प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
२२० प्रबोधचन्द्रोदयम् उपनिषत्—ततस्तामहमुपस्थिता। तया चाहमुक्तास्मि। भद्रे, किं ते समीहितमिति। ततो मयोक्तम्। आर्ये, अनाथास्मि त्वयि निवस्तु- मिच्छामीति। पुरुष—ततस्ततः। उपनिषत्—ततो मयोक्तम्। यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः। शान्तं शाश्वतमक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥१४॥ ताम्-यज्ञविद्याम्। तया-यज्ञविद्यया। त्वयि-तव पार्श्वे। निवस्तुम्-वासं कर्तुम्। यस्मादिति० यस्माद् विश्वं जगदुदेति उत्पद्यते, यत्र रमते प्रतिष्ठां लभते, पुनः यस्मिन् लीयते विलयं गच्छति, यस्य भासा दीप्त्या जगत् विश्वम् विभाति, यन्महः यदीयं तेजः सहजानन्दोज्ज्वलम् स्वाभाविकसुखप्रकाशाभिन्नम्, कृतिनः कृतमतयः द्वैतध्वान्तम् द्वितेव द्वैतं ध्वान्तं तमः भेदरूपमन्धकारम् अपास्य उच्छिद्य यम् शान्तम् उदासीनम् शाश्वतम् नित्यम् भूतेश्वरम् जगन्नियन्तारम् अपुनर्भावाय मुक्तये यान्ति आश्रयन्ति तम् पूरुषम् परमात्मानं प्रस्तौमि निरूपयामि। उपनिषदहं तं परमात्मानं निरूपयामि यस्माज्जगदुत्पद्यते यत्र तिष्ठति यस्मिंश्चान्ते लीयते, एत- च्च जगज्जन्मस्थितिलयकारणत्वरूपं ब्रह्मगस्तटस्थं लक्षणमाह। यस्य दीप्त्या जगदिदं भातीत्युक्त्या 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती'ति श्रुत्यर्थः क्रोडीकृतः। 'सहजानन्दोज्ज्वलं महः' इत्यस्य स्वाभाविकानन्दप्रकाशरूपम् इत्यर्थः, स्वाभाविकत्वाऽनुद्भूतता, सा नित्यत्वपर्यवसायिनो, तेन सच्चिदानन्दं ब्रह्मेति उपनिषद्—अनन्तर मैं उसके पास गई, उसने मुझसे पूछा कि तुम क्या चाहती हो ? मैंने कहा—आर्य, निराश्रय हूँ, तुम्हारे पास रहना चाहती हूँ। पुरुष—तब ? उपनिषत्—तब मैंने कहा— जिससे संसार उत्पन्न होता है और फिर जिसमें लीन हो जाता है, जिसके प्रकाशसे संसार प्रकाशित होता है और जिसका प्रकाश स्वाभाविक तथा उज्ज्वल आनन्दरूप है, शान्त, अविकारी, नित्य, भूतेश्वर जिसकी शरणमें विद्वान् लोग द्वैतविनाश करके जाते हैं, मैं उस पुरुषका प्रस्ताव करती हूँ ॥ १४॥
षष्ठोऽङ्कः १२१ ततस्तयोक्तम् । पुमानकर्ता कथमीश्वरो भवेत् क्रिया भवोच्छेदकरी न वस्तुधीः । कुर्वन्क्रिया एव नरो भवच्छिदः शतं समाः शान्तमना जिजीविषेत् ॥ १५ ॥ तन्मे नातिप्रयोजनं भवत्याः परिग्रहेण तथापि यदि कर्तारं भोक्तारं पुरुषं स्तुवन्ती भवती कियन्तं कालमत्र वस्तुमिच्छति । को दोषः । ब्रह्मणः स्वरूपलक्षणं प्रकटितम् । द्वैतध्वान्तमपास्येत्यनेन ब्रह्मप्राप्त्युपायं प्रतीङ्गितं कृतम्, अपुनर्भावायेत्यनेन ब्रह्मज्ञानफल मोक्ष इत्यभिहितम्, मोक्षस्यानित्यतां वारयितुं च शाश्वतमुदासीनमिति चोक्तमिति सर्वोऽपि वेदान्तप्रतिपाद्योऽर्थोऽत्र संक्षिप्य समावेशितो बोध्यः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ पुमानिति० अकर्त्ता कर्त्तृत्वासंसृष्टः पुमान् पुरुषः कथम् ईश्वरः भवेत् ? तव मते ईश्वरत्वं कर्तृत्वनियमितमिति कर्तृत्वाभावे सतीश्वरत्वाभावोऽपि सिद्ध एवेत्यर्थः। नन्वे- वमीश्वराराधनं मुक्तये क्रियमाणमसङ्गतं स्यान्मुक्तिश्च नोपद्येतेत्यत्राह—क्रिया ज्यो- तिष्टोमादिरूपा भावना एव भवच्छेदकरी संसारनिवर्त्तिका, वस्तुधीः परमार्थसद्ब्रह्म- ज्ञानं न भवच्छेदकरी । 'अपामसोमममृता अभूम' इत्यादिना यागस्यैवामृतत्वप्रति- पादकतोक्तेः । (अतः) नरः जीवः भवच्छिदः संसारनिवर्त्तिकाः क्रियाः ज्योतिष्टो- मादिकाः कुर्वन् अनुतिष्ठन् एव शान्तमनाः समाहितचित्तः सन् शतं समाः शतं वर्षाणि जिजीविषेत् जीवितुमिच्छेत् । उक्तञ्च—'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति ॥ १५ ॥ नातिप्रयोजनम्-नाधिकोऽर्थः । परिग्रहेण-स्वीकारेण, आश्रयदानेनेत्यर्थः । कर्त्ता- रम्-यज्ञादिकर्त्तारम् । भोक्तारम्-यज्ञफलभूतस्वर्गादिभोक्तारम् । स्तुवन्ती-प्रशं- इसपर उसने कहा— अकर्त्ता पुरुष ईश्वर कैसे होगा और वस्तुज्ञानसे ससारकी निवृत्ति किस प्रकार होगी ? अतः संसार निवर्त्तक कर्म करते हुए ही शान्त मनसे सौ वर्षों तक जीते रहनेकी कामना करनी चाहिये ॥ १५ ॥ अतः मुझे आपके परिग्रहकी आवश्यकता नही है, फिर भी यदि आप कर्त्ता और भोक्ता पुरुषकी स्तुति करती हुई किञ्चित्काल पर्यन्त यहाँ वास करना चाहे तो कोई दोष नही है ।
२२२ प्रबोधचन्द्रोदयम् राजा—( सोपहासम् ) अहो धूमान्धकारश्यामलितदृशो दुष्प्रज्ञत्वं यज्ञ- विद्यायाः येनैवं कुतर्कोपहता । अयः स्वभावादचलं बलाच्चल- त्यचेतनं चुम्बकसंनिधाविव । तनोति विश्वेशितुरीक्षितेरिता जगन्ति मायेश्वरतेयमीशितुः ॥ १६ ॥ तस्मात्तमोन्धाना मियमनीश्वरदृष्टिः । अबोधप्रभवं संसारं कर्मभिः शमयन्ती यज्ञविद्या नूनमन्धतमसमन्धकारेणापि निनीषति । सन्ती । धूमान्धकारश्यामलितदृशः-यज्ञधूमकलुषाक्ष्याः । दुष्प्रज्ञत्वम्-कुबुद्धित्वम् । कुतर्कोपहता-दुस्तर्कगृहीता, सा यज्ञविद्येति शेषः। कुतर्कश्च-यदि कर्त्तृत्वं न स्यात्तदा ईश्वरत्वमपि न स्यादेवंरूपः, तस्य कुतर्कतामुपपादयिष्यति-अय इत्यादिनाग्रे । अय इति० स्वभावात् निसर्गतः अचेतनम् चेतनाशून्यम् अत एव अचलम् जडम् अयः लोहम् चुम्बकसंनिधौ चुम्बकसंनिकर्षे यथा बलात् चलति स्पन्दते एवम् तथैव माया विश्वेशितुः परमात्मनः ईक्षितेरिता दर्शनेन प्रेरिता जगन्ति विश्वानि । तनोति, इयम् ईशितुः परमात्मन ईश्वरता । भगवदीक्षणप्रेरिताया मायाया एव सृष्टिक- र्तृत्वं न तु सिसृक्षाद्युपाधिविशिष्टस्येश्वरस्य कर्त्तृत्वमित्याशयस्तेन च परिणममान- मायाधिष्ठातृत्वमेवेश्वरत्वमिति बोध्यते ॥ १६ ॥ तमोन्धानाम्-यज्ञधूमतमसाऽऽवृतदृशाम् । अज्ञानिनामित्युपहासोऽयम् । अ- नीश्वरदृष्टिः-ईश्वरराहित्यज्ञानम् । अबोधप्रभवम्-अज्ञानाज्जातम् । कर्मभिः-यागा- दिभिः । शमयन्ती-नाशयन्ती । यागादेव मुक्तिरिति वदन्तीत्यत्र तात्पर्यम् । अन्ध- तमसम्-अन्धकारम् । अन्धकारेण निनीषति-तमसा नाशयितुमिच्छति । क्रिया- भवच्छेदकरीति यद्यागविद्ययोक्तं तदयुक्तम् , तमस्तमो नाशयितुं यथाऽक्षमं तथैव राजा—( उपहासपूर्वक ) यज्ञधूमसे मीमांसाकी आंखे अन्धी हो गई है, इसीसे वह इस तरह कुतर्कोपहत है । लोहा स्वभावतः अचल होता है, वह अचेतन होकर भी चुम्बक सन्निधानमें चल हो जाता है उसीतरह ब्रह्मके ईक्षणसे प्रेरिता माया विश्वसृष्टि करती है, यही ईश्वरकी ईश्वरता है ॥ १६ ॥ तस्मात् अज्ञानियोंकी यह ईश्वरभावना है, अज्ञानसे उत्पन्न इस संसारको मीमांसा कर्मद्वारा निवृत्त करना चाहती है मानो अन्धकारको अन्धकारसे ही दूर भगाना चाहती
षष्ठोऽङ्कः २२३ स्वभावलीनानि तमोमयानि प्रकाशयेद्यो भुवनानि सप्त । तमेव विद्वानतिमृत्युमेति नान्योऽस्ति पन्था भवमुक्तिहेतुः ॥ १७ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततो यज्ञविद्यया विमृश्योक्तम् । सखि, त्वत्संनिकर्षात् दुर्वासनोपहतैरस्मदन्तेवासिभिः कर्मसु श्लथादरैर्भवितव्यम् । तत्प्रसीदतु भवती स्वाभिलषितदेशगमनाय । पुरुषः—ततस्ततः । क्रियाया अपि अज्ञानप्रभवजगन्नाशकत्वानुपपत्तेः । तस्मादुपनिषदुक्तं ज्ञाननाश्य- त्वमेव जगतो नान्यनाश्यत्वं ज्ञानस्यैवाज्ञाननिवर्त्तकत्वौचित्यादिति भावः । स्वभावलीनानीति० स्वभावेन लीनानि नश्वराणि जडस्वभावानि वा तमोमयानि अज्ञानस्वरूपाणि सप्तभुवनानि भूर्भुवरादिलोकान् यः प्रकाशयेत् स्वरूपप्रकाशेन चैतन्यभाजनानि कुर्यात् 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुत्यर्थानुवादोऽयम् । तमेव स्वप्रकाशं परात्मानं विद्वान् जानन् अतिमृत्युम् मृत्योः परं परं ब्रह्म एति, भुवि संसारे अन्यः पन्थाः मुक्तिहेतुर्नास्ति ब्रह्मात्मताज्ञाना- दन्यो मोक्षस्य मार्गो नास्तीत्यर्थः । तथा च श्रूयते-तमेव विद्वानतिमृत्युमेति नान्यः 'पन्था विद्यतेऽयनाय' इति ॥ १७ ॥ विमृश्य-विचार्य । त्वत्सन्निकर्षात्-तवोपनिषदोऽत्र स्थितौ तव संसर्गात् । दुर्वा- सनोपहतैः-कुमतिग्रस्तैः । अन्तेवासिभिः-शिष्यैः । श्लथादरैः-मन्दप्रवृत्तिभिः । प्रसी- दतु-दयताम् । स्वाभिलषितदेशगमनाय-स्वेष्टं स्थानान्तरमुपसर्त्तुम् । है, तमोमय स्वभावपिहित सप्तभुवनको जो प्रकाशित करे उसी ब्रह्मको जानकर विद्वान् मृत्युसे छुटकारा पाते हैं, संसारसे मुक्तिका दूसरा कोई उपाय नही है ॥ १७ ॥ पुरुष—तब ? उपनिषत्—इसके बाद यज्ञविद्यासे विचारकर कहा—सखि ! तुम्हारे सम्पर्कसे कर्मोंमें कुमतिग्रस्त मेरे शिष्योंकी मन्द प्रवृत्ति हो जायगी, इसलिये आप अपने अभिलषित देश जानेकी अनुकम्पा करें । पुरुष—इसके बाद ।
२२४ प्रबोधचन्द्रोदयम् उपनिषत्—ततोऽहं तामतिक्रम्य प्रस्थिता । पुरुषः—ततस्ततः । उपनिषत्—ततः कर्मकाण्डसहचरी मीमांसा मया दृष्टा;— विभिद्य कर्माण्यधिकारभाञ्जि श्रुत्यादिभिश्चानुगता प्रमाणैः । अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततोऽहं तामपि तथैवाश्रयमभ्यर्थितवती । अथ तयाप्यु- क्तास्मि भद्रे, किं कर्मासीति । ततो मया तदेवोक्तम् । ताम्-यज्ञविद्याम् । अतिक्रम्य-परित्यज्य । प्रस्थिता-अग्रे चलिता । कर्मकाण्डसहचरी-कर्मकाण्डानुगता । विभिद्येति० कर्माणि ज्योतिष्टोमादीनि विभिद्य भेदेन ज्ञापयित्वा अधिकारभाञ्जि अधिकारः कर्मफलभागित्वरूपः तं भजन्ते तानि तथाविधानि च (प्रतिपाद्य) श्रुत्यादिभिः-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिः संज्ञाभिः प्रथितैः प्रमाणैः अन- धिगतार्थबोधकैरनुगता उपेता विचित्रैः नानाभेदभिन्नैः सन्निपत्योपकारकारादुप- कारकादिप्रभेदैः अङ्गैः प्राप्तोपदेशैः साक्षादुपदिश्यमानैः अतिदैशिकैः अन्यत्र श्रुतस्य अन्यत्र प्रापणमतिदेशस्तेनापि प्रकारेण प्राप्तैः अभियोजयन्ती उपकुर्वाणा मीमांसा मया दृष्टेति पूर्वेणैकान्वयः। मीमांसाशास्त्रस्य नित्यनैमित्तिककाम्यकर्मबोधकत्वाऽधि- कारबोधनपरता च प्रतीतेव । श्रुत्यादिषड्विधप्रमाणावबोधकत्वमपि प्रसिद्धम् । साक्षादभिधानमुपदेशः, अन्यत्र श्रुतस्यान्यत्र प्राप्तमतिदेशस्तस्योत्तरषट्के विचारः। एतदधिकमन्यत्रात्रैव परिशिष्टे द्रष्टव्यम् ॥ १८ ॥ तथैव-यथा यज्ञविद्यां तथा । आश्रयमभ्यर्थितवती-स्वनिवासाय प्रार्थनां कृत उपनिषत्—तब मैं उसे छोड़कर आगे बढी । पुरुष—तब ? उपनिषत्—इसके बाद कर्मकाण्डसहचरी मीमांसा मिली । जो अधिकारानुकूल कर्म विभाग करके श्रुत्यादि प्रमाणोंसे अनुगत हो उपदेश तथ अतिदेशके द्वारा विचित्र अङ्गोंसे युक्त थी ॥ १८ ॥ पुरुष—तब ? उपनिषत्—इसके बाद मैने उससे भी उसीतरह प्रार्थना की । उसने भी कहा- भद्रे, तुम्हारा क्या कर्त्तव्य है ? मैने कहा—'यस्माद्विश्वम्' इत्यादि ।
