भारतकोश
संग्रह पर लौटें

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ
द्वितीयोऽङ्कः१०५

इत्यनेन विग्रहवाक्ये नपुंसकत्वम् । ‘विस्मृता भक्तिः’ इति विग्रहे तु ‘विस्मृत-भक्तिना’ इति प्रयोगः स्यात् । इसका तात्पर्य यह है कि मैंने मलयकेतु का आश्रय लिया है, यह सही है किन्तु नन्द में मेरी दृढ भक्ति है। विषयव्यासङ्गमूढात्मना न—विषय-भोग की आसक्ति से मोहित आत्मा वाला होकर नही। स्वामि-भक्त होते हुए भी राक्षस ने विषयासक्ति के कारण मलयकेतु का आश्रय लिया है—ऐसी धारणा कोई न बना ले, एतदर्थ यह कहा गया है । प्राणप्रच्युतिभीरुणा न—प्राणों के विनाश से डरने वाला होकर नहीं । यदि तुम स्वामिभक्त हो और अनासक्त भी हो तो स्वामी के मर जाने पर तुम्हे उसका अनुसरण करना चाहिए न कि प्राणनाश से डरना चाहिए—इस आक्षेप का निवारण करने के लिए ऐसा कहा है । आत्मप्रतिष्ठाथिना न—अपनी प्रतिष्ठा की चाह करने वाला होकर नही । यदि ऐसी बात है तो तुम नीति से चाणक्य को जीतकर संसार में अपना यश फैलाने की कामना से मलयकेतु की सेवा कर रहे हो—इस भ्रान्त धारणा की निवृत्ति के लिए यह कहना पड़ा है । प्रतिष्ठा = गौरव । ‘प्रतिष्ठा गौरवे स्थितौ’ इति हैमः । प्रतितिष्ठति अनया इति प्रति √स्था + अङ् करणे । शात्रववधेन—शत्रु के नाश से । शत्रुः एव शात्रवः शत्रु + अण् स्वार्थे प्रज्ञादित्वात् । तस्य वधः, तेन । तब दूसरे का आश्रय लेने का तुम्हारा क्या प्रयोजन—इस प्रश्न का उत्तर इससे दिया है । स्यात्—अत्र शक्ति लिङ् । इस श्लोक में परिसंख्या अलंकार है । इसमें प्रसाद गुण है, पाञ्चाली रीति है और शार्दूलविक्रीडित छन्द है ॥५॥

[ आकाशमवलोकयन् सास्रम् ] भगवति कमलालये ! भृशमगुणज्ञासि । कुतः—

आनन्दहेतुमपि देवपमास्य नन्दं सक्तासि किं कथय वैरिणि मौर्यपुत्रे । दानाम्बुराजिरिव गन्धगजस्य नाशे तत्रैव किं न चपले प्रलयं गतासि ॥ ६ ॥

अन्वयः—चपले ! कथय आनन्दहेतुमपि देवं नन्दम् अपास्य वैरिणि मौर्यपुत्रे किं सक्तासि, गन्धगजस्य नाशे दानाम्बुराजिरिव तत्रैव किं न प्रलयं गतासि ॥ ६ ॥

व्याख्याचपले—हे चञ्चले ! कथय—ब्रूहि, आनन्दहेतुमपि—सुखकारणमपि, देवं—महाराजं, नन्दम्, अपास्य—त्यक्त्वा, वैरिणि—शत्रौ, मौर्यपुत्रे

१०६ | मुद्राराक्षसम्


मुरागर्भसम्भवे चन्द्रगुप्ते, किं रक्तासि—अनुरक्तासि ? गन्धगजस्य—गन्धालपहस्तिनः, नाशे—मरणे सति, दानाम्बुराजिः—दानाम्बुनः मदजलस्य राजिः रेखा, इव—तद्वत्, तत्रैव—नन्दे एव, किं—कथं, न—नहि, प्रलयम्—तिरोधानं, गतासि—प्राप्तासि ? ॥ ६ ॥

हिन्दी अनुवाद— [ आकाश की ओर देखता हुआ आँसुओं के साथ ] हे ऐश्वर्यशालिनी लक्ष्मी ! तुम गुणों को बिलकुल नहीं पहचानती हो । क्योकि—

अपने १ बताओ कि आनन्द के कारण ( होते हुए ) भी महाराज नन्द को छोड़कर शत्रु चन्द्रगुप्त में तुम कैसे आसक्त हो गईं । गन्धगज के मर जाने पर ( उसके ) मदजल की धारा के समान वहाँ ( नन्द में ) विलीन क्यों नहीं हो गई ?

टिप्पणी— साश्रम्— अस्रेण = नेत्रजलेन सह वर्तमानम् इति साश्रम् । यह क्रियाविशेषण है । भगवति— भगम् = ऐश्वर्यं विद्यते अस्या इति भग + मतुप् वत्व + ङीप् = भगवती । तत्सम्बोधने हे भगवति इति । कमलालये— कमलानि आलयः निवासस्थानम् अस्या इति कमला turn कमलालया = लक्ष्मी । तत्सम्बोधने हे कमलालये इति । अगुणज्ञा— गुणों को न जानने वाली । गुणान् जानाति इति गुण √ज्ञा + क कर्तरि = गुणज्ञा । न गुणज्ञा अगुणज्ञा नञ्त० । आनन्दहेतुम्— आनन्दस्य हेतुः षष्ठीतत्०, तम् । मौर्यपुत्रे— शूद्रा के पुत्र अर्थात् चन्द्रगुप्त । मुरायाः अपत्यम् इति मौर्यः मुरा + ण्य अपत्ये । स चासौ पुत्रश्च कर्मधारय स०, तस्मिन् । गन्धगज— श्रेष्ठ महाबली हाथी, जिसके कुंभ में मद भरता हो । इसका लक्षण यह है—

'यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपिः ।
स वै गन्धगजो नाम नृपतेर्विजयावहः ॥'

गन्धप्रधानो गजः गन्धगजः मध्यमपदलोपी स० । दानाम्बुराजिरिव— मदजल की रेखा या धारा की तरह । यहाँ तात्पर्य यह है कि जैसे गन्धगज के मर जाने पर उसके साथ उसकी मदधारा मर जाया करती है वैसे ही महाराज नन्द के साथ तुम्हें भी मर मिटना चाहिए था न कि दुष्कुलीन पुरुष की आश्रिता होकर रहना चाहिए था । इस पद्य में उपमा अलंकार परिकर अलंकार से संसृष्ट है । इसमें वैदर्भी रीति है, प्रसाद गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥ ६ ॥

द्वितीयोऽङ्कः १०७

अपि च अनभिजाते !

पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः पतिं पापे मौर्य यदसि कुलहीनं वृतवती । प्रकृत्या वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥

अन्वयः—पापे ! पृथिव्या प्रथितकुलजाः भूमिपतयः दग्धाः किं ( यत् त्व ) कुलहीनं मौर्य पतिं वृतवती असि । वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा प्रकृत्या पुरुषगुणविज्ञानविमुखी ( भवति ) ॥ ७ ॥

व्याख्या—पापे—पापाचारे !, पृथिव्यां—धराया, प्रथितकुलजाः प्रथितानि विख्यातानि कुलानि वंशाः तेषु जाताः, भूमिपतयः—राजानः, दग्धाः—भस्मसाद्भूताः, किं ( यत् त्वं ), कुलहीनं—कुलशून्यं, मौर्य—वृषल, पति—स्वामिन, वृतवती असि—आवृतोः । वा—अथवा, काशप्रभवकुसुमप्रान्तचपला—काशप्रभवं काशतृणाजात यत् कुसुमं पुष्पं तस्य प्रान्तः अग्रभागः इव चपला चञ्चलाः, पुरन्ध्रीणां—रमणीना, प्रज्ञा—मतिः, प्रकृत्या—स्वभावतः, पुरुषगुणविज्ञानविमुखी—पुरुषाणाम् आश्रयभूताना जनानां ये गुणाः सत्कुलत्वादयः तेषा विज्ञाने परिग्रहे विमुखी पराङ्मुखी ( भवति ) ॥ ७ ॥

हिन्दी अनुवाद—और भी अकुलीने !

