भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

८६ रसार्णवे कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् । पेषयेद्गन्धतैलेन म्रियते वज्रमौख्वरि ॥ ९६ ॥ कुलत्थाभसि¹ कासोससौराष्ट्रोतालकान्विते² । अपामार्गक्षारयुतं³ वज्रं सिक्तं मृतं भवेत् ॥ ९७ ॥ अमृताकन्दतिमिर-वोजालक्तक्चीरवेष्टितम् ।⁴ मेषशृङ्गगतं⁵ वज्रं सृल्लिप्तं म्रियतं पुटैः ॥ ९८ ॥ पेटारी हंसपादी च वज्रवल्लो च सूरणम् । अश्वत्थस्याङ्कुरा देवि सर्व्वं स्त्रीस्तन्यपेषिता⁶ ॥ ९९ ॥ अनेन सिद्धकल्केन वेष्टितं बृहतीफले⁷ । क्षिप्तं वह्निर्मुदा⁸ लिप्तं म्रियते सप्तभिः पुटैः ॥ १०० ॥ श्वेतेन्दुरेखापुष्पाम्बु⁹-गन्धकत्रयमाक्षिकैः¹⁰ । वेष्टितं कुलिशं देवि पुटपाकात्¹¹ मृतं भवेत् ॥ १०१ ॥ अश्वत्थबदरीभिण्डो¹²-माक्षिकं¹³ कर्कटास्थि¹⁴ च ।


(1) B reads कुलित्याम्भसि. M reads कुलस्थाम्भस, which is incorrect. (2) K has तालकान्वितम्. M has an incomplete and incorrect charaṇa सहितालखानिते. (3) अपामार्गाक्षारयुक्ते, a variant in M. (4) This hemistich is not found in K. This śloka and the next four ślokas (98—102) are not found in M. (5) B reads मेषभृङ्गगवे, which has no sense. (6) K reads पेषिता (without विसर्ग), which is gram. inc. (7) K has वृहतीफलं. (8) K reads क्षिप्ता वह्नौ मृदा. (9) B reads श्वेतोंदुरखा. K reads श्वेतांदुरखा. Both are inc. (10) गन्धकं माक्षिकैः सह, a variant in K. (11) B has पुटं पाकात्. (12) B reads बदरि. K reads भाण्डी. (13) B reads माक्षिकं. (14) K reads कच्छपास्थिः

षष्ठः पटलः । ८७ स्नुहीक्षीरेण¹ संपेष्य पुटाद्विप्रो मृतो भवेत् ॥ १०२ ॥ करवोरार्कदुग्धेन मेषशृङ्गं² सद्धिङ्गुलम् । उदुम्बर³समायुक्तं पुटात्⁴ क्षत्रियमारणम् ॥ १०३ ॥ बाला चातिबला⁵ चैव गन्धकं कर्कटास्थि⁶ च । क्षीरेणोत्तरवारुण्याः⁷ पुटनाद्वैश्यमारणम् ॥ १०४ ॥ कण्डूलसूरणेनैव⁸ शिलया⁹ लशुनेन च । न्यग्रोधशङ्ख¹⁰दुग्धेन शूद्रोऽपि म्रियते क्षणात् ॥ १०५ ॥ स्थूला बहुस्थूलपुटैः¹¹ नश्यन्ति फलकादयः¹² । सुस्विन्ना¹³ इव जायन्ते मृदुत्वमुपजायते ॥ १०६ ॥¹⁴ (1) B has सुहिक्षीरेण. (2) B reads मेषभङ्ग, which is incorrect. (3) M reads औदुम्बर. (4) Both B and M read पुटे : but they read पुटात् and पुटनात् (in the 5th case-ending) before and after this śloka, i.e. पुटात् in 102, and पुटनात् in 104. (5) B reads बला चातिबला (a mere tautology, अतिबला is a kind of बला, which has four different kinds.) [बाला = ह्रीवेर.] K reads बला वा निक्षुना, which has no clear sense. (6) K has कच्छपास्थि. M has गर्भं कच्छवरास्थि, which is inc. (7) पुटेनंत्तरवारुण्याः, a variant in M. (8) K reads कङ्गुनी न सूरणेन, which is not only grammatically incorrect, but also defective in metre. (9) B reads शिया, ल being left out by the scribe. (10) B reads शंख, which seems to be the blunder of the scribe. (11) K reads पुटे. M reads बहुमूलपुटैः. (12) K has प्रकलादयः. (13) सुखिना is the incorrect reading in B. This hemistich is wanting in K. M reads सुस्मिन्न, which is inc. (14) After this śloka we find in B—सामान्यवज्रमारणम्. As other MSS. are silent in this point, we did not adopt this in the body of the text.

