भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ९९. ‘लोटो लङ्‌वत्’ (३.४.८५) इति × केचित्तु—‘प्रत्ययलोपे प्रत्ययलक्षणम्’ सूत्रं ज्ञापकम् । (१.१.६२) इति सूत्रमस्यां ज्ञापकमाहुः । १००. अस्यामंशद्वयमस्ति । तत्र × भाष्यानुक्तत्वादस्वीकार्या । आद्यांशस्य 'प्रत्ययलोपे०' सूत्रम्, द्वितीयांशस्य च 'आर्ध- धातुकस्येड्०' (७.२.३५) इति सूत्रस्थेड्ग्रहणं ज्ञापकम् । १०५. अत्रापि आद्यांशस्य 'नाम्रेडित- × भाष्यकृता पठित्वा प्रत्याख्यातेय- स्यान्त्यस्य तु वा' (६.१.९९) मिति अस्वीकार्या । इति सूत्रस्थम् अन्त्यस्येति पदम्, द्वितीयांशस्य 'अर्तिपिपर्त्योः' (पा० ७.४.७७) इति सूत्रस्थं पिपर्ति-ग्रहणं ज्ञापकम् । ११५. 'दैप्'धातोः पित्वकरणमस्या नित्या एकदेशानुमतिद्वारा सम्पूर्णा परिभाषा अंशैकस्य ज्ञापकम् । ज्ञाप्यत इति ग्रन्थकृतां मतम् । ११८. 'अस्थिदधि०' (७.१.७५) सूत्रे ,, 'अष्टाध्यायी स्वरयुक्तैव पठिता' इति उदात्तग्रहणं ज्ञापकम् । पक्षे 'चतसृष्व्युदात्तनिपातनं करिष्यते' इति भाष्यमस्या ज्ञापकं बोध्यम् । १२४ 'अन्यतरस्यां विभाषा वा' ,, × इति सूत्रनिर्देशज्ञापितेयम् । १२६. ‘पूर्वत्रासिद्धम्’ (८.२.१) अनित्या अनित्यत्वञ्च उभो साभ्यासस्य' इत्यधिकारभवं शास्त्रमस्यां (८.४.२१) इति लिङ्गात् । केचित्तु- लिङ्गम् । 'न मु ने' (८.२.३) इत्यत्र नेति विभा- गोऽस्या लिङ्गमाहुः । अन्ये तु—ग्राहकसूत्रे (अणुदित्- सवर्णस्य०) अजिति वक्तव्ये अण्- ग्रहणमस्यां ज्ञापकं प्राहुः । १३१. ‘एकाच उपदेशे (७.२.१०) × भाष्यानुक्तत्वादस्वीकार्या । इति सूत्रे एकाज्ग्रहणमस्या एकदेशस्य ज्ञापकम् । इति वैजापुरकरोपाव्ह श्रीवैद्यराज-पण्डित-नरहरिशास्त्रितनुजनुषा नैयायिक- श्रीगोविन्दशर्मणा सङ्कलितं परिभ०षेन्दुपीयूषं समाप्तम् । •

  • २६ -

परिभाषा-पाठः ॥ प्रथमं प्रकरणम् ॥ १. व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्, २ यथोद्देशं संज्ञापरि- भाषम्, ३. कार्यकालं संज्ञापरिभाषम्, ४. अनेकान्ता अनुबन्धा इति, ५. एकान्ताः, ६ नानुबन्धकृतमनेकाल्त्वम्, ७. नानुबन्धकृतमनेजन्तत्वम्, ८. नानुबन्धकृतमसा- रूप्यम्, ९. उभयगतिरिह भवति, १०. कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते, ११. यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते, १२. निर्दिश्यमानस्याऽऽदेशा भवन्ति, १३. यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः, १४. अर्थवद्ग्रहणे नानर्थकस्य १५. गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः, १६. अनिनस्मिन् ग्रहणान्यर्थवतः चानर्थकेन च तदन्तविधिं प्रयोजयन्ति, १७. एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः, १८. क्वचिदेकदेशोऽप्यनुवर्तते, १९. भाव्यमानेन सवर्णानां ग्रहणं न, २०. भाव्यमानो- ऽप्युकारः सवर्णान् गृह्णाति, २१. वर्णाश्रये नास्ति प्रत्ययलक्षणम्, २२. उणादयोऽव्युत्प- न्नानि प्रातिपदिकानि, २३. प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्, २४. प्रत्ययग्रहणे चापञ्चम्याः, २५. उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्, २६. स्त्रीप्रत्यये चानुपसर्जने च २७. संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति, २८. कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्, २९. पदाङ्गाधिकारे तस्य च तदन्तस्य च, ३०. व्यपदेशिवदेकस्मिन्, ३१. ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति, ३२. व्यपदे- शिवद्भावोऽप्रातिपादिकेन, ३३. यस्मिन् विधिस्तदादावल्ग्रहणे, ३४. सर्वो द्वन्द्वो विभाषयैकवद् भवति, ३५. सर्वे विधयश्छन्दसि विकल्प्यन्ते, ३६. प्रकृतिवदनुकरणं भवति, ३७. एकदेशविकृतमनन्यवत् । ॥ द्वितीयं प्रकरणम् ॥ ३८. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः, ३९. पुनः प्रसङ्ग- विज्ञानात् सिद्धम्, ४०. सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितमेव, ४१. विकर- णेभ्यो नियमो बलीयान्, ४२. परान्नित्यं बलवत्, ४३. शब्दान्तरस्य प्राप्नुवन् विधि- रनित्यो भवति ४४. शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्, ४५. लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः, ४६. क्वचित् कृताकृतप्रसङ्गमात्रेणापि नित्यतः, ४७. यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदप्यनित्यम्, ४८. यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्, ४९. स्वरभिन्नस्य प्राप्नुवन् विधिरनित्यो भवति, ५०. असिद्धं बहिरङ्गमन्तरङ्गे, ५१. नाजानन्तर्ये बहिष्ट्वप्रक्लुप्तिः, ५२. अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते, ५३. पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकदेशो न, ५४. अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते, ५५. वार्णादाङ्गं बलीयो भवति, ५६. अकृतव्यूहाः पाणिनीयाः, ५७. अन्तरङ्गादप्यपवादो बलीयान्, ५८. येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति, ५९. क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति, ६०. पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ६१. मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्, ६२ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति, ६३. पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः, ६४. प्रकल्प्य चापवादविषयं तत

  • २७ -

उत्सर्गोऽभिनिविशते, ६५. उपसञ्जनिष्यमाणनिमित्तोऽप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति, ६६. अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते, ६७. अभ्यास- विकारेषु बाध्यबाधकभावो नास्ति, ६८. ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति, ६९. कल्युट्नुमुन् खल्थेषु वाऽसरूपविधिर्नास्ति, ७०. लादेशेषु वाऽसरूपविधिर्नास्ति, ७१. उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । ॥ तृतीयं प्रकरणम् ॥ ७२. प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्, ७३. विभक्तौ लिङ्गविशिष्टा- ग्रहणम्, ७४. सूत्रे लिङ्गवचनमतन्त्रम्, ७५. नञ्रिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः, ७६. गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः, ७७. साम्प्रतिकाभावे भूतपूर्वगतिः, ७८. बहुव्रीहौ तद्गुणसंविज्ञानमपि, ७९. चानुकृष्टं नोत्तरत्र, ८०. स्वरविधौ व्यञ्जनमविद्यमानवत्, ८१. हल्स्वरविधौ व्यञ्जनमविद्यमानवत्, ८२. निरनुबन्धकग्रहणे न सानुबन्धकस्य, ८३. तदनुबन्धकग्रहणे नातदनुबन्धकस्य, ८४. क्वचित् स्वाथिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते, ८५. समासान्तविधिरनित्यः, ८६. सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, ८७. संनियोगशिष्ठानामन्यतरापाय उभयोरप्यपायः, ८८. ताच्छीलिके णेऽण्कृतानि भवन्ति, ८९. धातोः कार्यमुच्यमानं तत्प्रत्यये भवति, ९०. तन्मध्यपतितस्तद्ग्रहणेन गृह्यते, ९१. लुग्विकरणाऽलुग्विकरणयो- रलुग्विकरणस्य, ९२. प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्, ९३. अङ्गवृत्ते पुनर्वृत्तावविधिः, ९४. संज्ञापूर्वकविधेरनित्यत्वम्, ९५. आगमशास्त्रमनित्यम्, ९६. गणकार्यमनित्यम्, ९७. अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्, ९८. नञ्घटितमनित्यम्, ९९. आतिदेशिक- मनित्यम्, १००. सर्वविधिभ्यो लोपविधिरिङ्ग्विधिश्च बलवान्, १०१. प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्, १०२. विधौ परिभाषोपतिष्ठते नानुवादे, १०३. उपपदविभक्तेः कारकविभक्तिर्बलीयसी, १०४. अनन्त्यविकारेऽन्त्यसदेशस्य, १०५. नानर्थकेऽलोऽन्त्य- विधिरनभ्यासविकारे, १०६. प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः, १०७. अवयव- प्रसिद्धेः समुदायप्रसिद्धीर्बलीयसी, १०८. व्यवस्थितविभाषयापि कार्याणि क्रियन्ते, १०९. विधिनियमसम्भवे, विधिरेव ज्यायान्, ११० सामान्यातिदेशे विशेषानतिदेशः, १११. प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्, ११२. सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्, ११३. श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्, ११४. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, ११५. गामादाग्रहणेष्बविशेषः, ११६. प्रत्येकं वाक्यपरिसमाप्तिः, ११७. क्वचित् समुदायेऽपि, ११८. अभेदका गुणाः, ११९. बाधकान्येव निपातनानि, १२०. पर्जन्यवल्लक्षणप्रवृत्तिः, १२१. निषेधाश्च बलीयांसः, १२२. अनिर्दिष्टाः प्रत्ययाः स्वार्थे, १२३. योगविभागादिष्टसिद्धिः, १२४. पर्यायशब्दानां लाघवगौरवचर्चा नाद्रीयते, १२५. ज्ञापकसिद्धं न सर्वत्र, १२६. पूर्वत्रासिद्धीयमद्वित्वे, १२७. एकस्या आकृतेश्चरितः प्रयोगो द्वितीयायास्तृतीयायाश्च न भविष्यति, १२८. सम्प्रसारणं तदाश्रयं च कार्यं बलवत्, १२९. क्वचिद्विकृतिः प्रकृतिं गृह्णाति, १३०. औपदेशिक- प्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्, १३१. शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाजूग्रहणं चैव पञ्चैतानि न यङ्लुकि, १३२. पदगौरवाद्योगविभागो गरीयान्, १३३. अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः । ❀

