भारतकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

( २०४ )

मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता, उपस्थाने) हे मरुतः—देवाः, मा—मां, संसिञ्चन्तु—सम्यक् सिञ्चन्तु, अभीष्ट-दानेन सम्वर्द्धयन्तु । इन्द्रः वृहस्पतिश्च तथैव सम्यक् सिञ्चतु । अयम् अग्निश्च सम्यक सिञ्चतु प्रजया धनेन च मा योजयतु । एतदेव प्रायश्चित्तं संवत्सरपर्यन्तं कुर्यात् ।

एतदेव प्रायश्चित्तम् । १२

एतदेव प्रायश्चित्तं गर्दभपश्वालम्भरूपम् आज्याहुतिहोमात्मकं च अवकीर्णिनः प्रायश्चित्तद्वयं वोद्धव्यम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे द्वादशी कण्डिका ॥ — ४०४ —

( सभाप्रवेशनम् )

अथातः सभाप्रवेशनम् । १

अथ—आवसथ्याग्निसाध्यकर्मविधानानन्तरं यतः साधारणानि, कर्माणि विधेयानि, अतः सभाप्रवेशनं कर्म उच्यते ।

सभामभ्येति— सभाङ्गिरसि नार्दिर्नामासि त्विषिर्नामासि तस्यै ते नम इति । २

यदा द्विजः सभाम् अभ्येति—आभिमुख्येन गच्छति तदा 'सभाङ्गिरसी'त्यादि मन्त्रेण गच्छेत् ।

मन्त्रार्थ — (अङ्गिरा, गायत्री, सभा, सभाप्रवेशने) हे अङ्गिरसि—अङ्गिरोदेवते ! नार्दिः—नदनशीला त्वं सभा—सहधर्मेण सद्धिः वा भातीति सभा, तन्नामा असि । त्विषिः—दीप्तिः इति नामा असि । तस्यै—तादृश्यै, ते—तुभ्यं सभायै नमः अस्त्विति शेषः ।

अथ प्रविशति— सभा च मा समितिश्चोभे प्रजापतेर्दुहितरौ सचेतसौ...

( २०५ )

यो मा न विद्यादुप मा स तिष्ठेत् सचेतनो भवतु शठ्ं सथे जन इति । ३

अथ—अभिमुखमेत्य, सभां प्रविशति 'सभा च मे'त्यादिना मन्त्रेण । मन्त्रार्थः— ( प्रजापतिः, अनुष्टुप्, सभा समितिश्च, तत्प्रवेशने ) सभा—ससत् च, समितिः—युद्धञ्च ते उभे सचेतसौ—शोभनज्ञानदात्र्यौ, प्रजापतेः—ब्रह्मणः, दुहितरौ—पुत्र्यौ, ते मा—माम् अवतामिति शेषः । सभावचनं यथा—यः—जनः, मा—मां सभां न विद्यात्—न जानीयात्, सः—जनः, मा—मां सभाम्, उपतिष्ठेत्—उपासीत । ततः शंसथे— सम्भाषणाय, सचेतनः—सुबुद्धिः, भवतु—अस्तु ।

पर्षदमेत्य जपेत्— अभिभूरहमागमविराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जनः इति । ४

पर्षदं—सभाम्, एत्य—आगत्य, जपेत् 'अभिभू'रिति । मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, पर्षत्, सभोपस्थाने) आः—सम्बोधने, अभिभू —परेषाम् अभिभवनशीलः, अविराट्—विरुद्धतया राजते इति विराट्—रुद्धवीर्य्यः, न विराद् आवराट् अरुद्धवीर्य इत्यर्थः । अप्रतिवाशी— प्रातवादिशून्यः, अहम् आगम्— आगतोस्मि । अस्याः— पर्षदः— सभायाः, ईशानः—प्रभुः, दुस्तरः—उग्रः अपि मयि सहसा—त्वरितं, सुजनः — शोभनजनः अस्तु । सभापतिः मम अनुकूलो भवत्वित्यर्थः ।

स यदि मन्येत क्रुद्धोयमिति तमभिमन्त्रयते— या त एषा ररात्या तनूर्मन्योः क्रोधस्य नाशनी, तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः ॥ द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि । गर्भमश्वतर्य्यसहासाविति ॥ ५

( २०६ )

सः—सभां प्रविष्टो जनः यदि अयम्—सभापतिः क्रुद्ध इति जानीयात् तं—क्रुद्धम्, अभिमन्त्रयते—अभिलक्ष्य मन्त्रयते क्रोधापनयाय 'या त' इत्यादिना।

मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता, क्रोधापनयने) हे—अमुकनामन् सभापते! ते सभापतेः, या एषा सम्प्रति—वर्त्तमाना, रराट्या—ललाटे भवा, नाशनी—चतुर्वर्गनाशकारिणी ममसंहारकारिणी वा, मन्योः—दीप्तस्य क्रोधस्य तनूः—शरीरम् अस्ति ताम्, सुमेधसः—सुबुद्धयः, देवाः—इन्द्रादयः, ब्रह्मचारिणः—सनकाद्याः मुनयश्च, विनयन्तु—अपनयन्तु। अहं—स्तोता, द्यौः—आकाशरूपः सर्वविरक्तत्वेनातिप्रशस्त इत्यर्थः। पुनश्च अहं पृथिवी—पृथिवीरूपः सर्वसहिष्णुरित्यर्थः। आघाते कृते आकाशः पीडां न लभते पृथिवी पीडां लब्ध्वापि सहते इत्यनयोर्भेदः। तौ—द्यावापृथिव्यौ, अर्थात् तद्रूपोऽहं ते—तव, क्रोधं—कोपं नयामसि—अपनयामि, यथा गर्भम् असह्या—असहमाना, अश्वतरी अमार्गेण गर्भं मुञ्चति। तथाहं ते कोपमचिरादपनयामीति भावः।

