भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

ग्रन्थकरणप्रतिज्ञा च ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३ प्राचीनवैयाकरणतन्त्रे वाचनिकान्यत्र पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धानि एवानुमितस्मृतितो लाभेन स्वकीर्तिप्रयोजकत्व-दुरितानुकूलत्वयोर्विरोधाभावेन बाध- स्योक्तिसम्भवस्याप्यभावाच्च, यथा चिकित्साशास्त्रस्थेन रोगविशेषवत्पुरुषोद्देश्यकेन सुरापानविधिना सह न धर्मशास्त्रस्थसुरापाननिषेधस्य बाध्यबाधकभावः। अत एव यागीयपशुवधजन्यदुरितदूरोकरणाय प्रायश्चित्ताचरणेऽपि शिष्टव्यवहारविषयो दृश्यते। वस्तुतस्तु — स्वकीर्त्युद्देशेन स्वनामोच्चारणस्य शिष्टाचारविषयत्वमेवाप्रामा- णिकमिति ध्येयम्। केचित्तु — निषेधोऽयं पारिभाषिकनामविषयो न यौगिकनाम- विषयः, नागेश इति यौगिकं नामेति न दोष इति। तन्न; पारिभाषिकनामान्तरानुप- लम्भात् सङ्कोचे प्रमाणाभावाच्च। केचित्तु — नागानामीशः प्रभवः, तान् = पतञ्जलीन् नत्वेति द्वितीयान्तं वर्णयन्ति। केचिच्च — निषेधस्य द्वादशेऽह्नि पित्रादिकृतनामपरत्वात् व्यवहारेषु नागोजीभट्टेति नाम्नः प्रसिद्धत्वेन नागेश इति नाम्नस्तत्त्वे मानाभावः। अत एव ग्रन्थान्ते नागोजीभट्टकृत इति स्वनामोल्लेखः; नागेश इति तु नागस्य पतञ्जलेः ईर्लक्ष्मीस्तां श्यति तनूकरोतीति गूढाभिप्रायकं स्वविशेषणमुपादत्ते, न तु नागेश इति स्वनामेति वदन्ति। अन्ये तु — नागेशः पतञ्जलिरेवैतद्ग्रन्थकर्ता, अहन्तु केवलं भाष्यादित उपयुक्तवाक्यानि एकत्र संघटयामि लेखक इवेति ग्रन्थकर्तुः प्रौढतां वर्णयन्ति। कुरुत इति। यत्तु — सुखबोधस्य बालनिष्ठत्वेन कर्तृगामित्वाभावान्नात्मने- पदप्रसक्तिरिति। तन्न; बालनिष्ठसुखबोधजन्यापूर्वस्य फलतयाऽभिप्रेतत्वेन तस्य च कर्तृगामितया दोषाभावात्। यद्वा — प्रकथने उपयोगे वा 'गन्धनावक्षेपणे'त्यात्मने- पदम्। सुधीरेति। प्रेक्षावतां स्वग्रन्थस्यानुपादेयत्वनिरासायैतत्, न तु आत्म- प्रशंसायेति बोध्यम्। बालानाम् = भाष्यकैयटाद्याकरग्रन्थतो निखिलपरिभाषार्थ- निर्णयासमर्थानां व्युत्पन्नानामित्यर्थः। सुखबोधाय। सुखेनल्पायासेनेवाखिल- परिभाषार्थतत्त्वबोधायेत्यर्थः। परिभाषेन्दुशेखरम्। परिभाषा इन्दुरिव प्रकाशकत्वेन शेखरे यस्य तं ग्रन्थम्, परिभाषार्थस्य मुख्यप्रतिपाद्यत्वेन मस्तकधृतत्वारोपः। अत्र बालानामित्युक्त्या निरुक्तबालाना मधिकारित्वम्, सुखबोधायेत्यनेन तादृशसुखबोधस्य प्रयोजनत्वम्, परिभाषेन्दुशेखरमित्युक्त्या च परिभाषार्थनिर्णयस्य विषयत्वञ्चेत्यनुबन्धत्रयं सूचितम्, सम्बन्धस्वरूपतुरीयानुबन्धश्च स्फुटत्वान्नोक्तः। अनुबन्धत्वम् — प्रवृत्तिप्रयोजकज्ञानविषयत्वम्, अधिकारिणः प्रवृत्तिप्रयोजककृति- साध्यत्वप्रकारकज्ञानविषयतया प्रयोजन-विषययोश्च तादृशेष्टसाधनत्वप्रकारकज्ञान विषयीभूततया च लक्षणसमन्वयः ॥ १ ॥ यद्यपि परिभाषेन्दुशेखरमित्यनेन विषयो दर्शितस्तथाप्यत्र सर्वासां परि- भाषाणां व्याख्यानाभावेन न्यूनतापत्तिरतस्तां परिहरन्, व्याख्येयपरिभाषाः प्रति- जानीते — प्राचीनेति। प्राचीनवैयाकरणानामिन्द्रादीनाम्, तन्त्रे = शास्त्रे, वाचनिकानि = वचनरूपाणि, विनयादित्वात्स्वार्थे ठक्; ज्ञापकन्यायाभ्यां सिद्धानि = प्रमितानि;

४ परिभाषेन्दुशेखरः [ ग्रन्थकरणप्रतिज्ञा, भाष्यवार्त्तिकयोरुपनिबद्धानि यानि परिभाषारूपाणि तानि व्याख्यायन्ते । भाष्यवार्त्तिकयोः = भाष्यवार्त्तिककारयोरुपनिबद्धानि = अभिप्रेतानि यानि परिभाषा- रूपाणि तानि अत्र ग्रन्थे व्याख्यायन्ते । व्याख्यानञ्च—प्रकृतशास्त्रप्रवृत्तिनिवृत्त्युप- योगित्वेन प्रतिज्ञानविशिष्टमत्र विवक्षितम्, तेन 'अकृतव्यूहा०' इत्याद्युपन्यासेऽपि न प्रतिज्ञाविरोधः । नन्वत्र ज्ञापकन्यायसिद्धानीति विशेषणेन वाचनिकीनामसङ्ग्रह इति चेद्— अत्र केचित्—प्रायेणेति शेषं कृत्वा वाचनिकीनां सङ्ग्रहमाहुः । अन्ये तु—ज्ञापकन्याय- शब्दावर्शावाद्यजन्तौ ज्ञापकन्यायसिद्धपरौ, सिद्धशब्दश्च वाचनिकपरस्तेन निर्दिश्य- मानस्ये'त्यादिवाचनिकीनां सङ्ग्रह इत्याहुः । सदाशिवभट्टास्तु—भाष्यवार्त्तिकयोरिति पृथक् कोटिस्तेन ज्ञापकन्यायसिद्धानां भाष्याद्यनुपन्यस्तानाम् 'अकृतव्यूहा०' इत्यादि- परिभाषाणां ज्ञापकन्यायासिद्धानां केवलवाचनिकीनाञ्च सङ्ग्रहमाहुः । केचिच्च— वाचनिकानीत्यस्य आवृत्त्या तासां सङ्ग्रहमाहुः । केचिच्च—प्राचीनवैयाकरणतन्त्रे वाचनिकान्यपि पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धान्यपि यानि भाष्यवार्त्तिकयोरुपनि- बद्धानि तान्येवात्र व्याख्यायन्त इति व्याचख्युः । वस्तुतस्तु—ज्ञापकन्यायासिद्धानि व्याख्येयपरिभाषारूपाणि नैव सन्तीति प्राचीनेत्यादेर्यथाश्रुतार्थ एव समीचीनः । 'यस्मिन्विधिर्'त्यादौ वाचनिक्येषेत्याद्युल्लेखस्तु भाष्ये एतस्यां ज्ञापकन्यायौ नोपन्यस्तौ केवलं वचनरूपेण पठितेत्येवार्थः, न तु तौ न स्त इति । व्याख्येयपरिभाषात्वञ्च—सङ्केतग्राहकभिन्नत्वे सति शब्दधर्मिकसाधुत्वप्रका- रकशास्त्रजन्याप्रामाण्यज्ञानानास्कन्दितबोधे सहकारित्वेन मुन्यभिप्रेतत्वे सति पाणिन्युच्चरितभिन्नत्वम्, 'षष्ठी स्थानेयोगे'त्यादीनां पाणिन्युच्चरितत्वेऽपि 'निर्दिश्य- मानस्यादेशा भवन्ती'त्यानुपूर्वीमद्वाक्यस्य पाणिन्यनुच्चरितत्वान्न दोषः । कासाञ्चि- दनेवंविधत्वेऽपि पाणिनिप्रयत्नानुमितत्वसादृश्यादारोपितं परिभाषात्वमनुसन्धेयम् । अथात्र शास्त्रत्वसम्पत्तिमन्तरा बाधचिन्ताया असम्भवात् शास्त्रत्वसम्पा- दनोद्देशनामकं 'व्याख्यानत०' इत्यारभ्य 'एकदेशविकृतमि'