८८ रसार्णवे पिष्टामलकपञ्चाङ्गं गौराभा¹मिन्द्रवारुणीम् । अनेन वेष्टितं² वज्रं म्रियते सप्तभिः पुटैः ॥ १०७ ॥ माहवाहकजीवस्य³ मध्ये वज्रं विनिक्षिपेत् । दोलास्वेदे त्र्यहं देवि⁴ गुणपञ्चसमं भवेत् ॥ १०८ ॥ एरण्डछत्तमध्ये तु वज्रं देवि विनिक्षिपेत् । एकमासे⁶ गते देवि गुणपञ्चसमं⁷ भवेत् ॥ १०९ ॥ कान्तस्य पिष्टिकामध्ये⁸ वज्रं देवि विनिक्षिपेत्⁹ । कार्पास¹⁰निम्बपत्रं च बदरीपत्रसंयुतम् ॥ ११० ॥ एकत्र पेषयेत्तत्तु¹¹ कान्तगोलकवेष्टितम्¹² । वाह्ये¹³ ताम्बूलपत्रेण¹⁴ स्थापयेज्जानुमध्यतः¹⁵ ॥ १११ ॥ यामद्वयेन तद्वज्रं जायते मृदु निश्चितम्¹⁶ ।

(1) B reads गोरभा. K reads रागिनी. (2) M reads वेषितं. (3) K has माहवाहकवोजस. M has माहह्वाहकनीवस्य. Both the texts seem to be incorrect. (4) This charaṇa and the next three are not found in B. K reads दोलास्वेद. M reads ऽलायां स्वेदयं देवि. (5) K reads गुणत्रयसमं. (6) M reads एकमास, which is gram. inc. (7) K reads गुणत्रयसम. (8) कान्तस्य पिष्टितं वज्र, a variant in K, which has no clear sense. (9) सुखिस्रान्ति जायते, a variant in K, which is unconnected. After this we do not find the next two charaṇas in K. (10) B reads कर्पास. M reads कार्य, स being left out by the scribe. (11) B reads पेषयं त तु. M reads पेषर्दस तु. (12) B has कान्त गोलक- वेष्टित. M has कान्तकलकवेष्टितम्, which seems to be inc. (13) B reads वाह्य. (14) K reads ताम्बूलपत्रे वज्रं तु. (15) K has स्थापयेद्रक्तमध्यतः. (16) This charaṇa and the next are not found in K.