  • २८ -
  • श्रीः *

परिभाषेन्दुशेखरः

तत्त्वप्रकाशिका-समलङ्कृत-भूति-भूषितः

• नत्वा साम्बं शिवं ब्रह्म नागेशः कुरुते सुधीः । बालानां सुखबोधाय परिभाषेन्दुशेखरम् ॥ १ ॥ ॥ श्रीगणेशाय नमः ॥ प्रणम्य श्रीविश्वनाथं रामकृष्णः सतां मुदे । तनोति भूतितिलकं परिभाषेन्दुशेखरे ॥ सत्स्वपि महाभाष्यकैयटाद्याकरग्रन्थेषु परिभाषार्थतत्त्वप्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्तिसौकर्यार्थं ग्रन्थमारभमाणोऽत्र श्रोतॄणां प्रवृत्तयेऽनुबन्धचतुष्टयं प्रदर्शयन्, विघ्नोच्छेदपूर्वकसमाप्तये कृतं शिष्टाचारानुमितश्रुतिभाष्यादिबोधितेतिकर्तव्यताकं मङ्गलं शिष्यशिक्षायै अभ्यासशालिनामनुषङ्गतो मङ्गलाय च रचयति—नत्वेति । अनावृतस्य सविकल्पकविषयत्वासम्भवादाह—साम्बेति । अम्बा प्रधानं तया शब- लितमित्यर्थः । यद्वा—अम्बा=पार्वती तत्सहितम् ; शिवम्=विश्वेश्वरम्, ब्रह्म= तत्स्वरूपमिति ।

अथ तत्त्वप्रकाशिका प्रारभ्यते

• गणेशं प्रणमामीशं विघ्नसंहारहेतवे । यस्य गण्डस्थले राजिर्भ्रमराणां विराजते ॥ १ ॥ यत्कृपालवमात्रेण सुलभाः सर्वसिद्धयः । तं गुरुं परमं वन्दे श्री'दामोदर'-संज्ञकम् ॥ २ ॥ नत्वा विश्वेश्वरं साम्बं मुदे गणपतिर्विदाम् । करोति 'भूति'तिलके व्याख्यां "तत्त्वप्रकाशिकाम्" ॥ ३ ॥ नत्वेतीति । स्वनिष्ठापकृष्टत्वप्रकारकबोधप्रकारकबोधानुकूलव्यापार एव नमस्कारं- पदार्थः । 'देवान्नमस्करोति देवदत्तः' इत्यादौ देवदत्तवृत्त्यपकृष्टत्वप्रकारको बोधः 'अहं त्वत्तोऽप- कृष्टः' इत्याकारको देवदत्तवृत्तिस्तत्प्रकारको बोधः 'अयं जनो मत्त आत्मानमपकृष्टं जानाति' इत्याकारको देववृत्तिस्तदनुकूलो व्यापारो देवदत्तवृत्तिरिति लक्षणसमन्वयः । व्यापारश्च— करशिरःसंयोगरूपो नमःपदप्रयोगरूपश्च । एवं 'धनलाभाय शूद्रं नमस्करोति' इत्यादावपि लक्षणसमन्वयः स्वयमूहनीयः ।

२ | परिभाषेन्दुशेखरः | [ मङ्गलाचरणम्, यद्वा—अम्बयति = जीवयतीत्यम्बा उत्पादनशक्तिः, शेतेऽस्मिन् जगदिति व्यु- त्पन्नशिवशब्देन संहारशक्तिरुच्यते, ताभ्यां सहितम् ; ब्रह्म, बृंहयति = पालयतीति व्युत्पत्त्या ब्रह्मपदेन पालनशक्तिमद् गृह्यते इति शक्तित्रयविशिष्टमित्यर्थः । यद्वा— अम्बयतीत्यम्बो = विष्णुः, शिवः = शङ्करः, ताभ्यां सहितम् ; ब्रह्म = ब्रह्माणम् ; नत्वेत्यर्थः । यद्वा—अम्बा = माता सती-देवी, तया सहितम् ; शिवम् = शिव- भट्टम् = स्वपितरं ब्रह्मस्वरूपिणं नत्वेत्यर्थः । न च मातृरूपार्थस्य सनिरूपकत्वेन शिवभट्टनिरूपितमातृत्वस्यैव स्वरसतः प्रतीतेः सतीदेवीसाहित्यमनुपपन्नमिति वाच्यम्; गोत्रवर्गे पितामह्याः सर्वतः श्रैष्ठ्येन तन्नमनेऽपि क्षतिविरहात् । अत एव सत्स्वपि गोत्रजान्तरेषु तस्या एव प्रथमभागार्हत्वेन धर्मशास्त्रादौ प्रसिद्धिः । किञ्च सनिरूपकार्थबोधकपदमभिव्याहृतषष्ठीस्थले स्वप्रकृत्यर्थनिरूपिततादृशार्थग्रहणेऽपि साहित्यबोधकपदमभिव्याहारे उपस्थितत्वाविशेषेण साहित्यानुयोगिनिरूपितमातृत्व- ग्रहण इव नतिकर्तृनिरूपितमातृत्वग्रहणेऽपि क्षतिविरहः । बाल्यदशायां मृत- मातृकस्य नागेशस्य पितामह्यैव पालनं कृतमतोऽत्र कृतज्ञेन तेन तन्नमनं कृतमिति कश्चित् । केचित्तु—परिभाषेन्दुशेखरमित्यावर्त्त्य धातूनामनेकार्थत्वात् परितो भास- मानो द्विकलात्मक इन्दुः शेखरे यस्य तं चन्द्रशेखरम्; शिवं नत्वेत्यर्थ इति वदन्ति । नागेश इति । आत्मनामेति निषेधस्तूच्चारणविषयो न लेखनविषय इति बोध्यम् । अत एव 'गोनर्दीय आह भट्टोजीदीक्षितकृतिरि'त्यादिस्तत्र तत्र ग्रन्थकृतां लेखः सङ्गच्छते । यत्तु—कूपखानकन्यायेन समाहितं कैश्चित् । तन्न; मङ्गलस्य विघ्नध्वंसादिप्रयोजकत्वस्यानुमितश्रुत्यादिबोधितत्वेऽपि आत्मनामोच्चारणजन्यदुरित- ध्वंसप्रयोजकत्वस्याप्रसक्तेः । यदपि—आत्मनामेति निषेधस्य, स्वकीर्त्यनुवृत्तये स्वनाम- ग्रहणस्य शिष्टाचाराऽनुगृहीतत्वात् तद्बोधकानुमितस्मृत्या बाध इति । तदपि न; स्वकीर्त्यनुवृत्तये स्वनामलेखनस्य शिष्टाचारविषयत्वेऽपि उच्चारणस्य तद्विषयत्वा- भावेन स्मृतिबाधकल्पनायाप्रामाणिकत्वात् । धर्मिग्राहकमानेन स्वकीर्तिप्रयोजकताया नन्वेवमपि—'देवं नमस्कृत्य शूद्रं नमस्करोति' इत्यापद्येत, स्वनिष्ठापकृष्टत्वप्रकारकबोध- प्रकारको बोधः 'अयमेतस्मादात्मानमपकृष्टं जानाति' इत्याकारकः शूद्रवृत्तिबोधः, तादृशबोधरूप- फलाश्रयत्वेन तस्यापि कर्मत्वादिति चेत्—सत्यम् । नात्र शुद्धसमवायः फलतावच्छेदकसम्बन्धः, अपि तु—स्वविषयविषयावधिवृत्तित्वसमानाधिकरणसमवाय एव । स्वपदेन च द्वितीयो बोधो ग्राह्यः, तद्विषयः प्रथमो बोधः, तद्विषयोऽपकृष्टत्वं तदवधिर्देवस्तद्वृत्तित्वसमानाधिकरणसमवायेन फलतावच्छेदकेन फलाश्रयत्वं देवस्य न शूद्रस्य, न च तटस्थस्येति न तस्य कर्मत्वापत्तिः । नापि स्वापेक्षया अपकृष्टे 'देवदत्तं नमस्करोति' इति प्रयोगाऽनुपपत्तिरिति बोध्यम् । गिरिधरोपाध्यायास्तु—उत्कर्षप्रतिपत्त्यनुकूलव्यापारो नतिपदार्थः, प्रतिपत्त्यन्वयि विशे- षित्त्वं समवेतत्वं चैतद्द्वयं द्वितीयार्थः । तथा च शिवसमवेतशिवविशेष्यताकोत्कर्षप्रतिपत्त्यनुकूलो व्यापार इति बोधः । यदि च अभिवाद्यस्य नोत्कर्षप्रतीतिस्तदा उत्कर्षप्रतिपत्तीच्छैव नमस्कार- पदार्थः, इच्छायाश्चोद्देश्यतया प्रतिपत्तेरन्वयः । एतेन—ईश्वरादिसमवेतप्रतिपत्तेर्नित्यतया व्यापारस्य तदनुकूलत्वविरहेण शिवादिपदसमभिव्याहारे नमःपदप्रयोगासङ्गतिरित्यपास्तमित्याहुः ॥ १ ॥

