भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

६६ रघुवंशमहाकाव्ये

तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि ।
पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ ४६ ॥

अन्वयः—हे मघवन् ! तत् महाक्रतोः अग्र्यम् अङ्गम् अमुम् तुरङ्गम प्रतिमोक्तुम् । ( हि ) श्रुतेः पथः दर्शयितारः ईश्वरा मलीमसाम् पद्धति न आददते ।

तदङ्गमिति। हे मघवन् ! तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमंगं साधनममुं तुरंगं प्रतिमोक्तुं प्रतिदातुमर्हसि । तथाहि । श्रुतेः पथः दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः । 'मलीमसंत तु मलिनं कच्छरं मलदूषितम्' इत्यमरः ।

भाषार्थ—इस लिए हे देवराज ! अश्वमेध के मुख्य साधनभूत इस घोड़े को छोड़ दीजिए; क्योंकि वे मार्ग प्रदर्शक बड़े लोग कुमार्ग नहीं चलते ॥४६॥

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ ४७ ॥

अन्वयः—इति रघुणा समीरितं प्रगल्भं वचः निशम्य दिवौकसाम् अधिपतिः सविस्मयः ( सन् ) रथं निवर्तयामास, उत्तरं च प्रतिवक्तुं प्रचक्रमे ।

इतीति । इति रघुणा समीरितं प्रगल्भं वच निशम्याकर्ण्य । दिवौकसः स्वर्गौकसः । 'दिवं स्वर्गोऽन्तरिक्षे च' इति विश्वः । तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः सन् । रथं निवर्तयास । उत्तरं च प्रतिवक्तुं प्रचक्रमे ।

भाषार्थ—इस प्रकार रघु के कहे हुए धृष्टतायुक्त वचन को सुनकर इन्द्र ने चकित होकर रथ लौटा दिया और उत्तर देना आरम्भ किया ।

यदात्थ राजन्यकुमार ! तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ ४८ ॥

अन्वयः—हे राजन्यकुमार ! यत् आत्थ तत् तथा । यशोधनैः तु परतः यशः रक्ष्यम्, भवद्गुरुः जगत्प्रकाशं अशेषं मम् तत् (यशः) इज्यया लङ्घयितुम् उद्यतः ।

यदिति । हे राजन्यकुमार ! क्षत्रियकुमार ! 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः । यद्वाक्यमात्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' इत्यनेनाहादेशः । तत्तथा सत्यम् । किन्तु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम् । ततः किमत आह—भवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम् तद्यश इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ।

भाषार्थ—हे राजकुमार ! आप जो कहते हो वह ठीक है, परन्तु हमारे ऐसे यशस्वियोंको शत्रुओं से कीर्ति की रक्षा करनी चाहिए । समस्त भुवनों में प्रसिद्ध मेरे उस यश को आपके पिता यज्ञ द्वारा उल्लङ्घन करने के लिए उद्यत हैं ॥४८॥

तृतीयः सर्गः ९७

तृतीयः सर्गः ९७

किं तद्यश इत्याह— हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी नहि शब्द एष नः ॥ ४९ ॥

अन्वयः—यथा हरिः एकः (एव) पुरुषोत्तमः स्मृतः, (यथा च) त्र्यम्बकः महेश्वरः एव (स्मृतः), अपरः न, तथा मुनयः मां शतक्रतुं विदुः, नः एष शब्दः द्वितीयगामी न हि ।

हरिरिति । पुरुषेषूत्तम इति सप्तमीसमासः । 'न निर्धारणे' इति षष्ठीसमास-निषेधात् । कर्मधारये तु 'सन्महत्परमोत्कृष्टाः पूज्यमानैः' इत्युत्तमपुरुष इति स्यात् । यथा हरिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः । यथा च त्र्यम्बकः शिव एक एव महेश्वरः स्मृतः । नापरोऽपरः पुमान्न । तथा मां मुनयः शतक्रतुं विदुर्विदन्ति । 'विदो लटो वा' इति झेरुषादेश । नोऽस्माकम् । हरिहरयोर्मम चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी नहि । द्वितीयाप्रकरणे गम्यादीनामुपसङ्ख्यानात्समासः ।

भाषार्थ—जिस प्रकार भगवान् विष्णु ही एक पुरुषोत्तम कहे गये हैं शिव ही महेश्वर कहे गए हैं और दूसरे नहीं; उसी प्रकार मुनि लोग मुझे शतक्रतु जानते हैं। हम लोगों के ये शब्द दूसरे व्यक्ति को प्राप्तव्य नहीं हैं ॥ ४९ ॥

अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयाऽपहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥ ५० ॥

अन्वयः—अतः त्वदीयस्य पितुः अयम् अश्वः कपिलानुकारिणा मया अपहारितः । अत्र तव प्रयत्नेन अलम् । सगरस्य सन्ततेः पदव्यां पदं मा निधाः ।

अत इति । यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयाऽपहारितोऽपहृतः । अपहारित इति स्वार्थे णिच् । तवात्राश्वे प्रतत्नेनालम् । प्रयत्नो मा कारीत्यर्थः । निषेधस्य निषेधं प्रति करणत्वात् तृतीया । सगरस्य राज्ञः सन्ततेः सन्तानस्य पदव्यां पदं मा निधाः न निधेहि । निपूर्वाद्धातोर्लङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ।

भाषार्थ—अतः कपिल मुनि का अनुकरण करनेवाले मैंने तुम्हारे पिता के घोड़े को चुरा लिया है। इस सम्बन्ध में तुम्हारा प्रयत्न निष्फल है। सगर के पुत्रों के मार्ग में पैर न रखो ॥ ५० ॥

ततः प्रहस्यापभयः पुरन्दरं पुनर्वभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ ५१ ॥ ७ २० सम्पू०

१८ रघुवंशमहाकाव्ये

अन्वयः—ततः तुरगस्य रक्षिता प्रहस्य अपभयः (सन्) पुनः पुरन्दरम् बभाषे। यदि एष ते सर्गः, शस्त्रं गृहाण। भवान् रघुम् अनिर्जित्य कृती न खलु।

तत इति। ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा। अपभयो निर्भीकः सन्। पुनः पुरन्दरं बभाषे। किमिति ? हे देवेन्द्र ! यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः। 'सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु' इत्यमरः। तर्हि शस्त्रं गृहाण। भवान् रघुं मामनिर्जित्य कृतमनेनेति कृती। कृतकृत्यो न खलु। 'इष्टादिभ्यश्च' इतीनिप्रत्ययः। रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम्।

भाषार्थ—तब अश्वरक्षक रघु ने हँस कर, निर्भय हो पुनः इन्द्र से कहा—अगर आपका यही निश्चय है तो शस्त्र उठाइए, आप मुझको जीते बिना सफल नहीं हो सकते ॥ ५१ ॥

स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम्।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ५२ ॥

अन्वयः—उन्मुखः मघवन्तम् एवम् उक्त्वा शरासनं सशरं करिष्यमाणः सः आलीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः (सन्) अतिष्ठत्।

