रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
| ४५२ | रघुवंशमहाकाव्ये |
|---|
के राजाओं की धाय के समान है इसके बालू में खेल-खेलकर वे सब पलते हैं और इसी का मीठा जल पीकर पुष्ट होते हैं ॥ ६२ ॥
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूवियुक्ता।
दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव ॥ ६३ ॥
अन्वयः— मदीया जननी इव मान्येन तेन राज्ञा वियुक्ता सा इयं सरयूः वसन्तं मां शिशिरानिलैः तरंगैः उपगूहति इव।
सेयमिति। मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तं प्रोष्यागच्छन्तमित्यर्थः। मां पुत्रभूतं शिशिरानिलैस्तरङ्गैरेव हस्तैरुपगूहतोवालिङ्गतीव।
भाषार्थ— माननीय महाराजा दशरथ से बिछुड़ी हुई मेरी माता के समान यह शरयू नदी अपने शीतल तरंग रूपी हाथों से दूर से ही मुझे गले लगाना चाहती है ॥ ६३ ॥
विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ ६४ ॥
अन्वयः— विरक्तसन्ध्याकपिशं पार्थिवरजः पुरस्तात् यतः उज्जिहीते (तस्मात्) हनूमत्कथितप्रवृत्तिः भरतः ससैन्य मां प्रत्युद्गतः (इति) शङ्के।
विरक्तेति। विरक्तातिरक्ता या संध्या तद्वत्कपिशं ताम्रवर्णं पृथिव्या इदं पार्थिवं रजो धूलिः पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति तस्मात्। हनुरस्यास्तीति हनूमान्। "शरादीनां च" इति दीर्घः। तेन कथिता प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्मां प्रत्युद्गत इति शङ्के तर्कयामि। 'शङ्का भयवितर्कयोः' इति शब्दार्णवे। अत्र यत्तदोर्नित्यसंबन्धात्तच्छब्दलाभः।
भाषार्थ— देखो ! लाल सन्ध्या के समान जो धूलि पृथ्वी से उड़ रही है उससे जान पड़ता है कि हनूमान्जी से मेरे आने का समाचार सुनकर भरत सेना लेकर मेरा स्वागत करने आ रहे हैं ॥ ६४ ॥
अद्या श्रियं पालितसङ्गराय प्रत्यर्पयिष्यत्यनघां स साधुः।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ ६५ ॥
अन्वयः— साधुः सः पालितसंगराय मे अनघां संरक्षितां श्रियं मृधे खरादीन् हत्वा निवृत्ताय लक्ष्मणः त्वाम् इव प्रत्यर्पयिष्यति।
अद्येति। किंच साधुः सज्जनः स भरतः। 'साधुर्वाधुषिके चारौ सज्जने चापि
त्रयोदशः सर्गः ४५३
त्रयोदशः सर्गः ४५३
वाच्यवत्' इति विश्वः। पालितसङ्कराय पालितपितृप्रतिज्ञाय मे महामनघाम-दोषां भोगाभावोदनुच्छिष्टां किन्तु संरक्षितां श्रियं मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणः संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम्। 'तत्त्वे त्वद्धाञ्जसा द्वयम्' इत्यमरः।
भाषार्थ—खर, दूषण आदि राक्षसों को मारकर जब मैं लोटा था उस समय लक्ष्मण ने तुम्हें मेरे हाथ सुरक्षित रूप में सौंप दिया था, मालूम पड़ता है कि उसी प्रकार अब सज्जन भरत वनवास की अवधि पूरी करके लोटे हुए मुझे सुरक्षित राज्यलक्ष्मी को अवश्य सौंप देंगे॥ ६५॥
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः।
वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणिर्भरतोऽभ्युपैति॥ ६६॥
अन्वयः—असौ पदातिः चीरवासा भरतः पश्चादवस्थापितवाहिनीकः (सन्) गुरुं पुरस्कृत्य वृद्धैः अमात्यैः सह अर्घ्यपाणिः (सन्) अभ्युपैति।
असाविति। असौ पदातिः पादाभ्यामततीति पदातिः पादचारी चीरवासा वल्कलवसनो भरतः। पश्चात्पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन्। "नद्यृतश्च" इति कप्। गुरुं वसिष्ठं पुरस्कृत्य वृद्धैरमात्यैः सहाघ्यंपाणिः सन्मामभ्युपैति।
भाषार्थ—वल्कलवस्त्र पहन पैदल चलते हुए ओर हाथ में पूजा की सामग्री लिए हुए भरत वृद्ध मन्त्रियों के साथ मेरे ही पास आ रहे हैं, देखो! इनके आगे-आगे वसिष्ठजी चल रहे हैं और पीछे-पीछे सेना चली आ रही है॥ ६६॥
पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता।
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम्॥ ६७॥
अन्वयः—यः पित्रा विसृष्टाम् अङ्कगतां यां श्रियं युवापि मदपेक्षया अभोक्ता (सन्) इयन्ति वर्षाणि तया सह उग्रं असिधारव्रतम् अभ्यसति इव।
पित्रेति। यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि यां श्रियं युवाऽपि मदपेक्षया मद्भक्त्याऽभोक्ता सन्। तृजन्तत्वात् "न लोकाव्ययनिष्ठाखलर्थ-तृनाम्" इति षष्ठीनिषेधः। इयन्ति वर्षाण्येतावतो वत्सराम्। अत्यन्तसंयोगे द्वितीया। तया श्रिया सहास्त्रियेति च गम्यते। उग्रं दुश्चरमासिधारं नाम व्रत-मभ्यस्यतीव वर्तयतीव। 'युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत्। अन्तर्निवृत्त-सङ्गः स्यादासिव्रतं हि यत्।' इति यादवः। इदं चासिधाराचंक्रमणतुल्य-त्वादसिधारव्रतमित्युक्तम्।
भाषार्थ—जैसे किसी युवा पुरुष की गोद में कोई सुन्दरी स्त्री आकर बैठ
४५४ रघुवंशमहाकाव्ये
जाय और वह उससे भोग न करके तलवार की धारा पर चलने के समान कठोर इन्द्रियों को वश में रखने का व्रत कर ले वैसे ही भरत ने भी पिता की दी हुई राज्यलक्ष्मी को भोग करने की शक्ति रहते हुए भी मेरी भक्ति के कारण उसका भोग न करके १४ वर्ष तक कठिन असिधारा व्रत का पालन किया है ॥ ६७ ॥
एतावदुक्तवति दाशरथौ तदीया- मिच्छां विमानमधिदेवतया विदित्वा । ज्योतिष्पथादवततार सविस्मयाभि- रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ ६८ ॥
अन्वयः—दाशरथौ एतावदुक्तवति विमानं तदीयां इच्छाम् अधिदेवतया विदित्वा सविस्मयाभिः, भरतानुगाभिः प्रकृतिभिः उद्वीक्षितं सत् ज्योतिष्पथात् अवततार ।
एतावदिति । दाशरथौ राम एतावदुक्तवति सति विमानं पुष्पकं कर्तृ, तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा तत्प्रेरितं सदित्यर्थः । सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वीक्षितं ऊर्ध्वदृष्टं सज्ज्योतिष्पथादाकाशादवततार ।
