परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
तस्यां तस्यां परिभाषायां यावान् विशेषो मत-मतान्तरं वा, नित्याऽनित्यत्वे बीजम्, ग्रन्थकर्तृमतसमीक्षा च उट्टङ्किता । इतः परमधिकं द्रष्टव्यं तत्र तत्र विभागे समु- ल्लिखिताः पृष्ठसंख्याः समाश्रित्य मूलग्रन्थतोऽवसेयम् । १. ( सूत्रसिद्ध ) - वाचनिको [ क ] परि० क्र० विवरणम् विशेष १२. 'षष्ठी स्थाने योगा' (पा० ७५ पृष्ठे भूतिव्याख्यायां 'केचित्तु' इत्यादिग्रन्थेन सू०१.१.४९ इति सूत्रसिद्धा । परिभाषेयं खण्डिता । 'तत्त्वप्रकाशिकायाम्' च, ✗ (७७ पृष्ठे) 'वस्तुतस्तु' इत्यादिना भाष्याभिमततया पुनर्मण्डितेयमिति ततोऽवसेयम् । १३. 'स्थानेऽन्तरतमः' (१.१.५०) इति सूत्रसिद्धा । ✗ ✗ १४. 'स्वं रूपं शब्दस्या०(१.१.६९) शास्त्रीयन्यायसिद्धाऽपीयम् ; विशिष्टरूपोपादाने इति सूत्रसिद्धा । उपस्थितार्थस्य शब्दं प्रति विशेष्यतयाऽन्वयसम्भवे त्यागे मानाभावः' इति युक्तेः । एतेन भाष्यकृता 'स्वं रूपमि'ति सूत्रस्य प्रत्याख्यानादस्याः स्वीकारे किं बीजमित्यपास्तम् । १८. 'स्वरितेनाधिकारः' ज्ञापकसिद्धाऽपीयम्, एचोऽयवायावः (६.१.७८) इति (१.३.११) इति सूत्रसिद्धा । सूत्रे 'इको यणचि' (६.१.७७) इत्यतः 'अचि' इत्येकदेशानुवर्तनस्य ज्ञापकत्वात् । २१. 'प्रत्ययलोपे०' (१.१ ६२) वार्तिककृत्तैव इयं परिभाषा स्वीक्रियते, न तु इति सूत्रार्थप्रपञ्चभूता । भाष्यकृता । तेन च प्रत्ययलक्षणसूत्रं नियमार्थमेव अङ्गीकृतमिति १०० पृष्ठे तत्त्वप्रकाशिका द्रष्टव्या । २३. 'यस्मात् प्रत्ययविधिः०' प्रथमसूत्रेण तदाद्यन्तांशः, द्वितीयेन च तदन्तांशः (१ ४.१३) 'येन विधिः०' सिद्ध इति विवेकः । (१ १.७२) इति सूत्राभ्यां सिद्धा । २९. 'येन विधिः' इति सूत्रार्थ- परिभाषायां पदाधिकारपदेन उत्तरपदाधिकारः प्रपञ्चभूता । केवलपदाधिकारश्च ग्राह्यः । तत्रापि उत्तरपदा- धिकारस्थे 'पादस्य पदाज्याति० (६ ३.५२) इति सूत्रे पादपदेन पादान्तस्य न ग्रहणम्, लक्ष्यानुरोधात् । ३१. 'समासप्रत्ययविधौ प्रतिषेध ज्ञापकसिद्धापीयम्, 'सपूर्वाच्च' (५.२.८७) इति- उगिद्ग्रहणवर्ज्यम्' इति सूत्रस्य ज्ञापकत्वात् ।
- ११ -
परि० क्र० विवरणम् विशेषः वार्तिकस्थप्रत्ययांशानुवाद- कत्वात् सूत्र-(सूत्रोपष्टम्भक- वार्तिक)-सिद्धा । ३४. 'चार्थे द्वन्द्वः' (२.२.२९) ज्ञापकसिद्धापीयम् 'तिष्यपुनर्वस्वोः' (१.२.६३) इति सूत्रस्थ 'च'पदार्थस्य इति सूत्रस्थ-बहुवचनग्रहणस्य ज्ञापकत्वात् । (समाहारेतरेतररूपस्य) अनुवादकत्वात् सूत्रसिद्धा । ३५. 'व्यत्ययो बहुलम्' (३.१.८५) × इति सूत्रे बहुलमिति 'षष्ठी- युक्तश्छन्दसि वा' (१ ४ ९) इति सूत्रे च वाग्रहणञ्चेति योगविभागेनैषा सिद्धा । ३८. 'विप्रतिषेधे परं कार्यम्' अत्र पूर्वादिभागपञ्चकाणामुत्तरोत्तरं बलवत्त्वं (१.४.२) इति सूत्रानुवादि- बोध्यते । तत्र प्रथमभागस्य (पूर्वात् परं बलवत् केयम् । इत्यस्य) साधकत्वादियं तत्सूत्रानुवादिका बोध्या । ३९. 'विप्रतिषेधे०' इति सूत्रार्थ- सूत्रस्य विधिपरत्वमुपजीव्य सिद्धेयम् । स्य विवरणभूतत्वादियं तत्सूत्रसिद्धा । ४०. " " सूत्रस्य नियमपरत्वे सिद्धा । ( स्वतन्त्र ) वाचनिकी [ ख ] १. 'लण्' इति माहेश्वरसूत्रे (६) केचित्तु 'अइउण्' (माहे०सू० १), 'लण्'-सूत्रयो- भाष्यकृता स्फुटीकृतेयम् । र्णकारद्वयग्रहणस्य ज्ञापकत्वात् ज्ञापकसिद्धापीय- मित्याहुः । २. 'षष्ठी स्थाने योगा' इति अपेक्षाधीसहकृते तत्तद्वाक्यार्थबं धे सति दृढतर- सूत्रस्थभाष्ये 'अधिकारो संस्कारस्य जननात् वारंवारं तद्बोधस्यानपेक्षितत्वेन नाम त्रिःप्रकारः' इत्यादिना अपेक्षाबुद्धिरूप-(शास्त्रीय)-न्यायसिद्धापीयमिति सिद्धा । केचित् । ३. 'पूर्वत्रासिद्धम्' (८.२.१) इति तथैव उपेक्षाबुद्धिरूप-(शास्त्रीय)-न्यायसिद्धापीय- सूत्रस्थभाष्ये भाष्यकृता 'कार्य- मिति केचित् । कालं संज्ञापरिभाषम्' इति वस्तुतः २-३ परिभाषेऽस्वीकार्ये, निष्फलत्वात् । स्पष्टं वचनरूपेण पठिता । विस्तरस्तु १९ पृष्ठे भूतितिलके द्रष्टव्यः । १६. 'येन विधिः०' इति सूत्रस्थ- × भाष्ये वचनरूपेण पठिता । -१२-
परि० क्र० विवरणम् विशेषः २४. ‘येन विधिः०’ इति सूत्र- × भाष्ये एतद्घटकतदन्तांशस्य अपवादः पठ्यते, अत इयं वाचनिकी। २६ ‘व्यङः सम्प्रसारणम्०’ तत्र भाष्ये इयं वचनरूपेण पठिता, न तु ज्ञापक- (६.१ १३) इति सूत्रे भाष्ये मुपन्यस्तम्। अस्यां ज्ञापकन्तु ‘यस्मात् प्रत्यय- स्फुटत्वादियं वाचनिकी। विधिः०’ इति विभक्तयोगे ‘नेड्वड्वो०’ (१.४.४) इत्यतः ‘अस्त्री’ इत्यस्यानुवृत्त्या प्रसज्यप्रतिषेधात् ‘प्रधान’न्यायेन प्रधानेऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमो नेति ‘अस्त्री’ इति निषेधवचनमेव। ३३. ‘येन विधिः०’ इति सूत्रभाष्ये न तु ज्ञापकमुपन्यस्तम्। तत्र ज्ञापकं तु ‘नल्यपि’ वचनरूपेण पठिता। (६.४.६९) इति सूत्रमेव। १०३. ‘सह युक्ते०’ (२.३ १९) केचित्तु ‘तमो वरिवः०’ (३ १.१९) इति सूत्रे इति सूत्रभाष्ये सूत्रवत् ‘सह युक्ते०’ इत्यनेन द्विधा समुपन्यस्तायामस्याम् वचनरूपेण पठिता। आदिमोंऽशो वाचनिकः, अपरांशश्च ‘प्रधाना- प्रधान’न्यायमूलक इत्याहुः। तन्न; ग्रन्थकर्त्राऽस्य मतस्य खण्डनात्। १०४. ‘व्यङः सम्प्रसारणम्’ इति, ‘व्यङः सम्प्रसारणम्०’ इति सूत्रभाष्ये इयं प्रत्या- ‘अदसोऽसेः०’ (८.