षष्ठः पटलः । ८८ सत्त्वणान्भ्रियते¹ वज्रं तारे हेम्नि न संशयः ॥ ११२ ॥ जम्बोरफलमध्यस्थं वस्त्र²पोटलिकागतम् । क्वाथयेत् कोद्रवक्वाथे³ क्रमेणानेन तु त्र्यहम्⁴ । तद्वज्रं जायते खोटं⁵ हेम्ना मिलति तत्क्षणात्⁶ ॥ ११३ ॥ नागवल्लाग्रा प्रलिप्तं तु तत्पत्रेणैव⁷ वेष्टितम् । जातुमध्ये⁸ स्थितं यामं मृदु सञ्जायते ध्रुवम्⁹ ॥ ११४ ॥ मूले वज्रलतायास्तु मृदु वज्रं विनििक्षिपेत् । पुटं दद्यात् प्रयत्नेन भस्मीभवति¹⁰ तत्क्षणात् ॥ ११५ ॥ सुखाद्मकरं ह्याशु¹¹ सत्त्वं मुञ्चति तत्क्षणात् । सर्व्वमृत्युप्रशमनाः¹² सर्व्वसिद्धिकराश्च ते¹³ ॥ ११६ ॥ अस्थिशृङ्खलमध्यस्थं¹⁴ कृत्वा वज्रं विरञ्चितम्¹⁵ । (1) M reads तत्क्षणान्म्रियते. (2) K reads वज्रं पोटलिकागतम्. M reads वस्त्रपंटलकागतम्. (3) K reads कोद्रवक्वाथैः. (4) M reads त्यह, which is senseless. (5) B has only खो. M reads खोट. (6) K reads लक्षणात्. (7) M reads तत्पत्रेनैव, wherein 'न' is gram. inc. (8) K reads योनिमष्ये. (9) K has संज्ञायते द्रुतम. (10) K reads मियते देवि. (11) K has सुरद्वक्षं करेण्याशु, which has no clear sense. M has सुखादवडकग ह्याशु. (12) सर्वमृत्युप्रशमना (without विसर्ग), a variant in B. सर्वमृत्युः प्रशमनाः, a variant in K. सुवमृत्युप्रशमन, a variant in M. All are incorrect. (13) सर्व सिद्धिरताश्च ते, a reading in B, which is not correct. सर्वव्याधिशताश्च ते, a reading in M, which is absurd. (14) K reads अस्थिशृगालमध्यस्थ. M reads अथ शृङ्खलमध्यस्थं. (15) विगट्- इतं, a reading in K. M has a defective charana – कृत्वा वज्रं विरं च तत् 12

९० रसार्णवे जलभाण्डे तु तत् स्विन्नं¹ सप्ताहं² द्रवतां व्रजेत् ॥ ११७ ॥ क्षारत्रयं रामठञ्च³ चणकाम्लामवेतसम्⁴ । चिञ्चा⁵ ज्वालामुखीक्षीरं स्थलकुम्भी⁶रसेन च ॥ ११८ ॥ एतैस्तु मर्दितं वज्रं⁷ स्नुह्यर्कपयसा तथा⁸ । दोलायां⁹ स्वेदयेद्देवि जायते¹⁰ रसवद्द्यथा ॥ ११९ ॥ अथवाप्यभ्रकं¹¹ स्विन्नं मौक्तिकं च प्रवालकम् । माक्षिकं नीलपुष्पं च¹² पीतं मरकतं महत्¹³ । वैदूर्यस्फटिकादीनि¹⁴ द्रवन्ति सलिलं यथा ॥ १२० ॥ लोहजातं तथा¹⁵ ध्मातम् अग्निवर्णे तु दृश्यते । वापितं सकृदेकेन¹⁶ मृतं जलसमं¹⁷ भवेत् ॥ १२१ ॥ मुक्ताफलन्तु सप्ताहं वेतसाम्लेन भावितम् ।


(1) K reads सत् चिन्न. M reads जलमध्ये तु. (2) K reads सप्ताहात्. (3) K has मारचयं. M has द्वि रामष्ठ. (4) K has only चणकाम्लवेतसा. M has चणकाम्लसवेतसम्. (5) K reads चित्रं. (6) M reads: स्थलकुम्भ. (7) B has मर्दिता वज्रा. M has मर्दिता वज्र, which is incorrect. (8) M reads पयसस्तथा, which is not correct. (9) M has डोलायां. (10) B reads नायते. (11) B and M read स्वभ्रक. (12) M reads नीलपृष्टं च, which is inc. (13) B reads मथकतं, which is inc. K reads मरकतक. M reads पीतमंरतक भवेत्, which has no sense. (14) All the texts read वैदुर्य. But the reading we have adopted above is generally used, and stated in रम.स. Chap. VIII. v. 57. (15) K and M read यथा. (16) M reads मकृदेतेन. (17) B has दंतं समजलं. K has घृत instead of मृत.

षष्ठः पटलः । ८१ जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत् । पुटपाकेन तच्चूर्णं$^1$ जायते सलिलं यथा ॥ १२२ ॥ ॥ इति वज्रविधिः ॥ शृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥ १२३ ॥ दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः$^2$ । दुर्गा भगवती देवी$^3$ तं शूलेन व्यमर्दयत्$^4$ ॥ १२४ ॥ तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि । तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः$^5$ ॥ १२५ ॥ विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्व्वथा$^6$ । विक्रन्तयति$^7$ लोहानि तेन वैक्रान्तकः स्मृतः$^8$ ॥ १२६ ॥ श्वेतः पीतस्तथा रक्तो नीलः$^9$ पारावतप्रभः । मयूरबालसदृशश्चान्यो मरकतप्रभः$^{10}$ ॥ १२७ ॥ • (1) K reads तडूर्णं, which is not correct. (2) सर्व्वदैवसमुद्भवः, a variant in K. (3) B reads भगवति देवि. M reads देवि. (4) तं इलेनैव मर्दयत्, a variant in M. (5) All the texts read वैक्रान्त वज्राकारं महारसं. But the term रस is in masculine gender, meaning mercury or any metal. [Rules on genders are not strictly observed in the Puráṇas and Tantras.] (6) सर्व्वथा सर्व्वसिद्धिदम्, a variant in K, which is unconnected with the context. (7) K reads विक्रान्तयति. M reads निष्क्रन्तयति. Both are gram. inc. (8) K has वैक्रान्तकं स्मृतम्. [The term वैक्रान्त is used here in both the genders, masculine and neuter, as it is stated in रस. म. Chap. IV. v. 73.] (9) M reads खलः, which is erroneous. [But the term कृष्ण is used as its synonym in the next śloka.] (10) This hemistich is not found in M.

९२ रसार्णवे देहसिद्धिकरः कृष्णः¹ पीते पीतः सिते सितः² । सर्व्वार्थसिद्धिदो रक्तः³ तथा मरकतप्रभः⁴ । शेषे द्वे निष्फले वर्ज्ये⁵ वैक्रान्तमिति सप्तधा ॥ १२८ ॥ यत्र क्षेत्ने स्थितं देवि⁶ वैक्रान्तं तत्र भैरवम् । विनायकं च⁷ संपूज्य गृह्णीयात् साधकोत्तमः ॥ १२९ ॥ वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम्⁸ । व्याघ्रीकन्दस्य मध्यस्थं⁹ धमयित्वा पुटे स्थितम्¹⁰ ॥ १३० ॥ अश्वमूत्रेण¹¹ मृदग्नौ स्वेदयेत् सप्तवासरात् । छायाशुष्कं ततः कुर्य्या¹²दिदं वैक्रान्तमुत्तमम् ॥ १३१ ॥ अथवा लवणक्षारमूत्राम्ललशुणतैलकैः¹³ । कुलत्थकोद्रवक्वाथे¹⁴ स्वेदयेत् सप्त वासरान् ॥ १३२ ॥ (1) B reads देहसिद्धिकर कृष्ण. M reads देहमसिकरं कृष्ण, which is inc. (2) B and M read पीत पात सिते सित. K reads पीतः पीते सितः सिते. We have adopted the above reading after collating all the MSS. (3) B and K read सर्वार्थसिद्धिदं रक्त. (4) B, K and M read तथा मरकतप्रभम्. (5) K reads वर्जे, which is inc. [From this charaṇa the term वैक्रान्त is used in neuter gender.] (6) B reads स्थिते देवि. M reads यत्न चर्चामद देवि. Both are gram. inc. (7) K reads तु. (8) सुरासुरगमस्कृत, a variant in B. (9) M reads व्याघ्रकन्दकमध्यस्थं. (10) K reads धामयित्वा पुटस्थितं. M reads पुटं स्थितम्. (11) B has अश्वसूत्रेण. M has अग्रिमूत्रेण. Both are inc. (12) This hemistich and the next two are wanting in K. M has a defective charaṇa—तया कुर्या. (13) B reads तृषतैलकैः. (14) कुलत्थं कोद्रवक्वाथे, a variant in B. कुलत्थकेद्रवक्वाथे, a variant in M, which is not correct.

