भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

३७८ | रघुवंशमहाकाव्ये

कर ली थी तब राजा दशरथ को अपनी दशा देखकर बड़ी चिन्ता हुई, क्योंकि उनके पुत्र अभी बच्चे थे ॥ ६७ ॥

नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ ६८ ॥

अन्वयः—आत्मजे दारुणे अहिते च तुल्यं राम इति नाम हारसर्पयोः रत्नजातं इव अस्य हृद्यं भयदायि च अभवत् ।

नामेति । आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषेण वर्तमानं राम इति नाम हारसर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव । 'जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता' इत्यमरः । अस्य दशरथस्य हृद्यं हृदयङ्गमं भयदायि भयङ्करं चाऽभवत् ।

भाषार्थ—राजा दशरथ के पुत्र और परशुराम दोनों में रामनाम था इस लिए जिस प्रकार गले के हार एवं सर्प दोनों में वर्तमान मणि आनन्द भी देता है और भय भी उपस्थित करता है उसी प्रकार अपने पुत्र राम और शत्रु परशुराम दोनों में आये रामनाम से उन्हें भय भी हुआ और आनन्द भी ॥ ६८ ॥


अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनाऽर्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ६९ ॥

अन्वयः—सः अर्घ्यं अर्घ्यं इति वादिनं नृपं अनवेक्ष्य यतः भरताग्रजः ततः क्षत्रकोपदहनाऽर्चिषं उदग्रतारकां दृशं सन्दधे ।

अर्घ्यमिति । स भार्गवः अर्घ्यमर्घ्यमिति वादिनं नृपमनवेक्ष्य यतो यत्र भरताग्रजस्ततस्तत्र । “इतराभ्योऽपि दृश्यन्ते” इति सार्वविभक्तिकस्तसिः । क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषाग्निस्तस्यार्चिषं ज्वालामिव स्थिताम् । 'ज्वालाभासोर्नपुंस्यर्चिः' इत्यमरः । उदग्रा तारका कनीनिका यस्यास्ताम् । 'तारकाक्षणः कनीनिका' इत्यमरः । दृशं संदधे ।

भाषार्थ—परशुरामजी के भय के कारण शीघ्रता से अर्घ्य ग्रहण कीजिए अर्घ्य ग्रहण कीजिए इस प्रकार कहनेवाले राजा दशरथ की ओर ध्यान न देकर जिधर रामजी थे उधर ही दृष्टि देकर क्रोध से चिनगारी के समान लाल हुई टेढ़ी आंखों से राम को देखने लगे ॥ ६९ ॥


तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ७० ॥

अन्वयः—कार्मुकनिषक्तमुष्टिना शरं अंगुलीविवरचारिणं कुर्वता युयुत्सुना तेन विगतभीः पुरोगतः राघवः निजगदे ।

एकादशः सर्ग | ३७६

तेनेति। कार्मुकनिषक्तमुष्टिना शरमङ्गुलीविवरचारिणं कुर्वता युयुत्सुना योद्धुमिच्छता तेन भार्गवेण कर्त्रा विगतभीर्निर्भीकः सन् पुरोगतोऽग्रतो राघवो निजगद उक्तः। कर्मणि लिट्।

**भाषार्थ—**मुट्ठी में धनुष को पकड़कर अंगुलियों में बाण चढ़ाते हुए युद्धाभिलाषी परशुराम ने अपने आगे निर्भय होकर खड़े हुए राम से कहा॥ ७०॥

क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात्॥ ७१॥

**अन्वयः—**क्षत्रजातम् अपकारवैरि तत् बहुशः निहत्य समं गतः सुप्तसर्पः दण्डघट्टनात् इव तव विक्रमश्रवात् रोषितः अस्ति।

क्षत्रेति। क्षत्रजातं क्षत्रजातिर्मेऽपकारेण पितृवधरूपेण वैरि द्वेषि। तत्क्षत्रजातं बहुश एकविंशतिवारान्निहत्य शमं गतोऽस्मि। तथापि सुप्तसर्पो दण्डघट्टनात् यष्टिप्रहरणादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि।

**भाषार्थ—**मेरे पिता के वध करने के कारण क्षत्रिय जाति मेरा शत्रु है। इसलिए २१ बार उसको मारकर मुझे कुछ शांति मिली थी, किन्तु जिस प्रकार डण्डे से छेड़ देने से सांप फुफकार उठता है उसी प्रकार तुम्हारा पराक्रम सुनकर मैं क्रोधित हो गया हूँ॥ ७१॥

मैथिलस्य धनुरन्यपार्थिवैस्त्वं किल़ानमितपूर्वमक्ष्णोः।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः॥ ७२॥

**अन्वयः—**पार्थिवैः अनमितपूर्वं मैथिलस्य धनुः त्वं अक्ष्णोः किल तत् भग्नं निशम्य भवता आत्मनः वीर्यं (भग्नं) समर्थये।

मैथिलस्येति। अन्यैः पार्थिवैः अनमितपूर्वं पूर्वमनमितं सुप्सुपेति समासः। अस्य मैथिलस्य धनुस्त्वमक्ष्णोः क्षतवान्। किलेति वार्तायाम्। 'वार्तासंभाव्ययोः किल' इत्यमरः। तद्धनुर्भग्नं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङ्गं भग्नमिव समर्थये मन्ये।

**भाषार्थ—**मिथिला नरेश जनक के जिस धनुष को कोई भी वीर नहीं नवा सका उसी को तूने तोड़ दिया है। यह सुनकर मैं समझता हूँ कि मेरे पराक्रम रूप सींग को तुमने तोड़ा है॥ ७२॥

अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात्।
व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि॥ ७३॥

३८० रघुवंशमहाकाव्ये

**अन्वयः—**अन्यदा जगति राम इति अयं शब्दः उच्चरितः (सन्) माम् एव अगात् सम्प्रति त्वयि उदयोन्मुखे व्यस्तवृत्तिः सः मे व्रीडं आवहति ।

अन्यदेति । अन्यदाऽन्यस्मिन्काले जगति राम इत्ययं शब्द उच्चरितः सन्मामेवागात् अगमत् । संप्रति त्वय्युदयोन्मुखे सति व्यस्तवृत्तिर्विपरीतवृत्तिः अन्यगामीति यावत् । स शब्दो मे व्रीडमावहति लज्जां करोति ।

**भाषार्थ—**पहले संसार में 'राम कहने से लोग मुझे ही समझते थे, परन्तु तुम ज्यों-ज्यों आगे बढ़ते चले जा रहे हो त्यों-त्यों वह अर्थ तुम्हारे नाम के साथ लगता जा रहा है। यह देखकर मुझे लज्जा लग रही है ॥ ७३ ॥

बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ७४ ॥

**अन्वयः—**अचले अपि अकुण्ठितं शस्त्रं बिभ्रतः मम द्वौ समागसौ रिपू मतौ धेनुवत्सहरणात् हैहयः च कीर्तिमपहर्तुं उद्यतः त्वं च ।

बिभ्रत इति । अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधौ रिपू मतौ । 'आगोऽपराधो मन्तुश्च' इत्यमरः । धेनोः पितुर्होमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्य कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च । वत्सहरणे भारतश्लोकः— 'प्रमत्तश्चाश्व मात्तस्य होमधेन्वास्ततो बलात् । जहार वत्सं क्रोशन्त्या वभञ्ज च महाद्रुमाम् ॥ इति' ॥

**भाषार्थ—**क्रौंच पर्वत पर टकराकर भी कुण्ठित नहीं होनेवाले परशु को धारण करने वाले मेरे समान अपराध करनेवाले आज तक दो ही शत्रु हुए हैं उनमें पहला था सहस्रार्जुन जो मेरे पिता से कामधेनु गौ और बछड़ा छीनकर ले गया था और दूसरे हो तुम जो मेरी कीर्ति हरण करने के लिए कमर कसे बैठे हो ॥ ७४ ॥

क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ ७५ ॥

**अन्वयः—**तेन क्षत्रियान्तकरणः अपि विक्रमः त्वयि अजिते माम् न अवति पावकस्य महिमा सः गण्यते यः कक्षवत् सागरे अपि ज्वलति ।

क्षत्रियेति । तेन कारणेन क्रियते येनासौ करणः क्षत्रियान्तस्य करणोऽपि विक्रमः त्वय्यजिते मां नावति न प्रीणाति । तथाहि पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत्कक्ष इव । "तत्र तस्येव" इति सप्तम्यर्थे वतिः सागरेऽपि ज्वलति ।

**भाषार्थ—**इसलिए २१ बार क्षत्रियों का अन्त करनेवाला भी मेरा पराक्रम

एकादशः सर्गः ३८१

तब तक मुझे अच्छा नहीं लगता जब तक तुझे मैं जीत न लूँ। क्योंकि अग्नि का प्रताप तभी प्रशंसनीय है जब वह समुद्र में भी वैसे ही भड़ककर जले जैसे सूखी घास के ढेर में जलता है ॥ ७५ ॥

विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ७६ ॥

**अन्वयः—**ऐश्वरं धनुं हरेः ओजसा आत्तबलं च विद्धि तत् त्वया अभाजि नदीरयैः खातमूलं तटद्रुमं मृदुः अपि अनिलः पातयति ।

विद्धीति । किंच ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च विद्धि यद्धनुस्त्वयाऽभाज्यभंक्षि । "भञ्जेश्च ण्विचि" इति विभाषया नलोपः । तथाहि नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति । ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ।

**भाषार्थ—**शिवजी के जिस धनुष को तोड़कर तुम ऐंठ रहे हो उसकी शक्ति तो विष्णु ने पहले ही हर ली है। इसलिए उसे तोड़कर तुमने कोई वीरता का काम नहीं किया है, क्योंकि जिस वृक्ष की जड़ को नदी की प्रचण्ड धारा ने पहले ही खोखली कर दी हो उसे वायु के झोंके से ढहजाने में क्या देर लगती है ॥ ७६ ॥

तन्मदीयमिदमायुधं ज्यया सङ्गमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ७७ ॥

**अन्वयः—**तत् मदीयं इदं आयुधं ज्यया संगमय्य सशरं विकृष्यतां प्रधनं तिष्ठतु एवमपि अहं तुल्यबाहुः तरसा त्वया जितः ।

तदिति । तत्तस्मान्मदीयमिदमायुधं कार्मुकं ज्यया सङ्गमय्य संयोज्य "ल्यपि लघुपूर्वात्" इति णेरयादेशः । सशरं यथा तथा त्वया विकृष्यताम् । प्रधनं रणस्तिष्ठतु । प्रधनं तावदास्तामित्यर्थः । 'प्रधनं मारणे रणे' इति विश्वः । एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः । त्वया जितः ।

**भाषार्थ—**देखो राम ! युद्ध तो पीछे होगा, पहले तुम मेरे इस धनुष पर डोरी चढ़ाकर इसे बाण के साथ खींचो तो सही, यदि तुम इतना भी कर लोगे तो मैं समझूंगा कि तुम मेरे ही समान बलवान् हो और मैं इतने से ही अपनी हार मानकर लौट जाऊंगा ॥ ७७ ॥

कातरोऽसि यदि वोद्गताचिषा तर्जिताः परशुधारया मम ।
ज्यानिघातकठिनाङ्‌गुलिवृत्तया बध्यतामभययाचनाञ्जलिः ॥ ७८ ॥

३८२ रघुवंशमहाकाव्ये

अन्वयः—यदि वा उद्गतार्चिषा मम परशुधारया तर्जितः कातरः असि वृथा ज्यानिघातकठिनांगुलिः अभययाचनाञ्जलिः बध्यताम् ।

कातर इति । यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि । वृथा ज्यानिघातेन मौर्वीसङ्घट्टनेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थनाञ्जलिवर्द्धयताम् । 'तौ युतावञ्जलिः पुमान्' इत्यमरः ।

भावार्थ—यदि तुम मेरे फरसे की चमकती हुई धार को देखकर डर गये हो तो अपने उन हाथों को जोड़कर अभय की भिक्षा मांग लो जिनकी अङ्गुलियों में धनुष की डोरी की फटकार से व्यर्थ के घट्टे पड़ गये हैं ॥ ७८ ॥

एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ७९ ॥

अन्वयः—भीमदर्शने भार्गवे एवं उक्तवति (सति) राघवः स्मितविकम्पिताधरः (सन्) तद्धनुर्ग्रहणं एवं समर्थं उत्तरं प्रत्यपद्यत ।

एवमिति । भीमदर्शने भार्गवे एवमुक्तवति सति राघवः स्मितेन हासेन विकम्पिताधरः सन् तद्धनुर्ग्रहणमेव समर्थमुचितमुत्तरं प्रत्यपद्यताङ्गीचकार ।

भावार्थ—भयंकर वेशधारी परशुरामजी ने जब ऐसा कहा तब रामने मुस्कराते हुए इस प्रकार वह धनुष हाथ में ले लिया मानो परशुरामजी के वचनों का वही ठीक उत्तर हो ॥ ७९ ॥

पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ ८० ॥

अन्वयः—पूर्वजन्मधनुषा समागतः अतिमात्रलघुदर्शनः अभवत् नवाम्बुदः केवलोऽपि सुभगस्त्रिदशचापलाञ्छितः किं पुनः ।

पूर्वेति । पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत् । तथाहि नवाम्बुदः केवलो रिक्तोऽपि सुभगः शोभावान् त्रिदशचापेनेन्द्रधनुषा लाञ्छितश्चिह्नितः किं पुनः । सुभग एवेति भावः ।

भावार्थ—ज्योंही उन्होंने अपने पिछले जन्मवाला वह धनुष हाथ में लिया त्योंही उनकी शोभा और भी बढ़ गई क्योंकि एक तो नया बादल योंही सुन्दर लगता है फिर उसमें यदि इन्द्रधनुष भी बन जाय तो उसकी शोभा का कहना ही क्या है ॥ ८० ॥

तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाऽधिरोपितम् ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ८१ ॥

एकादशः सर्गः ३८३

एकादशः सर्गः ३८३

अन्वयः—बलिना तेन भूमिनिहितैककोटि तत् कार्मुकं च अधिरोपितम् भूभृतां रिपुः च धूमकेतन इव निष्प्रभः आस ।

तेनेति । बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत् कर्मणे प्रभवतीति कार्मुकं धनुश्च । "कर्मण उकञ्" इत्युकञ्प्रत्ययः । अधिरोपितम् । भूभृतां रिपुर्भार्गवश्च धूमशेषो धूमकेतनोऽग्निरिव निष्प्रभो निस्तेजस्क आस बभूव । निर्वापितो वह्निरिव हततेजा अभूदित्यर्थः । आसेति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ।

भाषार्थ—बलवान् राम ने उस धनुष की एक छोर पृथ्वी पर टेककर ज्योंही उस पर डोरी चढ़ाई त्योंही क्षत्रियों के शत्रु परशुरामजी उस अग्नि के समान निस्तेज हो गये जिसमें केवल धूंआ भर रह गया हो ॥ ८१ ॥

तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ ८२ ॥

अन्वयः—परस्परस्थितौ वर्धमानपरिहीनतेजसौ तौ उभौ अपि दिनात्यये पार्वणौ शशिदिवाकरौ जनता पश्यति स्म ।

ताविति । परस्परस्थितावन्योन्याभियुक्तौ वर्धमानं च परिहीनं चेति द्वन्द्वः । वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघवभार्गवावपि दिनात्यये सायङ्काले । पर्वणि भवौ पार्वणौ शशिदिवाकराविव । जनता जनसमूहः । "ग्रामजनबन्धु-सहायेभ्यस्तल्" इति तल्प्रत्ययः । पश्यति स्मापश्यत् । अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ।

भाषार्थ—आमने सामने खड़े हुए राम और परशुराम में से एक का तेज बढ़ गया और दूसरे का घट गया । जनता ने उन दोनों को इस प्रकार देखा मानों वे पूर्णिमा के दिन सन्ध्या के समय चन्द्रमा और सूर्य हों ॥ ८२ ॥

तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ ८३ ॥

अन्वयः—हरसूनुसंनिभः कृपामृदुः राघवः आत्मनि स्खलितवीर्यं तं भार्गवं स्वं संहितं अमोघं आशुगं च अवेक्ष्य व्याजहार ।

तमिति । हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः आत्मनि विषये स्खलित-वीर्यं कुण्ठितशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य व्याजहार बभाषे ।

३८४ रघुवंशमहाकाव्ये

भाषार्थ—शंकरजी के पुत्र कार्तिकेय के समान बलवान् दयालु रामजी एक बार अपने विषय में हारे हुए निस्तेज परशुरामजी को फिर अपने धनुष पर चढ़े हुए अपने अमोघ बाण को देखकर बोले ॥ ८३ ॥

न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि ।
शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥ ८४ ॥

**अन्वयः—**अभिभवति अपि त्वयि विप्र इति निर्दयं प्रहर्तुं अलं अस्मि (किंतु) अनेन पत्रिणा ते गतिं हन्मि उत मखार्जितं लोकं ( हन्मि इति ) शंस ।

नेति । अभिभवत्यपि त्वयि विप्र इति हेतोः निर्दयं प्रहर्तुमलं शक्तो नास्मि । किं त्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि । उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ।

**भाषार्थ—**यद्यपि आपने मेरा अपमान किया है किन्तु आप ब्राह्मण हैं—इसलिए मैं निर्दय होकर आपको नहीं मारूँगा । यह आप बताइए कि अब इस बाण से मैं आपकी गति रोक दूं या आपका उन दिव्यलोकों में पहुँचाने की शक्ति को रोक दूँ जिसे आपने यज्ञ करके अर्जित किया है ॥ ८४ ॥

प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥ ८५ ॥

**अन्वयः—**ऋषिः तं प्रत्युवाच तावतः त्वां पुरातनं पुरुषं ( इति ) न वेद्मि न ( किन्तु ) गां गतस्य तव वैष्णवं धाम दिदृक्षुणा मया कोपितः असि ।

प्रतीति । ऋषिर्भार्गवस्तं रामं प्रत्युवाच । किमति तत्त्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न किंतु वेद्म्येवेत्यर्थः । किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षुणा द्रष्टुमिच्छुता मया कोपितो ह्यसि ।

**भाषार्थ—**यह सुनकर परशुरामजी बोले—यह बात नहीं है कि मैं आपको देखते ही पहचान नहीं पाया हूँ कि आप साक्षात् पुरातन पुरुष हैं, किन्तु पृथ्वी पर अवतार ग्रहण किए हुए आपके वैष्णव तेज को देखने की इच्छा से आपको मैंने क्रोधयुक्त किया है ॥ ८५ ॥

भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ८६ ॥

**अन्वयः—**पितृद्विषः भस्मसात्कृतवतः ससागरां वसुधां पात्रसात् ( कृतवतः ) परमेष्ठिना त्वया आहतः मे विपर्ययः अपि श्लाघ्य एव ।

भस्मसादिति । पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेनभस्मीकुर्वतः ।

एकादशः सर्गः ३८५

एकादशः सर्गः ३८५

"विभाषा सातिकार्त्स्न्ये" इति सातिप्रत्ययः ससागरां वसुधां च पात्रसात्यात्राधीनदेयं कृतवतः "देये त्रा च" इति चकारात्सातिः । कृतकृत्यस्य मे परमेष्ठिना परमे लोके तिष्ठतीति तेन परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ।

भाषार्थ—पिताके शत्रुओं का नाश करनेवाले और समुद्र तक फैली हुई पृथ्वी ब्राह्मण को दान दे देनेवाले, मेरे लिए आप परम पुरुष से हारना भी गौरव की बात है ॥ ८६ ॥