१ प्रकरणे १ परि० विचारश्च ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५ अथ शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ननु लण्-अइउण्सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहा- दनिर्णयोऽत आह— क्त्वादेवाऽन्ते निरूपणाहं शास्त्रशेषनामकं तृतीयं प्रकरणं सन्दर्भशुद्धिमनुरुध्य क्रमेण ग्रन्थकार उपनिबबन्ध । तत्र च तात्पर्यनिर्णायकप्रमाणनिरूपणात् सर्वशास्त्रोपकारकत्वेन वर्णसमा- म्नायस्थमहेश्वरप्रणीतणकारानुबन्धज्ञापितत्वेन चाभ्यर्हितत्वात् प्रथममुपन्यासमर्हन्तीं परिभाषां व्याचिख्याशुरवतारयति — नन्विति । णकारेति । णपदं विद्यमानणकार- परम्, तेन उक्तसूत्रयोर्विद्यमानौ यौ णकारौ तद्द्वयस्येत्यर्थः । एतेन—प्रत्येकसूत्रे णद्वयाभावेन द्वन्द्वानुप्पत्तिरित्यपास्तम् । अणिण्ग्रहणेषु = तद्ग्राहकप्रत्याहारपदेषु; सन्देहात् = तात्पर्यसन्देहात्; अनिर्णयः = 'तात्पर्यसन्देहाच्छाब्दबोध एव ने'ति मते शाब्दबोधाभावः । 'तात्पर्यसन्देहात् सन्देहात्मकः शाब्दबोध' इति मते निर्णयात्मक- शाब्दबोधाभाव इत्यर्थः । नन्वादिरन्त्येनेति शास्त्रेणाद्यन्ताक्षिप्तसमुदायघटकबोध्यस्यैवाजादिपदप्रतिपा- द्यतया बोधितत्वेन प्रकृताकारादिणकारान्तसमुदायान्तःपातिवर्णबोध्यत्वरूपाण्पद- सङ्केततावच्छेदककुक्षौ समुदायस्याकारादिणकारान्तत्वेनानुगतरूपेणैव प्रवेशात् सङ्केत- भेदाभावेन कथं तात्पर्यसन्देहः । नहि पश्वादिपदं शृण्वन् 'किं पीतलाङ्गूलावच्छिन्न- बोधतात्पर्येणायमेतत्पशुपदमुदचीचरत्, उत श्वेतलाङ्गूलावच्छिन्नबोधतात्पर्येणे'ति कश्चित्सन्दिहानो भवति, लाङ्गूलस्य पशुपदशक्तौ विशेषरूपेण प्रवेशाभावादिति चेत् सत्यम् । एवं सति पूर्वणकारस्य वैयर्थ्यापत्त्या ईदृशस्यानुगतधर्मस्याण्पदसङ्केतता- ननु—तात्पर्यसन्देहोऽपि तदैव यदा सङ्केतभेदो भवति, सङ्केतभेदश्च तदैव यदा शक्यता- वच्छेदकभेदः शक्यतावच्छेदकतावच्छेदकभेदो वा । यथा—घटपदात् घटत्वेनानेकव्यक्त्युपस्थितावपि शक्त्यन्तराभावेन सन्देहोत्थापकार्थान्तरानुपस्थितौ उपस्थितिविषयतावच्छेदकावच्छिन्नबोध- प्रयोजकतात्पर्यसन्देहस्याभावस्तद्वदत्रापि सन्देहस्य दुरुपपादत्वम्, अतः शङ्कासमाधानाभ्यां प्रकृते सङ्केतभेदमपपादयन्नाह—नन्विति । सन्दिहानो भवतीति । पशुपदशक्तिप्रमावतः पुरुषस्य पीतत्वादिविशेषरूपेण लाङ्गूला- वच्छिन्नबोधजनकत्वाभाववत्प्रकारकनिश्चयात्मकप्रतिबन्धकसद्भावेन सन्देहासम्भवादिति भावः । विशेषरूपेणेति । पीतत्वादीनानारूपेणेति तदर्थः ।

वच्छेदकताया अनभ्युपगमेन त्रिकवृत्तिचतुर्दशवृत्त्योर्व्याप्यव्यापकयोरन्यतमत्वयो- रेव सङ्केततावच्छेदकतायाः कल्पनेन नानाशक्तिकत्वात् सन्देहः स्यादेवेति बोध्यम् । वस्तुतस्तु—अन्त्येत्सदृशेन सहित आदिसदृशः स्वघटकानुयोगिकसादृश्यप्रतियोगि- त्वेन विवक्षितवर्णनिष्ठान्ततानिरूपकस्य स्वघटकानुयोगिकसादृश्यप्रतियोगित्वेन विवक्षितवर्णनिष्ठादितानिरूपकस्य समुदायस्य घटकानां संज्ञेति आदिरन्त्येनेति सङ्ग्राहकवाक्यार्थस्य सर्वाभिमतत्वेन सूत्रस्थाणघटक-णस्य 'अइउण्'सूत्रस्थणकार- सदृशत्वेन विवक्षायामकारस्य 'अइउण्'-सूत्रघटकाकारसदृशत्वेन विवक्षायाञ्च तदण्- पदशक्यतावच्छेदककुक्षौ अ-इ-उ-इत्येतत्त्रितयवृत्तिसमुदायत्वस्य, उक्तणकारस्य लण्- घटकणकारसदृशत्वेन विवक्षायाञ्च तादृशान्तचतुर्दशवर्णसमुदाय

१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७ विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानाच्छिष्टकृतात् प्रतिपत्तिर्निश्चयो यतः सन्देहाच्छास्त्रमलक्षणमननुष्ठापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः । असन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे सन्दिग्धो- च्चारणरूपाचार्यव्यवहारेण सन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत् । अन्यतराद्येति । आदिपदं बहुकोटिकसंशये अन्यतमपरिग्रहाय । शिष्ट- कृतादिति । शिष्टपदेन निखिलशब्दधर्मिकसाधुत्वप्रकारकयथार्थज्ञानवान् इह गृह्यते । हि यत इति । हिशब्दस्त्वर्थ इति तु परे। अननुष्ठापकमिति । शब्दविशेष- धर्मिकसाधुत्वप्रकारकनिश्चयजनकत्वाभाववन्नेत्यर्थः । असन्दिग्धेति । सन्दिग्धं सन्देहो भावे क्तः, न विद्यते सन्दिग्धम् = सन्देहो यस्मिन्नित्यर्थः; सन्दिग्धेति ( पदं ) भावक्तान्तप्रकृतिकार्शआद्यजन्तम्, सन्देहजनके लाक्षणिकं वा । तथा च सन्देह- रहितप्रवृत्तिप्रयोजकेऽत्र शास्त्रे सन्देहजनकाइउण्-घटकणकारकर्मकोच्चारणरूपा- चार्यव्यवहारेण निरुक्तार्थरूपा 'व्याख्यानतो' इति परिभाषा ज्ञाप्यत इत्यर्थः पर्यवस्यति । इति; इदमण् इत्यपि पदम्; तस्मात्तथा' इत्यनुमानेन आप्तोच्चरितवाक्यत्वावच्छेदेन तत्समवेत- तात्पर्यान्तरौयविशेष्यत्वासमानाधिकरणातत्पर्यज्ञानीयविशेष्यतावत्त्वनिश्चये, 'अण्पदम् अ-इ-उ- , एतत्त्रितयविषयकबोधजनकत्वप्रकारकतात्पर्यज्ञानविशिष्टविशेष्यतावत्, आहोस्वित् अ-इ-उ-ऋ-ऌ- ए-ओ-ऐ-औ-ह-य-व-र-ल-इत्येतच्चतुर्दशविषयकबोधजनकत्वप्रकारकतात्पर्यज्ञानविशिष्टविशेष्यता- वत्' इत्याकारकस्य सन्देहस्योपपादयितुं शक्यत्वात् । ज्ञानवैशिष्टयञ्च विशेष्यतायाम्—स्वनिरू- पितत्व-स्वसमवायिसमवेततात्पर्यान्तरीयविशेष्यतासामानाधिकरण्यैतदुभयसंसर्गेण इति । मूले—हि यत इति । परिभाषायां हिशब्दो हेतुं बोधयति, लक्षणशब्दस्य बोधजनकत्व- मर्थः, अननुष्ठापकमित्यस्य प्रवृत्तिप्रयोजकत्वाभाववदर्थः, तस्य च बोधेऽन्वयः, शास्त्रमित्यध्या- हारः, प्रवृत्तिप्रयोजको बोधश्च प्रकृते शब्दविशेषधर्मिकसाधुत्वप्रकारकनिश्चयात्मकः शास्त्रमतो- ऽननुष्ठापकबोधजनकं नेति शाब्दबोधः । यतः = यस्माद्धेतोः, यद्यच्छास्त्रं तत्सर्वमनुष्ठापकमेवा- तस्तात्पर्यसन्देहमात्रात्तदभावस्त्वनुचित इति तात्पर्यम् 'न हि सन्देहादलक्षणम्' इति परिभाषां- शस्येति भावः । अन्ये तु—इदं व्याख्यानमनुचितम्, यद्यल्लक्षणं तत्सर्वमनुष्ठापकमिति व्याप्तेः 'न बहु- व्रीहौ' इत्यादिप्रत्याख्यातलक्षणानां 'त्वत्कपितृक' इत्यादिलक्ष्याननुष्ठापकत्वेन व्यभिचारेणासम्भ- वात् । तस्माद् 'हिशब्दस्त्वर्थे' । तथा च सन्देहात् तु = सन्देहमात्रेण तु, लक्षणमलक्षणं न भवति- प्रत्याख्यानादिना लक्षणमलक्षणं भवदपि सन्देहमात्रेण लक्षणमलक्षणं = साक्षात्परम्परया वाऽसन्दिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकबोधजनकं न भवतीत्यर्थः, लक्षणशब्दस्येदृशार्थ एव वैयाकरणनिकाये रूढेः । एवञ्चाननुष्ठापकमिति मध्यमपदलोपी कर्म- धारयोऽपि व्यर्थ एवेत्याहुरित्याशयेनाह—हि शब्दस्त्वर्थ इति तु परे इति ।