भावार्थ—जब राम इस प्रकार कह रहे थे उसी समय रामकी इच्छा को ही विमान का चालक मानकर वह विमान आकाश से नीचे उतर आया और भरतजी के पीछे चलनेवाली सारी जनता आश्चर्य-चकित होकर उन्हें देखने लगी ॥ ६८ ॥
तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः । यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ६९ ॥
अन्वयः—रामः सेवाविचक्षणहरीश्वरदत्तहस्तः पुरःसरविभीषणदर्शितेन अदूरमहीतलेन भंगि रचितस्फटिकेन मार्गेण तस्मात् यानात् अवातरत् ।
तस्मादिति । रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तो हस्तो हस्तावलम्बनो यस्य तादृशः सन् स्थलज्ञत्वात्पुरःसरो विभीषणस्तेन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छित्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात्पुष्पकादवातरदवतीर्णवान् । तरतेर्लङ् ।
भावार्थ—सेवा में चतुर सुग्रीव के हाथों का अवलम्बन करके स्फटिक मणियों से जड़ी हुई सीढ़ी से रामचन्द्रजी विमान से उतरे और विभीषण आगे-आगे मार्ग दिखाते चले ॥ ६९ ॥
त्रयोदशः सर्गः ४५५
त्रयोदशः सर्गः ४५५
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतमर्घ्यपरिग्रहान्ते । पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ ७० ॥
अन्वयः—प्रयतः सः इक्ष्वाकुवंशगुरवे प्रणम्य अर्घ्यपरिग्रहान्ते पर्यश्रुः (सन् ) भ्रातरं भरतं अस्वजत, तद्भक्त्यपोढपितृराज्यमहाभिषेके मूर्धनि उपजघ्रौ च ।
इक्ष्वाक्विति । प्रयतः स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्या- र्घ्यस्य परिग्रहः स्वीका रस्तस्यान्ते पर्यश्रुः परिगतानन्दबाष्पः सन् भ्रातरं भरत- मस्वजतालिङ्गत । तस्मिन्द्रा मे भक्त्यापोढ परिहृतः पितृराज्यमहाभिषेको येन तस्मिन्मूर्ध्न्युपजघ्रौ च । 'घ्रा गन्धोपादने' लिटि रूपम् ।
भाषार्थ—विनीत राम ने इक्ष्वाकु वंश के गुरु वसिष्ठजी को प्रणाम किया । बाद अर्घ्य ग्रहण करके आँख से आँसू भरकर उन्होंने पहले भरतजी को छाती से लगा लिया पुनः उनके उस मस्तक को सूंघा जिससे राम की भक्ति के कारण राज्यभिषेक भी अस्वीकार कर दिया था ॥ ७० ॥
श्मश्रुप्रवृद्धिजगताननविक्रियांश्च प्लक्षांन्प्ररोहजटिलानिव मन्त्रिवृद्धान् । अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै- र्वार्तानुयोगमधुराक्षरया च वाचा ॥ ७१ ॥
अन्वयः—श्मश्रुप्रवृद्धिजनिताननविक्रियान् प्ररोहजटिलान् प्लक्षान् इव प्रण- मतः मन्त्रिवृद्धान् च शुभदृष्टिपातैः वार्तानुयोगमधुराक्षरया वाचा च अन्वग्रहीत् ।
श्मश्र्विति । श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिता- नानेषु विक्रिया विकृतिर्येषां तानत एव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैर्जटि- लाञ्जटावतः प्लक्षान् न्यग्रोधानिवस्थितान् प्रणमतो मन्त्रिवृद्धांश्च शुभैः कृपाद्रै- र्हृष्टिपातैरवलोकनैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहोद- नुगृहीतवान् ।
भाषार्थ—फिर रामजी प्रणाम करते हुए वृद्ध मन्त्रियों से मिले और प्रेम- भरी आंखों से मधुर भाषा में कृपा पूर्वक उनसे कुशल मंगल पूछा, मूंछ दाढ़ी बढ़ जाने के कारण ये ऐसे दिखाई दे रहे थे जैसे घने वरोहवाला वट का वृक्ष हों ॥ ७१ ॥
दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता ।
| ४५६ | रघुवंशमहाकाव्ये |
|---|
इत्याहृतेन कथितौ रघुनन्दनेन
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ ७२ ॥
अन्वयः—अयं मे दुर्जातिबन्धुः ऋक्षहरीश्वरः एष समरेषु पुरः प्रहर्ता इत्याह तेन रघुनन्दनेन कथितौ उभौ लक्ष्मणं व्युत्क्रम्य भरतः ववन्दे ।
दुर्जात इति । अयं मे दुर्जातिबन्धुरापद्वन्धुः । 'दुर्जातं व्यसनं प्रोक्तम्' इति विश्वः । ऋक्षहरीश्वरः सुग्रीवः, एष समरेषु पुरः प्रहर्ता पौलस्त्यो विभीषणः, इत्याहृतेनादरवता । कर्तरि क्तः । रघूणां नन्दनेन रामेण कथितावुभौ विभीषण-सुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ।
भाषार्थ—भरतजी के सुग्रीव का परिचय देते हुए राम ने कहा कि ये वानर और भालुओं के राजा हैं, ये बड़े दुःख के समय मेरे का काम आये हैं, पुनः विभीषण का परिचय देते हुए राम ने कहा कि ये पुलस्त्य कुल में उत्पन्न विभीषण हैं ये युद्ध के समय हमसे आगे बढ़कर शत्रुओं पर प्रहार करते थे, यह सुन कर भरतजी ने लक्ष्मण को छोड़कर पहले उन्हीं दोनों का प्रणाम किया ॥ ७२ ॥
सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्नन्निवास्य भुजमध्यमुरःस्थलेन ॥ ७३ ॥
अन्वयः—तदनु स सोमित्रिणा संससृजे नम्रशिरसं एवं उत्थाप्य भृशम् आलि-लिंग, रूढेन्द्रजित्प्रहरणव्रणकर्कशेन अस्य उरः स्थलेन भुजमध्यं क्लिशयन् इव ।
सौमित्रिणेति । तदनु सुग्रीवादिवन्दनादनन्तरं सः भरतः सौमित्रिणा संससृजे सङ्गतः । 'सृजविसर्गे' दैवादिकात्कर्तरि लिट् । नम्रशिरसं प्रणतमेनं सौमित्रि-मुत्थाप्य भृशं गाढमालिङ्ग च । किं कुर्वन् रूढेन्द्रजित्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुरःस्थलेन भुजमध्यं स्वकीयं विलशयन्निव पीडयन्निव । क्लिशनातिरयं सकर्मकः 'क्लिशनाति भुवनत्रयम्' इति दर्शनात् । ननु रामायणे—'ततो लक्ष्मणमा-साद्य वैदेहि च परन्तपः । अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत्' ॥ इति । भरतस्य कानिष्ठ्यं प्रतीयते । किमर्थं ज्यैष्ठ्यमवलम्ब्यमानाजर्वेन श्लोको व्या-ख्यातः ? सत्यम् । किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम् 'ततो लक्ष्मण मासाद्य—' इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः अभिवादनं तु वैदेह्या एव, अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ।
