भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

षष्ठोऽङ्कः ( ततः प्रविशति शान्तिः ) शान्तिः—आदिष्टास्मि महाराजविवेकेन । यथा वत्से, विदितमेव भवत्या किल ! अस्तं गतेषु तनयेषु विलीनमोहे वैराग्यभाजि मनसि प्रशमं प्रपन्ने । क्लेशेषु पञ्चसु गतेषु समं समीहां तत्त्वावबोधमभितः पुरुषस्तनोति ॥ १ ॥ तद्भवति त्वरिततरं देवीमुपनिषदमनुनीय मत्सकाशमानयत्विति । शान्तिः—( विलोक्य ) ममाम्बा सहर्ष किमपि मन्त्रयन्ती इत एवा- गच्छति । आदिष्टास्मि-आज्ञप्तास्मि । भवत्या-त्वया शान्त्या । अस्तमिति० तनयेषु पुत्रेषु कामादिषु अस्तंगतेषु मृतेषु विलीनमोहे नष्टमोहे वैराग्यभाजि विरागयुते मनसि चित्ते प्रशमं शान्तिं प्रपन्ने समाश्रितवति पञ्चसु अविद्यास्मितारागद्वेषाभिनिवेशनामकेषु क्लेशेषु समं समकालमेव समीहांगतेषु वासनारूपतां प्राप्तेषु पुरुषः क्षेत्रज्ञोऽयमात्मा अभितः सर्वतः तत्त्वावबोधं स्वरूपज्ञानं तनोति विस्तारयति । कामादिनाशे मोहनिवृत्तौ वैराग्योदये शान्तियुक्ते च मनसि जाते क्लेशाः वासनाशेषतयाऽवतिष्ठन्ते पुरुषस्य च सर्वतः स्वरूपज्ञानं जायते इति । स्थितप्रज्ञस्वरूपमिदं यथोक्तम्—'यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति' इति । वसन्ततिलकं वृत्तम् ॥ १ ॥ त्वरिततरम्-अतिशीघ्रम् । अनुनीय-प्रबोध्य । मत्सकाशम्-मत्पार्श्वम् । ममाम्बा-मम माता श्रद्धा । मन्त्रयन्ती-भाषमाणा । इतः-मदधिष्ठितं देशम् । ( शान्तिका प्रवेश ) शान्ति—महाराज विवेकने आदेश दिया है कि वत्से, तुम जानती ही हो कि— पुत्रोंके अस्त हो जानेपर मोहरहित तथा विरक्त मनके प्रशमापन्न हो जानेसे पञ्चक्लेशोंके मिट जानेके कारण पुरुष तत्त्वावबोधकी इच्छा कर रहा है ॥ १ ॥ इसलिये तुम अतिशीघ्र देवी उपनिषदको मनाकर मेरे पास ले आओ । शान्ति—( देखकर ) मेरी मां प्रसन्नतापूर्वक कुछ कहती हुई इधर ही आरही है ।

षष्ठोऽङ्कः २०३ ( ततः प्रविशति श्रद्धा ) श्रद्धा—अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे पीयूषेणेव लोचने पूर्णे । असतां निग्रहो यत्र सन्तः पूज्या यमादयः । आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥ शान्तिः—( उपसृत्य ) अम्ब, कि मन्त्रयन्ती प्रस्थिता । श्रद्धा—( अये, अद्येत्यादि पठति ) शान्तिः—अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्रवृत्तिः । श्रद्धा—यादृशी वध्यस्य ग्राह्यस्य भवति । राजकुलम्-विवेकपरिवारम् । आरोग्ययुक्तम्-स्वस्थम् । पीयूषेण-अमृतेन । राजकुलं स्वस्थं दृष्ट्वा तादृशी तृप्तिर्मदीयाभ्यां नयनाभ्यामासादिता यथाऽऽभ्याममृतसेकोऽनु- भूतः स्यादिति । असतामिति० यत्र यस्मिन् राजकुले असतां मोहादीनां निग्रहो दण्डः, यत्र च यमादयः सन्तः विवेकानुगतत्वेन पूज्याः सत्कारभाजः, यत्र जगत्स्वामी परमात्मा वश्यैः शमादिभिः करणैः देवानुजीविभिः परमात्मानुगामिभिः जीवैः कर्त्तृभिः आरा- ध्यते पूज्यते स्वाभिन्नत्वेन भावनमेवात्र जीवकर्त्तृकं परमात्मध्यानम् ॥ २ ॥ प्रस्थिता-चलिताऽसि, त्वमिति शेषः । मनसि-मनोविषये । प्रवृत्तिः-व्यवहारः । मनसा सह पुरुषः केन प्रकारेण वर्त्त- यतीत्यर्थः । वध्यस्य-वधार्हस्य । ग्राह्यस्य-गृहीतस्य । यथा निग्रहीतुं धृते समुचितो व्यवहारस्तथैव मनसि पुरुषस्य व्यवहारोऽस्तीति भावः । ( श्रद्धाका प्रवेश ) श्रद्धा—अये, आज राजकुलको स्वस्थ देखकर बहुत दिनोंके बाद मेरी आँखें अमृतसे पूर्ण-सी हो रही हैं । जहाँ दुष्टोंका निग्रह होता हो और यम नियम आदि सज्जनोंका सत्कार किया जाता है और जितेन्द्रिय तथा देवानुजीवी लोग जगत्पिताकी आराधना करते हैं ॥ २ ॥ शान्ति—मां, तुम क्या कहती जारही थीं । श्रद्धा—( 'अये, अद्य' इत्यादि दुहराती है ) शान्ति—अब मनके लिये स्वामीके हृदयमें क्या स्थान है ? श्रद्धा—जैसा अपराधी वध्य व्यक्तिके पकड़े जानेपर उसके लिये स्थान होता है ।

२०४ प्रबोधचन्द्रोदयम् शान्तिः—तत्किं स्वाम्येव साम्राज्यमलंकरिष्यति । श्रद्धा—एवमेतत् यथात्मानमनुसंधत्ते ततो देव एव स्वराट् सम्राट् च भवति । शान्तिः—अथ देवस्य मायायां कीदृशोऽनुग्रहः । श्रद्धा—ननु निग्रह इति वक्तव्ये कथमनुग्रहः शक्यते वक्तुम् । देवोऽपि हि सर्वानर्थबीजमियं माया सर्वथा निग्राह्येति मन्यते । शान्तिः—यद्येवं का तर्हीदानीं राजकुलस्य स्थितिः । साम्राज्यम्-आत्मारामत्वम् । मनोनिगृह्यात्माऽऽत्मारामतालक्षणं साम्राज्य- मधिकरिष्यति कच्चिदिति प्रश्नः । यथा-यतः । आत्मानमनुसन्धत्ते प्रपञ्चभिन्नत्वमास्थाय परमात्माभेदेन भावयति । स्वाराट्-स्वस्मिन्त्रासमन्ताद्राजत इति स्वाराट् । स्वाराट्पदस्य स्वात्माराम इत्यर्थः । सम्राट्-सम्यक्चिदानन्दाभेदेन राजत इति सम्राट् । ज्ञानस्वरूप इत्यर्थः । उक्तञ्च— 'स एष एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराट् भवति' इति । मायायाम्-मूलाविद्यायाम् । तद्विषये इति बोध्यम् । अनुग्रहः-कृपा । निग्रहः- वधबन्धादिदण्डः । मायायां विक्षेपकारिण्यां निग्रहः कीदृश इति प्रष्टव्ये कीदृशोऽनु- ग्रह इति प्रश्नो न युज्यत इति प्रसङ्गार्थः । सर्वानर्थबीजम्-सर्वेषामनर्थानां विषया- सङ्गादिरूपाणां मूलकारणम् । मायावशादेवात्मनोऽनर्थेषु प्रवृत्तिरिति माया न कृपा- स्थानं किन्तु दण्डपात्रमिति तात्पर्यम् । का स्थितिः ?-कीदृशी व्यवस्था ? मनसि बद्धे मायायां च निगृह्यमाणायां राज- कुलं, कथं व्यवस्थामारचयति, तयोरेवेतः पूर्वव्यवस्थाधिकृतत्वादिति प्रश्नः । शान्ति —तो क्या स्वामी ही साम्राज्य अलङ्कृत करेंगे । श्रद्धा —जिस प्रकार वह अपना अनुसन्धान कर रहे हैं उससे पता चलता है कि स्वामी हीं स्वराट् और सम्राट् दोनों होंगे । शान्ति —और देवकी कृपा मायापर कैसी रहती है ? श्रद्धा —निग्रह कहना चाहिये उसकी जगह अनुग्रह कैसे कहा जा सकता है ? देवकी भी यही धारणा है कि सभी अनर्थों की जड यह माया ही है । इसे सभी प्रकारसे निगृहीत करना चाहिये । शान्ति—जब यह बात है तो इस समय राजकुलकी क्या स्थिति है ?

