प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पञ्चमोऽङ्कः १८५ सिन्धोः फेनसमे गते वपुषि यत्पञ्चात्मके पञ्चताम् ॥ १४ ॥ तद्भावय भावानामनित्यताम् । नित्यमनित्यवस्तुदर्शिनो न पश्यति शोकावेगम् । यतः— एकमेव सदा ब्रह्म सत्यमन्यद्विकल्पितम् । को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ १५ ॥ मुदयते प्रादुरास्ते । कल्पशतायुषां तेषां तेषां पदार्थानामपि जाते नाशे यदि लोकः क्षित्यादिपञ्चकसमुदायात्मनो वपुषो विघटनरूपपञ्चताप्राप्त्या दारुणं शोकमनुभवति महदाश्चर्यमिदमिति तात्पर्यम् । पृथिवीजलतेजोव्योमवायवः पञ्चतत्त्वानि, तेषामेव पञ्चीकारेणास्य सचराचरस्य जगतो जन्म, तद्विघटनेन चापाय इति सिद्धान्तमनु- रुध्यायं श्लोकः । पञ्चीकरणप्रकारो यथा 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते' । इति पञ्चात्मकस्य पञ्चताप्राप्तिस्तु क्लृप्तैव न तत्र कोऽपि हेतुराश्चर्यस्याथापि लोकानां व्यवहार आश्चर्यमुद्भावयतीति पर- मार्थः। ‘कल्पो युगचतुष्टयम्’ ‘धानाब्जयोनिर्द्रुहिणः' इत्युभयत्राभिधानप्रकाशः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ तत्-संसारस्य विनाशित्वात् । भावानाम्-सर्वेषां पदार्थानाम् । अनित्यताम्- विनाशिभावम् । भावय-विचारेण निर्धारय । नित्यम्-अहरहः । अनित्यवस्तुदर्शनः संसारस्थितानित्यवस्तुद्रष्टा । शोका- वेगम्-दुःखातिशयम् । अहरहर्जगतोऽनित्यस्य क्षयं वीक्षमाणो जातस्य ध्रुवमृत्यु- कताप्रत्ययेन स्ववन्धावपि व्यसनग्रस्ते नानुभवति विषादमिति भावः । एकमेवेति० सदा सर्वदा त्रिकालाबाध्यभावेन एकमेव सजातीयद्वितीयशून्यम् ब्रह्म सत्यम् परमार्थसत् , अन्यत् ततो भिन्नम् कल्पितम् शुक्तिकायां रजतमिव अध्यस्तम् । हि तस्मात् एकत्वमनुपश्यतः जगतो ब्रह्माभेदं भावयतः को मोहः कीदृशं मूढबुद्धित्वम् , तत्र तस्यां स्थितौ कः शोकः कीदृशः खेदः ? ब्रह्मैवैकं परमार्थ- सत्यं तदन्यत्सर्वं कल्पितमिति वस्तुतत्त्वं विभावयतो जनस्य मोहशोकौ नोदेतुमर्हत- स्तद्भावयन् भुवनत्रय नाशस्वभावकतां जहिहीदं स्वीयधैर्यमिति भावः ॥ १५ ॥ त्मक शरीरके पञ्चत्व प्राप्त कर लेने पर शोकावह मोह क्यों हुआ करता है ॥ १४ ॥ इसलिये पदार्थों की अनित्यताकी भावना किया करो । जिसे वस्तुओंकी अनित्यता दीखने लगती है उसे शोकका आवेग नहीं सताता है । एक ब्रह्म ही सत्य है और सभी कल्पित अतः अनित्य हैं, तो फिर जिसे ब्रह्मात्मैक्य ज्ञान हो जायगा वह क्यो शोक या मोह करेगा ! ॥ १५ ॥
१८६ प्रबोधचन्द्रोदयम् मनः— भगवति, शोकावेगदूषिते मनसि विवेक एवमनवकाशं लभते । सरस्वती— वत्स, स्नेहदोष एषः । प्रसिद्ध एवायमर्थः स्नेहः सर्वा- नर्थप्रभव इति । तथाहि— उष्यन्ते विषवल्लिवीजविषमाः क्लेशाः प्रियाख्या नरै- स्तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः । येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनै- र्देहं दोप्तशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ १६ ॥ 'भगवति' इदं सरस्वतीसंबोधनम् । शोकावेगदूषिते–शोकसन्तप्ते । विवेकः– विचारः । अतिशयितशोकावेगयुते मम मनसि किं नित्यं किमनित्यमिति विचार एव नास्पदं लभतेऽतो न शक्नोमि विचारलभ्यं धैर्यं समालम्बितुमिति भावः । स्नेहदोषः–प्रेम्णोऽपराधः । त्वमात्मजनेषु बहुस्निह्यस्य त एवेदं तवाधैर्यमिति भावः । सर्वानर्थप्रभवः–सर्वेषां वधबन्धाद्यनर्थानां जन्मभूमिः । उष्यन्त इति० विषवल्लिवीजविषमाः विषलतावीजवन्मारकत्या भयङ्कराः क्लेशाः दुःखानि प्रियाख्याः पुत्रमित्रकलत्रादिनामभाजः प्रियाख्याः नरैः मनुष्यैः उष्यन्ते वपनकर्मा क्रियन्ते, नराणां यत्पुत्रादिषु प्रिय इति ज्ञानं तत्तेषां विषवल्लि- बीजवपनकल्पमिति, यतस्तेनैवास्य महतोऽनर्थप्ररोहस्य प्रभव इति । विषवल्लिबी- जत्वोक्त्या तीव्रदाहप्रदत्वं ध्वनितम् । तेभ्यः नरैरुप्तेभ्यः प्रियत्वाभिमानरूपविषवल्लि- बीजेभ्यः न चिरात् अतिशीघ्रम् स्नेहमयाः प्रेमरूपाः वज्राग्निगर्भाङ्कुराः वैद्युताग्निज्वा- लातुल्यसन्तापप्रदाः प्ररोहाः भवन्ति जायन्ते, किमपि बीजगुसमङ्कुरं जनयति, तदिदं प्रियत्वाभिमानबीजमुप्तं सदतिसन्तापकारणं ममत्वमुत्पादयति, कार्यकारणयोः । समानधर्मत्वस्वाभाव्याद् विषवल्लिबीजानां वज्राग्निगर्भाङ्कुरजनकत्वं न्यायप्राप्त- मित्यर्थः । तेभ्यः स्नेहमयाङ्कुरेभ्यः अमी त्वयाऽनुभूयमानाविलक्षणाः शनैः धीर- भावेन कुकूलहुतभुग्दाहम् तुषाग्निवत् देहम् स्वाश्रितजनशरीरम् दहन्तः सन्ताप- मन— भगवति, शोकावेगसे दूषित हृदयमें विवेकको जगह नही मिलती है । सरस्वती— बेटा यह तो स्नेहका दोष है, यह बात तो प्रसिद्ध ही है कि स्नेह सभी अनथोंका मूल है । क्योंकि— मनुष्य पुत्रदार आदि विषवल्लीकी तरह भयानक बीज बोते है उससे शीघ्र ही स्नेह रूप वज्राग्निगर्भ अङ्कुर पैदा होता है, जिन स्नेह अङ्कुरोंसे ज्वालायुक्त सहस्र शिखर वाले शोक रूप वृक्ष पैदा होते हैं जिनसे देह उस तरह कष्ट पाती है जैसे भूसेकी आगमे जल रही हो ॥ १६ ॥