२.८०) ख्यातेति तु न भ्रमितव्यम्, उपसंहारे अस्या इति च सूत्रे भाष्ये पठिता। अप्रत्याख्यानात्। तथा च भाष्यम्-‘ततो वक्तव्यम्, अन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवत्युदात्तनिर्देश’ इति। १०८. ‘शाच्छोरन्यतरस्याम्’ × (७.४.४१) इति, ‘लटः शतृ०’ (३.२.१२४) इति च सूत्रभाष्ये स्पष्टा। १११. ‘अङ्गस्य’ (६ ४.१) इति एकदेश्युक्तित्वात्, इष्टसाधनाय कुत्रापि अनुपयुक्त- सूत्रभाष्ये वचनरूपेण त्वाच्च अस्वीकार्यैयमिति ग्रन्थकृतां मतम्। पठिता। १२८ ‘लिट्घभ्यासस्य०’ (६.१.१७) × इति सूत्रभाष्ये प्रत्याख्या- तत्वादियं वाचनिकी।
- १३ -
उपलभ्यते, नैवमयम्' इति न्यायसिद्धा । ११. 'देवदत्तस्य अङ्गाधिक्ये तद्वि- अनित्या अनित्यत्वञ्च 'आने मुक्' (७.२.८२) शिष्टस्यैव देवदत्तग्रहणेन ग्रह- इत्यत्र मुग्विधानसामर्थ्याद् बोध्यम् । णम्' इति न्यायसिद्धा । १५. 'लौकिकस्यास्य न्यायस्य अत्र नित्या मुख्यार्थारोपाय तदर्थस्य समुपस्थिते- तन्त्रेऽपि समाश्रयणादियं न्याय- रावश्यकतया तदर्थमादाय कृतार्थस्य सिद्धा। शास्त्रस्य गौणेऽर्थे प्रवृत्तौ मानाभाव इति हि एतन्न्यायस्वरूपम् । १७. 'एककार्यनियुक्तानां बहूनां " ज्ञापकसिद्धाऽपीयम्, 'हनः सिच्' लोके सहैवानुवृत्तिर्निवृत्तिर्वा' (१.१ १४) इत्यत्र सिच्ग्रहणस्य इति न्यायसिद्धेयम् । 'अदसो मात्' (१.२ १२) इत्यत्र माद्- [
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ३७. 'छिन्नपुच्छे शुनि श्वत्वव्यव- अनित्या 'अभीयात्' इति इष्टरूपसिद्ध्यर्थ- हारः' इति न्यायसिद्धा । मस्या अप्रवृत्तिरित्येषा अनित्या । एतदन्तं शास्त्रोद्देशाख्यं प्रथमं प्रकरणम् । ४७. ⎧ 'वालि-सुग्रीवयोर्युद्धमानयोः अनित्ये विस्तरस्तु 'स्वमोर्नपुंसकात्' (७.१.२३) ⎪ भगवता वालिनि हतेऽपि सुग्रीव- इति सूत्रभाष्यस्थे कैयटे द्रष्टव्यः । ⎪ स्य वालितः प्राबल्यं न व्यव- ⎨ हरन्ति, भगवत्सहायेः पाण्डवै- ४८. ⎪ र्जये लब्धेऽपि पाण्डवानां ⎪ प्राबल्यं व्यवहरन्ति च' इति ⎩ न्यायसिद्धे इमे । ५०. मनुष्योऽयं प्रातरुत्थाय प्रथमं अनित्या 'सम्प्रसारणाच्च' (६.१.१०८) इति स्वशरीरकार्याणि करोति, ततः सूत्रभाष्ये अस्या अनित्यत्वव्यवस्थाप- सुहृदाम्, ततः सम्बन्धिनाम्' नात् । ज्ञापकसिद्धापीयम्, 'वाह ऊठ्'- इति न्यायसिद्धा । (६.४.१३२) इति सूत्रे ऊठ्-ग्रहणस्य ज्ञापकत्वात् । ५७. सर्वथा प्रतिबद्धावकाशस्य नित्या 'पूर्वंपर०' (३८) इति परिभाषया सर्वतो बलवत्त्वदर्शनान्न विप- पूर्वपूर्वपेक्षया उत्तरोत्तरस्य बलवत्त्व- रीतशङ्कावकाशः' इति न्याय- प्रदर्शनमुखेन अन्तरङ्गस्य सर्वतो सिद्धा । बलवत्त्वमुक्तम् । अनया च अपवादानां ततोऽपि बलवत्त्वमुच्यते ग्रन्थकृते- त्यवसेयम् । ५८. 'तक्रकौण्डिन्य'-न्यायमूलिकेयम् । ,, सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्याय' इति हि तन्न्याय- स्वरूपम् । ५९. 'माठरपरिवेषण'-न्यायमूलिकेयम् । ,, 'सर्वे ब्राह्मणा भोज्यन्ताम्, माठर- कौण्डिन्यौ परिवेविष्टाम्' इति तन्न्याय- स्वरूपम् । ७१. “नहि 'अब्राह्मणमानय' इत्युक्ते ,, केचित्तु- 'ओषदधेश्च विभक्तावप्रथ- लोष्टमानीय कृती भवति' इति मायाम्' (६.१.१३२) इत्यत्र 'विभक्तौ' न्यायसिद्धा । इति अनित्यत्वमस्या द्योतयतीति । तन्न ; तस्य सिद्धार्थनुवाद एव तात्प- र्यात्, भाष्यसम्मतफलाभावाच्च ।
- १५ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ७७. 'तत्तद्वचनमामर्थ्य' न्यायसिद्धा, नित्या × 'काकवद् देवदत्तस्य गृहम्' इति लौकिकन्यायमूलकत्वादियं सिद्धेति यावत् । ७८. 'सिद्धं तु तद्गुणसंविज्ञानात् " × पाणिनेर्यथा लोके' इति भाष्य- प्रामाण्यात् इयं लौकिकन्याय- सिद्धा । ८६. 'येन स्वस्योपकृतं तस्य विरोधो- अनित्या 'कष्टाय०' (३.१.१४) इति 'न यास- ऽन्याय्यः' इति न्यायसिद्धा । (८ स्थलेषु) योः' (७.३.४५) इति च निर्देशादस्या अनित्यत्वं बोध्यम् । तानि चाष्टौ स्थलानि—१. दाक्षिः, २. क्रापयति, ३. अदीदपत्, ४. यासेति, ५. पपिवान्, ६. अग्निमान्, परमवाचा, ७. नदि कुमारी, ८. कष्टायेति । इतोऽन्यत्र प्रवृत्तिरेव । १०६. “लोके बहुषु गच्छत्सु 'राजा नित्या × गच्छति' इति प्रधानं राजा व्यपदिश्यते, राज्ञश्च प्राधान्यं तदधीनप्रवृत्ति-निवृत्तित्वादन्ये- षाम्" इति कैयटप्रदर्शित- लौकिकन्यायसिद्धेयम् । ११०. 'सामान्योपस्थितिकाले निय- अनित्या अनित्यत्वञ्च 'नल्पि' इति लिङ्गात् । मेन विशेषोपस्थापकसामग्र्य- विस्तरस्तु 'स्थानिवत्'-सूत्रभाष्ये भावः' इति न्यायोऽस्या बीजम् । (१.१.५६) द्रष्टव्यः । ११२. 'सहचरणं सहशयोरेव'-समान- " 'द्विस्त्रिचतुर्भ्यः' (५.४.१८) इति सूत्रे स्वभावयोरेव सामानाधिकरण्यं साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे सिद्धे मैत्री च भवति' इति न्याय- कृत्वोऽर्थग्रहणात् एषा अनित्या सिद्धा । बोध्या । ११४. 'प्रतिपदोक्तस्य शीघ्रोपस्थिति- " अनित्यत्वञ्च 'भुवश्च महाव्याहृतेः' कत्वं लाक्षणिकत्वस्य च विलम्बो- (८.२.७१) इत्यत्र महाव्याहृतिग्रह- पस्थितिकत्वमिति लौकिकोप- णात् । स्थितिकृतलाघव'मूलकत्वा- दियं सिद्धा ।
