मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ८ अ. ६ पान १४ ततस्तयोर्हृदिस्थं यद्ब्रह्म मायाप्रचालकम् । प्रसन्नं जातमप्यंतं स्वरूपं स्वमदर्शयत् ॥४२॥ तत एकाक्षरं मंत्रं गणेशस्य महात्मनः । दृष्ट्वा ताभ्यां हृदिस्थं स्वं तेजोरूपं सुखप्रदम् ॥४३॥ ततस्तनैव मंत्रेण तोषयामासतुः परम् । गणेशं ते महा- भागे व्यादिमाये तपोन्विते ॥४४॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । वरान् दातुं समायातः सिद्धिबुद्धिसम- न्वितः ॥४५॥ नरकुंजररूपं तत् दृष्ट्वा विस्मितमानसे । माये बभूवतुस्तत्र विचारं चक्रतुर्हृदि ॥४६॥ गणेशकृपया सद्यो ज्ञातं जातं महाद्भुतम् । तपसोग्रप्रभावेण ज्ञातं ताभ्यां रहस्यकम् ॥४७॥ सिद्धिबुद्धियुतं तं ते वीक्ष्य चोत्थाय सत्वरम् । प्रणेमतुर्गणेशानं पूज्य स्तोत्रं प्रचक्रतुः ॥४८॥ ऒ्योंकारावूचतुः । नमस्ते गणनाधाय सर्वसिद्धिप्रदायक । सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥४९॥ स्वानंदपतये तुभ्यं कर्तॄणां कर्तृरूपिणे । अनाधाय सनाथानां नमो नाथाय ते नमः ॥५०॥ परेशाय परेषां च पालकाय परात्मने । आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥५१॥ लंबोदराय देवाय देवदेवेशरूपिणे । देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥५२॥ ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुंढये । अनामनाय नित्याय सर्वेशाय नमो नमः ॥५३॥ ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥५४॥ योग- शांतिमयायैव चिंतामणिस্বরূপिणे । अनंतायादिरूपाय चांतःस्थाय नमो नमः ॥५५॥ किं स्तुवस्त्वां गणाधीश योगशांति- धरं परम् । यत्र वेदादयः शांतिं प्राप्ता योगपरायणाः ॥५६॥ मनोवाणीमयो नैव मनोवाणीविवर्जितः । नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥५७॥ एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर । ऒ्योंकारौ तौ समुत्थाप्य जगाद गणनायकः ॥५८॥ श्रीगणेश उवाच । वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥५९॥ स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् । पठते शृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥६०॥ ब्रह्मभूयकरं पूर्णं ऒ्योंकारयशसाऽन्वितम् । मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥६१॥ गणेशवचनं श्रुत्वोचतुः ऒ्योंकारकौ परम् । गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥६२॥ ऒ्योंकारावूचतुः । त्वयि भक्तिं स्थिरं देहि योगशांतिप्रदायिकाम् । संकल्पसिद्धिसामर्थ्यं दास्यं ते पादपद्मयोः ॥६३॥ यथा सिद्धिश्च बुद्धिश्च त्वया संमानिते प्रभो । तथाऽऽवां ते प्रिये नाथ कुरुष्व गणनायक ॥६४॥ अस्मदीयं वशे सर्वं जगद्ब्रह्म कुरु प्रभो । आवाभ्यां मोहितं सर्वं भवतु त्वत्प्रसादतः ॥६५॥ त्वदीयभजनेनैव मोहो ह्यस्मत्कृतः परः । नाशं यातु सदा देव नान्यथा योगकारिभिः ॥६६॥ शिवविष्णुमुखा देवा मोहयुक्ता भवंतु च । अस्मदर्थं सदा भ्रांता यत्नयुक्ता भवंतु वै ॥६७॥
Here is the complete and precise Devanagari text transcription from the image:
खं. ८ अ. ६ पान १५ श्रीगणेश उवाच । भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः । दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥६८॥ मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् । ब्रह्म नानाविधं देव्यौ तत्राऽहं बिंबितोऽभवम् ॥६९॥ बिंबं मे मोहयुक्तं तन्नाना- भावपरायणम् । मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥७०॥ मम बिंबस्य भार्ये तु संशयो न भविष्यथः । तेन युक्ते महामाये बंधमोक्षौ करिष्यथः ॥७१॥ सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः । न तत्र योग्यता देव्यौ भवत्यो- र्मोहनात्मनोः ॥७२॥ एवमुक्त्वा गणाधीशोऽन्तर्धानं वै चकार ह । माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥७३॥ ततो गणेशबिंबं यत् पतितं तत्तयोर्हृदि । तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥७४॥ बाह्यसौख्यकरी माया चतुर्णां जगतां किल । ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥७५॥ चतुर्णां जगतां तद्ब्रह्मणां ज्ञानरूपिणी । ओंकारात्मक रूपा सा माया सर्वत्र संस्थिता ॥७६॥ ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः । मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥७७॥ अतः सर्वेषु जीवेषु मोहितेषु महासुर । मोहहीनात्मभावेषु ओंकारौ त्वादिसंमतौ ॥७८॥ आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते । कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥७९॥ कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः । तत्रोंकारसमायुक्तो मायाभ्यां खेलनात् परः ॥८०॥ वामांगे श्रीर्धृता तेन दक्षिणांगे महासुर । ओंकारो गणनाथस्य बिंबेन ब्रह्मरूपिणा ॥८१॥ बिंबं सर्वत्र भावेषु तदाकारं बभूव ह । अतः शिवाद्यः सर्वे जाताः ओंकारसंयुताः ॥८२॥ जीवा ओंकारसंयुक्ताः पठ्यंते वेदवादिभिः । आदिमाये समाख्याते बिंवाधारे विचारय ॥८३॥ अतः ओंकारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज । सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥८४॥ इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् । गच्छतं शरणं दैत्य शांतिदं मुक्तिमुक्तिदम् ॥८५॥ भिन्नभावकरे माये ओंकारौ परिकीर्तितौ । ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिविचक्षण ॥८६॥ एतत्ते कथितं सर्वं रहस्यं सर्वसंमतम् । वेदगुह्यमहंकार गच्छ तं सर्वसिद्धये ॥८७॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहंकारासुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ॥
खं. ८ अ. ७ पान १६ ॥ श्रीगणेशाय नमः॥ शिव उवाच। शुक्रस्य वचनं श्रुत्वाऽहंकारस्तं प्रणम्य च। जगाद ज्ञानसंयुक्तः कृतांजलिः प्रताप- वान् ॥१॥ अहमुवाच। त्वयाऽहं बोधितो नाथाऽतो गच्छामि गजाननम्। सुरासुरमयं ब्रह्म सर्वशांतिप्रदायकम् ॥२॥ एवमुक्त्वा स शुक्रेण संयुक्तः परमार्थवित्। त्र्योंकाराभ्यां मनः कृष्य योगेशं शरणं ययौ ॥३॥ पुरप्रांते महापाशं दृष्ट्वा नम्य कृतांजलिः। तुष्टाव शस्त्रराजं स गणेशांकृतेर्धरः॥४॥ अहमुवाच। पाशाय शस्त्रराजाय नमस्ते बंधरूपिणे। मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥५॥ मोहो मायामयः प्रोक्तो बंधदः सर्वजंतवे। गणेशज्ञानयुक्तश्चेद् बंधहीनो नरो भवेत् ॥६॥ तदेव बंधरूंपाख्यं शस्त्रं तस्य महात्मनः। त्वमेव पाशरूपं वै बंधमोक्षकरं महत् ॥७॥ ये त्वां शरणमा- पन्नास्तेषां ते बंधजं भयम्। नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥८॥ नमस्ते तेजसां नाथ दुष्टनाशकराय ते। पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥९॥ एवं स्तुत्वा महापाशं प्रणनाम कृनांजलिः। अहंकारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥१०॥ इदं स्तोत्रं पठेद्यस्तु तस्य बंधो विनश्यति। मायापाशमयः साक्षाद्गणेशो स लभेदद्गतिम् ॥११॥ गतं पाशं विलोक्यैवाहंकारो गुरुणा युतः। धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥१२॥ पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः। पुनः प्रणम्य सर्वेशं तुष्टाव स कृतांजलिः ॥१३॥ अहमुवाच। धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने। अव्यक्तायादिबीजाय परेशाय नमो नमः ॥१४॥ लंबोदराय देवाय दैत्यनाथाय ते नमः। हेरंबाय महेशानां पालकाय नमो नमः ॥१५॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे। ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥१६॥ चराय चर- रूपाय जंगमस्थाय ते नमः। स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥१७॥ स्थावरजंगमाभ्यां च हीनाय ते नमो नमः। योगाय योगनाथाय योगिने योगदायिने ॥१८॥ योगेभ्यो योगदात्रे ते नमश्चिंतामणे नमः। शांताय शांतचित्तैस्तु प्राप्याय शांतमूर्तये ॥१९॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद। सिद्धिनाथाय बुद्धीश तयोर्योग्याय ते नमः ॥२०॥ मूषको- परि संस्थाय मूषकध्वजधारिणे। चतुर्भुजाय स्वानंदपतये ते नमो नमः ॥२१॥ किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरू- पिणम्। अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥२२॥ स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः। योगशांतिधरास्ते कथयितुं ध्रुवमक्षमाः ॥२३॥ अतस्त्वां धूम्रवर्णाख्यं वदंते वेदवादिनः। पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥२४॥ धन्योऽहं सकुलो नाथ त्वदंघ्रियुगदर्शनात्। एवमुक्त्वा ननर्त्ताऽसौ भक्तियुक्तो महासुरः ॥२५॥ निमग्नं तं भक्तिरसे दृष्ट्वा
खं. ८ अ. ७ पान १७ देवो गजाननः । जगाद तं महाभागं प्रेमयुक्तं प्रसस्वजे ॥२६॥ धूम्रवर्ण उवाच । वरान् वृणु महाभाग दास्यामि स्तोत्रतोषितः । अहंकार न संदेहो न भयं ते भविष्यति ॥२७॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । मम भक्तिप्रदं चैव भवि- ष्यति न संशयः ॥२८॥ शृणुयाद्यः पठेदेतत्तस्याहंकारजं भयम् । न भविष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥२९॥ यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः । मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥३०॥ एवं गणेशवाक्यं स श्रुत्वा तं ह्यब्रवीदहम् । प्रणिपत्य महात्मानं धूम्रवर्णं महासुरः ॥३१॥ अहमुवाच । यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन । तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥३२॥ गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् । गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥३३॥ स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् । तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥३४॥ नान्यं याचे कदा नाथ श्च्योंकारामोहमोहितम् । सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥३५॥ बोधितो गुरुणाऽत्यंतं तस्य वाक्यपरायणः । योगशांतिमयं रूपं भजिष्यामि महोदर ॥३६॥ धूम्रवर्ण उवाच । मयि भक्तिर्दृढा तेऽस्तु मयि दास्य- परायणः । गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥३७॥ यत्रादौ मे महादैत्य पूजनं नैव विद्यते । तत्र कर्मसु ते स्थानं भुंक्ष्व कर्मफलं महत् ॥३८॥ कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव । आसुरेण स्वभावेन भ्रंशयस्व निरंतरम् ॥३९॥ स्वपुरे गच्छ दैत्येंद्र मद्भक्तान् रक्ष सर्वदा । मदहंकृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥४०॥ यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु । तत्र साधुस्वभावेन वर्तस्व तदहंकृतिः ॥४१॥ गणेशभक्तिसंयुक्तो मदीयाहंकृतेर्धरः । भविष्यसि न संदेहो गच्छ गच्छ मदाज्ञया ॥४२॥ श्रीशिव उवाच । एवमुक्त्वा गणाधीशस्तमहं विरराम ह । प्रणम्य तमहंकारः ययौ स्वनगरं मुदा ॥४३॥ तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः । त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥४४॥ स एव सुखसंयुक्तोऽभजत्तं गणनायकम् । अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥४५॥ यथा जगाद विघ्नेशस्तथा चकार भावतः । अहंकारासुरश्चैव शांतरूपो बभूव ह ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते अहंकारशांतिरूपवर्णनं नाम सप्तमोऽध्यायः ॥
खं. ८ अ. ८ पान १८
॥ श्रीगणेशाय नमः ॥ शिव उवाच । शांतिरूपधरं पूर्णं गाणेशांहंकृतिस्थितम् । अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः ॥१॥ ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसंयुटाः ॥२॥ देवर्षय ऊचुः । अजायूथ सर्वादिपूज्याय नित्यं निरालंबनेति स्वरूपाय ढूंढे । सदाऽव्यक्तरूपाय सर्वांतगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥३॥ सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो मोहहंत्रे निजानाम् । महानंदत्रैविध्यभावैः परेश नमो धूम्रवर्णाय सर्वेश्वराय ॥४॥ नमः सिद्धिबुद्धिप्रदात्रे गणेश पुरे वासकारिन् स्वसंवैद्यनाम्नि । अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥५॥ सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन् । महाऽऽखुध्वजायऽथ हेरंबकाय नमो धूम्र- वर्णाय सर्वेश्वराय ॥६॥ गजाकारतुंडाय लंबोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन् । मदासक्तयोगींद्र भृंगात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥७॥ चतुर्बाहवे चैकदंताय तुभ्यं विचित्रैरनघैस्तु संभूषिताय । अलंकारकैर्देवदेवेश पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥८॥ त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नंदनाङ्गै । तदाकाररूपेण तत्स्थाय भूम्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥९॥ त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् । अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥१०॥ ततस्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् । तदाकाररूपेण तत्स्थाय ब्रह्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥११॥ असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म सांख्यात्मकं मूल- बीजम् । त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥१२॥ खतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय । तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥१३॥ ततस्तेन ते सत्तया सृष्टमाद्यं सदैकरूपं परं सोहमेवम् । तथा त्वं च तत्रैव संस्थः परात्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥१४॥ त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्विंदुरूपम् । सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥१५॥ ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् । चतुर्धा शरीरं विनिर्माय खेलिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥१६॥ नमो विश्व- रूपाय सर्वांकाराय ह्यनंताननाद्यैः सुचिह्नाय तुभ्यम् । चरैः स्थावरैर्भोगभोगिन्नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥१७॥ चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय । प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥१८॥