अथ यदि मन्येत द्रुग्धोऽयमिति तमभिमन्त्रयते—

तां ते वाचमास्य आदत्ते हृदय आदधे यत्र यत्र निहिता।
वाक् तां ततस्तत आददे यदहं ब्रवीमि तत् सत्यमधरो मत्त्वं ह्यस्वेति। ६

अथ—सभाप्रवेशानन्तरं यदि सभाप्रविष्टः अयम्—सभापतिः, द्रुग्धः—द्रोहकर्त्ता इति मन्येत—जानीयात् तर्हि तं—सभापतिमभिमन्त्रयते—अभिलक्षीकृत्य मन्त्रयते 'तां ते वाच'मित्यादिना मन्त्रेण।

मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, ईशः, वशीकरणे) हे सभेश! भवान् तां—मद्द्रोहकारिणीं, वाचं—गिरम्, आस्ये—मुखे, आदत्ते—धारयति। तां वाचं ते—तव हृदये, आदधे—अप्ररूढत्वेन स्थापयामि। ते यत्र यत्र—येषु येषु स्थानेषु वाक् निहिता तां वाचं ततः ततः—तस्मात् तस्मात् स्थानात्, आददे—गृह्णामि, मम वशीभूतां करोमीत्यर्थः। अहं

( २०७ )

यद् ब्रवीमि—वदामि, तत्सत्यं—यथार्थमस्तु । त्वं—सभेशः, द्य—अद्य, मत्—मत्तः, अधरः—नीचः, स्व—भव अर्थात् मदधीनो भव । अथवा त्वं मत्तः अधरः सन् तां द्रोहकारिणीं वाचं स्वयमेव द्यस्व—अवखण्डय ।

एतदेव वशीकरणम् । ७

एतत्—“तां ते वाच”मित्यादिना अभिमन्त्रणम् एव वशीकरणम्— अत्रशस्तं वशीकरणसाधनम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे त्रयोदशी कण्डिका ॥

—808—

( रथारोहणम् ) अथातो रथारोहणम् । १

अथ—इदानीं कार्यार्थं जिगमिषोः—द्विजस्य यतः यानारोहणम- पेक्षितमतो रथारोहणमुच्यते ।

युंक्तेति रथं सम्प्रेष्य युक्त इत्युक्ते “सा विराडित्येत्य चक्रे अभिमृशति । २

स्वामी सारथि, रथं—यानं युक्त इति सम्प्रेष्य—आदिश्य, रथः युक्तः इति सारथिना उक्ते—कथिते सति “सा विराट्” इत्यनेन मन्त्रेण रथसमीपम्, एत्य—आगत्य, चक्रे—रथाङ्गे, अभिमृशति—स्पृशति । “सा विराडि”ति रथसमीपमागमनमन्त्रः ।

रथन्तरमसीति दक्षिणम् । ३

“रथन्तरमसी”ति मन्त्रेण दक्षिणं चक्रमभिमृशति ।

बृहदसीत्युत्तरम् । ४

“बृहदसि” इति मन्त्रेण उत्तरं चक्रमभिमृशति ।

वामदेव्यमसीति कूबरीम् । ५

‘वामदेव्यमसि’ इति मन्त्रेण कूबरीम् ईषादण्डम् अभिमृशति ।

( २०८ )

हस्तेनोपस्थमभिमृशति—

अङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनु सञ्चरन्तौ । दूरेहेतिरिन्द्रियवान् पतत्रि तेनोऽग्नयः पप्रयः पारयन्त्विति ॥ ६

हस्तेन—दक्षिणहस्तेन, उपस्थं—रथमध्यस्थम् उपवेशनस्थानम्, अभिमृशति—स्पृशति "अङ्कौ न्यङ्का"विति मन्त्रेण ।

मन्त्रार्थः—(प्रजापतिः, त्रिष्टुप्, अङ्गम, अभिमर्शने) यौ—प्रसिद्धौ, अङ्कौ—अङ्काख्यगणपौ अग्निविशेषौ, तथा न्यङ्कौ—न्यङ्काख्यगणपौ अग्निविशेषौ, रथम् अभितः—रथस्य सर्वतः रक्षकत्वेन ध्वान्तं—दुर्गमं, वाताग्रं—वायुमुखम्, अनु—अनुसृत्य, सञ्चरन्तौ—भ्रमन्तौ वर्त्तेते, पुनश्च दूरेहेतिः—बृहज्जवालः अग्निः इन्द्रियवान्—इन्द्रियानुग्राहकः अग्निः, पतत्रि— पतनशीलमग्निवृन्दम्, ते एते प्रसिद्धाः, पप्रयः—मनोरथपूरणकारिणः अग्नयः, नः—अस्मान्, पारयन्तु—अभीष्टदेशं प्रापयन्तु इत्यर्थः ।

नमो माणिचरायेति दक्षिणं धुर्यं प्राजति । ७

दक्षिणं—दक्षिणहस्तदिशायां रथेयुक्तं धुर्य्यम्—अश्वं वृषभं वा धुरियुक्तं वाहं प्राजति—प्रतोदेन गमनाय प्रेरयति, हस्तेन "नमो माणिचराय" इति मन्त्रेण "माणिचरः रथाधिष्ठात्री देवता" तूष्णीं वामवाहप्राजनम् ।