स इति। स रघुरुन्मुखः सन् मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः। आलीढेनालीढाख्येन स्थानभेदेन विशेषशोभिनाऽतिशयशोभिना वपुः-प्रकर्षेण देहोन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन्। अतिष्ठत्। अलीढलक्षणमाह यादवः—'स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम्। त्रिवितस्त्यन्तरो पादौ मण्डलं तोरणाकृति ॥ अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढं विपर्ययः ॥'' इति॥

भाषार्थ—यों इन्द्र से कह ऊपर मुँह किए धनुष पर बाण चढ़ाये रघु आलीढ नामक आसन विशेष से शोभित शरीर के औन्नत्य से त्रिपुरसंहार के अवसर पर युद्ध के लिए सन्नद्ध भगवान् शंकर के समान खड़े हो गये ॥ ५२ ॥

रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः।
नवाम्बुदानीकमुहूर्त्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥ ५३ ॥

अन्वयः—रघोः अवष्टम्भमयेन पत्रिणा हृदि क्षतः अमर्षणः गोत्रभित् अपि नवाम्बुदानीकमुहूर्त्तलाञ्छने धनुषि अमोघं अस्त्रं समधत्त।

रघोरिति। रघोरवष्टम्भमयं स्तम्भरूपेण। 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि' इति विश्वः। पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत एवामर्षणोऽसहनः। क्रुद्ध इत्यर्थः। गोत्रभिदिन्द्रोऽपि। 'सम्भावनीये चौरेऽपि गोत्रः क्षोणीधरे

तृतीयः सर्गः ६६

तृतीयः सर्गः ६६

मतः' इति विश्वः । नवाम्बुदानानीकस्य वृन्दस्य मुहुर्त्तं क्षणमात्रं लाञ्छने चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं बाणं समधत्त संहितवान् ।

**भाषार्थ—**रघु के स्तम्भरूपी बाण से हृदय पर आघात खाकर इन्द्र ने भी नये मेघों के समान वर्ण वाले धनुष पर अव्यर्थ बाण को चढ़ाया ॥ ५३ ॥

दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ५४ ॥

**अन्वयः—**भीमासुरशोणितोचितः सः आशुगः दिलीपसूनोः बृहत् भुजान्तरं प्रविश्य, अनास्वादितपूर्वं मनुष्यशोणितं कुतूहलेन इव पपौ ।

दिलीप इति । भीमानां भयङ्कराणामसुराणां शोणिते रुधिर उचितः परि- चितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनोः रघोर्बृहद्विशालं भुजान्तरं वक्षः प्रविश्य । अनास्वादितपूर्वं पूर्वमनास्वादितम् । सुप्सुपेति समासः । मनुष्यशोणितं कुतूहलेनेव पपौ ।

**भाषार्थ—**भयंकर दैत्यों के रुधिर से परिचित उस बाण ने रघु के विशाल हृदय में घुस कर, पहिले न चखे हुए मनुष्य के खून को कौतुक से पीया ॥५४॥

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ ५५ ॥

**अन्वयः—**कुमारविक्रमः कुमारः अपि सुरद्विपास्फालनकर्कशाङ्गुलौ शची- पत्रविशेषकाङ्किते हरेः भुजे स्वनामचिह्नं सायकं निचखान ।

हरेरिति । कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः । 'सप्तम्युपमानपूर्वपदस्य—' इत्यादिना समासः । कुमारोऽपि रघुरपि सुरद्विपस्यै- रावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य स तस्मिन् । शच्याः पत्रविशेषकैर- ङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य-भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ।

**भाषार्थ—**स्कन्दतुल्य पराक्रमी रघु ने भी ऐरावत के चलाने से कर्कश अङ्गुलियों वाली, इन्द्राणी के तिलक विशेष से भूषित इन्द्र की भुजा पर अपने नाम के निशान वाला बाण मारा ॥ ५५ ॥

जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥ ५६ ॥

१०० रघुवंशमहाकाव्ये

अन्वयः—अन्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजं जहार, सः सुरश्रियः प्रसह्य-केशव्यपरोपणात् इव, तस्मै भृशं चुकोप ।

जहारेति । अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च । स शक्रः । सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोणादवतारणाच्छेदनादिव । तस्मै रघुवे भृशमत्यर्थं चुकोप । तं हन्तुमियेयेत्यर्थः । 'क्रुधद्रुहेर्ष्या—' इत्यनेन सम्प्रदानाच्चतुर्थी ।

भाषार्थ—दूसरे मोरपंख वाले बाण से इन्द्र की बड़ी वज्रध्वजा को काट दिया। इन्द्र, देवताओं की लक्ष्मी के जबर्दस्ती केश कट जाने के समान, उस रघु पर बहुत कुपित हुए ॥ ५६ ॥

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः ॥ ५७ ॥

अन्वयः—जयैषिणोः तयोः गरुत्मदाशीविषभीमदर्शनैः अधोमुखैः ऊर्ध्वमुखैः च पत्रिभिः उपान्तस्थितसिद्धसैनिकं तुमुलं युद्धं बभूव ।

तयोरिति । जयैषिणोरन्योन्यजयकाङ्क्षिणोस्तयोरिन्द्ररध्वोः । गरुत्मन्तः पक्षवन्तः । 'गरुत्पक्षच्छदाः पत्रम्' इत्यमरः । आशीविषाः आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः । पृषोदरादित्वात्साधुः । 'स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रयोः' इत्यमरः । इव भीमदर्शनाः । सपक्षाः सर्पा इव द्रष्टॄणां भयावहा इत्यर्थः । तैरधोमुखैरूर्ध्वमुखैश्च । धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव ।

भाषार्थ—विजयેચ્છु उन दोनों के पंख वाले सांपों के समान देखने में भयानक ( इन्द्र के ) अधोमुख और ( रघु के ) ऊर्ध्वमुख बाणों से देवता और सैनिकों के देखते-देखते घमासान युद्ध हुआ ॥ ५७ ॥

अतिप्रबन्धप्रहितास्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवान्द्भिभरम्बुद ॥ ५८ ॥

अन्वयः—वासवः अतिप्रबन्धप्रहितास्रवृष्टिभिः दुष्प्रसहस्य तेजसः आश्रयं तम् अम्बुदः अद्भिः स्वतः च्युतं वह्नि इव निर्वापयितुं न शशाक ।

अतिप्रबन्धेति । वासवेोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसहात इति दुष्प्रसहं तस्य । दुःखेनाप्यसह्यस्येत्यर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोऽद्भिः स्वतश्च्युतं निर्गतं वह्निमिव । निर्वापयितुं न शशाक । रघोरपि लोकपालात्मकस्येन्द्रांशसम्भवादिति भावः ।

तृतीयः सर्गः १०१

तृतीयः सर्गः १०१

भाषार्थं—इन्द्र अत्यन्त प्रयत्न से प्रयुक्त अस्त्रों की वर्षा से असह्य तेज के आधार उस रघु को शान्त करने में समर्थ नहीं हो सके, जिस प्रकार मेघ अपने से निकली हुई तडित रूप अग्नि को स्वयं शान्त करने में असमर्थ होता है ॥५८॥