खं. ८ अ. ८ पान १९ नमो देवयक्षाय साध्याय तुभ्यं नरायाऽथ देवेंद्र देवात्मकाय । दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वे- श्वराय ॥१९॥ नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते । अनंतैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥२०॥ तथापि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन् । स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥२१॥ अतो वेदवादा विशेषेण धूम्रा भवंति ह्यहो वर्णितुं ते स्वरूपम् । बुधैः कथ्यसे धूम्र- वर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥२२॥ सुशांतिं गता वेदयोगींद्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे । वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥२३॥ श्रीशिव उवाच । एवं स्तुत्वा गणेशानं प्रणेमुरमर्षयः । तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥२४॥ धूम्रवर्ण उवाच । वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषतः । देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥२५॥ स्तोत्रं भवत् कृतं मे तु भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं विप्रा भविष्यति न संशयः॥२६॥ पुत्रपौत्रकलत्रादि सौख्यदं धनधान्यदम् । आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥२७॥ पठते शृण्वते देवा नानाभाव- प्रपूरकम् । धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥२८॥ मारणोच्चाटनादीनि ह्येकविंशतिपाठतः । एकविंशतिभिर्नित्यं दिवसैः प्रभवंति हि ॥२९॥ परकृत्यादिकं सर्वं नाशमेति न संशयः । अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥३०॥ यं यं चिंतयते कामं तं तं दास्यामि सर्वदा । स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥३१॥ श्रीशिव उवाच । देवर्षयो धूम्रवर्णवचः श्रुत्वा प्रणम्य तम् । प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः ॥३२॥ देवर्षय ऊचुः । धूम्रवर्ण त्वया नाथ कृतः शांतिधरः सदा । अहं तेन वयं सर्वे वरयुक्ताः कृताः किल ॥३३॥ अहंकारे प्रशांते तु स्वाधिकारे वसामहे । वर्णाश्रमयुता लोका भविष्यंति द्विजादयः ॥३४॥ वृणुमः किं गणाधीश देहि भक्तिं त्वदीयिकाम् । अहंकारभयघ्नीं वै तया तुष्टा वयं प्रभो ॥३५॥ तथेति तानुवाचासौ धूम्रवर्णो गणेश्वराः । अंतर्दधे भवन् देवा मुनयस्तं नतास्ततः ॥३६॥ स्थापयामासु- रानंदात् धूम्रवर्णं दिगंतगे । क्षेत्रे तत्र गणेशानं पूजयामासुरादरात् ॥३७॥ स्वे स्वे पदे च ते जग्मुस्ततो हर्षसमन्विताः । सुखिनः स्वस्वकार्येषु वर्तंते गणपे रताः ॥३८॥ एतद्वः कथितं चित्रं चरित्रं सर्वसिद्धिदम् । अहंकारभयघ्नं च पठतां शृण्वतां भवेत् ॥३९॥ एवं नानावतारान् स धूम्रवर्णः प्रतापवान् । धृत्वा चकार विश्वं तु निर्विघ्नं भक्तिभावितः ॥४०॥
शीर्षक / Header: खं. ८ अ. ९ पान २०
धूम्रवर्णावताराश्चानंतास्तेषां चरित्रकम् । कथितुं नैव शक्यं तत् कदा भवति केनचित् ॥४१॥ अतः संक्षेपतः प्रोक्तं मुख्यावतारचेष्टितम् । सनकाद्या गणेशानं भजध्वं भावसंयुताः ॥४२॥ तेनाहंकारनिर्मुक्ता भविष्यथ न संशयः । योगींद्र योगिवंद्याश्च शांतिदाः शांतचेतसे ॥४३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् । माहात्म्यं क्षेत्रमुख्यस्य वद संतोषदायकम् ॥१॥ श्रीशिव उवाच । ऐशान्ये हिमवत्प्रांते धूम्रवर्णस्य क्षेत्रकम् । विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥२॥ संक्षेपेण वदिष्यामि प्रणम्य गणनायकम् । माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेतसः ॥३॥ देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः । शुंडादंडमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥४॥ त्रिनेत्र एकदंतश्च परश्वादिसमन्वितः । अहंकारो गणेशानं भजते तत्र नित्यशः ॥५॥ वामे सिद्धिर्दक्षिणांगे बुद्धिः सर्वप्रियंकरी । पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥६॥ दशयोजन- विस्तारः क्षेत्रस्य गणपस्य च । चतुरस्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥७॥ पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यांः । शुकाद्यास्तं भजंते ते स्तुवंति स्म महर्षयः ॥८॥ पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः । आत्तशस्त्रा महाभागाः सेवंते धूम्रवर्णकम् ॥९॥ वामांगे तीर्थमुख्यानि प्रयागादीनि मानदाः । क्षेत्राणि काशीमुख्यानि भजंते धूम्रवर्णकम् ॥१०॥ दक्षिणांगेऽमरेशानाः शंभुविष्णुमुखाः सदा । सगणाः सपरीवारा भजंते गणनायकम् ॥११॥ शेषाद्या नागराजाश्च पर्वता हैममुख्याः । गंधर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥१२॥ आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः । वसंति तत्र क्षेत्रे ते भजंते द्विरदाननम् ॥१३॥ यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् । सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥१४॥ तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते । अपारत्वात्ततः संक्षेपतः प्रोक्तं मया परम् ॥१५॥ तत्र तीर्थं महासिद्धिदायकं वर्तते परम् । धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥१६॥ तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः । अंते मोक्षं न
खं. ८ अ. ९ पान २१ संदेहो यत्र कुत्र मृतोऽपि चेत् ॥१७॥ तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः । नित्यं स्नानं प्रकुर्वंति प्रहृष्टे- नांतरात्मना ॥१८॥ अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते । जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥१९॥ शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः । स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥२०॥ तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् । ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥२१॥ यात्रामान्रेण तत्रैव धर्मार्थकाममोक्षकम् । लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥२२॥ भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः । देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥२३॥ वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः । भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वंति मानवाः ॥२४॥ परस्परं प्रहृष्टास्ते बोधयंति गजाननम् । सरोमांचा भवंत्येव शंकराद्या महर्षयः ॥२५॥ गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः । तत्र गच्छंति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥२६॥ कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा । स्मरंति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥२७॥ अंते स्वानंदगाः सर्वे भवंते नात्र संशयः । शैवाद्याः क्रममार्गेण स्वानंदस्था भवंति तु ॥२८॥ क्षेत्रे मरणतो विप्राः स्वानंदो लभ्यते जनैः । यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥२९॥ धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया । कथितं विस्तरेणैवार्हति को नैव वर्णितुम् ॥३०॥ गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु । यावंति ब्रह्मगोलेऽस्मिंस्तावंति मुनिसत्तमाः ॥३१॥ धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च । चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥३२॥ पंचमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः । क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥३३॥ इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥३४॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम नवमोऽध्यायः ॥
🟌★🟌
यहाँ पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति (Line-by-Line) दिया गया है:
[पृष्ठ शीर्षक - दाएँ कोने में]: पान २२
॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । धूम्रवर्णावतारस्य भेदा नानाविधाः स्मृताः । वद तेषु विभो मुख्यांश्चरित्रसंयुतान् परान् ॥१॥ धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् । अहंकारहरं पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो ॥२॥ श्रीशिव उवाच । धूम्रवर्णावतारस्य भेदानां चरितं परम् । कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः ॥३॥ मुख्येषु मुख्यभूतानां चरित्रं लेशतः परम् । कथयामि शृणुध्वं यत् मनसा निश्चलेन तत् ॥४॥ सहजं यत्पदं प्रोक्तं नेतिरूपं मुनीश्वराः । तेन सृष्टं समाख्यं हि ब्रह्म त्वानंदवाचकम् ॥५॥ तेन सत्यानृते सृष्टे ताभ्यामुत्थानसंयुते । विप्रेक्षा ब्रह्मणी सृष्टे ते स्वतः परतोऽभिधे ॥६॥ तेन देहिमयं देहप्रचुरं ब्रह्म वै ततः । बिंदु तेनैव संसृष्टं चतुर्देहमयं परम् ॥७॥ स्थूलं सूक्ष्मं समं नादं तैः सृष्टं विश्वरूपकम् । नानाभेदमयं तस्माद्यष्टिरूपं मुनीश्वराः ॥८॥ एतानि ब्रह्मरूपाणि ह्युत्पन्नानि महर्षयः । ज्ञानहीनान्यक्षमाणि सर्वतः कार्यजातिषु ॥९॥ ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः । बीजरूपाणि सर्वेषां मंत्रं जप्त्वा निरंतरम् ॥१०॥ ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं तेभ्यो मंत्रमयं परम् ॥११॥ ततस्तत्कृपया तानि ददृशुः स्वहृदि स्थितम् । मंत्रमेकाक्षरं तेजोयुक्तं ज्ञानकरं परम् ॥१२॥ दृष्ट्वा मंत्रं प्रहृष्टानि ब्रह्माणि नेमुरादरात् । मंत्रं संगृह्य तं पूर्वं ध्यात्वा हृदि गजाननम् ॥१३॥ मंत्राकारं गणेशानं ध्यात्वा तेपुः पराणि तु । तोषयामासुरत्यंतं श्रमयुक्तानि विघ्नपम् ॥१४॥ दिव्यवर्ष- सहस्रेण प्रसन्नोऽभूद्गजाननः । दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥१५॥ नरकुंजररूपं तु दृष्ट्वा हृदि विसिस्मिरे । ब्रह्माणि तानि वै ढुंढिर्ददौ ज्ञानं सुनिर्मलम् ॥१६॥ तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः । सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् ॥१७॥ ततोऽनिर्हर्षयुक्तानि जातानि मुनिसत्तमाः । नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् ॥१८॥ ततो गणपतिः प्रीतो ययौ तानि सुभक्तितः । शिवरूपधरो भूत्वा पंचवक्त्रस्त्रिलोचनः ॥१९॥ मुंडमालाधरः शंभुर्व्याघ्रेभ- चर्मधारकः । विभूतिलेपः सर्वांगे शेषनागविभूषणः ॥२०॥ वृषभध्वजो वृषारूढश्चंद्रचूडस्त्रिशूलधृक् । अर्धांगे गिरिजायुक्तो योगींद्रो योगिवंदितः ॥२१॥ समागतं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः । विस्मितानि विशेषेण विचारं चक्रुरादरात् ॥२२॥ गणेशकृपया सद्यो ज्ञातं तैः सकलं महः । शिवस्य हृदि बोधेन परस्परमथाऽब्रुवन् ॥२३॥ स्वमहिम्नि स्थितं ब्रह्म सहजं गणपाकृति । वर्णा धूम्रायितास्तत्र तेन धूम्राक्षरः स्मृतः ॥२४॥ तस्य बिंबं विमोहेन पतितं मायया युतम् । जगत्सु ब्रह्मसु प्राज्ञं तदेवायं वृषध्वजः ॥२५॥ बिंबबिंबिप्रभावेण धूम्रवर्णोऽयमुच्यते । न भेदः शास्त्रवादेषु वरदः प्रभविष्यति ॥२६॥
ततस्तानि समुत्थाय ब्रह्माणि गणपं पुनः । प्रणम्य हृदि संस्थं तं शिवं नेमुर्विशेषतः ॥२७॥ संपूज्य विधिना शंभुं प्रहृष्टानि प्रणम्य च । तुष्टुवुर्ब्रह्मरूपाण्यानंदमुख्यानि मानदाः ॥२८॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिंबाय शंकरायैव शंभवे ते नमो नमः ॥२९॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥३०॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरंबाय नमो नमः ॥३१॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥३२॥ स्वाधीनाय नमस्तुभ्यं पंचवक्त्रधराय च । अनाथाय सनाथाय नाथाय नाथरूपिणे ॥३३॥ परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः । गिरीशाय गिरौ शायिंश्चिताभस्मांगधारिणे ॥३४॥ मुंडमालाधरायैव नमस्ते सर्पभूषण । नानाभेदप्रकारेण खेलकाय नमो नमः ॥३५॥ वामभागे ह्यसत्याय सत्याय दक्षिणांगके । तयोर्भेदयोगे चानंदाय ते नमो नमः ॥३६॥ समरूपा महामाया देहस्ते नात्र संशयः । तस्य आत्मस्वरूपस्त्व- मर्धनारीधृषे नमः ॥३७॥ एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् । सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥३८॥ धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा। कस्त्वां स्तोतुं समर्थः स्यात्प्रभोऽतस्ते नमामहे ॥३९॥ शिव उवाच । एवमुक्त्वा महेशानं ब्रह्माणि नेमुरादरात् । तान्युवाच प्रहर्षेण शंकरः करुणानिधिः ॥४०॥ आदिशंभुरुवाच । ब्रह्माणि यान् वरान् ब्रूत दास्यामि तपसा परम् । तुष्टः स्तोत्रेण भक्त्या मे संशयो न हृदीप्सितान् ॥४१॥ ब्रह्माण्यूचुः । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर ॥४२॥ स्वस्वकार्यं तु कृत्वा वै बंधदं बंधहारक । कुरुष्व बंधहीनानि सततं योगधारकः ॥४३॥ श्रीशिव उवाच । यद्यत् संप्रार्थितं मत्तो भविष्यति सुखप्रदम् । भवतां सत्यसंकल्पा दुर्लभं किं न संभवेत् ॥४४॥ अतुलं बंधहीनार्थं योगं शृणुत सौख्यदम् । तं साध्य बंधहीनानि भविष्यथ न संशयः ॥४५॥ सर्वेषां नेतिकर्तारं मां जानीत चतुर्थकम् । चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः ॥४६॥ तस्मात् स्वाधीनरूपं च पराधीनं त्रिधा मतम् । समुत्पन्नं कलांशेन तं जानीत गजाननम् ॥४७॥ स्वस्वरूपमयो ढुंढिर्मायायुक्तः प्रकीर्तितः । चतुर्णां चालकत्वात्तु संयोगाभेदतः प्रभुः ॥४८॥ अयोगः पंचभिर्हीनः सदा निवृत्तिवाचकः । न तत्र ब्रह्मणां योगो जगतां तस्य तेषु च ॥४९॥ संयोगायोगयोर्योगे गणेशो योगवाचकः । पूर्णशांतिप्रदः साक्षाद्ब्रह्मभूतो गजाननः ॥५०॥ गकारः स्वस्वरूपाख्यो णकारो योग उच्यते । स्वामी तयोर्गणेशानो नरकुंजररूपधृक् ॥५१॥ तं भजध्वं विशेषेण तदा शांतिमवाप्स्यथ । सततं बंधहीनानि भविष्यथ न चान्यथा ॥५२॥ यथा