षष्ठोऽङ्कः २०५ श्रद्धा—शृणु, नित्यानित्यविचारणाप्रणयिनी वैराग्यमेकं सुहृ- त्सन्मित्राणि यमादयः शमदमप्रायाः सहाया मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा वला- दुच्छेद्या रिपवश्च मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥ शान्तिः—अथ धर्मे स्वामिनः कीदृशः प्रणयः । श्रद्धा—पुत्रि, वैराग्यसंनिकर्षात्प्रभृति नितान्तमिहामुत्रफलभोगविरस एव स्वामी । तेन, नित्यानित्येति० किं नित्यं किमनित्यमिति प्रसङ्गे ब्रह्म नित्यं ततोऽन्यदनित्यमिति विचारणा भावना एव प्रणयिनी स्निग्धा प्राणप्रिया, एकं वैराग्यम् केवलं विषय- विरागः, सुहृत् मित्रम्, यमादयः यमनियमप्राणायामप्रभृतयः, मित्राणि सखायः, शमदमप्रायाः शममुख्याः, सहायाः सहकारिणः, मैत्र्याद्याः मैत्रीकरुणामुदितोपेक्षाश्च- तस्रः परिचारिकाः दास्यः, मुमुक्षा मुक्तिकामना नित्यं सततं सहचरी पार्श्ववर्त्तिनी, मोहममतासङ्कल्पसङ्गादयश्च रिपवः बलात् प्रसह्य उच्छेद्याः विनाशनीयाः । कस्यापि राज्ञः परिवारे स्त्रियो मन्त्रिणः सुहृदादयश्च तिष्ठन्ति तथाऽस्यात्मनः परिवारे—नित्या- नित्यवस्तुविचारणा प्राणप्रिया, वैराग्यमेकं सदानुगामितया सुहृत्, यमादयो मित्राणि, शमदमादयः सहायकाः, मैत्र्यादयः परिचारिकाः, मुमुक्षा च नित्यपार्श्व- वर्त्तिनी, शत्रुभूताश्च ममतादय उच्छेद्या इत्याशयः । यमादयो योगोक्ताः—यमनिय- मासनप्राणायामप्रत्याहारध्यानधारणासमाधयः । शमः—मनोनिग्रहः, दमः—इन्द्रिय- सामान्यनिग्रहः, मोहः—अतस्मिंस्तद्बुद्धिः, ममता—स्वीयत्वाभिमानः, सङ्कल्पो-मन- सोऽभिनिवेशः, सङ्गो विषयसाम्मुख्यम् । स्पष्टमन्यत् । शार्दूलविक्रीडितमेव वृत्तम् ॥३॥ धर्मे—धर्मविषये । स्वामिनः—पुरुषस्य । धर्मं केन प्रकारेण पश्यति पुरुष इति प्रश्नः । वैराग्यसन्निकर्षात्—वैराग्यस्य समीपस्थत्वात् । प्रभृति—आरभ्य । इहामुत्र श्रद्धा—सुनो— नित्यानित्यवस्तु विचारणा ही प्रिया है, वैराग्य ही एकमात्र मित्र है, यम, नियम आदि साथी तथा शम, दम प्रभृति सहाय हैं । मैत्री आदि वृत्तियाँ परिचारिकाएं हैं, मुमुक्षा सदा साथ रहती है, मोह, ममता, सङ्कल्प, सङ्ग आदि शत्रु हैं जिनका उच्छेद करना है ॥३॥ शान्ति—और धर्मके विषयमें स्वामीका कैसा स्नेह है ? श्रद्धा—पुत्रि, जबसे विराग आगया है तबसे स्वामी इहामुत्र फलभोग विरक्त ही रहा करते हैं ।

२०६ प्रबोधचन्द्रोदयम्

स नरकादिव पापफलाद्भयं भजति पुण्यफलादपि नाशिनः । इति समुज्झितकामसमन्वयं सुकृतकर्म कथंचन मन्यते ॥ ४ ॥ किन्त्वसौ प्रत्यक्प्रवणतां स्वामिनो विचिन्त्य कृतकर्तव्यमिवात्मानं मत्वा स्वयमेव धर्मः शून्यव्यापारोऽभूत् । शान्तिः-अथ तानुपसर्गान् गृहीत्वा, महामोहो निलीय स्थितस्तेषां को वृत्तान्तः । फलभोगविरसः-इहभोगः-सांसारिकविषयसुखावाप्तिः, अमुत्रभोगः-स्वर्गादिसुखानु- भवः । तयोर्विरसः-विरक्तः । मुमुक्षोः साधनचतुष्टयेष्वन्यतमोऽयमिहामुत्रफलभोग- विराग उक्तो वेदितव्यः । स नरकादिवेति० सः विरागयुक्तः पुरुषः पापफलात् पापप्रभवात् नरकात् निर- यात इव नाशिनः विनश्वरान् पुण्यफलात् स्वर्गादेश्पि भयं भजति बिभेति, 'यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इत्यादिश्रुत्या स्वर्गा- देश्रपि क्षयित्वमवधार्य पापादिव पुण्याद् विरज्यतीति भावः । इति- ( एवं सर्वेषामपि कर्मणां त्याज्यत्वेऽकर्मतापसङ्गे तद्वारणाय ) समुज्झितकामसमन्वयं कामसम्बन्धं विहाय निष्कामभावेन सुकृतकर्म पुण्यजनक कर्म कथञ्चन जीवने नान्तरीकतया केनापि प्रकारेण मन्यते कर्त्तव्यत्वेन जानाति । विरागयुक्तस्य पापनाशवत् पुण्य- नाशोऽप्यभिमतो भवति, पापपुण्याभ्यामुभाभ्यामपि जननीये देहसम्बन्धे द्वेषादत- स्तयोर्द्वयोरपि परिहेयत्वेऽकामभावेन सुकृतानुष्ठानं पापक्षयाय भवतिकर्त्तव्यं योगिनः, यथोक्तं 'नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत्' इति ॥ ४ ॥ असौ-धर्मः । प्रत्यक्प्रवणताम्-आत्मैकनिष्ठताम् । विचिन्त्य-तच्चेष्टाभिस्तर्क- यित्वा, कृतकर्त्तव्यम्-कृतकृत्यम् । काम्यकर्मफलत्यागेन नित्यनैमित्तिकानुष्ठानजनि- तोऽपूर्वाख्यो धर्मः विरक्तस्यान्तःकरणशुद्धिं सम्पाद्य ततः परं कृत्याभावात्स्वतो विर- मतीति तात्पर्यम् । तान्-कामादीन् । उपसर्गान्-सहावस्थाधिनः । गृहीत्वा-सहादाय । निलीय- उनको पापफल नरकसे उतना ही भय होता है जितना नश्वर पुण्यफल स्वर्गसे । अतः सकल काम्यफल निरभिलाष होकर वह किसी तरह केवल नित्यकर्म किया करते हैं ॥ ४ ॥ किन्तु जब धर्मने स्वामीको आत्मनिष्ठ देखा तो उसने अपनेको कृतकर्त्तव्य समझ लिया और व्यापार करना बन्द कर दिया । शान्ति-जिन उपसर्गों को साथ लेकर महामोह छिप गया था उमकी क्या स्थिति हैं ?