षष्ठोऽङ्कः २२५ यस्माद्विश्वमित्यादि पठितम् । पुरुषः—ततस्ततः । उपनिषत्—ततो मीमांसया पार्श्ववर्तिनां मुखमालोक्याभिहितम् । अस्त्येवास्माकमस्याः लोकान्तरफलोपभोगयोग्यपुरुषोपनयनेनोपयोगः । तत्क्रियतामेषा कर्मोपयुक्ता । तत्र तेषामन्तेवासिनां मध्ये केनाप्यन्तेवासि- नैतदनुमोदितमेव । अपरेण तु प्रसिद्धप्रतिष्ठेन मीमांसाहृदयाधिदैवतेन कुमारिलस्वामिनैवं प्रोक्तम् देवि, नेयं कर्मोपयुक्तं पुरुषमुपनयति, किंतु अकर्त्तारमभोक्तारमीश्वरम् । न चासावीश्वरः कर्मसूपयुज्यते । ततोऽपरे- णोक्तम् । अथ किं लौकिकात्पुरुषादन्य ईश्वरो नामास्ति । ततस्तेन विहस्य पुनरुक्तम् । अस्ति । तथाहि— चती । किं कर्मासि-किन्तव कर्म, त्वया किमाचरणीयमिति जिज्ञासा । तदेव-प्रागु- क्ताभिन्नाम् पार्श्ववर्त्तिनाम् समीपस्थानामनुचराणां शिष्याणां वा । अभिहित- मुक्तम् । अस्याः-लोकान्तरफलं-स्वर्गसुखादिरूपम् , तदुपभोगे योग्यस्य चेतनस्य स्थिरस्य च पुरुषस्य, उपनयनेन प्रतिपादनेन, उपयोगः कार्यम् । एषोपनिषत्स्थायि- चेतनपुरुषं सुपपादयन्ती । स्वर्गफलभोगयोग्यं पुमांसमुपनयतीत्युपयोगिनीत्यस्माकं भवतीत्यर्थः । तत्-तस्मात् । एषा-उपनिषत् । कर्मोपयुक्ता-कर्मणि नियुक्ता । पुरुष- स्तावकतयोपनिषद्द्विशेषतां नीयतामित्यर्थः । तथा च जैमिनीयं सूत्रम्-आम्ना- यस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति । केनाप्यन्तेवासिना-प्रभाकरेणेत्यर्थः । ज्ञानकर्मसमुच्चयवादितया प्रभाकरस्योपनिषदनुमोदकत्वं बोध्यम् । अपरेण-अन्येने । प्रसिद्धप्रतिष्ठेन-ख्यातयशसा । मीमांसाहृदयाधिदैवतेन-मीमांसातत्त्ववेदिना । देवि- मीमांसे । इयम्-उपनिषत् । अकर्त्तारमभोक्तारम्-'साक्षी चेता केवलो निर्गुणश्च- त्यादिश्रुतिपर्यालोचनया यः पुमानवसीयते नासौ कर्त्ता न वा भोक्तेति तादृशम् । पुरुष—तब ? उपनिषत्—इसके बाद मीमांसाने पार्श्ववर्त्तियोंका मुख देखकर कहा—लोकान्तरमें फलभोग करनेवाले पुरुषका प्रतिपादन करनेवाली यह हमारे उपयोगकी वस्तु है, अतः इसे कर्ममें लगा दो। वहाँ कुछ मीमांसाके विद्यार्थियोंने इसका अनुमोदन भी किया। दूसरे प्रसिद्ध प्रतिष्ठित मीमांसाके दुलारे शिष्य कुमारिलने इस प्रकार कहा—देवि, यह कर्मोपयोगी पुरुषका प्रतिपादन कहाँ करती है ? यह तो अकर्त्ता अभोक्ता पुरुषका प्रतिपादन करती है। वैसे पुरुषको कर्मसे क्या संबन्ध ? इसपर दूसरेने कहा—लौकिक पुरुषसे पर ईश्वर है कौन ? फिर कुमारिलने हंसकर कहा है। जैसेः— १५ प्र० च०
६. षष्ठ अङ्क: उपनिषद् समागम, प्रबोधचन्द्रोदय एवं जीवन्मुक्ति
२२६ प्रबोधचन्द्रोदयम् एकः पश्यति चेष्टितानि जगतामन्यस्तु मोहान्धधी- रेकः कर्मफलानि वाञ्छति ददात्यन्यस्तु तान्यर्थिने । एकः कर्मसु शिष्यते तनुभृतां शास्तैव देवोऽपरो निःसङ्गः पुरुषः क्रियासु स कथं कर्तेति संभाव्यते ॥ १६ ॥ राजा—(सहर्षम्) साधु कुमारिलस्वामिन्, साधुप्रज्ञोऽस्यायुष्मन्, द्वौ तौ सुपर्णौ सयुजौ सखायौ समानवृक्षं परिषस्वजाते । असौ-अकर्त्ताऽभोक्ता च । कर्मसु-यागादिषु । उपयुज्यते-अधिक्रियते । अपरेण- प्रभाकरैकदेशिना शालिकनाथेन । लौकिकात्-लोकान्तरफलोपभोक्तुः । स्वर्गार्हो जीव एवेश्वरो न तदन्य इति तदाशयः । तेन-कुमारिलस्वामिना । विहस्य-स्मितं कृत्वा, जीवातिरिक्तेश्वराभावं श्रुत्वा कुमारिलः शालिकनाथस्योक्तौ हसितवानिति तात्पर्यम् अस्तिजीवादन्य ईश्वर इति शेषः । एक इति० एक ईश्वरः जगतां चेष्टितानि कर्माणि पश्यति विश्वसाक्षितायाऽव- लोकते, तु पुनरन्यो जीवो मोहान्धधीः मोहावृतज्ञानः । एको जीवः कर्मफलानि पुत्रपश्वादीनि वाञ्छति कामयते तु पुनरन्यः तानि कर्मफलानि अर्थिने कर्मफल- विषयकाभिलाषवते ददाति अर्पयति, अत एवोक्तं महिम्नःस्तोत्रे-'क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्मप्रध्वस्तं फलति पुरुपाराधनमृते' इति । एको जीवः कर्मसु ज्योतिष्टोमादिक्रियासु शिष्यतेऽधिक्रियते, अपरो देव ईश्वरः तनुभृतां प्राणिनां शास्ता नियन्ता एव । (तदेव जीवातिविलक्षणत्वादीश्वरस्य जीवातिरिक्ता सत्ता प्रमीयत इत्याशयः) निःसङ्ग सङ्गरहितः पुरुषः परमात्मा क्रियासु कर्मसु कर्त्ता इति कथं सम्भाव्यते ज्ञायते, 'असङ्गोह्ययं पुरुषः' इति श्रुत्या पुरुषस्यासङ्गताप्रति- पत्त्या कर्त्तृतापि निरस्यत इति बोध्यम् ॥ १९ ॥ साधुप्रज्ञः-उत्कृष्टबुद्धिः । आयुष्मान्-चिरजीवी । द्वानाविति० तौ प्रसिद्धौ द्वौ जीवात्मपरमात्मानौ सुपर्णौ सुष्ठुपर्ण गतिर्ययोस्तादृशौ एक संसारकी चेष्टायें देखता रहता है, दूसरा मोहान्धबुद्धि है, एक कर्मफलकी इच्छा रखता है, दूसरा उन कर्मफलोंको याचकाधीन कर देता है, एकको कर्मोपदेश किया जाता है और दूसरा प्राणियोंको उपदेश देता है, एक असङ्ग पुरुष है उसे कर्मका कर्त्ता किस प्रकार कहा जा सकता है ॥ १९ ॥ राजा—(सहर्ष) धन्य हो कुमारिल स्वामी, धन्य है तुम्हारी बुद्धि, जीते रहो । दो एक स्थान वासी सुन्दर पक्षी हैं, वे एक ही वृक्ष (संसार) पर बैठे हैं, उनमेंसे