पञ्चमोऽङ्कः १८७ मनः—देवि, यद्यप्येवं तथापि न शक्नोमि शोकानलदग्धः प्राणा- न्धारयितुम् । संपन्नं यदन्तकाले त्वं तावद्दृष्टासि । सरस्वती—इदं च परमकृत्यं यदात्महत्याव्यवसाय इति । अपि च, अमीषामपकारिणामर्थे कोऽयमत्य्यावेशो भवतः । पश्य तावत्— क्वचिदुपकृतिः कर्तामीभिः कृता क्रियतेऽथवा तव न च भवन्त्येते पुंसां सुखाय परिग्रहाः । यन्तः दीप्तशिखाससहस्रशिखिराः प्रज्वलितानकेशिखाभृताः शोकद्रुमाः शोकरूपाः पादपाः रोहन्ति प्रादुरासते । बीजादङ्कुरस्य ततश्च वृक्षस्योत्पत्तिस्तत्र प्रियत्वाभिमान बीजैः स्नेहाङ्कुरोत्पत्तौ ततः शोकाख्यवृक्षस्य जन्म भवति, यः शोकवृक्षस्तृषाग्निवद्देहं दहति, ज्वालाप्रदाः दुःखस्मृतिरूपाः शिखास्तासां सहस्रमेव शिखरदेशस्तैर्युक्तश्चा- सौ शोकतस्रुर्भवति, कुत्रापि वृक्षे शिखरदेशो वर्ण्यतेऽत्र दुःखान्तरस्मृतय एव तत्स्था- नीया इति बोध्यम् । तदेव प्रियत्वाभिमानस्य बीजभावः, स्नेहस्याङ्कुरत्व, तजस्य शोकस्य वृक्षत्वमित्यायातम् । 'कुकूलहुतभुग्दाहम्' इत्यत्र 'उपमाने कर्मणि च' इति णमुल् । 'कुकूलं शङ्कुभिः पूर्णे श्वभ्रे नातु तुषानले' इति कोषः । पूर्वोक्ताविप रीतं वृत्तम् ॥ १६ ॥ यद्यप्येवम्—यद्यपि त्वदुक्तं सत्य युक्तियुक्तञ्च । शोकानलदग्धः-खेदज्वालापरीततः प्राणान् धारयितुम्-जीवनं रक्षितुम् । सम्पन्नम्-कृतंकृत्यस् । इदं मम कृत्यानां पूर्णत्वं यदवसानसमये भवत्यादर्शनं जातमिति भावः । परम्-अतिमहत् । अकृत्यम्-अकर्त्तव्यम् । आत्महत्याव्यवसायः-आत्मवधचेष्टा । अमीषाम्-कामादीनाम् । अपकारिणाम्-अपकारकरणानाम् । अस्यावेशः अस्यौत्सुक्यम् । क्वचिदुपपतिरिति० अमीभिः क्वचित् कुत्रापि पुंसाम् उपकृतिः उपकारः कर्त्ता करिष्यते कृता विहिता, अथवा क्रियते, इमे कालत्रयेऽपि पुमांस नोपकुर्वन्तीत्यर्थः, (अतः) एते परिग्रहाः पुत्रकलत्रादयः तव सुखाय प्रीतये न भवन्ति, एषामसुख- जनकता स्वभाववत्ता नासीभिरुपकारं कामयेथा इति तात्पर्यम् । (किञ्चामी परि- ग्रहाः) विरहे वियोगे मर्मच्छेदं हृदयस्यात्यन्तिकीं व्यथां दधति उत्पादयन्ति, तदपि मन—यद्यपि बात ऐसी ही है फिर भी शोकानलदग्ध मै प्राण धारण नहीं कर सकता । यह ठीक रहा कि अन्त समयमें तुमसे भेंट हो गई । सरस्वती—आत्महत्या करना तो अत्यन्त घृणित कार्य है । और इन अपकारियोके सम्बन्धमे तुमको इतना आवेश ही क्यो हो रहा है ? देखो— तुम्हारा क्या इनसे कभी उपकार हुआ, हो रहा है, या होने वाला है, यह पुत्र दार
१८८ प्रबोधचन्द्रोदयम् दधति विरहे मर्मच्छेदं तदर्थमपार्थकं तदपि विपुलायासाः सीदन्त्यहो बत जन्तवः ॥ १७ ॥ अपि च, तीर्णाः पूर्णाः कति न सरितो लङ्घिताः के न शैला नाक्रान्ता वा कति वनभुवः क्रूरसंचारघोराः । पापैरेतैः किमिव दुरितं कारितो नासि कष्टं यद्द्दष्टास्त धनमदमपीम्लानवक्रा दुरीशाः ॥ १८ ॥ एवं सर्वतोऽनभिप्रेतत्वेऽपि तदर्थम् परिग्रहाणां कृते अपार्थकम् व्यर्थम् विपुलायासाः कृतमहाप्रयत्नाः जन्तवः प्राणिनः सीदन्ति कष्टमालम्बन्ते, अहो बत आश्चर्यमिद् मिति। इमे परिग्रहाः पुंसां नोपकुर्वन्ति नोपकृतवन्तः न चोपकरिष्यन्तीति निश्चयेन तवापि नैवोपकरिष्यन्ति, पुस एवोपकारो मनसोऽपि तथा मन्यते स्वतन्त्रस्य तस्योपकर्त्तव्यत्वायोगात् , तदेवं दशायां पुत्रकलत्रादयः परिग्रहास्तव सुखाय भवि- ष्यन्तीति मा भावि भवता। न केवलममी नोपकारकाः किन्तु विरहे व्यथका अपि, तथापि महता प्रयासेनैवां कृते जन्तवः क्लेशमाश्रयन्तीत्याश्चर्यजनकमित्यर्थः । हरिणीवृत्तम् , ‘नसमरसलागः षड्वेदैर्हयैर्हरिणी मता’ इति तलक्षणम् ॥ १७ ॥ तीर्णा इति० पूर्णाः संभृतसलिलाः कति कियत्यः सरितः न तीर्णाः तरणकर्मतां गमिताः ? बहवः सरितस्तीर्णा इति काक्का प्रत्ययः । एवमेव परत्राऽपि । के वा शैलाः पर्वताः न लङ्घिताः, सर्वेऽपि लङ्घिता इत्यर्थः। क्रूरसञ्चारघोराः हिंस्रजन्तुयुताः कति वा वनभुवः काननभूमयः न आक्रान्ताः पादचारेण भ्रान्ताः पापैः नीचकार्य- परैः एतैः परिग्रहैः किमिव दुरितम् पापम् न कारितः कर्त्तुं बाधितः असि ? सर्वमपि दुरितमाचरितुमिमे त्वां बाधितवन्त इत्यर्थः, यत् यस्मात् कष्टम् समनोव्यथम् धनमदमषीम्लानवक्त्राः ऐश्वर्याभिमानश्यामकालिकामुखाः तं दुरीशाः प्रसिद्धाः कुप्रभयो दृष्टाः। एतेषां परिग्रहाणामनुरोधेन धनिनामभिमानश्यामलित्तानि मुखानि आदि पुरुषोंके सुखार्थ नही हुआ करते है। फिर उनके विरहमे व्यर्थ ही मर्मान्तक कष्ट करके अथक परिश्रम उठाकर लोग सीदित होते रहते है ॥ १७॥ और — इन धनमदसे म्लानमुख दुष्ट धनिकों के पास जाना पड़ा इन पुत्रदार आदिकोंके लिये, उसमे कौन सा कष्ट नही हुआ ? भरी हुई नदियाँ कितनी नही पार करनी पड़ीं, पर्वत नही लांघने पड़े, या क्रूर हिसक प्राणियोंके सञ्चारसे भयङ्कर जंगलों से न गुजरना पड़ा ? ॥ १८ ॥
पञ्चमोऽङ्कः १८६ मनः—देवि, एवमेतत्। तथापि— लालितानां स्वजातानां हृदि संचरतां चिरम्। प्राणानामिव विच्छेदो मर्मच्छेदादरुंतुदः ॥ १६ ॥ सरस्वती—वत्स, ममतावासनानिबन्धनोऽयं व्यामोहः। उक्तं च— मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे। न तादृङ्ममतानून्ये कलविङ्केऽथ मूषके ॥ २० ॥ द्रष्टुं यत्त्वं बाधितत्वमयासीस्तत्तव सरित्तरणपर्वतलङ्घनघोरजन्तुशताघृतकाननलङ्घन- सदृशं कथमभूदिति वाक्ययोः परस्पर विम्बप्रतिविम्बभावो बोध्यः, यथा नैषधीये- 'तीर्णः किमर्णो निधिरैव नैष दुरन्तिनेऽभूदिह यत्प्रवेशः' इति ॥ १८ ॥ एवमेतत्-त्वदुक्तं नासत्यमित्यर्थः। लालितानामिति० स्वजातानाम् आत्मजानाम् हृदि वक्षोदेशे चित्ते च चिरम् बहु- कालपर्यन्तम् सञ्चरताम् लुण्ठताम् लालितानाम् चटूक्तिभिः प्रमोदितानाम् (एषां कामादीनाम्) विच्छेदः वियोगः प्राणानाम् विच्छेदाद् (विशिष्य) अरुन्तुद- मर्मव्यथकः। प्राणा अपि स्वस्माज्जायन्ते हृदि वसन्ति चेमेऽपि कामादयो मनसो जाता मनसा चिरं लालिता हृदयेऽवस्थापिताश्चेत्येषां वियोगस्य मर्मव्यथकत्वाति- शयो बोध्यः ॥ १९ ॥ ममतावासनानिबन्धनः—ममत्वाभिमानजन्मा व्यामोहः खेदः। मार्जारभक्षित इति० गृहकुक्कुटे स्वगृहपोषितकुक्कुटे मार्जारभक्षिते विडालेन प्साते यादृशं दुःखंः खेदः भवति तादृशं दुःखं ममताशून्ये मदीयताऽबुद्धिविषये कलविङ्के चटके मूषके वा मार्जारभक्षिते न भवति दुःखमतो ममतैव दुःखजननी न पदार्थमहत्तेति भावः ॥ २० ॥ मन—देवि, आपका कथन ठीक है, तथापि— जिन्हें पैदा किया, दुलार किया, हृदयमें स्थान दिया, उनका वियोग प्राणों के वियोग की तरह कष्टप्रद होता है ॥ १९ ॥ सरस्वती—वत्स, ममतावासनासे ही ऐसा मोह होरहा है, कहा है— विलाड़ घरके गौरैयाको खा जाय तो दुःख होता है, परन्तु वही विलाड़ यदि चटक या चूहेको चटकर जाता है तो दुःख नही होता है, इससे स्पष्ट है कि ममता ही दुःखका निदान है ॥ २० ॥
१६० प्रबोधचन्द्रोदयम् तत्सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः । पश्य— प्रादुर्भवन्ति वपुषः कति वा न कीटा यान्यत्नतः खलु तनोरपसारयन्ति । मोहः स एष जगतो यदपत्यसंज्ञां तेषां विधाय परिशोषयति स्वदेहम् ॥ २१ ॥ मनः—देवि, भवत्वेवम् । तथापि दुरुच्छेदस्तु ममत्वग्रन्थिः । (विचि- न्त्य । सोच्छ्वासम् ) सर्वथा त्रातोऽस्मि भवत्या । (इति पादयोः पतति) सरस्वती—वत्स, उपदेशसहिष्णु ते हृदयं जातम् । अत एतदपर- मुच्यते— सर्वानर्थबीजस्य-सर्वविधानर्थकारिणः । ममत्वस्य-ममेदमित्यध्यासस्य । उच्छे दे-नाशे । प्रादुर्भवन्तीति० वपुषः शरीरात् कति कियन्तः कीटाः क्षुद्रप्राणिनः यूकालिक्षादयः न वा प्रादुर्भवन्ति उत्पद्यन्ते, तान् तनोः प्रभूतानपि कीटान् (जनाः) यत्नतः प्रयासेन तनोः शरीरात् अपसारयन्ति दूरीकुर्वन्ति । स एष जगतः संसारस्य मोहः अविवेकः यत् तेषाम् तनुजातानाम् पुत्रादीनां कीटैः समानमपि अपत्यसंज्ञाम् पुत्रा- दिपदवाच्यताम् विधाय स्वदेहम् आत्मकायम् शोषयति क्लमयति । शरीरजातत्वेन समतायां सम्यक् प्रतीतायामपि कीटानां यत्नतः शरीरादपसारणं कुर्वन्त एव पामरा. सुतादीनां विषये यदात्मानं ग्लपयन्ति तत्तेषां मोहस्यविस्फूर्जितमेव, न विवेकपूर्वकं कार्यमिति भावः । वसन्ततिलकं वृत्तम् ॥ २१ ॥ दुरुच्छेदः-दुरप्यासः । ममत्वग्रन्थिः-ममताबन्धनम् । त्रातः-रक्षितः । उपदेशसहिष्णु-उपदेशश्रवणार्हम् । अतः सभी अनर्थों की जड ममताके उच्छेदका ही प्रयत्न करना चाहिये । देखो:— देहसे कितने कीट उत्पन्न होते रहते हैं जिन्हें हम कोशिश करके शरीरसे दूर करते रहते हैं, (फिर देहसे उत्पन्न पुत्र आदिके विषयमें) यह मोह होता है कि इन्हें अपत्य संज्ञा प्रदान कर इनके लिये देहको सुखाया करता हैं ॥ २१ ॥ मन—देवि, ऐसा ही रहे, फिर भी ममताकी गांठ छूटती नहीं है । (सोचकर, उच्छ्वास लेकर) तुमने सर्वथा बचा लिया । (चरणोंपर गिरता है) सरस्वती—वत्स, अब तुम्हारा हृदय उपदेशके योग्य होगया । अतः इतना और
पञ्चमोऽङ्कः १६१
वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा शुचा संतप्यन्ते भृशमुदरताडं जडधियः । असारे संसारे विरसपरिणामे तु विदुषां वियोगो वैराग्यं द्रढयति वितन्वञ्शमसुखम् ॥ २२ ॥ ( ततः प्रविशति वैराग्यम् ) वैराग्यम्—( विचिन्त्य ) अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत- त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः । वशमिति० पितरि जनके तनये पुत्रे सुहृदि मित्रे वा मृत्योः मरणस्य वशं प्राप्ते मृते सति जडधियः मन्दमतयः उदरताडम् उरस्ताडम् शुचा तद्वियोगजशोकेन सन्तप्यन्ते पीड्यन्ते । तु पुनः विदुषाम् संसारतत्त्वं ज्ञातवताम् विरसपरिणामे अवसानदुरन्ते असारे निस्तत्त्वे संसारे शमसुखं वितन्वन् शान्तिसमुत्थमानन्दं वितरन् वियोगः पुत्रादिभिर्विच्छेदः वैराग्यं द्रढयति दृढीकरोति । येरेव कारणैर्मन्दम तयः सन्तप्यन्ते तैरेव ज्ञानिनस्ते वैराग्यं द्रढयन्तं शान्तिसहचरमानन्दं लभन्ते इत्याशयः । 'उदरताडम्' इत्यत्र 'परिक्लिश्यमाने चे'ति णमुल् ॥ २२ ॥ अस्राक्षीदिति० यदि प्रजानां पति ब्रह्मा एतत् दृश्यमानं वपुः लोकानां शरीरम् नवस्य नूतनस्य नीलनीरजस्य इन्दीवरस्य दल छदस्तस्योपान्तोऽग्रभागस्तद्वत् सूक्ष्मा अस्थूला आयता दीर्घा च या त्वक् चर्म तन्मात्रेण केवलं तादृश्या त्वचा अन्तरितामिषम् आवृत्तमांसम् न अस्राक्षीत् न निर्मितवान् विधाता यदि मांस- पिण्डरूपं वपुरिदं कमलपत्रसूक्ष्मेण दीर्घेण च चर्मणा नावृतं विधाय केवलं मांसमय मेवाकारिष्यदित्यर्थः, (तदा) प्रत्यग्रं नवं क्षरत् स्रवत् यत् अस्रं शोणितं तेन क्लिन्नम् आमगन्धि यत् पिशितं मांसं तस्य ग्रासस्य कवलस्य ग्रहं ग्रहणं गृध्नतः कामयमा- कहती हूं—जब पिता, पुत्र या मित्र की मृत्यु हो जाती है तब जड़बुद्धि लोग छाती पीट कर शोकसे सन्तप्त हुआ करते है, परन्तु जो संसारका असारत्व या परिणति विरसत्व जानते है उनके लिये वियोग शमसुख प्रदान करनेवाला तथा वैराग्य दृढ़ करनेवाला हुआ करता है ॥ २२ ॥ ( वैराग्यका प्रवेश । वैराग्य—(सोचकर) ब्रह्मा नवीन नीलकमल पत्र के समान अतिसूक्ष्म कोमल त्वचा से मांसमय इस शरीरको यदि आवृत्त नही करते तो सद्यः प्रवहमान रुधिर तथा मांसके