८ परिभाषेन्दुशेखरः [ १ प्रकरणे तेनाणुदित्सवर्णस्येत्येतत्परिहाय पूर्वेणाण्ग्रहणम्, परेणेण्ग्रहणमिति लण्सूत्रे भाष्ये स्पष्टम् ॥ १ ॥ सन्देहनिवृत्तेर्व्याख्यानापेक्षत्वमिति परिभाषास्वारसिकार्थं विहाय, व्याख्याना- तिरिक्तनिमित्तानपेक्षत्वमिति वक्रोक्त्या प्रतिपादयन्तु-यत्र व्याख्यानेन तदतिरिक्तप्रमाणेन वा सन्देहनिवृत्तिः प्राप्ता, तत्र व्याख्यानाज्जायमानसन्देह- निवृत्तेरेव प्रकृतशास्त्रप्रवृत्तिप्रयोजकत्वमिति बोधनाय । अत एव 'हृदयस्ये'ति सूत्रे लेखोच्चारणसामर्थ्यात् लेखेति घञन्ते तात्पर्यं प्राप्नोति, तथापि ज्ञापकपरभाष्य- व्याख्यानेन अणन्त एव लेखपदस्य तात्पर्यमवधार्यते, न तु घञन्ते । तथा च 'यथोत्तरं मुनीनां प्रामाण्यमि'ति वचनमप्येतत्सिद्धार्थानुवादकमेव । यथोत्तरं मुनीनां प्रामाण्यमित्यस्योत्तरोत्तरमुन्यभिप्रेतेऽर्थे पूर्वपूर्वमुनीनां तात्पर्यमित्येवार्थः, न तु पूर्वमुनीनामप्रामाण्यमिति; अन्यथैतद्दृष्टान्तेन सम्पूर्णशास्त्रस्याप्रामाण्यापत्तिः । यत्तु-शेखरकृतो

१-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९ तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह— यथोद्देशं संज्ञापरिभाषम् ॥ २ ॥ कार्यकालं संज्ञापरिभाषम् ॥ ३ ॥ —: ० :— उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः अधिकरणसाधन- श्चायम् । यत्र देशे उपदिश्यते तद्देशे एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीत- —————— 'यथोत्तरमि'त्यत्र स्वसम्मतिरुक्ता । 'व्याख्यानत' इत्यतः स्वरसतस्तादृशार्थाप्रतीतिः, निरुक्तार्थे ज्ञापितेऽपि णकारस्य स्वांशेऽचारितार्थ्यञ्चेति वदन्तीति दिक् ॥ १ ॥ सकलपरिभाषाविषयं परिभाषाद्वयं वक्तुमुपक्रमते—तत्रेति । शास्त्रे इत्यर्थः, तेन शास्त्रत्वावच्छेदेन संज्ञापरिभाषाविषयकं पक्षद्वयम्, न तु प्रत्येकं संज्ञात्वाद्य- वच्छेदेनेति भावः । उद्देशमनतिक्रम्येति । 'परावरयोगे चे'ति क्त्वा, 'यथासादृश्य' इत्यव्ययीभावः । गृहीतशक्त्येति । इदं संज्ञाविषयकम्, संज्ञाशास्त्रजन्यवाक्यार्थबोध- रूपशक्त्यनुभवोपोद्वलितसंस्कारेणैव तत्तत्साङ्केतिकविधिशास्त्रघटकपदानुभवोद्बुद्धेन उपस्थितिशाब्दबोधयोर्निर्वाहे विधिदेशे पुनरेतत्प्रतिसन्धानस्य नोपयोग इति भावः । अथैवं संज्ञाविषये कार्यकालपक्षानुत्थितिः, प्रदर्शितदिशैव उपस्थित्यादेरुपपत्त्या विधिप्रदेशे संज्ञाशास्त्रजन्यवाक्यार्थस्यानुपयोगादिति चेन्न । अनुभवेनोपस्थित्यो- —————— ज्ञापिते च भाष्यकारादिबोधिते एव सूत्रार्थे सूत्रकृतोऽपि तात्पर्यमित्यर्थे, तेन प्रत्याख्यान- वादिमतं प्रबलमेवंविधविषये इति च ध्वन्यते । तथा सति सूत्रस्य दृष्टार्थकत्वाभावेनाकारविधानं गुणाभावाय चरितार्थं वेदितव्यम् । ध्वनितश्चायमर्थो भाष्यकृता-'अपि च प्रत्याख्यायते स योगः, तस्मिन् प्रत्याख्याते गुणः स्यादेव, तस्मादत्वं वक्तव्यम्' इत्यादिना ग्रन्थेनेत्यवधेयम् ॥ १ ॥ न तु प्रत्येकं संज्ञात्वाद्यवच्छेदेनेति । अत्रेदं तात्पर्यम्-शास्त्रे पक्षद्वयमित्येतन्मात्रोक्तौ 'उद्देश्यतावच्छेदकव्यापकत्वं विधेये भासते' इति न्यायेन शास्त्रत्वावच्छेदेन पक्षद्वयप्राप्त्या विधि- सूत्रादावपि तदापत्तिः; केवलं संज्ञापरिभाषाविषये पक्षद्वयमित्येतदुक्तौ च प्रत्येकं संज्ञात्वावच्छेदेन पक्षद्वयं प्राप्नोतीत्यतः उभयमुपात्तम् । तथा च 'शास्त्रत्वं संज्ञापरिभाषासमुदायनिष्ठं ग्राह्यमिति तदवच्छेदेन पक्षद्वयम्' इत्यत्रैव तात्पर्यग्राहकत्वं संज्ञापरिभाषाविषये इत्यस्य । संज्ञापरिभाषा- समुदायनिष्ठशास्त्रत्वञ्च—लक्ष्यधर्मिकमाधुत्वप्रकारबोधोपयोगिबोधजनकत्वप्रकारकेच्छया पाणि- न्याद्युच्चरितानुपूर्वीमद्वाक्यकदम्बविशेषत्वमिति बोध्यम् । एतेन—प्रतिसंज्ञापरिभाषं पक्षद्वयं प्राप्नोतीति क्वचिद्यथोद्देश एव, क्वचित्कार्यकाल एव, क्वचिदुभयमित्येतदसङ्गतं स्यादित्यपास्तम्; प्रतिसंज्ञापरिभाषं पक्षद्वयाभावेऽपि शास्त्रे पक्षद्वयस्य सत्त्वादिति भावः । २

१० परिभाषेन्दुशेखरः [ १ प्रकरणे-

परिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः । देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियते । तत्तद्वाक्यार्थबोधे जाते 'भविष्यति किञ्चिदनेन प्रयोजनम्'ति ज्ञानमात्रेण सन्तुष्ययथाश्रुतग्राहिप्रतिपत्त्रपेक्षोऽयं पक्ष इतीदूतसूत्रे कैयटः । केचित्तु परिभाषाविषये तस्मिन्नित्यादिवाक्यार्थबोधे सप्तमीनिर्देशादि क्वेति पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सकलतत्तत्संस्काराय गुणभेदं परि- कल्प्यैकवाक्यतयैव नियमः । कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति पयिकसंस्कारे जननीये अपेक्षाधियोऽपि सहकारितया यस्य श्रोतुः यत्संज्ञाशास्त्रजनित- बोधविषये उपेक्षाबुद्धिर्जाता, तत्पारिभाषिकपदस्य तदर्थानुभावकतायास्तत्तद्विधि- प्रदेशेऽप्रसक्त्या पुनस्तत्र संज्ञाशास्त्रजन्यबोधस्याऽऽवश्यकत्वात् । एवञ्चापेक्षाधीसह- कृते तत्तद्वाक्यार्थबोधे सति दृढतरसंस्कारस्य जननात् वारंवारं तत्तद्बोधस्यानपेक्षिक- तत्वेन अपेक्षाधिय एव यथोद्देशपक्ष-बीजता; उपेक्षाधियश्च कार्यकालपक्ष-बीजता पर्यवस्यति । स्वमतमाह-केचित्त्विति । सकलतत्तदिति । यत्संस्कार उद्बुद्धस्तत्सकलेत्यर्थः, तद्विषय एव च यथोद्देशपक्ष इति भावः । गुणभेदम् = गुणशास्त्रविधेयभेदम् । एकवाक्यतयैवेति । पदैकवाक्यतयेति भावः । एकवाक्यता च त्रिधा-पदैकवाक्यता, अर्थैकवाक्यता, वाक्यैकवाक्यता चेति । तस्मिन्निति शास्त्रस्य पदोपस्थापकत्वपक्षे 'इको यणची'त्यादि- सप्तम्यन्तपदघटितशास्त्रैः सह स्वघटकपदप्रयोज्यविषयता-निरूपितविषयताप्रयोजक- पदघटितत्वरूपा आद्या ; तस्यार्थोपस्थापकत्वपक्षे विधिशास्त्रीय-'अची'त्यादिसप्तम्यन्त- पदानां लक्षणया अजव्यवहितपूर्वत्वाद्यर्थतात्पर्यकत्वरूपे च स्वोपस्थाप्यार्थनिष्ठ- विषयता-निरूपितविषयताप्रयोजकपदघटितत्वरूपा द्वितीया ; उपजीव्योपजीवक- भावापन्नबोधप्रयोजकत्वरूपा तृतीया ; यथा 'क्ङिति चे'त्यादिनिषेधशास्त्राणां संस्कारे जननीये इति । स्मरणं प्रत्यनुभवस्य कारणत्वोपपत्तये मध्ये संस्काराख्यो व्यापारः आत्मन्यङ्गीक्रियते, तस्य संस्कारस्यात्मनि सर्वदा सत्त्वात् सर्वदा स्मरणवारणाय, उद्बुद्ध- संस्कारस्यैव स्मरणं प्रति कारणत्वमङ्गीक्रियते; उद्बोधकैकसम्बन्धिज्ञानादिसत्त्वेऽपि कुत्रचित् स्मरणादर्शनात् दृढतरस्यैव संस्कारस्य कारणत्वमङ्गीक्रियते ; संस्कारदार्ढ्यं प्रति चापेक्षाबुद्धेः कारणत्वम्, उपेक्षाबुद्धौ च न दृढतरसंस्कार उत्पद्यते । एवञ्चोपेक्षाबुद्धौ नैष्फल्यज्ञानं कारणम्, अपेक्षाबुद्धौ च साफल्यज्ञानमिति बोध्यम् । तथा च 'आदेचो वृद्धिपदवाच्याः' इति शक्तिग्रहे जाते साध्वनुशासनेऽस्मिन् शास्त्रे सङ्केतग्रहस्यानुपयोगात् 'इदं शास्त्रमनर्थकम्' इत्याऽऽनर्थक्यज्ञानेन उपेक्षाबुद्धिश्चेत् कार्यकालपक्षः । यद्यपीदानीं फलं न दृश्यते, तथापि 'इदं शास्त्रमाप्तमहर्षिणा प्रणीतमतोऽनर्थकं न भवति, किन्तु भविष्यति किञ्चिदनेन प्रयोजनम्' इति सार्थक्यबुद्ध्याऽपेक्षाबुद्धिश्चेत् यथोद्देशपक्षः, इत्ये- तदाशयेनाह-अपेक्षाधिय एवेत्यादिः ।