अप्राप्य देवताः प्रत्यवरोहेत् सम्प्रति ब्राह्मणान् मध्ये गा अभिक्रम्य पितॄन् । ८

रथेन गमनकाले मार्गे यत्र हरिहरप्रभृतयः देवताः भवन्ति तत्र ताः देवताः—देवप्रतिमाः देवमन्दिराणि वा, अप्राप्य—प्राप्तिपूर्वत एव, प्रति अवरोहेत्—ताः देवताः प्रति अवरोहणं कुर्यात्, रथादवतीर्य पदातिर्भूत्वा गच्छेत् इत्यर्थः । तथा ब्राह्मणान्—प्राप्य संप्रति— निकटे अवरोहेत् । गाः—सुरभीः प्राप्य मध्ये—तासां मध्ये अवरोहेत्, पितॄन्—पित्रादीन् मान्यान् प्राप्य, अभिक्रम्य—अभिमुखमेत्य अवरोहेत् ।

( २०६ )

न स्त्रीब्रह्मचारिणौ सारथी स्याताम् । ६

स्त्री—नारी, ब्रह्मचारी—नैष्ठिकः, उपकुर्वाणकश्च तौ—स्त्री-ब्रह्मचारिणौ सारथी न स्याताम्—न भवेताम् ।

मुहूर्त्तमतीयाय जपेदिहरतिरिहरमध्वम् । १०

देवतादिसमीपे मुहूर्त्तं—क्षणम्, अतीताय—अतिवाह्य 'इहरति'-रित्यादिमन्त्रं जपेत् ।

एके मास्त्विजहरतिरिति च । ११

एके आचार्याः 'मास्त्विवह रति'रितिमन्त्रं जपेदिति मन्यन्ते ।

स यदि दुर्बलरथः स्यात्तमास्थाय जपेत्—
अयं वामश्विना रथो मा दुर्गे मा स्तरोरिषदिति । १२

सः—रथारोही, यदि—चेत्, दुर्बलरथः—दुर्बलः—अदृढः रथः यस्य स दुर्बलरथः स्यात्—भवेत् तर्हि तं रथम्, आस्थाय—आरुह्य "अयं वामश्विना" इत्यादि मन्त्रं जपेत् ।

मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, अश्विनौ. जपे) हे अश्विना—हे अश्विनौ, वां—युवयोः, अयं रथः दुर्गे—विषमस्थाने, स्तरः—हिंसकात्, मा—मां, मारिषत्—मा हिंसिष्ट । मार्गे रथभङ्गो न भवतु इति सारः ।

स यदि भ्रम्यात् स्तम्भमुपस्पृश्य भूमिं वा जपेत्—
एष वामश्विना रथो मा दुर्गे मा स्तरो रिषदिति । १३

सः—रथः, यदि—चेत्, भ्रम्यात्—वक्रगमनं कुर्यात्, तदा स्तम्भं—रथध्वजदण्डं भूमिं वा उपस्पृश्य "एष वा"मित्यादि जपेत् ।

तस्य न काचनार्त्तिर्न रिष्टिर्भवति । १४

तस्य—एवं जपतः न काचित् आर्त्तिः—पीडा, न च काचित् रिष्टिः—यात्राविघ्नः भवति ।

यात्वा ध्वानं विमुच्य रथं यवसोदके दापयेदेष उ ह वाहनस्यापह्नव इति श्रुतेः । १५

( २१० )

यात्वा—गत्वा उद्दिष्टदेशप्राप्त्यनन्तरमित्यर्थः । अध्वानं—मार्गं, विमुच्य—मुक्त्वा, मार्गात् वहिः रथं संस्थाप्य इत्यर्थः । रथं—रथयुक्तं वाहं, यवसोदके—यवसं च उदकं च यवसोदके घासपानीये, दापयेत्—भृत्यैः दापयेत्, भृत्याभावे स्वयं दद्यात् । अत्र श्रुतिं दर्शयति एष इति—उ—निश्चये सम्बोधने वा एष घासोदकदानादिः, वाहनस्य—अश्वादेः, अपह्रवः—क्षमापनं, इति श्रुतेः—श्रुतिवचनात् । ह एवार्थे ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे चतुर्दशी कण्डिका ॥


( हस्त्याद्यारोहणम् )

अथातो हस्त्यारोहणम् । १

अथ—सम्प्रति, रथारोहणानन्तरं यतः हस्त्यारोहणमपि कदाचित् अपेक्षितं भवति, अतः—अस्मात् कारणात् हस्त्यारोहणमुच्यते ।

एत्य हस्तिनमभिमृशति—
हस्तियशसमसि हस्तिवर्चसमसीति । २

एत्य—हस्तिसमीपमागत्य, हस्तिनं—गजम् आरोहणार्थं सज्जीकृतम्, अभिमृशति—आलभते 'हस्तियशसमसीति' मन्त्रेण ।

मन्त्रार्थः—(ब्रह्मा, यजुः, हस्ती, स्पर्शने) हे हस्तिन् ! हस्तिनाम्—गजानाम् ऐरावतत्त्वादिकं यत् यशः त्वं तद्रूपोऽसि, हस्तिनां यद् वर्चः—दीप्तिः तद्रूपोऽसि ।

अथारोहति—
इन्द्रस्य त्वा वज्रेणाभितिष्ठामि स्वस्ति मा संपारयेति । ३

अथ—अभिमर्शनानन्तरम्, आरोहति हस्तिनम् 'इन्द्रस्य त्वे'ति मन्त्रेण ।

मन्त्रार्थः—(ब्रह्मा, यजुः, इन्द्रः, आरोहणे) हे हस्तिन् ! त्वा—त्वां गजम्, इन्द्रस्य—देवराजस्य, वज्रेण—आयुधेन सह, अभितिष्ठामि—

( २११ )

आरोहामि अर्थात् अहमिन्द्रो भूत्वा त्वामारोहामि। त्वं च मा—माम्, आरोहिणं, स्वस्ति - निर्विघ्नेन, संपारय—लक्ष्यस्थानं प्रापय।