भाषार्थ—उसके बाद भरतजी लक्ष्मण से मिले ओर प्रणाम के लिए झुके
त्रयोदशः सर्गः [४५७]
हुए लक्ष्मण के मस्तक को उठाकर मेघनाद के प्रहरों से घाव के कारण कर्कश हुई उनकी छाती को अपनी भुजाओं से दबाते हुए उन्हें अपनी छाती से लगा लिया ॥ ७३ ॥
रामाज्ञया हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे ते ॥ ७४ ॥
अन्वयः—तदानीं हरिचमूपतयः रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्रान् आरुरुहुः, बहुधा मदवारिधाराः क्षरत्सु तेषु ते शैलाधिरोहणसुखानि उपलेभिरे ।
रामेति । तदानीं हरिचमूपतयः रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्राना-रुरुहुः । बहुधा मदवारिधाराः क्षरत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ।
भाषार्थ—राम के कहने से वानर और भालुओं के सेनापति मनुष्यों का वेश बना-बना कर उन हाथियों पर चढ़ गये, जिनके मस्तक से मद की धारा बह रही थीं इसलिए सूंड की ओर से चढ़ते समय उनको वही आनन्द मिला झरनों वाले पहाड़ों पर ही चढ़ रहे हों ॥ ७४ ॥
सानुप्लवः प्रभुरपि क्षणदाचराणां
भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयै-
र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ ७५ ॥
अन्वयः—सानुप्लवः क्षणदाचराणां प्रभुः अपि दशरथप्रभवानुशिष्टः रथान् भेजे, ये मायाविकल्परचितैः अपि तदीयैः स्यन्दनैः तुलितकृत्रिमभक्तिशोभाः न ( भवन्ति ) ।
सानुप्लव इति । सानुप्लवः सानुगः । 'अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः' इति यादवः । क्षणदाचराणां रक्षसां प्रभुर्विभीषणोऽपि प्रभवत्यस्मादिति प्रभवो जनकः, दशरथः प्रभवो यस्य स दशरथप्रभवो रामः तेनानुशिष्ट आज्ञप्तः सन्-रथान्भेजे । तानेव विशिनष्टि—ये रथा मायाविकल्परचितैः संकल्पविशेषनिर्मितैरपि यदीयैर्विभीषणीयैः स्यन्दनैः रथैस्तुलितकृतिमभक्तिशोभास्तुलितासमीकृता कृत्रिमा क्रियया निर्वृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति । तेऽपि तत्साम्यं न लभन्त इत्यर्थः । कृत्रिमेत्यत्र 'ड्वितः क्त्रिः' इति क्त्रिप्रत्ययः । 'क्त्रेर्मम्नित्यम्' इति ममागमः ।
| ४५८ | रघुवंशमहाकाव्ये |
|---|
**भावार्थ—**रामकी आज्ञा से राक्षसराज विभीषण और उनके साथी भी रथों पर चढ़ गये, वे रथ यद्यपि मनुष्यों के बनाए थे फिर भी वे इतने सुन्दर थे कि राक्षसों की माया से बनाए हुए रथ भी उनके सामने तुच्छ थे ॥ ७५ ॥
भूयस्ततो रघुपतिर्विलसत्पताक-
मध्यास्त कामगति सावरजो विमानम् ।
दोषातनं बुधबृहस्पतियोगदृश्य-
स्तारापतिस्तरलयिद्यु दिवाभ्रवृन्दम् ॥ ७६ ॥
**अन्वयः—**ततः रघुपतिः सावरजः विलसत्पताकं कामगतिविमानं भूयः बुधबृहस्पतियोगदृश्यः तारापतिः दोषातनं तरलविद्युत् अभ्रवृन्दम् इव अध्यास्त ।
भूय इति । ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन् विलसत्पताकं कामेनेच्छानुसारण गतिः यस्य तद्विमानं भूयः पुनरपि बुधबृहस्पतिभ्यां योगेन दृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम् । “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्चुलौ तुट् च” इत्यनेन दोषाशब्दाव्ययाट्ट्युत्प्रत्ययः । तरलविद्युच्चलत्तडिदभ्रवृन्दमिव अध्यास्ताधिष्ठितवान् ।
**भावार्थ—**उसके बाद राम भी भरत और लक्ष्मण के साथ पताकाओं से सजे हुए और इच्छानुसार चलनेवाले पुष्पक विमान पर उस प्रकार चढ़ गये, जिस प्रकार बुध और बृहस्पति के साथ होने से विशेष दर्शनीय चन्द्रमा सन्ध्या के समय चञ्चल बिजली युक्त बादलों पर बैठता है ॥ ७६ ॥
तत्रेश्वररेण जगतां प्रलयादिवोर्वी
वर्षात्ययेन रुचमभ्रघन।द्विवेन्दोः ।
रामेण मैथिलसुतां दशकण्ठकृच्छा-
त्प्रत्युदृधृतां धृतिमतीं भरतो ववन्दे ॥ ७७ ॥
**अन्वयः—**तत्र जगताम् ईश्वरेण प्रलयात् उर्वीम् इव वर्षात्ययेन अभ्रघनात् इन्दो रुच इव रामेण दशकण्ठकृच्छ्रात् प्रत्युद्धृतां धृतिमतीं मैथिलसुतां भरतः ववन्दे ।
तत्रेति । तत्र विमाने जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव वर्षात्ययेन शरदागमेनाभ्रघनान्मेघसङ्घातादिन्दो रुचं चन्द्रिकामिव रामेण दशकण्ठ एवं कृच्छ्रं सङ्कटं तस्मात्प्रत्युद्धृतां धृतिमतीं सन्तोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ।
**भावार्थ—**जिस प्रकार आदिवराह ने प्रलय से पृथ्वी का उद्धार किया था और जिस प्रकार वर्षा ऋतु बीत जाने पर शरद् ऋतु बादलों से चन्द्रमा की
त्रयोदशः सर्गः ४५६
त्रयोदशः सर्गः ४५६
चांदनी को बचाता है । उसी प्रकार राम ने रावणरूपी संकट से जिसे उवार लिया था उस धैर्यधारिणी सीताजी को भरत ने प्रणाम किया ॥ ७७ ॥
लङ्गेश्वरप्रणतिभङ्गदृढव्रतं तद्- वन्द्यं युगं चरणयोर्जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं शिरोऽस्य साधो रन्योन्यपावनमभूदुभयं समेत्य ॥ ७८ ॥
अन्वयः—लङ्गेश्वरप्रणतिभङ्गदृढव्रतं वन्द्यं तत् जनकात्मजायाः चरणयोः ज्येष्ठानुवृत्तिजटिलं साधोः अस्य शिरः च उभयं समेत्य अन्योन्यपावनम् अभूत् ।
लङ्गेश्वरप्रणतीति । लङ्गेश्वरस्य रावणस्य प्रणतीनां भंगेन निरासेनदृढव्रतमखण्डितपातिव्रत्यमत एव वन्द्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वान्योन्यस्यपावनं शोधकमभूत् ।
भावार्थ—सीताजी के जिन पवित्र चरणों ने रावण की प्रणय प्रार्थना को दृढ़तापूर्वक ठुकरा दिया था उन पर जब भरतजी ने बड़े भाई की भक्ति के कारण बढ़ी हुई जटावाला अपना मस्तक रखा तब इन दोनों ने परस्पर मिलाकर एक दूसरे को पवित्र कर दिया ॥ ७८ ॥