विशेषः । एतदेवाभिप्रेत्य अधिकारो नाम त्रिप्रकारः कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा-प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति' इति 'षष्ठी स्थाने' इति सूत्रे भाष्य उक्तम् । अधिकारशब्देन पारार्थ्यात्परि- भाषाऽप्युच्यते । कश्चित्परिभाषारूप इति कैयटः । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्- तात्पर्यम् । एतच्च पक्षद्वयसाधारणं भाष्यम्, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः । तत्रैतावान्विशेषः—यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धौ आत्मभेदं परिकल्प्य तैरेकवाक्यता परिभाषाणाम् । तदुक्तम् 'क्ङिति चे'ति सूत्रे कैयटे- 'यथोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जत' इति । 'सावेधातुके'त्यादिनिषेध्यशास्त्रीय-सार्वधातुकेत्यादिपदसम्बन्धि-क्ङि-द्भिन्नसार्वधातुका- द्यर्थनिर्णायकत्वरूपा । कार्यकालपक्षे त्विति । तुरेवार्थे, कार्यकाले एव त्रिपाद्यामुप- स्थितिर्नान्यपक्षे इत्यर्थः । त्रिपाद्यामपीति । अपिना सपादीसङ्ग्रहः । वस्तुतः इदं शास्त्रत्वा- वच्छिन्नोद्देश्यताकपरिभाषाविषयकम् । शास्त्रत्वसम्पादकपरिभाषाणान्तु पक्षद्वयेऽपि- त्रिपाद्यामुपस्थितिः, तत्परिभाषाप्रवृत्तेः प्राक् त्रैपादिकस्य शास्त्रत्वाभावेन 'पूर्वत्रा- सिद्धमि'त्यनेन असिद्धत्वप्रतिपादनासम्भवात् । त्रिप्रकार इति । मूलोक्त एकः । द्वितीयो यथा—रज्ज्वायसा वा बद्धं काष्ठमनुकृष्यते, तद्वदनुकृष्यते चकारेणेति । चकारमन्तरा- ऽपि 'योगे योगे' उपतिष्ठत इति तृतीयो'ऽङ्गस्ये'ति सूत्ररूपः । अधिकारत्वञ्च-स्वदेशे लक्ष्यसंस्कारोपयोगिविधिशास्त्रीयवाक्यार्थबोधोपकारकवाक्यार्थानुभावकत्वे सति विधिशास्त्रीयलक्ष्यसंस्कारोपयोगिवाक्यार्थबोधप्रयोजकत्वम् । संज्ञादिवारणाय सत्य- न्तम्, शेष इत्यत्राव्याप्तिवारणाय वाक्यार्थे विधिशास्त्रीयवाक्यार्थबोधोपकारकेति विशेषणं सत्यन्ते । एवम् = दीपवत् । एतत् = परिभाषाशास्त्रम् । स्वबुद्धीति । स्वविधेय- बुद्धीत्यर्थः । यथोद्देशपक्षाभिप्रायकमिदं भाष्यमिति कैयटमतं खण्डयति—एतच्चेति । यथोद्देशपक्षाभिप्रायकत्वे तु—परिभाषाविषये कार्यकाल पक्ष एव न स्यात्, परिभाषा- मात्रस्याधिकारपदेन ग्रहणात् । तदाऽऽह = पक्षद्वयेऽपीति । इतः = भाष्यात् । आत्मभेदम् = परिभाषाविधेयभेदम् । परिकल्प्य = बोद्धृभिः परिभाषाणां तैर्विधिशास्त्रैः सहैक- वाक्यता क्रियत इत्यर्थः, तैः विधिशास्त्रैरिति कर्तृपदं वा । अत्र क्रियत इत्यध्याहारान्न वस्तुत इति । इदं प्राचां मतेन । नवीनमते तु शास्त्रत्वावच्छिन्नोद्देश्यताकपरिभाषाणाम् 'अन्तरङ्गे' इत्यादीनां त्रिपाद्यामप्रवृत्तिरेव । तुरप्यर्थे इति । अपिना परिभाषाशास्त्रस्यापि ग्रहणम् । तस्यापि लक्ष्यसंस्कारोपयोगिप्रदेशवाक्येन सहैव भवतीत्यर्थः । लक्ष्यसंस्कारोपयोगी- त्यस्य च लक्ष्यधर्मिकसाधुत्वप्रकारकबोधोपयोगीत्यर्थः । एतेन—पदार्थोपस्थितियोग्यताज्ञानादि- सामग्रीसत्त्वे शाब्दबोधस्य दुर्वारतया इदमसङ्गतमित्यपास्तम् ।

' with 'ि' AND an 'ा'! "द्धिा"!! And look at line 33 end: "‘मृजेर्वृद्धिार’-" -> again with an 'ा'!! The print literally has "‘मृजेर्वृद्धिारि’त्येत-" and "‘मृजेर्वृद्धिार’-", or wait, is it 'वृद्धिर्'? Wait, let's look at line 32: ‘मृजेर्वृद्धि’ -> Panini 7.2.114 is "मृजेर्वृद्धिः" (mṛjer vṛddhiḥ). In the print: मृ (mṛ) जे (je) र् (r) वृ (vṛ) द्धि (ddhi) Then a vertical stroke: is it a visarga? No, it's an 'ा' (aa-matra) or is it a danda? Wait, if it were a danda, why would it be inside quotes? Wait, let's look at the quotes: ‘मृजेर्वृद्धि’ followed by 'ा'? No, wait! Could it be 'र्' (repha) on something? Look at: मृ - जे - र् - वृ - द्धि - [vertical line] - रि - ’ - त्ये - त - Wait! Is that 'रि'? Wait! Look at the letter: There is द्धि. Then a vertical line. Then र

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३ त्यस्य देशे 'वृद्धिरादैज्'त्यस्य पुनर्वाक्यार्थबोधात् तेन सह पदैकवाक्यता। अत्र पक्षे विधिदेश एक संज्ञाशास्त्रस्य सफलवाक्यार्थबोधाद्विदेशीयत्वमेव। अत एव 'अयादिभ्यः परैव प्रगृह्यसंज्ञे'ति भाष्यं सङ्गच्छते। 'अमी' इत्यत्र च 'अणोऽप्रगृह्यस्ये'- त्येतदेकवाक्यतापन्ना'दसो मादि'त्येतद्दृष्ट्या मीत्वस्य सिद्धत्वेन प्रगृह्यसंज्ञायां नानुनासिकः। यथोद्देशपक्षे तु 'वृद्धिरादैज्'त्यस्य वाक्यार्थबोधरूपे शक्तिग्रहे वृत्ते, भविष्यति किञ्चिदनेन प्रयोजनमिति भाविफलानुसन्धानापेक्षाबुद्ध्या आचार्यवाक्ये विश्वासवता छात्रेण तदभ्यासेन दृढतरसंस्कारेण 'मृजेर्वृद्धिर्'त्येत- द्वाक्यार्थबोधकाले एकसम्बन्धिज्ञानमितिविधया संस्कारोद्बोधे सति आदेचामुपस्थितौ 'वृद्धिरादैजि'त्येत

