पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
' 'व' 'ज्' 'ज' 'ग' ... wait, what is the letter after 'ग'? Is it 'द्'? Yes, it's 'द्' (da with virama). And line 26 starts with: 'नु' 'ग्रा' 'ह्य' 'मा' 'त्र' 'म्' ',' Wait, let's look at the letter 'नु' in line 26 again. Is it 'नु'? Wait! Could it be 'ऽनु'? An avagraha before 'नु'? No. Could it be 'न'? No, it clearly has a 'ु' hook at the bottom. So it is literally printed: दिमत्त्वादिति यावत् । एवं प्रकृत्यादेश्चान्यत्राभावाच्च तृणादिवज्जगद् नुग्राह्यमात्रम्, नापीश्वरः पर्जन्यवदनुग्राहकमात्रमिति सूत्रार्थ उक्तो
Let's check line 27: "भवति । द्रव्यमित्येतद्वैषम्याधिकरणे व्याख्यातम् ॥ २ ॥" Wait, after व्याख्यातम्: ॥ २ ॥ Then line 28: "इति अन्यत्राभावाधिकरणम् ॥" Then a decorative flower/asterisk ornament: ※ or similar printer's flower. Then line 29: "३. अधिकरणम् ॥" Then line 30: "( १ ) अत्राधिकरणार्थं दर्शय
४८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( २ ) सू- ॐ ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॐ ॥ ६ ॥ ( ३ ) यस्य धर्माधर्मौ न स्तस्तत्सिद्धान्ते किं प्रयोजनम् । चार्वाकाचार्यस्य अयं लोकायतिकः स चासौ पक्षः सिद्धान्तश्च त मित्यर्थः । लोकायतेनाङ्गीकृत इति वा ॥ ( २ ) धर्माद्यतीन्द्रियपदार्थानां तत्साधकश्श्रुत्यादिप्रामाण्यस्य चा नभ्युपगमात्प्रमाणाभावेनेश्वरस्यैवाभावादान्तरेणापीश्वरं पूर्वपूर्वस्मा दुत्तरोत्तरवस्तूत्पत्तिसम्भवाच्च तस्य जगत्कारणत्वं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-अभ्युपगम इति । न केवलं परोपपा दनेन किन्तु 'अभ्युपगमेऽपि' स्वसिद्धान्तेऽपि तद्रीत्यापि विषयप्रयोजन योरभावादनारम्भणीयमेव चार्वाकशास्त्रमिति सूत्रार्थः सुधायामुक्तः। चन्द्रिकायां तु पूर्वसूत्रान्नञोऽनुवृत्तिः। तथा च स्वकीयशास्त्रस्य सि द्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्टम् । अभ्युपगमेऽपि तत्र तद्व्यापक योर्विषयप्रयोजनयोरभावाभ्युपगमात् व्याहतिः स्यादिति उभयथा पि न चार्वाकसिद्धान्तो युक्त इति सूत्रार्थ उक्तः । अत्र सुधापक्षे अ नपेक्षभवेदित्यस्यावृत्तिः । योजनाद्वयेऽप्यपिशब्दः समुच्चयार्थः विरोधसू चकश्चेति ध्येयम् ॥ ( ३ ) यस्येति॥ सिद्धान्त इत्याकृष्यते। धर्मो यागादिजन्यादृष्टम्। अध र्मस्तदन्यः स्वर्गादिः । यद्वा--अधर्मः पापं तत्साध्यो नरकश्च । अध र्मनिवृत्तिप्रयोजनकत्वस्यापि निराकरणार्थमधर्मग्रहणम् । धर्माधर्म पदाभ्यामतीन्द्रियमात्रमुपलक्ष्यते । सप्तमी षष्ठ्यर्थे । किमाक्षेपे । प्रयु ज्यते प्रवर्त्यते शास्त्रे अधिकार्यनेनेति व्युत्पत्त्या प्रयोजनशब्देन फल विषयौ गृह्येते । तथा च-'यस्य धर्माधर्मौ न स्तः' येन धर्माधर्मौ नाङ्गीकृतौ तस्य वादिनः सिद्धान्ते तेन सिद्धान्तत्वेनाभ्युपगतस्य शा स्त्रस्य किं प्रयोजनं ? न किमपि विषयादिकमङ्गीकृतमिति योजना । सिद्धान्तप्रयोजनपदाभ्यां सौत्राभ्युपगमार्थशब्दौ विवृतौ । ततः कि मित्यत आह-अत इति । स्वशास्त्रस्य सिद्धान्तत्वाभ्युपगमेऽपि तत्र तद्व्यापकयोर्विषयप्रयोजनयोरभावाङ्गीकारादित्यर्थः । ततोपि किमि त्यतो विरोधस्फोरकेण सौत्रापिशब्देन सूचितं हेतुं दर्शयति-स्वेति। यः सिद्धान्तः असौ प्रयोजनादिमानिति नियमात्सिद्धान्तत्वेन अङ्गी कृतशास्त्रस्य प्रयोजनाद्यभावमभ्युपगतवतो माता वन्ध्येतिवत्स्ववच नंविरुद्धवादित्वापातादित्यर्थः । न तत्र युक्त्यन्तरं वक्तव्यमित्येवश
[ अधि - ४. सू - ७. ] दीपिकासहितम्. ४८५ र्थातः स्वव्याहतेरेवोपैक्ष्यः ॥ ६ ॥ ४. अधिकरणम् ॥ ( १ ) पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति— ( २ ) सू-ॐ ॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ॐ ॥ ७ ॥ यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमा ब्दार्थः । ततः किमित्यतः सूत्रेऽपेक्ष्य इति बुद्ध्या विविच्यानुवृत्तपदेन मञ्जनुवृत्त्या वा लब्धसाध्यं दर्शयति—उपेक्ष्य इति । स इति विपरि णामेनानुवर्तते । एवकारोऽत्रापि सम्बध्यते । तथा च स चार्वाकः त त्सिद्धान्तो वा उपेक्ष्य एव न त्वादरणीयः परिहारायाक्षिप्तो वा । अ तो न तद्विरोधो विष्णुजगतकारणत्वस्येत्यर्थः ॥ ३ ॥ इति अभ्युपगमाधिकरणम् ॥ :-*-: ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति—पुरुषेति ॥ पुरुषश्चेतनः प्रकृतिरचेतना । कर्तृरिति भावप्रधानम् । उच्यते अर्थोऽत्रेति वादो मत म् । तथा चात्राधिकरणे निरीश्वरसाङ्ख्यैकदेशिनां चेतनोपसर्जनका- चेतनप्रकृतिकर्तृत्ववादिनां मतं निराकरोति सूत्रकारदित्यर्थः ॥ ( २ ) पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं ताव द्व्याचष्टे—पुरुषेति ॥ चेतनसम्बन्धाज्जीवसन्निधानादित्यनेन सूत्रे पु रुषपदं जीवसम्बद्धशरीरपरमित्युक्तं भवति । एवकारः शरीरमेवेत्य न्वेति । न तु चेतनमपीत्येवार्थः । अश्मा पाषाणः । आदिशब्दादार्वादि ग्रहः । ‘आदाय’ तदर्थे प्रवर्तते तत् प्रगृह्य च ‘गच्छति’ गन्तुं प्रवृ र्तत इति । अनेन अश्मपदं लक्षणया तदादानादिविषयप्रवृत्तिपरमित्युक्तं भवति । दृष्टान्तवाक्येन सूचितं दार्ष्टान्तिकं दर्शयति-- एवमिति । अ पिशब्दो यद्यपीत्याद्यर्थे प्रकृतिरपीति समुच्चये च प्रकृतिरेव न ट्वीश्व र इत्यवधारणे वा । अचेतनमचेतनेतिहेतुगर्भविशेषणाभ्यां सिद्धा न्त्युक्ताचेतनत्वहेतोः पक्षविपक्षवृत्तित्वोक्त्या तस्य व्यभिचारः, प्रधा नं चेतनसन्निधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति अ नुमानरूपप्रतिपक्षश्चोक्तो भवति । तथा च प्रधानादेव जगदुत्पत्तावी श्वरवैयर्थ्यान्नासावस्ति । तदभावे च तस्य जगत्कारणत्वं नास्त्येव ।