षष्ठोऽङ्कः २०७ श्रद्धा—पुत्रि, तथा दुरवस्थागतेनापि महामोहतकैन स्वामिनः प्ररोचनाय मधुमत्या विद्यया सहोपसर्गाः प्रेषिताः। अयमभिप्रायः। यद्ये- तेष्वासक्तः स्वामी विवेक उपनिषच्चिन्तामपि न करिष्यतीति। शान्तिः—ततस्ततः। श्रद्धा—ततस्तैर्गत्वा कापि स्वामिन्यैन्द्रजालिकी विद्योपदर्शिता तथाहि, शब्दानेष शृणोति योजनशतादाविर्भवन्ति स्वतः स्तास्ता वेदपुराणभारतकथास्तर्कादयो वाङ्मयाः। प्रच्छन्नो भूत्वा। तेषाम्-मोहोपसर्गभूतानाम् कामादीनाम्। तथा दुखस्थांगतेन-तादृशीं दुर्गतिमापन्नेन। स्वामिनः-विवेकस्य। प्ररोचनाय- विषयोन्मुखीकरणद्वारा वञ्चनाय। मधुमत्या विद्यया-मधुमतीनामिकया विद्यया। उपसर्गाः-स्वानुचराः कामादयः। अयमभिप्रायः-मोहस्य मधुमतीविद्योपेतस्वोप- सर्गाणां विरज्यत्पुरुषपार्श्वे प्रेषणेऽयं तस्य गूढोऽभिसन्धिः। एतेषु-मधुमतीविद्यादिषु। आसक्तः-अनुरक्तः। उपनिषच्चिन्ताम्-मोक्षसाधनब्रह्मात्मैक्यज्ञानप्रदवेदभागानुध्या- नम्। एकत्रासक्तस्य परविस्मरणं स्वाभाविकमिति तात्पर्येणायं ग्रन्थः। बृहदारण्यके सप्तमो मधुकाण्डः, मधुनामेन्द्रियाधिष्ठानदेवता, तदुपासनाऽभिधायित्वात्तदुपनि- षदपि मधुमतीत्युच्यते। 'मनो ब्रह्मेत्युपासीत' इति मनस उपासनया जीवात्मनो मनस्त्वसिद्धेर्मनोराज्यमुपासनाफलम्, चक्षुरुपासनया दूरदर्शित्वम्, श्रोत्रोपासनया दूरश्रवणम्, वागुपासनया नूतनवाग्वैखरीविजृम्भणम्, पाण्युपासनया पाणिना- सूर्यमण्डलस्पर्शः, पादोपासनया पादाभ्यां समुद्रसन्तरणमित्यादयो लौकिक्यः सिद्धयो मधुमत्याः फलं बोध्यम्। अनया च पुरुषो मोहयित्वा मोक्षमार्गादपाक्रियत इत्यस्या- मोहपञ्चगत्वं दर्शितम्। तैः-मोहप्रेषितमधुमतीसहचरकामादिभिः। ऐन्द्रजालिकी- अविद्यमानार्थप्रकाशनरूपा। सर्वैः संभूय स्वामिनीभावं लम्भिता इन्द्रजालविद्या पुरुषस्याग्रे समुपस्थापितेत्यर्थः, तद्विद्यागुणान् वक्ष्यति— शब्दानिति० एष मधुमत्या विद्ययोपपन्नः पुरुषः योजनशतात् अतिव्यवहित- देशात् शब्दान् शृणोति, स्वतः विनैव परिश्रमं तास्ताः प्रसिद्धाः वेदाः ऋग्य- श्रद्धा—पुत्रि, उस तरहकी दुरवस्थाम पडकर भी दुष्ट महामोहने स्वामीको फुसलानेके लिये मधुमती विद्याके साथ उपसर्गोंको भेजा। इसका यह आशय था कि यदि इनपर स्वामी आसक्त हो जायेंगे तो उपनिषदकी चिन्ता भी नहीं करेंगे। शान्ति—इसके बाद ? श्रद्धा—इसके बाद वह सभी आकर स्वामीके सामने इन्द्रजाल विद्या दिखायीं। यह सौ योजन दूरका शब्द सुन लेता है, इसको स्वतः वेद, पुराण तथा भारतकी कथायें

२०८ प्रबोधचन्द्रोदयम् ग्रथ्नाति स्वयमिच्छया शुचिपदैः शास्त्राणि काव्यानि वा लोकान्भ्राम्यति पश्यति स्फुटरुचो रत्नस्थलीर्मैरवीः ॥ ५ ॥ मधुमतीं च भूमिमापन्नः स्थानाभिमानिनीभिर्देवताभिरुपच्छन्द्यते भो इहोपविश्यताम् । नात्र जन्ममृत्यू । अनुपाधिरमणीयो देशः । एष त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रणय- पेशलो विद्याधरीजनः । तदेहि, यतोऽत्र— कनकसिकतिलस्थलाः स्रवन्तीः पृथुजघनाः कमलानना वरोरूः । जुसामाथर्वलक्षणाः, पुराणानि तानि तानि प्रसिद्धान्येव, भारतकथा महाभारती- मितिवृत्तम्, ताः, तथा तर्कादयः वाङ्मयाः शास्त्राणि आविर्भवन्ति प्रकाशन्ते । शुचिभिः व्याकरणसंस्कृतैः पदैः सुप्तिङन्तलक्षणैः शास्त्राणि काव्यानि वा यदृच्छया यथेच्छम् ग्रथ्नाति प्रबन्धनाति, लोकान् भूर्भुवःस्वरादीन् भ्राम्यति गच्छति, मेरोरिमाः मैरवीः स्फुटरुचः देदीप्यमानाः रत्नस्थलीः रत्नखचितान् भूभागान् पश्यति । तदेवं भूयस्यै सिद्धै हृद्यायै प्रभवन्त्या अस्या मधुमत्याः प्रेषणं कामादीनां महास्त्रं वेदित- व्यम् । सिद्धिवर्त्मनि कियददूरं गता लौकिकीभिः सिद्धिभिः प्रतिबद्धयन्ते जना इति प्रदर्शयितुमयं ग्रन्थो बोध्यः ॥ ५ ॥ मधुमतीञ्च भूमिम्-मधुमत्या सिद्धा कल्पितां सिद्धिस्थलीम् । आपन्नः-प्राप्तः । स्थानाभिमानिनीभिः-तत्तत्स्थानाधिष्ठात्रीभिर्देवताभिः । उपच्छन्द्यते-सेव्यते तेनैव प्रकारेण वन्द्यते च । वञ्चनाप्रकारमेव वदति—इहेत्यादि० । अनुपाधिरमणीयः- स्वाभाविकसौन्दर्ययुक्तः । विविधा नानाप्रकारका ये विलासाः नेत्रकरचरणादिसञ्चार- संभवा विभ्रमाः, लावण्यं गात्रसौन्दर्यं च ताभ्यां पुण्यमयः स्फीतः, मङ्गलार्थैः दध्या- दर्शाद्युपकरणैर्व्यग्रपाणिः भृतकरः । प्रणयपेशलः-अनुरागनिपुणः । विद्याधर्यो योनि- भेदस्त्रियः । कनकसिकतिलेति० कनकसिकतिलानि स्वर्णमयबलुकायुकानि स्थलानि पुलिन- और तर्क विद्यायें प्रकट होती है, यह पवित्र पदों द्वारा शास्त्र या कविताका निर्माण करता है, यह समस्त लोकमें भ्रमण करता तथा मेरुकी रत्नस्थलियाँ देखता है ॥ ५ ॥ मधुमती भूमिकाको प्राप्त व्यक्ति स्थानाभिमानिनी देवताओंसे आदर पाता है, यहाँ बैठ जाइये, यहाँ जन्म मृत्युकी बात नही है । यह देश निरुपाधि सुन्दर है । यह विद्या- धरीजन विविध विलास तथा लावण्य लिये मङ्गलार्थ प्रेमसे आपके आगे उपस्थित है । अतः आइये, इस जगहपर— स्वर्णवालुकामय नदियोंमे बृहन्नितम्बा वरोरू ललनाओंके साथ, मरकतदलकोमला