१६२ प्रबोधचन्द्रोदयम् प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृध्नतो गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥ २३ ॥ अपि च— श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततभवलानर्थबहुला तथाप्यस्मिन्घोरे पथि वत रता नात्मनि रताः ॥ २४ ॥ सरस्वती—वत्स, एतद्वैराग्यं त्वामुपस्थितम् । तदेतत्संभावय । नान् तनौ शरीरे निपततः अहमहमिकया परापततः गृध्रध्वाङ्क्षवृकान् गृध्रान् काकान् वृकांश्च कः कथम् वा वारयेत् निवारयेत् ? केवलं चर्मैवावरकं निर्मितं ब्रह्मणा येना- ममांसलोभेन गृध्रादयो न पतन्ति, न चेत् तान् वारयितुं कोऽक्षमिव्यतेति भावः । मांसपिण्डमेवेदं वपुःकेवलं त्वचाऽन्तरितं कृतं, तदन्न वृथाऽऽस्थेति ध्वनिः। एतेन शरीरस्यास्थायित्वप्रतिपादनेन वैराग्यं प्रति प्रवणीकरणमुद्देश्यं प्रकाशितम् ॥ २३ ॥ श्रिय ःति० श्रियः सम्पत्तयः दोलालोलाः हिन्दोलवञ्चपलाः, विषयजरसाः सांसा- रिकसुखानि प्रान्तविरसाः अवसानकष्टप्रदाः, देहम् वपुः विपद्गेहम् आपत्तिस्थानम् महदपि धनम् भूरिप्रचुरं निधनम् मरणसाधनम् , लोकः संसारः बृहच्छोकः सम- धिकशोकपूर्णः, अबला स्त्री अनर्थबहुला विविधार्थसाधनम्, तथापि एवमुत्पात- परम्परापरीतत्वेऽपि अस्मिन् घोरे भयङ्करे पथि वैषयिकमार्गे रताः संसक्ताः आ- त्मनि परमे ब्रह्मणि न रताः न लग्नाः बतेति खेदे । सम्पत्तीनां क्षणस्थायित्वे वैष- यिकसुखानां पर्यन्तविरसत्वे देहस्यानेकविधविपदाश्रयत्वे धनानां प्राणहारकत्वे लोकानां पुत्रादिवियोगावस्थायां शोकावृतत्वावलोकने च प्रत्यक्षे वनितानाञ्चानर्थ साधनत्वे साधितेऽपि भयावेहेऽत्र भववर्त्मनि प्रवर्त्तन्ते लोकानाध्यात्ममार्गे इति खिद्येऽहमिति भावः । शिखरिणीवृत्तम् ॥ २४ ॥ त्वामुपस्थितम्-तव समीपे समागतम् । एतत्-वैराग्यम् । सम्भावय-स्वागती- कुरुष्व । लिये ललचाये हुए काक और गृध्रको उसपर गिरनेसे कैसे रोका जाता ? ॥ २३ ॥ और—लक्ष्मी दोलाकी तरह चल है, विषय सुखपर्यन्त विरस है, देह विपत्ति का घर तथा धन मौत है, लोक अतिशोकाकुल है, स्त्रियाँ अनर्थ की जड़ें है, फिर भी लोग इस घोर ससार मे ही लगे रहते है आत्मामे नही रमते हैं ॥ २४ ॥ सरस्वती—वत्स यह वैराग्य तुम्हारे पास हाजिर है, इसका मान करो ।
५. पञ्चम अङ्क: मोह-विनाश एवं वैराग्य-विजय
पञ्चमोऽङ्कः १६३ मनः—क्वासि पुत्रक ! ? वैराग्यम्—( उपसृत्य ) अहं भो अभिवादये । मनः—वत्स, जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम् । वैराग्यम्—( तथा करोति ) मनः—वत्स, त्वद्दर्शनात्प्रशान्तो मे शोकावेशः । वैराग्यम्—तात, कोऽत्र शोकावेशः । यतः— पान्थानामिव वर्त्मनि क्षितिरुहां नद्यामिव भ्रश्यतां मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव । जातमात्रेण त्वया त्यक्तोऽस्मि-उत्पन्नमात्र एव त्वां मां परित्यक्तवानित्यर्थः । परिष्वजस्व-आलिङ्ग। त्वद्दर्शनात्-तव वैराग्यस्य साक्षात्कारात् । प्रशान्तः-मन्दीभूतः । शोकावेशः- खेदस्य वेगः । पान्थानामिति० वर्त्मनि मार्गे पान्थानाम् पथिकानाम् इव नद्याम् स्रोतस्विन्याम् भ्रश्यतां पतताम् भूरुहाणाम् वृक्षाणाम् इव, पुष्करे व्योम्नि मेघानाम् जलदानाम् इव, जलनिधौ सागरे सांयात्रिकाणाम् पोतवणिजाम् इव, पितृमातृबन्धुतनयभ्रातृ- प्रियाणाम् सर्वेषाम् आत्मीयानाम् संयोगः मिलनं यदा विदुषाम् ज्ञानिनां कृते दूर- वियोग एव अत्यन्तविच्छेदस्वरूप एव सिद्धस्तदा कः कीदृशः शोकोदयः खेदप्रकाशः ? यथा पथि पथिका मिलन्ति वियुज्यन्ते च, यथा वा पतन्तो वृक्षा नदीपयःपूरेणोह्य- मानाः संयुज्यन्ते, वियुक्ताश्च भवन्ति, यथा वा व्योम्नि मेघाः परस्परं मिलित्वा विश्लिष्यन्ति, यथा वा पोतवणिजो जलधौ परेण तादृशेनैव वणिजा सङ्गताः सन्तो विच्छिद्यन्ते, तद्वदेवैष पितृमात्रादिभिस्संयोगः। सम्भविना वियोगेनावरुद्ध इति मन—कहाँ हो बेटा ? वैराग्य—( समीप जाकर ) यह मैं अभिवादन करता हूँ । मन—बेटा, जन्म लेते ही तुमने मुझे छोड़ दिया था, आओ गले लगो । वैराग्य—( वैसा करता है ) मन—बेटा, तुम्हें देखनेसे मेरा शोकावेश शान्त हो गया । वैराग्य—तात, इसमे शोककी क्या बात है ? क्योंकि— रास्तेमें पन्थियोंकी तरह, नदीमें गिरनेवाले तटस्थ वृक्षोंकी तरह, पुष्करक्षेत्रमें मेघों की तरह और समुद्रमें नौयात्रियोंकी तरह जब माता, पिता, बन्धु, पुत्र, भाई तथा १३ प्र० च०
१६४ प्रबोधचन्द्रोदयम् संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां यदा सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ २५ ॥ मनः- (सानन्दम्) देवि, एवमेतत् यदाह वत्सः । तथाहि तावदव- धारयतु भवती । निरन्तराभ्यासदृढीकृतस्य सस्नेहसूत्रग्रथितस्य जन्तोः । जानासि किञ्चिद्भगवत्युपायं ममत्वपाशस्य यतो विमोक्षः ॥ २६ ॥ सरस्वती-वत्स, भावानामनित्यताभावनमेव तावन्ममतोच्छेदस्य प्रथमोऽभ्युपायः । तथाहि- तस्मिञ्जायमाने विद्वांसो न शोचन्तीत्यर्थः । संयोग एव वियोगञ्जनयतीति येन यस्य संयोगो जायते तेन समं तस्य वियोगोऽप्यवश्यंभावीति हेतोः परिग्रहापाये- ऽपि विद्वांसो न शोकेनाभिभूयन्त इति साराशयः । 'व्योम पुष्करमम्बरम्' इति, 'सांयात्रिकः पोतवणिक्' इति चामरः । शार्दूलविक्रीडितं वृत्तम् ॥ २५ ॥ अवधारयतु-निश्चिनोतु । भवती-त्वं सरस्वती । निरन्तरेति० निरन्तराभ्यासदृढीकृतस्य-सार्वदिकानुशीलनबद्धमूलस्य सस्नेह- सूत्रग्रथितस्य प्रेमपूर्णान्तःकरणवृत्तिरूपरज्जुस्यूतस्य जन्तोः प्राणिनः ममत्वपाशस्य ममताबन्धनस्य यतः येन विमोक्षः अवसानम् भवति, अयि भगवति, (तादृशम्) किञ्चिदुपायम् कमपि प्रतिकारम् जानासि अवैषि ? अयि भगवति सरस्वति, किं भवती कमप्येतादृशमुपायं जानाति येन जन्तोः चिरन्तनाभ्यासबद्धमूलः स्नेहरज्जु- ग्रथितश्च ममत्वबन्धो विघटेतेत्यर्थः ॥ २६ ॥ भावानाम्-पदार्थानाम् । अनित्यताभावनम्-अस्थायित्वचिन्तनम् । ममतोच्छे- प्रिया का साथ हुआ करता है तब उनसे वियोग तो निश्चित ही है, फिर विद्वानों को इसमें क्या शोक करना है ? ॥ २५ ॥ मन-(आनन्दसे) देवि, यही बात है जो यह बच्चा कह रहा है। आप विश्वास करें । प्राणियों का ममत्वपाश निरन्तराभ्याससे दृढ़ हो गया है और स्नेहसूत्रमें पिरोया हुआ है, क्या आप ऐसा कुछ उपाय जानती हैं जिसके द्वारा उससे छुटकारा प्राप्त हो सके ॥ २६ ॥ सरस्वती-पदार्थों की अनित्यताका विचार ही ममतोच्छेदका प्रथम उपाय है ।
न कति पितरो दाराः पुत्राः पितृव्यपितामहा महति वितते संसारेऽस्मिन् गतास्तव कोटयः । तदिह सुहृदां विद्युत्पातोज्जवलान् क्षणसंगमान् सपदि हृदये भूयो भूयो निवेश्य सुखी भव ॥ २७ ॥ मनः- भगवति, तव प्रसादादपास्त एव व्यामोहः । किन्तु— भगवति तव मुखशशधरगलितैर्विमलोपदेशपीयूषैः । क्षालितमपि मे हृदयं मलिनं शोकोर्मिभिः क्रियते ॥ २८ ॥ दस्य-ममत्वविघटनस्य प्रथमः-आद्यः । अभ्युपायः-प्रकारः, कारणं वा । न कतीति० अस्मिन् वितते अनादिपरम्परावाहिनि महति संसारे विस्तीर्णे भवे कोटयः कति कियन्तः तव पितरः जनकाः, दाराः स्त्रियः, पुत्राः सुताः, पितृव्याः पितुर्भ्रातरः पितामहाः पितुः पितरश्च, न गताः । अनादावत्र विस्तीर्णे संसारे भूयो भूयो जायमानस्य तव बहुकोटिसंख्याकाः पितरो याताः, तथैव स्त्र्यादयोऽपि सम्ब- न्धिविशेषा गतवन्तः, संसारे तथैवोत्पद्यविलीयमानानां तव सम्बन्धिनां संख्या न कर्तुं शक्याऽस्यानादिपरम्पराऽऽयातत्वादिति भावः । तत् तस्मात् इह संसारे विद्युत्पातोज्ज्वलान् शम्पासम्पातप्रकाशान् सुहृदाम् मित्राणां क्षणसङ्गमान् किञ्चि- त्कालव्यापकमीलनानि भूयोभूयः पुनः पुनः हृदये स्वचित्ते निवेश्य अवधार्य सपदि सद्यः सुखीभव आनन्दमाप्नुहि । इह संसारे समागमाः सापगमा इति सिद्धान्त- सिद्धं संयोगस्य क्षणिकत्वं वारंवारं भावयित्वा निर्वृत्तिमासादयेति तात्पर्यम् । हरि- णीवृत्तम् , लक्षणमन्यत्रोक्तम् ॥ २७ ॥ प्रसादात्-अनुग्रहात् । अपास्तः-अपगतः । व्यामोहः-चित्तव्याक्षेपः, शोकावेश इत्यर्थः । भगवतीति० तव मुखशशधरगलितैः मुखचन्द्रच्युतैः विमलोपदेशपीयूषैः निर्मलो- पदेशामृतैः क्षालितं धौतमपि मम हृदयम् शोकोर्मिभिः पुत्राद्याप्तजनवियोगजन्य- न जाने तुम्हारे कितने करोड मा, बाप, स्त्री, पुत्र, चाचा, पितामह इस अनन्त संसार चक्रमे गुजर गये होंगे, इसलिये यहाँ आत्मीयों की सङ्गति बिजलीकी चमक की तरह क्षण भङ्गुर है, इस बातको बारबार हृदयमें बैठाकर सुखी रहा करो ॥ २७ ॥ मन—भगवति, आपकी अनुकम्पासे हमारा मोह तो दूर हो गया, किन्तु आपके मुखचन्द्रसे निर्गत विमल उपदेशरूप अमृतसे धुल जाने पर भी हमारे हृदयको शोकके वेग कभी कभी मलिन कर देते हैं ॥ २८ ॥
१६६ प्रबोधचन्द्रोदयम् तदस्यार्द्रस्य शोकप्रहारस्य भेषजमाज्ञापयतु भगवती । सरस्वती—वत्स, नूनमुपदिष्टमेवात्र मुनिभिः । अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ २६ ॥ मनः—एवमेव भगवत्येतद्दुर्निवारं तु चेतः । यतः— अप्येतद्वारितं चिन्तासन्तानैरभिभूयते । मुहुर्वातहतैर्बिम्बमभ्रच्छेदैरिवैन्दवम् ॥ ३० ॥ खेदतरङ्गैः मलिनं क्रियते लिप्यते । त्वदीयेनोपदेशेन यद्यपि ज्ञानं जन्म लभते परं शोकप्रवाहेण तन्निहूयत इत्याशयः । साङ्गरम्परितरूपकमलङ्कारः ॥ २८ ॥ आर्द्रस्य-सद्योजातस्य । शोकप्रहारस्य-खेददुःखस्य । भेषजम्-औषधम् । आज्ञा- पयतु-आदिशतु । अकाण्डेति० अकाण्डपातजातानाम् बाणप्रहारमन्तरैवोत्पन्नानाम् अथवा असमये प्ररूढानाम् आर्द्राणाम् सद्यः समुत्पन्नानाम् मर्मभेदिनाम् हृदयविदारिणाम् गाढशोक- प्रहाराणाम् भयङ्करशोकावेशानाम् अचिन्ता अननुध्यानमेवौषधम् प्रतिकारः, अस्तीति शेषः । बाणप्रहारजस्य क्षतस्य किञ्चिदन्यदौषधंस्तान्नाम परं शोकप्रहारस्य पुनर्हृदयं विध्यतो बुद्धेरपसारणमेव निवर्त्तकमिति भावः । अतस्त्वमपीमां परिग्रहेषु पतितामापदं चिन्तापथादपसार्यैव निर्वृतिमाप्तुं प्रभवसि नान्यथा तेन विस्मरता- मिति तात्पर्यम् ॥ २९ ॥ एवमेव भगवत्येतत्-भगवत्योक्तमेव शोकभेषजम् । दुर्निवारम्-दुर्निग्रहम् । अप्येतदिति० वारितम् निरुद्धम् (चिन्तां मा कृथा इति शतशः प्रतिबोधितम् ) अपि एतत् चित्तम् चिन्तासन्तानैः चिन्ताप्रवाहैः अभिभूयते स्ववशीक्रियते । ऐन्दु- वम् इन्दोरिदमैन्दवम् चन्द्रमसः बिम्बम् वाताहतैः वायुवशादुपनीतैः अभ्रच्छेदैः मेघखण्डैः इव यथा वायुवशाहतघनमालया चन्द्रबिम्बमाव्रियते तथैव बहुशो बोध्य- अतः इस ताजे शोकप्रहारकी दवा आप बतावें । सरस्वती—मुनिओं ने इस विषयमें उपदेश दिया ही है । अकाण्डमें आगत हृदयभेदी तथा नूतन गाढ़शोकप्रहारोका भूल जाना ही महौ- षध है ॥ २९ ॥ मन—यह तो ठीक है, किन्तु हृदय बड़ा दुर्निवार होता है। क्योंकि— इसे वारित कर दीजिये, फिर भी यह चिन्ताओंसे अभिभूत हो जाया करता है, जैसे चन्द्रबिम्ब वात-प्रेरित मेघखण्डसे ढक जाया करता है ॥ ३० ॥