Here is the complete line-by-line transcription in pure Devanagari Markdown with line markers:
४८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] दाय गच्छति। एवमचेतनाऽपि प्रकृतिः पुरुषसम्बन्धा त्प्रवर्तत इति चेन्न । 'न ऋते त्वत्क्रियते' इति तत्रा पि तथात्वे दृष्टान्ताभावात् ॥ ७ ॥ (३) सू-- ॐ ॥ अङ्गित्वानुपपत्तेः ॥ ॐ ॥ ८ ॥ शरीरप्रवृत्तौ पुरुषस्याङ्गित्वान्, शस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति भावः । एवमनुमानाव लम्बेन प्राप्ते पूर्वपक्षं प्रतिक्षेप्तुं प्रवृत्तं तथापीति सिद्धान्तांशं नञनुवृ त्त्या व्याचष्टे—नेति । नानुमानेन प्रकृतेः स्वतः प्रवृत्तिसाधनं युक्तिम दित्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तथापीत्यंशमावर्त्याव्ययानामने कार्थत्वमिति न्यायमनुसृत्य व्याचष्टे—नेति । इतिश्रुतेरितिशेषः । 'तत्रापि' ईश्वरप्रवृत्तावपि । न केवलं पूर्वोक्तपयोऽम्ब्वादावित्यपिश ब्दार्थः । तत्रापीति सूत्रपाठेऽप्ययमेवार्थो बोद्धव्यः । 'तथात्वे' परमा त्माधीनत्वे सिद्धेसतीति शेषः । तथापीत्येतद्दृष्टान्ताभावादित्यनेना पि सम्बध्यते । तथा च महदादिकार्यकरणप्रवृत्तेः पुरुषोपसर्जन प्रकृ त्यधीनत्वसाधनेऽपि निरीश्वरोपन्यस्तपूर्वानुमान इव निदर्शनाभावादि त्यर्थः । अनेन–पुरुषाश्मवत् चेतनोपसर्जनशरीरस्याश्माद्यानयनादौ स्वतः प्रवृत्तित्त्वत् पुरुषोपसर्जनप्रधानस्यैव महदादिकार्यकरणे स्वतः प्रवृत्तिः सम्भवतीति ईश्वरवैयर्थ्यम् । तद्भावे चै तस्य जगत्कारणत्व मपि नास्ति तस्यैव जगत्कारणत्वमित्येतद्दूरोत्सारितमिति चेन्न। कुतो? यतः पुरुषोपसर्जनप्रकृतिकर्तृत्वे न मानमस्ति । न चोक्तानुमानं मान म् । यतः तथा श्रुतेः नर्ते इति श्रुतेः । तथापि तत्रापि शरीरप्रवृत्ताव पि तथैव व्यतिरेकानवस्थितेरित्यनेनोक्तेश्वराधीनत्वमेव सिद्धं अत एव तथापि पुरुषोपसर्जनप्रकृतिकर्तृत्ववाद्युपन्यस्तानुमानेऽपि तथा निरीश्वरसाङ्ख्योपन्यस्तपूर्वानुमान इव तथा दृष्टान्ताभाव इति सूत्रा र्थे उक्तो भवति ॥ (३) एवं श्रुतिलक्षणहेतुना दृष्टान्ते साध्यवैकल्यमभिधाय हेत्व न्तरेण दृष्टान्ते साध्यवैकल्योपपादनाय सूत्रं—अङ्गित्वेति ॥ अत्राङ्गि त्वपदं लौकिकपरीक्षकद्वयव्यवहारोपलक्षकम् । तथापीत्यनुषज्यते, पु रुषस्य चेत्यभिप्रेत्य दृष्टान्ते परोक्तसाध्याभ्युपगमे बाधकतर्कोक्तिपर तया तद्व्याचष्टे—शरीरेति । यस्मादित्यादौ संयोज्यम् । शरीरप्रवृत्ता
‘अङ्गमङ्गी समादाय यथा कार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्नः ॥ ८ ॥ —-::-— ५. अधिकरणम्॥ (१) प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोति— सू—ॐ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगत् ॥ ॐ ॥ ९ ॥ (२) शरीरसम्बन्धात्पुरुषः प्रवर्तेत इत्यङ्गीकारेऽपि स्वत नित्यनेन तथापीत्यनुषक्तांशो विवृतः । तथा च यस्मात्पुरुषसंवलित शरीरस्यैव स्वतः प्रवृत्तावुच्यमानायां पुरुषस्याङ्गत्वार्दप्रधानत्वावश्यं भावादङ्कमितिस्मृतौ पुरुषस्याङ्गित्वव्यवहारः शरीरं प्रति प्राधान्यव्य पदेशोऽनुपपन्नः स्यात् । एवं दार्ष्टान्तिकेऽपि पुरुषस्य प्रधानाङ्गत्वोप त्याङ्गित्वव्यवहारानुपपत्तिरित्यर्थः । अस्य हेतोस्तस्मादपि न शरीर स्य स्वतः प्रवृत्त्यङ्गीकारो युज्यत इति विपर्ययपर्यवसानलब्धसाध्य द्वाराऽऽदृशब्दाध्याहारेण दृष्टान्ताभावादिति पूर्वहेतुनान्वयः । एवं सौ त्रहेतोर्न शारीरस्य स्वतः प्रवृत्तिर्न वा प्रधानस्य । कुतः ? पुरुषस्या ङ्गित्वव्यवहारानुपपत्तेः । शरीरप्रधानयोरङ्गित्वानुपपत्तेश्च इत्यध्याहृ तसाध्यमुखेन तथा दृष्टान्ताभावो बाधश्चेति पूर्वसाध्येनान्वयो द्रष्ट व्यः । वादिनो हेतुकत्वे नोक्तश्रुतावविश्वासात्स्यैकस्यैव हेतुत्वा त्सूत्रे चशब्दाभावः । स्मृत्यर्थस्तु—अङ्गी प्रधानः पुरुषोऽङ्गं गुणभूतं शरीरं सङ्गृह्य यथाऽश्माचानयनादि कार्यं करोति तथाऽसौ भगवान पि प्रकृतिमादाय महदादिकार्यं करोतीति ॥ ४ ॥ ॥ इति पुरुषाश्माधिकरणम् ॥ —**— ५. अधिकरणम् ॥ (१) अधिकरणार्थं दर्शयति—प्रकृतीति ॥ प्रधानोपसर्जनकचेत नकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां वादं मतमस्मिन्नधिकरणे निराकरोति सूत्रकृदित्यर्थः ॥ (२) सूत्रे पुरुषाश्मवदिति चेदित्युक्तादन्यथानुमितौ चेति योज नामभिप्रेत्य तमंशं पूर्वपक्षपरतया व्याचष्टे—शरीरेति ॥ चेतनपद स्थाने शरीरपदस्य शरीरपदस्थाने पुरुषपदस्यैवमचेतनपदस्थाने पु रुषपदस्य पुरुषपदस्थाने प्रकृतिपदस्य प्रक्षेप्येण यथेत्यादिपूर्वभाष्य
४८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] स्तस्यासामर्थ्याच्छरीरसम्बन्ध एवायुक्तः ॥ ९ ॥ (३) सू-ॐ॥ विप्रतिषेधाच्चासमञ्जसम् ॥ ॐ ॥ १० ॥ सकलश्रुतिस्मृतियुक्तिविरुद्धत्वानीश्वरमतमस [ मञ्जसम् । (४) श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् । मत्रापि संयोज्येदं व्याख्येयम् । 