२४ परिभाषेन्दुशेखरः [ १ प्रकरणे- वाक्येन सहैव। अत एव 'अणोऽप्रगृह्यस्ये'त्येतदेकवाक्यतापन्ना'ऽदसो मादि'- स्थितौ न पुनर्वाक्यार्थबोधापेक्षा। परिभाषाविषय एवेदृशजिज्ञासुसत्त्वे प्रमाणञ्च निरुक्तभाष्यकैयटायेव। एवं शिष्यजिज्ञासया ये विधय उपस्थितास्तद्विषय एव यथो- देशत्वम्, अनुपस्थितविधिविषये कार्यकालत्वम्। 'पूर्वत्रासिद्धमि'त्यनेन त्रैपाद्या असि- द्धत्वात् पूर्वोक्तशिष्यजिज्ञासायां सत्यामपि आचार्येण त्रैपादिकस्य नोपस्थितिः कृता, अत्रापि भाष्यादिव्यवहार एव शरणमिति प्राहुः। अत एवेति। प्रदेश एव सफलवाक्यार्थबोधेन प्रदेशस्य मुख्यदेशत्वादेवेत्यर्थः। प्राहुरिति। अत्रायं परिभाषाविषये प्राचीन-नवीनमतविवेकः—नव्यमते यथोद्देशपक्षे परिभाषादेशे एव विधिशास्त्राणामुपस्थित्या पदैकवाक्यतयैव लक्ष्यसंस्कारको बोधः, विधि- शास्त्राणामुपस्थितौ च 'सप्तमीनिर्देशादि क्व' इति छात्राणां जिज्ञासैव बीजम्। प्राच्यमते तु—अस्ति किञ्चिदस्याः प्रयोजनमित्युपेक्षाबुद्धिपूर्वकं परिभाषावाक्यार्थबोधः स्वदेशे एव, एकवाक्यतया बोधस्तु विधिदेशे एव। नवीनमते स्वदेशे पदैकवाक्यतयैव लक्ष्यसंस्कारक- बोधोदयेनोपेक्षाबुद्धेरनवकाशेन येषां दैवाद् देशे उपस्थानं तेषु यथोद्देशः, येषां चानुपस्थितिस्तैः स्वदेशे स्वसंस्काराय परिभाषाशास्त्रविधेयमात्रमुपस्थाप्यते इत्ययमेव कार्यकालपक्षः, न तु परिभाषा तत्रोपतिष्ठते। एवञ्च नव्यमते नोपेक्षापेक्षाबुद्धी तत्पक्षयोर्बीजमूले इति वेदितव्यम्। 'न च कार्यकालपक्षे ङमो ह्रस्वादीत्यादावि'ति मूलोक्तशङ्काग्रन्थस्तु प्राचामनुरोधेन। प्राचीनमते तु त एव बीजभूते इति कार्यकालपक्षे परिभाषाया एव विधिदेशे उपस्थानं गुरुणा क्रियते, उपेक्षाबुद्ध्या छात्राणां विधेयार्थस्मरणासम्भवात्। नव्यमते उभयपक्षे परिभाषाणां पाठदेश एव मुख्य इति तत्कृतैव पूर्वत्व-परत्वव्यवस्था ज्ञेया। अत एव 'एकदेशस्थ०' इति भाष्यं सङ्गच्छते। प्राचीनमते तु यथोद्देशे पाठदेश एव मुख्यः, कार्यकाले तु विधिदेशीयत्वेन स एव देशो मुख्यः। विधिदेशीयत्वादेव 'तावताऽप्यसिद्धिरि'ति 'पूर्वत्रे'ति भाष्यं स्वरसत उपपद्यते। परमुख्या- संभवे गौणेनापि पूर्वत्व-परत्वव्यस्थेति न 'ङमो ह्रस्वादि'ति सूत्रस्थभाष्यविरोधः। 'एकदेशस्थ' इति भाष्यन्तु यथोद्देशपक्षाभिप्रायेणेति। वस्तुतस्तु—पूर्वत्रेति 'भाष्यानुरोधात् प्राचीनाभिमत एव कार्यकालपक्षो नागेशसम्मतः, अन्यथा तावताऽप्यसिद्धिरित्यभिप्रायके 'कथमिति प्रश्नस्य निर्बलतापत्तेः। किञ्च—यथोद्देश- पक्षोऽपि प्राचीनसम्मत एव नागेशेनाभिप्रेयते; 'केचित्तु' मतम् एकदेशिन एव बोध्यम्। 'एक- देशस्थ' इति भाष्यं यथोद्देशपक्षाभिप्रायेण। अभिज्वालकत्वञ्च संस्कारकत्वमात्रम्, न तु एकवाक्य- तया संस्कारकत्वमिति बोध्यम्। किञ्च—परिभाषाणां विधिदेशे उपस्थितावपि तद्देशीयत्वं वारयति इदं भाष्यमिति सर्वमुपपन्नमित्यलम्।

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५ त्येतत्प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेशदेश एवेति तद्देशस्थस्यासिद्धत्वात्पूर्वग्रहणेना- ग्रहणात् । एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानं चेति तत्रत्यपरत्वमेव विप्रतिषेधसूत्रप्रवृत्तौ बीजम् । अत एव कार्यकालपक्षे 'अयादिभ्यः परैव प्रगृह्यसंज्ञेति 'अदसो मादि'ति सूत्रे भाष्य उक्तम् । आकडाराधिकारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्रत्य- परत्वेनैव बाध्यबाधकभावः । पदादिसंज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्या- मपि व्यवहारः । अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे परिभाषाणामेव त्रिपाद्या-

अत एवेति । सफलवाक्यार्थबोधाधिकरणमुख्यदेशमादाय विप्रतिषेधशास्त्रप्रवृत्ति- स्वीकारादेवेत्यर्थः । अयादिभ्यः परैवेति । अत्र पक्षे 'अदसो मादि'त्यस्य 'प्लुतप्रगृह्या' इत्येतदेकवाक्यत्वादित्यर्थः । यथोद्देशपक्ष एवेति । अत्र मानञ्च 'अपादानमुत्तराणि कारकाणि बाधन्ते' इति भाष्यम् । अत्र विषये कार्यकालपक्षस्वीकारे तु—अपादानसंज्ञाया 'अपादाने पञ्चमी'त्येतदेकवाक्यतापन्नाया एव 'कर्मणि द्वितीये'त्येतदेकवाक्यतापन्नकर्म- संज्ञापेक्षया परत्वेन कर्मादिसंज्ञानां परत्वाद् अपादानसंज्ञाबाधकत्वकथनमसङ्गतं स्यात् । तत्फलन्तु 'राज्ञ' इत्यत्र नलोपाभावः ; अन्यथा 'अल्लोपोऽनः' इत्येत- देकवाक्यतापन्न-'यचि भम्'इत्येतद्दृष्ट्या 'नलोपः प्रातिपदिकेत्ये'तदेकवाक्यतापन्न- 'स्वादिष्वसर्वनामस्थाने' इत्यस्यासिद्धत्वेन नलोपो दुर्वारः स्यात् । न च निर- काशतया भसंज्ञा बाधिका स्यादिति वाच्यम् ; 'नित्यवीप्सयोरि'त्येकवाक्यतापन्न- पदसंज्ञाबाधनद्वारा प्रकृतिमात्रस्य प्रसिद्धित्वाभावसम्पादनेन सूत्रस्य चारितार्थ्या- दसिद्धकाण्डैकवाक्यतापन्नपदसंज्ञाबाधने मानाभावात् । किञ्च—यदा कार्यं तदा संज्ञेत्यस्यैव कार्यकालत्वेन 'दण्डिने'त्यत्र भसंज्ञाप्रयुक्तकार्याभावेन भत्वाप्राप्त्या स्वादि- ष्विति पदत्वमादाय नलोपः 'नद्ये'त्यत्र 'इकोऽसवर्ण' इति प्रकृतिभावश्च स्यादिति भसंज्ञादिविषये यथोद्देशपक्षः स्वीकार्यः । अत्र भाष्यान्तरं प्रमाणयति—अत एवेति । यद्यपीदं भाष्यं सर्वसंज्ञाविषये यथोद्देशपक्षे प्रमाणभूतम् ; तथाप्यन्यसंज्ञाविषये कार्यकालस्याप्युक्तत्वेन एतद्भाष्यमाकडारीयसंज्ञायामेव यथोद्देशपक्षत्वे पर्यवस्यति । अयादिभ्यः परैवेतीति । संज्ञाशास्त्राणामिदमेव कार्यकालपक्षफलम् । त्रिपाद्यां प्रवृत्तिस्तु न तत्फलम्, भपदसंज्ञावज्जातशक्तिग्रहेण त्रिपाद्यामपि व्यवहारसिद्धेः; अन्यथा संज्ञानामुपजीव्यत्वात् ता विना त्रिपादिस्थशास्त्राणां वाक्यार्थबोधासंभवेन नैरर्थक्यापातात् । मानाभावादिति । ननु असिद्धकाण्डैकवाक्यतापन्नपदसंज्ञया भसंज्ञया बाधाभावे 'राजन्य' इत्यत्र पदसंज्ञया नलोपे जाते 'नस्तद्धिते' इत्यस्याप्राप्त्या 'ये चाभावकर्मणोः' इति व्यर्थं स्यादित्यस्ति मानमित्यरुचेराह—किञ्चेति ॥ २ ॥

'ऽऽदिरन्त्येने'त्येतद्दृष्ट्या ऊत्वस्य सिद्धत्वेनेण्त्वात् षत्वं Wait, let's verify line 15 start: "प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या ऊत्वस्य सिद्धत्वेनेण्त्वात् षत्वं" Wait, is it "प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या" or "प्रत्यययोborder"? Line 14 ends with "'आदेश-" Line 15 starts with "प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या" Wait, let's look at the quotes: In line 14: 'आदेश- In line 15: प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या Yes, that's 'आदेशप्रत्यययोः' split across lines 14-15!