पापिनि ! पृथिवी पर विख्यात वंश मे उत्पन्न राजा लोग जल मरे जो तूने अकुलीन चन्द्रगुप्त को पति चुन लिया । अथवा काशपुष्प के सिरे के समान चंचल, रमणियों की बुद्धि स्वभावतः पुरुषो के गुणों के विवेचन से विमुख रहती है ॥७॥

टिप्पणीअनभिजाते—अभिजाता = कुलीना, तद्भिन्ना अनभिजाता, तत्सम्बोधने अनभिजाते इति। यहाँ शोक के कारण गाली देने के रूप मे राक्षस ने लक्ष्मी को अकुलीना कहा है, वैसे तो क्षीर-सागर से उत्पन्न होने के कारण लक्ष्मी कुलीना ही है । कुलहीनम्—चन्द्रगुप्त नन्द का मुरा दासी से उत्पन्न जारज पुत्र था । इस लिए उसे कुलहीन कहा गया है । काशप्रभव—काशतृण से उत्पन्न । प्रभवति अस्मात् इति प्र√भू+अप् अपादाने = प्रभवः । काशः प्रभवः अस्य इति काशप्रभवम् बहुव्रीहि स० । पुरन्ध्रीणाम्—स्त्रियों की । पुरं धारयति इति पुर√धृ+णिच्+खच् कर्तरि+डीप् स्त्रियाम् पृषोदरादित्वात् साधुः । पुरुषगुणविज्ञानविमुखी—पुरुषों के गुणों को पहचानने में विमुख । विवृत्तं मुखम् अस्याः , इति विमुखी प्रादिबहुव्रीहि स० । इस पद्य में अर्थान्तरन्यास अलंकार है । इसमे

१०८ | मुद्राराक्षसम्

वैदर्भी रीति है, प्रसाद गुण है और शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥७॥

अपि च, अविनीते ! तदहमाश्रयोन्मूलनेनैव त्वामकामा करोमि। [ विचिन्त्य ] मया तावत्सुहृत्तमस्य चन्दनदासस्य गृहे गृहजनं निक्षिप्य नगराद्निर्गच्छता न्याय्यमनुष्ठितम्। कुतः ? कुसुमपुराभियोगं प्रति अनुदासीनो राक्षस इति तत्रत्यानामस्माभिः सहैककार्याणां देवपादोपजीविनां नोद्यमः शिथिलीभविष्यति। चन्द्रगुप्तशरीरमभिद्रोग्धुमस्मत्प्रयुक्तानां तीक्ष्णरसदायिनामुपसंग्रहार्थं परकृत्योपजापार्थञ्च महता कोशसञ्चयेन स्थापितः शकटदासः। प्रतिक्षणमरातिवृत्तान्तोपलब्धये तत्संहतिभेदनाय च व्यापारिताः सुहृदो जीवसिद्धिप्रभृतयः।

व्याख्याअपि च—अयञ्च, अविनीते—विनय-शून्य !, तत्—तस्मात् कारणात्, अहम्, आश्रयोन्मूलनेनैव—आश्रयस्य त्वदवलम्बनस्य उन्मूलननेव विनाशेनेव, त्वाम्—भवतीम्, अकामा—विफलमनोरथा, करोमि—विदधामि। विचिन्त्य—विचार्य, सुहृत्तमस्य—बन्धुप्रवरस्य, चन्दनदासस्य, गृहे—गेहे, गृहजन—कलत्रं, निक्षिप्य—न्यासीकृत्य, नगरात्—पुरात्, निर्गच्छता—निःसरता, मया, न्याय्य—ममुचितम्, अनुष्ठितम्—विहितम्। कुसुमपुराभियोगं प्रति—कुसुमपुरस्य पाटलिपुत्रस्य अभियोगं आक्रमणं तं प्रति, राक्षस—नन्दामात्यः, अनुदासीन—न निष्कामः, इति (ज्ञात्वा), तत्रत्यानाम्—कुसुमपुरे स्थितानाम्, अस्माभिः सहैककार्याणाम्—तुल्यप्रयोजनानाम्, देवपादोपजीविना—देवपादानाम् राज्ञो नन्दस्य ये उपजीविनः सेवकाः तेषाम्, उद्यमः—प्रयत्नः, न शिथिलीभविष्यति—नमन्दीभविष्यति। चन्द्रगुप्तशरीरम्—चन्द्रगुप्तस्य नृपतेः शरीरं देहम्, अभिद्रोग्धु—हन्तुम्, अस्मत्प्रयुक्तानाम्—अस्माभिः प्रयुक्तानां व्यापारितानां, तीक्ष्णरसदायिना—विषदायिनाम्, उपसंग्रहार्थ—सम्यग्ग्रहणार्थं, परकृत्योपजापार्थं च—परस्य शत्रोः कृत्यानां कार्याणाम् उपजापार्थं च भेदार्थमपि, महता—विपुलेन, कोशसञ्चयेन—धनराशिना, शकटदासः, स्थापित—नियोजितः। प्रतिक्षणम्—सततम् अरातिवृत्तान्तोपलब्धये—अरातेः शत्रोः वृत्तान्तस्य उदन्तस्य उपलब्धये प्राप्तये, तत्संहतिभेदनाय च—तेषां शत्रूणां संहतेः संघातस्य भेदनाय भङ्गाय च, जीवसिद्धिप्रभृतयः—जीवसिद्धिप्रमुखाः, सुहृदः—मित्राणि, व्यापारिताः—नियोजिताः।

हिंदी अनुवाद—और भी दुष्टे !, इसलिए मैं आधार को ही नष्ट करके तुम्हारे मनोरथ को चकनाचूर कर देता हूँ। [ सोचकर ] नगर से निकलते

द्वितीयोऽङ्कः १०६

समय मैंने मित्रवर चन्दनदास के घर मे ( अपने ) परिवार को रखकर उचित ( कार्य ) किया है । क्योकि, राक्षस पाटलिपुत्र पर आक्रमण करने में उदासीन नहीं है—ऐसा सोचकर हमारे साथ एक ही काम करने वाले, महाराज नन्द के सेवक प्रयत्न मे ढीले नही पडेंगे । चन्द्रगुप्त के शरीर को नष्ट करने के लिए हमारे भेजे हुए विष देने वालो को इकट्ठा करने और शत्रु के कार्यों का भेदन करने के लिए महान् धन-राशि के साथ शकटदास को नियुक्त कर दिया है । और क्षण-क्षण मे शत्रुओ के समाचार पाने तथा उनके गुट को तोड़ने के लिए जीवसिद्धि आदि मित्र तत्पर कर दिये गये है ।

टिप्पणी—आश्रयोन्मूलनेन—अवलम्ब को समूल नष्ट करने के द्वारा । आश्रीयते इति आ√श्रि+अच् कर्मणि = आश्रयः, तस्य उन्मूलनम्, तेन । करणे तृतीया । अकामाम्—निष्फल मनोरथ वाली । अनाप्तः कामः अनया अथवा असिद्धः कामः अस्या. इति अकामा बहुव्रीहि स०, ताम् । सुहृत्तमस्य—शोभन हृदयम् अस्य इति सुहृत् बहुव्रीहि स०, हृदयस्य हृदादेशः । अतिशयेन सुहृत् इति सुहृत्तमः सुहृद् + तमप् , तस्य । अनुदासीन.—उदासीन या निश्चेष्ट नही । उत्√आस् + शानच् , ‘ईदासः’ इत्यनेन ईत्वम् = उदासीनः । न उदासीनः अनुदासीनः नञ्तत्० । देवपादोपजीविनाम्—महाराज के अनुयायी । पूज्यो देवः देवपादाः नित्यसमासः ‘प्रशंसावचनैश्च’ इत्यनेन । गौरवे बहुवचनम् । देवपादान् उपजीवन्ति आश्रित्य वर्तयन्ति इति देवपाद उप√जीव् + णिनि कर्तरि ताच्छील्ये = देवपादोपजीविनः, तेषाम् । उपपूर्वको जीव्धातुः सकर्मकः—‘उपसर्गवशात् सकर्मकत्वम्’ । प्रशंसावाची शब्द ये है— ‘मतल्लिकाप्रमिश्राः स्युः प्रकाण्डस्थलभित्तयः । हस्तपाशत्तटाः पादपालिमर्चिकादयः ॥’ चन्द्रगुप्तशरीरम्—अत्र ‘क्रुधद्रुहोरुपसृष्टयोः कर्म’ इति सूत्रेण कर्मसंज्ञा—द्वितीया । कोषसञ्चयेन = सञ्चितेन कोषेन । ‘भाण्डानयने द्रव्यानयनम्’ । सहार्थे तृतीया । प्रतिक्षणम्—क्षणे क्षणे इति प्रतिक्षणम् यथार्थे ( वीप्सार्थे ) अव्ययीभावसमासः । ‘योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः’ । अरातिवृत्तान्तोपलब्धये—अत्र तादर्थ्ये चतुर्थी । तत्संहतिभेदनाय—अत्रापि तादर्थ्ये चतुर्थी । सम्√हन् ( गतौ ) + क्तिन् भावे = संहतिः । जीवसिद्धिप्रभृतयः—प्रथम अंक मे आ चुका है कि जीव-, सिद्धि चाणक्य का सहपाठी रह चुका है और इस समय उसी का गुप्तचर है, किन्तु राक्षस भ्रम में पडकर उसको अपना मित्र समझ रहा है ।