'प्रवर्तते' अश्माद्यादाने । इत्यङ्गीका रेऽपीति। एवमभ्युपगम्य साधनेऽपीत्यर्थः। अनेन विमता प्रवृत्तिरचेत नोपसर्जनपुरुषाधीना प्रवृत्तित्वादश्मानयनादिप्रवृत्तिवदिति पूर्वपक्ष साधकानुमानं सूचितम् । अपिशब्दो न केवलं पूर्ववाद्युक्तपक्ष इति समुच्चये । अनेन सौत्रचशब्दो व्याख्यातः । अपीत्यनन्तरं तथेतिपदं संयोज्यम् । दृष्टान्ते साध्याभाव इति तदर्थः । कुतोऽसावित्यतस्तत्र हेतुत्वेन चशब्दादाकृष्टमङ्गित्वानुपपत्तेरिति पदं व्याचष्टे— शरीरेति। तस्येत्युभयत्रान्वेति । शरीरसम्बन्ध इति सप्तम्यन्तं प्रथमान्तं च । त त्राद्यस्य तस्य जीवस्य शरीरसम्बन्धेऽप्यसामर्थ्यादित्यन्वयः । द्विती यस्य युक्तपदेनान्वयः । सुतरां शरीरसम्बन्धेन जीवस्याश्मानयनादि कार्ये प्रवृत्तिरित्थेवशब्दाथः । शरीरपदं प्रकृतेरप्युपलक्षकम् । कुतः ? शरीरसम्बन्धानुपपत्तिरित्यतस्तत्र हेतुत्वेन ज्ञशक्तिवियोगादित्यंशं अ सिद्धिपरिहाराय स्वतः पदाध्याहारेण व्याचष्टे—स्वत इति । स्वात न्त्र्येणेत्यर्थः। अनेन-अयथा पुरुषाश्मवदित्युकपक्षाद्वैपरीत्येन पुरुषाश्म वदचेतनसम्बन्धाच्चेतनं प्रवर्तत इत्येवं रूपेणानुमितावुनमानेऽपि तथा दृष्टान्ते साध्यवैकल्यम् । कुतः ? अङ्गित्वानुपपत्तेर्जीवस्याङ्गपदोक्तश रीरसम्बन्धित्वायोगात् । सोऽपि कुतः ? ज्ञशक्तिवियोगात् अङ्गसम्ब न्धेन ज्ञस्य ज्ञातुर्जीवस्य सामर्थ्यायोगादिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) एवं प्रत्येकं दूषितान्यनीश्वरमतानि सामान्यविशेषेणापि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—विप्रतिषेधादिति ॥ श्रुतीत्यादिना विप्रतिषेधप्रतियोगिनो दर्शिताः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दा र्थ उक्तः । न केवलं उक्तयुक्तिविरुद्धत्वादिति चकारार्थः । अनीश्वरे ति । न विद्यते ईश्वरो यस्मिन्निति तत्तथोक्तम् । तच्च तन्मतं चेतिवि ग्रहः । अनीश्वराणां वादिनां मतमिति वा । मतमिति समुदायेकवच नम् । असमञ्जसमयुक्तमित्यर्थः ॥ .(४) कुतोऽनीश्वरमतानां श्रुत्यादिविरुद्धत्वमित्यत आह—श्रुतय
[ अधि - ६. - सू - ११. ] दीपिकासहितम्. ४८९ वदन्ति तद्विरुद्धं यो वदेत्तस्मान्न चाधमः ॥ इति [ पाद्मे ॥ १० ॥ —::— ६. अधिकरणम् ॥ ( १ ) परमाण्वारम्भवादमपाकरोति । ( २ ) सू—ॐ ॥ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ॐ ॥ ११ ॥ इति । चशब्दौ मिथः समुच्चयार्थौ । ईश्वरमेव परं स्वतन्त्रं वदन्तीत्य न्वयः । युक्तिषु वदन्तीत्यस्य साधयन्तीत्यर्थः—श्रुतयः–‘द्यावाभूमी जनयन्’ (श्वे. ३ - ३.) ‘यतो वा’ (तै. ३ - १.) ‘यस्सर्वज्ञः’ (मुं.१-१-९.) इत्याद्याः । स्मृतयः—‘उत्पत्ति स्थितिसंहाराः’ ‘स्र ष्टा पाता तथैवात्ता’ इत्याद्याः ।—युक्तयः—‘विमतं सकर्तृकं कार्यत्वात्’ ‘चित्कैक्ये केनचिन्नीयते अस्वन्त्रत्वात्’ इत्याद्याः । ‘तद्विरुद्धं’ श्रुतिस्मृ तियुक्तिविरुद्धं प्रकृतिस्वातन्त्र्यादिरूपमर्थमिति शेषः । यः पुरुषः त स्मादन्यः‘अधमः’अयोग्येषु अधरो नास्तीत्यर्थः।नैतावता सेश्वर साङ्ख्ये न सन्तोष्टव्यम् । यतः श्रुतयः स्मृतयश्चेति स्मृतिरीश्वरं परं वदती त्यनेन तमपि निराह । इति पाद्म इत्यनन्तरं वचनादिति शेषः । अस्य श्रुत्यादिविरुद्धत्वाद्विरुद्धतावगमादिति पूर्वेणान्वयः ॥ ५ ॥ इति अन्यथाऽनुमित्यधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यमाह–परमाण्विति ॥ परमाणुभ्यो जगदा रम्भः जगदुत्पत्तिरिति वादिनां वैशेषिकादीनां ‘वादं’मतं ‘अपाकरोति’ निराकरोत्यस्मिन्नधिकरणे सूत्रकृदित्यर्थः । आरम्भकेतिपाठे परमाण वः जगदारम्भकाः तत्कारणानीति वादमित्यर्थः ॥ ( २ ) सूत्रे दृष्टान्तोक्त्या लब्धपरपक्षप्रतिक्षेपकानुमाने साध्यसम र्पकेण ह्रस्वपरिमण्डलाभ्यामित्यंशेनैव परम*विरोधादीश्वरस्यानन्त गुणत्वमयुक्तमिति पूर्वपक्षस्य सूचनात्तद्विवरणेनैव पूर्वपक्षः प्रदर्शि तो भवतीत्याशयेन तमनुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याच ष्टे–महदिति ॥ अत्र महत्त्वाहित्याद्युक्त्या सूत्रे महदित्यादिनिर्देशो भावप्रधानः । ‘कारणबाहुल्यात्कारणमहत्त्वात् प्रचयविशेषाच्च मह त् ’ इति काणादसूत्रानुसारेण तथा निर्देशः । तत्र तस्येत्यस्य प्राथि ] ६२
४९० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते एवं ह्रस्वत्वा त्पारिमण्डल्याच्चोत्पद्येत । ( ३ ) वाशब्दादन्यथैतयोरपि न स्यात् विशेषकारणाभावात्॥११॥ ( ४ ) सू—ॐ॥ उभयथाऽपि न कर्मातस्तदभावः ॥ ॐ ॥ १२ ॥ कत्वात् । ह्रस्वपरिमण्डलाभ्यामिति पञ्चमीसमभिव्याहारात्पञ्चम्य- न्ताद्वतिः। सकाशादित्यध्याहारेण षष्ठ्यन्ताद्वा वतिः। उत्पद्यते उत्पद्ये- त इति च शेषः कार्य इत्युक्तम् भवति । चः समुच्चये । तथा च वैशे- षिकमते नैयायिकमते च यथा समवायिकारणीभूतत्र्यणुकचतुरणु- कादिगतात् महत्त्वारूयपरिमाणाद्दीर्घत्वाख्याच्चतुरणुकपञ्चाणुकादिग- तं परिमाणाख्यकार्यमुत्पद्यते तथा द्वयणुकगतह्रस्वत्वात् परमाणुगता- त्पारिमाण्डल्याख्याच्च परिमाणात्त्र्यणुकद्वयणुकगतं परिमाणाख्यं कार्य- मुत्पद्येत इत्यर्थः । अनेन द्वयणुकपरमाणुपरिमाणं परिमाणान्तरारम्भ- कं द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकादिपरिमाणवदिति वै- शेषिकादिमतस्य प्रतिकूलानुमानमुपन्यस्तं भवति ॥ ( ३ ) त्र्यणुकादिपरिमाणस्यारम्भकत्वेऽपि द्वयणुकादिगतस्यैतन्मा- स्तु को दोषः। त्र्यणुकादिगतपरिमाणारम्भस्तु द्वयणुकादिगतसङ्ख्य- यैव सम्भवतीत्यप्रयोजकोऽयं हेतुरित्याशङ्कां परिहरद्वाशब्दं व्याख्या- ति—वाशब्दादिति ॥ अस्य विशेषकारणाभावादित्यनन्तरं अध्याहृते- न 'इति सूत्रकृता सूचितं' इत्यनेनान्वयः । किं सूचितमित्यतस्तदा- ह—अन्यथेति । यद्युभयोः कारणगतपरिमाणत्वाविशेषेऽपि ह्रस्वत्वा- देर्न कार्यमुत्पद्यते । तर्ह्येतयोर्महत्त्वदीर्घत्वयोरपि न स्यादित्यर्थः । त- त्कार्यारम्भकत्वमिति शेषो वा,सकाशादिति शेषेण कार्यमित्यनेन वा- ऽस्यान्वयः । न केवलं तयोरिति समुच्चयेऽपिः । ननु विशेषकारणे स- ति प्रतिबन्दीमात्रं न बाधकमित्यतस्तदेवासिद्धमित्याह—विशेषेति । पक्षदृष्टान्तयोर्वैषम्यसाधकरूपस्य वा तदनङ्गीकारे बाधकरूपस्यवा नियामकविशेषस्याभावात् । भावे वा स वक्तव्यः स्यादित्यर्थः । तद्- भावस्तु टीकायामुपपादितः। तस्मादुपपत्तिविरुद्धत्वात् न तयोरसम- वायिकारणत्वं किं त्वेतयोरेवेतिवैशेषिकाद्युक्तमसमञ्जसमेवेति न त- द्विरोध ईश्वरानन्तगुणत्वस्येति भावः ॥ ( ४ ) एवं वैशेषिकादिमते महत्त्वदीर्घत्वादेरसमवायिकारणत्वस्य