Line 16: भवतीति वाच्यम्; जातिपक्षे दोषाभावात् । अत्र पक्षे आदिरन्त्येनेति शास्त्रं मध्यगवृत्ति-

Line 17: जातिमतां संज्ञां करोति, उत्त्वादिजातेश्च सि

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १७ अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रवृत्तिमाशङ्क्य, यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा, तावताऽप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने— 'कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमि'त्युक्तम् । अत एवेति । परिभाषाणां विधेयार्थस्मरणादेवेत्यर्थः । तावताऽप्यसिद्धिरित्यस्य संस्कारकस्य सिद्धत्वेऽपि संस्कारकदृष्ट्या संस्कार्यस्यासिद्धत्वेन संस्कारासम्भव इत्यर्थः । ननु नागेशमते—परिभाषादेशे येषां शास्त्राणां वाक्यार्थबोधो जातस्तेषु यथो- देशपक्षः, येषां न जातस्तेषु कार्यकाल इत्यस्य सत्त्वेन तावताऽप्यसिद्धिरिति शङ्को- त्थितिर्न सम्भवतीति चेत् ; शृणु । यथोद्देशपरिभाषामात्रस्वीकारे अप्रवृत्तिशङ्का, द्वितीयपरिभाषास्वीकारेण समाधानम् । यद्यपीति । अयं भावः—त्रैपादिकं विधिशास्त्रं स्वसंस्काराय परिभाषादेशेऽसिद्ध- त्वान्न गच्छति ; तथापि सापादिकपरिभाषाशास्त्रमिहागन्तुं शक्नोतीति सिद्धान्तिनोक्ते पूर्वपक्षी पुनराह—कथमिति । अयं भावः—'पूर्वत्रासिद्धमि'त्यनेन परिभाषादृष्ट्या त्रैपादिकविधेरसिद्धत्वात् कथं त्रैपादिकविधिं संस्कुर्यादिति ? तत्राऽऽह—कार्यकालमिति । अयमाशयः—यथा—कश्चिन्मर्त्य इह लोके देवानपश्यन्नपि भाग्यवशाद्देवैः स्वर्गं प्राप्यमाणः सर्वान् देवान् पश्यति, हरिं गर्भस्थ इव हेमाद्रिशर्मा मनुष्यो लङ्कां गतो रावणादिराक्षसानिव तद्देशमाहात्म्यात्, तथेहापि त्रिपाद्यामुपगतं परिभाषाशास्त्रं त्रैपादिकविधिं पश्यति देशमाहात्म्यादेव । अन्यथा कार्यकालपक्ष उच्छिन्न एव स्यादिति । केचित्तु—एतद्ग्रन्थस्वारस्यात् परिभाषाविषयेऽपि प्राचीनोक्त-कार्यकाल एव परिभाषायां प्रमाणमाह मूले—अत एवेति । परिभाषाणामप्रवृत्तिमिति । संज्ञा- शास्त्राणान्तु जातशक्तिग्रहेणैव त्रिपाद्यां व्यवहारस्य सिद्धत्वादिति प्रागुक्तत्वात् परिभाषाणा- मित्युक्तमिति भावः । इदम् = त्रिपादीस्थम् । तत्र = सपादसप्ताध्यायीस्थे परिभाषाशास्त्रे । तत्तु = परिभाषाशास्त्रन्तु । इह = त्रिपाद्यामित्यर्थः । एतद्ग्रन्थस्वारस्यादिति । 'पूर्वत्रासिद्धम्' इति सूत्रस्थशङ्कासमाधानपर-भाष्यग्रन्थ- स्वारस्यादिति तदर्थः । नागेशमते कार्यकालपक्षेऽपि परिभाषाशास्त्रं स्वदेशे तिष्ठदेव कथमसिद्धं त्रैपादिकशास्त्रं संस्कुर्यात्, अतस्तत्रोपस्थानं परिभाषाशास्त्राणां तैरपि मन्तव्यम् । तथा सति 'यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमि'ति भाष्यं स्वरसत उपपद्यते । तद्देशस्थत्वेन च पूर्वदेशस्थत्व- व्याघातात् 'पूर्वत्रासिद्धम्' इत्यस्याप्रवृत्त्या निष्टङ्कं संस्कारकशास्त्रप्रवृत्तिः सिद्ध्यतीति भावः । व्यापारार्थमन्यत्र गमने सम्प्रति तद्देशे एव तिष्ठामि, न तु स्वाभिजनदेशे इतिवत् परिभाषाणां कार्यकालपक्षे त्रिपादीस्थत्वव्यवहार एव भविष्यतीति तत्त्वम् । तस्मात् प्राचीनमतमेव ज्यायः । प्राचीनोक्तेति । तथा सति संज्ञापरिभाषयोरुभयोरपि विषये एकरूपता सिद्धयती- त्यपरमनुकूलम् । ३

१८ परिभाषेन्दुशेखरः [ १ प्रकरणे- न च कार्यकालपक्षे 'ङमो ह्रस्वाद्वि'त्यादौ 'तस्मादित्युत्तरस्य', 'तस्मि- न्निति निर्दिष्टे पूर्वस्ये'ति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमी- निर्देशो बलीयानि'ति तस्मिन्नितिसूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्त्यापत्ते, स्पष्टं चेदम् 'इको गुणे'त्यत्र कैयट इति वाच्यम्; विप्रतिषेधसूत्रेऽष्टाध्यायीपाठकृतपरत्वस्याश्रयेणादोषात् । नहि कार्यकालपक्ष इत्येतावता तदपैति । पक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात् । नहि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति । नाप्य- नागेशसम्मतः । अत एव नागेशेन केचिदित्युक्तम् । अत एव चाग्रिमः 'न चे'ति शङ्का- ग्रन्थोऽपि सङ्गच्छते, अन्यथा स्वदेशत्यागाभावस्य तत्तद्देशस्थत्वं वारयतीत्यादिना उक्तत्वेनैतद्ग्रन्थस्य निर्दलत्वापत्तिरित्याहुः । अन्ये तु- नागेशमते सर्वपरिभाषाविषये कार्यकालपक्ष एव ; 'सप्तमीनिर्देशादि क्वे'त्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा विप्रतिषेधे, 'असिद्धं बहिरङ्गम, सन्निपात०, अनुदात्तं पदमेके'ति चतसृणां परिभाषाणां सङ्ग्रहः । 'कश्चिदेकदेशस्थ' इति भाष्यन्तु उक्तपरिभाषाचतुष्टयविषयमेव । अत एव कार्यकालपक्षे 'ङमो ह्रस्वादि'ति शङ्काग्रन्थः सङ्गच्छत इति वदन्ति । न चेति । यद्यपि 'तद्देशस्थत्वं वारयती'त्युक्त्या नैतच्छङ्कोत्थितिरस्तथापि प्राचीन- मतानुसारणैतद्ग्रन्थसत्त्वान्न दोषः । अत एवात्र “स्पष्टं चेदमिको गुण इत्यत्र कैयट” इत्युक्तम् । विधिवाक्येनैकवाक्यत्वाद्वा, स्वदेशं विहाय पथिकवद्देशान्तरगमनाद्वा, प्रदेशेऽस्मदादिबुद्धिजनननाद्वा स्वदेशत्याग इत्याक्षेपाणां क्रमेण निरासमाह-नहीति । प्रदेशेषु = विधिवाक्यविषये । स्वबुद्धिजननेन = स्वविधेयार्थबोधनेन । अविशेषात् = विधि- वाक्यैकवाक्यतायाः पक्षद्वयेऽपि सत्त्वादित्यर्थः । यद्वा-प्रदेशेषु = परिभाषादेशेषु । स्वबुद्धिजननेन = सफलवाक्यार्थबोधेन, अविशेषात् = पक्षद्वयेऽपि परिभाषाणां पाठदेशस्यैव मुख्यदेशत्वेन तदनुरोधेन विप्रतिषेधशास्त्रप्रवृत्तेर्वक्तव्यतयाऽत्र विशेषाभावादित्यर्थः । संज्ञाशास्त्राणां कार्यकालपक्षे तु विधिदेश एव सफलवाक्यार्थबोधसत्त्वेन तद्देशस्यैव मुख्यदेशतया 'अयादिभ्य' इति भाष्यसङ्गतिरिति तत्त्वम् । द्वितीयं निरस्यति-नहीति । तृतीयं निरस्यति-नापीति । न च 'अयादिभ्य' इति भाष्यासङ्गतिः ; तत्रत्यसंज्ञापदस्य संज्ञाकार्यप्रकृतिभावोपलक्षकत्वात्, परत्वादित्यस्य अपवादत्वादित्यर्थकत्वाद्वा । मूले-स्पष्टं चेदं० कैयट इति । तत्र क्रोष्ट्रीयसम्मतविप्रतिषेधखण्डनावसरे 'नैष युक्तो विप्रतिषेधः' इति भाष्यप्रतीकमुपादाय 'यथोद्देशे परिभाषयोः पौर्वापर्यम्, न तु कार्यकालतायाम्' इति हि तेनोक्तम् । केचिदित्युक्तमिति । अन्यथा 'परे तु' इत्यादिना वदेदिति भावः ।