षष्ठोऽङ्कः । २०६ मरकतदलकोमला वनालीर्भज निजपुण्यचितांश्च सर्वभोगान् ॥ ६ ॥ शान्तिः—ततस्ततः। श्रद्धा—पुत्रि, तदावधर्य मायया श्लाघ्यमेतदित्युक्तम् । मनसा चानु- मोदितम् । सङ्कल्पेन प्रोत्साहितम् । स्वामी संप्रति सम्मतिपथमिवापन्नः । शान्तिः—( सखेदम् ) हा धिक् हा धिक् पुनरपि तामेव संसारवागु- रामभिपतितः स्वामी । श्रद्धा—न खलु न खलु । शान्तिः—ततस्ततः । श्रद्धा—ततः परिपार्श्ववर्तिना तर्केण तान्सर्वान्क्रोधावेशकषायितनय- भूमयो यासां ताः कनकसिकतलस्थलाः स्रवन्तीः नदीः, पृथुजघनाः स्थूलनितम्बाः कमलाननाः पद्ममुखीः वरोरूः सुन्दरीः स्त्रियः, मरकतदलकोमलाः माणिक्यकोमलाः, वनालीः काननमाला, ( एवंविधान् ) निजपुण्यचितान् स्वसुकृताहतान् सर्वभोगान् सर्वाण्यपि भोग्यवस्तूनि भज सेवस्व । स्वर्णमयपुलिनभूमिषु स्रवन्तीष्ववगाहस्व, पृथुनितम्बतया कमलाभमुखतया च हृद्याभिः सुन्दरीभिः सह विहर, मरकतकोम- लासु काननभूमिषु सञ्चरैव स्वपुण्यपाकलब्धानि भोग्यवस्तूनि प्राप्यानन्दं भज, किमिति रुक्षे ज्ञानवर्त्मनि पदं विधाय स्वं कदर्थयितुमुद्यच्छसीत्यर्थः ॥ ६ ॥ श्लाध्यम्-प्रशंसनीयम् । अनुमोदितम् = तदुक्तेस्समर्थं कृतम् । सम्मतिपथम्- अनुज्ञामार्गम् । मायाप्रस्तावस्य मनसासमर्थितस्य सङ्कल्पेन चाभ्यनुज्ञातस्य पुरु- षोऽङ्गीकारमिव कर्तुं प्रवृत्त इत्याशयः । संसारवागुराम्-भवजालम् । अभिपतितः-अनुप्रविष्टः । पार्श्ववर्तिना = समीपस्थेन । तर्केण-युक्त्या, न्यायाद्यागमपुरस्सरेण बुद्धिवादेन । वनमालामें स्वपुण्यलब्ध सर्वविध भोग प्राप्त कीजिये ॥ ६ ॥ शान्ति—इसके बाद ? श्रद्धा—पुत्रि, यह सुनकर मायाने इस प्रस्ताव की प्रशंसा की । सङ्कल्पने प्रोत्साहन दिया, स्वामीने भी सम्मति-सी दे दी । शान्ति—( खेदपूर्वक ) हाय धिक्कार है, धिक्कार है, फिर स्वामी उसी संसार जालमें फंसे । श्रद्धा—नहीं नहीं । शान्ति—तो फिर ? श्रद्धा—इसके बाद पार्श्वस्थ तर्कने उन सबको क्रोधसे लाल आँखोंसे देखकर स्वामीसे १४ प्र० च०

२०८ प्रबोधचन्द्रोदयम् ग्रथ्नाति स्वयमिच्छया शुचिपदैः शास्त्राणि काव्यानि वा लोकान्भ्राम्यति पश्यति स्फुटरुचो रत्नस्थलीर्मैरवीः ॥ ५ मधुमतीं च भूमिमापन्नः स्थानाभिमानिनीभिर्देवताभिरुपच्छन्द्य भो इहोपविश्यताम् । नात्र जन्ममृत्यू । अनुपाधिरमणीयो देशः । प त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रण पेशलो विद्याधरीजनः । तदेहि, यतोऽत्र— कनकसिकतिलस्थलाः स्रवन्तीः पृथुजघनाः कमलानना वरारूः । ऋक्सामार्थवलक्षणाः, पुराणानि तानि तानि प्रसिद्धान्येव, भारतकथा भारती मितिवृत्तम् , ताः, तथा तर्कादयः वाङ्मयाः शास्त्राणि आविर्भवन्ति प्रकाशन शुचिभिः व्याकरणसंस्कृतैः पदैः सुसिद्धान्तलक्षणैः शास्त्राणि काव्यानि वा यदृच्छ यथेच्छम् ग्रथ्नाति प्रबध्नाति, लोकान् भूर्भुवःस्वरादीन् भ्राम्यति गच्छति, मेरोरि मैरवीः स्फुटरुचः देदीप्यमानाः रत्नस्थलीः रत्नखचितान् भूभागान् पश्यति । त भूयस्यै सिद्धे हृद्यायै प्रभवन्त्या अस्या मधुमत्याः प्रेषणं कामादीनां महाखं वेदि व्यम् । सिद्धिवर्त्मनि कियद्दूरं गता लौकिकीभिः सिद्धिभिः प्रतिबध्यन्ते जनाः प्रदर्शयितुमयं ग्रन्थो बोध्यः ॥ ५ ॥ मधुमतीञ्च भूमिम्-मधुमत्या सिद्ध्या कल्पितां सिद्धस्थलीम् । आपन्नः-प्राप्तः स्थानाभिमानिनीभिः-तत्तत्स्थानाधिष्ठात्रीभिर्देवताभिः । उपच्छन्द्यते-सेव्यते तेन प्रकारेण वञ्च्यते च । वञ्चनाप्रकारमेव वदति—इहेत्यादि० । अनुपाधिरमणी- स्वाभाविकसौन्दर्ययुतः । विविधा नानाप्रकारका ये विलासाः नेत्रकरचरणादिसम्ब- संभवा विभ्रमाः, लावण्यं गात्रसौन्दर्यं च ताभ्यां पुण्यमयः स्फीतः, मङ्गलार्थैः दू- दर्शाद्युपकरणैर्व्यग्रपाणिः भृतकरः । प्रणयपेशलः-अनुरागनिपुणः । विद्याधर्यो यो- भेदस्त्रियः । कनकसिकतिलेति० कनकसिकतिलानि स्वर्णमयवालुकायुतानि स्थलानि पुि और तर्क विद्यायें प्रकट होती हैं, यह पवित्र पदों द्वारा शास्त्र या कविताका निर्माण क है, यह समस्त लोकमें भ्रमण करता तथा मेरुकी रत्नस्थलियाँ देखता है ॥ ५ ॥ मधुमती भूमिकाको प्राप्त व्यक्ति स्थानाभिमानिनी देवताओंसे आदर पाता है, बैठ जाइये, यहाँ जन्म मृत्युकी बात नहीं है । यह देश निरुपाधि सुन्दर है । यह वि घरीजन विविध विलास तथा लावण्य लिये मङ्गलार्थ प्रेमसे आपके आगे उपस्थित है । अतः आइये, इस जगहपर— स्वर्णवालुकामय नदियोंमें बृहन्नितम्बा वरारू ललनाओंके साथ, मरकतदलको

षष्ठोऽङ्कः २०६ मरकतदलकोमला वनालीर्भज निजपुण्योचितांश्च सर्वभोगान् ॥ ६ ॥ शान्तिः—ततस्ततः । श्रद्धा—पुत्रि, तदावदर्य मायया श्लाघ्यमेतदित्युक्तम् । मनसा चानु- मोदितम् । सङ्कल्पेन प्रोत्साहितम् । स्वामी संप्रति सम्मतिपर्थामवापन्नः । शान्तिः—( सखेदम् ) हा धिक् हा धिक् पुनरपि तामेव संसारवागु- रामभिपतितः स्वामी । श्रद्धा—न खलु न खलु । शान्तिः—ततस्ततः । श्रद्धा—ततः परिपार्श्ववर्तिना तर्केण तान्सर्वान्क्रोधावेशकषायितनय- भूमयो यासां ताः कनकसितलस्थलाः स्रवन्तीः नदीः, पृथुजघनाः स्थूलनितम्बाः कमलाननाः पद्ममुखीः वरोरूः सुन्दरीः स्त्रियः, मरकतदलकोमलाः माणिक्यकोमलाः, वनालीः काननमाला, ( एवंविधान् ) निजपुण्योचितान् स्वसुकृताहतान् सर्वभोगान् सर्वोण्यपि भोग्यवस्तूनि भज सेवश्य । स्वर्णमयपुलिनभूमिषु स्रवन्तीष्ववगाहस्व, पृथुनितम्बतया कमलाभमुखतया च हृद्याभिः सुन्दरीभिः सह विहर, मरकतकोम- लासु काननभूमिषु सञ्चरैवं स्वपुण्यपाकलब्धानि भोग्यवस्तूनि प्राप्यानन्दं भज, किमिति रूक्षे ज्ञानवर्त्मनि पदं निधाय स्वं कदर्थयितुमुद्यच्छसीत्यर्थः ॥ ६ ॥ श्लाघ्यम्-प्रशंसनीयम् । अनुमोदितम् = तदुक्तेस्समर्थं कृतम् । सम्मतिपथम्- अनुज्ञामार्गम् । मायाप्रस्तावस्य मनसासमर्थितस्य सङ्कल्पेन चाभ्यनुज्ञातस्य पुरु- षोऽङ्गीकारमिव कर्तुं प्रवृत्त इत्याशयः । संसारवागुराम्-भवजालम् । अभिपतितः-अनुप्रविष्टः । पार्श्ववर्त्तिना = समीपस्थेन । तर्केण-युक्त्या, न्यायाद्यागमपुरस्सरेण बुद्धिवादेन । वनमालामे स्वपुण्यलब्ध सर्वविध भोग प्राप्त कीजिये ॥ ६ ॥ शान्ति—इसके बाद ? श्रद्धा—पुत्रि, यह सुनकर मायाने इस प्रस्ताव की प्रशंसा की । सङ्कल्पने प्रोत्साहन दिया, स्वामीने भी सम्मति-सी दे दी । शान्ति—( खेदपूर्वक ) हाय धिक्कार है, धिक्कार है, फिर स्वामी उसी संसार जालमें फंसे । श्रद्धा—नहीं नहीं । शान्ति—तो फिर ? श्रद्धा—इसके बाद पार्श्वस्थ तर्कने उन सबको क्रोधसे लाल आँखोंसे देखकर स्वामीसे १४ प्र० च०