एतेनैवाश्वारोहणं व्याख्यातम्। ४

एतेन—उक्तेन हस्त्यारोहणेन अश्वारोहणं कर्म व्याख्यातम्—उक्तम्। अतः अश्वसमीपं गत्वा 'अश्वयशसमसि अश्ववर्चसमसी'ति जपेत्। ततः “इन्द्रस्य त्वे”ति मन्त्रेण आरोहेदिति फलितम्।

उष्ट्रमारोक्ष्यन्नभिमन्त्रयते— त्वाष्ट्रोऽसि त्वष्टृदैवत्यः स्वस्ति मां संपारयेति। ५

उष्ट्रम्—क्रमेलकम्, आरोक्ष्यन्— आरोहणं करिष्यमाणः अभिमन्त्रयते—अभिमुखः सन् मन्त्रं पठति 'त्वाष्ट्रोऽसीति'।

रासभमारोक्ष्यन्नभिमन्त्रयते— शूद्रोऽसि शूद्रजन्माग्नेयो वै द्विरेताः स्वस्ति मा संपारयेति। ६

रासभम्—गर्दभम्, आरोक्ष्यन्—आरोहणं करिष्यमाणः “शूद्रोऽसी”ति अभिमन्त्रयते—अभिमुखः सन् मन्त्रं पठति।

मन्त्रार्थः—(विश्वामित्रः, पङ्क्तिः, रासभः, आरोहणे) हे रासभ ! त्वं शूद्रः—हीनः, असि—भवसि, त्वं शूद्रजन्मा—शूद्रं शोकावहं जन्म यस्य तथाभूतः असि। आग्नेयः—अग्निदैवत्यः असि। तथा द्विरेताः—द्विप्रकारकजीवमिश्रितोऽसि। एतेन अत्र गर्दभपदम् अश्वतरपरं ज्ञायते, यतः अश्वात् गर्दभ्यामुत्पन्नः अश्वतरो भवति। सः त्वं मा—मां सम्पारय—लक्ष्यदेशं प्रापय।

पन्थानमभिमन्त्रयते— नमो रुद्राय पथिषदे स्वस्ति मा संपारयेति। ७

सूत्रार्थः सुगमः। पथि सीदति—तिष्ठतीति पथिषत्तस्मै रुद्राय नमः।

( २१२ )

चतुष्पथमभिमन्त्रयते—
“नमो रुद्राय चतुष्पथसदे स्वस्ति मा संपारयेति । ८
चतुष्पथे सीदति—तिष्ठतीति चतुष्पथसत् तस्मै रुद्राय नमः ।

नदीमुत्तरिष्यन्नभिमन्त्रयते—
नमो रुद्रायाप्सुषदे स्वस्ति मा संपारयेति । ६
अप्सु—जले सीदति—तिष्ठतीति अप्सुषत् तस्मै ।

नावमारोक्ष्यन्नभिमन्त्रयते—सुनावमिति । १०
नावमारोढुमिच्छन् “सुनाव” मिति मन्त्रं पठेत् ।
मन्त्रो यथा— (यज्ञदैवत्या गायत्री)

सुनावमारुहेयमस्स्रवन्तीमनागसम् ।
शतारित्राꣳ स्वस्तये ॥ (शु. य. २१-७)

उत्तरिष्यन्नभिमन्त्रयते सूत्रामाणमिति । ११
प्रकरणात् नौकात् अवतरीतुमिच्छन् ‘सूत्रामाण’ मितिमन्त्रं पठेत् ।
मन्त्रो यथा— (अदितिः, त्रिष्टुप्, गयःप्लातऋषिः)

सूत्रामाणं॑ पृथिवीं द्यामनेहसं॒ सुशर्माणं॑ द्यामदितिं॒ सुप्रणीतिम् ।
दैवीं नावं॒ स्वरित्रामनागसमस्रवन्तीमारुहेमा स्वस्तये । (शु य २१-६)

वनमभिमन्त्रयते—
नमो रुद्राय वनसदे स्वस्ति मा संपारयेति । १२
वनप्रवेशमिच्छन् वनं मन्त्रयते “नमो रुद्रायेति” ।

गिरिमभिमन्त्रयते—
नमो रुद्राय गिरिशदे स्वस्ति मा संपारयेति । १३
गिरि—पर्वतमारोढुमिच्छन् “नमो रुद्राये”ति मन्त्रयेत् ।

श्मशानमभिमन्त्रयते—
नमो रुद्राय पितृषदे स्वस्ति मा संपारयेति । १४

( २१३ )

श्मशानं—प्रेतदहनभूमिम् । पितृषदे—श्मशानवासिने । अन्यत् स्पष्टम् । गोष्ठमभिमन्त्रयते— नमो रुद्राय शकृत्पिण्डसदे स्वस्ति मा संपारयेति । १५ गोष्ठं—गोवाटम् । शकृत्पिण्डसदे—गोमयपिण्डवासिने । अन्यत् स्पष्टम् । यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूया- द्रुद्रो ह्येवेदꣳ सर्वमिति श्रुतेः । १६ यत्र—येषु केषुचित् स्थानेषु कार्येषु वा अनुक्तेषु प्रविशन् पूर्वं "नमो रुद्राय" इति ब्रूयात्—वदेत् एव—अवधारणे, पश्चात् कर्म कुर्यात् । हि—यस्मात्, इदं—दृश्यमानं जगत्, सर्वम्—अखिलं रुद्र एव इति श्रुतेः—वेदवचनात् ।

—--—

( नैमित्तिकदोषनिवारणम् )

सिचावधूतोऽभिमन्त्रयते— सिगसि न वज्रोऽसि नमस्ते अस्तु मा मा हिंसीरिति । १७ सिचा - वस्त्रप्रान्तेन, अवधूतः— तद्वाताहतः, वस्त्रप्रान्तम् अभिमन्त्रयते—सिगसीति । मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता) अर्थः सुगमः । स्तनयित्नुमभिमन्त्रयते— शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्त्वर्तूंꣳ सृजसि वृत्रहन्निति । १८ स्तनयित्नुं—गर्जन्तं मेघम् अभिमन्त्रयते "शिवो न" इत्यादिना मन्त्रेण । मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, इन्द्रः वज्रवारणे) हे वृत्रहन्— इन्द्र ! वर्षाः—वृष्टिकालाः तदुपलक्षिताः वृष्टयोऽपि नः—अस्माकं,