११० मुद्राराक्षसम्

तत् किमत्र बहुना ?—

दृष्टात्मजः सपदि सान्वय एव देवः शार्दूलपोतमिव यं परिपोष्य नष्टः । तस्यैव बुद्धिविशिखेन भिनद्मि मर्म वर्मीभवेद्यदि न दैवमदृश्यमानम् ॥८॥

अन्वय —दृष्टात्मजः देवः शार्दूलपोतमिव यं परिपोष्य सान्वय एव सपदि नष्टः तस्य एव मर्म बुद्धिविशिखेन भिनद्मि यदि अदृश्यमानं दैवम् न वर्मी-भवेत् ॥ ८ ॥

व्याख्या—दृष्टात्मजः —दृष्टाः प्रिता आत्मजाः पुत्रा यस्य तादृशः, देवः — नन्दः, शार्दूलपोतमिव—व्याघ्रशावकम् इव, यं—चन्द्रगुप्तं, परिपोष्य—परिपाल्य, सान्वय एव—सवंश एव, सपदि—सद्यः, नष्टः —मृतः, तस्यैव—वृषलस्यैव, मर्म—जीवनस्थानं, बुद्धिविशिखेन—बुद्धिरेव विशिखः बाणः तेन, भिनद्मि—विदारयामि, यदि—चेत्, अदृश्यमानम्—अनालक्ष्यं, दैवम्—भाग्यं, न वर्मीभवेत्—वर्मरूपतामापद्य तं न रक्षेत् ॥ ८ ॥

हिन्दी अनुवाद —इसलिए यहां बहुत कहने से क्या लाभ ?— पुत्र-प्रेमी महाराज (नन्द) बाघ के बच्चे के समान जिस (चन्द्रगुप्त) को पाल-पोष कर शीघ्र ही वंश समेत नष्ट हो गए, उसी के मर्म को मैं बुद्धिरूपी बाण से छिन्न-भिन्न कर दूंगा यदि न दिखाई देने वाला भाग्य कवच बनकर (उसकी) रक्षा न करे ॥८॥

टिप्पणीशार्दूलपोतम् इव—बाघ के बच्चे के समान । 'पोतः पाको-ऽर्भो डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । भिनद्मि—विदीर्ण कर दूंगा । भविष्यात्समीप्ये लट् । वर्मीभवेत्—कवच बनेगा । अवर्म वर्म सम्पद्यमानं भवेत् इति अभूततद्भावश्चिव । इस पद्य में पूर्णोपमा अलंकार और परिणाम अलंकार है । इसमें पाञ्चाली रीति है, ओज गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १,८ में देखिये ॥ ८ ॥

[ ततः प्रविशति कञ्चुकी । ]

कञ्चुकी

कामे नन्देमिवे प्रमथ्य जरया चाणक्यनीत्या यथा धर्मो मौर्य इवे क्रमेण नारे नीतं प्रतिष्ठा मयि ।

द्वितीयोऽङ्कः १११

तं संप्रत्युपचीयमानमनु मे लब्धान्तरः सेवया
लोभो राक्षसवर्ज्जयाय यतते जेतुं न शक्नोति च ॥६॥

अन्वयः—चाणक्यनीत्या यथा जरया नन्दमिव कामं प्रमथ्य नगरे मौर्ये इव मयि धर्मः क्रमेण प्रतिष्ठां नीतः । सम्प्रति सेवया लब्धान्तरो मे लोभः राक्षसवत् उपचीयमानं तम् अनु जयाय यतते च जेतुं न शक्नोति ॥ ६ ॥

व्याख्याचाणक्यनीत्या—चाणक्यस्य कौटिल्यस्य नीत्या नयेन, यथा—इव, जरया—वार्द्धकेन, नन्दमिव—तदाख्यनृपमिव, कामं—भोगाभिलाषं, प्रमथ्य—सम्मर्द्य, नगरे—कुसुमपुरे, मौर्ये—वृषले, इव, धर्मः—सुकृतं, क्रमेण—आनुपूर्व्या, प्रतिष्ठां—स्थितिं, नीतः—आपादितः । सम्प्रति—अधुना, सेवया—(मलयकेतोः) शुश्रूषया, लब्धान्तरः—प्राप्तावसरः, मे—मम, लोभः—विषयाभिलाषः, राक्षसवत्—अमात्यराक्षस इव, उपचीयमानं—वर्द्धमानं, तम्—धर्मम्, अनु—धर्ममभिलक्ष्य, जयाय—विजयाय, यतते—उद्युङ्क्ते, —पुनः, जेतुं—विजेतुं, न शक्नोति—न समर्थो भवति ॥ ६ ॥

हिन्दी अनुवाद—[ तब कंचुकी प्रवेश करता है । ]

कंचुकी—चाणक्य की नीति की तरह बुढ़ापे ने नन्द की तरह काम (भोग-लिप्सा) को नष्ट करके नगर (कुसुमपुर) में चन्द्रगुप्त की तरह मुझमे धर्म को क्रमशः प्रतिष्ठित कर दिया । इस समय ( मलयकेतु की ) सेवा के कारण अवसर पाकर मेरा लोभ राक्षस की तरह बढ़ते हुए उस धर्म (पक्षान्तर में चन्द्रगुप्त ) को लक्ष्य करके जीतने के लिए यत्न करता है किन्तु जीतने में समर्थ नहीं हो पाता है ॥ ६ ॥

टिप्पणीकञ्चुकी—रनिवास का रक्षक, अन्तःपुराध्यक्ष । इसका लक्षण यह है—‘अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ।’ यह कंचुकी मलयकेतु का है । जरया—जरसा । ‘जराया जरसन्यतरस्याम्’ सूत्र से जरस् आदेश के विकल्प से होने के कारण पक्ष मे ‘जरया’ यह भी रूप होता है । प्रमथ्य—विनष्ट करके । प्र√मन्थ् + क्त्वा—ल्यप् । क्रमेण—अत्र ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ इत्यनेन तृतीया । प्रतिष्ठाम्—स्थिति को । प्रति√स्था + अङ् भावे = प्रतिष्ठा, ताम् । तम् अनु—यहाँ ‘अनु’ को ‘लक्षणेत्थम्भूत’—सूत्र से कर्मप्रवचनीयसंज्ञा होने के कारण उसके

३१२ मुद्राराक्षसम्

योग में 'तम्' में द्वितीया हुई। जयाय—अत्र 'तुमर्थाच्च भाववचनात्' इति सूत्रेण चतुर्थी। इन श्लोक में 'जग' से 'चाणक्यनीति' की, 'लोभ' से 'राक्षस' की, 'काम' से 'नन्द' की, 'नगर' से 'मौर्य' की और 'धर्म' से 'चन्द्रगुप्त' की तुलना की गई है। 'उपचीयमानम्' का सम्बन्ध 'धर्म' और चन्द्रगुप्त दोनो से है। इसमें उपमा और समासोक्ति अलंकार है। यहाँ वैदर्भी रीति, प्रसाद गुण और शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥ ६ ॥

[ दृष्ट्वा ] अयममात्यराक्षसः। [ परिक्रम्योपसृत्य च ] इदममात्य-राक्षसस्य गृहम्। प्रविशामि। [ प्रविश्यावलोक्य च ] अमात्य ! स्वस्ति भवते।

राक्षस —आर्य जाजले ! अभिवादये। प्रियवदक ! आसनम् अत्र-भवत उपनय।

पुरुष —एद आसणम्। उपविसदु अज्जो। (इदमासनम्। उपविश-त्वार्यः।)