पञ्चमोऽङ्कः १५७ सरस्वती—वत्स, श्रूयताम्। चित्तस्यायं विकारः। ततः कस्मिंश्चि- च्छान्ते विषये चित्तं निवेश्यताम्। मनः—तत्प्रसीदतु भगवती। कोऽसौ शान्तो विषयः। सरस्वती—वत्स, गुह्यमेतत्, तथाप्यार्तानामुपदेशे न दोषः। नित्यं स्मरञ्जलदनीलमुदारहार- केयूरकुण्डलकिरीटधरं हरिं वा। ग्रीष्मे सुशीतमिव वा हृदमस्तशोकं ब्रह्म प्रविश्य भज निर्वृतिमात्मनीनाम् ॥ ३१ ॥ मानमपि मलश्चिन्ताततिभिरभिभूयते इति भावः। ऐन्दवं बिम्बमिवेत्युपमया स्वतो विमलत्वं चिन्तासन्तानत्वोपमया च विषयगतचिन्तायास्तद्वैमल्यावरकत्वं ध्वन्यते ॥ ३० ॥ विकारः-विषयोन्मुखत्वलक्षणः। चित्तं निर्विषयं स्थातुमशक्तं तेन तादृशे विषये तस्यासक्तिर्विधीयतां येन तस्य स्वरूपं स्मृतिपथान्नापेयादिति वक्ष्यति-कस्मिंश्चिदिति। गुह्यम्-गोपनीयम्। आर्त्तानाम्-पीडितानाम्। नित्यमिति० नित्यं सदा जलदनीलम् मेघश्यामलकान्तिम् उदारः सुन्दरो यो हारः मुक्तामाला केयूरं बाहुभूषणम् कुण्डले कर्णाभरणे किरीटं मुकुटं तेषां धरं धार- यितारम्। हरिम् विष्णुम् स्मरन् ध्यायन् अस्तशोकम् शान्तसर्वदुःखम् ब्रह्म वा ग्रीष्मे तप्तौ सुशीतम् अतिशीतलम् हृदम् जलाशयम् इव प्रविश्य आसाद्य आत्म- नीनाम् स्वीयाम् स्वरूपप्राप्तिरूपाम् निर्वृतिं शान्तिम् भज आप्नुहि। अयमाशयः- जलदश्यामलतनो रमणीयहारकेयूरमुकुटधरस्य भगवतो विष्णोः स्मरणमनवरतमा- चरन् तद्भावोदितचित्तशुद्धिः सर्वतापहरं ग्रीष्मे शीतं जलाशयमित्र ब्रह्मस्वाभेदे- नाधिगम्य स्वरूपावाप्तिलक्षणां शाश्वतिकीं शान्तिमासाद्य कृतित्वमाकलयेदित्यर्थः। पूर्वं साकारभावनया चित्तस्थैर्ये जाते पश्चान्निराकारे प्रवेशो भवति, तदनुरोधेनात्र विष्णुभक्तेः पूर्वकसंख्यतोक्ता, लक्ष्यं त्वात्मज्ञानमेवेति बोध्यम्। यथा नवधानुष्को- सरस्वती—यह तो चित्तका विकार है, अतः चित्तको किसी शान्तविषयमें लगा दो। मन—आप कृपाकर बतावें, वह शान्तविषय कौन-सा है ? सरस्वती—यद्यपि यह गोप्य है, फिर भी आर्त्तों को बतानेमें कुछ दोष नहीं है। सदा मेघश्यामलावर्ण हारकेयूरकुण्डलधारी भगवान्का स्मरण करते हुए अथवा ग्रीष्म ऋतुमें सुशीतल जलाशयके सदृश वीतशोक ब्रह्ममें अभेदभावनाके द्वारा प्रवेश कर आत्मशान्ति प्राप्त करो ॥ ३१ ॥
१६८ प्रबोधचन्द्रोदयम् मनः—एवमेतत् । संप्रति हि— नार्यस्ता नचयौवना मधुकरव्याहारिणस्ते द्रुमाः प्रोन्मीलन्नवमल्लिकासुरभयो मन्दास्त एवानिलाः । अद्योदात्तविवेकमार्जिततमःस्तोमव्यलीकान्पुन- स्तानेतान्मृगतृष्णिकार्णवपयःप्रायान्मनः पश्यति ॥ ३२ ॥ सरस्वती—वत्स, यद्यप्येवं तथापि गृहिणा मुहूर्तंमप्यनाश्रमधर्मिणा न भवितव्यम् । तदद्यप्रभृति निवृत्तिरेव ते सधर्मचारिणी । ऽतिस्थूलमेव लक्ष्यं प्रागुद्दिशति क्रमशश्चाभ्यासपरिपाके जायमानेऽन्यान्यपि लक्ष्याणि विध्यति तथैव विष्णुभक्त्याऽवासहृदयस्थैर्यः श्रवणमनननिदिध्यासनादिषु सिध्यन् परमं ब्रह्म प्राप्नोतीति बोधयितुमयं क्रमन्यासः कृतः ॥ ३१ ॥ नार्यस्ता इति० ताः अनुभूतपूर्वाः नवयौवनाः युवत्यः नार्यः स्त्रियः, ते मधुकर- व्याहारिणः भृङ्गमुखरिताः द्रुमाः वृक्षाः प्रोन्मीलन्तीनां विकासं भजन्तीनां नव- मल्लिकानां सुरभिः सुगन्धः येषु तादृशाः विकसन्मल्लिकाकुसुमसुरन्धियुताः मन्दाः अतीव्रवाहिनः त एव प्राक्तनाविलक्षणा एव अनिला वायवः । (किन्तु जातबोधो- दयस्य मम कृते ) अद्य अधुना मनः उदात्तेन निर्मलेन विवेकेन वस्तुयाथातथ्यज्ञानेन मार्जितम् अपसारितं तमःस्तोममज्ञाननिवहस्तेन व्यलीकान् असत्यान् एतान् विषयान् मृगतृष्णिकार्णवपयःप्रायान् मृगतृष्णाजलवदसत्यप्रतिभासान् पश्यति । अज्ञानावस्थायां येषां वनितादीनां सुखसाधनतया ज्ञानं जायते स्म सम्प्रति ज्ञानो- दये तेषामेवासत्यत्वप्रकारकज्ञानविषयतया नावर्जकत्वं किन्तु विरागजन्मकत्वमेवेति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ ३२ ॥ यद्यप्येवम्—नार्यो नानन्दप्रदाः किन्तु बन्धसाधनान्येवेति त्वदुक्तं यद्यपि न मिथ्या । गृहिणा-गृहस्थेन । मुहूर्त्तम्-क्षणम् । अनाश्रमिणा—अस्त्रीकेण । गृहस्थः सततं स्त्रियं रक्षेद्दम्पत्योः सहाधिकारात् , अग्निहोत्रादिकर्मसु भार्या विना वैगुण्य- मन—ठीक है, इस समय— नवयौवना नारियाँ, भ्रमरमुखरित वृक्षगण, विकसित नवमल्लिकासे सुरभित मन्दा- निल, अब यह मन इन सभीको पवित्र विवेक द्वारा अज्ञानको समूल दूरकर मृगतृष्णा जलसदृश देख रहा है ॥ ३२ ॥ सरस्वती—वत्स, यद्यपि तुम्हारा कथन सत्य है, फिर भी गृहस्थको अनाश्रमी नहीं रहना चाहिये, अतः इस समयसे निवृत्ति तुम्हारी धर्मपत्नी रहेगी ।