ग्रन्थकरणप्रतिज्ञा च ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३ प्राचीनवैयाकरणतन्त्रे वाचनिकान्यत्र पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धानि एवानुमितस्मृतितो लाभेन स्वकीर्तिप्रयोजकत्व-दुरितानुकूलत्वयोर्विरोधाभावेन बाध- स्योक्तिसम्भवस्याप्यभावाच्च, यथा चिकित्साशास्त्रस्थेन रोगविशेषवत्पुरुषोद्देश्यकेन सुरापानविधिना सह न धर्मशास्त्रस्थसुरापाननिषेधस्य बाध्यबाधकभावः। अत एव यागीयपशुवधजन्यदुरितदूरोकरणाय प्रायश्चित्ताचरणेऽपि शिष्टव्यवहारविषयो दृश्यते। वस्तुतस्तु — स्वकीर्त्युद्देशेन स्वनामोच्चारणस्य शिष्टाचारविषयत्वमेवाप्रामा- णिकमिति ध्येयम्। केचित्तु — निषेधोऽयं पारिभाषिकनामविषयो न यौगिकनाम- विषयः, नागेश इति यौगिकं नामेति न दोष इति। तन्न; पारिभाषिकनामान्तरानुप- लम्भात् सङ्कोचे प्रमाणाभावाच्च। केचित्तु — नागानामीशः प्रभवः, तान् = पतञ्जलीन् नत्वेति द्वितीयान्तं वर्णयन्ति। केचिच्च — निषेधस्य द्वादशेऽह्नि पित्रादिकृतनामपरत्वात् व्यवहारेषु नागोजीभट्टेति नाम्नः प्रसिद्धत्वेन नागेश इति नाम्नस्तत्त्वे मानाभावः। अत एव ग्रन्थान्ते नागोजीभट्टकृत इति स्वनामोल्लेखः; नागेश इति तु नागस्य पतञ्जलेः ईर्लक्ष्मीस्तां श्यति तनूकरोतीति गूढाभिप्रायकं स्वविशेषणमुपादत्ते, न तु नागेश इति स्वनामेति वदन्ति। अन्ये तु — नागेशः पतञ्जलिरेवैतद्ग्रन्थकर्ता, अहन्तु केवलं भाष्यादित उपयुक्तवाक्यानि एकत्र संघटयामि लेखक इवेति ग्रन्थकर्तुः प्रौढतां वर्णयन्ति। कुरुत इति। यत्तु — सुखबोधस्य बालनिष्ठत्वेन कर्तृगामित्वाभावान्नात्मने- पदप्रसक्तिरिति। तन्न; बालनिष्ठसुखबोधजन्यापूर्वस्य फलतयाऽभिप्रेतत्वेन तस्य च कर्तृगामितया दोषाभावात्। यद्वा — प्रकथने उपयोगे वा 'गन्धनावक्षेपणे'त्यात्मने- पदम्। सुधीरेति। प्रेक्षावतां स्वग्रन्थस्यानुपादेयत्वनिरासायैतत्, न तु आत्म- प्रशंसायेति बोध्यम्। बालानाम् = भाष्यकैयटाद्याकरग्रन्थतो निखिलपरिभाषार्थ- निर्णयासमर्थानां व्युत्पन्नानामित्यर्थः। सुखबोधाय। सुखेनल्पायासेनेवाखिल- परिभाषार्थतत्त्वबोधायेत्यर्थः। परिभाषेन्दुशेखरम्। परिभाषा इन्दुरिव प्रकाशकत्वेन शेखरे यस्य तं ग्रन्थम्, परिभाषार्थस्य मुख्यप्रतिपाद्यत्वेन मस्तकधृतत्वारोपः। अत्र बालानामित्युक्त्या निरुक्तबालाना मधिकारित्वम्, सुखबोधायेत्यनेन तादृशसुखबोधस्य प्रयोजनत्वम्, परिभाषेन्दुशेखरमित्युक्त्या च परिभाषार्थनिर्णयस्य विषयत्वञ्चेत्यनुबन्धत्रयं सूचितम्, सम्बन्धस्वरूपतुरीयानुबन्धश्च स्फुटत्वान्नोक्तः। अनुबन्धत्वम् — प्रवृत्तिप्रयोजकज्ञानविषयत्वम्, अधिकारिणः प्रवृत्तिप्रयोजककृति- साध्यत्वप्रकारकज्ञानविषयतया प्रयोजन-विषययोश्च तादृशेष्टसाधनत्वप्रकारकज्ञान विषयीभूततया च लक्षणसमन्वयः ॥ १ ॥ यद्यपि परिभाषेन्दुशेखरमित्यनेन विषयो दर्शितस्तथाप्यत्र सर्वासां परि- भाषाणां व्याख्यानाभावेन न्यूनतापत्तिरतस्तां परिहरन्, व्याख्येयपरिभाषाः प्रति- जानीते — प्राचीनेति। प्राचीनवैयाकरणानामिन्द्रादीनाम्, तन्त्रे = शास्त्रे, वाचनिकानि = वचनरूपाणि, विनयादित्वात्स्वार्थे ठक्; ज्ञापकन्यायाभ्यां सिद्धानि = प्रमितानि;

४ परिभाषेन्दुशेखरः [ ग्रन्थकरणप्रतिज्ञा, भाष्यवार्त्तिकयोरुपनिबद्धानि यानि परिभाषारूपाणि तानि व्याख्यायन्ते । भाष्यवार्त्तिकयोः = भाष्यवार्त्तिककारयोरुपनिबद्धानि = अभिप्रेतानि यानि परिभाषा- रूपाणि तानि अत्र ग्रन्थे व्याख्यायन्ते । व्याख्यानञ्च—प्रकृतशास्त्रप्रवृत्तिनिवृत्त्युप- योगित्वेन प्रतिज्ञानविशिष्टमत्र विवक्षितम्, तेन 'अकृतव्यूहा०' इत्याद्युपन्यासेऽपि न प्रतिज्ञाविरोधः । नन्वत्र ज्ञापकन्यायसिद्धानीति विशेषणेन वाचनिकीनामसङ्ग्रह इति चेद्— अत्र केचित्—प्रायेणेति शेषं कृत्वा वाचनिकीनां सङ्ग्रहमाहुः । अन्ये तु—ज्ञापकन्याय- शब्दावर्शावाद्यजन्तौ ज्ञापकन्यायसिद्धपरौ, सिद्धशब्दश्च वाचनिकपरस्तेन निर्दिश्य- मानस्ये'त्यादिवाचनिकीनां सङ्ग्रह इत्याहुः । सदाशिवभट्टास्तु—भाष्यवार्त्तिकयोरिति पृथक् कोटिस्तेन ज्ञापकन्यायसिद्धानां भाष्याद्यनुपन्यस्तानाम् 'अकृतव्यूहा०' इत्यादि- परिभाषाणां ज्ञापकन्यायासिद्धानां केवलवाचनिकीनाञ्च सङ्ग्रहमाहुः । केचिच्च— वाचनिकानीत्यस्य आवृत्त्या तासां सङ्ग्रहमाहुः । केचिच्च—प्राचीनवैयाकरणतन्त्रे वाचनिकान्यपि पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धान्यपि यानि भाष्यवार्त्तिकयोरुपनि- बद्धानि तान्येवात्र व्याख्यायन्त इति व्याचख्युः । वस्तुतस्तु—ज्ञापकन्यायासिद्धानि व्याख्येयपरिभाषारूपाणि नैव सन्तीति प्राचीनेत्यादेर्यथाश्रुतार्थ एव समीचीनः । 'यस्मिन्विधिर्'त्यादौ वाचनिक्येषेत्याद्युल्लेखस्तु भाष्ये एतस्यां ज्ञापकन्यायौ नोपन्यस्तौ केवलं वचनरूपेण पठितेत्येवार्थः, न तु तौ न स्त इति । व्याख्येयपरिभाषात्वञ्च—सङ्केतग्राहकभिन्नत्वे सति शब्दधर्मिकसाधुत्वप्रका- रकशास्त्रजन्याप्रामाण्यज्ञानानास्कन्दितबोधे सहकारित्वेन मुन्यभिप्रेतत्वे सति पाणिन्युच्चरितभिन्नत्वम्, 'षष्ठी स्थानेयोगे'त्यादीनां पाणिन्युच्चरितत्वेऽपि 'निर्दिश्य- मानस्यादेशा भवन्ती'त्यानुपूर्वीमद्वाक्यस्य पाणिन्यनुच्चरितत्वान्न दोषः । कासाञ्चि- दनेवंविधत्वेऽपि पाणिनिप्रयत्नानुमितत्वसादृश्यादारोपितं परिभाषात्वमनुसन्धेयम् । अथात्र शास्त्रत्वसम्पत्तिमन्तरा बाधचिन्ताया असम्भवात् शास्त्रत्वसम्पा- दनोद्देशनामकं 'व्याख्यानत०' इत्यारभ्य 'एकदेशविकृतमि'

