवेन् मुने । देहदंड- विहीनत्वात् स्वेच्छाचारी विशेषतः ॥३६॥ एकगर्तस्थमुदकं सर्वैः संगृह्यते यथा । गर्ते दोषो नराणां वै विद्यते न कदाचन ॥३७॥ तथात्मा देहसंस्थश्च चतुर्देही विकारतः । भिन्नः सदा न तद्दोषैर्लिप्यते क्वापि निश्चितम् ॥३८॥ सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः । बहूदकः स निःसंगो देहादिभ्यः प्रकीर्तितः ॥३९॥ ततो हंसाश्रमः प्रोक्तो मानसे दंडधारकः । देहवाणीदंडहीनः स्वेच्छाचारी मतो मुने ॥४०॥ देहदेहिसमायोगे ब्रह्म बोधात्मकं मतम् । तत्र संस्थः स्वयं योगी द्विविधे तन्मयो भवेत् ॥४१॥ द्वंद्वं जलमयं प्रोक्तं देहदेहिस্বরূপकम् । तत्र दुग्धं भवेद्ब्रह्म हंसस्तद् ग्राहको भवेत् ॥४२॥ ततः परमहंसश्च ज्ञानदंडपरायणः । देहवाणीमनोभूतैर्दंडैर्हीनः प्रकीर्तितः ॥४३॥ देहदेहिमयं ब्रह्म भ्रांतियुक्तं विशेषतः । तच्च प्रोक्तं सविषयं हंसकर्म परायणम् ॥४४॥ सदा साक्षिस्वरूपं यत्परं ब्रह्म महामुने । तत्र संस्थो महायोगी त्रिविधेषु विभागः ॥४५॥ नाहं देहो न देहस्थो देहदेहिमयो न वै । सदा साक्षिस्वरूपस्थो ज्ञानानंदमयो भवेत् ॥४६॥ यद्यज्ञानं भवेत्तस्य तत्तत् सर्वं विकारजम् । तत्तयक्त्वा द्वंद्वहीनश्च स्वेच्छाचारी भवेत् स्वयम् ॥४७॥ चतुर्विधोऽयं संन्यासस्तत्राश्रम- समाश्रितः । अहं ब्रह्मेति योगेन ब्रह्मभूतो भवेन्नरः ॥४८॥ मनसा रसयुक्तेन विषयादिषु भो मुने । संन्यासश्च कृतो येन नारकः स भविष्यति ॥४९॥ कपर्दिका यदा तेनैका गृहीता महामुने । तदा सहस्रवर्षाणि कुंभीपाके पतेत् ध्रुवम् ॥५०॥ स्त्रीसंभोगसुखेच्छा चेत्तस्य वै मानसे क्षणम् । संभवेच्चेतदा विप्र गोसहस्रवधी भवेत् ॥५१॥ कृते मनः सदाऽऽधीनं नराणां
खं. ३ अ. २० पान ४० धर्मयोगतः । ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥५२॥ त्रेतायां चंचलं चित्तं धर्मस्य पादहीनतः । तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः ॥५३॥ द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च । मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥५४॥ कलावासुरभावेन नष्टो धर्मः क्रमेण वै । तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥५५॥ नामस्मरणमार्गे वर्णाश्रमो न च विद्यते । संन्यासादिः सदाचारो भवेत्तेनासुरं हतम् ॥५६॥ कलावासुरबाहुल्यान्न संन्यासस्य योग्यता । चंचलं देहचित्तादि तेन नष्टो भविष्यति ॥५७॥ वर्णाश्रमविहीनश्च यो वै भवति निश्चितम् । तस्य दंडो न विद्येतादंडी वेदे स कथ्यते ॥५८॥ ज्ञानदंडपरित्यागात् स्वयं योगी भवेन्नरः । निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेत् ॥५९॥ कर्तव्यं यदि तेनाऽपि वेदेषु विधृतं भवेत् । तदा विधिसमायुक्तो जंतुर्भवति निश्चितम् ॥६०॥ किंचिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तितम् । तदा निषेधसंयुक्तो नरो भवति मानद ॥६१॥ अतो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तितः । तेनाचरित आचारः स एवं तस्य योगदः ॥६२॥ अतो योगी महाभाग दंडहीनः प्रकीर्तितः । वर्णाश्रमविहीनः स ब्रह्मभूतः प्रजायते ॥६३॥ स विनायकनामा वै नायकैर्वर्जितः स्वयम् । योगी तेन समाख्यातः सर्वेषां नायको भवेत् ॥६४॥ ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया । यदि वर्णाश्रमे संस्थो भवति स्वेच्छया मुने ॥६५॥ लोकसंग्रहणार्थं स नित्यं धर्मं समाचरेत् । निःस्पृहो धर्मभोगार्थे मतं तदपि तादृशम् ॥६६॥ एतदाश्रममार्गश्च कथितस्ते महामुने । मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॥