[ अधि - ६. सू - १२. ] दीपिकासाहितम्. ४९१ ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावा चेदानीमपि तत्स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभा वात्तत्कार्याभावः । (५) वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपप ण्डनरीत्या समवायिकारणमात्रं निरस्तं भवतीत्यभिप्रेत्य निमित्तकारण मप्येवं निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—उभयथाऽपीति ॥ ईश्वरेच्छा या इति। कार्यनिमित्तत्वेन पराभ्युपगतायाः ईश्वरेच्छायाः 'नित्यत्वे' स दातनत्वे 'तद्भावेऽपि' ईश्वरेच्छासद्भावेऽपि प्रलये 'परमाणुकर्माभावात्' तच्चेष्टाभावादन्वयव्यभिचारेण तस्यास्तत्कारणत्वायोगादिदानीं प्रल यादन्यस्मिन् अभिमतकालेऽपि ईश्वरेच्छायाः सकाशात्परमाणुकर्म 'न स्यात्'नोत्पद्येतेत्यर्थः । ततः किमित्यत आह—अत इति । अत इत्यस्य व्याख्यानं परमाण्विति । स्यादिति वर्तते । तदिति चेष्टा परामृश्यते । कार्यशब्दः प्रकृतद्व्यणुकादिकार्यपरः। एवं सौत्रस्तच्छब्दोऽपि। अनित्य त्व इत्यत्रेश्वरेच्छायाः इत्यनुवर्तते । तदिति तन्त्रम् । तथा च तस्याः ईश्वरेच्छायाः अनित्यत्वे तस्या निमित्तकारणाभावादत एव कर्मकार णीभूताया ईश्वरेच्छाया अभावादित्यर्थः । ततः किमित्यतः तदुत्तरत्वे न अत इत्याद्यत्रापि संयोज्यम् । अत्र अत इत्यस्येश्वरेच्छात् इत्यर्थः । तत्कार्याभाव इत्यस्य तच्च तत्कार्यं चेति विग्रहेणेश्वरेच्छालक्षणका र्याभावः, तस्य कार्यमिति विग्रहेण परमाणुक्रियाजन्यद्व्यणुकादिका र्याभावः स्यादित्यर्थः । नित्यत्वेऽनित्यत्वे इत्युक्तोभयथेत्येतत् दूष्यत्वेनो पस्थितेश्वरेच्छानित्यत्वानित्यत्वाख्यप्रकारद्वयपरामर्शकमित्यभिप्रेति। तद्भावेऽपीदानीमपीत्यनेनापेरर्थः उक्तः। परमाणुकर्माभावादित्यनेन न कर्मेत्येतद्यतश्शब्दशिरस्कतया व्याख्यातम् । कर्मशब्दस्यावृत्त्यभिप्रा येण स्यादित्यत्र कर्तृनुक्तिः । अत इत्यादेरेवावृत्त्यभिप्रायेणान्ते अर्थ उक्तः।तथा च अतोऽप्यसमञ्जसं वैशेषिकायुक्तमितिभावः। कार्याभाव इत्यनन्तरं यत इति शेषः । अस्योत्तरत्रान्वयः ॥ (५) ईश्वरेच्छाया निमित्तत्वनित्यत्वयोरभ्युपगमादाद्यपक्षोक्तदू षणं भवतामपि सममित्यत आह—वैदिकेति ॥ वैदिकैर्वेदाधिकृतैः त त्प्रामाण्यज्ञैरभ्युपगतो वैदिकः वेदगम्यो वा ईश्वरो यस्य तस्येत्यर्थः ।
४९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] द्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ १२ ॥ पक्ष इति शेषः । तेन विशेषार्थकतुशब्दस्यान्वयः । तेनेदं समाधानं परपक्षेऽपीति ज्ञापितम्। यद्वा—वैदिकश्वासावीश्वरश्चेति कर्मधारयः । अस्य च सर्वशक्तित्वोक्तेरित्यनेनान्वयः । तुशब्दः शङ्कापरिहारद्योत कः । तेन नायमस्मत्पक्षे दोष इति सूच्यते । अत्राद्यार्थो यस्य वेदग म्य ईश्वरस्तत्पक्षे इति तत्त्वप्रदीपे, तेनानुमानमात्रेणेश्वरमभ्युपगच्छते ति टीकायां चोक्तः । द्वितीयस्तु—ईश्वराचिन्त्यशक्तीति टीकोक्त्या तस्य वेदेनैव सर्वशक्तित्वोक्तेरिति तत्त्वप्रदीपोक्त्या च ज्ञापितः । त था चेत्थं योजना—वैदिकेश्वरस्य पक्षे तु नायं दोषः । कुतः ? यतः सत्यामपीश्वरेच्छायां सर्वं कार्यानुत्पादादिकं ईश्वराचिन्त्यशक्तित ए वोपपद्यते। साऽपि तस्य कुतः? 'परास्य'इत्यादि वेदेनैवेश्वरस्य सर्वविष यकशक्तिमत्त्वोक्तेरिति न तत्र मानान्तरं मार्गणीयमित्येवकारार्थः । न च परपक्षे सममेतत् । तस्यानुमानमात्रगम्येश्वरत्वेन वैदिकगम्येश्वर त्वाभावादिति तुशब्दाभिप्रायः । इतश्च नायं दोषोऽस्मत्पक्ष इत्याह— स्वत इति । नास्मत्पक्षे प्रलये व्यभिचारदोषः । तदानीमीश्वरेच्छा रूपनिमित्तसत्त्वेऽपि कालाख्यनिमित्तान्तरस्याभावेन कार्याभावस्यान्य थोपपत्तेः । न च प्रलये सोऽप्यस्तीति वाच्यम् । तदा सृष्टिकालाख्य कालविशेषस्याभावात्तस्यैव सृष्टिकारणत्वात् । न चैतत्परमतेऽपि स ममिति वाच्यम् । अस्माभिः कालं स्वत एव सृष्ट्याद्युपाधिमन्तरेणैव विशेषाणां स्वाभाविकसृष्टिकालत्वादिधर्माणामङ्गीकृतत्वात् । परे ण तु सृष्ट्यवच्छिन्नः कालः सृष्टिकाल इति सृष्ट्याद्युपाधित एव काले विशेषाभ्युपगमनानौपाधिकविशेषानभ्युपगमादित्यपस्कारेण वाक्य योजना । ननु सत्यामपीश्वरेच्छायां सृष्टिकालाभावेन कार्याभावाभ्यु पगमे सा मोघा स्यादित्यतोऽप्याह—स्वत एवेति । एवकारो भिन्नक्र मः । इच्छायाः इति शेषः । तथा च नैष दोषोऽस्माभिर्नित्याया अपी श्वरेच्छायाः 'काले एव' सृष्टिकाले एव 'स्वतः' अनौपाधिकानां सृ ष्टिविषयत्वादिविशेषाणामाविर्भावाभ्युपगमान्नैवं परेण वक्तुं शक्यम्, तेन इच्छायामनौपाधिकविशेषानभ्युपगमादित्यर्थः। यद्वा-उभयथाऽपि न कर्मेत्यस्य कालस्य नित्यत्वेऽनित्यत्वे चोकरीत्या न कर्मेति प्रकारे णापि व्याख्यानसम्भवात् कालस्य निमित्तकारणत्वमीश्वरेच्छानिमित्त कारणत्वनिरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहर
[ अधि - ६. सू - १३. ] दीपिकासहितम्. ४९३ ( ६) सू- ॐ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३॥ कार्यकारणादीनां समवायसम्बन्धाङ्गीकारात्तस्य च ति-स्वत एवेति । योजना तु-नायं दोषोऽस्मत्पक्षे । कुतः? स्वतएव स्वसृ ष्ट्याद्युपाधिमन्तरेणैव अनित्ये काले सृष्टिकालादिविशेषोत्पत्त्यङ्गी कारात्तस्यैव निमित्तत्वात् । न चैवं परेण वक्तुं शक्यम् । अस्माभिः काले विशेषाणां सृष्टिकालादीनां स्वतएव स्वाभाविकत्वस्यैव अ भ्युपगमात् परेण तु सृष्ट्याद्युपाधिनिबन्धनत्वाभ्युपगतेरिति । न च का लस्य कार्यमात्रनिमित्तकारणत्वात्सृष्टिकालाद्युत्पत्त्यसम्भवः । अधिक रणतयैव कालस्य सर्वकार्यकारणत्वेन सृष्टिकालादिकार्ये चात्माश्रय प्रसङ्गेन तत्र तस्याधिकरणतया कारणत्वायोगादिति वाच्यम् । का लातिरिक्तकार्येष्वेव कालस्याधिकरणतया कारणत्वाभ्युपगमात् । का ले तु तथा कारणत्वानभ्युपगमात् । परन्तु - ईश्वरोद्देश्यत्वेनाधारः कालोऽपेक्षितः । स च सृज्य एव । ईश्वरोद्देशश्च स कालस्तदैव स्यां दित्येवंरूपः । इच्छाविषयत्वरूपोद्देश्यत्वं च न प्राक्सत्त्वापेक्षम् । न हि सृज्यस्य प्राक् सत्त्वमस्ति । एकस्यैवाधिकरणताधिकर्त्तव्यताच 'ईशोद्देशश्च कालश्च स्वगत एव' इति श्रुत्यादिसिद्धविशेषबलाच्चोपप द्यत इति न कश्चिद्दोषः । अथ वा-उभयथेत्यस्यादृष्टनित्यत्वेऽनित्यत्वे चेति व्याख्यानसम्भवाददृष्टस्य निमित्तत्वं ईश्वरेच्छाकालनिमित्तत्व निरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहरति-स्वत एवे ति । काल इत्यावर्तते । अदृष्ट इति शेषः । तथा च नायमस्मत्पक्षे दो षः। कुतः? अस्माभिः काले प्रलयकाले सत्येवादृष्टे काले सृष्ट्यादिकाले एव समुद्बोधविशेषाभ्युपगमात् । न चैतदन्यमते सम्भवति । अस्मा भिः काले स्वत एव स्वाभाविकानामेव विशेषाणामङ्गीकारात् । परे ण च तदनङ्गीकारादिति योजना ॥ ( ६ ) एवं वैशेषिकादिपक्षे निमित्तकारणासम्भवं दर्शयित्वा सम वायिकारणमपि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-समवायेति ॥ अत्र कार्यकारणपदे अवयव्यवयवपरे । आदिपदेनानित्यगुणक्रियातद्वतां सङ्ग्रहः । अथ वा कार्यकारणपदेनैषां सङ्ग्रहः । आदिपदेन नित्यगुणगु णिजातिव्यक्तिविशेषविशेषिणां प्रसङ्गाद्ग्रहणम् । भिन्नत्वाङ्गीकारादि त्यपि सम्बध्यते । ल्यब्लोपनिमित्ता पञ्चमी । तथा च द्व्यणुकादिका
४९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] भिन्नत्वसाम्यात्समवायान्तरौपेक्षायामनवस्थितिः॥ १३ ॥ ( ७ ) न च तत्रप्रमाणम् । प्रथमसम्बन्धासिद्ध्यैव च तदसि- द्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ १३ ॥ र्याणां परमाण्वादिकारणानां च परस्परभिन्नत्वमुपेत्य समवायसम्ब- न्धाङ्गीकारादित्यर्थः । अस्य हेतोः सूत्रे पूर्वस्मादनुषक्तेन नञान्वयः । न समवायाङ्गीकारो युक्तः । अत एव न समवायिकारणत्वं युक्तमित्य- र्थः । सम्बन्धेत्युक्त्या समवायशब्दस्य समावेशार्थत्वभ्रमो वारितः । अस्य तन्मतमसमञ्जसमित्यध्याहृतेनान्वयः । ननु भिन्नयोरवयवावय- विभावविशेषणविशेष्यभावोपपत्तये समवायसम्बन्धोऽङ्गीकार्य एव । अतस्तदभ्युपगमे को दोष इत्यतः प्रवृत्तं साम्यादनवस्थितेरित्यंशं सा- मर्थ्यप्रकारप्रदर्शनपूर्वकं व्याचष्टे—तस्य चेति । समवायस्यापीत्य- र्थः । न केवलं कार्यकारणादीनामित्यपेरर्थः । चशब्दस्साम्याच्चेति च सम्बध्यते । सूत्रे तु चकारो यथाश्रुतो भिन्नक्रमोपि हेतुसमुच्चयार्थः । अस्तु साम्यं, ततः को दोष इत्यत आह—समवायेति । तस्येत्येतदावृ- त्तं विपरिणतमत्रापि सम्बध्यते । तस्य समवायस्य ताभ्यां समवा- यिभ्यां भिन्नत्वसाम्यात् भिन्नस्य च तस्य विशेषणविशेष्यभावानुप- पत्तये ताभ्यां समवायसम्बन्धाङ्गीकारात् तस्यापि समवायान्तरस्य तेन समवायान्तरेण भिन्नत्वसाम्यात् भिन्नस्य तस्य समवायान्तरस्य तेन विशेषणविशेष्यभावानुपपत्तये तेन समवायान्तरेण समवायान्त- रापेक्षया निमित्तभूतयाऽनवस्थितिः स्यादिति योजना । अनवस्थिति- रित्यनन्तरं यत इति शेषः । अन्यथा सूत्रविसंवादः स्यात् । अस्या- प्युत्तरत्रान्वयः । अत एव सूत्रे हेतुसमुच्चयार्थश्चशब्दः ॥ ( ७ ) प्रामाणिकत्वान्नानवस्थादोषस्स्यादित्यत आह—न चेति ॥ तत्रतत्र समवायानन्त्य इत्यर्थः । बीजाङ्कुरादिवत् मूलक्षयाभावान्नान- वस्था दूषणमित्यत आह—प्रथमेति । एवकारो भिन्नक्रमः कैमुत्यद्यो- तकः । तथा च मूलभूतावयवावयव्यादिसम्बन्धस्यैवासिद्ध्या तदसि- द्धिः । तेषां प्रथमसम्बन्धसिद्ध्यर्थे अभ्युपगन्तव्यानां सम्बन्धान्तराणां सुतरामसिद्धिरित्यर्थः । तथा चेत्थंयोजना । यतस्तत्र प्रमाणं नास्ति अतः प्रथमसंबन्धस्यैवासिद्ध्या तदसिद्धिः । यतएवमतोस्त्येव मूलक्षति- रिति भवत्येवानवस्था दूषणमितिमाऽस्तु तर्हि समवायपरंपरा, प्रथम- समवाय एव स्वनिर्वाहकोऽस्त्वित्यत आह—स्वनिर्वाहकत्वे इति । त
[ अधि - ६. - सू - १४. ] दीपिकासहितम्. ४९५ (८) सू—ॐ ॥ नित्यमेव च भावात् ॥ ॐ ॥ १४ ॥ नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनि त्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदा चित् ॥ १४ ॥ स्येत्यनुवर्तते । तथा च तस्य समवायस्य स्वनिर्वाहकत्वे स्वस्मिन् स्वयमेव विशेषणविशेष्यभावबुद्धिजनकत्वेऽङ्गीकृते समवाय एव 'न स्यात्' न सिद्धयेदित्यर्थः। गुणगुण्यादिभेदं तत्समवायं चाङ्गीकृत्य तस्य स्वनिर्वाहकत्वकल्पनापेक्षया लाघवेन गुणगुण्यादेरभेदमङ्गीकृत्य ए कस्य द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तौ समवायवैयर्थ्यादिति भावः॥ (८) एवं परपक्षे कारणत्रयनिरासेन सृष्टिं निरस्य प्रलयनिरासा र्थं प्रवृत्तं सूत्रं पठित्वा व्याचष्टे—नित्यमिति ॥ नित्यत्वादिति । सदा तनत्वादित्यर्थः । 'सदातनं सत्यमिति नित्यमित्युच्यते बुधैः' इति व चनात् । अनेन नित्यमित्यस्य भावादिति हेतावप्यन्वयो दर्शितः । च शब्दः परमाणूनां चेत्यन्वितो न केवलं समवायिकारणपरमाणूनां, कि न्तु निमित्तकारणेश्वरेच्छादेश्चेति समुच्चयार्थः । 