कञ्चुकी—[ उपविश्य ] अमात्य ! कुमारो मलयकेतुरमात्य विज्ञा-पयति—'चिरात्प्रभृत्यार्यं परित्यक्तोचितशरीरसंस्कार इति पीड्यते मे हृदयम्। यद्यपि मह्मा स्वामिगुण न शक्यन्ते विस्मर्तुं तथापि मद्वि-ज्ञापना मानयितुमहंत्यार्य [ इत्याभरणानि प्रदर्श्य ] अमात्य ! इमान्या-भरणानि कुमारेण स्वशरीगदवतार्य प्रेषितानि, धारयितुमहंत्यार्यः।

राक्षस —आर्य ! जाजले ! विज्ञाप्यता मद्वचनात् कुमारः। 'विस्मृता मया स्वामिगुणा भवद्गुणपक्षपातेन। किन्तु—

हिन्दी अनुवाद—[ देखकर ] यह तो मन्त्री राक्षस है। [ घूमकर और समीप जाकर ] यह अमात्य राक्षस का घर है। प्रवेश करता हूँ। [ प्रवेश करके और देखकर ] आपका कल्याण हो।

राक्षस—आर्य जाजले ! अभिवादन करता हूँ। प्रियवदक ! पूज्य (जाजलि) के लिए आसन लाओ।

पुरुष—यह आसन है आर्य बैठें।

कञ्चुकी—[ बैठकर ] अमात्य ! कुमार मलयकेतु अमात्य से निवेदन कर रहे हैं कि आर्य ने बहुत दिनों से शरीरोचित संस्कार (साज-सज्जा)

द्वितीयोऽङ्कः ११३

करना छोड़ दिया है, इससे मेरा हृदय दुःखी है । यद्यपि स्वामी (नन्द) के गुण एकाएक भुलाये नहीं जा सकते हैं तो भी मेरा निवेदन आर्य मान लें । [आभूषणों को दिखाकर] अमात्य ! इन आभूषणों को कुमार ने अपने शरीर से उतार कर भेजा है, आर्य धारण करें ।

राक्षस—आर्य जाजले ! मेरी ओर से कुमार से निवेदन कर दीजिएगा कि आपके गुणों के प्रति पक्षपात के कारण मैने स्वामी ( नन्द ) के गुणों को भुला दिया है । किन्तु—

टिप्पणी—उपसृत्य—समीपम् एत्य । भवते—अत्र 'नमःस्वस्तिस्वाहा'—इति सूत्रेण स्वस्तियोगे चतुर्थी । चिरात्प्रभृति—बहुदिवसतः । परित्यक्तोचितशरीरसंस्कारः—जिसने शरीर का उचित संस्कार करना छोड़ दिया हो । सम् √कृ + घञ् करणे भावे वा, 'सम्परिभ्यां करोतौ भूषणे' इत्यनेन सुडागमः=संस्कारः । परित्यक्तः अगृहीतः उचितः योग्यः शरीरसस्कारः देहस्य नैर्मल्यं येन स परित्यक्तोचितशरीरसंस्कारः । पीड्यते—इति हेतोः पीड्यते, कर्मकर्तरि लट् अथवा इति अनेन पीड्यते, कर्मणि लट् । विज्ञापनाम्—प्रार्थनाम् । मानयितुम्—स्वीकर्तुम् । जाजले—जाजलिन् नाम के एक ऋषि थे । उनके गोत्रापत्य जाजलि कहलाते है । जाजलिनः अपत्यं पुमान् इति जाजलिन् + अण्, 'नस्तद्धिते' इति टिलोपः = जाजलः । तस्य गोत्रापत्य पुमान् इति जाजल + इञ् = जाजलिः । तत्सम्बोधने हे जाजले इति । स्वामिगुणाः—स्वामिनो राज्ञो नन्दस्य गुणाः दयादाक्षिण्यप्रभृतयः । भवद्गुणपक्षपातेन—भवतो गुणाः, तेषु पक्षपातः = आसक्तिः, तेन । हेतौ तृतीया ।

न तावन्निर्वैर्यैः परपरिभवाक्रान्तिकृपणै-
र्वहाम्यङ्गैरेभिः प्रतनमपि संस्काररचनाम् ।
न यावन्निःशेषक्षपितरिपुचक्रस्य निहितं
सुगाङ्गे हेमाङ्गं नृवर तव सिंहासनमिदम् ॥१०॥

अन्वयः—नृवर! यावत् निःशेषक्षपितरिपुचक्रस्य तव हेमाङ्कम् इदं सिंहासनं सुगाङ्गे न निहितं तावत् परपरिभवाक्रान्तिकृपणैः निर्वीर्यैः एभिः अङ्गैः प्रतनमपि संस्काररचनां न वहामि ॥ १० ॥

व्याख्या—नृवर—नरोत्तम ! यावत्, यदवधि, निःशेषक्षपितरिपुचक्रस्य—

मु० रा०—८

११४ | मुद्राराक्षसम्

निःशेष समग्रं यथा स्यात् तथा क्षपित नाशित रिपुचक्रम् अरिमण्डल यस्य तस्य, तव—ते, हेमाङ्क—सुवर्णलाञ्छितम्, इद—बुद्धिस्थ, सिहासन—भद्रासन, सुगाङ्गे—तदाख्ये कुसुमपुरप्रासादे, न निहित—न स्थापित ( भवेत् ), तावत्—तदवधि, परपरिभवाक्रान्तिकृपणे—परेभ्य शत्रुभ्य य परिभव तिरस्क्रिया तस्य आक्रान्त्या आरोपणेण हेतुना कृपणे दीने, ( अतएव ) निर्वीर्ये—पराक्रमरहिते, एभि—मदीये, अङ्गे—अवयवे, प्रतनुमपि—स्वल्पामपि, सस्कार-चना—भूषणविन्यास, न वहामि—न धारयामि ॥ १० ॥

हिन्दी अनुवाद—हे नरेन्द्र ! जब तक निःशेष रूप मे नष्ट किये गये शत्रु-समूह वाले आपका यह स्वर्णाङ्कित सिंहासन सुगाग नामक राजभवन मे स्थापित नही कर दिया जाता तब तक शत्रुजन्य तिरस्कार के आधान मे दीन एव दुर्बल ( अपने ) इन अगो मे थोडी भी साज-मज्जा धारण नहीं करूँगा ॥ १० ॥

टिप्पणी—नृव !—हे मनुष्यो मे श्रेष्ठ ! नृणा वर नृवर षष्ठीतत्०, तत्सम्बोधन हे नृवर इति । कृपणं—दीन । 'कदर्ये कृपणक्षुद्रकिम्पचानमित-म्पचा । निःस्वस्तु त्रिविधो दीनो दरिद्रो दुर्गतोऽपि स ' इत्यमर । निर्वीर्ये—अशक्त, निस्तेज । निर्गत वीर्यम् एन्य इति निर्वीर्याणि, तै । यह 'अङ्गे' का विशेषण है । निःशेष—निर्गत शेषो यस्मिन् तत् यथा स्यात् तथा । यह क्षपण क्रिया का विशेषण है । इस श्लोक मे परिकर अलङ्कार है, ओज गुण है, पाञ्चाली रीति है और शिखरिणी छन्द है । इस छन्द का लक्षण १, १३ मे देखिए ॥ १० ॥

कञ्चुकी—अमात्य ! त्वयि नेतरि सुलभमेतत् कुमारस्य । तत् प्रति-मान्यता कुमारस्य प्रथम प्रणय ।

राक्षस—आर्य ! कुमार इवानतिक्रमणीयवचनो भवानपि । तद-नुष्ठीयते कुमारस्याज्ञा ।

कञ्चुकी—[ नाट्येन भूषणानि परिधाप्य ] स्वस्ति भवते । साधयाम्यहम् ।

राक्षस—आर्य ! अभिवादये । [कञ्चुकी निष्क्रान्त ।] प्रियवदक ! ज्ञायता कोऽयमस्मद्दर्शनार्थी द्वारि तिष्ठति ।

प्रियवदक—ज अज्जो आणवेदि त्ति । [ परिक्रम्याहितुण्डिक दृष्ट्वा ] ण

द्वितीयोऽङ्कः ११५

अज्ज ! को तुमं ? ( यदार्य आज्ञापयतीति । ननु आर्य ! कस्त्वम् ) ?