षष्ठोऽङ्कः २२७ एकस्तयोः पिप्पलमत्ति पक्व- मन्यस्त्वनश्नन्नभिचाकशीति ॥ २० ॥ पुरुषः—ततस्ततः। उपनिषत्—ततोऽहं मीमांसामभिमन्त्र्य प्रस्थिता। पुरुषः—ततस्ततः। उपनिषत्—ततो मया बहुभिः शिष्यैरुपास्यमानास्तर्कविद्या अव- लोकिताः। काचिद्वित्वविशेषकल्पनपरा न्यायैः परा तन्वती वादं सच्छलजातिनिग्रहमयैर्जल्पं वितण्डामपि। अव्याहतज्ञानावित्यर्थः। सयुजौ सहयोगवन्तौ सखायौ परस्पराऽनुकूलौ द्वौ जीवात्म- परमात्मानौ समानम् एकम् वृक्षम् संसाररूपम् परिषस्वजाते आश्रितवन्तौ। तयोः जीवात्मपरमात्मनोः एकः जीवः पक्वम् स्वादृष्टद्वारोपनतं पिप्पलं कर्मफलम् अत्ति भुङ्क्ते अन्यः ईश्वरः अनश्नन् अभुञ्जानः अभिचाकशीति वर्त्तते, साक्षित्वेन पश्यति। यथा क्वचन वृक्षे द्वौ पक्षिणौ सर्वांशतस्तुल्यौ वसतस्तयोश्चैकस्तद्वृक्षफलमभ्यवह- रति। परस्तु कुतोऽपि हेतोर्नात्ति तथैवात्रापि संसारतरौ जीवपरमात्मनोः स्थिति- रिति भावः। शेषं सुगमम् ॥ २० ॥ अभिमन्त्र्य-अन्यत्र गच्छामीत्यापृच्छ्य। तर्कविद्याः-योगसाङ्ख्यन्यायवैशेषिकविद्याः। अस्य सर्वस्य शास्त्रसमुदायस्य तर्काश्रितत्वात्तर्कविद्यापदग्राह्यता। साङ्ख्ययोगयोस्तर्काश्रितत्वं 'कामाच्च नानुमानम्' 'आनुमानिकमप्येकेषाम्' इत्यादिब्रह्मसूत्रेष्वप्युक्तम्। न्यायवैशेषिकयोस्तर्कविद्यात्वं तु पामरेष्वपि प्रथितम्। काचिदिति० काचित् वैशेषिकी विद्या द्वित्वविशेषस्य अपेक्षाबुद्धिजन्यद्वित्वस्य एक (जीव) पिप्पल (कर्मफल) स्वाद ले लेकर खाता है और दूसरा (ईश्वर) बिना खाये देखता रहता है ॥ २० ॥ पुरुष—तब ? उपनिषत्—अनन्तर मै मीमांसाको नमस्कार कर वहाँसे चली। पुरुष—तब ? उपनिषत्—इसके बाद मै बहुशिष्यपरिवृत तर्कविद्याओं के पास गई। उनमे कुछ द्वित्व तथा विशेषकी कल्पनामें लगी थी, कुछ छल-जाति-निग्रहस्थान द्वारा
२२८ प्रबोधचन्द्रोदयम्
अन्या तु प्रकृतेर्विभज्य पुरुषस्योदाहरन्ती भिदां तत्त्वानां गणनापरा महदहंकारादिसर्गक्रमैः ॥ २१ ॥ पुरुषः—ततस्ततः । उपनिषत्—तथैवाहं ताः समुपस्थिताः । ताभिश्चानुयुक्तया मया तदेव यो विशेषः तस्य कल्पने सक्ता, यद्वा द्वित्वस्य प्रागुक्तस्य विशेषस्य 'अन्त्यो नित्य- द्रव्यवृत्तिः' इति लक्षितस्य पदार्थभेद एव कल्पने निरूपणे परा लग्ना, परा गौतमी न्यायविद्या सच्छलजातिनिग्रहमयैः छलसहितजातिनिग्रहस्थानप्रचुरैः न्यायैः पञ्चा- वयवानुमानवाक्यैः वादं तत्त्वबुभुत्सुकथाम्, जल्पं जिगीषुकथाम्, वितण्डां परदूष- णावसानाम् अपि तन्वती विस्तारयन्ती, अन्या अपरा कापिली साङ्ख्यविद्या जगत्कारणीभूतां गुणत्रयसाम्यावस्थास्वरूपाम् प्रकृतिं प्रधानं विभज्य पृथक्कृत्य महदहङ्कारादिसर्गक्रमैः 'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः' इत्येवं रीत्या तत्त्वानां चतुर्विंशतितत्त्वानां गणनापरा संख्यानासक्ता अवलोकिता इति पूर्वोक्तेनान्वयः । आदौ मया वैशेषिकविद्या दृष्टा या द्वित्वस्य वैशेषिकशास्त्रे कठिन- तया स्वीकृतस्य विशेषस्य तच्छास्त्रजीवातुभूतस्य च निरूपणे समासक्ताऽऽसीत् । 'अयमेकः अयमेक इतीमौ द्वौ' एतादृशापेक्षाबुद्धिजन्यं द्वित्वं, तस्य विषयेऽत्र शास्त्रे प्रचुरं विवेचितमत एव चायमुद्घोषः—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे, यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः' इति । ततः परतो न्यायविद्या दृष्टा, या त्रिविधामपि कथां पञ्चावयववाक्यप्रयोगैः विस्तारयन्त्यासीत्, छलम्-अर्थान्तर- प्रयुक्तस्य शब्दस्यार्थान्तरवर्णनम्, जातिरसदुत्तरम्, निग्रहः पराहङ्कारनिरासफलः । तन्मयैर्वादैश्च कथात्रयविस्तारः । प्रकृतेः पृथक्त्वेन पुरुषस्य प्रतिपादनं-यथा-'न प्रकृतिर्न विकृतिः पुरुषः' इति । सर्गक्रमश्च—'प्रकृतेर्महान् , महतोऽहङ्कारः, अह- ङ्कारात्पञ्चतन्मात्राणि, पञ्चतन्मात्रेभ्यो भूतानि, भुतेभ्यश्चाखिलं जगत्' इति । तत्त्वानां प्रकृतिमहदहङ्कारपञ्चतन्मात्रपञ्चभूतैकादशेन्द्रियरूपतया चतुर्विंशतिसङ्ख्यकानाम् अत्र गणनेति बोध्यम् ॥ २१ ॥ अनुयुक्तया-पृष्टया, 'प्रश्नोऽनुयोगः पृच्छा चे'ति कोशः । सप्रकाशोपहासम्-
पञ्चावयव वाक्यसे वाद, जल्प और वितण्डा रूप कथायें कह रही थीं, इससे अतिरिक्त कोई प्रकृति-पुरुष-विवेकसम्बन्धी सिद्धान्त स्थिर करती हुई महत् अहङ्कार आदि सृष्टिक्रममानुसार तत्त्वों की गणना कर रही थी ॥ २१ ॥ पुरुष—तब ? उपनिषत्—मैं उसी प्रकार उनके पास भी गई । उनके द्वारा पूछी जाने पर मैंने
षष्ठोऽङ्कः २२६ कर्मोदाहृतम् । यस्माद्विश्वमित्यादि । ततस्ताभिः सप्रकाशोपहास- मुक्तम्—आः वाचाले, परमाणुभ्यो विश्वमुत्पद्यते । निमित्तकारणमीश्वरः । अन्यया तु सक्रोधमुक्तम्—आः पापे, कथमीश्वरमेव विकारिणं कृत्वा विनाशधर्मिणमुपपादयसि । ननु रे प्रधानाद्विश्वोत्पत्तिः । राजा—अहो दुर्मतयस्तर्कविद्या एतदपि न जानन्ति । सर्वं प्रमेय- जातं घटादिवत्कार्यमिति परमाणुप्रधानोपादानकारणमप्यपेक्षणीयमेवेति । तथाहि— श्रम्भःशीतकरान्तरिक्षनगरस्वप्नेन्द्रजालादिवत् कार्यं मेयमसत्यमेतदुदयध्वंसादियुक्तं जगत् । स्फुटमुपहस्य । वाचाले, बहुगर्ह्यभाषिणि, । परमाणुभ्यो जगदुत्पद्यतेऽतस्त एव कारणानि जगतः, ईश्वरस्तु कुलाल इव घटं प्रति जगत्प्रति निमित्तकारणमात्रम् । अन्यथा-साङ्ख्यविद्यया । ईश्वरस्य प्रकृतित्वे विकारिताऽऽपत्तौ विनाशिताप्रसङ्ग इति साङ्ख्यविद्योक्तेराशयः । दुर्मतयः-हत्तबुद्धयः । सर्वं प्रमेियमिति सामान्येन पक्षी- करणात् परमाणुप्रधानयोरपि । कार्यत्वमनुमीयमानं बोध्यमेवं च परमाणुप्रधानयोः कार्यत्वे तदुपादानकारणत्वमात्मन एव स्वीकर्त्तव्यमिति तर्कविद्यानामुपहासः कृतो वेद्यः । न चैवमात्मनो विकारित्वमाशङ्कनीयम् , अधिष्ठातृतयाऽविकारित्वस्योपपाद- नीयत्वादिति । अम्भः शीतकरेति० एतत् प्रत्यक्षदृश्यम् जगत् विश्वम् उदयध्वंसादियुक्तम् उत्प- त्तिविनाशशालि असत्यम् अलीकञ्च, यतः मेयम् ( अतः ) कार्यम् , मेयत्वेन हेतुना कार्यत्वमनुमीयते तेन च विनाशित्वानुमानम् । तत्र दृष्टान्तमाह-अम्भः शीतकरेति० अम्भः शीतकरो जलचन्द्रः, अन्तरिक्षनगरम् गन्धर्वनगरम् आकाशेऽवलोक्यमस्था- अपना कर्म वही बताया । उन लोगोंने अत्यन्त उपहास किया और कहा—अरी ओ मुखरे, परमाणुओंसे विश्वकी उत्पत्ति होती है, ईश्वर निमित्तकारण है। दूसरीने सक्रोध कहा— क्यों ईश्वर को ही विकारयुक्त बताकर विनाशधर्मा बना रही हो । विश्वकी उत्पत्ति तो प्रधानसे होती है। राजा—हाय, मूर्खा तर्कविद्यायें इतना भी नहीं जानती हैं कि सभी प्रमेय कार्य होते हैं अतः परमाणु और प्रकृतिको भी मूलकारणकी अपेक्षा होगी ही । क्योंकि— जब तक स्वात्मावबोधरूप ब्रह्मज्ञान नहीं होता तब तक चलचन्द्र, गन्धर्व नगर, स्वप्न, इन्द्रजालकी तरह यह जगद्रूप प्रमेय कार्य उत्पत्ति तथा विनाशी होनेके कारण शुक्तिमें