खं. ८ अ. ११ पान २४ धूम्रायितो देशो दृश्यते नैव मानवैः । दृश्यमानस्तथाऽप्येवं धूम्ररोधनभावतः ॥५३॥ तथा चित्तमयी माया पंचधा विविधे रता । तया युक्ता न पश्यंति तं देवं वेदसाधनैः ॥५४॥ वेदा वर्णमयाः प्रोक्ता धूम्रा जाताश्च मायया । गणेशानं स्वशिष्येभ्यो धूम्रवर्णमतो जगुः ॥५५॥ पूर्णशांतिप्रदं योगं धूम्रवर्णात्मकं परम् । जानीत योगयुक्त्या वै भजध्वं तं गजाननम् ॥५६॥ कृत्वा स्वस्वभावस्थं कार्यं नानाविधं सदा । समर्प्य धूम्रवर्णाय बंधहीनानि सर्वदा ॥५७॥ एवमुक्त्वा महादेवस्तत्रै- वांतरधात्ततः । ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् ॥५८॥ यथोपदिष्टयोगेन गणेशं नित्यमादरात् । भजंते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः ॥५९॥ अयं शिवात्मकः प्रोक्तोऽवतारः परमाद्भुतः । धूम्रवर्णकलांशश्च सर्वसिद्धिप्रदायकः ॥६०॥ चरित्रं शृणुयाद्यश्चेदिदं पठेद्यदा नरः । भुक्त्वा भोगान् स्वयं चांते गच्छेत् स्वानंदकं पुरम् ॥६१॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते शिवात्मकावतारचरितं नाम दशमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शिव उवाच । एकदा संस्थितं विप्राः कैलासे गिरिजायुतम् । गणेशं भजमानं मां दृष्ट्वा नंदी समब्रवीत् ॥१॥ नंद्युवाच । शिव त्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः । सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः ॥२॥ योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः । त्वत्तः परतरं नास्ति भजसे कं गजाननम् ॥३॥ वेदे शिवसुतः प्रोक्तो गणेशो नात्र संशयः । तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ॥४॥ ईशस्ते नाम विख्यातं सर्वेशत्वात् सदाशिवः । तवेशो नैव वेदेषु त्वमेकः सर्वभावनः ॥५॥ किं मोहार्थं जनानां च पार्वत्या सह शंकर । भजसे गणनाथं त्वं शैवगुप्तत्वकारणात् ॥६॥ मा कुरुष्व वृथा स्वामिन् गणेशभजनं कदा । शैवानां मोहदं देव व्यभिचारपदप्रदम् ॥७॥ मुद्गल उवाच । नंदिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः । हर्षेणोत्फुल्लनेत्रश्च महापाशुपतं परम् ॥८॥ श्रीशिव उवाच । न जानासि गणेशानं नंदिस्त्वं मत्परायणः । तस्याऽहं गणरूपश्च पश्य वेदे विचक्षण ॥९॥ गणाः समूहरूपाश्चानंतास्तस्य महात्मनः । ईशानां वै समूहेऽहं गणो गणपतेः स्मृतः ॥१०॥ एक एव गणेशानः सर्वे तस्य गणाः स्मृताः । ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद ॥११॥ विद्या नानात्मिका
खं. ८ अ. ११ पान २५ प्रोक्ता तस्या नानाविधाः स्मृताः । समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः ॥१२॥ विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः । योगविद्यां मयाऽऽश्रित्य गणेशः प्रकटीकृतः ॥१३॥ समाधिजं परं ब्रह्म तदेव पुत्र उच्यते । अतः समाधिजो यो मे गणेशः पुत्रतां ययौ ॥१४॥ विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखाऽमराः । न ते विद्याधिपाः प्रोक्ता मच्छिष्या नात्र संशयः ॥१५॥ तैश्च योगबलेनैव गणेशः प्रकटीकृतः । समाधिजः सुतस्तेषां बभूवे योगिनां तथा ॥१६॥ आदौ मया कृतं ब्रह्म साक्षात्कारी गुरुं विना । विद्याबलेन तस्मात्तु मुख्योऽहं विश्वपो गुरुः ॥१७॥ अतः शिवसुतः प्रोक्तो वेदेषु गणनायकः । विष्ण्वादयो न मुख्याश्च गणेशपितरः स्मृताः ॥१८॥ अतोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवंदितम् । भजामि स्वामिनं दासो नैव मोहार्थमादरात् ॥१९॥ शिवस्य वचनं श्रुत्वा विस्मितो नंदिकेश्वरः । उवाच तं महादेवं सर्वज्ञं सर्ववंदितम् ॥२०॥ नंदिकेश उवाच । कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः । विभो तस्य वद ज्ञानं मंत्रं विधियुतं परम् ॥२१॥ श्रीशिव उवाच । चित्तं पंचविधं प्रोक्तं सा बुद्धिः परमा मता । नानाभ्रांतिकरी सिद्धिर्भेदैश्वर्यमयी हृदि ॥२२॥ तयोर्बिंबं गणेशस्य पतितं मायया युतम् । बिंबभावं परित्यज्य गणेशो जायते नरः ॥२३॥ सरसं चित्तमुत्सृज्य योगिवंद्यो भविष्यसि । एकाक्षरविधानेन भज तं योगसाधनैः ॥२४॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । सविधिं सोऽपि तं नत्वा तपार्थी च ययौ वनम् ॥२५॥ निराहारेण तपसाऽऽराधितो द्विरदाननः । नंदिना ध्यानयुक्तेन समाधिना विशेषतः ॥२६॥ गते वर्षशते पूर्णे योगींद्रः स बभूव च । वरदाता गणेशानस्तदाश्रमपदं ययौ ॥२७॥ आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्याऽऽदौ पूजयामास भक्तितः ॥२८॥ पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे । पार्वतीं वामभागे वै दधतं वीक्ष्य विस्मितः ॥२९॥ गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् । तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादरात् ॥३०॥ ततः स नंदिकेशानो विचारमकरोत् हृदि । बाह्यरूपधरश्चायं महादेवो न संशयः ॥३१॥ गिरिजायाः पतिः प्रोक्तः पंचवक्त्रादिचिह्नितः । त्रिनेत्रो नरदेहाख्यो भिन्नभावप्रदर्शकः ॥३२॥ आनंदात्मकरूपा सा पार्वती विष्णुरूपिणी । शिवदेवमयी प्रोक्ता तस्यामात्मा शिवः स्मृतः ॥३३॥ गजाकारः स्वयं शंभुरैक्यभोगपरायणः । अर्धांगप्रकृतिस्थत्वादुभौ नारीनरः शिवः ॥३४॥ नरकुंजरयो- र्योगे गणेशाकारतां गतः । शिवो ब्रह्ममयः साक्षाद्गिरिजया समन्वितः ॥३५॥ योगमायामयी रम्या गणेशांक- व्यवस्थिता । पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयम् ॥३६॥ स एव वरदानार्थं समाययौ न संशयः । शिवचित्तस्थित-
खं. ८ अ. ११ | पान २६
श्चायमियं शिवस्य मानसी ॥३७॥ ततः प्रणम्य हर्षेण प्रणनाम गजाननम् । पुनः पुनः सरोमांचस्तं तुष्टाव कृतांजलिः ॥३८॥ नंदिकेश उवाच । नमस्ते गणेशाय शांतिप्रदाय सदा शांतिरूपाय शांतेंर्धराय । नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥३९॥ हेरंबाय नमस्तुभ्यं सिद्धिवुद्धिविहारिणे । स्वानंदपाय चौरेश वाहनाय नमो नमः ॥४०॥ पार्वतीपतये तुभ्यं शिवचित्तगताय वै । लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥४१॥ संज्ञापते नमस्तुभ्यं भोनोर्हृदि स्थिताय च । आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥४२॥ सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक । गायत्रीपतये तुभ्यमोंकारचित्तवासिने ॥४३॥ शचीपते नमस्तुभ्यमिंद्रचित्तगमूर्तये । स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥४४॥ नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे । सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥४५॥ निर्गुणाय नमस्तुभ्यं कुंजराकारमूर्तये । सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥४६॥ नरकुंजररूपाय योगाकाराय ते नमः । योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥४७॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥४८॥ एवं स्तुत्वा गणेशानं ननर्ते प्रेमसंयुतः । नंदीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥४९॥ श्रीगणेश उवाच । वरान् वृणु महाभाग नंदिंस्ते मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥५०॥ त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति । भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥५१॥ सर्वसिद्धिकरं भावि पठतां शृण्वतां सदा । यं यमिच्छंति तं तं ते लभंतेऽनेन निश्चितम् ॥५२॥ नंदिकेश उवाच । यदि त्वं वरदो मेऽसि भक्तिं देहि त्वदीयिकाम् । गाणपत्यं कुरु स्वामिन् मां विघ्नेशपरायणम् ॥५३॥ क्षेत्रं भवतु ते नाथ यत्र तप्तं तपो मया । तथेति तं गणाधीशो जगादांतरधीयत ॥५४॥ ततः संस्थापयामास गणेशं ब्राह्मणैः सह । नंदिकेशो महाभक्त्या पूजनं प्रचकार ह ॥५५॥ पार्वतीगणपं नाम चक्रे तस्य महर्षयः । सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ॥५६॥ ततो नंदीश्वरो नत्वा समागत्य जगाद ह । वृत्तांतं सोऽपि तं श्रुत्वा तं शंसन् हर्षितोऽभवत् ॥५७॥ नंदीविघ्नेश्वरं नित्यमभजद्भक्तिसंयुतः । महायोगींद्रमुख्योऽसौ बभूव शिवसन्निभः ॥५८॥ इदमांबिकविघ्नेशचरितं कथितं मया । धूम्रवर्णात्मकश्चाऽयं गणेशः सर्वसिद्धिदः ॥५९॥ यः पठेच्छृणुयाद्वाऽपि चरितं गणपस्य च । इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॥
खं. ८ अ. १२ पान २७ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । त्रिपुरो नाम दैत्योऽभून्महाबलपराक्रमः । ब्रह्मणो वरदानेन जिग्ये सर्वं चराचरम् ॥१॥ कर्मलोपं चकाराऽसौ महाबलपराक्रमः । वर्णसंकरजं कर्म कारयामास मानवैः ॥२॥ तदोषोषणसंयुक्ता देवा मां शरणं ययुः । अहं क्रोधसमायुक्तो योद्धुं तेन गतोऽभवम् ॥३॥ मम तस्य महद्युद्धं बभूवे दारुणं परम् । देवानां दानवानां च तुमुलं रोमहर्षणम् ॥४॥ संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगतः । तानि निष्फलरूपाणि बभूवुश्च मह- र्षयः ॥५॥ अतो विस्मितचित्तोऽहमभवं खेदसंयुक्तः । सहसा दैत्यराजेनाग्निशस्त्रेण जितोऽभवम् ॥६॥ ततः कैलासमुत्सृज्य गतोऽहं गहनं वनम् । निःश्वस्य चिंतया युक्तोऽभवं चैव हतोद्यमः ॥७॥ विचारं मानसे विप्रा अकरवं हितावहम् । मम हस्तेन दैत्योऽयं मरिष्यति न संशयः ॥८॥ तत् कथं मोघरूपं मे कृतं हैवेन केन च । ईशोऽहमनीशो जातः पश्चात् सूर्योदयो यथा ॥९॥ तत्रैव सहसा देवमुनिर्नारद आययौ । मां प्रणम्य स्थितो भक्त्या पूजितः स मया तथा ॥१०॥ ततो मया- ऽतिखेदेन पृष्टोऽसौ नारदो मुनिः । त्रिपुरस्य वधार्थाय मां जगाद स बुद्धिमान् ॥११॥ नारद उवाच । शिव त्वं मोहसंयुक्तो- ऽहंकारेण धृतोऽसि वै । विघ्नराजमनर्च्याऽसौ सत्ताहीनोऽसि भो प्रभो ॥१२॥ विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजा- ननः । ईशत्वं तेऽधुना नष्टं ढुंढेरनर्चनात् प्रभो ॥१३॥ सत्तां स्वकीयदेहस्थां धृत्वा मोहपरायणाः । गणेशं ये न जानंति सत्ताहीना भवंति ते ॥१४॥ यस्य कटाक्षपातेन कृपया तृणमेककम् । सृजते पाति हंत्येव ब्रह्मांडं लोकसंकुलम् ॥१५॥ तस्य कृपाविहीनस्त्वमशक्तोऽसि सदाशिव । संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि ॥१६॥ अतस्तं शरणं गच्छ तेन सत्ता- समन्वितः । हनिष्यसि महादैत्यं त्रिपुरं त्रिविधे रतम् ॥१७॥ मुद्गल उवाच । एवमुक्त्वा महेशानं तं प्रणम्य महामुनिः । नारदो गणपं गायन् ययौ स्वेच्छापरायणः ॥१८॥ ततः शिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकम् । दंडकारण्यदेशे स वनग- स्तप आचरत् ॥१९॥ शतवर्षे गते ते स आययौ गणनायकः । मूषकोपरि संस्थो यो दशायुधधरः प्रभुः ॥२०॥ तं दृष्ट्वा सहसोत्थाय शंकरः प्रणनाम ह । पूज्य तुष्टाव हर्षेण गणेशं भक्तिसंयुतः ॥२१॥ श्रीशिव उवाच । गणेशाय परेशाय धूम्रवर्णाय ढुंढये । शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥२२॥ गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने । संहर्त्रे देवदेवाय हेरंबाय नमो नमः ॥२३॥ अनंतविभवायैवानंतमायाप्रचालक । अनंतोदरगायैव विघ्नेशाय नमो नमः ॥२४॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे । सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥२५॥ स्वानंदपतये तुभ्यं मूषकध्वजधारिणे ।
खं. ८ अ. १२ पान २८
सिद्धिबुद्धिपते नाथैक्षुसागरपते नमः ॥२६॥ मनोवाणीविहीनाय मनोवाणीमयाय ते । योगेशाय महाविष्णुसुताय ते नमो नमः ॥२७॥ शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः। दंडकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥२८॥ यत्र वेदादयो नाथ योगिनः शांतिमाययुः। तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥२९॥ नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे । मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥३०॥ हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् । धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥३१॥ भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक । कृतकृत्यो भविष्यामि शांतियोगपरायणः ॥३२॥ त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् । महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥३३॥ शिवस्य वचनं श्रुत्वा गुणेशस्त- मथाब्रवीत् । भक्तं देववरिष्ठं तु तपसा तोषितो भृशम् ॥३४॥ श्रीगणेश उवाच । त्वयोक्तं सफलं सर्वं भविष्यति सदाशिव । अन्यत् त्रिपुरनाशार्थं वदामि शृणु सांप्रतम् ॥३५॥ त्रिविधा परमा माया देहभोगपरायणा । आसुरी त्रिपुराख्या सा नाना- विषयलंपटा ॥३६॥ तस्या जयार्थमत्यंतं तुरीयं गणपाकृति । त्वयाऽऽश्रितं मदीयं च रूपं पुरुषवाचकम् ॥३७॥ पौरुषं बीज- रूपं मे गृहाण त्वं सदाशिव । मायां त्रिगुणरूपां तु मयि क्षिप विचक्षण ॥३८॥ एवमुक्त्वा गुणेशस्तं ददौ मंत्रं तु पौरुषम् । मायां गृह्य तदीयां स निर्मोहमकरोच्छिवम् ॥३९॥ तत्र सोऽन्तर्हितः सद्यो गुणेशो ब्रह्मनायकः । शिवो मंत्रप्रभावेण जघान त्रिपुरासुरम् ॥४०॥ सदा पौरुषभावेन संयुक्तः स बभूव ह । मायां जित्वा विशेषेण स्वाधीनां तां चकार ह ॥४१॥ शृणुयाद्यो गणेशस्य स्तोत्रं शिवकृतं पठेत् । निर्मोहः सर्वभावेषु भवेद्देवपरायणः ॥४२॥ पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः । भुक्त्वा भोगाननेकांश्चांते स्वानंदमवाप्नुयात् ॥४३॥ इदं गुणेशमाहात्म्यं कथितं लेशतो मया । पठनाच्छ्रवणात् नृभ्यः सर्वसिद्धिप्रदायकम् ॥४४॥ धूम्रवर्णात्मकश्चायमवतारः प्रकीर्तितः । पौरुषार्थप्रदः पूर्णो गणेशो भुक्तिमुक्तिदः ॥४५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः ॥