आहितुण्डिकः—भद्द ! अहं क्खु आहितुण्डिओ जिण्णविसो णाम । इच्छामि अमच्चरक्खसस्स पुरदो सप्पेहि खेलिदुं । ( भद्र ! अहं खल्वाहितुण्डिको जीर्णविषो नाम । इच्छाम्यमात्यराक्षसस्य पुरतः सर्पैः खेलितुम् । )

प्रियंवदकः—चिट्ठ, जाव अमच्चस्स णिवेदेमि । [ राक्षसमुपसृत्य ] अज्ज एसो क्खु सप्पोवजीवी इच्छदि सप्पेहिं अमच्चस्स पुरदो खेलिदुं । (तिष्ठ, यावदमात्यस्य निवेदयामि । आर्य ! एष खलु सर्पोपजीवी इच्छति सर्पैरमात्यस्य पुरतः खेलितुम् ।)

हिन्दी अनुवादकंचुकी—अमात्य ! आपके नेतृत्व में कुमार ( मलयकेतु ) के लिए यह सुलभ है । इसलिए कुमार का यह पहला स्नेह ( -सिक्त उपहार, ) स्वीकार कीजिए ।

राक्षस—आर्य ! कुमार के समान आपकी भी आज्ञा टालने योग्य नहीं है । इसलिए कुमार की आज्ञा मान लेता हूँ ।

कंचुकी—[ अभिनय के साथ आभूषणों को पहना कर ] आपका कल्याण हो । मैं जाता हूँ ।

राक्षस—आर्य ! अभिवादन करता हूँ [ कंचुकी चला जाता है । ] प्रियंवदक ! पता करो, यह कौन मुझ से मिलने के लिए द्वार पर खड़ा है ।

प्रियंवदक—आर्य की जो आज्ञा । [ घूमकर और सँपेरे को देखकर ] आर्य आप कौन हैं ?

आहितुण्डिक—भद्र ! मै जीर्णविष नाम का सँपेरा हूँ । अमात्य राक्षस के आगे साँपों से खेलना चाहता हूँ ।

प्रियंवदक—ठहरो, जबतक मै अमात्य से निवेदन करता हूँ । [ राक्षस के पास जाकर ] आर्य ! यह सँपेरा अमात्य के सामने साँपों से खेलना चाहता है ।

टिप्पणीत्वयि नेतरि—अत्र 'यस्य च भावेन भावलक्षणम्' इति सूत्रेण सप्तमी । प्रतिमान्यताम्—स्वीक्रियताम् । प्रणयः—प्रार्थना अथवा लाक्षणिक अर्थ—प्रेमोपहार । प्रकर्षेण नीयते अनेन इति प्र√नी+अच् करणे = प्रणयः । यह 'प्रतिमान्यताम्' का उक्त कर्म है । अनतिक्रमणीयवचनः

११६मुद्राराक्षसम्

—जिसका वचन उल्लंघनीय न हो। अनतिक्रमणीय वचन यस्य तादृश । परिधाप्य—पहनाकर। परि-√धा + णिच्, पुक् + क्त्वा—ल्यप् । स्वस्ति भवते—अत्र ‘नम स्वस्ति’—इत्यादिसूत्रेण चतुर्थी । साधयामि—गच्छामि । नाटक मे ण्यन्त साध् धातु का प्रयोग प्राय गमन के अर्थ मे किया जाता है—'प्रायेण ण्यन्तर साधिर्गमि स्थाने प्रयुज्यते' दर्पण । अस्मद्दर्शनार्थी—अस्माक दर्शनम् अस्मद्दर्शनम्, तत् अर्थयते याचते इति अस्मद्दर्शन √अर्थ् + णिनि साधुकारिणि कर्तरि । सर्पोपजीवी—सांपो से जीविका चलाने वाला, सॅपेरा । सर्प उप-जीवति इति सर्प-उप-√जीव् + णिनि साधुकारिणि कर्तरि ।

राक्षस —[ वामाक्षिस्यन्दन सूचयित्वा आत्मगतम् ] कथ प्रथममेव सर्प-दर्शनम् ! [ प्रकाशम् ] प्रियवदक ! न न कुतूहलमस्ति सर्पदर्शने । तद् परितोष्य विसर्जयैनम् ।

प्रियवदक —ज अज्जो आणवेदि । [ परिक्रम्याहितुण्डिकमुपसृत्य ] भद्द ! एसो क्खु दे अमच्चो अदंसणेण प्पसाद करेदि । ण उण दसणेण । (यदार्य आज्ञापयति । भद्र ! एष खलु ते अमात्योऽदर्शनेन प्रसाद करोति न पुनर्दर्शनेन ।)

आहितुण्डिक —भद्द ! विण्णवेहि मम वअणेण अमच्च—'ण केवल अह सप्पोवजीवी, पाउअकवी क्खु अह, ता जइ मे दसणेण अमच्चो प्पसाद ण करेदि, ता एद पि पत्तअ वाचेदु प्पसीददु' त्ति । [पत्रमर्पयति] (भद्र ! विज्ञापय मम वचनेनामात्य—'न केवलमह सर्पोपजीवी, प्राकृत-कवि खल्वह, तस्माद् यदि मे दर्शनेनामात्य प्रसाद न करोति, तदा एतदपि पत्रक वाचयितु प्रमोद्तु' इति ।)

प्रियवदक —[ पत्र गृहीत्वा राक्षसमुपसृत्य ] अमच्च ! एसो क्खु आहितुण्डिओ विण्णवेदि—'ण केवल अह सप्पोवजीवी, पाउअकवी क्खु अह, ता जइ मे दसणेण अमच्चो प्पसाद ण करेदि, ता एद पि पत्तअ वाचेदु प्पसीददु' त्ति । (अमात्य ! एष खलु आहितुण्डिको विज्ञापयति—'न केवलमह सर्पोपजीवी, प्राकृतकवि खल्वह, तस्माद् यदि मे दर्शनेनामात्य प्रसाद न करोति, तदा एतदपि पत्रक वाचयितु प्रसीदतु' इति ।)

व्याख्या—वामाक्षिस्यन्दन—वामस्य दक्षिणेतरगस्य अक्ष्ण नेत्रस्य स्यन्दनम्

द्वितीयोऽङ्कः ११७

ईषत्कम्पनं, सूचयित्वा—अभिनयं कृत्वा । कथं—कुतः, प्रथमम् एव—पूर्वमेव, सर्प-दर्शनम्—सर्पस्य अहेः दर्शनम् अवलोकनम् । नः—अस्माकं, सर्पदर्शने—भुजङ्गमाव-लोकने, कुतूहलम्—कौतुकं, नास्ति—न विद्यते । तत्—तस्मात्, एनम्—आहि-तुण्डिकम्, परितोष्य—सन्तुष्टं कृत्वा, विसर्जंय—इतो गन्तुं प्रेरय । अमात्यः—राक्षसः, अदर्शनेन—अवलोकन मन्तरैव, प्रसादम्—अनुग्रहम् उपहारमिति यावत्, करोति—विदधाति ददाति इति यावत्, न पुनः दर्शनेन—सर्पक्रीडामवलोक्ये-त्यर्थः । भद्र—कल्याणयुक्त !, मम वचनेन—मत्कथनेन, अमात्यं, विज्ञापय—निवेदय, अहं, केवलं, सर्पोपजीवी—अहिखेलनवृत्तिः, न—नहि, (किन्तु) अहं, प्राकृतकविः—प्राकृतभाषाकाव्यरचयिता (अस्मि), तस्मात्—तत्, यदि, मे—मम, दर्शनेन—सर्पक्रीडावलोकनेन, अमात्यः, प्रसादं न करोति, तदा—तर्हि, एतत्, पत्रकमपि, वाचयितुं—पठितुं, प्रसीदतु—प्रसन्नो भवतु । पत्रम्—आहि-तुण्डिकदत्तं दलं, गृहीत्वा—आदाय, ˙राक्षसम्, उपसृत्य, उपेत्य आहेति शेषः । आहितुण्डिकः—व्यालग्राही, विज्ञापयति—निवेदयति— न केवलमहं……।

हिन्दी अनुवाद—राक्षस— [ बाई आँख का फड़कना सूचित करके मन में] कैसे पहले ही सांप का दर्शन हुआ [ प्रकट ] प्रियंवदक ! हमे साँप ( के खेल ) देखने की उत्कंठा नही है । इसलिए इसे सन्तुष्ट करके विदा कर दो ।