पञ्चमोऽङ्कः १६६ मनः- ( सलज्जम् ) यदादिशति देवी । सरस्वती-शमदमसन्तोषादयश्च पुत्रास्त्वामनुचरन्तु । यमनियमा- दयश्चामात्याः । विवेकोऽपि त्वदनुग्रहादुपनिषद्देव्या सह यौवराज्यमनु- भवतु । एताश्च मैत्र्यादयश्चतस्रो भगिन्यो भगवत्या विष्णुभक्त्या तव प्रसादाय प्रहितास्ताः सप्रसादमनुमानय । मनः-यदादिशति देवी । मूर्ध्नि निवेशिताः सर्वा एवाज्ञाः । ( इति सहर्षं पादयोः पतति ) सरस्वती-साम्राज्यमनुतिष्ठस्व । एते च यमनियमादयः सादर- मायुष्मता द्रष्टव्याः । एतैरेव सहायुष्मान्यौवराज्यमधितिष्ठतु । त्वयि च संभवादिति भावः । अनुचरन्तु-सेवन्ताम् । अमात्याः-मन्त्रिणः । त्वदनुग्रहात्-तव कृपावशात् । यौवराज्यम्-युवराजस्य पदम् कार्यं वा । मैत्र्यादयः-मैत्री, करुणा, मुदिता, उपेक्षा इति चतस्रः । प्रसादनाय-आनन्दाय । सप्रसादम्-प्रसन्नभावेन । अनुमानय-प्रसन्नतामाधातुमनुजानीहि । मूर्ध्नि निवेशिताः-शिरसि स्थापिताः । साम्राज्यम्-सर्वाधिपत्यम् । अनुतिष्ठस्व-उपभुङ्क्ष्व । आयुष्मता-भवता । एतैः- यमनियमादिभिः । स्वास्थ्यम्-प्रकृतिस्थताम् , विषयसम्बन्धराहित्यम् । आपन्ने- प्राप्तवति । क्षेत्रज्ञः-आत्मा । स्वाम् प्रकृतिम्-आत्मनः परमात्मतारूपं स्वभावम् । आपत्स्यते-प्राप्स्यति । 'मन एव मनुष्याणां कारणं बन्धमोक्षयोः' इति वचनेन मन-( लज्जापूर्वक ) जो आपकी आज्ञा । सरस्वती-शम दम सन्तोष आदि पुत्र तुम्हारे अनुचर हों, यम नियम आदि मन्त्री रहे, विवेक भी तुम्हारे अनुग्रहसे उपनिषद् देवीके साथ यौवराज्यका अनुभव करे । ये मैत्री आदि चार बहनें भगवती विष्णुभक्तिद्वारा तुम्हे प्रसन्न करनेके लिये भेजी गई हैं, उनसे प्रसन्नताके साथ बरतो । मन-देवी की जो आज्ञा । आपकी सभी आज्ञायें हमारे लिये शिरोधार्य हैं । ( सहर्ष चरणोंपर गिरता है ) सरस्वती-साम्राज्य भोग करो । इन यम नियम आदिको सादर देखा करना । इन्हींके साथ तुम यौवराज्यका भोग करो । तुम स्वस्थ हुए कि आत्मा भी अपनी स्थितिपर
स्वास्थ्यमापन्ने क्षेत्रज्ञोऽपि स्वां प्रकृतिमापत्स्यते । यतः— त्वत्सङ्गाच्छाश्वतोऽपि प्रभवलयजरोपप्लुतो बुद्धिवृत्ति- ष्वेको नानेव देवो रविरिव जलधेर्वीचिषु व्यस्तमूर्तिः । तूष्णीमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्तौ- र्भात्यादर्शे प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा ॥३३॥ मनसि विषयोपरक्ते बन्धस्तस्य तदुपरागापगमे च मोक्ष इति सिद्धान्तमनुसृत्यैवा- न्रत्यो ग्रन्थो बोध्यः । त्वत्सङ्गादिति० शाश्वतः नित्यनिर्विकारः अपि देवः आत्मा त्वत्सङ्गात् तव मनसः सङ्गात् तदुपक्लृप्तविषयसंयोगात् प्रभवलयजरोपप्लुतः प्रभवो जन्म, लयो मृत्युः, जरा वार्धकम् , ताभिरुपप्लुतः उपरक्षितः सम्बन्धवत्त्वं गमितः एकः ( अपि ) जलधेर्वीचिषु सागरोर्मिषु रविः सूर्य इव बुद्धिवृत्तिषु अन्तःकरणवृत्तिषु नाना बहुत्वमापन्नः इव व्यस्तमूर्त्तिः नानात्वं गतः ( भवतीति शेषः । ) यथैकोऽपि रवि- स्सागरतरङ्गेषु प्रतितरङ्गं पृथगिवावभासमानः सन् नाना इव प्रतीयते तद्वन्मनः- सम्बन्धमहिम्ना भिद्यमानास्वान्तःकरणवृत्तिषु तदुपाधिमहिम्नाऽऽत्मन एकस्यापि भिन्नत्वप्रतिभासो भवति, मनसा प्रतिशरीरं भिन्नेन ज्ञानानि जन्यन्ते तैश्च भिन्ना नानात्मानोऽवभासन्ते, तत्रान्तःकरणवृत्तिभेदस्तरङ्गभेदवत् , सूर्यवच्चात्मन एकत्व- मिति दृष्टान्तदार्ष्टान्तिकसाम्यमवगन्तव्यमित्याद्यपादद्वयार्थः । वत्स, कथमपि केनापि अदृष्टमहात्मसङ्गत्तिसुकृतोद्रेकाद्यन्यतमकारणसमवधानात्मना प्रकारेण वित- ताः भिन्नभिन्नविषयसङ्गता वृत्तीः अन्तःकरणवृत्तीः संहृत्य प्रतिनिवर्त्य यदि त्वं तूष्णीमालम्बसे निर्वर्त्तितविषयसम्पर्कतामवलम्बसे तदा प्रसन्ने निर्मले आदर्शे रविरिव आत्मा ( स्वस्वरूपेण ) सहजानन्दसान्द्रः स्वाभाविकानन्दनिर्भरः ( सञ्जा- यते ) इति शेषः । तव मनसो विषयविनिवृत्तौ त्वद्द्धारकविषयसम्बन्धजुष आत्म- नोऽपि विषयसम्बन्धनिवृत्तेः क्लृप्ततया तद्धेतुकनानात्वापगमे स्वरूपावस्थानरूप- बन्धनिवृत्तिर्जायत इति तात्पर्यम् ॥ ३३ ॥ पहुंच जायेंगी । क्योंकि— शाश्वत तथा अद्वितीय होकर भी आत्मा तुम्हारे संसर्गसे जन्ममृत्युजराका भाजन तथा बुद्धिवृत्तिप्रतिफलितभावेन अनेक दीख पड़ती है जैसे समुद्रतरङ्गोंमें सूर्य अनेक दीखता है। यदि तुम अपनी वृत्तियोंको समेटकर शान्त हो जाते हो तो आत्मा स्वाभाविक आनन्दरूपमें प्रकाशित होने लगेगी जैसे निर्मल दर्पणमें सूर्य प्रकाशित होता है ॥ ३३ ॥
पञ्चमोऽङ्कः २०१ तद्भवतु । ज्ञातीनामुदकदानाय नदीमवतरामः । मनः—यदाज्ञापयति देवी । ( इति निष्क्रान्ताः सर्वे ) इति प्रबोधचन्द्रोदये वैराग्यप्रादुर्भावो नाम पञ्चमोऽङ्कः । ज्ञातीनाम्-दायादानाम् , कामादीनामिति तात्पर्यम् । उदकदानाय-जलाञ्जलिं दातुम् । जलाञ्जलिदानेन निरन्वयनाशं प्रतीङ्गितं कृतं वेद्यम् । एतेन कर्मणि विरा- गस्याप्रतिबन्धकत्वं समर्थितम् , उक्तश्चायमर्थो याज्ञवल्क्येन-‘ज्ञानिनोऽज्ञानिनो वापि यावद्देहस्य धारणम्। तावद्वर्णाश्रमाप्तेषु कर्त्तव्यं कर्म मुक्तये’ इति॥ अवतरामः- प्रविशामः॥ इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते ‘प्रबोधचन्द्रोदय’-‘प्रकाशे’ पञ्चमाङ्क-‘प्रकाशः’ अस्तु । मृतज्ञातिबन्धुओंको तिलाञ्जलि देनेके लिये नदीमें उतरें । मन—देवीका जैसा आदेश । ( सबका प्रस्थान ) पञ्चम अङ्क समाप्त ।