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १९ स्मदादिबुद्धिजननेन स्वदेशत्यागो भवति । अत एव भाष्ये एकदेशस्थस्यैव सर्वशास्त्राभिज्वालकत्वमुक्तम् । अत एव तस्मिन्निति सूत्रे कैयटः- 'सूत्रपाठा- पेक्षया परत्वस्य व्यवस्थापकत्वमि'ति । 'इको गुणे'ति-सूत्रस्थकैयटस्तु चिन्त्य एव, अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्थत्वेन क्वापि परत्वं न स्यात् । किञ्च 'किङिति चे'ति सूत्रस्थकैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे प्राञ्चस्तु-यत्र मुख्यदेशगतं परत्वमादाय व्यवस्था न सम्भवति, तत्र गौण- परत्वमङ्गीक्रियते ; सफलवाक्यार्थबोधाधिकरणदेशश्च मुख्यदेश इत्युक्तमेव । 'ङम्' इत्यत्र कार्यकालपक्षे द्वयोरेकदेशस्थत्वेन तदसम्भवात् गौणं पाठदेशमादाय व्यवस्था । 'अयादिभ्य' इत्यत्र तु मुख्यदेशमादाय व्यवस्थासम्भवान्नाष्टाध्यायीपाठकृतं गौणं तमादाय 'विप्रतिषेध' इत्यस्य प्रवृत्तिः । अत एव "पट्व्या, मृद्व्या' इत्यत्र लक्ष्य- गतगौणपरत्वमादाय परत्वात् परयणादेशः ; 'परिवीरित्यत्र परत्वादीर्घ' इति च भाष्योक्तं सङ्गच्छत इति प्राहुः । ॥ इति कार्यकालपक्षविचारः ॥ वस्तुतः-यथोद्देश-कार्यकालपक्षयोर्निरुक्तबीजकत्वे विधिशास्त्रादावपि तत्- सम्भवेन संज्ञापरिभाषामात्रविषयकत्वमशक्यं वक्तुम् । किञ्च-'यथोद्देशमि'- त्यादेः परिभाषात्वव्यवहारप्रयोजक-विषयसङ्कोचकत्वादेरभावेन परिभाषात्वमप्यशक्यं वक्तुम् । अत एव वाक्यसंस्कार-पदसंस्कारपक्षादीनां परिभाषात्वेन व्यवहारः शास्त्रकृच्छैलीपरिशीलितैः क्वचिदपि नोपलभ्यते । भाष्ये तत्र तत्र यथोद्देश- मित्याद्युल्लेखस्तु प्रकारद्वयस्यैव सम्भवाद्वस्तुस्वरूप-परिकीर्तनपरः । किञ्च-प्रदर्शित- मूलकैयटपक्षद्वयोपन्यासस्य विशिष्य फलमप्यशक्यं वक्तुम् । न तावत् 'तस्मिन्निती'- त्यादेस्त्रिपाद्यां प्रवृत्तिः कार्यकालपक्षफलम्, शास्त्रत्वसम्पादकपरिभाषाणां त्रिपाद्यां प्रवृत्तेः पक्षद्वयेऽपि सूपपादत्वात् । तद्दृष्ट्या त्रिपाद्या असिद्धत्वन्तु न ; त्रैपादिकविधि- शास्त्राणां शास्त्रत्वसम्पादकगुणशास्त्रप्रवृत्तिः प्रागप्रामाण्यज्ञानानास्कन्दितबोध- जनकत्वरूपशास्त्रत्वस्यैव असम्भवाच्छास्त्रत्वमुपजीव्यासिद्धत्वबोधकेन 'पूर्वत्रासिद्धमि'- त्यनेन असिद्धत्वबोधनस्याशक्यत्वात् । 'पूर्वत्रे'त्यनेन च शास्त्रत्वेन रूपेणैवासिद्धत्व- बोधनमावश्यकम् । अत एव 'रोरी'त्यादौ उत्वादिघटितनिर्देशसङ्गतिः । शास्त्रत्वा- वच्छिन्नोद्देश्यताकं 'असिद्धं बहिरङ्गमन्तरङ्गे, अनुदात्तमित्यादिपरिभाषाचतुष्टयन्तु, त्रिपाद्यां न प्रवर्तते, एतत्प्रवृत्तितः प्रागेव शास्त्रत्वस्य सिद्धतया 'पूर्वत्रासिद्धमि'त्य- नेनासिद्धत्वबोधनस्य दुर्निवारत्वात् । एवं यथोद्देशपक्षस्य 'आगच्छत्तमग्नी ३' इत्यपि न फलम्, पक्षद्वयस्यैवाभावेन संज्ञासूत्रदृष्ट्या प्लुतस्यासिद्धत्वेन प्रगृह्यसंज्ञायां मूले-परत्वं न स्यादिति । तथा सति विप्रतिषेधशास्त्रासङ्गतिरिति भावः । ननु विप्रतिषेधशास्त्रासङ्गतिभयात् प्रयोगरूपो देशो न गृह्यते इत्यरुचेराह-किञ्चेति ।

परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत । एवञ्च वृक्षेभ्य इत्यत्र ‘सुपि चे’त्यतः परत्वाद् ‘बहुवचने झल्येदि’त्येत्त्वमित्याद्युच्छिद्येत, इत्यलम् ॥३॥ इत्संज्ञका अनुबन्धास्तेष्वयवानवयवत्वसन्देह आह— नानुनासिकः । शास्त्रे परत्व-पूर्वत्वे अष्टाध्यायीपाठकृते एव । एवं स्थिते योऽत्र बहुशः “प्राचीन-नवीन-मतविवेक-परिश्रमः, पदैकवाक्यता-वाक्यैकवाक्यतेत्यादिविचारः, स सर्वोऽपि काकदन्तपरीक्षावदुपेक्षणीय एवेति दिक् ॥ ३ ॥ यथोद्देशमित्यत्र संज्ञायाः प्रस्तुतत्वात् इत्संज्ञोत्तरं प्रत्याहार इति भाष्येण इत्संज्ञायाः सर्वशास्त्रप्रवृत्तेः प्राग्भावित्वेन प्राधान्याद्वा तद्विषयिणीं परिभाषां वक्तु- मुपक्रमते—इत्संज्ञका अनुबन्धा इति । इत्संज्ञोपलक्षणम्, तेन इत्संज्ञायोग्यत्वमनुबन्धत्व- मिति फलितम् । अवयवानवयवत्वसन्देह इति । बोधकावयवानवयवत्वसन्देहे इत्यर्थः । एतेन सन्घटकनकारे सन्निरूपितावयवत्वमस्ति न वा, सन्निरूपितावयवत्वमस्ति न वे'त्युभयविधसन्देहस्य श्रोत्रेणैव निवर्त्यतया नानुमानापेक्षेत्यपास्तम् ; 'सनो बोध- कत्वं सशब्दस्य वे'ति बोधकत्वसंशयस्य तत्प्रयुक्तस्य सनो नकारे बोधकावयवान- वयवत्वसन्देहस्य च श्रोत्रेणानिवर्त्यतया अनुमानस्योपयोग इति भावः । सन्देहेऽन्य- तरोपादानेनैव सिद्धे उभयोपादानं परिभाषाद्वयसाधारणमिदमवतरणमिति बोध- यितुम् । अनवयवत्वसन्देहे इत्युक्तौ तस्यानवयवत्वतदभावान्यतरकोटिकसन्देह इत्य- र्थात् 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान् वे'ति सन्देहस्यापि अनवयवत्व- सन्देहरूपत्वेन 'एकान्ता अनुबन्धाः' इत्यनुमितीय-पक्षतात्वं न स्यात् । अवयवत्व- सन्देह इत्युक्तौ तु 'अवयवत्ववान् अवयवत्वाभावव्याप्यवान् वे'ति सन्देहस्यापि तद्रूप- त्वेन 'अनेकान्ता' इत्यनुमितीयपक्षतात्वं च न स्यात्, प्राचीनैः साध्य-तदभावा- मूले—परत्वं व्याहन्येनेति । न चेष्टापत्तिरेव, अत आह—एवञ्चेति । उच्छिद्येतेति । इदमप्यसङ्गतम् ; मुख्यासम्भवेऽपि गौणपरत्वग्रहणस्य सर्वसम्मतत्वादिति भावः ॥ ३ ॥ उपक्रमते—मूले इत्संज्ञा इति । यच्छब्दयोगः प्राथम्यमिति बलेनानुबन्धस्य पूर्वं प्रयोगा- र्हत्वेऽपि, 'इत्संज्ञका' इत्यस्य पूर्वं प्रयोगः सङ्गतिप्रदर्शनाय बोध्यः । अनुबन्धपदस्य च स्ववाच्ये लक्षणा । एतेन उभयोः प्रवृत्तिनिमित्तैक्येन कथमभेदान्वय इति निरस्तम् । ननु एकधर्मिकविरुद्धकोटिकज्ञानावगाहिज्ञानस्य सन्देहपदार्थतया सन्देहपदस्य उपात्तधर्म- विरुद्धकोट्युपस्थापकत्वमित्यस्य स्वभावसिद्धतया एककोट्युपादानेनापि विरुद्धकोट्युपस्थापनं स्यादेवेति द्वितीयकोट्युपादानं किमर्थमत आह—सन्देहेऽन्यतरोपादानेनेति । पक्षतात्वं न स्यादिति । अयम्भावः—प्राचीनाः साध्यसंशयस्यैव पक्षतात्वमभ्युपगच्छन्ति । साध्यसंशय इत्यस्य 'साध्यप्रकारकः साध्याभावप्रकारको वा संशयः' इत्येवार्थः, न तु साध्यप्रका- रकताकत्वे सति साध्याभावप्रकारताकः संशय' इति, पर्वतो वह्नि्यभाववान् वह्निव्याप्यवान् वा' 'पर्वतो वह्निमान् वह्न्यभावव्याप्यवान् वा' इत्यादिसंशयानामपि तैः पक्षतात्वाङ्गीकारात् । साध्यप्रकारकत्वमित्यस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारकतार्थः ।