६७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । वर्णाश्चत्वार एवं ते स्वस्वधर्मयुता मुने । ब्राह्मणः क्षत्रियो वैश्यः शृणु शूद्रः प्रकथ्यते ॥१॥ व्यभिचारेण तेषां वै वर्णा जाता महामुने । नानाविधा विशेषेण जानीह्यत्र न संशयः ॥२॥ तत्र ब्राह्मणधर्मं ते कथयामि समासतः । शृणु मायाविनाशार्थं मायारूपं पुरातनम् ॥३॥ चतुर्धा ब्राह्मणानां वै वृत्तिः शास्त्रैः प्रकीर्तिता । उञ्छः शिलं तथा शुक्लं मृतं चामृतकं भवेत् ॥४॥ अयाचितं च भूमेर्यत् कर्षणं वा वने स्थितिः । तेषां मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥५॥ गृहीतं कृषिकैर्धान्यं तत्र शिष्टं तदग्रहम् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥६॥
अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥७॥ एका वृत्तिरियं प्रोक्ता द्वितीयां शृणु सांप्रतम् । भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥८॥ तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा । शुक्लवृत्त्याऽऽचरेद्भैक्ष्यं रागलोभविवर्जितः ॥९॥ तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् । अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥१०॥ कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् । तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥११॥ स्वधर्मः पूर्वभागे ते कथितश्च महामुने । सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणः कदा ॥१२॥ क्षत्रियाणां च शस्त्रादिधारणेन महामुने । देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेत् ॥१३॥ अग्निहोमं च विप्रस्य हस्तेनाऽयं समाचरेत् । संन्यासं नैव विप्रेश कुर्यात् क्षत्रियजः कदा ॥१४॥ वैश्योऽपि क्रयकारी वै विक्रयं च तथाऽऽचरेत् । कृषिभिः कर्षणं भूमेर्गवां पालनमादरात् ॥१५॥ संन्यासधर्महीनश्च सदा तिष्ठेत् स मानद । क्षत्रियाणां विशां विप्र यजनं दानमेव च ॥१६॥ समाख्यातं त्वध्ययनं न प्रोक्तं याजनादिकम् । अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः ॥१७॥ कारयेद्वैश्यधर्मज्ञः स्वधर्मपालनाय वै । तर्पणं ब्राह्मणास्येन मंत्रेण तु समाचरेत् ॥१८॥ एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम । शूद्रस्य तु त्रिवर्णानां सदा सेवा प्रकीर्तिता ॥१९॥ दासत्वन्नात्र संदेह आश्रमो गृहिसंज्ञितः । दानं दद्याद् द्विजायैव पुराणश्रवणं तथा ॥२०॥ कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणं कदा । पुराणादिषु देवानामवताराः प्रकीर्तिताः ॥२१॥ तेषां मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा । तासां स्पर्शादिकं चैव न कर्तव्यं कदाचन ॥२२॥ नरादिभिश्च सर्वत्र स्वेच्छया स्थापिता भवेत् । तस्याः स्पर्शश्च कर्तव्यः शूद्रैर्नित्यं महामुने ॥२३॥ नाममंत्रेण पूजा वै कर्तव्या स्मरणं तथा । मृत्तिकार्चां समभ्यर्चेन्नाममंत्रेण वा मुने ॥२४॥ आवाहनादि प्रारभ्य विसर्गांतं समाचरेत् । पुराणसंभवैर्मंत्रैः श्राद्धतर्पणकादिकम् ॥२५॥ ब्राह्मणानां मुखैश्चैव शूद्रैः कर्तव्य- मादरात् । न पुराणादिसंभूताः श्लोकास्ते शूद्रजातिभिः ॥२६॥ पठितव्या महाभाग श्रवणं संमतं सदा । अंत्यजातिभवाः शूद्रास्तैर्नामस्मरणं सदा ॥२७॥ कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन । पुराणसंभवैर्मंत्रैर्न कर्तव्यं महामुने ॥२८॥ कर्म किंचिच तैः सर्वैः स्वस्वधर्मपरायणैः । पितॄणां देवतानां चोद्देशं कृत्वा धनादिकम् ॥२९॥ धान्यं तैः संप्रदातव्यमेष मार्गः पुरातनः । स्वस्वधर्मरता एते स्वर्गगामिन एव च ॥३०॥ भवंति नात्र संदेहो महाभोगाः सुखे रताः । प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तथैंद्रकम् ॥३१॥ वायवं वैश्यजातीनां गांधर्वं शूद्रजन्मिनाम् । स्वस्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः ॥३२॥