- १६ -
परि० क्र० विवरणम् नित्याऽनित्ये विशेषः ११६. ‘देवदत्तादयो भोज्यन्ताम्’ अनित्या साहित्यस्य उपलक्षणत्व-विशेषण- इत्यत्र भुजिक्रियाया उद्देश्यघट- त्वाभ्यामेतन्न्याययोर्व्यवस्थेति टीका- केषु देवदत्त-यज्ञदत्त-विष्णुमित्रा- कर्तुः प्रामाण्यात् एतयोरनित्यत्वं दिषु प्रत्येकमन्वयात् ‘देवदत्तो बोध्यम् । द्वितीयपरिभाषाया भोज्यताम्, यज्ञदत्तो भोज्य- मुद्देश्यघटकप्रत्येकपदार्थेन सह न ताम्, विष्णुमित्रश्च भोज्यताम्’ विधेयान्वयः, किन्तु समुदायेनेति इत्यर्थबोधः’ इति न्यायसिद्धा । विवेकः । ११७. ‘गर्गाः शतं दण्ड्यन्ताम्’, ,, ✕ अर्थिनश्च राजानो हिरण्येन भवन्ति’ इति न्यायसिद्धा । ✕ १२०. ( पर्जन्यो यावदूनं पूर्णं च सर्व- नित्या . मभिवर्षतीति ) ‘पर्जन्य’-न्याय- सिद्धा ।
( शास्त्रीय )-न्यायसिद्धाः [ख] परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ४२. 'अक्लृप्ताभावस्य अभावकल्पना- नित्या अक्लृप्ताभावस्य = अप्रसक्तबाधस्य, पेक्षया क्लृप्ताभावकस्यैव नित्यस्येति यावत् । तत्कल्पनमुचितम्' इति लाघव- मूलकयुक्तिसिद्धेयम् । ४३. {'यद्व्यक्तिसम्बन्धितया पूर्वं अनित्याः एतासां विरुद्धे ४६,४८ संख्याके ४४. {प्रवृत्तिस्तद्व्यक्तिसम्बन्धितयैव परिभाषे इति अनित्यत्वमासाम् । {पुनः प्रवृत्तौ कृताकृतप्रसङ्गि- अत्र न्याये व्यक्तिपदेन उद्देश्यव्यक्ति- ४५. {त्वम्' इति युक्तिसिद्धा इमाः । वन्निमित्तव्यक्तेरपि अविशेषेण ग्रहणा- दियं सिद्धा । व्यक्तिपदेन शास्त्र- रूपव्यक्तिग्रहणे च सिद्धेयम् । ४६. 'यदा तु शास्त्रव्यतिरेकेण अनित्या अनित्यत्वं तु लक्ष्यानुरोधात् । तद्विधेयकार्ययोरेव नित्यत्वादि- विचारो यदापि व्यक्तिविशेषा- श्रयणाभावः' इति युक्तिसिद्धा । ४९. 'स्वरोऽपि शब्दान्तरत्वसम्पा- नित्या × दकः' इति न्यायसत्त्वात् ४३-४६ परिभाषाः येन न्यायेन सिद्ध्- यन्ति, तेनैव अस्या अपि सिद्धत्वात् युक्तिसिद्धेयम् । ६०. 'अवश्यं परस्मिन् बाधनीये ,, वस्तुतस्तु अस्याः (६०) परिभाषायाः प्रथमोपस्थितस्य अनन्तर- 'विप्रतिषेधशास्त्रबाधे मानाभावः' इति बाधेन चारितार्थ्ये पश्चादुप- मूलकृदुक्तं बीजम् उत्तरपरिभाषायाः, स्थितस्य ततः परस्य बाधे उत्तरपरिभाषायास्तु बीजं 'पूर्वो- मानाभावः' इति युक्तिसिद्धा । पस्थितबाधे नैराकाङ्क्ष्यरूपम्' अवग- न्तव्यमिति । श्रीदामोदरशास्त्रि- ६१. 'पूर्वोस्थितबाधेन नैराका- ,, भारद्वाजपादाः । तथा मूलपाठस्तु ङ्क्ष्यस्य परस्य बाधे माना- प्रामादिक इति तत्त्वप्रकाशिकायां भावः' इति युक्तिसिद्धा । २४६ पृष्ठे द्रष्टव्यम् । ६२. 'प्रत्यासत्ति' (सान्निध्य-) मूलि- अनित्या अनित्यत्वन्तु 'क्वचित् स्वरितत्व- केयम् । प्रतिज्ञासामर्थ्येन वा बाध्यतेऽयं न्यायः' इति मूलग्रन्थप्रामाण्यात् ।
- १८ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ६३. 'लक्षणैकचक्षुष्को हि अपवाद- नित्या 'अपवादो यद्यन्यत्र चरितार्थः' इति विषयं पर्यालोच्य तद्विषयत्वा- न्यायस्य तु नात्र प्राप्तिः, अन्तादेशा- भावनिश्चये उत्सर्गेण तत्तल्लक्ष्यं प्राप्तिविषये चारितार्थ्याभावात् । संस्करोति' इति युक्तिसिद्धा । ६४. 'लक्ष्यैकचक्षुष्कस्तु तत्तच्छास्त्र- ,, लक्षणैकचक्षुः = लक्षणेनैव यस्य पर्यालोचनं विनाऽपि अपवाद- साधुत्वज्ञानं स इत्यर्थः । लक्ष्यैक- विषयं परित्यज्य उत्सर्गेण लक्ष्यं चक्षुः = लक्षणज्ञानमन्तराऽपि यस्य संस्करोति' इति युक्तिसिद्धा । लक्ष्यसाधुत्वपरिज्ञानं स इत्यर्थः । ६५. 'उत्सर्गशास्त्रप्रवृत्तिसम्भावना, ,, 'न कदाचित्तावदुत्सर्गो भवत्यपवादं प्रयोज्या यत्रापवादशास्त्र- तावत्प्रतीक्षते' इति भाष्योक्तेरयं प्रवृत्तिसम्भावना, तत्र पूर्व- न्यायः प्रमाणम् । मुत्सर्गो न प्रवर्तते' इति युक्तिसिद्धा । ६६. 'इतरत्र सावकाशस्य (चरि- अनित्या अनित्यत्वं चास्याः पूर्वोपस्थितनिमित्त- तार्थस्य ) अपवादस्य उत्सर्ग- कत्वरूपान्तरङ्गविषये एव प्रवृत्ते- बाधकत्वम्' इति युक्तिसिद्धा । र्बोध्यम् । ६९. ⎧ 'वाऽसरूपोऽस्त्रियाम्' × 'वाऽसरूप'सूत्रस्य अनित्यत्वादेते ⎪ ( ३.१.९४) इति सूत्रस्या- अनावश्यक्यौ । ७०. ⎨ नित्यत्वेन सिद्धत्वात् युक्तिसिद्धे × ⎩ इमे । ७१. 'तस्मादित्युत्तरस्य' (१.१.६७) नित्या एतदन्तं बाधबीजाख्यं द्वितीयं प्रकरणम् । इति सूत्रस्य 'तस्मिन्निति' (पा० १.१.६६ ) सूत्रापेक्षया परत्वेन पञ्चमीनिर्देशस्य अनवकाशत्वेन च सिद्धत्वादियं युक्तिसिद्धा । ७३. घटघटीग्रहणेन 'लिङ्गविशिष्ट'- × अस्याः स्वातन्त्र्येण स्वीकारे प्रमाणा- (७२) परिभाषाया अनित्य- भाव इति केचित् । त्वात् तन्मूलेषा युक्तिसिद्धा । स्वतन्त्रवाचनिकी अपि इयम्, 'युवोर- नाकौ' ७.१.१ ) इति सूत्रे भाष्यकृता उक्तत्वात् । १०१. 'षाष्ठद्वित्वस्य द्विःप्रयोगत्व- × भाष्ये अदर्शनात्, एतादृशस्थले तैर्वि- सिद्धान्तेन प्रयोगद्वयरूपे समु- षयसाम्याश्रयेण दोषस्य परिहृतत्वेन दाये प्रकृतिरूपत्वबोधनम्' भाष्यकृदनभिप्रेतत्वाच्च इयमस्वीकार्या । इति युक्तिसिद्धा।