'नित्यमेव' नित्यदैव कार्यं स्यादित्यनेन नित्यमित्यस्य साध्येऽप्यन्वयः । कार्यमित्यस्याध्या हारश्च दर्शितः । न तु परपक्षे कदाचित्प्रलये इत्येवकारार्थः । समवाय सूत्रात्समवायस्येतिपदं बुद्ध्या विवेकेनानुवर्त्य समवायस्य नित्यं भावा न्नित्यं नित्यदोत्पत्तिः स्यादिति सूत्रस्यार्थान्तरमभिप्रेत्याह—समवा यस्येति । नित्यत्वादित्यनुवर्तते । सर्वं कार्यं नित्यमेव नित्यं जनिमदेव स्यादित्येवमत्रापाद्यस्यार्थः । न तु कादाचित्कजनिमदित्येवकारार्थः । न केवलं परमाण्वादीनामिति चशब्दार्थः । ततः किमित्यतो भावादि त्यनेनोक्तं हेतुमाह—तस्यैवेति । समवायस्यैवेत्यर्थः । प्रागसतस्सत्तास मवाय एव जनिरिति परैरङ्गीकारादिति भावः । न तु विकारादेरित्ये वकारार्थः । जनित्वाङ्गीकारादित्यनेन भावस्सद्भावः प्रजननं तद्रूपत्वा ङ्गीकारादिति हेतोरर्थान्तरमुक्तं भवति । अनेन सौत्रश्चशब्दः कारण समुच्चयार्थः । समवायसमुच्चयार्थश्चेति सूचितम् । केचित्तु-परपक्षे सृ ष्टिप्रलयनिराससमुच्चये चशब्दः किञ्चेत्यर्थक इत्याहुः । स्यादित्यनन्त रं तत इति शेषः । अस्याप्युक्तरीत्यान्वयः । समवायिकारणादिसत्त्वे ऽपि कार्योत्पत्त्युपरमे बाधकमाह—अन्यथेति । सकलकारणसत्त्वेऽपि
४९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ९ ) सू—ॐ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ ॐ ॥ १५ ॥ रूपादिमत्त्वाच्च परमाणूनामनित्यत्वं तथा दृष्टत्वाल्लोके॥१५॥ ( १० ) सू—ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥ १६ ॥ कार्योत्पादोपरम इत्यर्थः । न कदाचिदिति । कदाऽपि तस्मात्कार्योत्प त्तिर्न स्यादित्यर्थः । सति पुष्कलकारणे कार्यानुत्पादे तस्य तत्कारण त्वायोगादिति भावः ॥ ( ९ ) एवं परमाणूनां नित्यत्वमभ्युपेत्य तदारम्भकवादो दूषितः। इदानीं नित्यत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—रूपादीति ॥ भौति करूपरसगन्धस्पर्शवत्त्वादिति हेत्वर्थः । तेन नेश्वरादौ व्यभिचारः । नित्यमिति पूर्वसूत्रे प्रकृताः परमाणवोऽत्र पक्षीभूता इत्याह—परमाणू नामिति । पार्थिवाप्यतैजसपरमाणूनामित्यर्थः । साध्यप्रदर्शकस्य विपर्ययशब्दस्यार्थमाह—अनित्यत्वमिति । तस्यैव स्वाभिमतप्रकृतनि त्यत्वाभावरूपत्वादित्यर्थः । स्याद्यत इति शेषः । अस्योत्तरत्रान्वयः । सूत्रे विपर्ययश्चेति सम्बन्धः।तदनुसारेण भाष्येऽप्यनित्यत्वं चेति।उभय त्र चशब्दो भिन्नक्रमः । तदर्थस्तु सावयवत्वं, चकारात्सावयवत्त्वं गृ ह्यत इति तत्त्वप्रदीपोक्तेः । अतएव टीकायां अवयवित्वस्य द्रव्यत्वरू पपक्षधर्मावच्छिन्नसाध्यव्यापकस्योपाधित्वमाशङ्क्य रूपादिमत्त्वादेव तत्सिद्धेरित्यनेन पक्ष एव साधनव्यापकतोक्ता । ननु रूपादिमत्त्वेऽपि अनित्यत्वं कुत इत्यतः प्रवृत्तं दर्शनादिति सूत्रखण्डं व्याचष्टे—तथे ति । लोके रूपादिमति घटादावनित्यत्वस्य च दृष्टत्वादित्यर्थः । तथा चात्र व्याप्तिसद्भावान्नाप्रयोजकताऽऽशङ्केति भावः ॥ ( १०) ननु रूपादिमत्त्वेऽपि परमाणूनां नित्यत्वं किं न स्यात्,अस्तु वा नित्यत्वं किं बाधकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—उभ यथा चेति ॥ परमाणूनां 'नित्यत्वे' अनित्यत्वाभावे अनित्यत्व इत्यनेन सूत्रे उभयथेत्येतन्नित्यमेव विपर्यय इतिप्रकृतनित्यत्वानित्यत्वरूपप क्षद्वयपरामर्शकमिति व्याख्यातम् । परमाणूनामित्यतः प्राग्रूपादिमता मपीत्युपस्कार्यम् । दोषादित्युक्तदोषमाद्यपक्षे संयोजयति—तद्धी ति । परमाणुवत्सर्वेषां घटादीनामपि नित्यत्वं स्यात् । अनित्यत्वं न स्यादित्यर्थः । ननु घटादेरवयवित्वात् कृतकत्वाच्च भवत्यनित्यत्वं, न परमाणूनां, तदभावात् । अतो रूपादिमत्त्वाविशेषेऽपि विशेषप्रमाणब लादस्तु घटादेरनित्यत्वं न परमाणूनामिति वैषम्यमाशङ्क्याह—विशे
[ अधि-६. सू-१७. ] दीपिका सहितम्. ४९७ नित्यत्वे परमाणूनां तद्गतसर्वंनित्यत्वं स्यात् । विशेष प्रमाणाभावात् । अनित्यत्वे कारणाभावात्तदुत्पत्त्य भावः ॥ १६ ॥ ( ११ ) सू—ॐ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ ॐ ॥ १७ ॥ षेति । परमाणूनामनित्यत्वाभावसाधकस्यावयवित्वकृतकत्वाभावरू पस्य विशेषप्रमाणत्वेन पराभिमतस्य पक्षीभूतेषु परमाणुष्वभावादि त्यर्थः । रूपादिमत्त्वादेव तत्सिद्धेरिति भावः। अनित्यत्वपक्षमनूद्य तत्र दोषादित्युक्तदोषे योजयति—अनित्यत्व इति । परमाणूनामिति वर्तते। तथा च परमाणूनामनित्यत्वे तेषां कारणाभावात्समवायिकारणाभा वादुत्पत्त्यभावः स्यात् । यतएवमतो द्व्यणुकादेः समवायिकारणाभा वादुत्पत्तेरप्यभावः स्यात् परपक्षे, अतः सदुष्टः अतः न तद्विरोधः प्रकृ तार्थस्येत्यावृत्त्या योजना । अत्र सूत्रे चशब्दोऽप्यर्थे । न केवलमेकप क्षे दोषः, किन्तु पक्षद्वयेऽपीति समुच्चयार्थः । अथ वा—न केवलं 'उभयथापि न कर्म' इत्यत्र पक्षद्वयोक्तदोषात्, किन्त्वपसिद्धान्तदोषा च्चेति समुच्चये चशब्दः । अन्यथा परमाणु नित्यत्वे नित्यमेव कार्यं स्यादिति दोषस्योक्तत्वात्, अनित्यत्वेऽपीश्वरेच्छान्यायेन मूलकारणा भावापसिद्धान्तयोरर्थसिद्धत्वात्, उक्तार्थाभ्यामुभयत्र दोषावगमा दिदं सूत्रं व्यर्थमेव स्यात् । अतएव तत्त्वप्रदीपे—प्रथमं श्रुत्यर्थाभ्या मवगतदोषद्वयपरतयेदं सूत्रं व्याख्यायानन्तरं अथवोभयत्रापसिद्धा न्ताख्यं दूषणान्तरमुच्यत इति पक्षान्तरपरतया व्याख्यातम् । न च व्य वधानाद्योगः। यतोऽत्र निमित्तं 'एवं परमाणूनाम्' इत्यवतारिकाटीका यां सङ्गतिविशेषाख्यं पूर्वसूत्रस्याभिहितं, तथास्य सूत्रस्य ननु रूपा दिमत्त्वेपीत्यनेन विशेषाशङ्कारूपा सङ्गतिरपि तत्त्वप्रदीपटीकयोः प्र दर्शितेति ध्येयम् ॥ ( ११ ) एवं प्रपञ्चेन दूषिते परमाण्वारम्भवादमप्रामाणिकत्वेनापि दूषयत्सूत्रं पठित्वा व्याचष्टे—अपरिग्रहाच्चेति ॥ श्रुतीति । श्रुतिस्मृत्य नुकूलत्वाभावात् तद्विरुद्धत्वाच्चेत्यर्थः। परमाण्वारम्भवादस्येति प्रकर णालभ्यते। न केवलं पूर्वोक्तहेतुभ्य इति चार्थः। अनेन पूर्वोक्तहेतूनाम नपेक्षेति साध्येनान्वयः इति सूचितम्। अत्र आद्यव्याख्याने सूत्रे अप रिग्रहादित्यस्य असूर्यं पश्या राजदारा इति वदसामर्थ्येऽपि समासं निर्मक्षिकमित्यादाविव अव्ययत्वं वा आश्रित्य श्रुत्यादिपरिग्रहाभावा ६३