१ प्रकरणे १ परि० विचारश्च ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५ अथ शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ननु लण्-अइउण्सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहा- दनिर्णयोऽत आह— क्त्वादेवाऽन्ते निरूपणाहं शास्त्रशेषनामकं तृतीयं प्रकरणं सन्दर्भशुद्धिमनुरुध्य क्रमेण ग्रन्थकार उपनिबबन्ध । तत्र च तात्पर्यनिर्णायकप्रमाणनिरूपणात् सर्वशास्त्रोपकारकत्वेन वर्णसमा- म्नायस्थमहेश्वरप्रणीतणकारानुबन्धज्ञापितत्वेन चाभ्यर्हितत्वात् प्रथममुपन्यासमर्हन्तीं परिभाषां व्याचिख्याशुरवतारयति — नन्विति । णकारेति । णपदं विद्यमानणकार- परम्, तेन उक्तसूत्रयोर्विद्यमानौ यौ णकारौ तद्द्वयस्येत्यर्थः । एतेन—प्रत्येकसूत्रे णद्वयाभावेन द्वन्द्वानुप्पत्तिरित्यपास्तम् । अणिण्ग्रहणेषु = तद्ग्राहकप्रत्याहारपदेषु; सन्देहात् = तात्पर्यसन्देहात्; अनिर्णयः = 'तात्पर्यसन्देहाच्छाब्दबोध एव ने'ति मते शाब्दबोधाभावः । 'तात्पर्यसन्देहात् सन्देहात्मकः शाब्दबोध' इति मते निर्णयात्मक- शाब्दबोधाभाव इत्यर्थः । नन्वादिरन्त्येनेति शास्त्रेणाद्यन्ताक्षिप्तसमुदायघटकबोध्यस्यैवाजादिपदप्रतिपा- द्यतया बोधितत्वेन प्रकृताकारादिणकारान्तसमुदायान्तःपातिवर्णबोध्यत्वरूपाण्पद- सङ्केततावच्छेदककुक्षौ समुदायस्याकारादिणकारान्तत्वेनानुगतरूपेणैव प्रवेशात् सङ्केत- भेदाभावेन कथं तात्पर्यसन्देहः । नहि पश्वादिपदं शृण्वन् 'किं पीतलाङ्गूलावच्छिन्न- बोधतात्पर्येणायमेतत्पशुपदमुदचीचरत्, उत श्वेतलाङ्गूलावच्छिन्नबोधतात्पर्येणे'ति कश्चित्सन्दिहानो भवति, लाङ्गूलस्य पशुपदशक्तौ विशेषरूपेण प्रवेशाभावादिति चेत् सत्यम् । एवं सति पूर्वणकारस्य वैयर्थ्यापत्त्या ईदृशस्यानुगतधर्मस्याण्पदसङ्केतता- ननु—तात्पर्यसन्देहोऽपि तदैव यदा सङ्केतभेदो भवति, सङ्केतभेदश्च तदैव यदा शक्यता- वच्छेदकभेदः शक्यतावच्छेदकतावच्छेदकभेदो वा । यथा—घटपदात् घटत्वेनानेकव्यक्त्युपस्थितावपि शक्त्यन्तराभावेन सन्देहोत्थापकार्थान्तरानुपस्थितौ उपस्थितिविषयतावच्छेदकावच्छिन्नबोध- प्रयोजकतात्पर्यसन्देहस्याभावस्तद्वदत्रापि सन्देहस्य दुरुपपादत्वम्, अतः शङ्कासमाधानाभ्यां प्रकृते सङ्केतभेदमपपादयन्नाह—नन्विति । सन्दिहानो भवतीति । पशुपदशक्तिप्रमावतः पुरुषस्य पीतत्वादिविशेषरूपेण लाङ्गूला- वच्छिन्नबोधजनकत्वाभाववत्प्रकारकनिश्चयात्मकप्रतिबन्धकसद्भावेन सन्देहासम्भवादिति भावः । विशेषरूपेणेति । पीतत्वादीनानारूपेणेति तदर्थः ।

वच्छेदकताया अनभ्युपगमेन त्रिकवृत्तिचतुर्दशवृत्त्योर्व्याप्यव्यापकयोरन्यतमत्वयो- रेव सङ्केततावच्छेदकतायाः कल्पनेन नानाशक्तिकत्वात् सन्देहः स्यादेवेति बोध्यम् । वस्तुतस्तु—अन्त्येत्सदृशेन सहित आदिसदृशः स्वघटकानुयोगिकसादृश्यप्रतियोगि- त्वेन विवक्षितवर्णनिष्ठान्ततानिरूपकस्य स्वघटकानुयोगिकसादृश्यप्रतियोगित्वेन विवक्षितवर्णनिष्ठादितानिरूपकस्य समुदायस्य घटकानां संज्ञेति आदिरन्त्येनेति सङ्ग्राहकवाक्यार्थस्य सर्वाभिमतत्वेन सूत्रस्थाणघटक-णस्य 'अइउण्'सूत्रस्थणकार- सदृशत्वेन विवक्षायामकारस्य 'अइउण्'-सूत्रघटकाकारसदृशत्वेन विवक्षायाञ्च तदण्- पदशक्यतावच्छेदककुक्षौ अ-इ-उ-इत्येतत्त्रितयवृत्तिसमुदायत्वस्य, उक्तणकारस्य लण्- घटकणकारसदृशत्वेन विवक्षायाञ्च तादृशान्तचतुर्दशवर्णसमुदाय