- १९ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः १०२. ‘विध्यङ्गभूतानां परिभाषाणां × ‘अल्लोपोऽनः (६.४.१३४) इत्यत्र विधेयेनासिद्धतया सम्बन्धा- व्यभिचरितत्वात् भाष्यानुक्तत्वाच्च सम्भवेऽपि तद्विशेषणव्यवस्था- इयमस्वीकार्या । पकत्वेन चरितार्थानां तद्विशे- षणव्यवस्थापकत्वे मानाभावः’ इति तर्क-(युक्ति)-मूलेयम् । १०७. मीमांसाशास्त्रोक्त-‘रथकारा- नित्या तर्कमूलाऽपीयम् । विस्तरस्तु ३१५ धिकरण’न्यायसिद्धा । पृष्ठे भूतितिलके ‘परे तु’ इत्यादिना द्रष्टव्यः । १०९. नियमे हि अश्रुताया अन्यनि- ” अत्र शास्त्रे नियमविधिपदेन मीमांसा- वृत्तेः सामर्थ्यात् परिकल्पनम्, शास्त्रोक्तः ‘परिसंख्या’विधिर्गृह्यते । उक्तानुवाददोषश्चेति लाघवाद् विधिरेव’ इति मीमांसासिद्ध- न्यायमूलेयम् । ११३. ‘प्रकरणादितः श्रुतेर्बलवत्त्वम्’ ” ‘श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान- इति मीमांसासिद्धन्यायमूलेयम् । समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्’ इति हि तन्न्यायस्वरूपभूतं मीमांसा- दर्शनसूत्रम् । ११९. ‘येन नाप्राप्ते’ इति न्यायसिद्धा । ” ‘अबाधकान्यपि निपातानि’ इति परिभाषान्तरमपि कैश्चित् पठ्यते, परन्तु भाष्यविरुद्धत्वात् तदुपेक्ष्यमेव । १२२. ‘उपस्थितं परित्यज्य अनुप- ” × स्थितकल्पने मानाभावः’ इति सर्वतन्त्रन्यायसिद्धा । १२३. ‘तत्तत्समानविभक्तिकद्वितीय- ” × योगेन विभक्तस्यानित्यत्वज्ञाप- नम्’ इति युक्तिसिद्धा । १२५. ‘स्पष्टमेव पठितव्येऽनुमानाद् × अनयैव ज्ञापक-न्यायसिद्धानां परि- बोधनमसार्वत्रिकम्’ इति भाषाणां नित्यानित्यत्वम्, न तु वाच- न्यायसिद्धा । निकीवत् नित्यत्वमात्रमित्यवगन्तव्यम् । ३. ज्ञापकसिद्धा ६. ‘अनेकाल् शित्०’ (१.१.५५) नित्या मूले ‘शिद्ग्रहणमेव’ इत्यत्र एवकारो- इति सूत्रे ‘शिद्’-ग्रहणं ऽप्यर्थकः । ज्ञापकम् ।
- २० -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ७. ‘उदीच्यां माङो०’ (३.४.१९) नित्या नायं ‘माङ् माने’ इत्यस्य निर्देशः, इति सूत्रे ‘माङ्’निर्देशो ज्ञापकपरभाष्यप्रामाण्येन व्यतिहारे ज्ञापकः। माङोऽनभिधानात्। ८. ‘ददातिदधात्योर्विभाषा’ ” ✕ (३.१.१३९) इत्यत्र ‘विभाषा’ पदं ज्ञापकम्। ९. ‘संख्याया अतिशदन्ताया०’ ” अत्र कृत्रिमाया एव संख्याया ग्रहणे (५.१.२२) इति सूत्रे तिशतो- तदन्ते तिशतोर्नियमेन अभावात् र्निषेधो ज्ञापकः। निषेधवैयर्थ्याज्ज्ञाप्यते कृत्रिमाकृत्रिमे संख्ये ग्राह्ये इति भावः। १०. ‘स्थण्डिलाच्छयितरि’ ” न्यायसिद्धापीयम्, समवायिकारण- (४.२ १५) इति सूत्रे’ शयितरि’ निमित्तकारणयोर्भेदस्य सकललोक- निर्देशो ज्ञापकः। तन्त्रसिद्धत्वात्। उच्छृङ्खलास्तु-- परिभाषेयमस्वीकार्या, प्रदर्शित- फलस्य असम्भवात्, अन्येषाञ्च अभावादित्याहुः। विस्तरस्तु ४२ पृष्ठे भूतिलके द्रष्टव्यः। १९. ‘ज्यादादीयसः (६.४.१६०) ” वाचनिकी अपि इयम्, ‘अणुदित् इति सूत्रे ‘आदि’ति दीर्घो- (१.१.६९) सूत्रे ‘अप्रत्ययः’ इत्यंशस्या- च्चारणं ज्ञापकम्। नुवादकत्वात्। २०. ‘दिव उत्’ (६.१.१३१) ‘ऋत’ ” यद्यपि नेयं सूत्र-भाष्यविरुद्धा; तथापि उत्’ (६.१.१११) इति सूत्रयोः असाधारणफलाभावात् अस्वीकार्येति उकारस्य तपरकरणं ज्ञापकम्। ९८ पृष्ठे भूतिकृतः। २२. ‘अतः कृकमि०’ (८.३.४६) इति ” ✕ सूत्रे ‘कंस’ग्रहणं ज्ञापकम्। २५. ‘हृदयस्य हल्लेखः’ (६.३.५०) ” ✕ इति सूत्रे ‘लेख’-ग्रहणं ज्ञापकम् २७. ‘सुप्तिङन्तम्’ (१.४.१४) इति ” कैश्चिदेषा प्रत्याख्याताऽपीति १२० सूत्रे ‘अन्त’ग्रहणं ज्ञापकम्। पृष्ठे भूतिलके द्रष्टव्यम्। २८. ‘गतिरनन्तरः’ (६.२.४९) इति ” केचित्तु - ‘अहीने द्वितीया (६.२.४७) सूत्रे ‘अनन्तर’ग्रहणं ज्ञापकम्। इति सूत्रे ‘अनुपसर्गं इति वक्तव्यम्’ इति वार्तिकं ज्ञापकमाहुः (पृ०१२३)।
- २१ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ३२. 'पूर्वात्सपूर्वादिनिः' इत्येकं सूत्र- नित्या गणे पूर्वशब्दं प्रपठ्य 'इष्टाद्यन्तेभ्यः मकृत्वा 'पूर्वादिनिः' (५.२.८६) इनिः' इति वक्तव्ये, 'पूर्वादि निः', 'सपूर्वाच्च' (५.२.८७) इति 'सपूर्वाच्च' इति सूत्रकरणमस्यां सूत्रकरणमस्यां ज्ञापकम् । ज्ञापकमिति ग्रन्थतत्त्वमाहुर्भूतिकृतः (पृ० १३७) । ३६. 'क्षियो दीर्घात्' (८.२.४६) अनित्या अनित्यत्वञ्च प्रातिपदिकत्वनिबन्धन- इति सूत्रे 'क्षिय' इति इयङ्- विभक्तिप्रत्ययस्य धात्वनुकारि- निर्देशो ज्ञापकः । क्षिशब्दे करणाद् बोध्यम् । ४१. 'वृद्धभ्यः स्यसनोः (१.३.९२) नित्या अत्र 'अनुदात्तङित०' (१.३.१२) इत्यत्र विभाषया अतङ्-विधानं इत्यादिसूत्राणि विधायकान्येव, न (परस्मैपदविधानम्) ज्ञापकम् । तु नियामकानि । एवम् एकवाक्यता- पक्ष एव साधीयान्, न तु भिन्न- वाक्यतापक्ष इति ग्रन्थकृतां मतम् । विस्तरस्तु १६० पृष्ठे द्रष्टव्यः । ५१. 'षत्वतुकोरसिद्धः' (६.१.८६) × भाष्यकृताऽस्या अनावश्यकत्वेन इति सूत्रे 'तुक्'ग्रहणं ज्ञापकम् । प्रत्याख्यानादियमस्वीकार्या । टीका- कृता चास्याः १९९ पृष्ठे 'वस्तुतः' इति प्रतीकेन स्वीकारार्हत्वं साधितं ततोऽवसेयम् । ५२. 'प्रत्ययोत्तरपदयोश्च' (७.२.८७) नित्या वार्तिकरीत्या तदर्थस्य स्वारसिकत्वेन इति सूत्रं तत्र 'मपर्यन्तस्य' ज्ञापकसिद्धा । भाष्यरीत्या तु वाच- इत्यनुवृत्तिर्वा ज्ञापिका । निकी एवेयम्, इत्यपि मतं २०९ पृष्ठे द्रष्टव्यम् । ५३. 'नेन्द्रस्य परस्य' (७.३.२२) " परिभाषायाम् 'एकदेशे'ति पदं इति वृद्धिनिषेधसूत्रमस्या सन्धिकार्यस्यापि उपलक्षणम्, तेन ज्ञापकम् । 'रात्रिमटः' इत्यादौ मुमः पूर्वं यणो न । ५४. 'अदो जग्धिः' (२.४.३६) इति " × सूत्रे 'ल्यप्'ग्रहणं ज्ञापकम् । ५५. अभ्यासस्यासवर्णे (६.४.७८) अनित्या अनित्यत्वञ्चास्याः 'च्छ्वोः शूठ्' इति समग्रं सूत्रं ज्ञापकम् । (३.४.१९) इति सूत्रे सतुक्निर्देशात् केचित्तु-अत्र सूत्रे 'असवर्ण'- ज्ञाप्यते । ग्रहणं ज्ञापकमाहुः ।