२३० प्रबोधचन्द्रोदयम् शुक्तौ रूप्यमिव स्रजीव भुजगः स्वात्मावबोधे हरा- वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ॥ २२ ॥ विकारशङ्का तु मुग्धवधूविकल्पविलसितमिव । तथाहि— शान्तं ज्योतिः कथमनुदितानस्तनित्यप्रकाशं विश्वोत्पत्तौ व्रजति विकृतिं निष्कलं निर्मलं च । शश्वन्नीलोत्पलदलरुचामम्बुवाहावलीनां प्रादुर्भावे भवति नभसः कीदृशो वा विकारः ॥ २३ ॥ यि च, स्वप्नः प्रसिद्धः, इन्द्रजालम्-मायामन्त्रादिनाऽन्यथावस्तुनोऽन्यथाप्रदर्श- नम्, आदिना पीतशङ्खदर्शनादितद्वत्, यथा जलचन्द्रादयो भासमानस्वरूपा एव न सन्तस्तद्वदिदं जगदपि न वास्तवमिति भावः । जगतो जडत्वेनास्वप्रकाशतया ज्ञानविषयत्वं तदेव हेतुं कृत्वा कार्यत्वानुमानं ततश्चासत्यत्वप्रत्यय इति परमार्थः । जगत् स्वात्मावबोधे स्वप्रकाशे हरौ परात्मनि अज्ञाते शुक्तौ रूप्यमिव स्रजि मालायाम् भुजग इव च प्रभवति जायते, अथ तत्त्वावबोधोदयात् अद्वितीयब्रह्म- साक्षात्कारात् अस्तमयते निमीलति । यथा मालाऽज्ञाने शुक्त्यज्ञाने च रज्जुरजते उत्पद्येते मालाशुक्त्योश्च ज्ञानादुभयं विलीयते एवमात्माज्ञानाज्जगद्विवर्त्तते तज्ज्ञानाच्च विलीयते इत्याशयः । यथा जलचन्द्रादयोऽनिर्वचनीयास्तथा जगदपीति हृदयम् ॥ मुग्धवधूविकल्पविलसितमिव-बालवनिताविविधवचनमिव, अविमृश्य भाषित- मित्यर्थः । शान्तमिति० शान्तम् निर्विकारम् ज्योतिः प्रकाशस्वरूपम्, न उदितः प्रादुर्भूतः, न चास्तः कदाचिदपि नाशंगतः नित्यः स्वरूपलक्षणः प्रकाशो यस्य तादृशम्, (अनुदितेति जन्मनः अनस्तेति च विनाशस्य व्यावर्तनया नित्यतां पुष्यति) निष्कलम् निर्विशेषम् निर्मलं स्वभावशुद्धं ब्रह्म विश्वोत्पत्तौ जगत्सृष्ट्याम् विकृति कथम् व्रजति, न व्रजतीति भावः । प्रागुक्तविशेषणैर्विकारायोग्यस्य ब्रह्मणो जगदुत्प- त्तावपि न विकारित्वसम्भव इति भावः । तत्र दृष्टान्तमाह—शश्वदिति० शश्वत् निर- रूप्य तथा मालामे सर्पकी तरह उत्पन्न होते हैं और तत्त्वावबोध हो जाने पर अस्त हो जाते हैं ॥ २२ ॥ ईश्वरमें विकारकी शङ्का तो पामरस्त्री के मनोविकारकी तरह ही है । क्योंकि— अनुदित अनस्त नित्यप्रकाश शान्त ज्योतिःस्वरूप निष्कल निर्मल ब्रह्म विश्वोत्पत्तिसे विकृत कैसे हो जायगा ? नीलकमलके पत्तों सदृश मेघमालाके फैल जानेसे आकाशमें क्या विकार हो आता है ? ॥ २३ ॥
षष्ठोऽङ्कः २३१ पुरुषः—साधु साधु, प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः । ( उपनिषदं प्रति ) ततस्ततः । उपनिषत्—ततस्ताभिः सर्वाभिरेव क्रुद्धाभिरुक्तम्—अहो, विश्व- विलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः ससंरम्भं मां निग्रहीतुं प्रधाविताः सर्वाः । पुरुषः—( सत्रासम् ) ततस्ततः । उपनिषत्—ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्यं प्रविष्टा । ततो मन्दारशैलोपकल्पितस्य मधुसूदनायतनस्य नातिदूरे— बाह्रोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । न्तरम् नीलोत्पलदलरुचाम् नीलकमलश्यामच्छवीनाम् अम्बुवाहावलीनाम् जलद- मालानाम् प्रादुर्भावे उदये वा नभसः आकाशस्य कीदृशो विकारः मेघकृता लिप्तता भवति । न कीदृशोऽपि विकारो यथा मेघमाल्योदितयापि नभसस्तथा जगदुदयेन ब्रह्मणोऽपि न विकारस्तस्य स्वभावनिर्मलत्वादिति भावः । अतश्च विकारित्वाशङ्का- तर्कविद्याभिः क्रियमाणाऽविमृश्य भाषितमिति पूर्वोक्तं समर्थमानं बोध्यम् ॥ २३ ॥ प्रीणयति-तोषयति । मानसम्-हृदयम् । प्रज्ञावतः-बुद्धियुक्तस्य । विमर्शः- विचारः । विश्वविलयेन-विश्वमिथ्यात्वज्ञानेन । एषा-उपनिषत् । नास्तिकपथम्- वेदविरुद्धं मार्गम् । ससरम्भम्=सक्रोधम् । निग्रहीतुम्-दण्डयितुम् , धर्तुं वा । प्रधाविताः-वेगेन चलिताः । सत्वरतरम्-अतिशीघ्रतया । दण्डकारण्यम्-दण्डक- नामकं काननम् । मन्दारशैलोपकल्पितस्य मन्दारनामकपर्वतोपरिस्थितस्य । मधु- सूदनायतनस्य-विष्णुमन्दिरस्य । नातिदूरे-समीपे । बाह्रोर्भग्ना इति० प्रागेव व्याख्यातमिदमिति तत्रैव दृश्यताम् । पुरुष—साधु साधु, तुम्हारी यह बुद्धिमानीकी बात मुझ प्रसन्न कर रही है । ( उप- निषदसे ) तब ? उपनिषद्—इस पर वह सभी क्रुद्ध हो कह उठीं, यह विश्वविलयसे मोक्ष कहती है, अतः यह नास्तिक हो रही है, इसे निगृहीत करो । इस पर बिगड़कर स्त्रियाँ मुझे निगृहीत करने को दौड़ी । पुरुष—( डरसे ) तब ? उपनिषत्—इस पर मै दौडती हुई दण्डकवनमें पैठ गई, फिर वहाँसे मन्दार पर वर्त्तमान मधूसूदन मन्दिरके पासमे— मेरे हस्तकङ्कणकी मणियाँ टूट-फूट गईं, चूड़ामणिके अपहरणसे केशपाश दूषित किया