१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७ विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानाच्छिष्टकृतात् प्रतिपत्तिर्निश्चयो यतः सन्देहाच्छास्त्रमलक्षणमननुष्ठापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः । असन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे सन्दिग्धो- च्चारणरूपाचार्यव्यवहारेण सन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत् । अन्यतराद्येति । आदिपदं बहुकोटिकसंशये अन्यतमपरिग्रहाय । शिष्ट- कृतादिति । शिष्टपदेन निखिलशब्दधर्मिकसाधुत्वप्रकारकयथार्थज्ञानवान् इह गृह्यते । हि यत इति । हिशब्दस्त्वर्थ इति तु परे। अननुष्ठापकमिति । शब्दविशेष- धर्मिकसाधुत्वप्रकारकनिश्चयजनकत्वाभाववन्नेत्यर्थः । असन्दिग्धेति । सन्दिग्धं सन्देहो भावे क्तः, न विद्यते सन्दिग्धम् = सन्देहो यस्मिन्नित्यर्थः; सन्दिग्धेति ( पदं ) भावक्तान्तप्रकृतिकार्शआद्यजन्तम्, सन्देहजनके लाक्षणिकं वा । तथा च सन्देह- रहितप्रवृत्तिप्रयोजकेऽत्र शास्त्रे सन्देहजनकाइउण्-घटकणकारकर्मकोच्चारणरूपा- चार्यव्यवहारेण निरुक्तार्थरूपा 'व्याख्यानतो' इति परिभाषा ज्ञाप्यत इत्यर्थः पर्यवस्यति । इति; इदमण् इत्यपि पदम्; तस्मात्तथा' इत्यनुमानेन आप्तोच्चरितवाक्यत्वावच्छेदेन तत्समवेत- तात्पर्यान्तरौयविशेष्यत्वासमानाधिकरणातत्पर्यज्ञानीयविशेष्यतावत्त्वनिश्चये, 'अण्पदम् अ-इ-उ- , एतत्त्रितयविषयकबोधजनकत्वप्रकारकतात्पर्यज्ञानविशिष्टविशेष्यतावत्, आहोस्वित् अ-इ-उ-ऋ-ऌ- ए-ओ-ऐ-औ-ह-य-व-र-ल-इत्येतच्चतुर्दशविषयकबोधजनकत्वप्रकारकतात्पर्यज्ञानविशिष्टविशेष्यता- वत्' इत्याकारकस्य सन्देहस्योपपादयितुं शक्यत्वात् । ज्ञानवैशिष्टयञ्च विशेष्यतायाम्—स्वनिरू- पितत्व-स्वसमवायिसमवेततात्पर्यान्तरीयविशेष्यतासामानाधिकरण्यैतदुभयसंसर्गेण इति । मूले—हि यत इति । परिभाषायां हिशब्दो हेतुं बोधयति, लक्षणशब्दस्य बोधजनकत्व- मर्थः, अननुष्ठापकमित्यस्य प्रवृत्तिप्रयोजकत्वाभाववदर्थः, तस्य च बोधेऽन्वयः, शास्त्रमित्यध्या- हारः, प्रवृत्तिप्रयोजको बोधश्च प्रकृते शब्दविशेषधर्मिकसाधुत्वप्रकारकनिश्चयात्मकः शास्त्रमतो- ऽननुष्ठापकबोधजनकं नेति शाब्दबोधः । यतः = यस्माद्धेतोः, यद्यच्छास्त्रं तत्सर्वमनुष्ठापकमेवा- तस्तात्पर्यसन्देहमात्रात्तदभावस्त्वनुचित इति तात्पर्यम् 'न हि सन्देहादलक्षणम्' इति परिभाषां- शस्येति भावः । अन्ये तु—इदं व्याख्यानमनुचितम्, यद्यल्लक्षणं तत्सर्वमनुष्ठापकमिति व्याप्तेः 'न बहु- व्रीहौ' इत्यादिप्रत्याख्यातलक्षणानां 'त्वत्कपितृक' इत्यादिलक्ष्याननुष्ठापकत्वेन व्यभिचारेणासम्भ- वात् । तस्माद् 'हिशब्दस्त्वर्थे' । तथा च सन्देहात् तु = सन्देहमात्रेण तु, लक्षणमलक्षणं न भवति- प्रत्याख्यानादिना लक्षणमलक्षणं भवदपि सन्देहमात्रेण लक्षणमलक्षणं = साक्षात्परम्परया वाऽसन्दिग्धानाहार्याप्रामाण्यज्ञानानास्कन्दितलक्ष्यधर्मिकसाधुत्वप्रकारकबोधजनकं न भवतीत्यर्थः, लक्षणशब्दस्येदृशार्थ एव वैयाकरणनिकाये रूढेः । एवञ्चाननुष्ठापकमिति मध्यमपदलोपी कर्म- धारयोऽपि व्यर्थ एवेत्याहुरित्याशयेनाह—हि शब्दस्त्वर्थ इति तु परे इति ।

८ परिभाषेन्दुशेखरः [ १ प्रकरणे तेनाणुदित्सवर्णस्येत्येतत्परिहाय पूर्वेणाण्ग्रहणम्, परेणेण्ग्रहणमिति लण्सूत्रे भाष्ये स्पष्टम् ॥ १ ॥ सन्देहनिवृत्तेर्व्याख्यानापेक्षत्वमिति परिभाषास्वारसिकार्थं विहाय, व्याख्याना- तिरिक्तनिमित्तानपेक्षत्वमिति वक्रोक्त्या प्रतिपादयन्तु-यत्र व्याख्यानेन तदतिरिक्तप्रमाणेन वा सन्देहनिवृत्तिः प्राप्ता, तत्र व्याख्यानाज्जायमानसन्देह- निवृत्तेरेव प्रकृतशास्त्रप्रवृत्तिप्रयोजकत्वमिति बोधनाय । अत एव 'हृदयस्ये'ति सूत्रे लेखोच्चारणसामर्थ्यात् लेखेति घञन्ते तात्पर्यं प्राप्नोति, तथापि ज्ञापकपरभाष्य- व्याख्यानेन अणन्त एव लेखपदस्य तात्पर्यमवधार्यते, न तु घञन्ते । तथा च 'यथोत्तरं मुनीनां प्रामाण्यमि'ति वचनमप्येतत्सिद्धार्थानुवादकमेव । यथोत्तरं मुनीनां प्रामाण्यमित्यस्योत्तरोत्तरमुन्यभिप्रेतेऽर्थे पूर्वपूर्वमुनीनां तात्पर्यमित्येवार्थः, न तु पूर्वमुनीनामप्रामाण्यमिति; अन्यथैतद्दृष्टान्तेन सम्पूर्णशास्त्रस्याप्रामाण्यापत्तिः । यत्तु-शेखरकृतो

१-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९ तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह— यथोद्देशं संज्ञापरिभाषम् ॥ २ ॥ कार्यकालं संज्ञापरिभाषम् ॥ ३ ॥ —: ० :— उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः अधिकरणसाधन- श्चायम् । यत्र देशे उपदिश्यते तद्देशे एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीत- —————— 'यथोत्तरमि'त्यत्र स्वसम्मतिरुक्ता । 'व्याख्यानत' इत्यतः स्वरसतस्तादृशार्थाप्रतीतिः, निरुक्तार्थे ज्ञापितेऽपि णकारस्य स्वांशेऽचारितार्थ्यञ्चेति वदन्तीति दिक् ॥ १ ॥ सकलपरिभाषाविषयं परिभाषाद्वयं वक्तुमुपक्रमते—तत्रेति । शास्त्रे इत्यर्थः, तेन शास्त्रत्वावच्छेदेन संज्ञापरिभाषाविषयकं पक्षद्वयम्, न तु प्रत्येकं संज्ञात्वाद्य- वच्छेदेनेति भावः । उद्देशमनतिक्रम्येति । 'परावरयोगे चे'ति क्त्वा, 'यथासादृश्य' इत्यव्ययीभावः । गृहीतशक्त्येति । इदं संज्ञाविषयकम्, संज्ञाशास्त्रजन्यवाक्यार्थबोध- रूपशक्त्यनुभवोपोद्वलितसंस्कारेणैव तत्तत्साङ्केतिकविधिशास्त्रघटकपदानुभवोद्बुद्धेन उपस्थितिशाब्दबोधयोर्निर्वाहे विधिदेशे पुनरेतत्प्रतिसन्धानस्य नोपयोग इति भावः । अथैवं संज्ञाविषये कार्यकालपक्षानुत्थितिः, प्रदर्शितदिशैव उपस्थित्यादेरुपपत्त्या विधिप्रदेशे संज्ञाशास्त्रजन्यवाक्यार्थस्यानुपयोगादिति चेन्न । अनुभवेनोपस्थित्यो- —————— ज्ञापिते च भाष्यकारादिबोधिते एव सूत्रार्थे सूत्रकृतोऽपि तात्पर्यमित्यर्थे, तेन प्रत्याख्यान- वादिमतं प्रबलमेवंविधविषये इति च ध्वन्यते । तथा सति सूत्रस्य दृष्टार्थकत्वाभावेनाकारविधानं गुणाभावाय चरितार्थं वेदितव्यम् । ध्वनितश्चायमर्थो भाष्यकृता-'अपि च प्रत्याख्यायते स योगः, तस्मिन् प्रत्याख्याते गुणः स्यादेव, तस्मादत्वं वक्तव्यम्' इत्यादिना ग्रन्थेनेत्यवधेयम् ॥ १ ॥ न तु प्रत्येकं संज्ञात्वाद्यवच्छेदेनेति । अत्रेदं तात्पर्यम्-शास्त्रे पक्षद्वयमित्येतन्मात्रोक्तौ 'उद्देश्यतावच्छेदकव्यापकत्वं विधेये भासते' इति न्यायेन शास्त्रत्वावच्छेदेन पक्षद्वयप्राप्त्या विधि- सूत्रादावपि तदापत्तिः; केवलं संज्ञापरिभाषाविषये पक्षद्वयमित्येतदुक्तौ च प्रत्येकं संज्ञात्वावच्छेदेन पक्षद्वयं प्राप्नोतीत्यतः उभयमुपात्तम् । तथा च 'शास्त्रत्वं संज्ञापरिभाषासमुदायनिष्ठं ग्राह्यमिति तदवच्छेदेन पक्षद्वयम्' इत्यत्रैव तात्पर्यग्राहकत्वं संज्ञापरिभाषाविषये इत्यस्य । संज्ञापरिभाषा- समुदायनिष्ठशास्त्रत्वञ्च—लक्ष्यधर्मिकमाधुत्वप्रकारबोधोपयोगिबोधजनकत्वप्रकारकेच्छया पाणि- न्याद्युच्चरितानुपूर्वीमद्वाक्यकदम्बविशेषत्वमिति बोध्यम् । एतेन—प्रतिसंज्ञापरिभाषं पक्षद्वयं प्राप्नोतीति क्वचिद्यथोद्देश एव, क्वचित्कार्यकाल एव, क्वचिदुभयमित्येतदसङ्गतं स्यादित्यपास्तम्; प्रतिसंज्ञापरिभाषं पक्षद्वयाभावेऽपि शास्त्रे पक्षद्वयस्य सत्त्वादिति भावः । २