- २२ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ५६. 'समर्थानां प्रथमाद्वा (४.१.८२) अनित्या अनित्यत्वञ्च 'अल्लोपोजनः' इत्यत्र इति सूत्रे 'समर्थ'ग्रहणं तपरकरणात् । भाष्यापठितत्वेन ज्ञापकम् । अन्यथासिद्धत्वेन च ग्रन्थकृता प्रत्या- ख्यानादियमस्वीकार्या । अननुगत- वचनकल्पनापेक्षया परिभाषान्तर- कल्पनमेव वरमिति टीकाकृतश्च (पृ० २३१) । ६७. 'दीर्घोऽकितः' (७.४.८३) नित्या × इति सूत्रे 'अकिद्'ग्रहणं ज्ञापकम् । ६८. निन्दहिंसाक्लिश०' अनित्या अनित्यत्वे ज्ञापकन्तु 'सूददीपदीक्षश्च' (३.२.१४६) इति सूत्रे वुञ्- (३.२.१५३) इति सूत्रे दीपेर्युज्- स्त्रोविधानं ज्ञापकम् । निषेधः । वस्तुतस्तु 'वाऽसरूप'सूत्रस्य अनित्य- त्वात् ६८,६९,७० संख्यकाः परि- भाषाः युक्तिसिद्धाः । ७२. 'कुमारश्रमणादिभिः' (२.१.७०) " भाष्योक्तसप्तस्थलेषु एषा न प्रवर्तते । इति सूत्रे स्त्रीलिङ्गश्रमणादि- तानि च स्थलानि २६२ पृष्ठे मूल- पाठो ज्ञापकः । ग्रन्थतोऽवसेयानि । ७४. 'अर्धं नपुंसकम्' (२.२.२) नित्या लौकिकन्यायसिद्धापि इयम्, 'धान्य- इति सूत्रे नपुंसकग्रहणं ज्ञाप- पलाल'न्यायस्यात्र प्रवृत्तत्वात् । कम् । ७६. 'उपपदमतिङ्' (२.२.१९) अनित्या अनित्यत्वन्तु 'कर्तृकरणे कृता बहुलम्' इति सूत्रे अतिङ्ग्रहणं (पा० २.१.३२) इत्यत्र बहुलग्रह- ज्ञापकम् । णात् लभ्यत इति 'उपपद'सूत्रस्थ- कैयटप्रामाण्यात् । अन्ये तु प्रमाणाभावात्, फलाभावाच्च नेयमनित्येत्याहुः । युक्तिसिद्धापीयम्, 'उपसञ्जनिष्य- माण'न्यायस्य प्रसरादिति राघ- वेन्द्राचार्याः । परन्तु तन्मतं भूतिकृता प्रत्याख्यातम् (२७० पृ०) ।
- २३ -
१. परिभाषा १-३५: व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् आदि ज्ञापक परिभाषाएँ
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ७९ 'अव्ययेऽयथाभिप्रेताख्याने' अनित्या अनित्यत्वन्तु 'तृतीया च होश्छन्दसि' (३.४.५९) इति सूत्रे णमुल्- (२.३.३) इति सूत्रे चानुकृष्टस्य ग्रहणं ज्ञापकम्। द्वितीयापदस्य 'अन्तराऽन्तरेण युक्ते' (२.३.४) इति उत्तरसूत्रेऽनुवृत्तत्वाद् बोध्यम्। 'लुटि च कॢपः' (पा० १.३.९३) इति सूत्रस्थेन अनुवृत्त्यर्थकचकार- प्रत्याख्यानेन 'कुलिजाल्लुक्खौ' च (५.१.५५) इति सूत्रभाष्यविरोधेन चेयमस्वीकार्या। ८०. नोत्तरपदे०' (६.२.१४२) इति × 'उच्चैरुदात्तः' (१.२.२९) इति सूत्रे सूत्रे पृथिव्यादिपर्युदासो कैयटेन अनावश्यकत्वोक्तेः, भाष्य- ज्ञापकः। कृताऽपि तदुक्तेर्ध्वनिनोपबृंहितत्वाच्च इयमस्वीकार्या। ८१. 'यतोऽनावः (६.१.२१३) इति नित्या × सूत्रे अनोपप्रतिषेधो ज्ञापकः। ८२. 'वामदेवाड् ड्यड्ढ्यौ' नित्ये टीकाकृतस्तु—'परे तु' इत्यादिना (४.२.९) इति सूत्रे ड्या- उभयोः परिभाषयोरेकैव परिभाषा ड्यतोर्द्वित्वकरणमेनयो- कर्तव्या, महालाघवादिति (२८१ र्ज्ञापकम्। पृष्ठे) प्राहुः। ८४. 'णचः स्त्रियाम्०' (५.४.१४) नित्या × इति सूत्रे स्त्रियामित्युक्ति- र्ज्ञापिका। ८५. 'प्रतेरंश्वादयस्तत्पुरुषे' ,, × (६.२.१९३) इति सूत्रनिर्दिष्टे अश्वादिगणे राजन्शब्दपाठो ज्ञापकः। ८७. 'बिल्वकादिभ्यश्छस्य लुक् ,, न्यायसिद्धाऽपीयम्, लौकिकोऽयं न्यायः। (६.४.१५३) इति सूत्रे एकैकस्मिन् प्रयोजने येषां साधिकार- छग्रहणं ज्ञापकम्। स्तत्र अन्यतरनिवृत्तौ इतरनिवृत्तिः' इति कैयटोक्तेः, 'समुच्चयार्थकै'- त्यादिग्रन्थकृदुक्तेश्च (पृ० २९५)। ८८. 'कामताच्छील्ये' (६.४.१७२) अनित्या अनित्यत्वन्तु 'छात्रादिभ्योऽण् (पा० इत्यत्र कामंशब्दस्य निपातनात् ४.४.६२) इति वक्तव्ये णग्रहणात्। सिद्धिर्ज्ञापिका।
- २४ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ८९. 'श्रौणहत्य' इत्यत्र अन्त्य- अनित्या अनित्यत्वं 'न भूसुधियोः' (६.४.८५) नकारस्य स्थाने निपातेन तत्त्व- इति निषेधात् । टीकाकृतस्तु अस्या करणं ज्ञापकम् । अनित्यत्वे उपयोगाभावमाहुः (पृ० २९७) । ९०. 'नेदमदसोरकोः (७.१.११) नित्या × इति सूत्रे अकोरिति निषेधो ज्ञापकः । ९१. 'यस्य विभाषा' (१.२.१५) ,, 'स्वरतिसूति' (७.२.४४) इति सूत्रे इति सूत्रभाष्येण ध्वनिता सूतिसुयत्योः पृथङ् निर्देशोऽस्या ज्ञापितेयम् । ज्ञापक इति कैयटः । परन्तु तन्मतं ग्रन्थकृता प्रत्याख्यातम् । टीकाकृतस्तु कैयटमतमेव युक्तमाहुः (पृ० २९९) । ९२. 'हेरचङि' (७.३.५६) इति सूत्रे ,, इयञ्च कुत्वविषयैवेति 'हेरचङि' अचङीति निषेधो ज्ञापकः । इति सूत्रे भाष्यकृतः । एतेन 'न भामू- पूकम्०' (८.४.