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ८७ ॥

अन्वयः—तत् हे मतिमतां वर ! पुण्यतीर्थगमनाय ईप्सितां मे गतिं रक्ष, (किन्तु) खिलीकृता स्वर्गपद्धतिः अभोगलोलुपं मां न पीडयिष्यति ।

तदिति । तत्तस्मात्कारणाद्धे मतिमतां वर ! पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय । किन्तु खिलीकृता दुर्गमीकृताऽपि स्वर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः ।

भाषार्थ—हे बुद्धिमानों में श्रेष्ठ ! आप मेरी अभिलषित गति न रोकिये जिससे मैं पुण्य तीर्थों में जा सकूँ; मुझे भोग की तो इच्छा है नहीं । इसलिए यदि मुझे स्वर्ग न भी मिले तो कुछ दुःख नहीं होगा । अतः आप स्वेच्छागति को बचाकर मेरे स्वर्गलोक को ही अपने अमोघ बाण से नष्ट कीजिए ॥ ८७ ॥

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ८८ ॥

अन्वयः—राघवः तथा इति प्रतिपद्यत प्राङ्मुखः सायकं विससर्ज च । स सुकृतोऽपि भार्गवस्य दुरत्ययः स्वर्गमार्गपरिघः अभवत् ।

प्रत्यपद्येति । राघवस्तुतथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च । स सायकः सुकृतोऽपि साधुकारिणोऽपि । करोतेः क्विप् । भार्गवस्य दुरत्ययो दुःखेन अत्ययो नाशो यस्य स दुरत्ययो दुरतिक्रमः । स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ।

भाषार्थ—रामने परशुरामजी का कहना मान लिया और पूर्वाभिमुख होकर बाण छोड़ दिया । यद्यपि परशुरामजी ने बहुत पुण्य किया था फिर भी वह बाण सदा के लिए उनके स्वर्ग का प्रतिरोधक बन गया ॥ ८८ ॥

२५ र० सम्पू०

३८६ - रघुवंशमहाकाव्ये

राघवोडपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुधु प्रणतिरेव कीर्तये ॥ ८९ ॥

अन्वयः— राघवः अपि 'क्षम्यताम्' इति वदन् तपोनिधेः चरणौ समस्पृशत् तरस्विनां तरसा निर्जितेषु शत्रुधु प्रणतिः एव कीर्तये ( भवति ) ।

राघव इति । राघवोडपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशतप्रणनाम । तथाहि तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुधु प्रणतिरेव कीर्तये भवतीति शेषः ।

भाषार्थ— तब राम ने महातपस्वी परशुरामजी से क्षमा माँगते हुए उनके दोनों चरणों का स्पर्श कर प्रणाम किया, क्योंकि जब कोई पराक्रमी वीर अपने पराक्रम से अपने शत्रुको जीत लेता है तब यदि वह नम्रता भी दिखाता है तो उसकी कीर्ति ही बढ़ती है ॥ ८९ ॥

राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा । नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ९० ॥

अन्वयः— मातृकं राजसत्वं अवधूय पित्र्यं शमं यदा गमितः ( अस्मि तदा ) त्वया मम अनिन्दितफलः अयं निग्रहः अपि अनुग्रहीकृतः ।

राजसत्वमिति । मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय तिरस्कृत्य । पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि । तदा त्वया समापेक्षितत्वादनिन्दितं गर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ।

भाषार्थ— परशुरामजी बोले—आपने मुझे अनिन्दित फल वाला यह दण्ड देकर मेरा बड़ा भारी उपकार किया है, इससे मेरा बहुत बड़ा लाभ यह हुआ है कि अपने क्षत्रिय माता से पाये हुए मेरे रजोगुण को दूर करके मुझे ब्राह्मणोचित पिता का सतोगुण दे दिया है ॥ ९० ॥

साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः । ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ ९१ ॥

अन्वयः— 'अहं साधयामि, देवकार्यं उपपादयिष्यतः ते अविघ्नम् अस्तु' लक्ष्मणाग्रजं रामं इति वचः ऊचिवान् ऋषि तिरोदधे ।

साधयामिति । अहं साधयामि गच्छामि धातूनामनेकार्थत्वात् । इति देवकार्यमुपपादयिष्यतः सम्पादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु । "अव्ययं विभक्तिसमीपसमृद्ध्व्यृद्ध्यर्थाभाव०" इत्यादिनार्थाभावेऽव्ययीभावः । सह लक्ष्मणेन

एकादशः सर्गः ३८७

एकादशः सर्गः ३८७

सलक्ष्मणस्तम् । "तेन सहेति तुल्ययोगे" इति बहुव्रीहिः । लक्ष्मणाग्रजं राममिति वच ऊचिवानुक्तवान् । ब्रुवः क्वसुः । ऋष्टिभिस्तिरोधघेऽन्तर्दधे ।

भाषार्थ—अब मैं जा रहा हूँ आप देवताओं का जो कार्य करने के लिए आए हैं वह बिना विघ्न के पूरा हो, इस प्रकार लक्ष्मण के सहित राम से कह-कर परशुरामजी अन्तर्धान हो गये ॥ ९१ ॥

तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातम् । तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ ९२ ॥

अन्वयः—तस्मिन् गते विजयिनं रामं पिता स्नेहात् परिरभ्य पुनः जातम् एव अमन्यत । क्षणशुचः तस्य परितोषलाभः कक्षाग्निलंघिततरोः वृष्टिपातः इव अभवत् ।

तस्मिन्निति । तस्मिन्भार्गवे गते सति विजयिनं रामं पिता स्नेहात्परिरभ्या-लिङ्ग्य पुनर्जातमेवामन्यत । क्षणं शुग्यस्येति विग्रहः । क्षणशुचस्तस्य दशरथस्य परितोषलाभः सन्तोषप्राप्तिः कक्षाग्निना दावानलेन । 'कक्षः शुष्ककाननवीरुधोः' इति विश्वः । लङ्घितस्याभिहतस्य तरोर्वृष्टिपातः वर्षापात इव अभवत् ।

भाषार्थ—उस परशुरामजी के चले जाने पर दशरथजी स्नेह से विजयी रामको आलिङ्गन कर यह समझने लगे कि राम का दूसरा जन्म हुआ है । इस क्षणमात्र के दुःख के बाद दशरथजी को ऐसा सन्तोष मिला जैसे जंगल की आग से झुलसते हुए पेड़ को वर्षा का जल मिल गया हो ॥ ९२ ॥

अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ९३ ॥

अन्वयः—अथ शर्वकल्पः अवनिपालः क्लृप्तरम्योपकार्ये पथि कतिचित् शर्वरीः गमयित्वा मैथिलीदर्शिनीनां अङ्गनानां लोचनैः कुवलयितगवाक्षां पुरं अयोध्याम् अविशत् ।

अथेति । अथ ईषदसमाप्तः शर्वः शर्वकल्पः । "ईषदसमाप्तौ कल्पब्देश्यदेशीयरौ" इति कल्पप्प्रत्ययः । अवनिपालः क्लृप्ता रम्या नवा उपकार्या यस्मिन्स तस्मिन्पथि कतिचिच्छर्वरी रात्रीर्गमयित्वा मैथिलीदर्शिनीनामङ्गनानां लोचनैः । कुवलयानि

३८८ रघुवंशमहाकाव्ये

येषां संजातानि कुवलयिताः । "तदस्य सञ्जातं तारकादिभ्य इतच्" इती- तच्प्रत्ययः। कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यार्मावशत्प्रविष्टवान् । इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये सीताविवाहवर्णनं नामैकादशः सर्गः ॥ ११ ॥ भाषार्थ—इसके बाद शिव के समान राजा दशरथ ने कुछ रातें उस मार्ग में बिताईं, जहाँ उनके लिए सुन्दर खेमे तने हुए थे । फिर वे उस अयोध्या नगरी में पहुँचे, जहाँ सीताजी को देखने के लिए उत्सुक नगर की सुन्दर स्त्रियों की आँखें झरोखों में कमल के समान दिखाई पड़ रही थीं ॥ ९३ ॥

यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित अन्वय और चन्द्रकला नाम की हिन्दी टीका में रघुवंश महाकाव्य का सीताविवाह नामक दशम सर्ग समाप्त हुआ ॥ ११ ॥


द्वादशः सर्गः

वन्दामहे महोद्दण्डदोर्दण्डौ रघुनन्दनौ । तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ ॥

निर्वृष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥ १ ॥

अन्वयः—निर्वृष्टविषयस्नेहः दशान्तम् उपेयिवान् स उषसि प्रदीपार्चिः इव आसन्ननिर्वाणः आसीत् ।

निर्वृष्टेति । स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः । पचाद्यच् । स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः । अधिकरणार्थे घञ् । विषयाः शब्दादयस्त एव स्नेहा निर्वृष्टा भुक्ता विषयस्नेह। येन स तथोक्तः । 'निर्वेशो भृतिभोगयोः' इति विश्वः । दशा जीवनावस्था तस्य अन्तः वार्धकमृपेयिवान्स दशरथः । उषसि प्रदीपार्चिरिव दीपज्वालेव आसन्न निर्वाणः मोक्षः यस्य स तथोक्त आसीत् । अर्चिः पक्षे तु विषयो देश आश्रयः भाजनमिति यावत् । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति

द्वादशः सर्गः ३८९

विश्वः। स्नेहस्तैलादिः । 'स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च' इति विश्वः ।
दशा वर्तिका । 'दशा वर्ताववस्थायाम्' इति विश्वः । निर्वाणं विनाशः ।
निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने' इति यादवः ।
भाषार्थ—राजा दशरथ ने सांसारिक विषय सुखों को भोग लिया और वे बूढ़े हो चले, अब उनकी दशा प्रातःकाल के उस दीपक के समान हो गई, जिसका तेल समाप्त हो गया है और वह बुतने वाला ही हो ॥ १ ॥

तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ २ ॥

अन्वयः—जरा कैकेयीशङ्कया पलितच्छद्मना कर्णमूलम् आगत्य रामे श्रीः न्यस्यताम् इति आह ।

तमिति । जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यस्य छद्मना मिषेण । 'पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा' इत्यमरः । कर्णमूल कर्णोपकण्ठ-मागत्य रामे श्री राज्यलक्ष्मीर्न्यस्यतां विधीयतामिति तमाह। दशरथो वृद्धोऽह-मिति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्क्षेत्यर्थः ।
भाषार्थ—उनकी कनपटी के पास के बाल सफेद हो गये थे मानो बुढ़ापा कैकेयी से शङ्कित होकर राजा दशरथ के कान में आकर यह कह रहा थी कि अब राम को राज्यलक्ष्मी दे देना चाहिए ॥ २ ॥

सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्लादयाञ्चक्रे कुल्येवोद्यानपादपान् ॥ ३ ॥

अन्वयः—सा पौरकान्तस्य रामस्य अभ्युदयश्रुतिः कुल्या उद्यानपादपान् इव पौरान् प्रत्येकं ह्लादयाञ्चक्रे ।

सेति । सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता कुल्या कृत्रिमा सरित् । 'कुल्याल्पा कृत्रिमा सरित्' इत्यमरः । उद्यानपादपानिव पौरान्प्रत्येकं ह्लादयाञ्चक्रे ।
भाषार्थ—जिस प्रकार नाली पानी से सींचकर उपवन के वृक्षों को हरा भरा बना देती है उसी प्रकार नागरिकों के प्रिय राम के राज्याभिषेक की चर्चा ने प्रत्येक नागरिक को आह्लादित कर दिया ॥ ३ ॥

तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ ४ ॥

अन्वयः—क्रूरनिश्चया कैकेयी तस्य कल्पितं अभिषेकसम्भारं शोकोष्णैः पार्थिवाश्रुभिः दूषयामास ।

३९० | रघुवंशमहाकाव्ये

तस्येति । क्रूरनिश्चया कैकेयी तस्य रामस्य कल्पितं सम्भृतमभिषेकस्य सम्भारमुपकरणं शोकोष्णैः पार्थिवाश्रुभिर्दूषयामास । स्वदुःखमूलेन राजशोकेन प्रतिबबन्धेत्यर्थः ।

**भाषार्थ—**निष्ठुर कैकेयी ने ऐसा कुचक्र चलाया कि रामको राज्याभिषेक की सारी तैयारी शोक से सन्तप्त राजा दशरथ की आसुओं से दूषित हो गयी । अर्थात् क्रूरकर्मा कैकेयी के कारण रोते हुए दशरथ ने राम के राज्याभिषेक को रोक दिया ॥ ४ ॥

सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूबिलमग्नाविवोरगौ ॥ ५ ॥

**अन्वयः—**चण्डी सा किल भर्त्रा आश्वासिता ( सती ) तत्संश्रुतौ वरौ इन्द्रसिक्ता भूः विलमग्नो उरगो इव उद्ववाम ।

सेति । चण्ड्यतिकोपना । 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः । सा किल भर्त्राऽऽश्वासिताऽनुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ इन्द्रेण मेघेेन सिक्ताभिवृष्टा । 'इन्द्रः फणिज्जके सान्द्रे घनकामनयोर्मदो' इति विश्वः । भूबिले वल्मीकादौ मग्नावुरगाविव उद्ववामोज्जगार ।