१० परिभाषेन्दुशेखरः [ १ प्रकरणे-

परिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः । देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियते । तत्तद्वाक्यार्थबोधे जाते 'भविष्यति किञ्चिदनेन प्रयोजनम्'ति ज्ञानमात्रेण सन्तुष्ययथाश्रुतग्राहिप्रतिपत्त्रपेक्षोऽयं पक्ष इतीदूतसूत्रे कैयटः । केचित्तु परिभाषाविषये तस्मिन्नित्यादिवाक्यार्थबोधे सप्तमीनिर्देशादि क्वेति पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सकलतत्तत्संस्काराय गुणभेदं परि- कल्प्यैकवाक्यतयैव नियमः । कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति पयिकसंस्कारे जननीये अपेक्षाधियोऽपि सहकारितया यस्य श्रोतुः यत्संज्ञाशास्त्रजनित- बोधविषये उपेक्षाबुद्धिर्जाता, तत्पारिभाषिकपदस्य तदर्थानुभावकतायास्तत्तद्विधि- प्रदेशेऽप्रसक्त्या पुनस्तत्र संज्ञाशास्त्रजन्यबोधस्याऽऽवश्यकत्वात् । एवञ्चापेक्षाधीसह- कृते तत्तद्वाक्यार्थबोधे सति दृढतरसंस्कारस्य जननात् वारंवारं तत्तद्बोधस्यानपेक्षिक- तत्वेन अपेक्षाधिय एव यथोद्देशपक्ष-बीजता; उपेक्षाधियश्च कार्यकालपक्ष-बीजता पर्यवस्यति । स्वमतमाह-केचित्त्विति । सकलतत्तदिति । यत्संस्कार उद्बुद्धस्तत्सकलेत्यर्थः, तद्विषय एव च यथोद्देशपक्ष इति भावः । गुणभेदम् = गुणशास्त्रविधेयभेदम् । एकवाक्यतयैवेति । पदैकवाक्यतयेति भावः । एकवाक्यता च त्रिधा-पदैकवाक्यता, अर्थैकवाक्यता, वाक्यैकवाक्यता चेति । तस्मिन्निति शास्त्रस्य पदोपस्थापकत्वपक्षे 'इको यणची'त्यादि- सप्तम्यन्तपदघटितशास्त्रैः सह स्वघटकपदप्रयोज्यविषयता-निरूपितविषयताप्रयोजक- पदघटितत्वरूपा आद्या ; तस्यार्थोपस्थापकत्वपक्षे विधिशास्त्रीय-'अची'त्यादिसप्तम्यन्त- पदानां लक्षणया अजव्यवहितपूर्वत्वाद्यर्थतात्पर्यकत्वरूपे च स्वोपस्थाप्यार्थनिष्ठ- विषयता-निरूपितविषयताप्रयोजकपदघटितत्वरूपा द्वितीया ; उपजीव्योपजीवक- भावापन्नबोधप्रयोजकत्वरूपा तृतीया ; यथा 'क्ङिति चे'त्यादिनिषेधशास्त्राणां संस्कारे जननीये इति । स्मरणं प्रत्यनुभवस्य कारणत्वोपपत्तये मध्ये संस्काराख्यो व्यापारः आत्मन्यङ्गीक्रियते, तस्य संस्कारस्यात्मनि सर्वदा सत्त्वात् सर्वदा स्मरणवारणाय, उद्बुद्ध- संस्कारस्यैव स्मरणं प्रति कारणत्वमङ्गीक्रियते; उद्बोधकैकसम्बन्धिज्ञानादिसत्त्वेऽपि कुत्रचित् स्मरणादर्शनात् दृढतरस्यैव संस्कारस्य कारणत्वमङ्गीक्रियते ; संस्कारदार्ढ्यं प्रति चापेक्षाबुद्धेः कारणत्वम्, उपेक्षाबुद्धौ च न दृढतरसंस्कार उत्पद्यते । एवञ्चोपेक्षाबुद्धौ नैष्फल्यज्ञानं कारणम्, अपेक्षाबुद्धौ च साफल्यज्ञानमिति बोध्यम् । तथा च 'आदेचो वृद्धिपदवाच्याः' इति शक्तिग्रहे जाते साध्वनुशासनेऽस्मिन् शास्त्रे सङ्केतग्रहस्यानुपयोगात् 'इदं शास्त्रमनर्थकम्' इत्याऽऽनर्थक्यज्ञानेन उपेक्षाबुद्धिश्चेत् कार्यकालपक्षः । यद्यपीदानीं फलं न दृश्यते, तथापि 'इदं शास्त्रमाप्तमहर्षिणा प्रणीतमतोऽनर्थकं न भवति, किन्तु भविष्यति किञ्चिदनेन प्रयोजनम्' इति सार्थक्यबुद्ध्याऽपेक्षाबुद्धिश्चेत् यथोद्देशपक्षः, इत्ये- तदाशयेनाह-अपेक्षाधिय एवेत्यादिः ।

विशेषः । एतदेवाभिप्रेत्य अधिकारो नाम त्रिप्रकारः कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा-प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति' इति 'षष्ठी स्थाने' इति सूत्रे भाष्य उक्तम् । अधिकारशब्देन पारार्थ्यात्परि- भाषाऽप्युच्यते । कश्चित्परिभाषारूप इति कैयटः । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्- तात्पर्यम् । एतच्च पक्षद्वयसाधारणं भाष्यम्, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः । तत्रैतावान्विशेषः—यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धौ आत्मभेदं परिकल्प्य तैरेकवाक्यता परिभाषाणाम् । तदुक्तम् 'क्ङिति चे'ति सूत्रे कैयटे- 'यथोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जत' इति । 'सावेधातुके'त्यादिनिषेध्यशास्त्रीय-सार्वधातुकेत्यादिपदसम्बन्धि-क्ङि-द्भिन्नसार्वधातुका- द्यर्थनिर्णायकत्वरूपा । कार्यकालपक्षे त्विति । तुरेवार्थे, कार्यकाले एव त्रिपाद्यामुप- स्थितिर्नान्यपक्षे इत्यर्थः । त्रिपाद्यामपीति । अपिना सपादीसङ्ग्रहः । वस्तुतः इदं शास्त्रत्वा- वच्छिन्नोद्देश्यताकपरिभाषाविषयकम् । शास्त्रत्वसम्पादकपरिभाषाणान्तु पक्षद्वयेऽपि- त्रिपाद्यामुपस्थितिः, तत्परिभाषाप्रवृत्तेः प्राक् त्रैपादिकस्य शास्त्रत्वाभावेन 'पूर्वत्रा- सिद्धमि'त्यनेन असिद्धत्वप्रतिपादनासम्भवात् । त्रिप्रकार इति । मूलोक्त एकः । द्वितीयो यथा—रज्ज्वायसा वा बद्धं काष्ठमनुकृष्यते, तद्वदनुकृष्यते चकारेणेति । चकारमन्तरा- ऽपि 'योगे योगे' उपतिष्ठत इति तृतीयो'ऽङ्गस्ये'ति सूत्ररूपः । अधिकारत्वञ्च-स्वदेशे लक्ष्यसंस्कारोपयोगिविधिशास्त्रीयवाक्यार्थबोधोपकारकवाक्यार्थानुभावकत्वे सति विधिशास्त्रीयलक्ष्यसंस्कारोपयोगिवाक्यार्थबोधप्रयोजकत्वम् । संज्ञादिवारणाय सत्य- न्तम्, शेष इत्यत्राव्याप्तिवारणाय वाक्यार्थे विधिशास्त्रीयवाक्यार्थबोधोपकारकेति विशेषणं सत्यन्ते । एवम् = दीपवत् । एतत् = परिभाषाशास्त्रम् । स्वबुद्धीति । स्वविधेय- बुद्धीत्यर्थः । यथोद्देशपक्षाभिप्रायकमिदं भाष्यमिति कैयटमतं खण्डयति—एतच्चेति । यथोद्देशपक्षाभिप्रायकत्वे तु—परिभाषाविषये कार्यकाल पक्ष एव न स्यात्, परिभाषा- मात्रस्याधिकारपदेन ग्रहणात् । तदाऽऽह = पक्षद्वयेऽपीति । इतः = भाष्यात् । आत्मभेदम् = परिभाषाविधेयभेदम् । परिकल्प्य = बोद्धृभिः परिभाषाणां तैर्विधिशास्त्रैः सहैक- वाक्यता क्रियत इत्यर्थः, तैः विधिशास्त्रैरिति कर्तृपदं वा । अत्र क्रियत इत्यध्याहारान्न वस्तुत इति । इदं प्राचां मतेन । नवीनमते तु शास्त्रत्वावच्छिन्नोद्देश्यताकपरिभाषाणाम् 'अन्तरङ्गे' इत्यादीनां त्रिपाद्यामप्रवृत्तिरेव । तुरप्यर्थे इति । अपिना परिभाषाशास्त्रस्यापि ग्रहणम् । तस्यापि लक्ष्यसंस्कारोपयोगिप्रदेशवाक्येन सहैव भवतीत्यर्थः । लक्ष्यसंस्कारोपयोगी- त्यस्य च लक्ष्यधर्मिकसाधुत्वप्रकारकबोधोपयोगीत्यर्थः । एतेन—पदार्थोपस्थितियोग्यताज्ञानादि- सामग्रीसत्त्वे शाब्दबोधस्य दुर्वारतया इदमसङ्गतमित्यपास्तम् ।