३४) इति शत्वनिषेध- सूत्रे उक्तम्—'णत्वभादीनामुपसंख्या- नम्' इति वार्तिकमस्या अनित्यत्वे ज्ञापकमित्यपास्तम् । ९३. 'ज्यादादीयसः' (६.४.१६०) अनित्या अनित्यत्वन्तु 'अस्मदोद्वयोश्च' इति सूत्रे आद्ग्रहणम् 'ज्ञाजनो- (१.२.५९) 'कियतदोर्निर्धारणे द्वयो- र्जा' (७.३.७९) इति सूत्रे च रैकस्य (पा० ५.३.९२) इति सूत्रयोः जाग्रहणं ज्ञापकम् । 'द्वयोः' इति निर्देशाद्, 'येषाम्' इति साधूदाहरणाच्च । ९४. 'ओर्गुणः' (६.४.१४६) इति × भाष्यानुक्तत्वादस्वीकार्या । सूत्रे गुणग्रहणं ज्ञापकम् । ९५. 'आनि लोट्' (८.४.१६) इति × सूत्रे आडागमग्रहणं ज्ञापकम् । ,, ९६. 'तनादिकृञ्भ्यः' (३.१.७९) × इति सूत्रे कृञ्ग्रहणं ज्ञापकम् । ,, ९७. 'अक्षिडो डित्करणं ज्ञापकम् । × ,, ९८. 'अनुदात्तं पदमेकवर्ज्यम्' (६.१.१५८) इति सूत्रे वर्ज्य- ग्रहणं ज्ञापकम् । ,,
- २५ -
परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ९९. ‘लोटो लङ्वत्’ (३.४.८५) इति × केचित्तु—‘प्रत्ययलोपे प्रत्ययलक्षणम्’ सूत्रं ज्ञापकम् । (१.१.६२) इति सूत्रमस्यां ज्ञापकमाहुः । १००. अस्यामंशद्वयमस्ति । तत्र × भाष्यानुक्तत्वादस्वीकार्या । आद्यांशस्य 'प्रत्ययलोपे०' सूत्रम्, द्वितीयांशस्य च 'आर्ध- धातुकस्येड्०' (७.२.३५) इति सूत्रस्थेड्ग्रहणं ज्ञापकम् । १०५. अत्रापि आद्यांशस्य 'नाम्रेडित- × भाष्यकृता पठित्वा प्रत्याख्यातेय- स्यान्त्यस्य तु वा' (६.१.९९) मिति अस्वीकार्या । इति सूत्रस्थम् अन्त्यस्येति पदम्, द्वितीयांशस्य 'अर्तिपिपर्त्योः' (पा० ७.४.७७) इति सूत्रस्थं पिपर्ति-ग्रहणं ज्ञापकम् । ११५. 'दैप्'धातोः पित्वकरणमस्या नित्या एकदेशानुमतिद्वारा सम्पूर्णा परिभाषा अंशैकस्य ज्ञापकम् । ज्ञाप्यत इति ग्रन्थकृतां मतम् । ११८. 'अस्थिदधि०' (७.१.७५) सूत्रे ,, 'अष्टाध्यायी स्वरयुक्तैव पठिता' इति उदात्तग्रहणं ज्ञापकम् । पक्षे 'चतसृष्व्युदात्तनिपातनं करिष्यते' इति भाष्यमस्या ज्ञापकं बोध्यम् । १२४ 'अन्यतरस्यां विभाषा वा' ,, × इति सूत्रनिर्देशज्ञापितेयम् । १२६. ‘पूर्वत्रासिद्धम्’ (८.२.१) अनित्या अनित्यत्वञ्च उभो साभ्यासस्य' इत्यधिकारभवं शास्त्रमस्यां (८.४.२१) इति लिङ्गात् । केचित्तु- लिङ्गम् । 'न मु ने' (८.२.३) इत्यत्र नेति विभा- गोऽस्या लिङ्गमाहुः । अन्ये तु—ग्राहकसूत्रे (अणुदित्- सवर्णस्य०) अजिति वक्तव्ये अण्- ग्रहणमस्यां ज्ञापकं प्राहुः । १३१. ‘एकाच उपदेशे (७.२.१०) × भाष्यानुक्तत्वादस्वीकार्या । इति सूत्रे एकाज्ग्रहणमस्या एकदेशस्य ज्ञापकम् । इति वैजापुरकरोपाव्ह श्रीवैद्यराज-पण्डित-नरहरिशास्त्रितनुजनुषा नैयायिक- श्रीगोविन्दशर्मणा सङ्कलितं परिभ०षेन्दुपीयूषं समाप्तम् । •
- २६ -
परिभाषा-पाठः ॥ प्रथमं प्रकरणम् ॥ १. व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्, २ यथोद्देशं संज्ञापरि- भाषम्, ३. कार्यकालं संज्ञापरिभाषम्, ४. अनेकान्ता अनुबन्धा इति, ५. एकान्ताः, ६ नानुबन्धकृतमनेकाल्त्वम्, ७. नानुबन्धकृतमनेजन्तत्वम्, ८. नानुबन्धकृतमसा- रूप्यम्, ९. उभयगतिरिह भवति, १०. कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते, ११. यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते, १२. निर्दिश्यमानस्याऽऽदेशा भवन्ति, १३. यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः, १४. अर्थवद्ग्रहणे नानर्थकस्य १५. गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः, १६. अनिनस्मिन् ग्रहणान्यर्थवतः चानर्थकेन च तदन्तविधिं प्रयोजयन्ति, १७. एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः, १८. क्वचिदेकदेशोऽप्यनुवर्तते, १९. भाव्यमानेन सवर्णानां ग्रहणं न, २०. भाव्यमानो- ऽप्युकारः सवर्णान् गृह्णाति, २१. वर्णाश्रये नास्ति प्रत्ययलक्षणम्, २२. उणादयोऽव्युत्प- न्नानि प्रातिपदिकानि, २३. प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्, २४. प्रत्ययग्रहणे चापञ्चम्याः, २५. उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्, २६. स्त्रीप्रत्यये चानुपसर्जने च २७. संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति, २८. कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्, २९. पदाङ्गाधिकारे तस्य च तदन्तस्य च, ३०. व्यपदेशिवदेकस्मिन्, ३१. ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति, ३२. व्यपदे- शिवद्भावोऽप्रातिपादिकेन, ३३. यस्मिन् विधिस्तदादावल्ग्रहणे, ३४. सर्वो द्वन्द्वो विभाषयैकवद् भवति, ३५. सर्वे विधयश्छन्दसि विकल्प्यन्ते, ३६. प्रकृतिवदनुकरणं भवति, ३७. एकदेशविकृतमनन्यवत् । ॥ द्वितीयं प्रकरणम् ॥ ३८. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः, ३९. पुनः प्रसङ्ग- विज्ञानात् सिद्धम्, ४०. सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितमेव, ४१. विकर- णेभ्यो नियमो बलीयान्, ४२. परान्नित्यं बलवत्, ४३. शब्दान्तरस्य प्राप्नुवन् विधि- रनित्यो भवति ४४. शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्, ४५. लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः, ४६. क्वचित् कृताकृतप्रसङ्गमात्रेणापि नित्यतः, ४७. यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदप्यनित्यम्, ४८. यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्, ४९. स्वरभिन्नस्य प्राप्नुवन् विधिरनित्यो भवति, ५०. असिद्धं बहिरङ्गमन्तरङ्गे, ५१. नाजानन्तर्ये बहिष्ट्वप्रक्लुप्तिः, ५२. अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते, ५३. पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकदेशो न, ५४. अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते, ५५. वार्णादाङ्गं बलीयो भवति, ५६. अकृतव्यूहाः पाणिनीयाः, ५७. अन्तरङ्गादप्यपवादो बलीयान्, ५८. येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति, ५९. क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति, ६०. पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ६१. मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्, ६२ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति, ६३. पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः, ६४. प्रकल्प्य चापवादविषयं तत
- २७ -
उत्सर्गोऽभिनिविशते, ६५. उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति, ६६. अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते, ६७. अभ्यास- विकारेषु बाध्यबाधकभावो नास्ति, ६८. ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति, ६९. कल्युट्नुमुन् खल्थेषु वाऽसरूपविधिर्नास्ति, ७०. लादेशेषु वाऽसरूपविधिर्नास्ति, ७१. उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । ॥ तृतीयं प्रकरणम् ॥ ७२. प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्, ७३. विभक्तौ लिङ्गविशिष्टा- ग्रहणम्, ७४. सूत्रे लिङ्गवचनमतन्त्रम्, ७५. नञ्रिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः, ७६. गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः, ७७. साम्प्रतिकाभावे भूतपूर्वगतिः, ७८. बहुव्रीहौ तद्गुणसंविज्ञानमपि, ७९. चानुकृष्टं नोत्तरत्र, ८०. स्वरविधौ व्यञ्जनमविद्यमानवत्, ८१. हल्स्वरविधौ व्यञ्जनमविद्यमानवत्, ८२. निरनुबन्धकग्रहणे न सानुबन्धकस्य, ८३. तदनुबन्धकग्रहणे नातदनुबन्धकस्य, ८४. क्वचित् स्वाथिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते, ८५. समासान्तविधिरनित्यः, ८६. सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, ८७. संनियोगशिष्ठानामन्यतरापाय उभयोरप्यपायः, ८८. ताच्छीलिके णेऽण्कृतानि भवन्ति, ८९. धातोः कार्यमुच्यमानं तत्प्रत्यये भवति, ९०. तन्मध्यपतितस्तद्ग्रहणेन गृह्यते, ९१. लुग्विकरणाऽलुग्विकरणयो- रलुग्विकरणस्य, ९२. प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्, ९३. अङ्गवृत्ते पुनर्वृत्तावविधिः, ९४. संज्ञापूर्वकविधेरनित्यत्वम्, ९५. आगमशास्त्रमनित्यम्, ९६. गणकार्यमनित्यम्, ९७. अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्, ९८. नञ्घटितमनित्यम्, ९९. आतिदेशिक- मनित्यम्, १००. सर्वविधिभ्यो लोपविधिरिङ्ग्विधिश्च बलवान्, १०१. प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्, १०२. विधौ परिभाषोपतिष्ठते नानुवादे, १०३. उपपदविभक्तेः कारकविभक्तिर्बलीयसी, १०४. अनन्त्यविकारेऽन्त्यसदेशस्य, १०५. नानर्थकेऽलोऽन्त्य- विधिरनभ्यासविकारे, १०६. प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः, १०७. अवयव- प्रसिद्धेः समुदायप्रसिद्धीर्बलीयसी, १०८. व्यवस्थितविभाषयापि कार्याणि क्रियन्ते, १०९. विधिनियमसम्भवे, विधिरेव ज्यायान्, ११० सामान्यातिदेशे विशेषानतिदेशः, १११. प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्, ११२. सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्, ११३. श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्, ११४. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, ११५. गामादाग्रहणेष्बविशेषः, ११६. प्रत्येकं वाक्यपरिसमाप्तिः, ११७. क्वचित् समुदायेऽपि, ११८. अभेदका गुणाः, ११९. बाधकान्येव निपातनानि, १२०. पर्जन्यवल्लक्षणप्रवृत्तिः, १२१. निषेधाश्च बलीयांसः, १२२. अनिर्दिष्टाः प्रत्ययाः स्वार्थे, १२३. योगविभागादिष्टसिद्धिः, १२४. पर्यायशब्दानां लाघवगौरवचर्चा नाद्रीयते, १२५. ज्ञापकसिद्धं न सर्वत्र, १२६. पूर्वत्रासिद्धीयमद्वित्वे, १२७. एकस्या आकृतेश्चरितः प्रयोगो द्वितीयायास्तृतीयायाश्च न भविष्यति, १२८. सम्प्रसारणं तदाश्रयं च कार्यं बलवत्, १२९. क्वचिद्विकृतिः प्रकृतिं गृह्णाति, १३०. औपदेशिक- प्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्, १३१. शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाजूग्रहणं चैव पञ्चैतानि न यङ्लुकि, १३२. पदगौरवाद्योगविभागो गरीयान्, १३३. अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः । ❀
- २८ -
- श्रीः *
परिभाषेन्दुशेखरः
तत्त्वप्रकाशिका-समलङ्कृत-भूति-भूषितः