२१० प्रबोधचन्द्रोदयम् नया प्रोक्तथाभिहितः । स्वामिन् , किमेवमेभिर्विषयामिषग्रासगृध्रुभिरास्था- निकैः पुनरपि तेष्वेव तथैव विषमविषयाङ्गारेषु निपात्यमानमात्मानं नाव- बुध्यसे । ननु भोः, भवसागरतारणाय यासौ नचिराद्योगरिस्त्वयाश्रिता । अधुना परिमुच्य तां मदात्कथमङ्गारनदीं विगाहसे ॥ ७ ॥ शान्तिः—ततस्ततः । श्रद्धा—ततस्तद्वचनमाकर्ण्य स्वस्ति विषयेभ्य इत्यभिधायावधीरिता मधुमती । शान्तिः—साधु साधु । अथ क्व प्रस्थितास्ति भवती । क्रोधावेशकषायितनयनम्-क्रोधोदयवशाद्रक्तदृशा । अभिहितः-उक्तः पुरुष इति शेषः । विषयामिषग्रासगृध्नुभिः-सांसारिकसुखोपभोगरूपमांसग्राहलुब्धैः । आस्था- निकैः-सभाधूर्तेः । तथैव-पूर्ववत् । विषमविषयाङ्गारेषु-भयानकविषयसन्तापेषु । निपात्यमानम्-आकृष्य नीयमानम् । नावबुध्यसे-नावैषि । भवसागरेति० भवसागरस्य संसाररूपसमुद्रस्य तारणाय उद्धाराय याऽसौ योगतरिः ज्ञानरूपा नौका त्वया पुरुषेण नचिरात् अधुनैव आश्रिता अवलम्बिता, अधुना सम्प्रति तां परिमुच्य विहाय अङ्गारनदीं विषयज्वालापूर्णतया संसाररूपां वह्निधाराम् कथं केन प्रकारेण विगाहसे अवतरसि । संसारसागरात्परं पारं गन्तुं भवता सम्प्रत्येव ज्ञाननौकारूढ़ा, तां विहाय भोगप्रदसौख्यवर्त्मानुधावनं भवतो ज्ञानपरिपन्थतयाऽङ्गारनदीप्रवेशतुल्यं जायते तदिदं कथमपि मा कृथाः, आपात- सुरसस्वादेषां भोगानामिति भावः ॥ ७ ॥ स्वस्ति विषयेभ्यः-विसृज्यन्ते भोगाः । अवधीरिता-तिरस्कृता । प्रस्थिता- चलिता । कहा—स्वामिन् , क्यों फिर इन विषयामिषलोभी गृध्रोंसे पुनः अपनेको उन्हीं विषम विषय ज्वालायुक्त संसारमें पात्यमान नहीं देख रहे हो ? अजी, भवसागर पार करनेके लिये अभी अभी तुम जिस योग नौकापर आरूढ हुए हो अब उसे छोड़ किस प्रकार अङ्गार नदीमें डूबने जारहे हो ? ॥ ७ ॥ शान्ति—इसके बाद ? श्रद्धा—उसकी बातें सुनकर विषयोंको नमस्कार करके मधुमती विद्याको तिरस्कृ कर दिया । शान्ति—साधु साधु ! अब तुम कहाँ चली हो ।

षष्ठोऽङ्कः २११ श्रद्धा—आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामि । शान्तिः—तत्त्वरतां भगवतीति । श्रद्धा—तदहं राजसन्निधिं प्रस्थिता । शान्तिः—अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद्भवतु स्वनियोगं संपाद्यावः । ( इति निष्क्रान्ते ) प्रवेशकः । ( ततः प्रविशति पुरुषः ) पुरुषः—( विचिन्त्य । सहर्षम् ) अहो माहात्म्यं देव्या विष्णुभक्तेः । यत्प्रसादान्मया, तीर्णाः क्लेशमहॉर्मयः परिहृता भीमा ममत्वभ्रमाः शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः । त्वरताम्-शीघ्रतां करोतु । राजसन्निधिम्-विवेकपार्श्वम् । स्वनियोगम्-आत्मनः कर्त्तव्यम् । त्वं विवेकस्य पार्श्वं याहि, अहं चोपनिष- दन्तिकं व्रजाम्येवमावां निजं निजं कृत्यं प्रति सयत्ने भवाव इत्याशयः । माहात्म्यम्-प्रभावातिशयः । यत्प्रसादात्-यदीयानुग्रहात् । मया-पुरुषेण । तीर्णा इति० क्लेशमहॉर्मयः अविद्यास्मितादिक्लेशतरङ्गाः तीर्णाः उत्तीर्णाः, भीमाः बन्धनसाधनतया भीषणा ममत्वभ्रमाः ममतारूपा आवर्त्ताः परिहृताः लङ्घिताः, श्रद्धा—स्वामीसे आज्ञा पाकर मैं विवेक से मिलना चाहती हूँ । शान्ति—तब तुम शीघ्रता करो। श्रद्धा—तो अब मैं राजा के पास चलती हूँ । शान्ति—मुझे भी महाराजने उपनिषद्‌को बुला लानेको आज्ञा दी है । तो हम दोनों ही अपना अपना कर्त्तव्य करें । ( दोनों जाती है ) प्रवेशक । ( पुरुषका प्रवेश ) पुरुष—( सोचकर, सहर्ष ) देवी विष्णुभक्तिका माहात्म्य धन्य है । जिसके प्रसादसे हमने— क्लेशतरङ्गोंको पार किया, भयानक ममत्वभ्रमको दूर छोड़ा, मित्र कलत्र बन्धुरूप