क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपकार्यमार्यः साकेतोपवनमुदारमध्यावास ॥ ७९ ॥
अन्वयः—आर्यः काकुत्स्थः प्रकृतिपुरःसरेण स्तिमितजवेन पुष्पकेण क्रोशार्धं गत्वा शत्रुघ्नप्रतिविहितोपकार्यम् उदारं साकेतोपवनम् अध्युवास ।
क्रोशेति । आर्यः पूज्यः काकुत्स्थोः रामः प्रकृतयः प्रजाः पुरःसर्यो यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण क्रोशोऽध्वपरिमाणविशेषः । क्रोशार्धं कोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत्साकेतस्यायोध्याया उपवनमध्युवासाधितस्थौ । 'साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा' इति यादवः ।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यासमेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ॥ १३ ॥
| ४६० | रघुवंशमहाकाव्ये |
|---|
**भाषार्थ—**आगे-आगे अयोध्या की जनता चल रही थी और पीछे-पीछे वह पुष्पक विमान चल रहा था जिस पर राम बैठे हुए थे। इस प्रकार आधाकोस चलकर राम ने अयोध्या के उस सुन्दर उपवन में निवास किया जिसे शत्रुघ्नजी ने पहले ही भली-भाँति सजा दिया था ॥ ७९ ॥
यह त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित अन्वय
और चन्द्रकला नाम की हिन्दी टीका में रघुवंश
महाकाव्य का दण्डकवन से प्रत्यागमन नामक
त्रयोदश सर्ग समाप्त हुआ ॥ १३ ॥
चतुर्दशः सर्गः
संजीवनं मैथिलकन्यकायाः सौन्दर्यसर्वस्वमहानिधानम् ।
शशाङ्कपङ्केरुहयोः समानं रामस्य वन्दे रमणीयमास्यम् ॥
भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ खेदादिवोपघ्नतरोर्व्रतत्यौ ॥ १ ॥
**अन्वयः—**अथ दाशरथी उपघ्नतरोः छेदात् व्रतत्यौ इव भर्तुः प्रणाशात् शोचनीयं दशान्तरं प्रपन्ने जनन्यौ तत्र समम् अपश्यताम् ।
भर्तुरिति । अथोपवनाधिष्ठानानन्तरं दाशरथी रामलक्ष्मणौ उपघ्नतरोराश्रयवृक्षस्य । ‘उपघ्न आश्रये’ इति निपातः । तस्य छेदाद् व्रतत्यौ लते इव । ‘वल्ली तु व्रततिर्लता’ इत्यमरः । भर्तुर्दशरथस्य प्रणाशाच्छोचनीयम् दशान्तरमवस्थान्तरम् । ‘अवस्थायां वस्त्रान्ते स्याद्दशापि’ इति विश्वः । प्रपन्ने प्राप्ते जनन्यौ कौसल्यासुमित्रे तत्र साकेतोपवने समं युगपदपश्यताम् । दृशेः कर्तरि लङ् ।
**भाषार्थ—**इसके बाद उस उपवन में राम और लक्ष्मणजी अपनी माताओं से मिले जो उसी प्रकार उदास लग रही थीं जिस प्रकार वृक्ष के कट जाने पर उसके सहारे चढ़ी हुई लतायें मुरझा जाती हैं ॥ १ ॥
उभाबुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।
विस्पष्टमस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥ २ ॥
चतुर्दशः सर्गः । ४६१
अन्वयः—यथाक्रमं प्रणतौ हतारी विक्रमशोभिनौ तौ उभौ उभाभ्यां अस्रा-
न्धतया विस्पष्टं न दृष्टौ ( किन्तु ) सुतस्पर्शं सुखोपलम्भात् ज्ञातौ ।
उभाविति । यथाक्रमं स्वस्य मातृपूर्वकं प्रणतौ नमस्कृतवन्तौ हतारी हत-
शत्रुकौ विक्रमशोभिनौ तावुभौ रामलक्ष्मणावुभाभ्यां मातृभ्यामस्रैरश्रुभिरन्ध-
तया हेतुना । 'अस्रमश्रु च शोणितम्' इति यादवः । विस्पष्टं न दृष्टौ किंतु सुत-
स्पर्शेन यत्सुखं तस्योपलम्भादनुभवाज्ज्ञातौ ।
भाषार्थ—अपने शत्रुओं का नाश करने वाले पराक्रमी राम और लक्ष्मण
ने बारी-बारी से उन दोनों माताओं को प्रणाम किया, अपने पुत्रों को देखते
ही दोनों माताओं की आँखों में आँसू छल-छला आए । इसलिए वे आंख भर
उन्हें देख भी नहीं सकीं, पर पुत्रों के स्पर्श से सुख प्राप्त होने से वे उन्हें पहचान
गईं ॥ २ ॥
आनन्दजः शोकजमश्रुबाष्पस्तयोरशीतं शिशिरो बिभेद ।
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ ३ ॥
अन्वय—तयोः आनन्दजः शिशिरः बाष्पः शोकजं अशीतं अश्रु उष्णतप्तं
गङ्गासरय्वोः जलम् अवतीर्णः हिमाद्रिनिस्यन्दः इव बिभेद ।
आनन्दज इति । तयोर्भ्रात्रोरानन्दजः शिशिरो शीतल वाष्पः शोकजमशीत-
मुष्णमश्रु उष्णतप्तं ग्रीष्मतप्तं गङ्गासरय्वोर्जल कर्म अवतीर्णो हिमाद्रेनिस्यन्दो
निर्झर इव बिभेद । आनन्देन शोकस्तिरस्कृत इत्यर्थः ।
भाषार्थ—जैसे गर्मी के दिनों में हिमालय का शीतल जल गङ्गा और सरयू
के गर्म जलको ठण्डा कर देता है वैसे ही उन कौशल्या और सुमित्रा दोनों की
आँखों से बहे हुए आनन्द के शीतल आँसुओं ने शोक के उष्ण आँसुओं को ठण्डा
कर दिया ॥ ३ ॥
ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ ।
अपोप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥ ४ ॥
अन्वयः—ते पुत्रयोः अंगे नैर्ऋतशस्त्रमार्गान् आर्द्रान् सदयं स्पृशन्त्यौ क्षत्र-
कुलाङ्गनानाम् ईप्सितं अपि वीरसूशब्दं न अकामयेताम् ।
त इति । ते मातरो पुत्रयोरङ्गे शरीरे नैर्ऋतशस्त्राणां राक्षसशस्त्राणां
मार्गान् व्रणान् शस्त्रघातकिणानार्द्रान्सरसानिव सदयं स्पृशन्त्यौ क्षत्रकुलाङ्गनाना-
मीप्सितमिष्टमपि वीरसूर्वीरमातेति शब्दं नाकामयेताम् । वीरप्रसवो दुःखहेतुरिति
भावः ।
भाषार्थ—पुत्रों के शरीर के जिन अंगों पर राक्षसों के शस्त्रों के घाव बनें
४६२ रघुवंशमहाकाव्ये
ये वहाँ वे दोनों मातायें इस प्रकार सहलाने लगीं मानों घाव अभी ताजा ही हो, उस समय अपने पुत्रों के घावों को देखकर इतनी व्याकुल हो गईं कि उन्हें क्षत्रिय कुल वधुओं को अभिलषित वीर पुत्र की माता कहलाना भी अच्छा नहीं लगा ॥ ४ ॥
क्लेशवहा भर्तुरलक्षणाऽहं सीतेति नाम स्वमुदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥ ५ ॥
अन्वयः—भर्तुः क्लेशवहा (अत एव ) अलक्षणा अहं सीता इति स्वं नाम उदीरयन्ती स्वर्गप्रतिष्ठस्य गुरोः महिष्यौ वधूः अभक्तिभेदेन ववन्दे ।