षष्ठः पटलः । ८३ लम्ब्याचूर्णेस्तु वैक्रान्तं समांशेन तु चूर्णयेत्¹ । अजामूत्रेण² संभाव्य छायाशुष्कं तु कारयेत् । अश्वनाले धमित्वा तु³ मूषामत्त्वं तु जायते⁴ ॥ १३३ ॥ मोक्षमोरटपालाशक्षारगोमूत्रभावितम्⁵ । वज्रकन्दशिफाकल्क⁶लाक्षाटङ्कणसंयुतम् ॥ १३४ ॥ वैक्रान्तसम्भवं चूर्णं मेषशृङ्गो⁷द्रवान्वितम् । पिण्डितं मूकभूषायां⁸ ध्मातं सत्त्वं विमुञ्चति ॥ १३५ ॥ वैक्रान्तं वज्रकन्दं च⁹ पेषयेद्वज्रवारिणा¹⁰ । माहिषे नवनीते च¹¹ सञ्चौद्रं पिण्डितं ततः । शोधयित्वा धमेत् सत्त्वं¹²-मिन्द्रगोपसमं पतेत्¹³ ॥ १३६ ॥ केतकोस्वरसः काञ्चौ¹⁴ मणिसम्यं सखेचरम्¹⁵ ।


(1) K reads कारयेत्. M reads पूजयेत्. (2) M reads अजमूर्त्रेण. (3) M reads erroneously अश्वनालयांमत्वा तु. (4) K has मूखासत्त्वं तु जायते. (5) M reads काँमूत्रभावितः, which is inc. (6) K has कल्क. M has शिलाकल्क. (7) B reads मेषशृङ्गो, which is inc. M reads मेषश्रृङ्गि. (8) K reads मूकमूखायां. M reads मूकमूषाया, wherein the omission of अनुस्वार is the error of the scribe. (9) वक्रान्तं वज्रकन्दे च, a variant in K, which has no sense. (10) M reads वज्रतौरिणा, which is inc. (11) B reads पेषित नवनीतेन. M reads माहिषं नवनीतञ्च. (12) शोषयित्वा धमेत् सत्वं, a variant in M. (13) इन्द्रगोपासम भवेत्, a variant in K. M reads इन्द्रकोपसमं पतेत्, which is inc. (14) B reads केतकिस्वरसं कांची. K and M read केतकीस्वरसं काँचि. [But the term स्वरस is in masculine gender.] (15) K has सखेचरौ, which is not correct. M has माषिसम्य.

६४ रसार्णवे स्वेदनाज्जायते¹ देवि वैक्रान्तं रससन्निभम् ॥ १३७ ॥ ॥ इति वैक्रान्तविधिः ॥ सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः² । अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥ १३८ ॥ इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १३९ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे³ रसार्णवे रससंहितायां अभ्रकादिलक्षणसंस्कारनिर्णयो नाम षष्ठः पटलः ॥ ६ ॥ (1) K reads erroneously खेदणा जायते। (2) B reads कान्तलोहं च वाजरः. K reads कांतलोह च वाजरं. M reads कान्तलोहश्च वा रजः. All the texts seem to be incorrect. We have adopted a reading after collating all of them. (3) This portion is wanting in B and M.

सप्तमः पटलः ।

श्रीदेव्युवाच ।¹ सह लक्षण²संस्कारै-राज्ञापय महारसान् । अन्यच्च तादृशं देव रसविद्योपकारकम् ॥ १ ॥ श्रीभैरव उवाच ।³ माक्षिको विमलः शैलः⁴ चपलो रसकस्तथा । सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टकम्⁵ । अष्टौ महारसाश्चैव⁶-मेतान्⁷ प्रथमतः शृणु ॥ २ ॥ कृष्णास्तु भारतं श्रुत्वा⁸ योगनिद्रामुपागतः⁹ । तस्य पादतले विद्धं¹⁰ व्याधेन मृगशङ्कया ॥ ३ ॥ ये तत्र¹¹ पतिता भूमौ क्षताद्रुधिरबिन्दवः । (1) M reads देवी and nothing else. (2) B reads लक्षणे, which is not gram. correct. (3) B has भैरवीवाच । K has श्रीभैरव्युवाच । Both the readings are incorrect. M has श्रीभैरवः and nothing else. (4) B reads मलसः instead of विमलः, which seems to be the blunder of the scribe. K reads माक्षिका विमला शिला. M reads शैलो, which is gram. inc. (5) K has सोताञ्जनमकथाष्टकम्, which is inc. [Vide रसरत्नसमुच्चय Chap. II., and रससार, 6th Paṭala, vs. 2-3.] (6) B reads महारसास्येव. M reads महारसाख्येव. Both the readings are inc. (7) K reads मेतत्. (8) K has कृत्वा. (9) B reads मुपागताः, which is gram. inc. (10) K has विन्नं, which has no sense here. (11) K reads एकत्र.