क्रोधौर्वाग्निरपाकृतो विघटितास्तृष्णालताविस्तराः पारेतीरमवाप्तकल्पमधुना संसारवारांनिधेः ॥ ८ ॥ ( ततः प्रविशत्युपनिषच्छान्तिश्च ) उपनिषत्—सखि, कथं तथा निरनुक्रोशस्य स्वामिनो मुखमालोक- यिष्यामि । येनाहंमितरजनयोपेव सुचिरमेकाकिनी परित्यक्ता । शान्तिः—देवि, कथं तथाविधविपत्पतितो देव उपालभ्यते । उपनिषत्—सखि, न दृष्टा त्वया मे तादृशी दशा । येनैवं ब्रवीषि । मित्रम् सखा, कलत्रम् नारी, बन्धवः सुहृदः, त एव मकराः मत्स्याः, ग्राहाः जलचरा कुलीरादयस्तैर्ग्रहः ग्रहणम् तद्रूपाः ग्रन्थयः बन्धनानि शान्ताः प्रशमिताः, क्रोधौर्वाग्नि कोपरूपो वडवानलः अपाकृतः दूरतः परिहृतः, तृष्णालताविस्तराः लोभरूपाः समुद्र वल्लर्यः विघटिताः छिन्नाः, अधुना सम्प्रति संसारवारां निधेः संसाररूपस्य सागरस्य पारेतीरम् परतटम् अवाप्तकल्पम् प्राप्तमिव । सागरे तरणीये तरङ्गा आवृत्ता मकर ग्राहा वडवानलः सामुद्रिकलताश्च प्रतिबन्धमाचरन्ति, तद्वदस्य संसारस्यापि परंप रावाप्तौ पञ्चाविद्यादयः क्लेशाः, ममतावानि, मित्रकलत्रादयः, क्रोधो लोभश्च प्रति बध्नन्ति, तानेतानपास्याहं ज्ञानपथमारूढोऽस्मि तन्मन्येऽस्य संसारसागरस्य प पारं प्राप्तवानिवानि सञ्जात इत्याशयः । साङ्गं परम्परितं रूपकमलङ्कारः । शार्दूल विक्रीडितमेव वृत्तम् ॥ ८ ॥ तथा निरनुक्रोशस्य-तेन रूपेण निर्दयस्य । स्वामिनः-विवेकस्य । इतरजनये षेव-परस्त्रीव । एकाकिनी-स्वसम्बन्धवर्जिता । तथाविधविपत्पतितः-तादृशसङ्कटग्रस्तः । देवेन भवत्यास्त्यागो न निजेच्छया कृतः किन्तु परिस्थितिपारवश्येनैव, तन्नार्हति भवती देवे दोषमारोप्य तमुपालब्धु मित्यर्थः । उपालभ्यते-आक्रुश्यते । येनैवं ब्रवीषि-मया क्रियमाणं देवोपालम्भं नोचितं मन्यसे, यदि त्वं मदी- मकरोंके फेर से पिण्ड छुड़ाया, क्रोधरूप वडवानलको अपाकृत किया, तृष्णालता विभ्रमः विघटित किया, इस तरह अब संसारसागरका तट आसन्न हो रहा है ॥ ८ ॥ ( उपनिषद् और शान्तिका प्रवेश ) उपनिषत्—सखि, उस निर्दय स्वामीका मुख किस प्रकार देखूंगी, जिसने मुझे औ की स्त्रीकी तरह एकाकिनी छोड़ दिया । शान्ति—देवि, जब वह स्वयं उस तरहकी आपत्तिमें थे, फिर उनसे क्या शिकायत उपनिषत्—सखि, तुमने हमारी वह दशा नहीं देखी, इसीसे इस प्रकार कह

शृणु— बाह्वोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्भूषितः केशपाशः । केः कैर्नाहं हतविधिबलादीहिता दुर्विदग्धै- र्दासीकर्तुं सपदि दुरितैर्दूरसंस्थे विवेके ॥ ६ ॥ शान्तिः—सर्वमेतन्महामोहस्य दुर्विलसितम् । नात्र देवस्यापराधः । तेन मोहेन मनः कामादिद्वारेण प्रबोधयता त्वत्तो दूरीकृतो विवेकः । दशामद्रक्ष्यस्तदा मयोक्तं समर्थयितुं त्वमपि प्रवृत्ताऽभविष्य इत्याशयः । बाह्वोरिति० दलितमणयः शकलीकृतेन्द्रनीलादिमणिभागाः बाह्वोः मम करयोः कङ्कणानां श्रेणयः बाहुपरिधेयभूषणभराः भग्नाः नाशिताः, चूडारत्नग्रहनिकृतिभिः मस्तकालङ्कारापहरणरूपतिरस्कारैः केशपाशः कचभरः दूषितः अशोभनीकृतः, सपदि तत्क्षणं हतविधिबलात् दुरदृष्टदोषात् विवेके तन्नामनि मम स्वामिनि दूरसंस्थे दूरवर्त्तिनि कैः कैः दुर्विदग्धैः नीचैर्धूर्त्तैः अहम् दासीकर्तुम् स्वदास्यं लम्भयितुम् न ईहिता इष्टा । अभाग्यदोषाद्विवेकरूपे स्वामिनि दूरंगते समानाथायाः कङ्कणवर्त्तिनो मणयश्चूर्णिताः, चूडारत्नापहारद्वारा कबरी शून्यतां गमिता, नैतावदेव, किन्तु सर्वैरपि दुर्विदग्धा मां दासीकर्तुमप्यचेष्टन्तेत्यर्थः । विवेकाभावे 'द्रष्टव्य' इति विधि- वाक्यदर्शनदुर्विदग्धा मीमांसका ब्रह्मज्ञानस्य विधिशेषतामतिष्ठन्ते, तच्चोपक्रमोप- संहारपूर्वकश्रुतितात्पर्यावधारणाभावमूलकमिति तैरुपनिषदुपप्लवः क्रियमाणोऽत्र वर्णितः । उपक्रमोपसंहारात्मकं तात्पर्यलिङ्गममुत्सृज्यान्यथा विचार उपनिषत्कङ्कण- भङ्गः, चूडारत्नमात्मस्वरूपं तस्य ग्रहोऽन्यथावर्णनं सैव निकृतिश्च । तदेवं प्रकारे- णोपनिषत्तात्पर्यान्यथाकार एव तद्दासीकरणप्रयासोऽन्यशास्त्रेण क्रियमाणोऽत्र निवे- दितो बोध्यः ॥ ९ ॥ दुर्विलसितम्-दुश्चेष्टितम् । देवस्य-विवेकस्य । नैसर्गिकम्-स्वभावसिद्धम् । हो । सुनो— हमारे बाहुकङ्कणकी मणियाँ टूट-फूट गई, चूडामणिके अपहरणसे केशपाश दूषित कर दिया गया, भाग्यदोषवश विवेकके दूरवर्त्ती हो जानेपर किस दुष्टने मुझे दासी बनाना नही चाहा ? ॥ ९ ॥ शान्ति—यह सब महामोहकी दुष्टता है । इसमे देवका कुछ भी अपराध नहीं है । उस मोहने कामादि द्वारा मनको बहकाकर विवेकको तुमसे अलग कर दिया । कुल

२१४ प्रबोधचन्द्रोदयम् एतदेव कुलस्त्रीणां नैसर्गिकं शीलं यद्विपन्मग्नस्य स्वामिनः समयप्रती- क्षणमिति । तदेहि दर्शनप्रियालापेन संभावय देवम् । संप्रत्यपहता विद्विषः । संपूर्णास्ते मनोरथाः । उपनिषत्—सखि, संप्रत्यागच्छन्ती वत्सया गीतयाऽहं रहस्युक्ता यथा भर्ता स्वामी च पुरुषस्त्वया यथाप्रश्नमुत्तरेण संभावयितव्यः । तथा प्रबोधोत्पत्तिर्भविष्यतीति तत्कथं गुरूणामध्यक्षं धार्ष्ट्यमवलम्बिष्ये । शान्तिः—देवि, अविचारणीयमेतद्वाक्यं भगवत्या गीतायाः, अयमेव चार्थो भगवत्या विष्णुभक्त्या विवेकस्वामिनो निरुक्तः । तदेहि । संभा- वय दर्शनेन भर्तारमादिपुरुषं च । शीलम्-चारित्रम् । विपन्मग्नस्य-आपत्तिपतितस्य । समयप्रतीक्षणम्-सुखसमयसमा- गमप्रतीक्षा । दर्शनप्रियालापेन-साक्षात्पूर्वकसरसकथाप्रस्तावेन । सम्भावय-आद्रि- यस्व । अपहताः नष्टाः । विद्विषः-कामादयोऽरयः । वत्सया, पुत्रिकया गीताया उप- निषत्पुत्रकाभावस्तस्याः सर्वोपनिषदुत्थतयोक्तः । उक्तोऽयमर्थः प्रकारान्तरेणान्यत्र यथा-‘सर्वोपनिषदो गावो ऽ दुग्धं गीतामृतं महत्' इति । रहसि-एकान्ते । भर्त्ता-वि- वेकः। स्वामी पुरुषः-आत्मा । यथाप्रश्नमुत्तरेण सम्भावयितव्यः-प्रश्नमनतिक्रम्योत्तरं दातव्यं, न तु प्रश्नविरुद्धमित्यर्थः । तथा-यथाप्रश्नोत्तरप्रदानेन । प्रबोधोत्पत्तिः-ज्ञान- जन्म । गुरूणामध्यक्षम्-श्वशुरस्थानीयपुरुषपुरतः । धार्ष्ट्यम्-निर्लज्जभावम् । अय- मस्याशयः—काचन स्नुषा सलज्जा गुरुजनपार्श्वे न किमपि प्रकटं मन्त्रयति किन्त्व- न्यं जनं द्वारीकृत्य मनोगतमभिदधाति, तद्वदुपनिषदपि शब्दत्वेनापरोक्षमेव ज्ञानं जनयितुं प्रभवति, जननीयं चात्र प्रत्यक्षात्मकं ज्ञानमिति प्रत्यक्षम्भिधाने तारतम्यं साहित्यिकभाषयोपनिबद्धम् । अविचारणीयम्-अनालोचनीयम् , तदुक्तमविचार्य चरितार्थनीयमित्यर्थः । निरुक्तः-निरवशेषमभिहितः । ललनाओंका यही तो स्वाभाविक चरित्र होता है कि वह विपत्तिमे फंसे स्वामीके सुखसमयकी प्रतीक्षा करती हैं । अतः चलो, दर्शन तथा प्रियसंभाषणसे देवको प्रसन्न करो । शत्रु निश्शेष हो गये, तुम्हारे मनोरथ पूर्ण हुए । उपनिषत्—आनेके समय वत्सा गीताने मुझे बताया कि स्वामी, पुरुषको तुम प्रश्नानुसार उत्तर देना, वैसा करनेसे प्रबोधकी उत्पत्ति होगी, तब बड़े बूढोंके सामने धृष्टता कैसे करूंगी ? शान्ति—गीताकी इस बातपर विचार नही करना चाहिये, यही बात भगवती विष्ण् भक्तिने भी विवेक स्वामीसे कही है । अतः आओ, स्वामी और आदिपुरुषके सामने आओ