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥ ५६ ॥

अन्वयः—ततः रघुः हरिचन्दनाङ्किते प्रकोष्ठे प्रमथ्यमानार्णवधीरनादिनीं विडोजसः, शरासनज्यां शशाङ्कार्धमुखेन पत्रिणा अलुनात् ।

तत इति । ततो रघुर्हरिचन्दनाङ्किते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम् । वेवेष्टि व्याप्नोतीति विड् । व्यापकमोजो यस्य स तस्य विडौजस इन्द्रस्य । पृषोदरादित्वात्साधुः । शरासनज्यां धनुर्मोर्वीम् । शशाङ्कस्यार्द्धंः खण्ड इव मुखं फलं यस्य तेन पत्रिणाऽलुनादच्छिनत् ।

भाषार्थं—तब रघु ने हरिचन्दन से चिह्नित पहुँचे में, मथे जाते हुए समुद्र के समान गम्भीर ध्वनि वाली इन्द्र के धनुष की प्रत्यञ्चा ( डोरी ) को अर्द्ध चन्द्र तुल्य बाण से काट दिया ॥ ५९ ॥

स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ ६० ॥

अन्वयः—विवृद्धमत्सरः स चापम् उत्सृज्य प्रबलस्य विद्विषः प्रणाशनाय महीध्रपक्षव्यपरोपणोचितम्, स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ।

स इति । विवृद्धमत्सरः प्रवृद्धवैरः इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय । महीं धारयन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कः प्रत्ययः । तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्प्रभामण्डलमस्त्रं वज्रायुधमाददे जग्राह ।

भाषार्थं—धनुष की डोरी कट जाने से क्रुद्ध इन्द्र ने धनुष फेंककर प्रबल वैरी के वध के लिए पहाड़ों के पंख काटने में कुशल चमकता हुआ वज्र उठा लिया ।

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ ६१ ॥

अन्वयः—रघुः तेन भृशं वक्षसि ताडितः ( सन् ) सैनिकाश्रुभिः सह भूमौ पपात, निमेषमात्रात् तद्व्यथाम् अवधूय सैनिकहर्षनिःस्वनै सह उत्थितः ।

रघुरिति । रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिका-

१०२रघुवंशमहाकाव्ये

नामश्रुभिः सह भूमौ पपात । तस्मिन्पतिते ते रुरुदुरित्यर्थः । निमेषमात्रात्तद्व्यथं दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निःस्वनाः श्वेड़ास्तैः सहोत्थितश्च । तस्मिन्नुत्थिते हर्षात् सिंहनादांश्चक्रुरित्यर्थः ।

**भाषार्थं—**रघु उस वज्र से छाती में चोट लगने से सैनिकों के रुदन के साथ पृथ्वी पर गिर गए, किन्तु क्षण भर में उस पीड़ा को दूर कर सैनिकों के हर्षनाद के साथ उठ कर खड़े हो गए ॥ ६१ ॥

तथाऽपि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्रगुणैर्निधीयते ॥ ६२ ॥

**अन्वयः—**तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरं तस्थुषः अस्य वीर्यातिशयेन वृत्रहा तुतोष, हि गुणैः सर्वत्र पदं निधीयते ।

तथाऽपीति । तथाऽपि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन वृत्रं हतवानिति वृत्रहा । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । तुतोष । स्वयं वीर एव वीरं जानातीति भावः । कथं शत्रोः सन्तोषोऽत आह—गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते । गुणैः सर्वत्र संक्रम्यत इत्यर्थः । गुणाः शत्रूनप्यावर्जयन्तीति भावः ।

**भाषार्थ—**वज्रप्रहार पर भी शस्त्रचलाने में निष्ठुर शत्रुभाव में बहुत समय तक स्थित इस रघु के बल की अधिकता से इन्द्र सन्तुष्ट हो गये, क्योंकि गुणों से ही सर्वत्र प्रतिष्ठा होती है ॥ ६२ ॥

असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
अवेहि मां प्रीतमुते तुरंगमात्किमच्छसीति स्फुटमाह वासवः ॥ ६३ ॥

अन्वयः—'सारवत्तया अद्रिषु अपि असङ्गं मे आयुधं त्वदन्येन न विसोढम्, मां प्रीतम् अवेहि, तुरङ्गमात् ऋते किम् इच्छसि' इति वासवः स्फुटम् आह ।

असङ्गम्रिति । सारवत्तयाऽद्रिष्वप्यसङ्गमप्रतिबन्धं मे आयुधं वज्रं त्वदन्येन न विसोढम् । अतो मां प्रीतं सन्तुष्टमवेहि । तुरङ्गमादृते तुरङ्गं वर्जयित्वा । 'अन्यारादि'ति पञ्चमी । किमिच्छसीति स्फुटं वासव आह । तुरङ्गमादन्यद्देयं नास्तीति भावः

भाषार्थ—'बल में पर्वतों में भी न रुकनेवाले मेरे वज्र को तुम्हारे अतिरिक्त और किसी ने नहीं सहन किया, अतः मुझे सन्तुष्ट समझो, घोड़े के अतिरिक्त क्या चाहते हो ?' इन्द्र ने स्पष्ट कहा ॥ ६३ ॥

ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुंङ्खद्युतिरञ्जिताङ्गुलिम् ।
नरेन्द्रसूनुः प्रितसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥ ६४ ॥

तृतीयः सर्गः १०३

तृतीयः सर्गः १०३

अन्वयः—ततः निषङ्गात् असमग्रम् उद्धृतं सुवर्णपुङ्खद्युतिरञ्जितांगुलिम् इषुं प्रतिसंहरन् प्रियंवदः नरेन्द्रसूनुः सुरेश्वरं प्रत्यवदत् ।

तत इति । ततो निषङ्गात्तूणीरादसमग्रं यथा तथोद्धृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अंगुलयो येन तमिषुं प्रतिसंहरन्निवर्तयन् । नाप्रहरन्तं प्रहरेदिति निषेधादिति भावः । प्रियं वदतीति प्रियंवदः । 'प्रियवशे वदः' इति खच्प्रत्ययः । 'अरुर्द्विषद' इति मुमागमः । नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत् । न तु प्राहरदिति भावः ।

भाषार्थ—तरकस से पूरा न निकाले हुए, अँगुलियों को रंग देनेवाली सुनहरे मूल भाग की कान्ति से युक्त बाण को तरकस में रख मधुरभाषी रघु ने इन्द्र से कहा ॥ ६४ ॥

अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥ ६५ ॥

अन्वयः—हे प्रभो ! अश्वम् अमोच्यं मन्यसे यदि ततः अजस्रदीक्षाप्रयतः स मद्गुरुः विधिना एव कर्मणि समाप्ते (सति) क्रतोः अशेषेण फलेन युज्यताम् ।