९६ रसार्णवे ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः¹ ॥ ४ ॥ माक्षिको द्विविधस्तत्र² पीतशुक्लविभागतः³ । विमलस्त्रिविधो⁴ देवि शुक्लः पीतश्च लोहितः⁵ ॥ ५ ॥ तैलारनालतक्रेषु गोमूत्रे कदलीरसे⁶ । कुलत्थकोद्रवक्वाथैः⁷ माक्षिकं विमलं तथा⁸ । मुहुः शूरणकन्दस्थं खेदयेदहरवार्णि⁹ ॥ ६ ॥ क्षाराम्ललवणैरण्ड-तैलसर्पिः¹⁰समन्वितम् । पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥ ७ ॥ (1) This hemistich is wanting in B. K reads माक्षिकोपला (without विसर्ग), which is gram. inc. M reads जाता माक्षिककोमलाः. (2) This hemistich is not found in B. K has an incomplete charaṇa —माक्षिको द्विवस्तत्र. (3) पीतः शुक्लो विभागः, a variant in K. [रसरत्नसमुच्चय reads माक्षिको द्विविधो हेमाक्षिकस्तारमाक्षिकः. Chap. II. v. 80.] The following śloka is found in MS. K only ;—चतुर्धा करकाकारः शुक्तिकापुटसन्निभः । तथांगुलीयकाकारी भृशकर्करिकासमः ॥ इति माक्षिक लक्षणं ॥ We have placed it in the footnote, because we do not find these varieties of माक्षिक in any other MS., neither in रस.स., nor in रससार. (4) B reads विमलास्त्रिविधा. K reads विमलस्त्रिविधो, which is inc. (5) B has शुक्लः पीतश्च लोहिताः ; here the last term is inc. K has शुक्लपीतश्च. [रस.स. mentions the different names of विमल according to its colour, as पीतः—हेमविमलः, शुक्लः—तारविमलः, लोहितः—कांस्यविमलः. Chap. II. v. 96.] (6) गोमूत्रकदलीरसैः, a variant in K. (7) M reads कुलत्थकोद्रवक्वाथे, which is inc. (8) K reads माक्षिकं विमलस्तथा, which is not gram. correct, as these are objects to स्वेदयेत्. (9) K reads this hemistich very imperfectly—मुहुः शूरणक दर्दहरवार्णि. (10) B and M read तैलसर्पि.

सप्तमः पटलः । २७ माक्षिकं चूर्णितं स्तन्य¹-सुह्यर्कक्षीरभावितम् । सत्त्वं मुञ्चति सुध्यातं टङ्कककुष्ठमोदितम्² ॥ ८ ॥ कदलीकन्दतुलसी-नारङ्गाम्लपरिस्रुतम्³ । सप्तसप्तपुटोपेतं⁴ पञ्चद्रावकसंयुतम्⁵ । स्त्रीस्तन्यमोदितं आतं⁶ सत्त्वं मुञ्चति माक्षिकम् ॥ ९ ॥ क्षौद्रगन्धर्व्वतैलाभ्यां⁷ गोमूत्रेण घृतेन च । कदलीकन्दसारेण भावितं माक्षिकं मुहुः । मूषायां⁸ मुञ्चति आतं सत्त्वं शुल्वनिभं मृदु⁹ ॥ १० ॥ देवदालोरसं क्षिप्त्वा¹⁰ पादांशटङ्कणैर्युतम्¹¹ । प्रकटां मूषिकां¹² कृत्वा धमेत् सत्त्वमपेक्षितम्¹³ ॥ ११ ॥ किमत्र चित्रं कदलीरसेन सुपाचितं¹⁴ सूरणकन्दसम्पुटे ।