( २१४ )

शिवाः—मङ्गलकराः, सन्तु—भवन्तु । हेतयः—तव आयुधानि नः शिवाः सन्तु । पुनश्च त्वं याः—हेतीः सृजसि—क्षिपसि, ताः नः शिवाः सन्तु । अस्मज्जिघांसुव्याघ्रसाहसिकतस्करादीन् घ्नन्तु इति तात्पर्यम् ।

शिवां वाश्यमानामभिमन्त्रयते—

शिवो नामेति । १६

वाश्यमानां—शब्दं कुर्व्वाणां, शिवां—शृगालीमभिमन्त्रयते—'शिवो नामे'ति मन्त्रेण । शृगालीशब्दं श्रुत्वा मन्त्रं जपतीत्यर्थः । अयं मन्त्रः का २-१-११ सूत्रव्याख्याने दर्शितः ।

शकुनिं वाश्यमानमभिमन्त्रयते—

हिरण्यपर्णं शकुने देवानां प्रहितं गम ।
यमदूत नमस्तेऽस्तु किन्त्वा कार्कारिणोऽब्रवीदिति । २०

वाश्यमानं—कूजन्तं, शकुनिं—कृष्णकाकमभिमन्त्रयते हिरण्यपर्णेति ।

मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता) हे हिरण्यपर्ण !—गरुडवत् शीघ्रग, हे शकुने ! हे देवानां प्रहितं गम—देवदेशितस्थानगामिन् अथवा शुभाशुभफलप्रकाशक, हे यमदूत ! ते—तुभ्यं, नमः अस्तु । त्वा—त्वां कर्कारिणः—तव प्रभुः—तव बन्धुर्वा किमब्रवीत् । अत्र कार्कारिणः इति द्वितीयार्थे षष्ठीति केचित् । तत्पक्षे काकजात्यनुरूपः शब्दः कार्कारः, स अस्यास्तीति कार्कारी, तं कार्कारिणं त्वां यमः किमब्रवीत् इति ।

लक्षण्यं वृक्षमभिमन्त्रयते—

मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः ।
अङ्कूरास्ते प्ररोहन्तु निवाते त्वाभिवर्षतु ॥
अग्निष्टे मूलम्मा हिठ्ंसीत् स्वस्ति तेऽस्तु वनस्पते ।
स्वस्ति मेऽस्तु जनस्पत इति । २१

( २१५ )

लक्षण्यं—मङ्गल्यं, प्रसिद्धं वा यत्प्रसिद्ध्या ग्रामस्यापि प्रसिद्धि- र्भवति, तं वृक्षं—तरुम् आम्रादिकं, दृष्ट्वा—प्राप्य अभिमन्त्रयते— अभिमुखः सन् मन्त्रं पठति, "मा त्वाशनि"रिति ।

मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, वनस्पतिः, रक्षणे) हे वनस्पते— वृक्ष ! त्वा—त्वाम्, अशनिः—वज्रं मा हिंसीत्—न नाशयतु । परशुः— कुठारः, वातः—प्रबलो वायुः, राजप्रेषितो दण्डः—राजोपद्रवश्च, एते त्वां न नाशयन्तु । ते—तव, अङ्कुराः—पल्लवाः प्ररोहन्तु—उद्गच्छन्तु । निवाते—प्रबलवायुरहिते काले देवेन्द्रः त्वा—त्वामभिवर्षतु-तव अनुकूलत्वेन वर्षतु । अग्निः—वनाग्निः, ते-तव मूलं मा हिंसीत्, सर्वथा ते-तव वृक्षस्य स्वस्ति—कल्याणम् अस्तु—भवतु । हे वनस्पते ! मे—मम मन्त्रं जपतः, स्वस्ति—कल्याणमस्तु—भवतु । तव कल्याणेन ममापि कल्याणमस्तु । एतेन वृक्षमनुष्ययोः परस्परकल्याणसाधकत्वं प्रदर्शितम् ।


( प्रतिग्रहविधानम् )

स यदि किञ्चिल्लभेत तत् प्रतिगृह्णाति— द्यौ स्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति । २२

सः-द्विजः, यदि-चेत्, किञ्चित्-किमपि वस्तु गोहिरण्यादिकं लभेत-प्राप्नुयात् तदा तत्-प्राप्तं वस्तु प्रतिगृह्णाति-स्वीकरोति । “द्यौस्त्वे”त्यादिना मन्त्रेण । प्रतिग्रहानन्तरं मन्त्रपाठ इति हरिहरः ।

मन्त्रार्थः—(प्रजापतिः, उष्णिक्, दक्षिणा, प्रतिग्रहे) हे दक्षिणे ! द्यौः-आकाशाभिमानिनी देवता, त्वा—त्वां दक्षिणां, ददातु—प्रयच्छतु । यजमानः देवरूपः भूत्वा ददातु इति भावः । पृथिवी—सर्वंसहा धरणी, त्वा—त्वां दक्षिणां, प्रतिगृह्णातु—स्वीकरोतु । मनुष्यः पृथिवीरूपः गृह्णातु इति भावः । सर्वत्र हि देवा दातारः मनुष्याः प्रतिग्रहीतारः भवन्ति । आकाशो हि जलादिकं ददाति पृथिवी गृह्णाति ।

( २१६ )