४९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] श्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेन अनपेक्षता । ( १२ ) आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकाम् । इति च मोक्षधर्मे ॥ १७ ॥ ――:✻:―― ७. अधिकरणम् ॥ ( १ ) परमाणुपुञ्जवादिमतमपाकरोति । त तद्वानुकूल्याभावादित्यर्थः । द्वितीयव्याख्याने तु परिगृह्यत १.ते प- रिग्रहः न परिग्रहः अपरिग्रहः इति विग्रहः। नञश्च विरुद्धार्थता । भां- वप्रधाननिर्देशश्च अयमिति ज्ञातव्यं, प्रधानकारणत्ववादापेक्षया अति- शयेनेत्यनेन अत्यन्तशब्दस्य अनपेक्षता अनादरणीयतेति। अनेन अनपे- क्षेत्यस्यच अर्थ उक्तः। सूत्रे न अपेक्षा अनपेक्षेति विग्रहः। शिष्टैः कार्ये- तिशेषः। परमाण्वारंभाद् इति च प्रकरणाल्लभ्यते ॥ ( १२ ) यद्वादि श्रुतिस्मृतिविरुद्धत्वादिति तत्स्मृतिसिद्धमित्या- ह-आन्वीक्षिकीमिति ॥ इदं च-‘ इन्द्रः सृगालरूपेण बभाषे कश्यमा- नसं ’ इति पूर्ववाक्ये प्रकृतस्य सृगालरूपस्य इन्द्रस्य कंचित्प्रति वा- क्यम् । एतच्च ‘अहमासं पण्डितको हेतुको वेद निन्दकः’ इति पूर्वेण ‘तस्येयं फलनिष्पत्तिस्सृगालत्वं यतो मम’ इत्युत्तरेण वा- क्येन च व्याख्येयम् । तथा हि-यतः अहं ‘पण्डितकः’ कुत्सितो विद्वान् ‘हेतुकः’ शुष्कानुमानप्रामाण्यवादी अतएव स्वतर्कविरुद्धवेदपदोक्त- सदागमार्थनिन्दकश्च ‘आसम्’ अभूवम्, न केवलमेतावत्,किन्तु‘आन्वीक्ष- कीं’दृष्टवद्युत्प्रेक्षारूपां ‘निरर्थकां’ परमात्मोत्कर्षाबोधकत्वान्निर्विषयां मो- क्षासाधकत्वान्निष्प्रयोजनां तर्कविद्यामनुरक्तः तत्रातीवासक्तोऽभवम्। अतस्तस्यानुरागस्येदं सृगालत्वं फलरूपमिति । अत्रेन्द्रेण तर्कविद्या- नुरागस्य जम्बुकजन्महेतुत्वोक्त्या वेदनिन्दक इत्युक्त्या च तर्कवि- द Dyारूपपरमाण्वारम्भवादस्य ‘ आत्मन आकाशः’( तै. १ - २. )‘ उ- त्पत्तिस्थितिसंहाराः’ इत्यादिश्रुतिस्मृतिविरुद्धत्वं ज्ञायत इति न हेत्व- सिद्धिः । मोक्षधर्म इत्यस्य श्रुत्यादिविरुद्धत्वं उक्तमिति अध्याहृते- नान्वयः ॥ ६ ॥ ॥ इति वैशेषिकाधिकरणम् ॥ ―――― ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति―परमाणुपुञ्जेति ॥ अत्राधि-
[ अधि - ७. सू - १८. ] दीपिकासाहितम्. ४९९ ( २ ) सू—ॐ ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ ॐ ॥ १८ ॥ समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्यो- न्याश्रयत्वात्तदप्राप्तिः । अन्यथा सर्वदा समुदायस- त्त्वं स्यात् ॥ १८ ॥ करणे पाषण्डप्रभेदेषु वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदेन चतुर्विधेषु सौगतेषु मध्ये परमाणुसमुदाय एव गोघटादिबोधबोध्यो न त्ववयवी नाम तदतिरिक्तोऽस्तीति वादिनां वैभाषिकानां सौत्रान्ति- कानां च मतं निराकरोति सूत्रकृदित्यर्थः ॥ ( २ ) अत्र सूत्रव्याख्यानेनैव पूर्वपक्षः स्फुटीभविष्यतीत्यभिप्रेत्य सि- द्धान्तयत्सूत्रं पठित्वा तत्र समुदाय इति सप्तम्यन्तपदस्योभयपदार्थ- प्रतियोगिना एकहेतुके इत्यध्याहृतपदेनान्वयमभिप्रेत्य प्रथममपिश- ब्दलब्धपक्षान्तरं प्रतिषेधति—समुदायस्येति ॥ 'समुदायस्य' पर- माणुसमुदायस्य एकदेशसंयोगविशेषरूपस्य 'एकहेतुकत्वं' एकपर- माणुजन्यत्वमयुक्तमित्यर्थः । अस्मिन् साध्ये हेतुस्तु सूत्रे विरोध इत्य- ध्याहृतपदेन सूचितः एकस्मात्समुदाय इत्यस्य व्याहतेरित्येवंरूपो द्रष्टव्यः । इदानीं समुदाय उभय इति वाक्येन साक्षादुक्तं पक्षमनूद्य तत्र सूत्रकृदुक्तं दोषं योजयति—उभयेति । समुदाय इत्यस्ति । तथा च समुदाये उक्तरूपे 'उभयहेतुके' मिलितोभयहेतुके एकदेशस्थाने- कपरमाणुहेतुकेऽङ्गीकृतेऽपि 'तदप्राप्तिः' तस्य समुदायस्याप्राप्तिरनुपप- त्तिरेवेत्यर्थः । न केवलमेकहेतुक इत्यपिशब्दार्थः । कुतोऽप्राप्तिरित्यत- स्तत्र तस्मादिति व्यस्ततत्पदेनोक्तं हेतुं दर्शयति—अन्योन्येति । उभ- योरिति बुद्ध्या विवेकेन सम्बध्यते । तथा च मिलितानेकतः समुदाय- सिद्धिः समुदाये सति मिलितानेकत्वसिद्धिः इत्युभयोर्मिलितानेकत्व- समुदाययोः कार्यकारणयोः परस्पराश्रयभावापातादित्यर्थः । तदप्रा- प्तिः समुदायानुपपत्तिरित्यर्थः । इदानीमुभयहेतुक इत्यस्य विरलाने- कहेतुकेत्यर्थमुपेत्य तेनोक्तं पक्षान्तरमनूद्य दूषयति—अन्यथेति । समु- दायस्योक्तविधत्वमनङ्गीकृत्य नानादेशस्थानेकपरमाणुहेतुकत्वेऽङ्गीकृते इत्यर्थः । अत्र पक्षे समुदाय इत्यनेन अनेकत्वसङ्ख्या विवक्षिता । स- मुदायत्वं तेषामिति शेषः । तथा च सर्वदा सतां तेषां विरलानेकप- रमाणूनां सर्वदा समुदायत्वं तदुत्पादकत्वं स्यात् । ततश्च समुदाय- स्यापि सर्वदा सत्त्वं स्यात् । तथा च प्रलयाभ्युपगमविरोध इति योज-