**भाषार्थ—**अत्यन्त क्रोधशीला उस कैकेयी ने राजा दशरथ द्वारा आश्वासन दिए जाने पर दो वर मांगे जिनके लिए वे पहले ही वचन दे चुके थे, वे दोनों वर कैकेयी के मुख से इस प्रकार निकले जिस प्रकार वर्षा से भीगी हुई पृथ्वो से बिल में घुसे दो सांप निकलते हों ॥ ५ ॥

तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ ६ ॥

**अन्वयः—**सा तयोः एकेन रामं चतुर्दशसमाः प्राव्राजयत् । द्वितीयेन वरेण सुतस्य वैधव्यैकफलां श्रियम् ऐच्छत् ।

तयोरिति । सा तयोर्वरयोर्मध्ये एकेन वरेण रामं चतुर्दशसमाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । प्राव्राजयत्प्रावासयत् । द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलां न तूपभोगफलामिति भावः । श्रियमैच्छदियेष ।

**भाषार्थ—**उन दोनों वरों में से कैकेयी ने एक वर तो यह मांगा कि चौदह वर्ष के लिए राम वन में चले जाय और दूसरा यह कि मेरे पुत्र भरत को राज्यलक्ष्मी मिले; किन्तु इसका एक मात्र फल यह हुआ कि कैकेयी विधवा हो गई किन्तु सुख नहीं पा सकी ॥ ६ ॥

द्वादशः सर्गः३९१

पित्रा दत्तां रुदन्द्रामः प्राङ्महीं प्रत्यपद्यत।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ ७ ॥

**अन्वयः—**रामः प्राक् पित्रा दत्तां महीं रुदन् प्रत्यपद्यत पश्चात्, 'वनाय गच्छ' इति तदाज्ञां मुदितः अग्रहीत्।

पित्रोति । रामः प्राक्पित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार। स्वत्यागदुःखदिति भावः। पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत्। पित्राज्ञाकरणलाभादिति भावः।

**भाषार्थ—**जिस समय राजा दशरथ रामको राज्यगद्दी दे रहे थे उस समय उन्होंने रोते हुए उसे स्वीकार किया था, पर जब उनसे कहा गया कि वन चले जाओ, तब इस आज्ञा को हँसते-हँसते सिर चढ़ा लिया था ॥ ७ ॥

दधतो मङ्गलक्षौमे वसानस्य च वल्कले।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ ८ ॥

**अन्वयः--**मंगलक्षौमे दधतः वल्कले वसानस्य च तस्य समं मुखरागं जनाः विस्मिता ददृशुः।

दधत इति । मङ्गलक्षौमे मङ्गले च ते क्षौमे दुकूले च दधतो वल्कले वसानास्याच्छादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृत इति भावः।

**भाषार्थ—**यह देखकर लोगों को बड़ा आश्चर्य हुआ कि राम के मुंह का भाव जैसा राज्याभिषेक के रेशमी वस्त्र पहनते समय था, ठीक वैसा ही वन जाने के लिए वल्कल वस्त्र पहनते समय भी था अर्थात् राम के मुख पर हर्ष या शोक का चिह्न न देखकर लोग आश्चर्यचकित हो गये ॥ ८ ॥

स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन्।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ ९ ॥

**अन्वयः—**सः गुरुं सत्यात् अलोपयन् सीतालक्ष्मणसखः दण्डकारण्यं विवेश सतां मनश्च प्रत्येकं विवेश।

स इति । स रामो गुरुं पितरं सत्याद्वरदानरूपादलोपयन्नभ्रंशयन् सीता-लक्ष्मणयो सखेति विग्रहः। ताभ्यां सहितः सन्दण्डकारण्यं दण्डकानामभार्गवकन्यया युतं वनं विवेश सतां मनश्च प्रत्येकं विवेश। पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः।

**भाषार्थ—**अपने पिता के वचन का सत्य करने के लिए राम सीता एवं

३१२रघुवंशमहाकाव्ये

लक्ष्मण के साथ केवल दण्डक में ही नहीं, किन्तु सज्जनों के मन में भी प्रवेश कर गये ॥ ९ ॥

राजाऽपि तद्वियोगातं: स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥

**अन्वयः—**तद्वियोगातं: राजापि स्वकर्मजं शापं स्मृत्वा शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत ।

राजेति । तद्वियोगातं: पुत्रवियोगदुःखितः तस्य रामस्य वियोगेन आर्तः पीडितः राजाऽपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तममन्यत मृत इत्यर्थः ।

**भाषार्थ—**राम के वियोग से राजा दशरथ को बहुत बड़ा दुःख हुआ, उन्हें अपने कर्म से प्राप्त मुनि ( श्रवणकुमार के पिता ) का शाप स्मरण हो आया और उन्होंने समझ लिया कि अब एकमात्र शरीर त्याग से ही मेरी शुद्धि हो सकती है ॥ १० ॥

विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥

**अन्वयः—**विप्रोषितकुमारं अस्तमितेश्वरं तत् राज्यं रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ ।

विप्रोषितेति । विप्रोषिता गताः कुमारा यस्मिस्तत्तथोक्तम् । अस्तमितो मृत ईश्वरो राजा यस्य तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषां शत्रूणामामिषतां भोग्यवस्तुतां ययौ । 'आमिषं भोग्यस्तुनि' इति केशवः ।

**भाषार्थ—**जिस राज्य से राजकुमार बाहर चले गये हैं और राजा का स्वर्गवास हो गया है, ऐसा वह राज्य छिन्द्रान्वेषी शत्रुओं का भोग साधन बन गया । अर्थात् अवसर पाकर शत्रुओं के आक्रमण का विषय बन गया ॥ ११ ॥

अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ १२ ॥

**अन्वयः—**अथानाथाः प्रकृतयः मातृबन्धुनिवासिनम् भरतं स्तम्भिताश्रुभिः मौलैः आनयामासुः ।

अथेति । अथानाथाः प्रकृतयोऽमात्याः । 'प्रकृतिः सहजे यौनावमात्ये परमात्मनि' इति विश्वः । मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः । पितृमरणगुप्त्यर्थमिति भावः । मौलैराप्तैः सचिवैरानाययानामासुरागमयाञ्चक्रुः ।