२३२ प्रबोधचन्द्रोदयम् इत्याद्यवस्था मम संजाता । पुरुषः-ततस्ततः । उपनिषत्-ततो देवायतनान्निर्गत्य गदापाणिभिः पुरुषैरतिनिर्दयं ताड्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः । राजा-(सहर्षम् ) न खलु भवतीमतिक्रामतो भगवान् विश्वसाक्षी क्षमते । पुरुषः-ततस्ततः । उपनिषत्- छिन्ना मुक्तावलिरपहृतं स्रस्तमङ्गाद्दुकूलं भीता गीताश्रममथ गलन्नूपुराहं प्रविष्टा ॥ २४ ॥ देवायतनात्-देवालयात् । 'गदापाणिभिः' गदाधारिभिर्विष्वक्सेनादिभिर्विष्णु- परिकरैः । दिगन्तमितिक्रान्ताः-दिशामन्तं भेजिरे । सर्वाः-सर्वप्रकारास्तर्कविद्याः । अत्र परवादिन्निर्गमनेन दुःखनिवृत्तेः प्रतिपादनात्समयो नाम निर्वहणसन्धेरष्टममङ्ग- मुक्तं वेद्यम् , तल्लक्षणं यथा-'समयो दुःखनिर्गमः' इति । भवतीमतिक्रामतः-भवत्यामत्याहितमाचरतः, विश्वसाक्षी-जगन्नियन्ता । क्षमते- मर्षयति, ये भवतीं पीडयन्ति तानीश्वरो दण्डयतीति तात्पर्यम् । छिन्नेति० मुक्तावलिः मुक्तामाला छिन्ना त्रोटिता, अङ्गात् स्रस्तम् देहात्स्खलितम् दुकूलम् उत्तरीयवस्त्रम् अपहृतम् केनापि नीतम् , गलन्नूपुरा पतितचरणभरणा चाहम् भीता कान्दिशीकतां गताऽथ गीताश्रमं गीतायाः स्वपुत्र्या आश्रमं स्थानं प्रविष्टा प्राविशम् । अस्यापि वेदान्तपक्षीयोऽर्थः प्रागुक्तः ॥ २४ ॥ गया, इत्यादि मेरी अवस्था हुई । पुरुष-तब ? उपनिषद्-इसके बाद मन्दिरसे निकले गदापाणि पुरुषोंने अतिनिर्दय प्रहार करन प्रारम्भ किया, तब वे सभी दिगन्तरको भाग गईं ॥ राजा-(हर्षसे ) भगवान् विश्वसाक्षी आपके अतिक्रमण करने वालोंको क्षमा नही करते हैं । पुरुष-तब ? उपनिषत्-हमारी मुक्तामाला टूट गई, देहसे कपड़ा खिसक गया तब डरी हुई मैं गलन्नूपुरा हो गीताश्रममें पैठी ॥ २४ ॥
षष्ठोऽङ्कः २३३ तत्र वत्सया गीतया मां तत्रागतामालोक्य ससंभ्रमं मातर्मातरिति परिरभ्योपवेशितास्मि । विदितवृत्तान्तया तया चोक्तम् । अम्ब, नात्र खेदयितव्यं मनः। ये खलु त्वामप्रमाणीकृत्य यथेष्टमसुरसत्त्वाः प्रचरि- ष्यन्ति तेषामीश्वर एव शास्ता । उक्तं च तेन भगवता तानधिकृत्य । तथा च गीतायाम्—'तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्य- जस्रमशुभानासुरीष्वेव योनिषु' इति । पुरुषः—( सकौतुकम् ) देवि, त्वत्प्रसादाज्ज्ञातुमिच्छामि कोऽयमीश्वरो नामेति । उपनिषत्—( सकोपमिव ) को नामात्मानमजानन्तमन्धमिव प्रत्युत्तरं दास्यति । पुरुषः—( सहर्षम् ) कथमहमात्मा पुरुषः परमेश्वरः । माम्-उपनिषदम् । ससंभ्रमम्-वेगेन । परिरभ्य-आलिङ्ग्य । विदितवृत्तान्तया- अवगतसमाचारा। खेदयितव्यम्-क्लेशनीयम् । अप्रमाणीकृत्य-मिथ्यात्वेनाना- दृत्य । असुरसत्त्वाः-आसुरीं प्रकृतिमापन्नाः । शास्ता-दण्डप्रदः । तान्-आसुरीं प्रकृतिमागतान् । द्विषतः-द्वेषयुक्तान् । क्रूरान्-निर्दयान् । नराधमान्-नीचान् । आसुरीषु योनिषु-व्याघ्रसिंहादिषु योनिषु । अजस्रम्-सततम् । क्षिपामि-जनयामि । तेषां कदाचिदपि संसारात्रिस्तारो नास्तीति भावः । त्वत्प्रसादात्-त्वदीयानुग्रहात् । आत्मानम्-स्वं रूपम् । यथाऽन्धः पृच्छेत्किंरूपोऽस्म्यहमिति तदुत्तरं न दातुं शक्यं तथैव तवापि प्रश्नः स्वविषयकतवात्प्रश्नस्येति भावः । वहाँ पर वत्सा गीता मुझे पहुँची देखकर हड़बड़ा कर उठी और उसने मातः मातः कहती हुई लिपट कर बैठाया तथा सारा समाचार सुना और कहा—मां, यहाँ हृदयको कष्ट देनेकी आवश्यकता नहीं है, जो लोग तुमको अप्रमाण मानकर आसुरी सत्त्वसे यथेष्ट आचरण करते हैं उनका शासक भगवान् ही है । भगवान्ने स्वयं उनके विषयमें कहा है—'उन द्वेषी और क्रूर नराधमोंको मैं संसारसागर के असुरोंकी अशुभ योनियोंमें डाल देता हूँ' । पुरुष—(कौतुकसे) देवि, तुम्हारी कृपासे जानना चाहता हूँ कि ईश्वर कौन है ? उपनिषद्—(कोपके साथ) कौन अपने को नहीं जानने वाले अन्धेको समझा सकेगा । पुरुष—(सहर्ष) क्या मैं पुरुष आत्मा तथा परमेश्वर रूप हूँ ।
२३४ प्रबोधचन्द्रोदयम् उपनिषत्—एवमेतत् । तथाहि— असौ त्वदन्यो न सनातनः पुमान् भवान्न देवात्पुरुषोत्तमात्परः । स एष भिन्नस्त्वदनादिमायया द्विधेव विम्बं सलिले विवस्वतः ॥ २५ ॥ पुरुषः—(विवेकं प्रति) भगवन्, उक्तमप्यर्थं भगवत्या न सम्यगव- धारयामि । अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः । मम ब्रवीति देव्येयं सत्यानन्दचिदात्मताम् ॥ २६ ॥ असाविति० असौ अपरोक्षः सनातनः नित्यः पुमान् पुरुषः त्वदन्यो न त्वत्प्रतियो- गिकभेदवान्न ( भवति ) भवान् जीवः पुरुषोत्तमात् परमात्मनः परः भिन्नः न ( भवति ) 'तत्त्वमसी'ति श्रुत्या द्वयोरैक्यस्य बोधनात् । स एष परमात्मा अनादि- मायया अनाद्यविद्यया त्वत् त्वत्तः भिन्ना पृथक् प्रतीयत इति शेषः, सलिले जले विवस्वतः सूर्यस्य द्विधा द्वित्वं गतं बिम्बम् इव । यथैकमपि सूर्यबिम्बं तरङ्गभेदव- शाद्विधधा प्रतीयते तद्वत्परमात्माभिन्नोऽपि जीवोऽनाद्यविद्यावशाद्भिन्न इव प्रती- यते, परं पारमार्थिकमभेदं जीवपरमात्मनोराविद्यको भेदो नापलोपितुं प्रभुर्र्यथा सूर्यबिम्बं तरङ्गो न द्विधा विधातुं क्षमस्तद्वदिति भावः । तथोक्तमपि--'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इति ॥२५॥ अवच्छिन्नस्येति० इयं देवी उपनिषत् अवच्छिन्नस्य देहादिपरिच्छिन्नपरिमाणस्य जरामरणधर्मिणः जन्मिनः वार्धक्ययुतस्य मरणशीलस्य च मम सत्यानन्दचिदात्मताम् सत्यस्वरूपत्वम्, आनन्दमयत्वम्, ज्ञानस्वरूपताम् च ब्रवीति, इदमसंभावितमिव उपनिषत्—हाँ, बात ऐसी ही है । क्योंकि— वह सनातन पुरुष तुमसे भिन्न नहीं हैं, तुम भी पुरुषोत्तमसे भिन्न नहीं हो । यह तुम्हारी अनादि मायासे भिन्न प्रतीत होता है जैसे एक ही सूर्यबिम्ब जलमें तरङ्गभेदसे भिन्न प्रतीत होता है ॥ २५ ॥ पुरुष—( विवेकके प्रति ) भगवन्, भगवतीने जो बातें कहीं उन्हे मै ठीकसे समझ नहीं पा रहा हूँ । यह देवी अवच्छिन्न, भिन्नधर्मी, जरामरणधर्मी मुझे जीवका-सत्य-आनन्दे चित्स्व- रूपता बता रही है ॥ २६ ॥