साऽस्य न ददतः क्षीयते । भूयसी च प्रतिगृहीता भवति । २३

सा—अनया रीत्या दत्ता दक्षिणा—ददतः—दातुः, अस्य—यजमानस्य न क्षीयते अपितु वर्धते इत्यर्थः । प्रतिगृहीता—प्रतिग्रहधर्मेण लब्धा दक्षिणा, प्रतिग्रहीतुः भूयसी—प्रचुरा भवति । अत्र चकारः समुच्चयार्थः ।

अथ यद्योदनं लभेत तत् प्रतिगृह्य द्यौस्त्वेति तस्य द्विः प्राश्नाति— ब्रह्मा त्वाश्नातु ब्रह्मा त्वा प्राश्नात्विति । २४

अथ—कदाचित्, यदि—चेत्, ओदनं—भक्तं लभेत—प्राप्नुयात् तर्हि तं "द्यौस्त्वे"ति मन्त्रेण प्रतिगृह्य—स्वीकृत्य, तस्य—लब्धस्य, ओदनस्य, द्विः—द्विवारं, प्राश्नाति—अत्ति । "ब्रह्मा त्वाश्नातु" इति प्रथमम् । "ब्रह्मा त्वा प्राश्नातु" इति द्वितीयम् ।

अथ यदि मन्थं लभेत द्यौस्त्वेति तत् प्रतिगृह्य तस्य त्रिः प्राश्नाति "ब्रह्मा त्वाश्नातु" "ब्रह्मा त्वा प्राश्नातु" "ब्रह्मा त्वा पिबत्वि"ति । २५

अथ—कदाचित्, यदि—चेत्, मन्थं—दधिदुग्धजलानामन्यतमेन मिश्रं सक्तुं लभेत—प्राप्नुयात् तदा "द्यौस्त्वेति" मन्त्रेण प्रतिगृह्य तस्य—मन्थस्य, त्रिः—त्रीन् वारान्, प्राश्नाति—अद्यात्, "ब्रह्मा त्वे"-त्यादिभिः त्रिभिर्मन्त्रैः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे पञ्चदशी कण्डिका ॥

— ४०४—

( २१७ ) ( अधीताविस्मरणोपायः )

अथातोऽधीत्याधीत्यानिराकरणम् । १

अथ—इदानीम्, अधीत्य अधीत्य—पठित्वा पठित्वा, अनिराकरणम्—अपरित्यागः कर्त्तव्यः वक्ष्यमाणमन्त्रेण अङ्गालम्भनेन ।

प्रतीकं मे विचक्षणं जिह्वा मे मधु यद् वचः ।
कर्णाभ्यां भूरि शुश्रुवे मा त्वर्त् हार्षीः श्रुतं मयि ॥ २ क

मन्त्रार्थः— ( परमेष्ठी, गायत्री, अङ्गानि, आलम्भने ) मे—मम, प्रतीकं—मुखं, विचक्षणं—विविधं चष्टे इति विचक्षणः तादृशमस्तु, अर्थात् शुद्धशब्दोच्चारणं करोतु । मे—मम, जिह्वा, यद्वचः—यादृशं वचनं, मधु—मधुमयं, तत् वदतु इति शेषः । कर्णाभ्याम् अहं भूरि—बहु सम्यक्तया । शुश्रुवे—शृणुयाम् । हे वेदपुरुष ! मयि—पाठके, यत् श्रुतम् अधीतं शास्त्रं वर्त्तते, तत् त्वं मा हार्षीः—नापहरं ।


ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि, ब्रह्मकोशोऽसि
सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश ।
वाचा त्वापिदधामि वाचात्वापिदधामि ॥ २ ख

त्वं मम विषये ब्रह्मणः—वेदस्य, प्रवचनं—पाठनं, पाठतं व्याख्यानं वा, असि—भवसि, भव इत्यर्थः । अत्र सर्वत्र एधिपदार्थे असिपदं प्रयुक्तम् । तथा ब्रह्मणः — वेदस्य प्रतिष्ठानं—स्थितिः असि—भव । पुनश्च मयि

( २१८ )

ब्रह्मणः—वेदस्य कोशः—समूहः असि । पुनश्च सूनिः—सम्भजनीयं समं जीवनं वा असि । तथा शान्तिः—अनिष्टस्य शमनमसि । अनिराकरणम्—अविस्मरणम् असि—भव । मे—मम, ब्रह्मकोशं—हृदयं, विश—प्रविश । सर्वेषां वेदानां हृदयमेकायनमिति श्रुतेः । त्वां—त्वां वेदपुरुषं, वाचा——गिरा, अपिदधामि—च्छादयामि । आवृत्तिरादरार्था दार्ढ्यार्था वा ।

स्वरकरणकण्ठ्योरसदन्त्यौष्ठ्यग्रहणधारणोच्चारणशक्तिर्मयि भवतु । आप्यायन्तु मेऽङ्गानि वाक् प्राणश्चक्षुःश्रोत्रं यशो बलम् ॥ २ ग

स्वराः— उदात्तानुदात्तस्वरिताः, करणानि— शब्दाभिव्यक्तेः साधनानि उरःकण्ठशिरोजिह्वामूलदन्तनासिकोष्ठतालूनि अष्टौ, कण्ठ्याः— कण्ठे भवाः अवर्णहकारकवर्गविसर्गाः, औरसाः—उरसि भवाः, हकार-सहिताः वर्गपञ्चमान्तस्थाः, दन्त्याः—दन्तेषु भवाः । लृ वर्णतवर्गसकाराः, ओष्ठ्याः—ओष्ठयोः भवाः, उवर्णपवर्गोपध्मानीयाः, एतेषां ग्रहणम्— उपादानं, धारणं—स्थिरीकरणम्, उच्चारणं—प्रयोगः, एतेषु कर्मसु मयि शक्तिः—सामर्थ्यं, भवतु—अस्तु । मे—मम, अङ्गानि—गात्राणि, आप्यायन्तु—वर्द्धन्ताम्, तथा वाक्—वाक्शक्तिः, प्राणः—जीवनशक्तिः, घ्राणेन्द्रियं वा, चक्षुः—दर्शनेन्द्रियं, श्रोत्रं—श्रवणेन्द्रियं, यशः—कीर्त्तिः, बलं—शारीरं सामर्थ्यं च, एतानि अपि आप्यायन्तु ।

यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु । २

( इतिश्रीपारस्कराचार्यकृतं कातीयगृह्यसूत्रं समाप्तम् । )

मे—मया, यत् श्रुतम्—ऋगादि, यच्च अधीतं—मीमांसादि

तृतीयकाण्डे षोडशी कण्डिका॥

( २१६ )

यज्ञानुष्ठानादि वा, तत् सर्वं, मे—मम, मनसि—हृदये, तिष्ठतु-स्थिरतया वर्त्तताम्, कदाचिदपि नापगच्छतु। तिष्ठत्विति वीप्सा ग्रन्थसमाप्त्यर्था।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे षोडशी कण्डिका॥


वासुदेव पुरात् प्राज्ञो यज्वा सर्वस्वदानकृत्,
हारिद्रदुर्गमासाद्य तद्भूंपेन प्रपूजितः। १।

ततोष्टमः शतानन्दो नीलाम्बरसुतः सुधीः।
तत्पुत्रः श्याममिश्रश्च महर्षिप्रतिमोभवत् । २।

तदात्मजो वैद्यनाथो देवातिथिपरायणः।
तत्पुत्रो लोकधर्मज्ञो गदाधर इतीरितः। ३।

मिथ्यावादं परद्वेषं परस्वहरणं तथा।
भीतिं परान्नप्रीतिं च यश्च स्वप्नेऽपि नाचरात् । ४।

तस्य धर्मनिधानस्य ज्येष्ठपुत्रो वृथाह्वयः।
नाम्ना कुलमणिमिश्रोपाह्वः शम्भुकराह्वयः। ५।

पारस्कराचार्यगृह्यसूत्रव्याख्यानमादधात्।
बालानां सुप्रवेशाय क्षेत्रे श्रीपुरुषोत्तमे । ६।

( २२० )

गुरूणामाशिषा येषां जाड्यं किंचिदपानुदम् ।
सदा पुनन्तु मां तेषां पादपद्मरजःकणाः । ७ ।

यदाज्ञया जगत्सर्वं कर्मचक्रे प्रवर्त्तते ।
तत्पादयोरियं मार्गदर्शिनी दिश्यते मया । ८ ।

इति श्रीकुलमणिमिश्रशर्मकृतायां पारस्करगृह्यसूत्रव्याख्यायां
मार्गदर्शिन्यां तृतीयः काण्डः समाप्तः ॥

॥ समाप्तोऽयं ग्रन्थः ॥

— ४०४ —

पारस्करगृह्यसूत्रस्थसूत्राणामनुक्रमणिका

सूत्राणिका.क.सू.पृष्ठाङ्काःसूत्राणिका.क.सू.पृष्ठाङ्काः
अग्नये स्वाहा१।९।४४२अथ यद्योदनं३।१५।२४२१६
अग्निरैतु१।५।११२८अथ यवाना-३।१।६१४६
अग्निर्भूतानाम्१।५।१०२७अथ वृषोत्सर्गः३।९।११८१
अग्ने प्रायश्चि-१।११।२४६अथ सीतायज्ञः२।१७।११३६
अग्न्याधेय-१।२।७अथ सीमन्तोन्नयनम्१।१५।१५५
अग्ग्र्यमभिषिच्या२।१३।८१२६अथातः पञ्च२।९।१११२
अजातलोम्नीं२।७।१११०९अथातः शाला३।४।११६३
अञ्जनानुलेपनम्२।४।१२१३०अथातः शीर्ष३।६।११७४
अत ऊर्ध्वं पति-२।५।३९९८अथातः श्रवणा२।१४।११२७
अतीतरुचे३।१०।४४१९६अथातः सभाप्र३।१३।१२०४
अत्र भिक्षाचर्य२।५।१९२अथातो गृह्य१।१।१
अत्र समिदाधा२।४।१८९अथातोऽधीत्या-३।१६।१२१७
अथ कामोदका३।१०।४५१९६अथातोऽध्यायो२।१०।१११५
अथ गाथां१।७।२३३अथातो मणिका३।५।११७३
अथ दक्षिणतो गोपा३।४।१६१७१अथातो रथा३।१४।१२०७
अथ दक्षिणतोऽनिमिरा१।७।१५१४०अथातोऽवकीर्णी३।१२।१२०२
अथ परिक्रामतः१।७।३३४अथातो हस्त्या३।१५।१२१०
अथ पश्चात् त्यायु१।७।१५७७अथात्र नवनीत२।१।८७५
अथ पश्चादाभुवः२।१७।१६१४१अथापरमाज्या३।१२।९२०३
अथ पश्चादी३।४।१७१७१अथारोहति३।१५।३२१०
अथ पुंसवनम्१।१४।१५३अथाववधनीते२।६।१९१०५
अथ प्रविशति३।१३।३२०४अथावरावप१।१६।२५८
अथ प्राश्नाति३।१।४१४५अथास्मै सावित्री२।३।३८७
अथ यदि मन्थं३।१५।२५२१६अथास्य दक्षिणं हस्तं२।२।१९८५
अथ यदि मन्येत३।१३।६२०६अथास्य दक्षिणां सं८५
अथ यद्युत्तिसृक्षे१।३।२९१७अथास्य मातर१।१६।१५६७

( II )