द्वादशः सर्गः ३९३

**भाषार्थ—**इसके बाद अयोध्या को अनाथ मन्त्रियों ने ननिहाल गये हुए भरत को उन विश्वासपात्र व्यक्तियों से बुलवाया जिन्होंने भेद खुल जाने के भय से अपनी आसुओं को रोक रखा था ॥ १२ ॥

श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥ १३ ॥

**अन्वयः—**कैकेयीतनयः पितुः तथाविधं मृत्युं श्रुत्वा स्वस्याः मातुः एव परा-ङ्मुखः न ( किन्तु ) श्रियः अपि पराङ्मुखः आसीत् ।

श्रुत्वेति । कैकेयीतनयो भरतः पितुस्तथाविधं रामवियोगादित्यर्थः । स्व-मातृमूलं मृत्युं मरणं श्रुत्वा स्वस्याः मातुः केवलं मातुरेव पराङ्मुखो न । किन्तु श्रियोऽपि पराङ्मुख आसीत् ।

**भाषार्थ—**कैकेयी के पुत्र भरत पिता की उस प्रकार हुई मृत्यु को सुनकर केवल अपनी माता कैकेयी से ही विमुख नहीं हुए किन्तु राजलक्ष्मी से भी पराङ्मुख हो गये ॥ १३ ॥

ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः ।
तस्य पश्यन्नसौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ १४ ॥

**अन्वयः—**ससैन्यः आश्रमालयैः दर्शितान् ससौमित्रेः तस्य वसतिद्रुमान् पश्यन् उदश्रुः ( सन् ) रामं अन्वगात् ।

ससैन्य इति । ससैन्यो भरतो राममन्वगाच्च । किं कुर्वन् आश्रमालयैर्वनवा-सिभिर्मुनिभिर्दर्शितानेते रामनिवासा इति कथितान्ससौमित्रेर्लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान्पश्यन्नुदश्रुरुद्गतबाष्पो रुदन् ।

**भाषार्थ—**भरतजी सेना लेकर रामको ढूंढने निकल पड़े । जब मार्ग में आश्रमवासियों ने उन्हें वे वृक्ष दिखलाये जिनके नीचे राम और लक्ष्मण जाते समय ठहरे थे, तो भरत की आंखों में आंसू उछल आये ॥ १४ ॥

चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा ॥ १५ ॥

**अन्वयः—**चित्रकूटवनस्थं तं च गुरोः कथितस्वर्गतिः अनुच्छिष्टसम्पदा लक्ष्म्या निमन्त्रयाञ्चक्रे ।

चित्रेति । चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः कथितपितृ-मरणः सन्नित्यर्थः । अनुच्छिष्टाननुभूतशिष्टा सम्पत् गुणोत्कर्षो यस्य सा । ‘सम्प-

३९४ रघुवंशमहाकाव्ये

ङ्हूतो गुणोत्कर्षे' इति केशवः । तया लक्ष्म्या करणेन निमन्त्रयाञ्चक्रे आहूतवान् । राज्यमनुभवैत्याजुहावेत्यर्थः । भाषार्थ—चित्रकूटके वन में निवास करते हुए राम के पास जाकर भरत ने उन्हें दशरथ जी की मृत्यु का समाचार सुनाया और कहा कि अयोध्या का राज्य लक्ष्मी को मैंने छुआ भी नहीं है उसे मैं स्वीकार नहीं करूँगा । आप चलकर उसे संभालिये ॥ १५ ॥

स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥ १६ ॥

अन्वयः—स हि प्रथमजे अकृतश्रीपरिग्रहे ( सति ) भुवः स्वीकरणात् आत्मानं परिवेत्तारं मेने ।

स हीति । स हि भरतः प्रथमजेऽग्रजे तस्मिन्दरामेऽकृतश्रीपरिग्रहे सति स्वयं-भुवः स्वीकरणादात्मानं परिवेत्तारं मेने । 'परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिग्रहात्' इत्यमरः । भूपरिग्रहोऽपि दारपीरग्रहसम इति भावः ।

भाषार्थ—धर्मशास्त्रों में बड़े भाई के अविवाहित रहते विवाह करनेवाले छोटे भाई को परिवेत्ता कहा गया है और इस प्रकार का विवाह निन्दित माना गया है। शास्त्रों में स्त्री परिग्रह के समान ही राजलक्ष्मी का परिग्रह भी माना गया है। भरतजी ने अपने बड़े भाई राम की राज्यलक्ष्मी स्वीकार न करने पर पहले स्वयं राज्यलक्ष्मी को स्वीकार करने वाले अपने को परिवेत्ता संज्ञक दोषी माना ॥ १६ ॥

तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥ १७ ॥

अन्वयः—स्वर्गिणः पितुः निदेशात् अपाक्रष्टुं अशक्यं तं पश्चात् राज्याधिदेवते कर्तुं पादुके ययाचे ।

तमिति । स्वर्गिणः स्वर्गंतस्य पितुर्निदेशाच्छासनादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे ।

भाषार्थ—रामजी अपने स्वर्गीय पिता की आज्ञा से टस से मस नहीं हुए। तब भरतजी ने उनसे प्रार्थना की कि आप अपनी चरण पादुका मुझे दे दीजिए जिन्हें मैं आपके स्थान पर रखकर राज्य का काम चलाऊँ ॥ १७ ॥

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैव विशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ १८ ॥

द्वादशः सर्गः ३९५

अन्वयः— सः भ्रात्रा तथा इति उक्त्वा विसृष्टः पुरीं न अविशत् ( किन्तु ) नन्दिग्रामगतः तस्य राज्यं न्यासं इव अभुनक् ।

स इति । स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन्पुरीमयोध्यां नाविशदेव । किन्तु नन्दिग्रामगतः संस्तस्य राज्यं न्यासमिव निक्षेपमिवाभुनगपालयत् । न तूपभुक्तवानित्यर्थः । अन्यथा “भुजोऽनवने” इत्यात्मनेपदप्रसङ्गात् । भुजेर्लङ् ।

भावार्थ— 'अच्छा, ऐसा ही होगा' इस प्रकार कहकर अपनी खड़ाऊं देकर रामने भरत को लौटा दिया, पर भरतजी अयोध्यापुरी में प्रवेश नहीं किये किन्तु नन्दीग्राम में रहते हुए धरोहर के समान राम के राज्य का पालन किये ॥ १८ ॥

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ १९ ॥

अन्वयः— ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखः भरत इति मातुः पापस्य प्रायश्चित्तम् इव अकरोत् ।