क्लेशवहेति । आवहतीत्यावहा भर्तुः क्लेशवहा क्लेशकारिणी । अत एवा-लक्षणाऽहं सीतेति स्वं नामोदीरयन्ती । स्वर्गः प्रतिष्ठास्पदं यस्य तस्य स्वर्गस्थितस्य गुरोः श्वसुरस्य महिष्यौ श्वश्र्वौ । ‘वधूः स्नुषा वधूर्जाया स्नुषा’ इत्यमरः । अभक्तिभेदेन ववन्दे । स्वर्गप्रतिष्ठस्येत्यनेन श्वश्रूवैधव्यदर्शनदुःखं सूचितम् ।
भाषार्थ—मैं ही पति को कष्ट देनेवाली कुलक्षणा सीता हूँ यह कहती हुई सीताजी ने एक-सी भक्ति से स्वर्गवासी श्वसुर की दोनों रानियों का चरण छूकर प्रणाम किया ॥ ५ ॥
उत्तिष्ठ वत्से ! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥ ६ ॥
अन्वयः—ननु हे वत्से ! उत्तिष्ठ असौ सानुजः भर्ता तव एव शुचिना वृत्तेन महत्कृच्छ्रं तीर्णः इति प्रियार्हां तां प्रियम् अपि अमिथ्या ते ऊचतुः ।
उत्तिष्ठेति । ननु ‘वत्से ! उत्तिष्ठ । असौ सानुजो भर्ता तवैव शुचिना वृत्तेन महत्कृच्छ्रं दुःखं तीर्णस्तीर्णवान् ।’ इति प्रियार्हां तां वधूं प्रियमप्यमिथ्यां सत्यं ते श्वश्र्वावूचतुः । उभयं दुर्वचमिति भावः ।
भाषार्थ—उन दोनों माताओं ने स्नेह करने योग्य सीताजी को उठाते हुए प्रिय और सच्ची बात कही—उठो बेटी ! तेरे ही पवित्र पातिव्रत्य के प्रभाव से राम और लक्ष्मण इस बड़े संकट से पार हुए हैं ॥ ६ ॥
अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्याः । निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥ ७ ॥
अन्वयः—अथ जनन्योः आनन्दजलैः प्रारब्धं रघुवंशकेतोः अभिषेकं अमात्यवृद्धाः तीर्थाहृतैः काञ्चनकुम्भतोयैः निर्वर्तयामासुः ।
चतुर्दशः सर्गः ४६३
अथेति। अथ जनन्योरानन्दजलैरानन्दबाष्पैः प्रारब्धं प्रक्रान्तं रघुवंशकेतो रामस्याभिषेकममात्यवृद्धास्तीर्थेभ्यो गङ्गाप्रमुखेभ्य आहृतैरानीतैः काञ्चनकुम्भतोयैर्निर्वर्तयामासुर्निष्पादयामासुः।
भावार्थ— इसके बाद जिस राज्याभिषेक का आरम्भ माताओं के हर्ष भर आंसुओं से हुआ था उसको सुवर्ण के घड़ों में भरे तीर्थों से लाये हुए जल से राम को नहला कर वृद्ध मन्त्रियों ने पूरा किया ॥ ७ ॥
सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि।
तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः॥ ८॥
अन्वयः— रक्षः कपीन्द्रैः सरित्समुद्रान् सरसीः च गत्वा उपपादितानि जलानि जिष्णोः तस्य मूर्ध्नि विन्ध्यस्य मूर्ध्नि मेघप्रभवा आप इव अपतन्।
सरिदिति। रक्षः कपीन्द्रैः सरितो गङ्गाद्याः समुद्रान्पूर्वार्दीन्सरसीर्मानसादींश्च गत्वा उपपादितान्युपनीतानि जलानि जिष्णोर्जयशीलस्य। "ग्लाजिस्थश्चस्नु" इति ग्स्रप्रत्ययः। तस्य रामस्य मूर्ध्नि विन्ध्यस्य विन्ध्याद्रेर्मूर्ध्नि मेघप्रभवा अपि उदकानीव अपतन्।
भावार्थ— राक्षस और वानरों के नायकों ने नदियों, समुद्रों एवं सरोवर से जो जल लाकर दिया वह अभिषेक समय में राम के शिर पर वैसे ही बरस रहा था जैसे विन्ध्याचल के शिखर पर बादलों का लाया हुआ जल बरसा करता है ॥ ८ ॥
तपस्विवेषक्रिययाऽपि तावद्यः प्रेक्षणीयः सुतरां बभूव।
राजेन्द्रनेपथ्यविधानशोभा तस्योदिताऽऽसीत्पुनरुक्तदोषा॥ ६॥
अन्वयः— यः तपस्विवेषक्रियाया अपि सुतरां प्रेक्षणीयः बभूव तस्य उदिता राजेन्द्रनेपथ्यविधानशोभा पुनरुक्तदोषा आसीत्।
तपस्वीति। यो रामस्तपस्विवेषक्रिययाऽपि तपस्विवेषरचनयाऽपि सुतरामत्यन्तं प्रेक्षणीयस्तावद्दर्शनीय एव बभूव। तस्य राजेन्द्रनेपथ्यविधानेन राजवेषरचनयोदिता या शोभा सा पुनरुक्तं नाम दोषो यस्याः सा पुनरुक्तदोषा द्विगुणाऽऽसीत्।
भावार्थ— जो राम तपस्वी के वेश में भी बहुत सुन्दर लगते थे वे इस समय राजराजेश्वरों के योग्य राजसी वस्त्र पहन कर और भी सुन्दर लगने लगे ॥ ९॥
स मौलरक्षोहरिभिः ससैन्यस्तूर्यस्वनानन्दितपौरवर्गः।
विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम्॥ १०॥
अन्वयः— सः सैन्यः तूर्यस्वनानन्दितपौरवर्गः (सन्) मौलरक्षोहरिभिः सौधोद्गतलाजवर्षाम् उत्तोरणां अन्वयराजधानीं विवेश।
४६४ रघुवंशमहाकाव्ये
स इति । स रामः ससैन्यस्तूर्यस्वनैरानन्दितपौरवर्गः सन् मूले भवा मौला मन्त्रिवृद्धास्तै रक्षोभिर्हरिभिश्च सह सौधेभ्य उद्गतलाजवर्षामुत्तोरणामन्वयराजधानीमयोध्यां विवेश प्रविष्टवान् ।
**भाषार्थ—**वृद्धमन्त्री राक्षस और वानरों के साथ राम ने अपनी सेना के साथ वंश परम्परागत राजधानी अयोध्या में प्रवेश किया, जो चारों ओर बन्दरवारों से सजाई गई थी जहाँ के श्वेतभवनों से धान की लाई बरस रही थी और जहाँ के निवासी तुरही आदि बाजों को सुन-सुनकर परम प्रसन्न हो रहे थे ॥ १० ॥
सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः ।
धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः ॥ ११ ॥
**अन्वयः—**सावरजेन सौमित्रिणा मन्दमाधूतबालव्यजनः रथस्थः भरतेन धृतातपत्रः प्रवृद्धः साक्षात् उपायसंघात इव पुरं प्रविवेश ।
सौमित्रिणेति । सावरजेन शत्रुघ्नयुक्तेन सौमित्रिणा लक्ष्मणेन मन्दमाधूते बालव्यजने चामरे यस्य स रथस्थो भरतेन धृतातपत्र एवं चतुर्व्यूहो रामः प्रवृद्धः साक्षादुपायानां सामादीनां सङ्घातः समष्टिरिव विवेशेति । पूर्वेण सम्बन्धः ।
**भाषार्थ—**लक्ष्मण और शत्रुघ्न रथ पर बैठ हुए राम पर धीरे-धीरे चंवर डुला रहे थे और भरत अपने हाथ में छत्र लिए हुए थे । इस प्रकार जब राम अपने भाइयों के साथ अयोध्या में प्रवेश किये तब चारों भाई ऐसे जान पड़ रहे थे मानो साम, दाम, दण्ड और भेद ये चारों उपाय इकट्ठे हो गये हों ॥ ११ ॥
प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना ।
वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवावभासे ॥ १२ ॥
**अन्वयः—**वायुवशेन भिन्ना प्रासादकालागुरुधूमराजि वनात् निवृत्तेन रघूत्तमेन स्वयं मुक्ता तस्याः पुरः वेणिः इव आबभासे ।
प्रासादेति ! वायुवशेन भिन्ना प्रसादे यः कालागुरुधूमस्तस्य राजिः रेखा वनान्निवृत्तेन रघूत्तमेन रामेण स्वयं मुक्ता तस्याः पुरः पुर्या वेणिरिव अबभासे । पुरोऽपि पतिव्रतासमाधिरुक्तः । (न प्रोषिते तु संस्कुर्यान्न वेणीं च प्रमोचयेत्) इति हारीतः ।
**भाषार्थ—**भवनों के ऊपर वायु से छितराया हुआ काला अगर का धुआँ ऐसा लग रहा था मानों वन से लोट कर राम ने अयोध्या नगरी का जूड़ा खोल दिया हो ॥ १२ ॥
श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् ।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ १३ ॥
चतुर्दशः सर्गः | ४६५
अन्वयः—श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीं साकेतनार्यः प्रासादवातायनदृश्यबन्धैः अञ्जलिभिः प्रणेमुः।
श्वश्रूजनेति। श्वश्रूजनैरनुष्ठितचारुवेषां कृतसौम्यनेपथ्याम्। 'आकल्पवेषौ नेपथ्यम्' इत्यमरः। कर्णीरथः स्त्रीयोग्योऽल्परथः। 'कर्णीरथः प्रवहणं डयनं रथगर्भके' इति यादवः। तत्रस्थां रघुवीरपत्नीं सीतां साकेतनार्यः प्रासादवातायनेषु दृश्यबन्धैर्लक्ष्यपुटैरञ्जलिभिः प्रणेमुः।
भाषार्थ—भवनों के झरोखों में दिखाई देनेवाली अयोध्या की महिलाओं ने हाथ जोड़कर उन सीताजी को प्रणाम किया जो उस समय पालकी में बैठी हुई थी और जिन्हें कौशल्या सुमित्रा ने सुन्दर ढंग से वस्त्र और आभूषणों से सुसज्जित कर दिया था॥ १३॥
स्फुरत्प्रभामण्डलमानुसूयं सा बिभ्रती शाश्वतमङ्गरागम्।
रराज शुद्धेति पुनः स्वपुर्यै संदर्शिता वह्निगतेव भर्त्रा॥ १४॥
अन्वयः—स्फुरत्प्रभामण्डलम् आनुसूयं शाश्वतम् अङ्गरागं बिभ्रती सा भर्त्रा स्वपुर्यै शुद्धा इति संदर्शिता पुनः वह्निगता इव रराज।
स्फुरदिति। स्फुरत्प्रभामण्डलमानुसूयमनुसूयया दत्तं शाश्वतं सदातनमङ्गरागं विलेपनद्रव्यं बिभ्रती सा सीता भर्त्रा स्वपुर्यै शुद्धेति सन्दर्शिता पुनर्वह्निगतेव रराज।
भाषार्थ—सीताजी के शरीर पर अब भी वह अमिट कान्तिवाला अङ्गराग लगा हुआ था जो अनुसूया जी ने उनके शरीर में लगा दिया था, उससे अग्नि के समान प्रकाशमान उनका शरीर ऐसा दिखाई दे रहा था मानो अयोध्या वासियों को सीताजी की शुद्धता दिखाने के लिए राम ने उन्हें अग्नि में पुनः प्रवेश कराकर शुद्ध कर दिया था॥ १४॥
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः।
बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश॥ १५॥
अन्वयः—सौहार्दनिधिः रामः सुहृद्भ्यः परिबर्हवन्ति वेश्मानि विश्राण्य आलेख्यशेषस्य पितुः बलिमत् निकेतं बाष्पायमाणः (सन्) विवेश।
वेश्मानीति। सुहृदो भावः सौहार्दं सौजन्यम्। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः। सौहार्दनिधी रामः सुहृद्भ्यः सुग्रीवादिभ्यः परिबर्हवन्त्युपकरणवन्ति वेश्मानि विश्राण्य दत्त्वा आलेख्यशेषस्य चित्रमात्रशेषस्य पितुर्वलिमत्पूजायुक्तं निकेतनं गृहं बाष्पमुद्वमन्विवेश। 'बाष्पोष्मभ्यामुद्वमने" इति क्यङ् प्रत्ययः।
४६६ रघुवंशमहाकाव्ये
**भाषार्थ—**सज्जनता के आकर राम ने पहले तो सुग्रीव आदि मित्रों को सब प्रकार की सामग्री से सुसज्जित भवनों में ठहरा कर बाद अपने पिता के पूजाघर में गये वहाँ दशरथ का अकेला चित्र देखकर उनकी आँखों में आंसू आ गये ॥ १५ ॥
कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद् गुरुर्नः ।
तच्चिन्त्यमानं सुकृतं भवेति जहार लज्जां भरतस्य मातुः ॥ १६ ॥
**अन्वयः—**तत्र कृताञ्जलिः ( सन् रामः ) हे अम्ब ! नः गुरुः स्वर्गफलात् सत्यात् न अभ्रश्यत इति यत् तत् चिन्त्यमानं तव सुकृतम् इति भरतस्य मातुः लज्जां जहार ।
कृताञ्जलिरिति । तत्र निकेतने कृताञ्जलिः सन् रामः 'हे अम्ब ! नो गुरुः पिता स्वर्गः फलं यस्य तस्मात्सत्यान्नाभ्रश्यत न भ्रष्टवानिति यदभ्रंशनं तच्चिन्त्यमानं विचार्यमाणं तव सुकृतम् ।' इत्येवं प्रकारेण भरतस्य मातुः कैकेय्या लज्जां जहारापानयत् । राज्ञां प्रतिज्ञापरिपालनं स्वर्गसाधनमित्यर्थः । भरतग्रहणं तदपेक्षयाऽपि कैकेय्यनुसरणद्योतनार्थम् ।
**भाषार्थ—**कैकेयी वहाँ उदास होकर बैठी हुई थी, राम ने हाथ जोड़ कर उससे कहा “माँ तुम्हारे ही पुण्य के प्रताप से हमारे पिताजी अपने उस सत्य से नहीं डिगे, जिससे स्वर्ग मिलता है । यदि आप उनसे वरदान न माँगती तो उनकी वरदान देने की प्रतिज्ञा झूठी हो जाती” यह सुनकर कैकेयी की आत्मग्लानि जाती रही ॥ १६ ॥
तथैव सुग्रीवविभीषणादीनुपाचरत्कृत्रिमसंविधाभिः ।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥ १७ ॥
**अन्वयः—**सुग्रीवविभीषणादीन् कृत्रिमसंविधाभिः तथा एव उपाचरत् यथा संकल्पमात्रोदितसिद्धयः ते चेतसि विस्मयेन क्रान्ताः ।
तथेति । सुग्रीवविभीषणादीन् संविधीयन्त इति संविधा योग्यवस्तूनि कृत्रिमसंविधाभिस्तथा तेन प्रकारेणैवोपाचरत् यथा सङ्कल्पमात्रेणेच्छामात्रेणोदितसिद्धयस्ते सुग्रीवादयश्चेतसि विस्मयेन क्रान्ता आक्रान्ताः ।
भाषार्थ — वहां से आकर राम ने सुग्रीव और विभीषण आदि मित्रों का अच्छी तरह स्वागत किया, उन लोगों को यह देखकर बड़ा आश्चर्य हुआ कि हम जो कुछ चाहते हैं वह तत्काल बिना कहे ही मिल जाता है ॥ १७ ॥
सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः ।
शुश्राव तेभ्यः प्रभाविवृत्तं स्वविक्रमे गौरवमादधानम् ॥ १८ ॥
चतुर्दशः सर्गः ४६७