खं ८ अ. १३ पान २९ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । बलेः पुत्रोऽभवद्बाणो दैत्यः परमधार्मिकः । शिवभक्तः सदा साधुगुणयुक्तः प्रतापवान् ॥१॥ बाल्यात् प्रारभ्य शंभुं सोऽभजद्भावपरायणः । नान्यं देवं प्रजानाति स्वधर्मपालको बभौ ॥२॥ शुक्रः पंचाक्षरं मंत्रं ददौ तस्मै महात्मने । सविधिं शंकरस्यैवादिशेश तपसे मतिम् ॥३॥ सोऽतपत्तप उग्रं मां ध्यात्वा मद्भक्तिभावितः । प्रगतेषु च वर्षेषु सहस्रे तोषितोऽभवम् ॥४॥ मुद्गल उवाच । जगाम वरदो बाणं शंकरः करुणानिधिः । स तं तुष्टाव रौद्रैश्च स्तोत्रैः पूज्य यथाविधि ॥५॥ प्रसन्नो भगवान् प्राह वरान् वृणु महामते । दास्यामि तपसा तुष्टो भक्त्या चैवासुराधिप ॥६॥ बाणासुर उवाच । वरदोऽसि महादेव भक्तिं देहि त्वयि स्थिराम् । शैवं मां कुरु देवेश नान्यदेवपरायणम् ॥७॥ बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतम् । न मत्समः प्रसंग्रामे संभवेत् सचराचरे ॥८॥ तथेति तं महादेवो जगाद भक्तमुत्तमम् । ययौ स्वनगरं शंभुः पार्वत्या गणसंयुतः ॥९॥ ततो बाणासुरो दैत्यो जिग्ये वै विष्णुमुख्यकान् । सुरान् राज्यं चकाराऽसौ धर्म- निष्ठः स्वभावतः ॥१०॥ स्वर्गेषु देवपान् स्थाप्य पातालेषु महासुरान् । नागान् नरान् पृथिव्यां स राज्यं चकार धर्मतः ॥११॥ वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यपः । नित्यं कैलासगो भूत्वा पूजयच्छंकरं प्रभुम् ॥१२॥ तस्य धर्मप्रभावेण भक्त्या तुष्टः सदाशिवः । वासार्थमाययौ शंभुर्नगरे तस्य पार्षदैः ॥१३॥ ततः स शांभवे दैत्यो विचारमकरोत् हृदि । पंचायतन- रूपेण शंकरः प्रबभूव ह ॥१४॥ एकनिष्ठतया शंभुं भजिष्यामि विशेषतः । नान्यं जानामि देवेशं शंकरादपरं कदा ॥१५॥ पूजिते शंकरे सर्वं पूजितं सचराचरम् । मया वेदविवादेषु तथा संकथितं बुधैः ॥१६॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । अतोऽहमेकनिष्ठातो भजिष्यामि सदाशिवम् ॥१७॥ तत्राऽऽदौ गणराजश्च पूजनीयः प्रयत्नतः । कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ॥१८॥ ब्राह्मणैर्गाणपत्यैर्यैस्तैः कृतं त्विदमादरात् । द्वितीये पूजिते देवे एकनिष्ठा कथं भवेत् ॥१९॥ एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परम् । एकनिष्ठतया शंभुं पूजयन्नित्यमादरात् ॥२०॥ एवं वर्षे गते पूर्णे शंकरं पूज्य भक्तितः । शोणिते नगरे संस्थं स ननर्त पुरोऽसुरः ॥२१॥ ततः प्रसन्नतां यातः शिवः कल्याणदायकः । जगाद तं वरं ब्रूहि महापाशुपताऽसुर ॥२२॥ शिवस्य वचनं श्रुत्वा हर्षितो बलिनंदनः । जगाद तं महादेवं प्रणिपत्याति- भक्तितः ॥२३॥ बाणासुर उवाच । योद्धारं देहि देवेश सदृशं बलसंयुतम् । सहस्रभुजवीर्यस्य सहनेऽतिपराक्रमम् ॥२४॥ तच्छ्रुत्वा कुपितः शंभुर्ददौ शापं महात्मने । राज्यं भ्रष्टं भुजानां ते छेदश्चैव भविष्यति ॥२५॥ वासुदेवेन संग्रामं करिष्यस्य-
सुराधम। मत्तो वृणोषि किं दुष्ट भविष्यसि पराजितः ॥२६॥ तच्छ्रुत्वा शोकसंयुक्तो बाणस्तं प्रणनाम ह। पुनः स्वगृह- मागत्य काव्यं पूज्य जगाद सः ॥२७॥ शिवस्तं त्यज्य कैलासं ययौ क्रोधसमन्वितः । उन्मत्तं धारयामास मानसे चासुरेश्वरम् ॥२८॥ काव्यस्तं सांत्वयामास श्रुत्वा वृत्तांतमंजसा । बोधयामास दैत्येशं योगीशो द्विजसत्तमाः ॥२९॥ शुक्र उवाच । गणेशं त्यज्य दैत्येंद्र शंकरं भजसे परम् । वेदे विरुद्धं तत् कर्म करोषि त्वं न संशयः ॥३०॥ ज्येष्ठराज इति प्रोक्तं वेदैः पश्य महामते । सर्वपूज्यादिपूज्यत्वं प्रकाशकारकं शुभम् ॥३१॥ यथा संध्यादिकं कर्माविश्यं तद्वद् गजाननः । एकनिष्ठापरैः पूज्यः सर्वादौ ज्येष्ठभावतः ॥३२॥ त्यक्त्वा गणेश्वरं शंभुं भजसे नित्यमादरात् । कुपितो गणनाथस्तु बुद्धिभेदं चकार ह ॥३३॥ सिद्धिवुद्धिपतिः साक्षाद्गणेशो ब्रह्मनायकः । तं त्यक्त्वा शांभवीं सिद्धिं लभसे कथमप्यहो ॥३४॥ शिवस्य हृदये सोऽपि तव तिष्ठति सांप्रतम् । यदिच्छया शिवाद्याश्च वर्तंते त्वमपि ध्रुवम् ॥३५॥ अतस्त्वं शिवहीनश्च कृतस्तेन महात्मना । संशपः शांकरेणैव शैवः परमभाविकः ॥३६॥ गच्छ तं शरणं देवं गणेशं ब्रह्मनायकम् । तदा विघ्नविहीनस्त्वं भविष्यसि न संशयः ॥३७॥ गणाः समूहररूपाश्च समूहा ब्रह्मवाचकाः । बाह्यांतरैकभावेन समूहो जायते ह्यतः ॥३८॥ तथाऽयं गणराजस्य गण एकः शिवः स्मृतः । समूहोरूपश्च तपसां विचारय महामते ॥३९॥ अथवा शिवसंज्ञोऽयं सहजानां परा गतिः । गणरूपश्चेश्वराणां समूहे सहजः शिवः ॥४०॥ एवं विष्णवादयः सर्वे गणास्तस्य प्रकीर्तिताः । पश्य वेदोपनिषदि कथितं तत्त्वथर्वणि ॥४१॥ एवमुक्त्वा महादैत्यं काव्यः स्वगृहमाययौ । बाणः खेदसमायुक्तो विचार- मकरोत् हृदि ॥४२॥ ततस्तेन गणेशस्य महो ज्ञातं महाद्भुतम् । चतुर्थीं प्राप्य दैत्येशस्तं पुपूज गजाननम् ॥४३॥ ध्याननिष्ठो गणेशस्य जजाप मंत्रमुत्तमम् । गणानां त्वेति बाणः स क्षमापनं चकार ह ॥४४॥ अथर्वोपनिषद्भिस्तं तुष्टाव स कृतांजलिः । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥४५॥ उपवासकरं बाणमाययौ द्विरदाननः । वरदो ह्येकवर्षेण मूषकोपरि संस्थितः ॥४६॥ आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः । उत्थाय तं प्रणम्यादौ पुपूज भक्तिलोलुपः ॥४७॥ पुनः प्रणम्य विघ्नेशं तुष्टाव स कृतांजलिः । बाणः परमधर्मात्मा भक्तिनम्रात्मकंधरम् ॥४८॥ बाणासुर उवाच । विघ्नेशाय परेशाय भक्तविघ्नविदारिणे। अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥४९॥ विनायकाय देवेश दैत्येशनायकाय ते । निरंकुशाय सातत्यं गणेशाय नमो नमः ॥५०॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः । सर्वपूज्यादिपूज्याय परेशेशा नमो नमः ॥५१॥ लंबोदराय
खं. ८ अ. १३ पान ३१ सर्वाय मात्रे पित्रे तदात्मने । आदिमध्यांतहीनाय हेरंबाय नमो नमः ॥५२॥ शूर्पकर्णाय शूराय मोहांधकविदारिणे । ब्रह्मेशाय सुशांताय शांतिदात्रे नमो नमः ॥५३॥ एकदंताय देवाय स्वानंदे वासकारिणे । अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥५४॥ मायामायिकरूपाय मायामायिकवर्जित । अनाथानां प्रणार्थाय नाथनाथाय ते नमः ॥५५॥ सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण । योगींद्राणां सुयोगाय कुलदेवाय ते नमः ॥५६॥ त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे । सिद्ध्या संमोहितं नाथ सिद्धिदात्रे नमो नमः ॥५७॥ शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् । अहंकारेण युक्ताश्चेंद्रष्टाः स्वस्वाधिकारात ॥५८॥ मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया। मां शप्त्वा त्यज्य सः शंभुर्गतः क्रोधपरायणः ॥५९॥ अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् । अपराधान् महोग्रान् मे क्षांत्वा पाहि निरंतरम् ॥६०॥ एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च । बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥६१॥ तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् । स्वमाया- मोहितं दीनं स्वस्यैव शरणार्थिनम् ॥६२॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् । भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥६३॥ अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै। भुक्तिं मुक्तिं सदा सौख्यं शृण्वते मनसीप्सितम् ॥६४॥ त्वया त्यक्तोऽहमत्यंतक्रोधयुक्तश्च नित्यदा । शिवहीनं प्रकृतवांस्ते नारकं त्वां करोमि वै ॥६५॥ किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् । शरणागतमेवं मे मत्पादप्रवणं परम् ॥६६॥ शिवशापो न मिथ्या ते भविष्यति कदाचन । तथापि शृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥६७॥ वासुदेवं समायुध्य भुजच्छेदो भविष्यति । भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥६८॥ एवमुक्त्वा महादैत्यं गणेशो विरराम ह । तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥६९॥ बाण उवाच । तव विस्मरणं नाथ न भवेन् मे तथा कुरु । त्वया युक्तं शिवं नित्यं भजिष्यामि सुभक्तितः ॥७०॥ गाणेशं ज्ञानमाद्यं मे देहि विघ्नेश शाश्वतम् । नान्यदिच्छामि सर्वेश त्वत्पादप्रवणोऽधुना ॥७१॥ श्रीगणेश उवाच । गाणेशज्ञानसंयुक्तो भविष्यसि महासुर । अनेन जडदेहेन गणः शैवो भविष्यसि ॥७२॥ महाकालेति नाम्ना त्वं विख्यातः सर्वमंडले । नष्टे शिवपदे दैत्य स्वानंदे आगमिष्यसि ॥७३॥ एवमुक्त्वा गणाधीशोऽंतर्दधे मुनिसत्तमाः । बाणो हर्षसमायुक्तो गणेशमभजत्ततः ॥७४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॥
[शीर्षक: खं. ८ अ. १४ | पान ३२]
॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । कृपया वरदानेन गणेशभजनेन च । बुद्धिभेदः शिवस्यापि बभूव सर्वसंयुतः ॥१॥ ततो गिरिसुतायुक्तः शंकरः स्कंदमुख्यकैः । गणैः समाययौ सद्यो बाणस्य नगरं पुनः ॥२॥ तमागतं समाज्ञाय बाणो हर्ष- समन्वितः । ध्यात्वा गजाननं देवं ययौ शंकरसंनिधिम् ॥३॥ प्रणनाम स साष्टांगं शिवं गणसमन्वितम् । रुरोद पूजयित्वा तं क्षमस्वेति जगाद सः ॥४॥ ततस्तं शंकरो भक्तं समुत्थाप्य प्रसस्वजे । जगाद मधुरं वाक्यं हर्षयन् दानवाधिपम् ॥५॥ श्रीशिव उवाच । मा कुरुष्व वृथा चिंतां संतुष्टोऽहं समागतः । वरान् वृणु महाभाग दास्यामि बलिनंदन ॥६॥ बाणासुर उवाच । तव भक्तिं स्थिरां देहि वियोगस्ते न मे क्वचित् । भवेत्तथा महादेव कुरुष्व शिव सर्वदा ॥७॥ तथेत्युवाच शंभुस्तं तस्थौ तन्नगरे सदा । ततस्तस्मात् सुता जज्ञे सर्वलक्षणसंयुता ॥८॥ उषानाम्नीं महाभागामुपयेमेऽनिरुद्धकः । तां स्वप्ने सा शुशोचैव तदर्थं काम- पीडिता ॥९॥ चित्रलेखा तमानीय ददौ तस्यै पतिं स्वकम् । मायया यादवान् संमोह्य मुमोद ततः परम् ॥१०॥ एकस्तंभ- स्थितां तां स उपयेमेऽनिरुद्धकः । तया संमोहितोऽत्यंतं रेमे हर्षसमन्वितः ॥११॥ यादवाः संहृतं रात्रौ दृष्ट्वा कामसुतं दृढम् । शुशुचुः परमोद्विग्ना न लेभुस्तद्गतिं च ते ॥१२॥ प्रद्युम्नेन गणाधीशः प्रार्थितस्तपसा परः । तस्य प्रसादयोगेन नारदस्तत्र चाययौ ॥१३॥ तेन संकथितं सर्वं चेष्टितं कामपुत्रजम् । श्रुत्वा संहर्षिताः सर्वे यादवाः प्रबभूविरे ॥१४॥ तत ईश्वरसंयुक्तं बाणं जेतुं मनो दधे । कृष्णो रामेण संयुक्तो यादवैः परमद्युतिः ॥१५॥ शंकरस्य भयेनैव भीतं तं प्रत्युवाच ह । उद्धवः कुरु कृष्ण त्वं गणेशाराधनं परम् ॥१६॥ तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः । शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति ॥१७॥ तत एकाक्षरस्यैव पुरश्चरणमाकरोत् । कृष्णो गणपतिं ध्यात्वा यथाशास्त्रं विधानतः ॥१८॥ यादवैः प्रययौ तत्र यत्र बाणः स्थितोऽभवत् । शंखं दध्मौ ततः सोऽपि स शिवो योद्धुमाययौ ॥१९॥ ततः शिवो ददौ तस्मै कवचं गणपस्य च । सामवेदभवं शुद्धं बाणाय खेदसंयुक्तः ॥२०॥ शिवशप्तासुरेणात्र हस्तच्छेदस्य कारणात् । कृष्णः संयुयुधे तेन दैत्येंद्रेण महाबलः ॥२१॥ खिन्नं बाणं समालोक्य शंकरो योद्धुमाययौ । कृष्णेन तं समालोक्य कृष्णः सस्मार विघ्नपम् ॥२२॥ महायुद्धं तयोरासीत् त्रिलोकीनाशसंनिभम् । शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ॥२३॥ ततो जृंभास्त्रवेगेन मोहयित्वा सदाशिवम् । कृष्णश्चक्रं मुमोचैव बाणस्य भुजसंछिदे ॥२४॥ चक्रेण क्षुरधारेण भुजाश्छिन्नाः समंततः । अवशिष्टौ भुजौ द्वौ च चक्रं संकुठितं ततः ॥२५॥ ततः खेदसमायुक्तः कृष्णः सस्मार विघ्नपम् । स्वयमाकाश-
खं. ८ अ. १४ पान ३३ वाणीं स शुश्राव गणपेरिताम् ॥२६॥ गणेशकवचेनैव रक्षितं शांकरेण च । बाणं हंतुं रणे कृष्ण न क्षमस्त्वं भविष्यसि ॥२७॥ शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः । जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ ॥२८॥ ततो हर्षेण संयुक्तः कृष्णश्चक्रं निवर्त्य च । संस्थितः संयुगे सद्यो जृंभास्त्रैर्वर्जितोऽभवम् ॥२९॥ ततो मयाऽतिबोधेन ज्ञातं विघ्नेशचेष्टितम् । कृष्णो ननाम मां तत्र खखजेऽहं जनार्दनम् ॥३०॥ यथाविधि विवाहं स चकार दैत्यनायकः । अनिरुद्धाय पुत्रीं स्वां ददौ प्रेमपरिप्लुतः ॥३१॥ ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः । बाणो राज्यं परित्यज्य महाकालो बभूव ह ॥३२॥ कैलासे प्रातरुत्थाय पूपूज द्विरदाननम् । शमीमंदारदूर्वादिरक्तपुष्पैर्विशेषतः ॥३३॥ संपूज्यादौ गणपतिं पश्चाच्छंभुं महागणः । सदा ध्यानपरो भूत्वा तोषयामास तौ परौ ॥३४॥ शौनक उवाच । सूत विघ्नेश्वरस्यैव प्रियोऽत्यंतं बभूव ह । रक्तवर्णः कथं तेन तुष्टो भवति सर्वपः ॥३५॥ रक्तवर्णः स्वयं साक्षाद्गणेशो ब्रह्मणो पतिः । रक्तवस्त्रधरो रक्तचंदनेन विराजितः ॥३६॥ रक्तपुष्पधरः पूर्णः सिंधुरांगविलेपनः । रक्तसागरखेली स वद कारणमुत्तमम् ॥३७॥ सर्ववर्णमयश्चायं कथमेकं समाश्रितः । तन्नः संशयदं साधो नुद सर्वज्ञसत्तम ॥३८॥ सूत उवाच । वर्णाः पंच समुद्भूताः सृष्ट्यादौ श्वेतशामलौ । रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा ॥३९॥ परस्परविभेदेन तथा संमीलनेन च । अनंता वर्णकाः प्रोक्ता जानीहि द्विजसत्तम ॥४०॥ तैस्तपो गणनाधस्य कृतं घोरं तु पंचभिः । वर्षकेषु शते तान् स आययौ गणनायकः ॥४१॥ तं दृष्ट्वा प्रणताः सर्वे वर्णाः संतुष्टुवुः परम् । वरान् वब्रुः तथा विप्र स्वस्वशोभासमन्वितान् ॥४२॥ अन्ये गणेश्वरं ते तु जगुस्तं ब्रह्मनायकम् । अस्मदीयस्वरूपस्थो भव स्वामिन्नमोऽस्तु ते ॥४३॥ वयं तेन गणाध्यक्ष कृतकृत्या भवामहे । मायाबंधनहीनास्त्वां भजामह निरंतरम् ॥४४॥ तथेति तानुवाचैव गणेशोऽतर्दधे ततः । वर्णा हर्षयुताः सर्वे स्वस्वकार्यरताः पुरा ॥४५॥ वर्णैः संशोभितं सर्वं नानाभेदैः समंततः । चराचरं विशेषेण वर्णयुक्तं बभूव ह ॥४६॥ काश्यपो गणनाधस्तु नीलवर्णाकृतिं धरः । मयूरेशस्तथा श्वेतवर्णयुक्तो बभूव ह ॥४७॥ वरेण्यस्य सुतो रक्तवर्णयुक्तो गजाननः । धूम्रवर्णस्तथा श्यामवर्णरूपधरो बभौ ॥४८॥ हरिद्रागणपः पीतवर्णाकृतिपरोऽभवत् । नानावताररूपैः स नानावर्णधरोऽभवत् ॥४९॥ एवं वरप्रदानेन वर्णाः सर्वे महामुने । गणेशाराधने सक्ताः स्वस्वकार्यपरायणाः ॥५०॥ ततो रक्तेन वर्णेन पुनस्तप्तं तपो महत् । निराहारेण विप्रेश ध्यात्वा हृदि गजाननम् ॥५१॥ सहस्त्रवर्षे च गते गणपस्तं समाययौ । वरान् दातुं महाभागं स ननाम गणाधिपम् ॥५२॥