षष्ठोऽङ्कः २१५ उपनिषत्—यथा वदति प्रियसखी । ( इति परिक्रामति ) ( ततः प्रविशति राजा श्रद्धा च ) राजा—अयि वत्से, द्रक्ष्यति शान्तिः प्रियामुपनिषदम् ? । श्रद्धा—देव, गृहीतोद्देशैव शान्तिर्गता कथं तां न द्रक्ष्यति । राजा—कथमिव । श्रद्धा—देव, प्रागेव कथितमेतद्देव्या विष्णुभक्त्याऽऽसीत्, यथा मन्दाराभिधाने शैले विष्णोरायतने देव्यां गीतायां तर्कविद्याभयादनु- प्रविष्टेति । राजा—कथं पुनस्तर्कविद्याया भयम् । श्रद्धा—देव, इममर्थं सैव प्रस्तोष्यति । तदागच्छतु देवः । एष स्वामी त्वदागमनमेव ध्यायन्विविक्ते वर्तते । द्रक्ष्यति=साक्षात् करिष्यति ? शान्तिरूपनिषदं किं द्रष्टुं शक्ष्यतीति प्रश्नाशयः । गृहीतोद्देशा-ज्ञाततद्वासस्थाना । कथमिव-कथं तया तद्वासस्थानं ज्ञातमिति प्रश्नार्थः । मन्दराभिधाने-मन्दारनामके, विहारप्रान्ते प्रसिद्धो मन्दारः, यत्र मधुसूदन- मन्दिरम् । विष्णोरायतने-विष्णुमन्दिरे । तर्कविद्याभयात्-तर्कशास्त्रतो भीतेः, तर्कादुपनि- षदो भयं विरुद्धमतस्थापनप्रवृत्तत्वात्तर्कस्य, तर्को हि कारणसाजात्यं कार्यस्यास्थाय ब्रह्मण उपादानभावं खण्डयति, इदमेवोपनिषदस्तर्काद्भयम् । इममर्थम्-कथं तस्यास्तर्काद्भयमिति । सा-उपनिषत् । प्रस्तोष्यति-वक्ष्यति, उपनिषत्—प्रियसखीका जो आदेश हो । ( चलती है ) ( राजा और श्रद्धाका प्रवेश ) राजा—अयि वत्से, क्या शान्ति अपनी प्यारी उपनिषद्‌को पायेगी ? श्रद्धा—देव, जब शान्ति ठीक पता पाकर गई है तब उसे क्यों नहीं पायेगी ? राजा—कैसे ? श्रद्धा—देव, देवी विष्णुभक्तिने यह बात पहले ही कह दी थी, कि मन्दार पर्वतपर विष्णुमन्दिरमें तर्कविद्याके भयसे उपनिषद् गीतामें प्रवेश कर गई है । राजा—तर्कविद्यासे भय कैसा ? श्रद्धा—देव, इस बातका प्रस्ताव वही करेगी । अतः देव आवें । स्वामी एकान्तमें आपके आनेका ही ध्यान कर रहे हैं ।

२१६ प्रबोधचन्द्रोदयम् राजा—( उपसृत्य ) स्वामिन्, अभिवादये । पुरुषः—वत्स, प्रक्रमविरुद्धोऽयं समुदाचारः । यतो ज्ञानवृद्धतया भवानेवास्माकमुपदेशदानेन पितृभावमापन्नः । कुतः— पुरा हि धर्माध्वनि नष्टसंज्ञा देवास्तमर्थं तनयानपृच्छन् । ज्ञानेन सम्यक्परिगृह्य चैतान् हे पुत्रका संशृणुतेत्यवोचन् ॥ १० ॥ तद्भवान्पितृत्वेनास्मासु वर्ततामित्येष एव धर्मः । परसमवेतभयविषये परकर्तृकाभिधानापेक्षया । भयाश्रयजनवचनमेक प्रमाणवत्तर- मिति तयैवेह वक्तव्यमित्याशयः । विविक्ते-रहसि । प्रक्रमविरुद्धः-न्यायविपरीत:, भवता मदीयमभिवादनं क्रियते, नेदं न्यायसिद्ध- मित्यर्थः । ज्ञानवृद्धतया-समधिकज्ञानवत्तया । भवान्-विवेकः । उपदेशदानेन- स्वरूपज्ञानसम्पादकोपदेशप्रदानेन । पितृभावमापन्नः-पितृत्वं गतः । पुरेति० पुरा पूर्वकाले, धर्माध्वनि धर्ममार्गे नष्टसज्ञाः लुप्तचेतनाः देवाः तम् अर्थम् धर्मरूपम् तनयान् स्वान्पुत्रान् अपृच्छन् जिज्ञासितवन्तः । ते च पुत्राः एतान् प्रश्नकर्तॄन् । देवान् ज्ञानेन हेतुना परिगृह्य साधु पृष्टमिति स्वीकृत्य हे पुत्रकाः संशृणुत अवधानेनाकर्णयत इत्यवोचन् उक्तवन्तः । 'पुरा प्रजापतिः देवान् दृष्ट्वा केनचित्कारणेनाज्ञानिनो भूयांसुरिति शशाप, तदनन्तरं ताननुगृह्णन् अन्योन्यं पितृत्वं पुत्रत्वं च ददौ' इति कथात्रानुसन्धेया । उक्तञ्चैतत्प्रतिमं वृत्तान्तरं मनुना— 'अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशु- रुक्तवान् ॥ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्' इति ॥ इति ॥ तत्-उपदेशप्रदत्वात् । भवान्-विवेकः । पितृत्वेन-पितृचितेनाचारेण । वर्त्तताम्- राजा—( समीप आकर ) स्वामिन्, प्रणाम करता हूँ । पुरुष—वत्स, यह आचार प्रक्रम विरुद्ध है क्योंकि ज्ञानवृद्धतया उपदेश प्रदान करनेसे आप ही हमारे पिता तुल्य हैं—क्योंकि— पुराने जमानेमें धर्ममार्गमें भटकने हुए देवोंने पुत्रोंसे उसके विषयमें प्रश्न किये, उन पुत्रोंने उन्हें ज्ञानसे ग्रहण करके पुत्र शब्दसे व्यवहार कर उपदेश सुननेको कहा ॥१०॥ अतः आप पितृरूपसे हमपर बरतें, यही धर्म है ।