५०० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - २. ] ( ३ ) सू—ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनि मित्तत्वात् ॥ ॐ ॥ १९ ॥ सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यव ना । समुदायस्येति पाठान्तरम् । यस्मादेवं समुदायस्याप्राप्ति- तस्मात्स एव गोघटादिबुद्धिवेद्यो न त्ववयवी कश्चिदस्तीति पक्षो न युक्त इति भावः ॥ ( ३ ) उक्तमाक्षिप्य समाधत्सूत्रं पठति—इतरेतरेति ॥ अत्र षष्ठ्य- न्ततया विपरिणतस्य समुदायस्येति पदस्य व्यवहार इत्यस्य वा अनु- वृत्तिः, इतरसहितं इतरत् इतरेतरत् तस्य प्रत्ययः द्वित्वाद्यपेक्षाबु- द्धिः इतरेतरप्रत्ययः। स निमित्तभूतो ययोर्वित्तिव्यवहारयोस्तावितरे- तरप्रत्ययाविति व्यधिकरणो बहुव्रीहिः। अतः 'अर्श आदिभ्यो ऽच्' विषयतासम्बन्धेन तद्वान्। यद्वा—इतरत् इतरत्र प्रत्ययः इदं चेदं चे- त्यपेक्षाबुद्धिः यस्य व्यवहारादेर्निमित्तभूतः स तथोक्तः । तस्य भाव- स्तत्त्वं, तस्मादिति विग्रहं चाभिप्रेत्य समुदायस्य विरलानेकहेतुक- त्वपक्षोक्तदोषोद्धाराय तत्र हेतुकथनार्थं प्रवृत्तमाक्षेपांशं तावद्व्याच- ष्टे—सर्वदेति। अपिर्यद्यपि तथापीत्यर्थे। नञावर्तते। योजना तु-यद्य- पि विरलानेकहेतुकः समुदायः सर्वदा विद्यमानो नित्य एव भवति, तथाऽपि न प्रलयानुपपत्तिदोषः।
हियत इति चेन्न । एकं कार्यमुत्पाद्य तस्यं विनष्टत्वा त्परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । ( ४ ) कारणे सति कार्य भवत्येवेति हि तस्य नियमः ॥ १९ ॥ न प्रवृत्तमुत्पत्तीति सौत्रहेतुं तात्पर्यतो व्याख्याति—एकमिति । 'तस्य' विरलानेकपरमाणुजन्यसमुदायस्य ' एकं ' एव ' कार्यमुत्पाद्य नष्टत्वा त् ' इत्यर्थः । तथा च प्रथमं विरलपरमाणूनां मिलितपरमाणूत्पादक त्वं मिलितानां च दर्शनं ततः इदं चेदं चेतिपरस्परापेक्षाप्रत्ययः, ततो व्यवहारादिः, तत्र द्रष्टा पुरुषः परमाणवश्च क्षणिकाः ते चैकमेव का र्यमुत्पाद्य नश्यन्तीत्यङ्गीकुर्वतां सौगतानां मते प्रथममेकस्य परमाणोर्द्र र्शनम् , अथ तत्रैव तस्यैवापेक्षा बुद्धिः अथ तत्रैव तस्यैव व्यवहारा दीति क्रमो न युज्यते । तन्मते सर्वेषां क्षणिकत्वेन दर्शनबुद्धिव्यवहा रादीनां एकविषयत्वस्यैकाधिकरणत्वस्य चायोगादिति भावः । अने नोत्पत्तिनिमित्तमात्रत्वादिति सूत्रशेषस्य परमाणूनामेककार्योत्पत्तावे व निमित्तत्वात् द्वितीयादिक्षणवृत्तिदर्शनापेक्षाबुद्ध्यादिरूपकार्यान्तरो त्पत्तावनििमित्तत्वात् तेषामेकं समुदायाख्यं कार्यमुत्पाद्य नष्टत्वात् पु नस्तेभ्यः कार्यान्तरोत्पत्त्ययोगादित्यर्थ उक्तो भवति ॥ (४) ननु विरलपरमाणुजन्यानां मिलितपरमाणूनां स्थायित्वम ङ्गीक्रियते । ततस्तद्विषये दर्शनापेक्षाबुद्धिव्यवहारा भवेयुरतो नोक्त दोष इत्यत आह-कारणे सतीति॥ हियतस्तस्य सौगतस्य नियमः। अ स्तीति शेषः । अस्यातस्तेषां स्थायित्वाभ्युपगमे प्रतिक्षणं कार्योत्पाद कत्वप्रसङ्गः। तथाचाल्पतरकालेऽप्येकैकस्मात्परमाणुपुञ्जात्मकाद्धटादने ककार्योत्पत्त्या कुलालशालापरिपूर्तिप्रसङ्ग इत्युपस्कृतवाक्येनान्वयः। यद्यपि क्षणिकत्वहानिरेव वक्तव्या, न तूक्तबाधकम् । तथापि क्षणिक त्वहानिरेव क्षणिकत्वाभ्युपगमे नियमाख्यकारणप्रदर्शनेनोक्ता वेदित व्या। अस्माभियमात्स्थायित्वाभ्युपगमे कुलालशालापरिपूर्तिप्रसङ्गा द्धि तैः क्षणिकत्वमभ्युपगतम् । अत्र तत्त्वप्रदीपे—इतिचेत्कार्यसम्भूति मात्रव्यावृत्तिकारणमित्यनुभाष्यदिशा द्वितीयसूत्रांशस्य कारणस्य स दृशकार्योत्पत्तावेव निमित्तत्वादित्यर्थमभिप्रेत्य तदनुसारेणैकं सदृशं कार्यमुत्पाद्य तस्य विनष्टत्वान्नापेक्षाप्रत्ययादिरूपविसदृशकार्योत्पत्ति र्युज्यते । कुत एतत् ? कारणे सति कार्यं भवत्येवेति तस्य नियमो, न पुनर्विशेषकार्यमपीति भाष्यस्याप्यर्थ उक्तः । न चैवं टीकायास्तद्वि
(५) सू—ॐ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ ॐ ॥ २० ॥ (६) कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्यो- त्पत्तिः ॥ २० ॥ (७) सू—ॐ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ ॐ ॥ २१ ॥ रोधः , सुधाविरोधश्चेति वाच्यम् । द्वितीयतृतीयसूत्रयोरर्थान्तरा- भिप्रायेण तत्प्रवृत्त्या विरोधाभावात् ॥ (५) एवं विरलपरमाणुभ्यो मिलितपरमाणूत्पत्तिमभ्युपेत्य व्यव- हाराद्यसम्भवो दर्शितः । अथ विसदृशकार्योत्पत्तिमपि निराकुर्वत्सूत्र- मुपन्यस्य व्याचष्टे—उत्तरेति ॥ कार्यशब्दः सदृशकार्यपरः । विषयस- प्तमीयम् । सामर्थ्यादिति शेषः । तथा च कारणस्य सदृशकार्यजनन एव सामर्थ्यादित्यर्थः । न तु विसदृशकार्योत्पत्तौ । अन्यथा घटात्पटो- त्पत्तिप्रसङ्गात् इत्येवशब्दार्थः । कार्यकारणपदाभ्यां उत्तरपूर्वशब्दौ व्याख्यातौ । कार्योत्पत्तावेव कारणस्य सामर्थ्यादिति हेत्वन्वययोग्यं सूत्रे नञनुवृत्त्या लब्धं साध्यं दर्शयति—नेति । विशेषेभ्यो विरलेभ्यः परमाणुभ्यो विशेषकार्योत्पत्तिः मिलितपरमाणुरूपविसदृशकार्योत्प- त्तिर्न युक्तेत्यर्थः । चशब्दो भिन्नक्रमेणात्राप्यन्वेति । न केवलं वित्ति- व्यवहारयोरसम्भव इति तदर्थः । एवेत्यनेन विशेषकार्योत्पत्तिश्चेत्यने- न च सौत्रचशब्दोऽवधारणार्थः समुच्चयार्थश्चेत्युक्तं भवति ॥ (६) ननु सदृशकार्यजनने समर्थमपि कारणं कार्यमुत्पाद्य पश्चा- त्तत्र वैसादृश्यमुत्पादयति, न चातिप्रसङ्गः । विशेषकार्योत्पत्तेरदृष्टा- धीनत्वादित्यतस्तत्रोत्तरत्वेनापि उत्तरोत्पाद इति समग्रसूत्रं योजय- ति—कार्येति ॥ अत्र पक्षे उत्तरोत्पाद इति सतिसप्तमी । निरोधाच्चे- त्यपिशब्दान्वयः। तथा च 'उत्तरोत्पादे' कार्योत्पत्तौ सत्यामेव 'पूर्वनि- रोधात्' पूर्वस्य कारणस्य विनाशाच्च नोक्तविशेषकार्योत्पत्तिर्युक्तेत्य- र्थः । अन्यथा पूर्वनिरोधात् पूर्वाचार्याङ्गीकृतक्षणिकत्वविरोधादिति चशब्दसूचितार्थः । तत्त्वप्रदीपे तु इतश्च न विशेषकार्योत्पत्तिरित्यव- तारितत्वात् चशब्दस्य पूर्वहेतुसमुच्चायकत्वमुक्तम् । अतएवैकं कार्य- मिति पूर्वहेतुव्याख्यानरूपं भाष्यमपि विशेषकार्योत्पत्तिनिरासकतया व्याख्यातम् ॥ (७) एवं विसदृशकार्योत्पत्तिनिरासेन व्यवहारादिकं पराकृत्ये- दानीं प्रतिक्षणकार्योत्पत्तिमेव निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—अस