सूत्राणिका.क.सू.पृष्ठाङ्कःसूत्राणिका.क.सू.पृष्ठाङ्कः
अथास्य मूर्धा१।१८।३६८अधः शाय्य२।५।९९४
अथास्याङ्गिर२।२।१७[८४अधियज्ञमधि१।३।३११७
अथास्यायुष्यं१।१६।५५९अधिरथं१।८।१८४०
अथास्यै दक्षिणां१।१६।१६६३अनवेक्षमाणा३।१०।२११९१
अथास्यै दक्षिणां हस्तं१।६।३३१अनामिकया१।१६।४५८
अथास्यै दक्षिणांस१।८।८३७अनामिकाङ्गुष्ठे१।३।२०१४
अथास्यै दक्षिणां स१।११।९४९अनाहिताग्ने३।१।११४३
अथाह वीणा गां१।१५।७५६अनुगुप्तमेतं२।१।२०७९
अथेमामृचं२।११।१२१२३अनुगुप्तमेतं२।१४।१७१३१
अथैनं भूतेभ्यः२।२।२४८६अनुवातं पशु३।८।१११८०
अथैनं वासः२।२।१०८१अन्तः सूतके३।१०।६१८७
अथैनं सूर्यः२।२।१८८४अन्तरिक्षाय२।१०।५११६
अथैनमभि१।१६।१४६२अन्नपतीयया३।१।५१४६
अथैनमाह२।२।२२८५अन्नपर्याय१।१९।११७३
अथैनां वासः१।४।१३२०अन्य एताति३।१०।३३१९४
अथैनां सूर्यं१।८।७३७अन्यद् यान१।१०।२४४
अथैनां स्थाली१।११।५४८अन्यस्त्रि१।३।७१०
अथैनामभि१।८।९३८अन्वारब्ध१।५।३२५
अथैनामश्मान१।७।१३२अन्वारब्ध आज्या२।१।६७५
अथैनामुदीचीं१।८।१३५अन्वारब्ध आज्या२।३।२८७
अथैनौ समक्ष१।४।१५२१अप आसिञ्चति३।५।३१७३
अथैनौ समीक्ष१।४।१७२३अपूपमांस३।३।३१५४
अथोत्तरतः३।४।१८१७१अपूपैस्तीर्त्वा२।१५।३१३२
अथोत्तरतो२।७।१७१४१अप्राप्य देवताः३।१४।८२०८
अथोत्तरतो येन२।१।१६७७अप्सववदान३।१२।४२०२
अथोत्तरीयं य१।६।१६१०५अप्सवात्मानं२।७।१०१०९
अथोत्तरीयं या१।४।१४२१अभिमृशति१।१६।२१६६
अथोदक कर्म३।१०।११८६अभ्यन्तरतो३।४।६१६५
अथोपनिष्ठते३।१२।१०२०३अमांसाशय२।८।२१११
अद्विवर्षे प्रेते३।१०।२१८६अमावास्यायां३।१२।२२०२
अधः शयीरन्३।२।१७१५३अयास्याग्ने१।२।११

( III )

सूत्राणिका.क.सू.पृष्ठाङ्कःसूत्राणिका.क.सू.पृष्ठाङ्कः
अयुजाक्षर१।७।३६७आचार्येण२।५।२८९६
अरण्यो प्रदान१।२।५आजं गव्यं वा२।५।१८९५
अर्धं प्रति१।३।१४१२आज्यभागा२।१०।३११६
अर्धं चेदव३।६।३१७५आज्यं मुद्गा१।१।४
अर्थं षष्ठान्२।११।१०१२२आज्यं संस्कृ३।४।८१६६
अर्थं सप्त२।११।१११२२आट्या ब्रह्म१।१९।९७२
अलङ्करण२।६।२११०६आद्वाविंशा२।५।३७९८
अवज्योत्य२।८।८११२आपोहिष्ठेति१।८।६३७
अवनेज्य२।१४।२११३०आपोहिष्ठेति३।५।४१७४
अश्वो वैश्य१।८।१७४०आवसथ्यावानं१।२।१
अष्टकायै३।३।७१६०आश्वत्थेषु२।१५।५१३३
अष्ट चत्वारिं२।५।१३९४आश्वयुज्यां२।१६।११३४
अष्टवर्षं२।२।२८०आषोडशा२।५।३६९८
असम्भव२।१७।५१३६आसनमाह्य१।३।५
असावहं२।२।२१८५आहरन्ति१।३।६१०
अस्तमितानु१।९।२४२इतरयो१।२१।४७७
अस्तमिते१।८।१९४०इन्द्रं दैवी२।१५।९१३४
अहतं वासो२।६।५१०४इन्द्रं पर्जन्य२।१२।३१२५
अहरहः२।९।१६११५इन्द्रं श्रेष्ठानि१।१८।६६९
अहरहरन्न३।१०।५३१९८उतूल परिमेहः३।७।११७६
अहिंसन्नर२।५।८९३उत्तरत एकेषां१।८।४३७
आचतुर्विंशा२।५।३८९८उत्तर पूर्वस्यां३।५।२१७३
आचम्य प्राणा१।३।२६१५उत्तरिष्यन्३।१५।११२१२
आचान्तोदका१।३।२७१५उत्तरे सन्धा३।४।१४१७१
आचामत्या१।३।१६१२उत्तीर्णाञ्जिच्छो३।१०।२०१९१
आचार्य ऋत्वि१।३।२उत्साह२।६।१६१०३
आचार्याय भै२।५।८९३उत्सृष्टेष्ववभ२।११।३१२१
आचार्याय वरं१।८।१४३१उदकान्तं गत्वा२।१२।२१२४
आचार्याय वरं ददा२।१।२१७९उदगयन१।४।५१९
आचार्यायान्ते३।३।१३१६२उदपात्रं१।१६।१८६३
आचार्ये चैवं३।१०।३८१९५उदपान२।७।७१०८