४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१ अनेकान्ता अनुबन्धा इति ॥ ४ ॥ -: 𑁍 :- अनेकान्ता अनवयवा इत्यर्थः । यो ह्यवयवः स कदाचित्तत्रोपलभ्यत एव, अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् । 'शित्किदि'त्यादौ न्यतरस्मिन् पक्षसम्बन्धावगाहिसंशयस्यैव पक्षतात्वोपगमात्, पर्वतो वह्निमानित्य- नुमितौ 'पर्वतो वह्न्यभाववान् वह्निव्याप्यवान् वे'ति सन्देहस्य पक्षतात्वाङ्गीकारात् । सनः सन् इत्यत्र विभक्तिदर्शनं, 'चिकीर्षती'त्यादिलक्ष्ये अदर्शनं च निरुक्तसंशयीय- कोटिद्वयोत्थापकं बोध्यम् । व्यतिरेकेण हेतुं निरूपयति—यो ह्यवयवः स कदाचित्तत्रोप- लभ्यत एव, अय तु न तथेति । तत्रेति । बोधक इत्यर्थः । 'पक्षे हेतुरस्ति नवे'ति सन्देहनिवृत्त्यर्थं हेतोः साधकं हेत्वन्तरमाह—तदर्थभूत इति । स्वविधेय इत्यर्थः । “अनुबन्धा बोधकानवयवाः बोधकावयवत्वेन उपलब्धिविषयत्वाभावात्, अनु- बन्धाः बोधकावयवत्वेन उपलब्धिविषयत्वाभाववन्तः तदर्थभूते विधेये कदा- प्यदर्शनादि'त्यनुमानद्वयं हेतुवाक्यं पूर्वमप्रदर्श्य व्याप्तिं प्रदर्शयतो ग्रन्थकारस्याभि- मतमिति स्वरसतः प्रतीयते । केचित्तु—विधेये कदापीति हेतुमेव व्यतिरेकव्याप्त्या पक्षे सङ्घटयति—यो हीति । तत्रेति । विधेय इत्यर्थ इति वदन्ति । अथैवं प्रकारद्वयेऽपि 'आद्गुणः' इति गकारे हेतुसत्त्वाद् व्यभिचारः ; स्वरूपबोध- कानवयवत्वसाधनेन निरुक्तगकारे व्यभिचारवारणे तु प्रकृतसंशयाविरोधित्वेनास्य अनुमानस्याप्रयोजकत्वापत्तिरिति चेन्न । स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयताव- साध्याभावप्रकारताकत्वमित्यस्य च साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति- योगिताकाभावत्वावच्छिन्नप्रकारताकत्वमिति । एवञ्च अनवयवत्वसन्देहे इत्येतन्मात्रोक्तौ तस्यान- वयवत्वतदभावान्यतरकोटिकसंशयार्थकतया तेन 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान् वे'ति संशयस्यापि धर्तुं शक्यतया तस्य 'एकान्ता अनुबन्धा' इत्यनुमितीयपक्षतात्वं न स्यात्, अवयवत्व-तदभावान्यतरकोटिकसंशयस्यैव अवयवत्वसाध्यकानुमितौ पक्षतात्वाङ्गीकारात्, उक्त- संशये अवयवत्वस्वरूपानवयवत्वाभावरूपसाध्यप्रकारकत्वेऽपि साध्यतावच्छेदकधर्मावच्छिन्नप्रकार- ताकत्वाभावान्न तत्त्वम्। एवमग्रेऽपि । उभयकोटिद्वयोपादाने तु तादृशसंशयस्य परस्परं विरुद्धकोटि- द्वयावगाहित्वेन उभयानुमितीयसाध्यप्रकारताकत्वेन उभयानुमितौ पक्षतात्वं सिद्धमिति ध्येयम् । यो ह्यवयवः•••• अयं तु न तथेतीति । व्यतिरेकव्याप्तिप्रदर्शनरूपोदाहरणग्रन्थात्पूर्वं बोधकावयवत्वेनोपलब्धिविषयत्वाभावादिति हेतुः स्वयमूहनीय इति तात्पर्यम् । एतेन प्रतिज्ञा- हेतू-दाहरणो-पनय-निगमनानां वाक्यानां क्रमेण लेखनस्योचितत्वेन प्रतिज्ञानन्तरमुदाहरणलेखन- मसङ्गतमित्यपास्तम् । बोधकानवयवा इति । न तु बोध्यानवयवत्वं साध्यम्, 'तस्य लोपः' इति शास्त्रेण तस्य स्वत एव सिद्धत्वादिति भावः । केचित्त्विति । अत्र पक्षे 'तदर्थभूते विधेये' इति हेतुः प्रतिज्ञानन्तरं योजयित्वा व्याख्येयः ; साध्यं प्रति व्याप्यव्याप्यस्यापि व्याप्यत्वात्तस्य हेतुत्वम् । अप्रयोजकत्वापत्तिरिति । 'पर्वतो वह्निमान्न वा' इत्याकारकसंशयानन्तरं 'पर्वतो महा-

च्छेदकधर्मावच्छिन्नविधेयताप्रयोजकपदानवयवत्वस्य साध्यत्वेनादोषात् । यस्मिन्ननव- यवत्वं निरूपणीयं तत् स्वम्, निरुक्तगकारे हेतोः सत्त्वेऽपि तद्गुणपदस्य गुणपदाव- च्छिन्नविधेयताप्रयोजकत्वेन स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवि- च्छिन्नविधेयताप्रयोजकत्वाभावेन तदनवयवरूपसाध्यस्यापि सत्त्वेन न दोषः । साध्यदले विधेयता च साक्षादवच्छिन्ना बोध्या, तेन गुणपदस्य गुणपदत्वेन बोधक- तया अदेङ् निष्ठाविधेयतायाः परम्परया गुणपदत्वावच्छिन्नत्वेऽपि न क्षतिः । न चैवमप्यकारे विधेये ककारस्य ‘अश्वत्थाम’ इति लक्ष्ये अभावेन कारप्रत्यय-ककारे हेतोः सत्त्वेन तद्घटितघटकाऽवर्णवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकत्वरूपधर्मेण साक्षादवच्छिन्नविधेयताप्रयोजकाऽकाररूपपदावयवत्वस्यैव सत्त्वेन तदनवयवत्व- रूपसाध्याभावेन व्यभिचार इति वाच्यम् ; साध्यदलीयवृत्त्यन्तपदस्य स्वघटितपद- घटकयावद्वृत्तीत्यर्थकरणेन ( स्वम् = ककारस्तद्घटितमकार इति पदम्, तद्घटकयाव- द्वृत्ति-श्रावणप्रत्यक्षविषयतावच्छेदको धर्मश्चाकारशब्दत्वम्, तद्धर्मावच्छिन्नविधेयताया अप्रसिद्ध्या तत्प्रयोजकपदानवयवत्वस्यापि निरुक्तककारे सत्त्वेन ) अदोषात् । न च यावदिति पदनिवेशे ‘द्वयसज्दघ्नञ्मात्रच्’ इति समस्तपदस्य चकाररूपानु- बन्धघटितपदघटकयावद्रूपतया तद्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक-तादृशशब्दत्व- रूपधर्मावच्छिन्नविधेयताया अप्रसिद्ध्या तत्प्रयोजकपदानवयवत्वस्य केवलान्व- यित्वेन तदनुमानस्य बोधकावयवत्वबुद्धिनिवर्तकत्वं न संभवतीति वाच्यम् ; याव- त्पदेन स्वघटितं यत्पदाघटितं पदं तद्घटकानुबन्धेतरविभक्तीतरस्य यावतो ग्रहणेन अदोषात् । तथा चानुबन्धघटितं पदघटितं विभक्तिघटितं च समुदायमादाय तथाविधधर्मावच्छिन्नविधेयताप्रसिद्ध्या न दोष उद्भावनीय इति बोध्यम् । ननु प्रत्युच्चारणं शब्दो भिद्यते, न वा ? आद्ये—सनः सकारे हेतोः सत्त्वेन व्यभिचारः । अन्त्ये—सनोऽनुबन्ध-नकारे हेत्वभावाद्भागासिद्धिरिति चेन्न । स्वघटितं यत्पदाघटितं पदं तद्घटकप्रयोज्यविधेयतावच्छेदकधर्माभावादिति तदर्थे- नादोषात् । विधेयतावच्छेदकधर्मश्च विशेष्यविशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितो ग्राह्यः । तथा च अकाराव्यवहितपूर्वत्वविशिष्टसकारत्वरूपस्य विधेयतावच्छेदकस्य सत्त्वस्य सकारे सत्त्वेन, विधेयतावच्छेदक-‘सनत्व’स्य सकारोत्तराकारोत्तरनत्वरूपस्य अनुबन्धे नकारे असत्त्वेन च न दोषः । न च कुकि मुमि चानुबन्धयोर्विधेयता- वच्छेदकधर्मासत्त्वाद् भागासिद्धिरिति वाच्यम् ; ‘कुक्-मुमोः ककार-मकारौ स्वघटितपद- घटकबोधकानवयवौ स्वघटितपदघटक-बोधकावयवोत्तरानवयवोत्तरत्वादित्याद्यनुमानेन दोषवारणात् । स्वमनुबन्धस्तद्घटितं पदम्=कुक्-मुम् इति, तद्घटकबोधकावयवौ = नसीयवह्न्याभाववान्' इत्यनुमितेरिव प्रकृतसंशयनिवर्तकत्वेन प्रकृतानुमानस्याप्रयोजकत्वमितिभावः । स्वघटितपदघटकबोधकानवयवाविति । स्वम् = अनुबन्धस्तद्घटितं पदम् = कुगिति, तद्घटकबोधकम् = बोधकत्वेन निश्चितं कुगिति, तदनवयवाविति तदर्थः । ननु अनुमानान्तरेण ‘कुक्-मुमोः' ककार-मकारयोर्बोधकानवयवत्वसाधनेऽपि पूर्वोक्तानुमानेऽनु- बन्धत्वस्य पक्षतावच्छेदकत्वाङ्गीकारे भागासिद्धिस्तदवस्थैव, प्रकारान्तरेण (कुक्,मुम्घटक-ककार-