(1)

८८ रसार्णव वातारितैलेन पुटेन तार्य पुटेन दग्धं वरशुद्धिमिति¹ ॥ १२ ॥ गोमूत्रैश्च सुहिग्क्षीरैः² भाव्यमेरण्डतैलकैः³ । माक्षिकं दिनमेकन्तु मर्दितं वटकीकृतम् । अभ्रवद्धमयेत् सत्त्वं⁴ सस्यकस्याप्ययं विधिः⁵ ॥ १३ ॥ ताप्यमावर्त्तकं धातु⁶-माक्षिकं⁷ मधुधातुकम् । माक्षिकं तिक्तमधुरं मेहार्शः⁸क्षयकुष्ठनुत् । कफपित्तहरं बल्यं⁹ योगवाहि रसायनम् ॥ १४ ॥ ज्वरसन्निपातदारिद्र्याण्यपि¹⁰ यन्नामकथनमात्रेण¹¹ । नश्यन्ति योजनशते¹² कस्तस्याज्ञोऽवेधकरः¹³ ॥ १५ ॥ ॥ इति माक्षिकशुद्धिः ॥¹⁴ (1) M reads परशुद्धिमिति. (2) गोमूत्रेण सुहिक्षीरैः, a variant in K. (3) B reads तैलतः. (4) K reads सत्वे. M reads अभ्रकन्तु पतेत् सत्वं. (5) B has an incomplete charana—सस्याप्ययं विधिः. (6) ताप्य आव- र्त्तकमाक्षं, an incorrect variant in M. (7) M reads मार्थिकं, which is an error of the scribe. (8) B has मेहात्ताँ, which is inc. M has महार्षः. (9) M reads बल्य (without अनुस्वार). (10) K has ज्वरसन्निपातदार्याण्यपि. M has ज्वरसन्नितादारिद्याण्यपि. Both seem to be inc. (11) K has तु after मात्रेण. But we have not adopted it, because the final ण is optionally a गुरु-letter. (12) K reads योजनशतांतरे. (13) B has कस्तोर्ध्याभाडवेधवरकः, which is entirely absurd. M has कस्त स्याचाज्ञोऽवेधकरः, which has no clear sense. (14) B reads इति माक्षिकक्रियाविधिः । This is wanting in M.

सप्तमः पटलः । ९९ विमलं¹ शिगुतोयेन काञ्चीकासीसटङ्कणैः² । वज्रकन्दसमायुक्तं भावितं कदलीरसैः³ ॥ १६ ॥ मोचक⁴क्षारसंयुक्तं धमितं मूकमूषया⁵ । सत्त्वं चन्द्रार्कसंकाशं⁶ प्रयच्छति न संशयः ॥ १७ ॥ ॥ इति विमलशुद्धिः⁷ ॥ पतितोऽपतितश्चेति⁸ द्विविधः शैल शेखरि⁹ । ग्रन्थान्तरेऽपि कीर्त्योऽसौ¹⁰ कीर्त्तितो बहुभिः सुरैः ॥ १८ ॥ निदाघे घर्मसंतप्ता धातुसारं धराधराः । निर्यासं च विमुञ्चन्ति तच्छिलाजतु¹¹ कीर्त्तितम् ॥ १९ ॥ शिलावद्दृधातु कं¹² ज्ञातं शैलजं गिरिसानुजम्¹³ ।


(1) B and K read विमला, but use its adjectives in the neuter gender; this is ungrammatical. (2) कांचिकाशौसटकणैः, a variant in K. काचिकासिसटङ्कणैः, a variant in M. (3) M reads कद्लौरसै. (4) K reads मोचिक. M reads मोचष. (5) M has सञ्चितं instead of समितं. K has बूकभूखया, which is incorrect. (6) M reads संयुक्तं. [The 16th and the 17th ślokas nearly agree with the texts in रस. स. Chap. II. vs. 103–104.] (7) Both B and K read विमलाशुद्धिः। This is wanting in M. (8) पातितः पतितश्चैव, a variant in K. (9) B reads शैलमौखरि. M reads द्विविधा शैलमौखरि, which is gram. inc. (10) The portion commencing from this charaṇa and ending in शोधयेत्ततु यत्नतः (ślokas 18—21) is not found in B and M. (11) K reads मिलाजितु, which seems to be inc. [Cf. रस. स. Chap. II. vs. 110— 111.] (12) K reads incompletely धातु. (13) K has गिरि- सानुजम.