' with 'ि' AND an 'ा'! "द्धिा"!! And look at line 33 end: "‘मृजेर्वृद्धिार’-" -> again with an 'ा'!! The print literally has "‘मृजेर्वृद्धिारि’त्येत-" and "‘मृजेर्वृद्धिार’-", or wait, is it 'वृद्धिर्'? Wait, let's look at line 32: ‘मृजेर्वृद्धि’ -> Panini 7.2.114 is "मृजेर्वृद्धिः" (mṛjer vṛddhiḥ). In the print: मृ (mṛ) जे (je) र् (r) वृ (vṛ) द्धि (ddhi) Then a vertical stroke: is it a visarga? No, it's an 'ा' (aa-matra) or is it a danda? Wait, if it were a danda, why would it be inside quotes? Wait, let's look at the quotes: ‘मृजेर्वृद्धि’ followed by 'ा'? No, wait! Could it be 'र्' (repha) on something? Look at: मृ - जे - र् - वृ - द्धि - [vertical line] - रि - ’ - त्ये - त - Wait! Is that 'रि'? Wait! Look at the letter: There is द्धि. Then a vertical line. Then र

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३ त्यस्य देशे 'वृद्धिरादैज्'त्यस्य पुनर्वाक्यार्थबोधात् तेन सह पदैकवाक्यता। अत्र पक्षे विधिदेश एक संज्ञाशास्त्रस्य सफलवाक्यार्थबोधाद्विदेशीयत्वमेव। अत एव 'अयादिभ्यः परैव प्रगृह्यसंज्ञे'ति भाष्यं सङ्गच्छते। 'अमी' इत्यत्र च 'अणोऽप्रगृह्यस्ये'- त्येतदेकवाक्यतापन्ना'दसो मादि'त्येतद्दृष्ट्या मीत्वस्य सिद्धत्वेन प्रगृह्यसंज्ञायां नानुनासिकः। यथोद्देशपक्षे तु 'वृद्धिरादैज्'त्यस्य वाक्यार्थबोधरूपे शक्तिग्रहे वृत्ते, भविष्यति किञ्चिदनेन प्रयोजनमिति भाविफलानुसन्धानापेक्षाबुद्ध्या आचार्यवाक्ये विश्वासवता छात्रेण तदभ्यासेन दृढतरसंस्कारेण 'मृजेर्वृद्धिर्'त्येत- द्वाक्यार्थबोधकाले एकसम्बन्धिज्ञानमितिविधया संस्कारोद्बोधे सति आदेचामुपस्थितौ 'वृद्धिरादैजि'त्येत

२४ परिभाषेन्दुशेखरः [ १ प्रकरणे- वाक्येन सहैव। अत एव 'अणोऽप्रगृह्यस्ये'त्येतदेकवाक्यतापन्ना'ऽदसो मादि'- स्थितौ न पुनर्वाक्यार्थबोधापेक्षा। परिभाषाविषय एवेदृशजिज्ञासुसत्त्वे प्रमाणञ्च निरुक्तभाष्यकैयटायेव। एवं शिष्यजिज्ञासया ये विधय उपस्थितास्तद्विषय एव यथो- देशत्वम्, अनुपस्थितविधिविषये कार्यकालत्वम्। 'पूर्वत्रासिद्धमि'त्यनेन त्रैपाद्या असि- द्धत्वात् पूर्वोक्तशिष्यजिज्ञासायां सत्यामपि आचार्येण त्रैपादिकस्य नोपस्थितिः कृता, अत्रापि भाष्यादिव्यवहार एव शरणमिति प्राहुः। अत एवेति। प्रदेश एव सफलवाक्यार्थबोधेन प्रदेशस्य मुख्यदेशत्वादेवेत्यर्थः। प्राहुरिति। अत्रायं परिभाषाविषये प्राचीन-नवीनमतविवेकः—नव्यमते यथोद्देशपक्षे परिभाषादेशे एव विधिशास्त्राणामुपस्थित्या पदैकवाक्यतयैव लक्ष्यसंस्कारको बोधः, विधि- शास्त्राणामुपस्थितौ च 'सप्तमीनिर्देशादि क्व' इति छात्राणां जिज्ञासैव बीजम्। प्राच्यमते तु—अस्ति किञ्चिदस्याः प्रयोजनमित्युपेक्षाबुद्धिपूर्वकं परिभाषावाक्यार्थबोधः स्वदेशे एव, एकवाक्यतया बोधस्तु विधिदेशे एव। नवीनमते स्वदेशे पदैकवाक्यतयैव लक्ष्यसंस्कारक- बोधोदयेनोपेक्षाबुद्धेरनवकाशेन येषां दैवाद् देशे उपस्थानं तेषु यथोद्देशः, येषां चानुपस्थितिस्तैः स्वदेशे स्वसंस्काराय परिभाषाशास्त्रविधेयमात्रमुपस्थाप्यते इत्ययमेव कार्यकालपक्षः, न तु परिभाषा तत्रोपतिष्ठते। एवञ्च नव्यमते नोपेक्षापेक्षाबुद्धी तत्पक्षयोर्बीजमूले इति वेदितव्यम्। 'न च कार्यकालपक्षे ङमो ह्रस्वादीत्यादावि'ति मूलोक्तशङ्काग्रन्थस्तु प्राचामनुरोधेन। प्राचीनमते तु त एव बीजभूते इति कार्यकालपक्षे परिभाषाया एव विधिदेशे उपस्थानं गुरुणा क्रियते, उपेक्षाबुद्ध्या छात्राणां विधेयार्थस्मरणासम्भवात्। नव्यमते उभयपक्षे परिभाषाणां पाठदेश एव मुख्य इति तत्कृतैव पूर्वत्व-परत्वव्यवस्था ज्ञेया। अत एव 'एकदेशस्थ०' इति भाष्यं सङ्गच्छते। प्राचीनमते तु यथोद्देशे पाठदेश एव मुख्यः, कार्यकाले तु विधिदेशीयत्वेन स एव देशो मुख्यः। विधिदेशीयत्वादेव 'तावताऽप्यसिद्धिरि'ति 'पूर्वत्रे'ति भाष्यं स्वरसत उपपद्यते। परमुख्या- संभवे गौणेनापि पूर्वत्व-परत्वव्यस्थेति न 'ङमो ह्रस्वादि'ति सूत्रस्थभाष्यविरोधः। 'एकदेशस्थ' इति भाष्यन्तु यथोद्देशपक्षाभिप्रायेणेति। वस्तुतस्तु—पूर्वत्रेति 'भाष्यानुरोधात् प्राचीनाभिमत एव कार्यकालपक्षो नागेशसम्मतः, अन्यथा तावताऽप्यसिद्धिरित्यभिप्रायके 'कथमिति प्रश्नस्य निर्बलतापत्तेः। किञ्च—यथोद्देश- पक्षोऽपि प्राचीनसम्मत एव नागेशेनाभिप्रेयते; 'केचित्तु' मतम् एकदेशिन एव बोध्यम्। 'एक- देशस्थ' इति भाष्यं यथोद्देशपक्षाभिप्रायेण। अभिज्वालकत्वञ्च संस्कारकत्वमात्रम्, न तु एकवाक्य- तया संस्कारकत्वमिति बोध्यम्। किञ्च—परिभाषाणां विधिदेशे उपस्थितावपि तद्देशीयत्वं वारयति इदं भाष्यमिति सर्वमुपपन्नमित्यलम्।

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५ त्येतत्प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेशदेश एवेति तद्देशस्थस्यासिद्धत्वात्पूर्वग्रहणेना- ग्रहणात् । एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानं चेति तत्रत्यपरत्वमेव विप्रतिषेधसूत्रप्रवृत्तौ बीजम् । अत एव कार्यकालपक्षे 'अयादिभ्यः परैव प्रगृह्यसंज्ञेति 'अदसो मादि'ति सूत्रे भाष्य उक्तम् । आकडाराधिकारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्रत्य- परत्वेनैव बाध्यबाधकभावः । पदादिसंज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्या- मपि व्यवहारः । अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे परिभाषाणामेव त्रिपाद्या-