अमोच्यमिति । हे प्रभो इन्द्र ! अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्मणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु । अश्वमेधफललाभे किमश्वेनेति भावः ।

भाषार्थ—हे इन्द्र ! यदि आप इस घोड़े को अत्याज्य समझते हैं तो निरन्तर यज्ञ दीक्षा में तत्पर वे मेरे पिता विधिपूर्वक किये गये कर्म की समाप्ति होने पर अश्वमेध यज्ञ के पूरे फल से युक्त हों ॥ ६५ ॥

यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।
तवैव संदेशहराद्विशांपतिः शृणोति लोकेश तथा विधीयताम् ॥ ६६ ॥

अन्वयः—हे लोकेश ! सदोगतः त्रिलोचनैकांशतया दुरासदः विशांपतिः च इमं वृत्तान्तं यथा तव एव संदेशहरात् शृणोति तथा विधीयताम् ।

यथेति । सदोगतः सदो गृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाऽष्टानामन्यतममूर्तित्वात् । दुरासदोऽस्मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव सन्देशहराद्दूताद्गिरादेव शृणोति च । हे लोकेशेन्द्र ! तथा विधीयताम् ।

भाषार्थ—हे लोकपाल ! सभा में स्थित शिवजी के एक अंश होने से दुष्प्राप्य मेरे पिता जिस तरह इस समाचार को आप के ही दूत से सुनें वैसा आप करें ॥ ६६ ॥

तथेति कामं प्रतिशुश्रुवान् रघोर्यथाऽऽगतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ ६७ ॥

१०४ | रघुवंशमहाकाव्ये

अन्वयः—मातलिसारथिः 'तथा' इति रघोः कामं प्रतिशुश्रुवान्, यथागतं ययौ; सुदक्षिणासूनुः अपि नातिप्रमनाः नृपस्य सदोगृहं न्यवर्तत।

तथेतीति। मातलिसारथिरिन्द्रो रघोः सम्बन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान्। 'भाषायां सदसश्रुवः' इति क्वसुप्रत्ययः। यथाऽऽगतं ययौ सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन्। नञर्थस्य सुप्सुपेति समासः। नृपस्य सदोगृहं प्रति न्यवर्त्तत।

भाषार्थ—इन्द्र रघु से वैसा ही होगा ऐसी प्रतिज्ञा कर जिधर से आये थे उसी मार्ग से गये। रघु भी अनमना हो राजा दिलीप की सभा की ओर लौटे।

तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः।
परामृशन्हर्षजडेन पाणिना तदीयम् अङ्गं कुलिशव्रणाङ्कितम् ॥ ६८ ॥

अन्वयः—हरे शासनहारिणा प्रथमं प्रबोधितः प्रजेश्वरः तदीयं कुलिशव्रणाङ्कितम् अङ्गं हर्षजडेन पाणिना परामृशन् तम् अभ्यनन्दत्।

तमिति। हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम्। तस्य रघोर्गिदं तदीयम्। अङ्गं शरीरं परामृशंस्तं रघुमभ्यनन्दत्।

भाषार्थ—इन्द्र दूत से पहिले ही जाने हुए राजा दिलीप ने उस रघु के वज्राङ्कित शरीर को हर्ष से कांपते हुए हाथ से छूकर उनकी प्रशंसा की।

इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥ ६९ ॥

अन्वयः—महनीयशासनः क्षितीशः इति महाक्रतूनां नवाधिकां नवतिं आयुषः क्षये दिवं समारुरुक्षुः सोपानपरम्परां इव ततान।

इतीति। महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परम्परां पंक्तिमिव ततान।

भावार्थ—इस प्रकार आदरणीय आज्ञा वाले पृथ्वीपति दिलीप ने जीवन समाप्त होने पर स्वर्ग में चढ़ने की अभिलाषा से नौ अधिक नब्बे (९९) अश्वमेध यज्ञ की सीढ़ियों की कतार के समान रचना की ॥ ६९ ॥

अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम्।

चतुर्थः सर्गं १०५

मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ।
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ७० ॥

अन्वयः—अथ विषयव्यावृत्तात्मा सः यथाविधि यूने सूनवे नृपतिककुदं सितातपवारणं दत्त्वा तया देव्या सह मुनिवनतरुच्छायां शिश्रिये हि गलितवयसाम् इक्ष्वाकूणां इदं कुलव्रतम् ।

अथेति । अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् । 'ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि' इति विश्वः । सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः । तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोगोत्रापत्यानाम् । तद्राजसंज्ञकत्वादणो लुक् । इदं वनगमनं कुलव्रतम् । देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः—"सुतविन्यस्तपत्नीकस्तया वाऽनुंगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्" इति हरिणीवृत्तमेतत् । तदुक्तम्—"रसयुगहयैन्सौ म्रौ स्लो गो यदा हरिणी तदा" इति ।

भाषार्थ - इसके बाद विषयों से विरक्त होकर वे वृद्ध राजा दिलीप युवक पुत्र रघु को नियमानुसार श्वेतच्छत्रादि राज्यचिह्न दे रानी के साथ तपोवन चले गये, क्योंकि वृद्ध इक्ष्वाकुओं की यही कुलपरम्परा थी ॥ ७० ॥

त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्रिलिखित चन्द्रकला टीका में तृतीय सर्ग समाप्त ।


चतुर्थः सर्गः

अथ प्राप्तराज्यस्य राज्ञो रघोः कीदृशी शोभाऽऽसीदिति तामेवाह—

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १ ॥

अन्वयः—स गुरुणा दत्तं राज्यं दिनान्ते सवित्रा निहितं तेजः हुताशन इव प्रतिपद्य अधिकं बभौ ।

स इति । स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् । पुरोहितादित्वाद्यक् । प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं

१०६ रघुवंशमहाकाव्ये

तेजः प्रतिपद्य हुताशनोऽग्निरिव । अधिकं बभौ । "सौरं तेजः सायमग्निं संक्रामते । आदित्यो वा अस्तं सन्नग्निमनुप्रविशति । अग्निं वा आदित्यः सायं प्रविशति" ऐत्यादिश्रुतिः प्रमाणम् ।

भावार्थ— वे रघु पिता द्वारा दिए हुए राज्य को पाकर सायंकाल में सूर्य से स्थापित तेज को पाए हुए अग्नि के समान अधिक शोभित हुए ॥ १ ॥

अथ रघो राज्येऽवस्थानं श्रुत्वा शत्रूणां हृदि सन्तापाधिक्यं बभूवेत्याह—

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥ २ ॥

अन्वयः— दिलीपानन्तरं राज्ये प्रतिष्ठितं तं निशम्य राज्ञां हृदये पूर्वं प्रधूमितः अग्निः उत्थितः इव ।

दिलीपेति । दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्य पूर्वं दिलीपकाले राज्ञां हृदये प्रकर्षेण धूमोऽस्य सञ्जातः प्रधूमितोऽग्निः सन्तापाग्निरुत्थित इव प्रज्वलित इव । पूर्वेभ्योऽधिकसन्तापोऽभूदित्यर्थः । राजकर्तृकस्यापि निशमनस्याग्नावुपचारान्न समानकर्तृकत्वविरोधः ।