ख. ३ अ. २१ पान ४२ तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः । एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् । शृणोति यः पठेत्तस्य मायामोहो न विद्यते ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । स्त्रीणां धर्मं प्रवक्ष्यावस्तं शृणुष्व महामते । जातमात्रा च सा देवैर्भुज्यते त्रिभिरादरात् ॥१॥ चंद्रो गंधर्वको वह्निर्द्वे द्वे वर्षे महामते । कन्यां भुनक्ति धर्मेण षट् वर्षाणि विभागतः ॥२॥ तन्मध्ये न प्रदातव्या कन्या कस्मै सुहृज्जनैः । दत्ता चेद्देवताक्षोभो भवेद्वै धर्मनाशनात् ॥३॥ सप्ताष्टनवदिग्वर्षवयोयुक्ता सुहृज्जनैः । कन्या नराय दातव्या साधवे कुलजाय वै ॥४॥ दशवर्षाधिका कन्या रजोयुक्ता च संमता । न दत्ता यदि तन्मध्ये महापापप्रवर्धिनी ॥५॥ पदे पदे ब्रह्महत्यां लभंते जनकादयः । अतः कन्या प्रदातव्या विधिना स्वर्गदा भवेत् ॥६॥ कन्यादानसमं पुण्यं विद्यते न कदाचन । यया वंशः प्रवर्धेत सर्वेभ्यः सुखदायकः ॥७॥ रजोदर्शनयुक्ता चेज्जाता स्त्री सा तदा भवेत् । वशगा स्वपतेस्तस्या एव तद्दैवतं मतम् ॥८॥ दासीवत्तं पतिं सा वै संभजेद्भक्तिसंयुता । वने पतिर्यदा यात- स्तदा तमनुगा भवेत् ॥९॥ यदि पुत्रादयो बालास्तदा तेषां प्रसन्निधौ । पोषणार्थं भवेच्चैव संस्थिता वनगे पतौ ॥१०॥ यदि संन्यासधारी चेत् पतिर्भवति भो मुने । तदा स्त्रिया प्रदातव्या तस्मा आज्ञा महामुने ॥११॥ यदा गृहस्थितो भर्ता मृतश्चेत् सहगा भवेत् । वनस्थितस्तदा तद्वत् कर्तव्यं सुस्त्रिया किल ॥१२॥ मृते भर्तरि पत्नी सा गर्भयुक्ता रजस्वला । तदा पत्या न संगच्छेद्द्विधवाधर्मगा भवेत् ॥१३॥ चतुर्थे दिवसे शुद्धा भवेत् सा पतिकर्मणि । पंचमे दिवसे विप्रादिपूजायां शुचिर्भवेत् ॥१४॥ विधवा स्त्री सदा विप्र एकभुक्तपरायणा । व्रतादिना स्वदेहं वै शोषयेन्नित्यमादरात् ॥१५॥ एवमादिः सतीनां वै धर्मो मुख्यः प्रकीर्तितः । श्रवणात् पुण्यदस्तासां भवत्येव महामुने ॥१६॥ सर्वेषां पितृदेवानां कर्म कर्तव्यमादरात् । मनुजैस्तत्र पितॄणां कर्म संक्षेपतः शृणु ॥१७॥ अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । पिंडान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥१८॥ पिंडान्वाहार्यकं श्राद्धं संक्रमेषु प्रशस्यते । अपराह्ने द्विजातीनां प्रशस्तेनामिषेण वै ॥१९॥
खं. ३ अ. २१ पान ४३
पूर्णिमाद्या अमांता यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा प्रशस्ताः श्राद्धकर्मणि ॥२०॥ शस्त्रादिविषयोगैर्यै मृतास्तेषां महामुने । चतुर्दश्यां समाख्यातं श्राद्धं नान्यत्र शस्यते ॥२१॥ कृष्णपक्षेऽष्टकास्तिस्रः पौषमासादिषु त्रिषु । चतस्रोऽप्यष्टकाः पुण्याः श्राद्धकर्मणि सर्वदा ॥२२॥ त्रयोदशी समायुक्ता युगादितिथयः स्मृताः । मन्वादितिथयः श्राद्धे प्रशस्ताः पुण्यदा मताः ॥२३॥ नैमित्तिकमिदं प्रोक्तं व्यतीपाते च वैधृतौ । बांधवानां मृतानां च दशपिंडादिकं मुने ॥२४॥ काम्यानि चैव श्राद्धानि शस्यंते ग्रहणादिषु । अयने विषुवे चैव तीर्थे क्षेत्रे त्वनित्यकम् ॥२५॥ अक्षय्यं वारतिथिषु स्वस्वजन्मदिनेष्वपि । नक्षत्रेषु च सर्वेषु कार्यं श्राद्धं विशेषतः ॥