• नत्वा साम्बं शिवं ब्रह्म नागेशः कुरुते सुधीः । बालानां सुखबोधाय परिभाषेन्दुशेखरम् ॥ १ ॥ ॥ श्रीगणेशाय नमः ॥ प्रणम्य श्रीविश्वनाथं रामकृष्णः सतां मुदे । तनोति भूतितिलकं परिभाषेन्दुशेखरे ॥ सत्स्वपि महाभाष्यकैयटाद्याकरग्रन्थेषु परिभाषार्थतत्त्वप्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्तिसौकर्यार्थं ग्रन्थमारभमाणोऽत्र श्रोतॄणां प्रवृत्तयेऽनुबन्धचतुष्टयं प्रदर्शयन्, विघ्नोच्छेदपूर्वकसमाप्तये कृतं शिष्टाचारानुमितश्रुतिभाष्यादिबोधितेतिकर्तव्यताकं मङ्गलं शिष्यशिक्षायै अभ्यासशालिनामनुषङ्गतो मङ्गलाय च रचयति—नत्वेति । अनावृतस्य सविकल्पकविषयत्वासम्भवादाह—साम्बेति । अम्बा प्रधानं तया शब- लितमित्यर्थः । यद्वा—अम्बा=पार्वती तत्सहितम् ; शिवम्=विश्वेश्वरम्, ब्रह्म= तत्स्वरूपमिति ।
अथ तत्त्वप्रकाशिका प्रारभ्यते
• गणेशं प्रणमामीशं विघ्नसंहारहेतवे । यस्य गण्डस्थले राजिर्भ्रमराणां विराजते ॥ १ ॥ यत्कृपालवमात्रेण सुलभाः सर्वसिद्धयः । तं गुरुं परमं वन्दे श्री'दामोदर'-संज्ञकम् ॥ २ ॥ नत्वा विश्वेश्वरं साम्बं मुदे गणपतिर्विदाम् । करोति 'भूति'तिलके व्याख्यां "तत्त्वप्रकाशिकाम्" ॥ ३ ॥ नत्वेतीति । स्वनिष्ठापकृष्टत्वप्रकारकबोधप्रकारकबोधानुकूलव्यापार एव नमस्कारं- पदार्थः । 'देवान्नमस्करोति देवदत्तः' इत्यादौ देवदत्तवृत्त्यपकृष्टत्वप्रकारको बोधः 'अहं त्वत्तोऽप- कृष्टः' इत्याकारको देवदत्तवृत्तिस्तत्प्रकारको बोधः 'अयं जनो मत्त आत्मानमपकृष्टं जानाति' इत्याकारको देववृत्तिस्तदनुकूलो व्यापारो देवदत्तवृत्तिरिति लक्षणसमन्वयः । व्यापारश्च— करशिरःसंयोगरूपो नमःपदप्रयोगरूपश्च । एवं 'धनलाभाय शूद्रं नमस्करोति' इत्यादावपि लक्षणसमन्वयः स्वयमूहनीयः ।
२ | परिभाषेन्दुशेखरः | [ मङ्गलाचरणम्, यद्वा—अम्बयति = जीवयतीत्यम्बा उत्पादनशक्तिः, शेतेऽस्मिन् जगदिति व्यु- त्पन्नशिवशब्देन संहारशक्तिरुच्यते, ताभ्यां सहितम् ; ब्रह्म, बृंहयति = पालयतीति व्युत्पत्त्या ब्रह्मपदेन पालनशक्तिमद् गृह्यते इति शक्तित्रयविशिष्टमित्यर्थः । यद्वा— अम्बयतीत्यम्बो = विष्णुः, शिवः = शङ्करः, ताभ्यां सहितम् ; ब्रह्म = ब्रह्माणम् ; नत्वेत्यर्थः । यद्वा—अम्बा = माता सती-देवी, तया सहितम् ; शिवम् = शिव- भट्टम् = स्वपितरं ब्रह्मस्वरूपिणं नत्वेत्यर्थः । न च मातृरूपार्थस्य सनिरूपकत्वेन शिवभट्टनिरूपितमातृत्वस्यैव स्वरसतः प्रतीतेः सतीदेवीसाहित्यमनुपपन्नमिति वाच्यम्; गोत्रवर्गे पितामह्याः सर्वतः श्रैष्ठ्येन तन्नमनेऽपि क्षतिविरहात् । अत एव सत्स्वपि गोत्रजान्तरेषु तस्या एव प्रथमभागार्हत्वेन धर्मशास्त्रादौ प्रसिद्धिः । किञ्च सनिरूपकार्थबोधकपदमभिव्याहृतषष्ठीस्थले स्वप्रकृत्यर्थनिरूपिततादृशार्थग्रहणेऽपि साहित्यबोधकपदमभिव्याहारे उपस्थितत्वाविशेषेण साहित्यानुयोगिनिरूपितमातृत्व- ग्रहण इव नतिकर्तृनिरूपितमातृत्वग्रहणेऽपि क्षतिविरहः । बाल्यदशायां मृत- मातृकस्य नागेशस्य पितामह्यैव पालनं कृतमतोऽत्र कृतज्ञेन तेन तन्नमनं कृतमिति कश्चित् । केचित्तु—परिभाषेन्दुशेखरमित्यावर्त्त्य धातूनामनेकार्थत्वात् परितो भास- मानो द्विकलात्मक इन्दुः शेखरे यस्य तं चन्द्रशेखरम्; शिवं नत्वेत्यर्थ इति वदन्ति । नागेश इति । आत्मनामेति निषेधस्तूच्चारणविषयो न लेखनविषय इति बोध्यम् । अत एव 'गोनर्दीय आह भट्टोजीदीक्षितकृतिरि'त्यादिस्तत्र तत्र ग्रन्थकृतां लेखः सङ्गच्छते । यत्तु—कूपखानकन्यायेन समाहितं कैश्चित् । तन्न; मङ्गलस्य विघ्नध्वंसादिप्रयोजकत्वस्यानुमितश्रुत्यादिबोधितत्वेऽपि आत्मनामोच्चारणजन्यदुरित- ध्वंसप्रयोजकत्वस्याप्रसक्तेः । यदपि—आत्मनामेति निषेधस्य, स्वकीर्त्यनुवृत्तये स्वनाम- ग्रहणस्य शिष्टाचाराऽनुगृहीतत्वात् तद्बोधकानुमितस्मृत्या बाध इति । तदपि न; स्वकीर्त्यनुवृत्तये स्वनामलेखनस्य शिष्टाचारविषयत्वेऽपि उच्चारणस्य तद्विषयत्वा- भावेन स्मृतिबाधकल्पनायाप्रामाणिकत्वात् । धर्मिग्राहकमानेन स्वकीर्तिप्रयोजकताया नन्वेवमपि—'देवं नमस्कृत्य शूद्रं नमस्करोति' इत्यापद्येत, स्वनिष्ठापकृष्टत्वप्रकारकबोध- प्रकारको बोधः 'अयमेतस्मादात्मानमपकृष्टं जानाति' इत्याकारकः शूद्रवृत्तिबोधः, तादृशबोधरूप- फलाश्रयत्वेन तस्यापि कर्मत्वादिति चेत्—सत्यम् । नात्र शुद्धसमवायः फलतावच्छेदकसम्बन्धः, अपि तु—स्वविषयविषयावधिवृत्तित्वसमानाधिकरणसमवाय एव । स्वपदेन च द्वितीयो बोधो ग्राह्यः, तद्विषयः प्रथमो बोधः, तद्विषयोऽपकृष्टत्वं तदवधिर्देवस्तद्वृत्तित्वसमानाधिकरणसमवायेन फलतावच्छेदकेन फलाश्रयत्वं देवस्य न शूद्रस्य, न च तटस्थस्येति न तस्य कर्मत्वापत्तिः । नापि स्वापेक्षया अपकृष्टे 'देवदत्तं नमस्करोति' इति प्रयोगाऽनुपपत्तिरिति बोध्यम् । गिरिधरोपाध्यायास्तु—उत्कर्षप्रतिपत्त्यनुकूलव्यापारो नतिपदार्थः, प्रतिपत्त्यन्वयि विशे- षित्त्वं समवेतत्वं चैतद्द्वयं द्वितीयार्थः । तथा च शिवसमवेतशिवविशेष्यताकोत्कर्षप्रतिपत्त्यनुकूलो व्यापार इति बोधः । यदि च अभिवाद्यस्य नोत्कर्षप्रतीतिस्तदा उत्कर्षप्रतिपत्तीच्छैव नमस्कार- पदार्थः, इच्छायाश्चोद्देश्यतया प्रतिपत्तेरन्वयः । एतेन—ईश्वरादिसमवेतप्रतिपत्तेर्नित्यतया व्यापारस्य तदनुकूलत्वविरहेण शिवादिपदसमभिव्याहारे नमःपदप्रयोगासङ्गतिरित्यपास्तमित्याहुः ॥ १ ॥