भावार्थ— राजा दिलीप के बाद राज्य पर बैठे हुए उस रघु को सुनकर राजाओं के हृदय मे जलती हुई सन्तापाग्नि मानो धधकने लगी । २ ॥

अथ रघुं राज्येऽवस्थितं दृष्ट्वा सर्वा अपि प्रजाः प्रसन्ना बभूवुरित्याह—

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ ३ ॥

अन्वयः— पुरुहूतध्वजस्य इव तस्य नवाभ्युत्थानदर्शिन्यः उन्नयनपङ्क्तयः सप्रजाः प्रजाः ननन्दुः ।

पुरुहूतेति । पुरुहूतध्वजः । इन्द्रध्वजः । स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे—"एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर ! । पर्जन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः ।" इति । "चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम् । आहुः शक्रध्वजं नाम पौरलोकसुखावहम् ॥" इति । पुरुहूतध्वजस्येव तस्य रघोर्नवाभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः । ऊर्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससन्तानाः प्रजा जनाः । 'प्रजास्यात्सन्ततौ जने' इत्युभयत्राप्यमरः । ननन्दुः ।

भावार्थ— इन्द्र की पताका की तरह रघु के नवीन वैभव को देखने वाली, सन्तान सहित प्रजायें आनन्दित हुईं ॥ ३ ॥

चतुर्थः सर्गः १०७

अथ रघुणा सिंहासनारोहणक्षणे एव शत्रुमण्डलमपि पदाक्रान्तमित्याह— सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४ ॥

**अन्वयः—**द्विरदगामिना तेन समम् एव द्वयं समाक्रान्तं पित्र्यं सिंहासनम् अखिलं अरिमण्डलं च ।

सममिति । द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामी तेन । ‘कर्तर्युपमाने’ इति ‘सुप्यजातो’ इति च णिनिः । तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम् । किं तद् द्वयम् । पितुरागतं पित्र्यम् । ‘पितुर्यत्’ इति यत्प्रत्ययः । सिंहासनम् अखिलमरीणां मण्डलं राष्ट्रं च ।

**भाषार्थ—**उस गजगामी रघु ने एक ही साथ पिता से प्राप्त सिंहासन और सम्पूर्ण शत्रुमण्डल दोनों को आक्रान्त किया ॥ ४ ॥

छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ५ ॥

**अन्वयः—**स्वयम् अदृश्या पद्मा छायामण्डललक्ष्येण पद्मातपत्रेण साम्राज्यदीक्षितं तं भेजे किल ।

छायेति । अत्र रघोस्तेजोविशेषेण स्वयं सन्निहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते । पद्मा लक्ष्मीः । ‘लक्ष्मीः पद्मालया पद्माः कमला श्रीर्हरिप्रिया’ इत्यमरः । सा स्वयमदृश्या किल । किलेति सम्भावनायाम् । सती । छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन न तु स्वरूपतो दृश्येन । छायामण्डलमित्यनेनातपज्ञानं लक्ष्यते । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्युभयत्राप्यमरः । पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे । अन्यथा कथमेतादृशी कान्तिसम्पत्तिरिति भावः ।

**भाषार्थ—**स्वयं अप्रकट हुई लक्ष्मी, कान्तिमण्डल से अनुमित कमलरूपी छत्र से साम्राज्य पर अभिषिक्त रघु की सेवा करने लगी ॥ ५ ॥

परिकल्पितसान्निध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ६ ॥

**अन्वयः—**सरस्वती च काले काले वन्दिषु परिकल्पितसान्निध्या स्तुत्यं ( तम् ) अर्थ्याभिः स्तुतिभिः उपतस्थे ।

परिकल्पितेति । सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु । ‘नित्यवी-

१०८ रघुवंशमहाकाव्ये

प्सयोः' इति वीप्सायां द्विवचनम् । वन्दिषु परिकल्पितसान्निध्या कृतसन्निधाना सती स्तुत्यं स्तोत्राहं तं रघुम् । अर्ध्याभिरर्थादनपेताभिः । 'धर्मंपथ्यर्थ०' इति यत्प्रत्ययः । स्तुतिभिः स्तोत्रैरुपतस्थे । देवताबुद्ध्या पूजितवतीत्यर्थः ! देवतात्वं च ( ना विष्णुः पृथिवीपतिः ) इति वा लोकपालात्मकत्वादित्यनुसंधेयम् । एवं च सति 'उपाद्देव' इति वक्तव्यादात्मनेपदं सिध्यति ।

भाषार्थ—और सरस्वती देवी ने समय-समय पर स्तुतिपाठकों की समीप- वर्त्तिनी होकर स्तवनीय उस राजा का अर्थवती स्तुतियों से पूजन किया ॥ ६ ॥

मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाऽप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा ॥ ७ ॥

अन्वयः—वसुन्धरा यद्यपि मनुप्रभृतिभिः मान्यैः राजभिः भुक्ताः, तथापि तस्मिन् अनन्यपूर्वा इव आसीत् ।

मनुप्रभृतिभिरिति । वसुन्धरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्भु- क्ता यद्यपि । भुक्तैवेत्यर्थः । यद्यपीत्यवधारणे । 'अप्यर्थे यदि वाऽर्थे स्यात्' इति केशवः । तथाऽपि । तस्मिन् राज्ञि । अन्यः पूर्वो यस्याः साऽन्यपूर्वा अन्यपूर्वा न भवतीत्यनन्यपूर्वा अनन्योपभुक्तैवासीत् । तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः ।

भाषार्थ—भारत वसुन्धरा यद्यपि मनु आदि माननीय राजाओं से भोगी गयी थी, तथापि उस रघु में दूसरे से न भोगी गई कामिनी की तरह अनुरक्त हुई ॥७॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ ८ ॥

अन्वयः—स हि युक्तदण्डतया सर्वस्य लोकस्य मनः नातिशीतोष्णः दक्षिणः नभस्वान् इव आददे ।

स इति । हि यस्मात्कारणात्स रघुर्युक्तदण्डतया यथाऽपराधदण्डतया सर्वस्य लोकस्य मन आददे जहार । क इव । अतिशीतोऽत्युष्णो वा न भवतीति नातिशी- तोष्णः । नञर्थस्य नशब्दस्य 'सुप्सुपे'ति समासः । दक्षिणो दक्षिणदिग्भवो नभस्वा- न्वायुरिव । मलयानल इवेत्यर्थः । युक्तदण्डतयेत्यत्र कामन्दकः—"उद्वेजयति ती- क्ष्णेन मृदुना परिभूयते । दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते" । इति ।

भाषार्थ—क्योंकि अपराध के अनुसार दण्ड देने से रघु ने सब लोगों के मन को न अधिक ठंडे न गरम दक्षिण पवन के समान हरण कर लिया ॥ ८ ॥

मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ ६ ॥

चतुर्थः सर्गः १०९

**अन्वयः—**गुणाधिकतया तेन प्रजाः गुरौ सहकारस्य फलेन पुष्पोद्गमे इव मन्दोत्कण्ठाः कृताः ।

मन्देति । तेन रघुणा प्रजा गुरौ दिलीपेविषये । सहकारोऽतिसौरभश्चूतः 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तस्य फलेन पुष्पोद्गमे पुष्पोदय इव ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पोत्सुक्याः कृताः । गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः ।

**भाषार्थ—**गुण की अधिकता से उस रघु ने प्रजा को अपने पिता के बारे में अल्पोत्सुक्य बना दिया, जैसे आम का फल जनता को बौर के विषय में मन्द उत्कण्ठा वाला बना देता है ॥ ९ ॥

नयविद्भिर्नवे राज्ञि सदसच्चनोपदर्शितम् ।
पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ १० ॥

**अन्वयः—**नयविद्भिः नवे राज्ञि सत् असत् च उपदर्शितम्, तस्मिन् पूर्वं एव पक्ष अभवत्, न उत्तरः ।

नयेति । नयविद्भिर्नीतिशास्त्रज्ञैर्नवे तस्मिन् राज्ञि विषये । तमधिकृत्येत्यर्थः । सद्धर्मयुद्धादिकमसत्कूटयुद्धादिकं चोपदर्शितम् । तस्मिन् राज्ञि पूर्वः पक्ष एवाभवत् । संक्रान्त इत्यर्थ । इतरः पक्षो नाभवत् । न संक्रान्त इत्यर्थः । तत्र सदसतोर्मध्ये सदेवाभिमतं नासत् । तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः । पक्षः साधनयोग्यार्थः । 'पक्ष पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति केशवः ।

**भाषार्थ—**नीतिविशारदों ने महाराज रघु के प्रति धर्म और अधर्म दिखलाया किन्तु उस रघु में पहिला ही पक्ष ग्राह्य हुआ दूसरा नहीं ॥ १० ॥

पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ११ ॥

**अन्वयः—**पञ्चानाम् अपि भूतानां गुणाः उत्कर्षं पुपुषुः तस्मिन् नवे महीपाले सर्वं नवम् इव अभवत् ।

पञ्चानामिति । पृथिव्यादीनां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः । अत्रोत्प्रेक्षते—तस्मिन् रघो नाम नवे महीपाले सर्वं वस्तुजातं नवमिवाभवत् । तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ।

**भाषार्थ—**पृथ्वी आदि पञ्च महाभूतों के भी गन्ध आदि गुण अत्यन्त पुष्ट हुए । उस नवीन महाराज के राजा होने पर सब वस्तु मानो नई सी हुई ॥ ११॥

११० रघुवंशमहाकाव्ये

यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ १२ ॥

अन्वयः— यथा चन्द्रः प्रह्लादनात्, यथा तपनः प्रतापात्, तथा एव स राजा प्रकृतिरञ्जनात् अन्वर्थः अभूत् ।

यथेति । यथा चन्द्रयत्याह्लादयतीति चन्द्र इन्दुः । 'चदिघातोरौणादिको रप्रत्ययः' । प्रह्लादनाह्लादकरणादन्वर्थोऽनुगतार्थनामकोऽभूत् । यथा च तपतीति तपनः सूर्यः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इत्यनेन ल्युट्प्रत्ययः । प्रतापात्सन्तापजननादन्वर्थः । तथैव स राजा प्रकृतिरञ्जनादन्वर्थः सार्थकराजशब्दोऽभूत् । यद्यपि राजशब्दो राजतेर्दीप्त्यर्थात्कनिन्प्रत्ययान्तो न तु रञ्जेस्तथाऽपि धातूनामनेकार्थत्वादञ्जनाद्राजेत्युक्तं कविना ।

भाषार्थ— जिस प्रकार आनन्द देने से चन्द्रमा और सन्ताप देने से सूर्य सार्थक नाम वाले हुए उसी प्रकार वे रघु प्रजा को प्रसन्न करने से सार्थक नाम वाले हुए ॥ १२ ॥

कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने । चक्षुष्मतः तु शास्त्रेण सूक्ष्मकार्य्यार्थदर्शिना ॥ १३ ॥

अन्वयः— तस्य लोचने विशाले कर्णान्तविश्रान्ते कामम् सूक्ष्मकार्य्यार्थदर्शिना शास्त्रेण तु चक्षुष्मता ।

काममिति । विशाले तस्य रघोर्लोचने कामं कर्णान्तयोविश्रान्ते कर्णप्रान्तगते । चक्षुष्मत्ता तु चक्षुःफलं त्वित्यर्थः । सूक्ष्मान् कार्य्यान्कर्त्तव्यान्दर्शयति प्रकाशयतीति सूक्ष्मकार्यार्थदर्शिना शास्त्रेणैव शास्त्रं दृष्टिविवेकिनामिति भावः ।

भाषार्थ— यद्यपि रघु की आंखें कान तक फैली हुई बड़ी थीं, किन्तु कूटनीति बतलाने वाले शास्त्र से ही वे अपने को आंखवाला मानते थे ॥ १३ ॥

लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ १४ ॥

अन्वयः— अथ लब्धप्रशमनस्वस्थम् एनं पङ्कजलक्षणा शरत् द्वितीया पार्थिवश्री इव समुपस्थिता ।

लब्धेति । अथ लब्धस्य राज्यस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघुं पङ्कजलक्षणा पद्मचिह्ना श्रियोऽपि विशेषणमेतत् । शरद् । द्वितीया पार्थिवश्री राजलक्ष्मीरिव, समुपस्थिता प्राप्ता । "रक्षा पौरजनस्य देशनगरग्रामेषु गुप्तिस्तथा, योधानामपि संग्रहोऽपि तुलया

चतुर्थः सर्गः | १११

मानव्यवस्थापनम्। साम्यं लिङ्गेषु दानवृत्तिकरणं त्यागं समानेऽर्चनं, कार्याण्येव महीभुजां प्रशमनान्येनानि राज्ये नवे।।”
**भाषार्थ—**उसके बाद प्राप्त राज्य की यथोचित व्यवस्था करने से शान्त-चित्त उस रघु को कमलचिह्न वाली शरद्ऋतु दूसरी राज्यलक्ष्मी के समान उपस्थित हुई ॥ १४ ॥

निवृष्टलघुभिर्मेघैर्मुक्तावर्त्मा सुदुःसहः ।
प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥ १५ ॥

**अन्वयः—**तस्य भानोः च निवृष्टलघुभिः मेघैः मुक्तवर्त्मा सुदुःसहः प्रतापः युगपत् दिशः व्यानशे ।
निवृष्टेति । निःशेषं वृष्ट्वा निर्वृष्टाः । कर्तरि क्तः । अत एव लघवः । तैर्मेघैर्मुक्तवर्त्मेत्यक्तमार्गः । अत एव सुदुःसहः । तस्य रघोर्भानोश्च प्रतापः पौरुषमातपश्च । 'प्रतापो पौरुषातपौ' इति यादवः । युगपद् दिशो व्यानशे व्याप ।
**भाषार्थ—**उसके और पानी बरसा चुकने से हल्के हुए बादलों से राह छोड़े हुए अत्यन्त दुःसह सूर्य के प्रताप ने एक साथ ही दिशाओं को व्याप्त कर लिया ॥ १५ ॥