प्रियंवदक—जो आर्य की आज्ञा । [ घूमकर और सँपेरे के पास जाकर ] भद्र! ये मंत्री जी बिना ( सर्प-क्रीडा ) दिखाये तुम पर प्रसन्न है, दिखाने से नही ।

सँपेरा—भद्र ! मेरी ओर से मंत्री जी से निवेदन कर दो कि मै केवल सँपेरा (ही) नही हूँ, प्राकृत भाषा का कवि भी हूँ । इसलिए यदि मंत्री जी मुझे दर्शन से कृतार्थ नही करते है तो ( कम से कम ) यह पत्र पढ़ने की कृपा करे ।

प्रियंवदक—[ पत्र लेकर राक्षस के पास पहुँचकर ] अमात्य । यह सँपेरा निवेदन कर रहा है कि मै केवल सर्पजीवी ( सँपेरा ) नही हूँ, प्राकृत का कवि भी हूँ । इसलिये यदि अमात्य मुझे दर्शन देने की कृपा नहीं करते है तो यह पत्र ही बाँच कर अनुगृहीत करें ।

**टिप्पणी—वामाक्षिस्पन्दनम्—**बाई आँख का फड़कना । यह पुरुषों के लिये अशुभसूचक है, जब कि दाईं आँख का फड़कना शुभसूचक है । इसके विपरीत स्त्रियों के लिये बाईं आँख का फड़कना शुभ होता है और दाई का अशुभ ।

११८ || मुद्राराक्षसम्

प्रथममेव—इससे मालूम पड़ता है कि वह समय प्रात काल का था । सवेरे सांप देखने से असगुन होता है । इसलिये राक्षस उसे हटाने को कहता है । परितोष्य—सन्तुष्ट करके । परि√तुष्+णिच्+क्त्वा—ल्यप् । प्रसाद करोति—प्रसन्नता प्रकट करते हैं, इनाम देते हैं । प्राकृतकवि —काव्यादर्श के अनुसार सस्कृत से निकली हुई अनेक भाषाओ का नाम सामान्यतया प्राकृत है । प्राकृतेषु कवि प्राकृतकवि सुप्सुपा स० ।

राक्षस —[ पत्रं गृहीत्वा वाचयति । ]

पाऊण णिरवसेसं कुसुमरसं अत्तणो कुसलदाए ।
जं उग्गिरेइ भमरो तं अण्णाणं कुणइ कज्जं ॥ ११ ॥

(पीत्वा निरवशेषं कुसुमरसमात्मनः कुशलतया ।
यदुद्गिरति भ्रमरस्तदन्येषाम् करोति कार्यम् ॥ )

अन्वय —आत्मनः कुशलतया निरवशेषं कुसुमरसं पीत्वा भ्रमरः यद् उद्गिरति तत् अन्येषां कार्यं करोति ॥ ११ ॥

व्याख्या—आत्मनः —स्वस्य, कुशलतया—नैपुण्यात्, निरवशेष—समग्रं, कुसुमरसं—कुसुमस्य पुष्पस्य रसं मधु (पक्षान्तरे कुसुमस्य कुसुमपुरस्य रसं वृत्तं), पीत्वा—सङ्गृह्य ( पक्षान्तरे ज्ञात्वा ), भ्रमरः —मधुकरः ( पक्षान्तरे चरः ) यत्—मधु (पक्षान्तरे वृत्तम् ), उद्गिरति—बहिर्निःसारयति (पक्षान्तरे कथयति), तत्—मधु ( पक्षान्तरे वृत्तम् ), अन्येषाम्—मनुष्याणां ( पक्षान्तरे चरनियोक्तॄणां, कार्यं—कृत्यं, करोति—साधयति ॥ ११ ॥

हिन्दी अनुवादराक्षस—[ पत्र लेकर बाचता है । ]
अपनी निपुणता से सम्पूर्ण पुष्प-रस का पान करके (पक्षान्तर में कुसुमपुर का समाचार जानकर ) भौंरा ( पक्षान्तर में गुप्तचर ) जो उगलता है (पक्षान्तर में कहना है ), वह ( मधु पक्षान्तर में कथन ) दूसरो का कार्य सिद्ध करता है ॥ ११ ॥

टिप्पणीनिरवशेषम्—निः नास्ति अवशेषो यत्र तत् निरवशेषम् तत् यथा तथा । यह ‘पीत्वा’ क्रिया का विशेषण है । भ्रमर —भौंरा । भ्रमर इव आचरति इति भ्रमरति । ततः पचाद्यचि = भ्रमरः भ्रमरसद्दशाचरणकर्ता गुप्तचर ।

द्वितीयोऽङ्कः ११६

इस पद्य में अप्रस्तुतप्रशंसा अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और आर्या छन्द है । आर्या का लक्षण १,५ में देखिए ॥ ११ ॥

राक्षसः— [ आत्मगतम् ] अये ! कुसुमपुरवृत्तान्तज्ञः अहं भवत्प्रणिधिश्चेति गाथार्थः । आः कार्यव्यग्रत्वात् मनसः प्रभूतत्वाच्च प्रणिधीनां विस्मृतम्, इदानीं स्मृतिरुपलब्धा । व्यक्तम् आहितुण्डिकच्छद्मना कुसुमपुरादागतेन विराधगुप्तेनानेन भवितव्यम् । [ प्रकाशम् ] प्रियंवदक ! प्रवेशय एनं, सुकविः एषः श्रोतव्यमस्मात् सुभाषितम् ।

प्रियंवदकः— जं अज्जो आणवेदि त्ति । [ आहितुण्डिकमुपसृत्य ] उपसप्पदु अज्जो । ( यदार्य आज्ञापयतीति । उपसर्पत्वार्यः ) ।

आहितुण्डिकः— [ नाट्येनोपसृत्यावलोक्य च संस्कृतमाश्रित्य स्वगतम् । ]
अये ! अयममात्यराक्षसस्तिष्ठति । स एषः—

वामां बाहुलतां निवेश्य शिथिलं कण्ठे निवृत्तानना
स्कन्धे दक्षिणया बलान्निहितयाप्यङ्के पतन्त्या मुहुः ।
गाढालिङ्गनसङ्गपीडितमुखं यस्योद्यमाशङ्किनी
मौर्यस्योरसि नाधुनाऽपि कुरुते वामेतरं श्रीः स्तनम् ॥ १२ ॥

व्याख्या— कुसुमपुरवृत्तान्तज्ञः—पाटलिपुत्रवृत्तान्तज्ञाता, अहं, भवत्प्रणिधिः—भवतः तव प्रणिधिः दूतः, इति, गाथार्थः—गाथायाः आर्याछन्दसा परिणद्धाया गीतिकाया अर्थः तात्पर्यम् । मनसः—चित्तस्य, कार्यव्यग्रत्वात्—कार्येषु कृत्येषु व्यग्रः आकुलः तस्य भावः तस्मात्, प्रणिधीना—चराणां, प्रभूतत्वाच्च—आधिक्याच्च, विस्मृतम् । इदानीम्—अधुना, स्मृतिः—स्मरणम्, उपलब्धा—प्राप्ता । व्यक्तम्—स्पष्टम्, आहितुण्डिकच्छद्मना—व्यालोपजीविमिषेण, विराधगुप्तेन, अनेन—चरेण, भवितव्यम्—भाव्यम् । एषः, सुकविः—सुपण्डितः, अस्मात्—सुकवेः, सुभाषितं—सुवाक्यं, श्रोतव्यम्—आकर्णनीयम् ।

अन्वयः— यस्य उद्यमाशङ्किनी श्रीः वामां बाहुलतां कण्ठे शिथिलं निवेश्य निवृत्तानना बलात् स्कन्धे निहितया अपि मुहुः अङ्के पतन्त्या दक्षिणया गाढालिङ्गनसङ्गपीडितमुखं वामेतरं स्तनम् अधुनापि मौर्यस्य उरसि न कुरुते ॥ १२॥