षष्ठोऽङ्कः ( ततः प्रविशति शान्तिः ) शान्तिः—आदिष्टास्मि महाराजविवेकेन । यथा वत्से, विदितमेव भवत्या किल ! अस्तं गतेषु तनयेषु विलीनमोहे वैराग्यभाजि मनसि प्रशमं प्रपन्ने । क्लेशेषु पञ्चसु गतेषु समं समीहां तत्त्वावबोधमभितः पुरुषस्तनोति ॥ १ ॥ तद्भवति त्वरिततरं देवीमुपनिषदमनुनीय मत्सकाशमानयत्विति । शान्तिः—( विलोक्य ) ममाम्बा सहर्ष किमपि मन्त्रयन्ती इत एवा- गच्छति । आदिष्टास्मि-आज्ञप्तास्मि । भवत्या-त्वया शान्त्या । अस्तमिति० तनयेषु पुत्रेषु कामादिषु अस्तंगतेषु मृतेषु विलीनमोहे नष्टमोहे वैराग्यभाजि विरागयुते मनसि चित्ते प्रशमं शान्तिं प्रपन्ने समाश्रितवति पञ्चसु अविद्यास्मितारागद्वेषाभिनिवेशनामकेषु क्लेशेषु समं समकालमेव समीहांगतेषु वासनारूपतां प्राप्तेषु पुरुषः क्षेत्रज्ञोऽयमात्मा अभितः सर्वतः तत्त्वावबोधं स्वरूपज्ञानं तनोति विस्तारयति । कामादिनाशे मोहनिवृत्तौ वैराग्योदये शान्तियुक्ते च मनसि जाते क्लेशाः वासनाशेषतयाऽवतिष्ठन्ते पुरुषस्य च सर्वतः स्वरूपज्ञानं जायते इति । स्थितप्रज्ञस्वरूपमिदं यथोक्तम्—'यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति' इति । वसन्ततिलकं वृत्तम् ॥ १ ॥ त्वरिततरम्-अतिशीघ्रम् । अनुनीय-प्रबोध्य । मत्सकाशम्-मत्पार्श्वम् । ममाम्बा-मम माता श्रद्धा । मन्त्रयन्ती-भाषमाणा । इतः-मदधिष्ठितं देशम् । ( शान्तिका प्रवेश ) शान्ति—महाराज विवेकने आदेश दिया है कि वत्से, तुम जानती ही हो कि— पुत्रोंके अस्त हो जानेपर मोहरहित तथा विरक्त मनके प्रशमापन्न हो जानेसे पञ्चक्लेशोंके मिट जानेके कारण पुरुष तत्त्वावबोधकी इच्छा कर रहा है ॥ १ ॥ इसलिये तुम अतिशीघ्र देवी उपनिषदको मनाकर मेरे पास ले आओ । शान्ति—( देखकर ) मेरी मां प्रसन्नतापूर्वक कुछ कहती हुई इधर ही आरही है ।
षष्ठोऽङ्कः २०३ ( ततः प्रविशति श्रद्धा ) श्रद्धा—अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे पीयूषेणेव लोचने पूर्णे । असतां निग्रहो यत्र सन्तः पूज्या यमादयः । आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥ शान्तिः—( उपसृत्य ) अम्ब, कि मन्त्रयन्ती प्रस्थिता । श्रद्धा—( अये, अद्येत्यादि पठति ) शान्तिः—अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्रवृत्तिः । श्रद्धा—यादृशी वध्यस्य ग्राह्यस्य भवति । राजकुलम्-विवेकपरिवारम् । आरोग्ययुक्तम्-स्वस्थम् । पीयूषेण-अमृतेन । राजकुलं स्वस्थं दृष्ट्वा तादृशी तृप्तिर्मदीयाभ्यां नयनाभ्यामासादिता यथाऽऽभ्याममृतसेकोऽनु- भूतः स्यादिति । असतामिति० यत्र यस्मिन् राजकुले असतां मोहादीनां निग्रहो दण्डः, यत्र च यमादयः सन्तः विवेकानुगतत्वेन पूज्याः सत्कारभाजः, यत्र जगत्स्वामी परमात्मा वश्यैः शमादिभिः करणैः देवानुजीविभिः परमात्मानुगामिभिः जीवैः कर्त्तृभिः आरा- ध्यते पूज्यते स्वाभिन्नत्वेन भावनमेवात्र जीवकर्त्तृकं परमात्मध्यानम् ॥ २ ॥ प्रस्थिता-चलिताऽसि, त्वमिति शेषः । मनसि-मनोविषये । प्रवृत्तिः-व्यवहारः । मनसा सह पुरुषः केन प्रकारेण वर्त्त- यतीत्यर्थः । वध्यस्य-वधार्हस्य । ग्राह्यस्य-गृहीतस्य । यथा निग्रहीतुं धृते समुचितो व्यवहारस्तथैव मनसि पुरुषस्य व्यवहारोऽस्तीति भावः । ( श्रद्धाका प्रवेश ) श्रद्धा—अये, आज राजकुलको स्वस्थ देखकर बहुत दिनोंके बाद मेरी आँखें अमृतसे पूर्ण-सी हो रही हैं । जहाँ दुष्टोंका निग्रह होता हो और यम नियम आदि सज्जनोंका सत्कार किया जाता है और जितेन्द्रिय तथा देवानुजीवी लोग जगत्पिताकी आराधना करते हैं ॥ २ ॥ शान्ति—मां, तुम क्या कहती जारही थीं । श्रद्धा—( 'अये, अद्य' इत्यादि दुहराती है ) शान्ति—अब मनके लिये स्वामीके हृदयमें क्या स्थान है ? श्रद्धा—जैसा अपराधी वध्य व्यक्तिके पकड़े जानेपर उसके लिये स्थान होता है ।
२०४ प्रबोधचन्द्रोदयम् शान्तिः—तत्किं स्वाम्येव साम्राज्यमलंकरिष्यति । श्रद्धा—एवमेतत् यथात्मानमनुसंधत्ते ततो देव एव स्वराट् सम्राट् च भवति । शान्तिः—अथ देवस्य मायायां कीदृशोऽनुग्रहः । श्रद्धा—ननु निग्रह इति वक्तव्ये कथमनुग्रहः शक्यते वक्तुम् । देवोऽपि हि सर्वानर्थबीजमियं माया सर्वथा निग्राह्येति मन्यते । शान्तिः—यद्येवं का तर्हीदानीं राजकुलस्य स्थितिः । साम्राज्यम्-आत्मारामत्वम् । मनोनिगृह्यात्माऽऽत्मारामतालक्षणं साम्राज्य- मधिकरिष्यति कच्चिदिति प्रश्नः । यथा-यतः । आत्मानमनुसन्धत्ते प्रपञ्चभिन्नत्वमास्थाय परमात्माभेदेन भावयति । स्वाराट्-स्वस्मिन्त्रासमन्ताद्राजत इति स्वाराट् । स्वाराट्पदस्य स्वात्माराम इत्यर्थः । सम्राट्-सम्यक्चिदानन्दाभेदेन राजत इति सम्राट् । ज्ञानस्वरूप इत्यर्थः । उक्तञ्च— 'स एष एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराट् भवति' इति । मायायाम्-मूलाविद्यायाम् । तद्विषये इति बोध्यम् । अनुग्रहः-कृपा । निग्रहः- वधबन्धादिदण्डः । मायायां विक्षेपकारिण्यां निग्रहः कीदृश इति प्रष्टव्ये कीदृशोऽनु- ग्रह इति प्रश्नो न युज्यत इति प्रसङ्गार्थः । सर्वानर्थबीजम्-सर्वेषामनर्थानां विषया- सङ्गादिरूपाणां मूलकारणम् । मायावशादेवात्मनोऽनर्थेषु प्रवृत्तिरिति माया न कृपा- स्थानं किन्तु दण्डपात्रमिति तात्पर्यम् । का स्थितिः ?-कीदृशी व्यवस्था ? मनसि बद्धे मायायां च निगृह्यमाणायां राज- कुलं, कथं व्यवस्थामारचयति, तयोरेवेतः पूर्वव्यवस्थाधिकृतत्वादिति प्रश्नः । शान्ति —तो क्या स्वामी ही साम्राज्य अलङ्कृत करेंगे । श्रद्धा —जिस प्रकार वह अपना अनुसन्धान कर रहे हैं उससे पता चलता है कि स्वामी हीं स्वराट् और सम्राट् दोनों होंगे । शान्ति —और देवकी कृपा मायापर कैसी रहती है ? श्रद्धा —निग्रह कहना चाहिये उसकी जगह अनुग्रह कैसे कहा जा सकता है ? देवकी भी यही धारणा है कि सभी अनर्थों की जड यह माया ही है । इसे सभी प्रकारसे निगृहीत करना चाहिये । शान्ति—जब यह बात है तो इस समय राजकुलकी क्या स्थिति है ?