वार्षिकं संजहारेन्द्रो धनुजैत्रं रघुर्दधौ ।
प्रजार्थसाधने तो हि पर्यायोद्यतकार्मुकौ ॥ १६ ॥

**अन्वयः—**इन्द्रः वार्षिकं धनुः सञ्जहार, रघुः जैत्रं (धनुः) दधौ, तौ हि प्रजार्थसाधने पर्यायोद्यतकार्मुकौ ।
वार्षिकमिति । इन्द्रः । वर्षाषु भवं वार्षिकम् । वर्षानिमित्तमित्यर्थः । 'वर्षाभ्यष्ठक्' इति ठक्प्रत्ययः । धनुः संजहार । रघुजैत्रं जयशीलम् । जेतृशब्दात्तन्नन्तात् 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । धनुर्दधौ । हि यस्मात्ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य वृष्टिविजयलक्षणस्य साधनविषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ । 'पर्यायोद्यमविश्रमौ' इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तो पर्यायोद्यमविश्रमौ । द्वयोः पर्यायकरणादक्लेश इति भावः ।
**भाषार्थ—**इन्द्र ने वर्षा वाले धनुष को रख दिया रघु ने विजय शील धनुष उठाया, वे दोनों प्रजा के कार्य साधन में बारी-बारी से धनुर्धारी हुए ॥ १६ ॥

पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ १७॥

**अन्वयः—**पुण्डरीकातपत्रः विकसत्काशचामरः ऋतुः तं विडम्बयामास, तच्छ्रियं पुनः न प्राप ।

११२ रघुवंशमहाकाव्ये

पुण्डरीकेति । पुण्डरीकं सिताम्भोजमेवातपत्रं यस्य स तथोक्तः । विकसन्ति काशानि काशाख्यतृणकुसुमान्येव चामराणि यस्य स तथोक्तः । ऋतुः शरदृतुः पुण्डरीकनिभातपत्रं काशनिभचामरं तं रघुं विडम्बयामासानुचकार । तस्य रघोः श्रियं पुनः शोभां तु न प्राप । 'शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते' इति शाश्वतः ॥ १७ ॥

भाषार्थ—श्वेत कमल रूपी छत्र वाली खिले हुए कामरूपी चँवर वाली शरद् ऋतु ने उस रघुका अनुकरण किया, किन्तु रघुकी शोभा को न पा सकी ।

प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे ।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥ १८ ॥

अन्वयः—प्रसादसुमुखे तस्मिन् च विशदप्रभे चन्द्रे द्वयोः तदा चक्षुष्मतां प्रीतिः समरसा आसीत् ।

प्रसादेति । प्रसादेन सुमुखे तस्मिन् रघौ विशदप्रभे निर्मलकान्तौ चन्द्रे च द्वयोर्विषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्वादा । तुल्ययोगेति यावत् । 'रसो गन्धे रसः स्वादे' इति विश्वः । आसीत् ।

भाषार्थ—तब सुन्दर मुख रघु और निर्मल कान्ति चन्द्रमा के प्रति दर्शकों का समान अनुराग हुआ ॥ १८ ॥

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ १९ ॥

अन्वयः—हंसश्रेणीसु तारासु कुमुद्वत्सु वारिषु च तदीयानां यशसां विभूतयः पर्यस्ताः इव ।

हंसश्रेणीष्विति । हंसानां श्रेणीषु पंक्तिषु' तारासु नक्षत्रेषु कुमुदानि येषु सन्तीति कुमुद्वन्ति । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । 'कुमुदनडवेतसेभ्यो ड्मतुप् । तेषु कुमुदप्रायेष्वित्यर्थः । वारिषु च तदीयानां रघुसम्बन्धिनां यशसां विभूतयः सम्पदः पर्यस्ता इव प्रसारिताः किम् । इत्युत्प्रेक्षा । अन्यथा कथमेषां धवलिमेति भावः ।

भाषार्थ—हंसपंक्तियों में, ताराओं में और काई वाले जल में मानों उस रघु की कीर्ति की विभूति फैली हुई थी ॥ १९ ॥

इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥ २० ॥

अन्वयः—इक्षुच्छायनिषादिन्यः शालिगोप्यः तस्य गुणोदयम् आकुमारकथोद्घातं यशः जगुः ।

इक्षुच्छायेति । इक्षूणां छायेषुच्छायम् । 'छाया बाहुल्ये' इति नपुंसकत्वम् । तत्र

चतुर्थः सर्गः ११३

स्थम् । तत्र निषण्णा इक्षुच्छायानिषादिन्यः 'इक्षुच्छायानिषादिन्यः' इति स्त्रीलि- ङ्गपाठे इक्षोश्छायेति विग्रहः । अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात् । शालीन् गोपा- यन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्रियः । 'कर्मण्यण्' 'टिड्ढाणञ्-' इत्यादिना ङीप् । गोप्तुः रक्षकस्य तस्य रघोः । गुणेभ्य उदयो यस्य तद् गुणोदर्कं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथाऽऽरम्भो यस्य तत् । कुमारैरपि स्तूयमान- मित्यर्थः । यशो जगुर्गायन्ति स्म । अथवा कुमारस्य सतो रघोर्याः कथा इन्द्रवि- जयादयस्तत आरभ्याकुमारकथम् । तत्राप्यभिविधावव्ययीभावः । आकुमारकथमु- द्घातो यस्मिन्कर्मणि । गानक्रियाविशेषणमेतत् । 'स्यादन्यादानमुद्घात आरम्भः' इत्यमरः । 'आकुमारकथोद्भूतम्' इति पाठे कुमारस्य सतस्तस्य कथाभिश्चरितै- रुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ।

भावार्थ— इक्षु छाया में बैठी हुई धान की रक्षिका स्त्रियां रक्षक रघु के से उत्पन्न आबालप्रसिद्ध यश को गाने लगीं ॥ २० ॥

प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ २१ ॥

अन्वयः— महौजसः कुम्भयोनेः उदयात् अम्भः प्रससाद ( महौजसः ) रघोः ( उदयात् ) द्विषताम् अभिभवाशङ्कि मनः चुक्षुभे ।

प्रससादेति । महौजसः कुम्भयोनेरगस्त्यस्य । 'अगस्त्यः कुम्भसंभवः' इत्यमरः । उदयादम्भः प्रससाद प्रसन्नं बभूव । महौजसो रघोरुदयाभिभवाशङ्कि द्विषतां मन- श्चुक्षुभे कालुष्यं प्राप । 'अगस्त्योदये जलानि प्रसीदन्ति' इत्यागमः ।

भाषार्थ— तेजस्वी अगस्त्य नक्षत्र के उदय से जल स्वच्छ हो गया और महा- पराक्रमी रघु के अभ्युदय से वैरियों का मन पराजय से आशङ्कित हो गया ॥ २१ ॥

मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ २२ ॥

अन्वयः— मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः महोक्षाः तस्य लीलाखेलं विक्रमं अनुप्रापुः ।

मदोदग्रा इति । मदोदग्रा मदोद्धताः । ककुदेषामस्तीति ककुद्मन्तः, महाककुद इत्यर्थः । यवादित्वान्मकारस्य वत्वाभावः । सरितां कूलान्युद्रुजन्तीति कुलमुद्रुजाः । 'उदि कूले' इति खस्प्रत्ययः । 'अरुर्द्विषद्व' इत्यादिना मुमागमः । महान्त उक्षाणो महोक्षाः । 'अचतुर-' इत्यादिना निपातनादकारान्तः । लीलाखेलं विलास सुभगं तस्य रघोरुत्साहवतो वपुष्मतः परमऋकस्य विक्रमं शौर्यमनुप्रापुरनुप्रापु रनुचक्रुः ।

८ २० सम्पू०

११४रघुवंशमहाकाव्ये

भावार्थ—मदोद्धत वृहत्स्कन्ध, नदी-तटों को खोदने वाले बैलों ने उस रघु की विहार-क्रीडा का अनुकरण किया ॥ २२ ॥

प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ २३ ॥

अन्वयः—सप्तपर्णानां मदगन्धिभिः प्रसवैः आहताः तन्नागाः असूयया इव सप्तधा एव प्रसुस्रुवुः ।

प्रसवैरिति । मदस्येव गन्धो येषां तैर्मदगन्धिभिः । 'उपमानाच्च' इतीकारः समासान्तः । सप्तपर्णानां वृक्षविशेषाणाम् । 'सप्तपर्णो विशालत्वक् शारदो विषमच्छदः' इत्यमरः । प्रसवैः पुष्पैराहतास्तस्य रघोर्नागा गजाः । 'गजेऽपि नागमातङ्गौ' इत्यमरः । असूययेवाहितनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः । प्रतिगजगन्धाभिमानादिति भावः । 'करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः' इति पालकाप्ये । कराक्षासारन्ध्राभ्यामित्यर्थः ।

भावार्थ—रघु के मद गन्ध सप्तपर्ण-पुष्पाहत हाथी मानो डाह से सातों अङ्गों से मद बरसाने लगे ॥ २३ ॥

सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ २४ ॥

अन्वयः—सरितः गाधाः कुर्वती च पथः आश्यानकर्दमान् (कुर्वती) शरत् शक्तेः प्रथमं तं यात्रायै चोदयामास ।

-सरित इति । सरितो गाधाः सुप्रतराः कुर्वती । पथो मार्गान्वाश्यानकर्दमाञ्छुष्कपङ्काङ्कुर्वती । 'संयोगादेरातो धातोर्यण्वतः' इति ष्यतो निष्ठातस्य नत्वम् । शरच्छरदृतुस्तं रघुं शक्तेरुत्साहशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास । प्रभावमन्त्रशक्तिसम्पन्नस्य शरदस्यमुत्साहमुत्पादयामासेत्यर्थः ।

भावार्थ—नदियों को घटाती हुई और मार्ग के कीचड़ को सुखाती हुई शरद् ऋतु ने रघु को उत्साहशक्ति के पहले प्रेरणा की ॥ २४ ॥

तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥ २५ ॥

अन्वयः—वाजिनीराजनाविधौ सम्यक् हुतः वह्निः प्रदक्षिणार्चिर्व्याजेन हस्तेन इव तस्मै जयं ददौ ।

तस्मा इति । वाजिनामश्वानां नीराजनविधौ नीराजनाऽऽख्ये शान्तिकर्मणि सम्यग्विधिवद् हुतो होमसमिद्धो वह्निः प्रागतो दक्षिणं प्रदक्षिणम् । तिष्ठद्गुप्रभृति

चतुर्थः सर्गः ११५

चतुर्थः सर्गः ११५

त्वाद्दव्ययीभावः । प्रदक्षिणां याऽर्चिज्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ । उक्तमाश्वयात्रायाम्—'दृढः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगां करोति' इति । वाजिग्रहणं गजादीनामप्युपलक्षणं तेषामपि नीराजनाविधानात् ।

भावार्थ— घोड़ों के नीराजन में विधिवत् हवन की गयी अग्नि ने दक्षिण ज्वाला से उस रघु को विजय दिया ॥ २५ ॥

स गुप्तमूलप्रत्यन्तः शुद्धपाष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ २६ ॥

अन्वयः— गुप्तमूलप्रत्यन्तः, शुद्धपाष्णिः, अयान्वितः सः षड्विधं बलं आदाय, दिग्जिगीषया प्रतस्थे ।

स इति । गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्रान्तदुर्गं च येन स गुप्तमूलप्रत्यन्तः । शुद्धपाष्णिरुद्धृतपृष्ठशत्रुः सेनया रक्षितपृष्ठदेशा वा । अयान्वितः शुभदैवान्वितः 'अयः शुभावहो विधिः' इत्यमरः । स रघुः, षड्विधं मौलभृत्यादिरूपं बलं सैन्यम् । 'मौलं भृत्यः सुहृच्छ्रेणी द्विषद्राटविकं बलम्' इति कोषः । आदाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ।

भावार्थ— दुर्ग आदि की रक्षा का प्रबन्ध कर, पृष्ठदेशस्थ राजाओं के उन्मूलक रघु यात्रा के समय मङ्गलाचरण करके ६ प्रकार की सेना ले दिग्विजयेच्छा से चले ।

अवाकिरन्व्योवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोमंय इवाच्युतम् ॥ २७ ॥

अन्वयः— वयोवृद्धाः पौरयोषितः लाजैः तं क्षीरोर्मयः मन्दरोद्धूतैः पृषतैः अच्युतम् इव अवाकिरन् ।

अवाकिरन्निति । वयोवृद्धाः पौरयोषितस्तं रघुं प्रयान्तं लाजैराचारलाजैः । मन्दरोद्धूतैः पृषतैर्बिन्दुभिः क्षीरोमंयः, क्षीरसमुद्रोर्मयोऽच्युतं विष्णुमिव । अवाकिरनभ्यक्षिपन् ।

भावार्थ— नगर की वृद्धाओं ने धान के लावों से रघु, पर वर्षा की जैसे क्षीरसागर की लहरों ने मन्दराचल से उठे हुए छींटों से विष्णुजी के ऊपर वर्षा की थी ।

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ २८ ॥

अन्वयः— प्राचीनबर्हिषा तुल्यः सः अनिलोद्धूतैः केतुभिः अहितान् तर्जयन् इव प्रथमं प्राचीं ययौ ।

स इति । प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित् । प्राचीनबर्हिरिन्द्रः ।