२६॥ अथवेह सुखप्राप्त्यै पितृलोकसुखाय च । श्राद्धं कामप्रदं प्रोक्तं सर्वदा नित्यवन् मुने ॥२७॥ गयायामक्षयं श्राद्धं प्रयागेऽमरकंटके । मयूरेशपुरे चैव काश्यादिषु विशेषतः ॥२८॥ गायंति पितरो गाथां नर्तयंति मनीषिणः । एष्टव्या बहवः पुत्राः शीलवंतो गुणान्विताः ॥२९॥ तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् । गयां प्राप्यानुसर्गेण यदि श्राद्धं समाचरेत् ॥३०॥ तारिताः पितरस्तेन स याति परमां गतिम् । वाराहे पर्वते चैव गयायां च विशेषतः ॥३१॥ मयूरे च तथा काश्यामष्टवैनायकस्थले । गंगाद्वारे प्रभासे च बिल्वके नीलपर्वते ॥३२॥ कुरुक्षेत्रे सेतुबंधे भृगुतुंगे महालये । केदारे फल्गुतीर्थे वै नैमिषारण्यकादिषु ॥३३॥ इत्यादिबहुरूपेषु यदि श्राद्धं समाचरेत् । तदा मुक्तिप्रदं प्रोक्तमपवर्गप्रदं भवेत् ॥३४॥ चतुर्थी शुक्लकृष्णेवैकादशी रविवारः । प्रदोषश्च तथा विप्र अष्टमी सर्वसिद्धिदा ॥३५॥ नित्यं देवार्चनं प्रोक्तं व्रतादिषु विशेषतः । एवं नानाव्रतादीनां कर्तव्यं सेवनं नरैः ॥३६॥ अग्निहोत्रादिमार्गैश्च देवानां सेवनं मतम् । तीर्थादिदानसंभावैरिष्टापूर्तादिसंमतम् ॥३७॥ एवं दैवं तथा पित्र्यं विविधं कर्म कथ्यते । तदेव ब्रह्मणि प्राज्ञैरर्पितं योगदं भवेत् ॥३८॥ इदं मायामयं प्रोक्तं कर्म वर्णाश्रमात्मकम् । मायामोहनिवृत्त्यर्थं रचितं विश्वयोनिना ॥३९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः ॥
ख. ३ अ. २२ पान ४४ ॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् । तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः ॥१॥ नानामंत्रजपेनैव नानाध्यानपरायणैः । निराहारप्रभावेण तोषितस्तैर्गजाननः ॥२॥ पूर्णवर्षसहस्रेण ययौ विघ्नपतिः प्रभुः । उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥३॥ ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः । बहुत्वान्नैव शक्यं तद्वर्णनं मुनिसत्तम ॥४॥ सर्वेषामीप्सितं दत्त्वा ययौ स्वानंदके पुरे । ते सर्वे स्वस्वकर्मज्ञाश्चक्रुः स्वस्वक्रियां मुने ॥५॥ मन्वंतरेष्वतीतेषु तैः पुनश्च गणेश्वरः । आराधितो विशेषेण योगशांत्यर्थमादरात् ॥६॥ क्रमेण ब्रह्मभूतास्ते ययुस्तं गणपं पुनः । एकभावेन योगज्ञा योगाकारं महामुने ॥७॥ पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते । पौत्रादिक्रमभावेन पालिता तैर्वसुंधरा ॥८॥ वैवस्वतेंतरे प्राप्तेऽधुना तन्न ब्रवीमि ते । शृणु संक्षेपतो विप्र मनुजानां चरित्रकम् ॥९॥ मनोस्तु दश पुत्रा वै जाताः पितृसमा मुने । सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूव ह ॥१०॥ इक्ष्वाकुर्नृगशर्यातिदिष्टा धृष्णः करूषकः । नरिष्यंतपृषध्रौ च नभगः परिकीर्तिताः ॥११॥ नवैते सूर्यवंशो वै शक्रतुल्यपराक्रमाः । ज्येष्ठे चंद्रस्य वंशो वै स्त्रीभावात् संबभूव ह ॥१२॥ सुद्युम्नः स कदाचिद्वै मृगयार्थं वने ययौ । वनेषु सैन्यसंयुक्तो बभ्रामामितविक्रमः ॥१३॥ दैवयोगेन राजाऽयं ययौ गोरीवनं मुने । तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूव ह ॥१४॥ शिवेन शैलपुत्र्यर्थं शापितं तद्वनं सदा । मृकंडदेहज शृणुष्वोग्रं वै तत्र कारणम् ॥१५॥ गौरीवने भवान्या स नग्नः शंभुश्च सा तथा । नग्ना रेमे शिवेनैव तया शंभुश्च मानद ॥१६॥ एकदा मुनयः श्रेष्ठा वसिष्ठाद्याः समाययुः । दर्शनार्थं महेशस्य तत्र ते विविशुः सुखम् ॥१७॥ तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने । ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशम् ॥