**अन्वयः—**सः सभाजनाय उपागतान् दिव्यान् मुनीन् पुरस्कृत्य हतस्य शत्रोः प्रभवादि स्वविक्रमे गौरवमादधानं वृत्तं तेभ्यः शुश्राव ।
सभाजनायेति। स रामः सभाजनायाभिनन्दनायोपगतान्दिवि भवान्मुनीन-गस्त्यादीन्पुरस्कृत्य, हतस्य शत्रोः रावणस्य प्रभवादि जन्मादिकं स्वविक्रमे गौरवमुत्कर्षमादधानं वृत्तं तेभ्यो मुनिभ्यः शुश्राव श्रुतवान्। विजितोत्कर्षाज्जेतु-रुत्कर्ष इत्यर्थः।
**भाषार्थ—**तब राम ने उन अगस्त्य आदि ऋषियों का सत्कार किया जो उन्हें बधाई देने के लिए आये हुए थे, फिर उनसे उन्होंने अपने शत्रु रावण के जन्म से मृत्यु तक वह वृत्तान्त सुना जो उनका गौरव बढ़ाने वाला था॥ १८॥
प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान्।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः॥ १९॥
**अन्वयः—**तपोधनेषु मुनिषु प्रतिप्रयातेषु सुखात् अविज्ञातगतार्धमासान् सीतास्वहस्तोपहृताग्र्यपूजान् रक्षः कपीन्द्रान् रामः विससर्ज।
प्रतीति। तपोधनेषु मुनिषु प्रतिप्रयातेषु प्रतिनिवृत्य गतेषु सत्सु सुखादविज्ञात एव गतोऽर्धमासो येषां ताननन्तरं सीतायाः स्वहस्तेनोपहृता दत्ताऽग्र्यपूजोत्तम-सम्भावना येभ्यस्तान्। एतेन सौहार्दातिशय उक्तः। रक्षःकपीन्द्रान्रामो विससर्ज विसृष्टवान्।
**भाषार्थ—**तपस्वियों के चले जाने पर राम ने उन राक्षसों और बानरों के राजाओं को विदा किया जो अयोध्या में इतने आनन्द से रहे कि उन्हें पता ही नहीं चला कि आधा महीना कब बीत गया। चलते समय सीताजी स्वयं अपने हाथों से सत्कार के लिए सामग्री लाईं ॥ १९ ॥
तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त॥ २०॥
**अन्वयः—**तत् आत्मचिन्तासुलभं सुरारेः जीवितेन सह हृतं दिवः पुष्पं पुष्पकं भूयः कैलाशनार्थोद्वहनाय अमंस्त।
तच्चेति। तच्चात्मचिन्तासुलभं स्वेच्छामात्रलभ्यं सुरारेः रावणस्य जीवितेन सह हृतं दिवः पुष्पं पुष्पवदाभरणभूतं पुष्पकं विमानं भूयः पुनरपि कैलासनाथस्य कुबेरस्योद्वहनायान्वमंस्तानुज्ञातवान्। मन्यतेर्लुङ्। भूयोग्रहणेन पूर्वमप्येतत्कौबेर-मेवेति सूच्यते।
**भाषार्थ—**राम ने उस स्वर्ग के पुष्प के समान पुष्पक विमान को भी कुबेर के पास जाने की आज्ञा दे दी। जो इच्छा करते ही उनकी सेवा के लिए
४६८ रघुवंशमहाकाव्ये
आ जाता था और जिसे उन्होंने रावण के प्राण के साथ-साथ उससे हरण कर लिया था ॥ २० ॥
पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।
धर्मार्थकामेषु समां प्रपेदे यथा तथैणावरजेषु वृत्तिम् ॥ २१ ॥
अन्वयः—रामः एवं पितुः नियोगात् वनवासं निस्तीर्य प्रतिपन्नराज्यः धर्मार्थकामेषु यथा तथैणावरजेषु समां वृत्तिं प्रपेदे ।
पितुरिति । राम एवं पितुर्नियोगाच्छासनाद्वनवासं निस्तीर्यान्नन्तरं प्रतिपन्नराज्यः प्राप्तराज्यः सन् धर्मार्थकामेषु यथा तथैणावरजेष्वनुजेषु समां वृत्तिं प्रपदे । अवैषम्येण व्यवहृतवानित्यर्थः ।
भाषार्थ—इस प्रकार पिता की आज्ञा से वनवास की अवधि बिताकर राम ने अपने पिता का राज्य पुनः पाया । जिस प्रकार धर्म, अर्थ और काम के साथ सामान व्यवहार करते थे उसी प्रकार अपने भाइयों के साथ भी समान प्रेम का व्यवहार करते थे ॥ २१ ॥
सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् ।
षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥ २२ ॥
अन्वयः—स वत्सलत्वात् सर्वासु मातृषु अपि निर्विशेषप्रतिपत्तिः आसीत्, चमूनां नेता षडाननापीतपयोधरासु कृत्तिकासु इव ।
सर्वास्विति । स रामो वत्सलत्वात्स्निग्धत्वात् न तु लोकप्रतीत्यर्थम् । ‘स्निग्धस्तु वत्सलः’ इत्यमरः । सर्वासु मातृष्वपि निर्विशेषप्रतिपत्तिस्तुल्यसत्कार आसीत् । कथमिव चमूनां नेता षण्मुखः षड्भिराननैरापीताः पयोधराः स्तना यासां तासु कृत्तिकास्विव ।
भाषार्थ—जिस प्रकार स्वामी कार्तिकेय अपने ६ मुखों के कृत्तिकाओं के ६ स्तनों को पीकर समान रूप से प्रेम दिखाते थे उसी प्रकार राम भी अपनी तीनों माताओं पर बराबर प्यार करते थे । शास्त्रों में कृत्तिका नक्षत्र की संख्या तीन है इसलिए षडानन कार्तिकेय के पीने के लिए तीन कृत्तिकाओं का ६ स्तनों का होना उचित ही है ॥ २२ ॥
तेनार्थवांल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।
तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री ॥ २३ ॥
अन्वयः—लोकः लोभपराङ्मुखेन तेन अर्थवान् आस, विघ्नभयं घ्नता तेन क्रियावान्, विनेत्रा तेन पितृमान्, शोकापनुदेन तेन एव पुत्री ( आस ) ।
चतुर्दशः सर्गः ४६९
तेनेति । लोको लोभपराङ्मुखेन वदान्येन तेन रामेणार्थवान्धनिक आस बभूव । तिङन्तप्रतिरूपकमव्ययमेतत् । विघ्नेभ्यो भयं घ्नता नुदता क्रियावाननुष्ठानवानास । विनेत्रा नियामकेन तेन पितृमानास । पितृवन्नियच्छतीत्यर्थः । शोकमपनुदतीति शोकापनुदो दुःखस्य हर्ता तेन । “तुन्दशोकयोः परिमृतापर्नुदोः” इति कप्रत्ययः । तेन पुत्री पुत्रवानास । पुत्रवदानन्दयतीत्यर्थः ।
भाषार्थ—राम निर्लोभ थे इसलिए उन्होंने प्रजाओं पर कोई कर नहीं लगाया, फल यह हुआ कि थोड़े दिनों में प्रजा धनी हो गयी, वे कहीं भी विघ्न आने ही नहीं देते थे, इसलिए सभी लोग प्रसन्नता से यज्ञ-आदि क्रियायें करने लगे । वे सबको ठीक मार्ग पर चलाते थे, इसलिए सभी इनको पिता के समान मानते थे, विपत्ति पड़ने पर वे सबको सहायता करते थे इसलिए वे पुत्रवान् भी थे । २३ ॥
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा ।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥ २४ ॥
अन्वयः—सः काले पौरकार्याणि समीक्ष्य विदेहाधिपतेः दुहित्रा उपभोगोत्सुकया ( अत एव ) तदीयं चारु वपुः कृत्वा ( स्थितया ) लक्ष्म्या इव उपस्थितः सन् रेमे ।