व्याख्या— यस्य—राक्षसस्य, उद्यमाशङ्किनी—उद्योगभीता, ( सती ),

१२४ मुद्राराक्षसम्

व्याख्याशरासनधरै—धनुर्धरैः, प्राकार—प्राचीरं, परित—समन्तात्, क्षिप्र—शीघ्रं, परिक्रम्यताम्प्रतिद्विपघटाभेदक्षमं—प्रतिपक्षा ये द्विपा गजा तेषां घटाया सघातस्य भेदे विघटने क्षमं समर्थं, द्विरदे—हस्तिभि, द्वारेषु—तोरणेषु, स्थीयताम्येषाम्—अस्मदीयाणा, यश—कीर्तिं, अभीष्टम्—अभीप्सितम्, ते, मृत्युभय—मरणभीति, त्यक्त्वा—मुक्त्वा, दुर्बले—हीनबले, शत्रोर्बले—रिपो सैन्ये, एकमनस—एकचित्ता ( भूत्वा ), प्रहर्तुमनस—जिघांसव ( सन्त ), मया—राक्षसेन, सह—सार्धं, निर्यान्तु—बहिरागच्छन्तु ॥१३॥

हिन्दी अनुवादराक्षस—[ शस्त्र ( तलवार ) खींचकर हडबडी के साथ ] मेरे रहते कौन कुसुमपुर को घेरेगा ? प्रवीरक ! प्रवीरक ! अभी तुरन्त—

धनुर्धर ( सैनिक ) परकोट की चार ओर शीघ्र चक्कर लगावे, शत्रुओं के हाथियों के समूह को तितर-बितर करने में समर्थ हाथी द्वारों पर खड़े हो जायें । जिन्हें यश की चाह है, वे मरने का भय त्यागकर दुर्बल शत्रु-सेना पर एक मन से प्रहार करने की इच्छा वाले होकर मेरे साथ बाहर निकल आवे ॥१३॥

टिप्पणीउपरोत्स्यति—घेरेगा । उप√रुध् + लृट्—स्यति । अत्र 'अनद्यतनप्यमर्षयोर्लिङ्वृत्तेऽपि' इति सूत्रेण सूत्रे लृट् । प्रवीरक—यह राक्षस के तत्कालीन अनुचर का नाम है । शरासनधरै—धनुर्धारी योद्धा । शरा अस्यन्ते क्षिप्यन्ते यै तानि शरासनानि शृ√अस् + ल्युट् करणे । धरन्तीतिधरा √धृ + अच्, शरासनानां धरा शरासनधराः, तै अनुक्ते कर्त्तरि तृतीया । प्राकारम्—चहारदीवारी । प्रक्रियते इति प्र√कृ + घञ्, कर्म्मणि, उपसर्गस्य दीर्घ = प्राकार , तम् । यहाँ 'परित ' के योग में द्वितीया हुई । प्रतिद्विपघटाभेदक्षमे—प्रतिद्वन्द्वी हाथियों के समूह को छिन्न-भिन्न करने में समर्थ। घटनम् इति√घट् + अट् भावे = घटा । 'घटा घटनगोष्ठीभघटनासु च योषिति' इति मेदिनी । येषामभीष्टम्—अभि√इष् + क्त कर्म्मणि वर्तमाने 'मतिबुद्धिपूजार्थेभ्यश्च' इत्यनेन । येषाम् इत्यत्र 'क्तस्य च वर्तमाने' इति सूत्रेण षष्ठी । दुर्बले—दुःस्थितानि बलानि अस्य इति दुर्बलम्, तस्मिन् । एकमनस—अभिन्नहृदय । प्रहर्तुमनस—प्रहार करने की इच्छा रखने वाले । प्रहर्तुम् मन एषाम् इति प्रहर्तुमनस 'तुङ्काममनसोरपि' इति मकारलोप । इस पद्य में स्वभावोक्ति अलंकार और काव्यलिंग अलंकार की संसृष्टि है । इसमे वीर

द्वितीयोऽङ्कः १२५

रस है, स्थायी भाव है, गौडी रीति है, ओज गुण है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ।।१३।।

विराधगुप्तः—अमात्य ! अलमावेगेन । वृत्तमिदं वर्ण्यते ।

राक्षसः—[निःश्वस्य] कष्टं वृत्तमिदम् । मया पुनर्जातं स एव कालो वर्तते इति । [ शस्त्रमुत्सृज्य सास्रम् ] हा देव नन्द ! स्मरामि ते राक्षस-म्प्रति प्रसादातिशयम् । यस्तु एवंविधकाले—

यत्रैषा मेघनीला चरति गजघटा राक्षसस्तत्र याया-
देतत् पारिप्लवाम्भःप्लुति तुरगबलं वार्यतां राक्षसेन ।
पत्तीनां राक्षसोऽन्तं नयतु बलमिति प्रेषयन्मह्यमाज्ञा-
मज्ञासीः स्नेहयोगात् स्थितमिव नगरे राक्षसानां सहस्रम् ॥१४॥

अन्वयः—यत्र एषा मेघनीला गजघटा चरति तत्र राक्षसः यायात्, पारिप्लवाम्भःप्लुति एतत् तुरगबलं राक्षसेन वार्यताम्, पत्तीनां बलं राक्षसः अन्तं नयतु इति मह्यम्, आज्ञां स्नेह-योगात् नगरे राक्षसानां सहस्रम् इव स्थितम् अज्ञासीः ॥१४॥

व्याख्या—यत्र—यस्मिन् समरमुखे, एषा—बुद्धिस्था, मेघनीला—अभ्रश्यामा, गजघटा—करिसंहतिः, चरति—संग्रामार्थं भ्रमति, तत्र—रणप्रदेशे, राक्षसः—नन्दामात्यः, यायात्—गच्छेत्, पारिप्लवाम्भःप्लुति—पारिप्लवं चञ्चलम् द्रुतं प्रसरत् इति यावत् यत् अम्भः जलं तस्य प्लुतिः उत्प्लवनमिव प्लुतिः यस्य तादृशम्, एतत्—दृश्यमान, तुरगबलम्—अश्वसैन्यं, राक्षसेन, वार्यताम्—निवर्त्यताम्, पत्तीनां—पदातीनां, बलं—सैन्यं पराक्रम वा, राक्षसः, अन्त—नाशं, नयतु—प्रापयतु, इति—इत्थम्, मह्यम्—मां प्रति, आज्ञा—नियोग, प्रेषयन्—प्रेरयन् कुर्वन्निति यावत्, स्नेहयोगात्—प्रीतिसम्पर्कात्, नगरे—कुसुमपुरे, राक्षसानां सहस्रम् इव, स्थितम्—युद्धाय सन्नद्धम्, अज्ञासीः—अमंस्थाः ॥ १४ ॥

हिन्दी अनुवादविराधगुप्त—अमात्य ! आवेग मे न आइए । यह तो समाचार का वर्णन किया जा रहा है ।

राक्षस—[ आह खींचकर ] यह समाचार कष्टदायक है । मैने तो समझा कि वही समय है । [ हथियार छोड़कर आँसू के साथ ] हा महाराज नन्द ! मैं

१२६ | मुद्राराक्षसम्

आपकी राक्षस के प्रति अत्यन्त कृपा का स्मरण करता हूँ। जो (आप) ऐसे समय मे—

जहाँ (समरांगण मे) ऐसी बादल-सी नील वर्ण वाली गज-पंक्ति घूम रही है, वहाँ (उसको विनष्ट करने के लिए) राक्षस जावे, तेजी से बहते हुए जल की गति के समान गतिवाली अश्व-सेना को राक्षस रोके और पैदलों की सेना को राक्षस विनष्ट करे—इस प्रकार मुझे आज्ञा देते हुए प्रीति के कारण नगर मे हजारो राक्षसो के समान स्थित (मुझे) मानते थे ॥१४॥

टिप्पणीआवेगेन—क्रोधेन । अलम्—व्यर्थम् । सास्रम्—अश्रुपूर्णनेत्रं यथा स्यात् तथा । क्रियाविशेषणत्वात् द्वितीया नपुंसकत्वं च । प्रमादातिशयम्—प्रमादस्य प्रमत्तताया अतिशयम् आधिक्यम् । मेघनीला—मेघ इव नीला 'उपमानानि सामान्यवचने' इत्यनेन उपमितसमास । गजघटा—दे० श्लोक १३ की टिप्पणी । पत्तीनाम्—पैदलों । पद्यन्ते इति √पद् + क्तिच् वा औणादिक क्ति कर्तरि = पत्तयः, तेषाम् । 'पदातिपत्तिपदगपादातिकपदाजय' इत्यमरः । मह्यम्—अत्र 'क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्' इत्यनेन सम्प्रदानसंज्ञा—चतुर्थी । इस पद्य मे लुप्तोपमा अलंकार वाच्योत्प्रेक्षा अलंकार के साथ संसृष्ट है । इसमे ओज गुण है, लाटी रीति है और स्रग्धरा छन्द है । इस छन्द का लक्षण १, १ मे देखिए ॥१४॥

ततस्ततः ?