अत एवेति । सफलवाक्यार्थबोधाधिकरणमुख्यदेशमादाय विप्रतिषेधशास्त्रप्रवृत्ति- स्वीकारादेवेत्यर्थः । अयादिभ्यः परैवेति । अत्र पक्षे 'अदसो मादि'त्यस्य 'प्लुतप्रगृह्या' इत्येतदेकवाक्यत्वादित्यर्थः । यथोद्देशपक्ष एवेति । अत्र मानञ्च 'अपादानमुत्तराणि कारकाणि बाधन्ते' इति भाष्यम् । अत्र विषये कार्यकालपक्षस्वीकारे तु—अपादानसंज्ञाया 'अपादाने पञ्चमी'त्येतदेकवाक्यतापन्नाया एव 'कर्मणि द्वितीये'त्येतदेकवाक्यतापन्नकर्म- संज्ञापेक्षया परत्वेन कर्मादिसंज्ञानां परत्वाद् अपादानसंज्ञाबाधकत्वकथनमसङ्गतं स्यात् । तत्फलन्तु 'राज्ञ' इत्यत्र नलोपाभावः ; अन्यथा 'अल्लोपोऽनः' इत्येत- देकवाक्यतापन्न-'यचि भम्'इत्येतद्दृष्ट्या 'नलोपः प्रातिपदिकेत्ये'तदेकवाक्यतापन्न- 'स्वादिष्वसर्वनामस्थाने' इत्यस्यासिद्धत्वेन नलोपो दुर्वारः स्यात् । न च निर- काशतया भसंज्ञा बाधिका स्यादिति वाच्यम् ; 'नित्यवीप्सयोरि'त्येकवाक्यतापन्न- पदसंज्ञाबाधनद्वारा प्रकृतिमात्रस्य प्रसिद्धित्वाभावसम्पादनेन सूत्रस्य चारितार्थ्या- दसिद्धकाण्डैकवाक्यतापन्नपदसंज्ञाबाधने मानाभावात् । किञ्च—यदा कार्यं तदा संज्ञेत्यस्यैव कार्यकालत्वेन 'दण्डिने'त्यत्र भसंज्ञाप्रयुक्तकार्याभावेन भत्वाप्राप्त्या स्वादि- ष्विति पदत्वमादाय नलोपः 'नद्ये'त्यत्र 'इकोऽसवर्ण' इति प्रकृतिभावश्च स्यादिति भसंज्ञादिविषये यथोद्देशपक्षः स्वीकार्यः । अत्र भाष्यान्तरं प्रमाणयति—अत एवेति । यद्यपीदं भाष्यं सर्वसंज्ञाविषये यथोद्देशपक्षे प्रमाणभूतम् ; तथाप्यन्यसंज्ञाविषये कार्यकालस्याप्युक्तत्वेन एतद्भाष्यमाकडारीयसंज्ञायामेव यथोद्देशपक्षत्वे पर्यवस्यति । अयादिभ्यः परैवेतीति । संज्ञाशास्त्राणामिदमेव कार्यकालपक्षफलम् । त्रिपाद्यां प्रवृत्तिस्तु न तत्फलम्, भपदसंज्ञावज्जातशक्तिग्रहेण त्रिपाद्यामपि व्यवहारसिद्धेः; अन्यथा संज्ञानामुपजीव्यत्वात् ता विना त्रिपादिस्थशास्त्राणां वाक्यार्थबोधासंभवेन नैरर्थक्यापातात् । मानाभावादिति । ननु असिद्धकाण्डैकवाक्यतापन्नपदसंज्ञया भसंज्ञया बाधाभावे 'राजन्य' इत्यत्र पदसंज्ञया नलोपे जाते 'नस्तद्धिते' इत्यस्याप्राप्त्या 'ये चाभावकर्मणोः' इति व्यर्थं स्यादित्यस्ति मानमित्यरुचेराह—किञ्चेति ॥ २ ॥

'ऽऽदिरन्त्येने'त्येतद्दृष्ट्या ऊत्वस्य सिद्धत्वेनेण्त्वात् षत्वं Wait, let's verify line 15 start: "प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या ऊत्वस्य सिद्धत्वेनेण्त्वात् षत्वं" Wait, is it "प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या" or "प्रत्यययोborder"? Line 14 ends with "'आदेश-" Line 15 starts with "प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या" Wait, let's look at the quotes: In line 14: 'आदेश- In line 15: प्रत्यययोर्'त्येतदेकवाक्यतापन्नाऽऽदिरन्त्येने'त्येतद्दृष्ट्या Yes, that's 'आदेशप्रत्यययोः' split across lines 14-15!

Line 16: भवतीति वाच्यम्; जातिपक्षे दोषाभावात् । अत्र पक्षे आदिरन्त्येनेति शास्त्रं मध्यगवृत्ति-

Line 17: जातिमतां संज्ञां करोति, उत्त्वादिजातेश्च सि

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १७ अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रवृत्तिमाशङ्क्य, यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा, तावताऽप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने— 'कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमि'त्युक्तम् । अत एवेति । परिभाषाणां विधेयार्थस्मरणादेवेत्यर्थः । तावताऽप्यसिद्धिरित्यस्य संस्कारकस्य सिद्धत्वेऽपि संस्कारकदृष्ट्या संस्कार्यस्यासिद्धत्वेन संस्कारासम्भव इत्यर्थः । ननु नागेशमते—परिभाषादेशे येषां शास्त्राणां वाक्यार्थबोधो जातस्तेषु यथो- देशपक्षः, येषां न जातस्तेषु कार्यकाल इत्यस्य सत्त्वेन तावताऽप्यसिद्धिरिति शङ्को- त्थितिर्न सम्भवतीति चेत् ; शृणु । यथोद्देशपरिभाषामात्रस्वीकारे अप्रवृत्तिशङ्का, द्वितीयपरिभाषास्वीकारेण समाधानम् । यद्यपीति । अयं भावः—त्रैपादिकं विधिशास्त्रं स्वसंस्काराय परिभाषादेशेऽसिद्ध- त्वान्न गच्छति ; तथापि सापादिकपरिभाषाशास्त्रमिहागन्तुं शक्नोतीति सिद्धान्तिनोक्ते पूर्वपक्षी पुनराह—कथमिति । अयं भावः—'पूर्वत्रासिद्धमि'त्यनेन परिभाषादृष्ट्या त्रैपादिकविधेरसिद्धत्वात् कथं त्रैपादिकविधिं संस्कुर्यादिति ? तत्राऽऽह—कार्यकालमिति । अयमाशयः—यथा—कश्चिन्मर्त्य इह लोके देवानपश्यन्नपि भाग्यवशाद्देवैः स्वर्गं प्राप्यमाणः सर्वान् देवान् पश्यति, हरिं गर्भस्थ इव हेमाद्रिशर्मा मनुष्यो लङ्कां गतो रावणादिराक्षसानिव तद्देशमाहात्म्यात्, तथेहापि त्रिपाद्यामुपगतं परिभाषाशास्त्रं त्रैपादिकविधिं पश्यति देशमाहात्म्यादेव । अन्यथा कार्यकालपक्ष उच्छिन्न एव स्यादिति । केचित्तु—एतद्ग्रन्थस्वारस्यात् परिभाषाविषयेऽपि प्राचीनोक्त-कार्यकाल एव परिभाषायां प्रमाणमाह मूले—अत एवेति । परिभाषाणामप्रवृत्तिमिति । संज्ञा- शास्त्राणान्तु जातशक्तिग्रहेणैव त्रिपाद्यां व्यवहारस्य सिद्धत्वादिति प्रागुक्तत्वात् परिभाषाणा- मित्युक्तमिति भावः । इदम् = त्रिपादीस्थम् । तत्र = सपादसप्ताध्यायीस्थे परिभाषाशास्त्रे । तत्तु = परिभाषाशास्त्रन्तु । इह = त्रिपाद्यामित्यर्थः । एतद्ग्रन्थस्वारस्यादिति । 'पूर्वत्रासिद्धम्' इति सूत्रस्थशङ्कासमाधानपर-भाष्यग्रन्थ- स्वारस्यादिति तदर्थः । नागेशमते कार्यकालपक्षेऽपि परिभाषाशास्त्रं स्वदेशे तिष्ठदेव कथमसिद्धं त्रैपादिकशास्त्रं संस्कुर्यात्, अतस्तत्रोपस्थानं परिभाषाशास्त्राणां तैरपि मन्तव्यम् । तथा सति 'यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमि'ति भाष्यं स्वरसत उपपद्यते । तद्देशस्थत्वेन च पूर्वदेशस्थत्व- व्याघातात् 'पूर्वत्रासिद्धम्' इत्यस्याप्रवृत्त्या निष्टङ्कं संस्कारकशास्त्रप्रवृत्तिः सिद्ध्यतीति भावः । व्यापारार्थमन्यत्र गमने सम्प्रति तद्देशे एव तिष्ठामि, न तु स्वाभिजनदेशे इतिवत् परिभाषाणां कार्यकालपक्षे त्रिपादीस्थत्वव्यवहार एव भविष्यतीति तत्त्वम् । तस्मात् प्राचीनमतमेव ज्यायः । प्राचीनोक्तेति । तथा सति संज्ञापरिभाषयोरुभयोरपि विषये एकरूपता सिद्धयती- त्यपरमनुकूलम् । ३