षष्ठोऽङ्कः २३५ विवेकः—पदार्थानवज्ञानाद्वाक्यार्थो नावगम्यते । आर्येणोक्तं तत्स- त्यमेव । पुरुष.—तदवबोधाय भगवानुपायमाज्ञापयतु । विवेकः—अयमुच्यते— एषोऽस्मीति विविच्य नेतिपदतश्चित्तेन सार्धं कृते तत्त्वानां विलये चिदात्मनि परिज्ञाते त्वमर्थे पुनः । श्रुत्वा तत्त्वमसीति बाधितभवध्वान्तं तदात्मप्रभं शान्तं ज्योतिरनन्तमन्तरुदितानन्दः समुद्योतते ॥ २७ ॥ लक्ष्यत इति वितर्कः । योऽह स्व परिच्छिन्नपरिमाणं जन्ममृत्युवार्धकादिग्रस्तं च पश्यामि तमेवेयं देवी तद्विपरीतं सच्चिदानन्दरूपमभिधातीति मम मनः प्रत्यय न बध्नातीति तात्पर्यम् ॥ २६ ॥ पदार्थानवज्ञानात्-तत्त्वं पदार्थयोः सम्यगनवबोधात् । वाक्यार्थो नावगम्यते- उपनिषत्प्रतिपादिततत्त्वमस्यादिमहावाक्यस्यार्थो जीवपरमात्माभेदरूपो न प्रतीयत इत्यर्थः । तदवबोधाय-वाक्यार्थज्ञानाय । भगवान्-विवेकः । उपायम्-पन्थानम् । आज्ञा- पयतु-ब्रवीतु । अयमुच्यते-उपाय इति शेषः । एषोऽस्मीति० नेतिपदतः नेति नेतीति श्रुत्या चित्तेन सार्धं विविच्य एषोऽन्तकर- णांशः एष चात्मांश इति विभागं कृत्वा एषोऽस्मीति तत्त्वानां भूतानामुपसंहारेण स्वात्मना विलये कृते पुनः त्वमर्थे निष्कृष्टजीवभावे चिदात्मनि तत्पदार्थे निष्कृष्टेश्वर- चैतन्ये ज्ञाते तत्त्वं पदार्थयोर्भागत्यागेन लक्षणया शोधने कृते तत्त्वमसीति श्रुत्वाऽ- न्तरुदितानन्दः अन्तःकरणाज्ञात्कारवृत्तौ प्रतिफलितस्वरूपः एष जीवः बाधित- भवध्वान्तं निरस्तसंसारमूलाविद्यं शान्तम् निष्क्रियम् अनन्तम् देशतः कालतश्चा- परिच्छिन्नाम् आत्मप्रभम् स्वस्वरूपप्रकाशम् ज्योतिः तेजोरूपम् समुद्योतते प्रकटी- भवति । पूर्वं नेतीति श्रुत्या चित्तपर्यन्तं स्वात्मना विवेकस्ततो जीवगतपरिच्छिन्न- विवेक—पदार्थ नहीं जाननेसे वाक्यार्थ नहीं जाना जाता है, आपने ठीक ही कहा है । पुरुष—तो उसके ज्ञानका उपाय आप बतावें । विवेक—यही कह रहा हूँ—'एषोऽस्मि' 'नेति' इत्यादि पदोंसे चित्तापेक्षया विवेक करके तत्त्वविलयद्वारा त्वमर्थ चिदात्माके जान लेने पर 'तत्त्वमसि' इस वाक्यसे संसारतमो- निवर्त्तक स्वयं प्रकाश अनन्त-शान्त-ज्योति प्रकट हो आता है ॥ २७ ॥
२३६ प्रबोधचन्द्रोदयम् पुरुषः—( सानन्दम् ) श्रुतमर्थं परिभावयति । ( ततः प्रविशति निदिध्यासनम् ) निदिध्यासनम्—आदिष्टोऽस्मि भगवत्या विष्णुभक्त्या । यथा निगूढ- मस्मदभिप्रायमुपनिषद्विवेकेन सह बोधयितव्या । त्वया च पुरुषे वस्त- व्यमिति । ( विलोक्य ) एषा देवी विवेकपुरुषाभ्यां नातिदूरे वर्तते । याव- दुपसर्पामि ( उपसृत्य उपनिषदं प्रति जनान्तिकम् ) देव्या विष्णुभक्त्या समादिष्टं यथा संकल्पयोनयो देवता भवन्ति । मया च समाधानेन विदितं तथा आपन्नसत्त्वा भवतीति । तत्र च क्रूरसत्त्वा विद्या नाम कन्या त्वदु- दरे वर्तते प्रबोधोदयश्च । तत्र विद्यां सङ्कर्षविद्यया मनसि संक्रामयिष्यसि । प्रबोधचन्द्रं पुरुषे समर्प्य वत्सविवेकेन सह मत्समीपमागमिष्यसीति । स्वाद्यपगमस्ततोऽसंभावनानिवृत्तौ तत्त्वंपदयोरर्थस्यैक्यावधारणं ततः समूलाज्ञान- निवृत्तिरिति क्रमो बोध्यः । अधिकमन्यत्र ॥ २७ ॥ परिभावयति-विचारयति, विचारणञ्चात्र मननरूपम्, तच्च प्रागुक्तश्रुत्वेति श्रव- णोत्तरं बोध्यम् । निगूढम्-अतिगुप्तम् । उपनिषद् विवेकेन सह-विवेकोपनिषदौ बोधनीयावित्यत्र तात्पर्यम् । त्वया-निदिध्यासनेन । देवी-उपनिषत् । नातिदूरे-सन्निकृष्टे । सङ्कल्प- योनयः-सङ्कल्पो मानसो व्यापारस्तद्योनयस्तत्प्रभवाः, द्वन्द्वसंसर्गानपेक्षा इत्यर्थः । समाधनेन-योगजशक्त्या । आपन्नसत्त्वा-धृतगर्भा । विवेक सङ्कल्पादेव तव गर्भा- धानमिति त्वया न ज्ञायते, मया तु समाधानेन ज्ञातमिति मा विस्मयं कृथा इति भावः । क्रूरसत्त्वा-महामोहकुलस्य विवेककुलस्य च विनाशकत्वाद्विद्यायाः क्रूरता- पुरुष—( सानन्द ) श्रुत अर्थका विचार करता है। ( निदिध्यासनका प्रवेश ) निदिध्यासन—भगवती विष्णुभक्तिकी आज्ञा है कि चुपचाप हमारे अभिप्रायसे विवेक और उपनिषद्को अवगत कराओ और स्वयं तुम पुरुषके पास रहो। ( देखकर ) यह देवी विवेक और पुरुषके साथ समीपमें ही तो है । समीप जाता हूँ । ( समीप जाकर छिपाकर उपनिषद्से ) देवी विष्णुभक्तिने कहा है कि देवता सङ्कल्पयोनि हुआ करते हैं, मैने प्रणिधान द्वारा जाना है कि तुमको गर्भ है । तुम्हारे उदरमे प्रबोधोदय तथा विद्या नामकी क्रूरस्वभावा कन्या हैं। उनमें संकर्षविद्या द्वारा विद्याको मनके पास कर दो। प्रबोधचन्द्रोदयको पुरुषके हाथ सौंपकर वत्स विवेकके साथ मेरे पास चली आना ।