दृढेति । ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्माकरोदिव इत्युत्प्रेक्षा । दृढभक्तिरित्यत्र दृढशब्दस्य ‘स्त्रियाः पुंवत् ०’ इत्यादिना पुंवद्भावो दुर्घटः 'अप्रियादिषु' इति निषेधात् भक्तिशब्दस्यस्य प्रियादिषु पाठात् । अतो दृढा भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम् । वृत्तिकारश्च—दीर्घनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारत्वात्क्लीत्वमविवक्षितमेव । तस्मादक्लीलिङ्गत्वार्द्दढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः । न्यासकारोऽप्येवम् । भोजराजस्तु—कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात्पुवद्भावसिद्धिः पूर्वपदस्येत्याह ।

भावार्थ— इस प्रकार अपने बड़े भाई राम में दृढ भक्ति करके और राज्य की इच्छा से विमुख होकर भरतजी मानो अपनी माता के पाप का प्रायश्चित्त करने लगे ॥ १९ ॥

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ २० ॥

अन्वयः— सानुजः शान्तः रामः अपि वैदेह्या सह वने वन्येन वर्तयन् वृद्धेक्ष्वाकुव्रतं युवा एव चचार ।

राम इति । सानुजः सलक्ष्मणः शान्तो रामोऽपि वैदेह्या सह वने वन्येन

३९६रघुवंशमहाकाव्ये

कन्दमूलादिना वर्तञ्जीवन्वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार।

**भावार्थ—**इधर राम भी सीता और लक्ष्मण के साथ जंगली कन्द-मूल-फल से जीवन निर्वाह करते हुए युवावस्था में ही वह व्रत करने लगे जो इक्ष्वाकु-वंशी राजा लोग वृद्धावस्था में करते हैं ॥ २० ॥

प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किञ्चिदिव श्रमात् ॥ २१ ॥

**अन्वयः—**सः कदाचित् प्रभावस्तम्भितच्छायं वनस्पतिं आश्रितः ( सन् ) किञ्चित् श्रमात् इव सीताया अङ्के शिश्ये ।

प्रभावति । स रामः कदाचित्प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया तं वनस्पतिमाश्रितः सन् किञ्चिदीवच्छ्रमादिव सीताया अङ्के उत्सङ्गे शिश्ये सुषुवाप ।

**भावार्थ—**एक समय थकावट से राम सीता की गोद में सिर रखकर एक ऐसे वृक्ष के नीचे लेटे हुए थे जिसकी छाया उन्होंने अपनी अलौकिक शक्ति में स्थिर कर दी थी ॥ २१ ॥

ऐन्द्रिः किल नखस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ २२ ॥

**अन्वयः—**ऐन्द्रिः द्विजः तस्याः स्तनौ प्रियोपभोगचिह्नेषु पौरोभाग्यं आचरन् इव नखैः विददार ।

ऐन्द्रिरिति । ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकः । ‘ऐन्द्रिः काकजयन्तयोः’ तस्याः सीतायाः स्तनौ प्रियस्य रामस्योपभोगचिह्नेषु । तत्कृतनखक्षतेष्वित्यर्थः । पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम् ‘दोषैकदृक्पुरोभागी’ इत्यमरः । दुःश्लिष्टदोषवातामाचरन्कुर्वन्निव नखैर्विददार विलिलेख । किलेत्यैतिह्ये ।

**भावार्थ—**इसी बीच इन्द्र का पुत्र जयन्त कौआ का रूप धारण करके आया और राम के उपभोग से जन्य नखक्षतों में दोष दिखलाते हुए के समान सीता के स्तनों को अपने नखों से विदीर्ण कर दिया ॥ २२ ॥

तस्मिन्नास्यदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ २३ ॥

**अन्वयः—**रामावबोधितः रामः तस्मिन् इषीकास्त्रं आस्थत्, स एकनेत्रव्ययेन तस्मात् आत्मानं मुमुचे ।

तस्मिन्निति । रामया सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम् । ‘इषीका काशमुच्यते’ इति हलायुधः । आस्थदस्यति स्म । ‘असु क्षपणे’

द्वादशः सर्गः ३९७.

द्वादशः सर्गः ३९७.

इति धातोर्लङ् । "अस्यतिवक्तिख्यातिभ्योऽङ्" इत्यप्रत्ययः । "अस्यतेस्थुक्" इति थुगागमः । स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान् । मुचे कर्तरि लिट् । 'धेनुं मुमोच' इतिवत्प्रयोगः ।

भाषार्थ—झट सीता ने रामको जगाया और राम ने तत्काल उसपर सींक का बाण छोड़ दिया, जिससे बचने के लिए वह कौआ इधर-उधर बहुत चक्कर लगाया, किन्तु जब तक उसने अपनी एक आंख नहीं दे दी, तब तक उसका छुटकारा नहीं हुआ अर्थात् राम ने बाण से उसकी एक आँख नष्ट कर दी ॥२३॥

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः । आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ ॥ २४ ॥

अन्वयः--रामः तु आसन्नदेशत्वात् पुनः भरतागमनं आशङ्क्य उत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ।

राम इति। रामस्त्वासन्नदेशत्वाद्वैतोः पुनर्भंरतागमनमाशङ्क्योत्सुकसारङ्गा- मुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज । आसन्नश्चासौ देशश्चेति विग्रहः ।

भाषार्थ--कुछ दिनों में ही राम ने इस डर से चित्रकूट का वह आश्रम जहाँ के लोग उनसे इतने हिल मिल गये थे कि सदा उन्हें देखते ही रहते थे छोड़ दिया, कि अयोध्या पास में ही है, ऐसा न हो कि भरत पुनः यहाँ पहुँच जाय ॥ २४ ॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षकेष्विव भास्करः ॥ २५ ॥

अन्वयः--आतिथेयेषु ऋषिकुलेषु वार्षकेषु ऋक्षेषु भास्करः इव दक्षिणां दिशं प्रययौ ।

प्रययाविति । स रामः अतिथिषु साधून्यातिथेयानि । “पथ्यतिथिवसति- स्वपतेर्ढञ्” इति ढञ्प्रत्ययः । तेष्वृषिकुलेष्वृष्याश्रमेषु । ‘कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये’ इति हेमः । वर्षासु भवानि वार्षिकाणि । “वर्षाभ्यष्ठक्” इति ठक्प्रत्ययः । तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन्दक्षिणां दिशं प्रययौ ।

भाषार्थ--जिस प्रकार वर्षाकाल के आर्द्रा आदि दश नक्षत्रों में ठहरते हुए सूर्य दक्षिणायन हो जाते हैं उसी प्रकार अतिथि सत्कार करनेवाले ऋषियों के आश्रमों में ठहरते हुए राम दक्षिण दिशा की ओर बढ़ गये ॥ २५ ॥

बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ २६ ॥