स इति । स रामः कालेऽवसरे पौराणां कार्याणि प्रयोजनानि समीक्ष्य विदेहाधिपतेर्दुहित्रा सीतया उपभोगोत्सुकयाऽत एव तदीयं सीतासंबन्धि चारु वपुः कृत्वा स्थितया लक्ष्म्यैव उपस्थितः संगतः सन् रेमे । 'उपस्थानं तु सङ्गतिः' इति यादवः ।
भाषार्थ—वे ठीक समय पर प्रजा का काम देखभाल कर सीता के साथ रमण करते थे, उन्हें देखकर ऐसा मालूम पड़ता था कि मानो राजलक्ष्मी ने ही राम के साथ रमण करने के लिए सीता का सुन्दर रूप धर लिया है ॥ २४ ॥
तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु ।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् ॥ २५ ॥
अन्वयः—चित्रवत्सु सद्मसु यथाप्रार्थितम् इन्द्रियार्थान् आसेदुषोः दण्डकेषु प्राप्तानि दुःखानि अपि संचिन्त्यमानानि सुखानि अभूवन् ।
तयोरिति । चित्रवत्सु वनवासवृत्तान्तालेख्यवत्सु सद्मसु यथाप्रार्थितं यथेष्टमिन्द्रियार्थानिन्द्रियविषयाञ्छब्दादीनासेदुषोः प्राप्तवतोस्तयोः सीतारामयोर्दण्डकेषु दण्डकारण्येषु प्राप्तानि दुःखान्यपि विरहविलापान्वेषणादीनि संचिन्त्यमानानि स्मर्यमाणानि सुखान्यभूवन् । स्मारकं तु चित्रदर्शनमिति द्रष्टव्यम् ।
| ४७० | रघुवंशमहाकाव्ये |
|---|
भावार्थ—वे दोनों उस भवन में इच्छानुसार विलास करते थे जिसमें वनवास के समय के चित्र टंगे हुए थे, जिन्हें देखकर वनवास की दुःखों का स्मरण करके भी उन्हें सुख ही मिलता था ॥ २५ ॥
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन ॥ २६ ॥
अन्वयः—अथ सीता अधिकस्निग्धविलोचनेन शरपाण्डुरेण अनक्षरव्यञ्जितदोहदेन मुखेन परिणेतुः आनन्दयित्री आसीत् ।
अथेति । अथ सीतधिकस्निग्धविलोचनेनात्यन्तमसृणलोचनेन शरवत्तृणविशेषवत्पाण्डुरेणात एवानक्षरमवाग्व्यापारं यथा भवति तथा व्यञ्जितं प्रकटितं दोहदं गर्भो येन तेन मुखेन परिणेतुः पत्युः । इत्यत्र कर्मणि षष्ठी । आनन्दयित्र्यासीत् ।
भावार्थ—इसके बाद सीताजी के नेत्रों की शोभा बढ़ने लगी और उनका मुख पके सरपत के समान पीला पड़ने लगा, इन गर्भ के लक्षणों को देखकर राम बड़े प्रसन्न हुए अर्थात् मुख की पाण्डुरता से सीता को गर्भिणी जानकर राम अति आनन्दित हुए ॥ २६ ॥
तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् ।
विलज्जमानां रहसि प्रतीतः पप्रच्छ रामां रमणोऽभिलाषम् ॥ २७ ॥
अन्वयः—प्रतीतः रमणः प्रियां कृशांगयष्टि वर्णान्तराक्रान्तपयोधराग्रम् विलज्जमानां तां रामां अङ्कम् आरोप्य अभिलाषं पप्रच्छ ।
तामिति । प्रतीतो गर्भज्ञानवान् रमयतीति रमणः प्रिया कृशाङ्गयष्टिं वर्णान्तरेण नीलिम्नाक्रान्तपयोधराग्रां विज्रमानां तां रामां रहस्यङ्कमारोप्याभिलाषं मनोरथं पप्रच्छ । एतच्च—"दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्" इति शास्त्रात् । न तु लोल्यादित्यनुसंधेयम् ।
भावार्थ—जब राम को पूर्ण विश्वास हो गया कि सीताजी गर्भिणी हैं तो वे दुर्वल शरीर वाली श्यामवर्ण वाले स्तनाग्रों से युक्त एवं सलज्ज सीता को एकान्त में गोद में लेकर पूछने लगे कि बताओ तुम्हें क्या-क्या चाहिए ? ॥ २७ ॥
सा दृष्टनीवारबलीनि हिंस्रैः सम्बद्धवैखानसकन्यकानि ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ २८ ॥
अन्वयः—सा हिंस्रैः दृष्टनीवारबलीनि सम्बद्धवैखानसकन्यकानि कुशवन्ति भागीरथीतीरतपोवनानि भूयः गन्तुम् इयेष ।
सेति । सा सीता हिंस्रैर्दंष्ट्रा नीवारा एव बलयो येषु तानि । तिर्यग्भिश्च-
चतुर्दशः सर्गः । ४७१
चतुर्दशः सर्गः । ४७१
कादिदानं बलिः। संबद्धाः कृतसम्बन्धाः कृतसख्या वैखानसानां कन्यका येषु तानि कुशवन्ति भागीरथीतीरतपोवनानि भूयः पुनरपि गन्तुमियेषाभिलाष ।
भाषार्थ—सीताजी ने कहा, मैं गङ्गा के तट के उन तपस्वियों को देखना चाहती हूँ जहां के हिंसक जन्तु मांस न खाकर नीवार ही खाते हैं, जहां मेरी सखियां तपस्वियों की कन्यायें रहती हैं और वहां कुशा की पर्णकुटियां चारों ओर खड़ी हैं ॥ २८ ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥ २९ ॥
अन्वयः—रघुप्रवीरः तस्यै तत् ईप्सितं प्रतिश्रुत्य पार्श्वचरानुयातः ( सन् ) मुदितां अयोध्यां आलोकयिष्यन् अभ्रंलिहं प्रासादम् आरुरोह ।
तस्या इति । रघुप्रवीरो रामस्तस्यै सीतायै तत्पूर्वोक्तमीप्सितं मनोरथं प्रतिश्रुत्य पार्श्वचरैस्तत्कालोचितैरनुयातः सन्मुदितां तामयोध्यामलोकयिष्यन् अभ्रं लेढीत्यभ्रंलिहमभ्रङ्कषं प्रासादमारुरोह । “वहाभ्रे लिहः” इति खश्प्रत्ययः । “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः ।
भाषार्थ—रामजी ने कहा—अच्छी बात है हम तुम्हें तपोवन में अवश्य भेजेंगे, वे वहांसे उठ कर अपने सेवकों के साथ सुन्दर अयोध्या की छटा देखने के लिए गगनचुम्बी अपने राजभवन की छतपर जा चढ़े ॥ २९ ॥
ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ ३० ॥
अन्वयः—सः ऋद्धापणं राजपथं नौभिः विगाह्यमानां सरयूञ्च पश्यन् पौरैः विलासिभिः अध्युषितानि पुरोपकण्ठोपवनानि रेमे ।
ऋद्धापणमिति । स रामः ऋद्धाः समृद्धा आपणाः पण्यभूमयो यस्मिंस्तं राजपथम् । नौभिः समुद्रवाहिनीभिर्विगाह्यमानां सरयूं च, पौरैर्विलासिभिरध्युषितानि पुरोपकण्ठोपवनानि च पश्यन्रेमे । विलासिन्यश्च विलासिनः । “पुमान्स्त्रिया” इत्येकशेषः ।
भाषार्थ—वहां से उन्होंने देखा कि राजमार्ग की दुकानें धन-धान्य से भरी हुई हैं, सरयू में नावें चल रही हैं और अयोध्या के उद्यानों में विलासी पुरवासी प्रसन्न होकर विलास कर रहे हैं ॥ ३० ॥
स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः ।
सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ ३१ ॥