१८॥ ततः शिवेन शापो वै दत्तस्तत्र वने मुने । प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक् ॥१९॥ सुद्युम्नस्तत्र संजातो नारीरूपो विशेषतः । शुशुभे यौवनश्रिया स्तनभारभरान्वितः ॥२०॥ ततस्तत्र बुधो देवश्चंद्रपुत्रः समाययौ । तेन दृष्टा सुरूपा सा नारी मोहकरी मुने ॥२१॥ साऽपि तं चकमे तत्र देवरूपं महाप्रभम् । तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिताऽभवत् ॥२२॥ तस्यां पुरूरवा जज्ञे चंद्रवंशधरः प्रभुः । श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः ॥२३॥ तदर्थं च वसिष्ठेन गणेशस्य महामनुः । दत्तो विनायकायेति नमोंतः स्त्रीस्वरूपिणे ॥२४॥ राजपुत्री वनं गत्वा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षस्तां ययौ भक्ति- भावतः ॥२५॥ तया संपूजितो ढुंढिः स्तुतस्तस्यै वरं ददौ । तया पुरुषभावाय याचितश्च वरः शुभः ॥२६॥ तथेति तं पुनः
खं. ३ अ. २२ पान ४५ सद्यः कृत्वा नरसुरूपिणम् । गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥२७॥ सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने । उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥२८॥ पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् । गणेशं योगमार्गेण तोषयामास नित्यदा ॥२९॥ शांतियोगधरः सोऽपि बभूव वनसंस्थितः । अंते सायुज्यतां प्राप्तो गणेशस्य महाबलः ॥३०॥ सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने । इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥३१॥ वनं ययौ महाभागो मनुर्वैवस्वतो मुने । सूर्यात् प्राप्य महामंत्रं जजाप च षडक्षरम् ॥३२॥ सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् । अभजय्योग- शांत्यर्थं सोऽपि शांतो बभूव ह ॥३३॥ नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा । महायोगी मनुर्देवं न मुमोच कदाचन ॥३४॥ इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः । अष्टाक्षरेण मंत्रेणाऽतोषयद् गणनायकम् ॥३५॥ शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् । स्तुतः संपूजितस्तेन ययौ स्थानं गणेश्वरः ॥३६॥ गणेश्वरवरदानेन विकुक्षिरतस्य चात्मजः । बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥३७॥ संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् । पुनस्तेन सुमंत्रेण तोषयामास विघ्नपम् ॥३८॥ क्रमेण शांतिमापन्न इक्ष्वाकुर्ब्राह्मणो मुने । ब्रह्मभूतः स्वभावस्थः स्वानंदे गणपं ययौ ॥३९॥ विकुक्षेरभवन् पुत्रा दश पंच महामुने । तेषां ज्येष्ठः ककुत्स्थश्च शृणु तस्य विचेष्टितम् ॥४०॥ दैत्यैः संताडिता देवाः शरणं तं नृपात्मजम् । ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥४१॥ तत्रेंद्रं वृषभं तस्य कृत्वा ककुदि संस्थितः । जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥४२॥ ककुत्स्थस्तेन देवेंद्रैर्नाम्ना संकीर्तितो नृपः । स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥४३॥ ततोऽनेनाः पृथुस्तस्माद्विश्वरंधिश्च तत्सुतः । तस्माच्चंद्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥४४॥ तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः । ततः कुवल्याश्वश्च पुत्रोऽभूदेव धुंधुहा ॥४५॥ धुंधुं हत्वा महादैत्यं धुंधुमारो बभूव ह । धुंधुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥४६॥ दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः । दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥४७॥ हर्यश्वस्य निकुंभोऽभून्निकुंभाद्दृहणाश्वकः । कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य संमतौ ॥४८॥ कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः । स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥४९॥ तेन पुत्रार्थमानंदान् मुनिभिश्च महात्मना । वरुणस्य कृतो यज्ञ- स्तत्र तैर्मंत्रितं जलम् ॥५०॥ रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः । ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥५१॥ राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः । ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥५२॥ तवोदरे तथा गर्भो
भविष्यति न संशयः । एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥२३॥ उदरे युवनाश्वस्य गर्भः संववृधे मुने । संपूर्णी तत्र देवेंद्रो गर्भं तस्य महात्मनः ॥२४॥ विदार्य जठरं सद्यः पूर्ववत्तं चकार ह । कं धास्यति कुमारोऽयं तत्रेंद्रस्तानुवाच ह ॥२५॥ मां धास्यति ततस्तेन मांधाता कथितो द्विजैः । इंद्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥२६॥ स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह । अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥२७॥ गुणा वर्णयितुं शक्या मांधातुर्न महात्मनः । स एव गणराजं तमभजन्नित्यमादरात् ॥२८॥ वसिष्ठाद्योगमाश्रित्य योगिवंद्यो बभूव ह । पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥२९॥ गणेशभक्तिं वै तत्र चकारांऽते लयं ययौ । स्वानंदे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥३०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मांधातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुनिरुवाच । मनोर्वंशे महाभागोऽबरीषश्च बभूव यः । एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥१॥ नरनारायणावूचतुः । मनोर्वंशेऽन्त्यपुत्रोऽभूदंबरीषः प्रतापवान् । नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥२॥ एकादशीव्रतेनैव तोषयामास माधवम् । ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥३॥ दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् । तं प्रणम्य स राजर्षिरुवाच प्रकृतांजलिः ॥४॥ भगवन् स्वल्पकालस्था द्वादशी मे च पारणे । व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥५॥ स्वल्पकालेन संध्यादि कृत्वाऽऽगंतव्यमादरात् । तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥६॥ तत्र शीघ्रतया तेन कृतं संध्यादिकं मुने । तथापि कालयोगेन द्वादशी पगता ततः ॥७॥ मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् । नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥८॥ विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये । पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥९॥ ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने । राज्ञा तस्मै स्ववृत्तांतः कथितो विस्तरेण ह ॥१०॥ श्रुत्वा स कुपितोऽत्यंतं दुर्वासास्तं शशाप ह । निमंत्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥११॥ अतस्त्वं फलहीनो वै भविष्यसि न संशयः । एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥१२॥ ततः सोऽपि नृपोऽत्यंतं दुःखितः संस्थितोऽभवत् । उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥१३॥ अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् ।