षष्ठोऽङ्कः २३७ उपनिषत्—यदादिशति देवी । ( इति विवेकमादाय निष्क्रान्ता ) ( निदिध्यासनं पुरुषो विशति ) पुरुषः—( ध्यानं नाटयति ) ( नेपथ्ये आश्चर्यमाश्चर्यम् ) उद्दामद्युतिदामभिस्तडिदिव प्रद्योतयन्ती दिशः प्रत्यग्रस्फुटदुत्कटास्थि मनसो निर्भिद्य वक्षःस्थलम् । कन्येयं सहसा समं परिकरैर्मोहं ग्रसन्ती भज- त्यन्तर्धानमुपैति चैकपुरुषं श्रीमान्प्रबोधोदयः ॥ २८ ॥ ( ततः प्रविशति प्रबोधोदयः ) त्रोक्ता । सङ्कर्षणविद्या-योगजनिताकर्षणरूपया । मनसि सङ्क्रामयिष्यसि-मनसः पार्श्वं प्रेषयिष्यसि । श्रूयते हि भागवते-सङ्कर्षणो देवकीजठराद्रोहिणीजठरं प्रापितो योगबलेन । अत एवेमां विद्यां सङ्कर्षणविद्येत्याह । विद्याया अन्तःकरणधर्मतया मनसि सङ्क्रमणमुक्तम् । निदिध्यासनम्-विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहः । उद्दामद्युतिदामभिरिति० उद्दामद्युतिदामभिः उद्दामाः अप्रतिहताः द्युतय एव दामा- निमालाः ताभिः प्रवाहभावमापन्नाभिर्युतिभिः तडित् विद्युदिव दिशः आशावका- शान् प्रद्योतयन्ती प्रत्यग्रस्फुटदुत्कटास्थि अभिनवदलत्कीकससन्धि मनसः अन्तः- करणस्य वक्षःस्थलम् हृदयपुण्डरीकं निर्भिद्य विदार्य इयं कन्या विद्यापरिकरैः कामा- दिभिरनुचरैः सहितम् मोहम् ग्रसन्ती समापयन्ती अन्तर्धानं व्रजति श्रीमान् प्रबो- धोदयश्च पुरुषमेति सन्निधत्ते । हृत्पुण्डरीकभेदनेन विद्यावृत्तौ जातायां सा वृत्तिः कतकरजोन्यायेनाविद्यां नाशयित्वा स्वयमपि विनश्यति तदभिप्रायेणैव 'मोहं ग्रसन्ती अन्तर्धत्ते' इत्युक्तम् । इयं जीवन्मुक्तास्थितिः ॥ २८ ॥ उपनिषत्—देवीकी जो आज्ञा । ( विवेकके साथ जाती है ) ( निदिध्यासन पुरुषमे समाविष्ट होता है ) पुरुष—( ध्यान करता है ) ( नेपथ्यमें आश्चर्य, आश्चर्य यह शब्द होता है ) बिजलीकी तरह तेजोधारासे दिशाओंको आलोकित करती हुई मनके वक्षःस्थलको तड तड़ करके भिन्नकर यह विद्या कन्या सपरिकर मोहको ग्रस्त करती हुई अन्तर्हित हो रही है और प्रबोधोदय पुरुषको प्राप्त होता है ॥ २८ ॥ ( प्रबोधोदयका प्रवेश )
२३८ प्रबोधचन्द्रोदयम् प्रबोधोदयः- किं वाप्तं किमपोहितं किमुदितं किं वा समुत्सारितं स्यूतं किं नु विलायितं नु किमिदं किञ्चिन्न वा किञ्चन । यस्मिन्नभ्युदिते वितर्कपदवीं नैवं समारोहति त्रैलोक्यं सहजप्रकाशदलितं सोऽहं प्रबोधोदयः ॥ २६ ॥ ( परिक्रम्य ) एष पुरुषः । यावदुपसर्पामि । ( उपसृत्य ) भगवन् , प्रबोध- चन्द्रोदयोऽहमभिवादये । पुरुषः- ( साहादम् ) एहि पुत्र, परिष्वजस्व माम् । ( प्रबोधोदयस्तथा करोति ) पुरुषः- ( सानन्दम् ) अहो, विघटिततिमिरपटलं प्रभातं संजातम् । किं वाप्तमिति० यस्मिन् प्रबोधोदये ज्ञाने अभ्युदिते जाते सहजप्रकाशदलितं नैस- र्गिकप्रभाध्वस्तं त्रैलोक्यम् इयं जगत्त्रयी किं वा आप्तम् प्राप्तम् ? अपोहितम् नाशितम् क्रिय ? उदितम् उत्पन्नम् किम् ? किं वा समुत्सारितम् दूरे क्षिप्तम् ? स्यूतम् वस्त्रादि- वद्ग्रथितम् किम् ? किन्तु विलायितम् आकाशादिक्रमेण कारणे लीनम् ? किमिदं किञ्चित् सद्ग्रूपम् ? वा न किञ्चन असद्रूपम् ? एवं वितर्कपदवीम् सम्भावनाविषय- ताम् न समारोहति, (ईदृक्तया इदन्तया च परिच्छेत्तुमशक्यं नित्य।नित्यभिन्न- विगलितसकलभावं चात एव चानिर्वचनीय जगज्जायते यत्र जाते ) सोऽहं प्रबोधो- दयः अस्मीति शेषः ॥ २९ ॥ परिष्वजस्व-आश्लिष्य । तथाकरोति-पुरुषमालिङ्गति । विघटिततिमिरपट लम्-अपगतज्ञानावरणम् । प्रभातम्-बोधोदयः, 'संसार- क्या पाया, क्या खोया, क्या गया, यह स्यूत-सा है या ढाला हुआ-सा है, यह कुछ ' ना कुछ नही है, जिसके उदित होने पर इस तरहके वितर्क मार्गमें त्रैलोक्य नहीं ठह मकता, क्योंकि स्वाभाविक प्रकाशसे त्रैलोक्यमूल तम दलित हो जाता है, ऐसा प्रबोधोदय हूँ ॥ २९ ॥ ( चलकर ) यह पुरुष है । इनके समीप जाऊँ । ( समीप जाकर ) भगवन् , मै प्रबो चन्द्रोदय प्रणाम करता हूँ । पुरुष- ( आह्लादके साथ ) आओ पुत्र, गलेसे लगो । ( प्रबोधोदय गलेसे लगता है ) पुरुष-(सानन्द) अहो, अन्धकारराशिको विघटितकर प्रभात हो गया है । क्योंकि
षष्ठोऽङ्कः २३६ मोहान्धकारमवधूय विकल्पनिद्रा- मुन्मथ्य कोऽप्यजनि बोधतुषाररश्मिः । श्रद्धाविवेकमतिशान्तिमयादिकेन विश्वात्मकः स्फुरति विष्णुरहं स एषः ॥ ३० ॥ र्वथा कृतकृत्योऽस्मि भगवत्या विष्णुभक्तेः प्रसादात् । सोऽह- म्— सङ्गं न केनचिदुपैत्य किमप्यपृच्छन् गच्छन्नतर्कितफलं विदिशं दिशं वा । शान्तो व्यपेतभयशोक्कपायमोहः स्वायंभुवो मुनिरहं भवितास्मि सद्यः ॥ ३१ ॥ ब्राह्मोऽथः प्रातः क्षणो मतः' इत्युक्त्या प्रभातपदं बोधपरम् । न्धकारमिति० मोहोऽज्ञानमेवान्धकारस्तमिस्रं तमवधूय समाप्य विकल्प- भ्रमकालरात्रिम् उन्मथ्य सर्वात्मना विनाश-श्रद्धा गुरुवेदवाक्ययोर्विश्वासः, तेर्नित्यानित्यवस्तुविवेचना, शान्तिरौदासीन्यम्, यमश्चित्तवृत्तिनिरोधस्त- तत्प्रभृतिपरिवारेण ( सह ) कोऽपि विलक्षणः बोधतुषाररश्मिः ज्ञानचन्द्रः जातः, ( सम्प्रति ) यः विश्वात्मकः सर्वात्मकः विष्णुः व्यापकः परः स्फुरति । ज्ञाने जाते परामिष्ठोऽस्मि संवृत्त इत्यर्थः ॥ ३० ॥ न केनचिदिति० न केनचित्सङ्गमुपेत्य असङ्गसन् किमपि अपृच्छन् अजिज्ञा- अतर्कितफलम् निरुद्देश्यभावेन दिशं प्राच्यादिकं विदिशम् आग्नेय्यादिं न् उपसर्पन् शान्त उदासीनः व्यपेताः गलिताः—भयं भीतिः, शोको रुषायः रागद्वेषादिकालुष्यम्, मोहः अज्ञानम् यस्य तादृशः सद्यः स्वाय- यमुक्तः मुनिः निदिध्यासनवान्, अहं भवितास्मि भवामीत्यर्थः ॥ ३१ ॥ रूप अन्धकारको दूर कर और विकल्पनिद्राको मथित कर बोधरूप चन्द्रका हुआ है। श्रद्धा, विवेक, मति, शान्ति और यम आदिके साथ जो विश्वात्मक विष्णु है वह यही है ॥ ३० ॥ ती विष्णुभक्तिके प्रसादसे मै सर्वथा कृतार्थ हो गया । मै अब— होकर कुछ भी बिना पूछे निरुद्देश्य भावसे दिशा-विदिशाओंमे गमन करता तथा विगत शोक मोह होकर मै अब स्वायम्भुव मुनि होने जारहा हूँ ॥ ३१ ॥