षष्ठोऽङ्कः २१७ शान्तिः—एष देवि, देवेन सह स्वामी विविक्ते वर्तते। तदुपसर्पतु देवी। उपनिषत्—(उपसर्पति) शान्तिः—स्वामिन्, एषोपनिषद्देवी पादवन्दनायागता। पुरुषः—न खलु न खलु। यतो मातेयमस्माकं तत्त्वावबोधोदयेन। तदेषैवास्माकं नमस्या। अथवा अनुग्रहविधौ देव्या मातुश्च महदन्तरम्। माता गाढं निबध्नाति बन्धं देवी निकृन्तति॥ ११॥ उपनिषत्—(विवेकमालोक्य नमस्कृत्य दूरे समुपविशति) पुरुषः—अम्ब, कथ्यताम्। क्व भवत्या नीता एते दिवसाः। व्यवहरतु। विविक्ते-रहसि। पादवन्दनाय=चरणयोः प्रणतये। तत्त्वावबोधोदयेन-तत्त्वावबोधोदयकारणेन। एषा-उपनिषत्। नमस्या-प्रणम्या। अनुग्रहविधाविति० अनुग्रहविधौ अनुग्रहे कर्त्तव्ये देव्याः उपनिषदः मातुश्च महत् अन्तरम् महान् भेदः। माता जननी गाढम् अत्यर्थं निबध्नाति संसारे क्षिपति, देवी उपनिषत् बन्धं संसारपाशम् निकृन्तति छिनत्ति। मातोपनिषच्चेति द्वयमपि सत्कारार्हम्, तत्रापि कृपातारतम्यालोचने तु मात्रपेक्षयोपनिषदधिकादरयोग्या, मातुः संसारे क्षेपकत्वादस्याश्च तत उद्धारे सयत्नादतो देव्युपनिषदेवाधिकादरभाजन- मिति तात्पर्यम्॥ ११॥ नीताः-गमिताः। शान्ति—देवि, यही स्वामी देवके साथ एकान्तमें कुछ बातें कर रहे हैं, देवी समीप जायं। उपनिषद्—(समीप जाती है) शान्ति—स्वामिन्, यह देवी उपनिषद् चरणोंमें प्रणाम करने आई है। पुरुष—नहीं नहीं, प्रबोधको जन्म देनेके कारण यह हमारी माता है, अतः यही मेरे लिये प्रणम्य है, अथवा— अनुग्रहके संबन्धमे माता तथा देवीमें महान् अन्तर है, माता जोरसे (स्नेह बन्धनमें) बांधती है और देवी बन्धन काटती है॥ ११॥ उपनिषद्—(विवेकको देखकर नमस्कार करके अलग बैठती है) पुरुष—मां, कहो, तुमने इतने दिन कहाँ बिताये।

२१८ प्रबोधचन्द्रोदयम् उपनिषत्—स्वामिन्, नीतान्यमूनि मठचत्वरशून्यदेवा- गारेषु मूर्खमुखरैः सह वासराणि । पुरुषः—अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् । उपनिषत्—न खलु । किन्तु ते स्वेच्छया मम गिरां द्रविडाङ्गनोक्त- वाचामिवार्थमविचार्य विकल्पयन्ति ॥ १२ ॥ तेन केवलं तेषां परार्थग्रहणप्रयोजनमेव मद्विचारणम् । पुरुषः—ततस्ततः । नीतानीति० अमूनि प्रवासकालिकानि वासराणि दिनानि मठचत्वरशून्यदेवा- गारेषु मन्दिरजनसामान्यवासस्थलरिक्तदेवायतनेषु मूर्खमुखरैः निरक्षरवाचालैः सह नीतानि गमितानि । तत्त्वम्-रहस्यम् । ते स्वेच्छयेति० ते मूर्खमुखराः स्वेच्छया यदृच्छया मम गिराम् मदुक्तीनाम् । द्रविडाङ्गनोक्तवाचाम् इव द्रविडदेशवासिललनाजनवचनानाम् इव अर्थम् अविचार्य विना विचारं विकल्पयन्ति, इदमत्र तात्पर्यमिदं वेति सन्दिहते । यथा कश्चिदुत्तरा- खण्डवासी दाक्षिणात्यललनावचांसि श्रुत्वा तदर्थानभिज्ञतया इयमिदमभिप्रैति, इदं वाऽभिप्रैति' इति विकल्पयति तद्वदिमेऽपि मूर्खमुखराः पामरा ममोक्तिषु नाना- विकल्पनारचयन्तीत्याशयः । द्रविडस्त्रियः पुरुषापेक्षयाऽस्पष्टवाचो भवन्तीति ता एव दृष्टान्तिताः ॥ १२ ॥ तेषाम्-मूर्खमुखराणाम् । परार्थग्रहणप्रयोजनम्-परकीयधनापहरणार्थम् । मद्वि- चारणम्-मदर्थभावनम् । ते हि बहिर्मुखाः केवलं पाण्डित्यख्यापनेन परकीयधनाहर- उपनिषत्—स्वामिन्, ये दिन हमने मठ, चत्वर तथा शून्य देवालयोंमें मुखर मूर्खों के साथ बिताये । पुरुष—क्या वह आपके तत्त्वकी कुछ जानकारी रखते हैं । उपनिषत्—नहीं, किन्तु—वे स्वेच्छासे मेरी उक्तियोंका अर्थ करते हैं जैसे लोग द्रविडाङ्गनाओंकी उक्तिका अर्थ नहीं समझकर कुछ कल्पना कर लेते हैं ॥ १२ ॥ वे केवल परकीय अर्थ जाननेके लिये ही मेरे सम्बन्धमे विचार करते हैं । पुरुष—तब ?

षष्ठोऽङ्कः २१६ उपनिषत्—ततः कदाचित् कृष्णाजिनाग्निसमिदाज्यजुहूस्स्रुवादि- पात्रैस्तथेष्टिपशुसोममुखैर्मखैश्च । दृष्टा मया परिवृताखिलकर्मकाण्ड- व्यादिष्टपद्धतिरथाध्वनि यज्ञविद्या ॥ १३ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततो मया चिन्तितम् । अपि नामैषा पुस्तकभारवाहिनी मे ज्ञास्यति तत्त्वम् । अत एवास्याः सन्निधौ कानिचिद्वासराणि नयामि । पुरुषः—ततस्ततः । णमेवोपनिषदर्थविभावनफलमभिप्रयन्ति न वस्तुतत्त्वावधारणमिति भावः । कृष्णाजिनेति० अथ अनन्तरम् मया उपनिषदा अध्वनि मार्गे-कृष्णाजिनम् कृष्ण- मृगचर्म, अग्नयः गार्हपत्याद्यग्नित्रयी, समिधः होमकाष्ठानि, आज्यं होतव्यं घृतम् ,- जुहूः पात्रभेदः, स्रुवः, आदिपदात् ध्रुवादिपात्रपरामर्शः, तैः-पात्रैः यज्ञोपकरणैः, इष्टिः दर्शपूर्णमासेष्टिः, पशुः निरुढपशुः, सोममुखा अग्निष्टोमप्रभृतयो मखाः यागास्तैः- परिवृता वेष्टिता कर्मकाण्डव्यादिष्टपद्धतिः कर्मकाण्डप्रतिपादितेति कर्त्तव्यताक्रमा यज्ञविद्या अध्वरमीमांसा दृष्टा अवेक्षिता । मध्येमार्गमागच्छन्त्यहं कर्मकाण्डनिरूपिते- तिकर्त्तव्यताक्रमां तत्तद्यज्ञसाधनोपबृंहितां मीमांसां साक्षाददृक्षीति तात्पर्यम् । स्पष्ट- मितरत् । वसन्ततिलकं वृत्तम् ॥ १३ ॥ ततः—यज्ञविद्याऽवलोकनानन्तरम् । पुस्तकभारवाहिनी—नानाविधपुस्तकधरा । तत्त्वम्-सारम् । अत एव-अस्या मदीयतत्त्वाभिज्ञत्वादेव । सन्निधौ-पार्श्वे । कानि- चित्-कतिपयानि । वासराणि-दिनानि । उपनिषद्—अनन्तर कभी— कृष्णमृगचर्म, समित्, अग्नि, घी, जुहू, स्रुव आदि पात्र तथा इष्टि पशुसोम आदि यागके साथ कर्मकाण्डोक्त पद्धत्यनुसारिणी मीमांसा मुझे रास्तेमें मिली ॥ १३ ॥ पुरुष—तब ? उपनिषद्—अनन्तर मैने सोचा कि क्या यह पुस्तकभारवाहिनी मेरा तत्त्व समझती है ? इसलिये कुछ दिन इसीके पास व्यतीत किये जांय । पुरुष—तब ?