विराधगुप्त—तत समन्तादुपस्रुद्ध पुष्पपुरमवलोक्य, बहुदिवसप्रभृति महदुपरोधवैशशमुपरि पौराणा परिवर्तमानमसहमाने, तस्यामप्यवस्थाया पौरजनापेक्षया सुरङ्गामेत्यापक्रान्ते तपोवनाय देवे सर्वार्थसिद्धौ, स्वामिविरहात् सुशिथिलीकृतप्रयत्नेषु युष्मद्वलेषु, जयघोषणाव्याघातादिसाहसानुमितान्तर्नगवामिषु, पुनरपि नन्दराज्यप्रत्यानयनाय सुरङ्गया बहिरपगतेषु युष्मासु चन्द्रगुप्तनिधनाय युष्मत्प्रयुक्त्या विषकन्यया घातिते तपस्विनि पर्वतेश्वरे—

व्याख्याततः—तदनन्तर, समन्तात्—चतुर्दिक्षु, उपरुद्ध—सैन्याक्रान्त, कुसुमपुरम्, अवलोक्य—दृष्ट्वा, बहुदिवसप्रभृति—अनेकवासरान् यावत्, पौराणा—नागरिकाणाम्, उपरि, महत्—बहुलम्, परिवर्तमान—प्रतिदिननूत-

द्वितीयोऽङ्कः १२७

नम्, उपरोधवैशसम्—उपरोधेन अवरोधेन वैशसम् अत्याचाररूपघातुककर्म, असहमाने—अमृष्यमाणे, तस्यामप्यवस्थायाम्—असहमान-दशायामपि, पौर-जनापेक्षया—पौरजनेषु या अपेक्षा आदरः तया, सुरङ्गाम्—कञ्चित् बिलमार्गम्, एत्य—प्राप्य, तपोवनाय—तपोवनं गन्तुं, देवे—राज्ञि, सर्वार्थसिद्धौ, अपक्रान्ते—अपसृते ( सति ), स्वामिविरहात्—प्रभुविच्छेदात्, सुशिथिलीकृतप्रयत्नेषु—मन्दीकृतोद्योगेषु, युष्मद्बलेषु—भवत्सैन्येषु, जयघोषणाव्याघातादिसाहसानुमि-तान्तर्नगरवासिषु—जयस्य घोषणा डिण्डिमाघातपूर्वकविज्ञापनम् तस्या व्याघातः अकरणम् स आदिर्येषां तैः साह सैः साहसिककार्यैरित्यर्थः अनुमितेषु नन्दानुरक्ता एते इति ज्ञातेषु ( सत्सु ) अन्तर्नगरवासिषु—पुराभ्यन्तरवासिषु, पुनर्राप—भूयोऽपि, नन्दराज्यप्रत्यानयनाय—नन्दभूपराज्यायत्तीकरणाय, सुरङ्गया—गुप्तमार्गेण, बहिरपगतेषु—बाह्यप्रदेश गच्छत्सु, युष्मासु—भवत्सु, चन्द्रगुप्त-निधनाय—वृषलनाशाय, युष्मत्प्रयुक्तया—भवत्प्रेरितया, विषकन्यया—विपा-क्तबालया, तपस्विनि—वराके निरपराधे इत्यर्थः, पर्वतेश्वरे, घातिते—विनाशिते ( सति ),—

हिन्दी अनुवाद—तब तब ?

विराधगुप्त—तब चारो ओर से कुसुमपुर को घिरा हुआ देखकर नागरिकों के ऊपर बहुत दिनों से चलने वाले घेरे से उत्पन्न नये-नये घोर अत्याचार को न सह सकते हुए महाराज सर्वार्थसिद्धि के उस अवस्था मे भी नागरिकों के आदर से सुरंग के रास्ते तपोवन के लिए भाग जाने पर, स्वामी के अभाव के कारण आपके सैनिकों के प्रयत्नों मे ढीले पड़ जाने पर ( चन्द्रगुप्त की ) विजय-घोषणा में की गई विघ्नबाधा आदि साहसिक कार्यों से नगर के अन्दर रहने वाली जनता की मनोवृत्ति का पता चल चुकने पर, पुनः नन्द के राज्य को लौटा लाने के लिए सुरंग के द्वारा आपके बाहर चले जाने पर, चन्द्रगुप्त की हत्या के लिए आपके द्वारा प्रयुक्त विषकन्या से बेचारे पर्वतेश्वर के मार दिये जाने पर—

टिप्पणीउपरोध—उप √रुध् + घञ् भावे = उपरोधः । वैशसम्—क्रूरता । विशसस्य भावः वैशसम् विशस् + अण् भावे । पौरजनापेक्षया—पौरजनेषु अपेक्षा सुप्सुपा स०, तया । हेतौ तृतीया । तपोवनाय—तपोवनं गन्तुम् । अत्र 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति सूत्रेण कर्मणि चतुर्थी ।

१२८ मुद्राराक्षसम्

साहस—बल या हठ से किया जान वाला कार्य। सहसा कृतम् इति साहस - अण्।

राक्षस —सखे ! पश्याश्चर्यम्—

कर्णेनेव विषाङ्गनैकपुरुषव्यापादिनी रक्षिता
हन्तुं शक्तिरिवार्जुनं बलवती या चन्द्रगुप्तं मया।
सा विष्णोरिव विष्णुगुप्तहतकस्यात्यन्तिकश्रेयसे
हैडिम्बेयमिवेत्य पर्वतनृपं तद्वध्यमेवावधीत् ॥ १५ ॥

अन्वय —कर्णेन इव मया अर्जुनम् इव चन्द्रगुप्तम् हन्तुम् बलवती एक-पुरुषव्यापादिनी शक्ति ( इव ) या विषाङ्गना रक्षिता, सा विष्णो इव विष्णु-गुप्तहतकस्य आत्यन्तिकश्रेयसे तद्वध्यम् हैडिम्बेयमिव पर्वतनृपम् एव एत्य अवधीत् ॥ १५ ॥

व्याख्या—कर्णेन इव—राधेयेन इव, मया—राक्षसेन, अर्जुनम् इव—गाण्डीविनम् इव, चन्द्रगुप्तम्, मौर्यम्, हन्तुम्, मारयितुम्, बलवती—प्रबला, एक-पुरुषव्यापादिनी—एकम् एकमेव पुरुषं जनं व्यापादयति हन्ति या तादृशी, शक्ति —इन्द्रप्रदत्तशक्तिनामास्त्रविशेष ( एकघ्नी इव ), या विषाङ्गना—विष-कन्यया, रक्षिता—स्थापिता, सा, विष्णो इव—भगवत इव, विष्णुगुप्तहतकस्य—चाणक्यस्य, आत्यन्तिकश्रेयसे—अधिककल्याणाय, तद्वध्यम्—तस्य विष्णो पक्षा-न्तरे तस्य चाणक्यस्य वध्यं घात्यं, हैडिम्बेयम् इव—हिडिम्बासुतं घटोत्कचमिव, पर्वतनृपम्—पर्वतकम्, एव, एत्य—प्राप्य, अवधीत्—विनाशितवती ॥१५॥

हिन्दी अनुवादराक्षस—मित्र ! आश्चर्य तो देखो—
कर्ण के समान मैंने अर्जुन के समान चन्द्रगुप्त को मारने लिये प्रबल तथा एक ही व्यक्ति का वध करने वाली शक्ति (बाणविशेष) के समान जिस विषकन्या को रख छोड़ा था, उसने विष्णु के समान दुष्ट चाणक्य के अत्यन्त कल्याण के लिये विष्णु के वध्य (पक्षान्तर में चाणक्य के वध्य) घटोत्कच के समान राजा पर्वतक को ही प्राप्त करके मार दिया ॥ १५ ॥

टिप्पणीपश्य—समझो, क्योकि दृश् धातु का प्रयोग ज्ञान अर्थ मे भी किया जाता है। एकपुरुषव्यापादिनी—एकः पुरुषः कर्मधारय स०, तम्