ņ or n? In standard Indological transliteration of the era (Bibliotheca Indica), it uses (with underdot) or n or ? Wait, look at the letter: charanas - wait, footnote (2) has charanas? Let's check: "charaņas" vs "charanas" vs "charaṇas": Look at line 11: charaņas - there is a cedilla or underdot? It looks like charaṇas (underdot on n) or plain charanas? Wait, look at line 17: charana: plain n or ? In line 17: (5) This charaņa is wanting in K. M reads कृत्वा instead of बद्धा. Wait! In कृत्वा: Wait, look at footnote 5: M reads कृत्वा instead of बद्धा. Wait, does it say कृत्वा or हत्वा? Let's look at line 17: M reads कृत्वा instead of बद्धा. Wait, look at कृत्वा: it's कृत्वा or हत्वा? Wait, with ? No, it looks like with ? हत्वा? Wait! In the main text: पिण्डं बद्ध्वा तु विधिवत्⁵.

सप्तमः पटलः । १०१ शेषौ मध्यौ च लाक्षावत्¹ शीघ्रद्रावौ तु निष्फलौ² । वङ्गवद्द्रवते³ वह्नौ चपलस्तेन कीर्तितः⁴ ॥ २४ ॥ वस्त्रेण बद्धा चपलं लङ्घयेद्यदि सागरम् । वस्त्रञ्च वेष्टयेत् सद्यः तेनासौ चपलः स्मृतः ॥ २५ ॥⁵ सारयेत् पुटपाकेन चपलं गिरिमस्तके । देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥ २६ ॥ चपलश्चपलावेधं करोति घनवद्बलः । चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥ २७ ॥ ॥ इति चपलगुद्धिः ॥⁶ मृत्तिका⁷गुड़पाषाण-भेदतो रसकस्त्रिधा⁸ ॥ २८ ॥ पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः⁹ । (1) B has शेषा मध्याय लाक्षावन्. M has शेषा मध्याश्च लाक्षाय, wherein the last term seems to be incorrect. (2) शीघ्रं द्रावास्तु निष्फलाः, a variant in B. K has शीघ्रद्रावोस्तु, which is inc. रसद्रावास्तु निष्फलम्, a variant in M, wherein the last term is inc. (3) M reads नागवद्द्रवते. (4) The ślokas 23rd and 24th nearly agree with the texts in रस. स. Chap. II. vs. 143–144. (5) The 25th śloka is not found in B and M. (6) The 26th and the 27th ślokas with the portion— इति चपलगुद्धिः are not found in B and M. [The latter hemistich of the 27th śloka exactly agrees with the text in रस. स. Chap. II. v. 145.] (7) M reads मूर्त्तिका, which is inc. (8) B reads भेदको तो, which is not correct. M reads भेदको रसखिधा, which is a defective charaṇa. [But रस. स. states two sorts of रसक. Vide Chap. II. v. 149.] (9) मृत्तिकारसतो वरम्, a variant in M, which is erroneous.

१०२ रसार्णवे गुड़ाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः¹ ॥ २९ ॥ कटुकालाबुनिर्यासैनालोड्य² रसकं पचेत् । शुद्धो दोषविनिर्मुक्तः³ पीतवर्णस्तु जायते⁴ ॥ ३० ॥ किमत्र चित्रं रसकं⁵ रसेन रजस्वलायाः कुसुमेन⁶ भावितम् । क्रमेण कृत्वा उरगेन⁷ रञ्जितं करोति शुक्लं त्रिपुटेन⁸ काञ्चनम् ॥ ३१ ॥ ध्रीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥ ३२ ॥⁹ रसकं चूर्णयित्वा तु बद्धा वस्त्रे विचक्षणः । मूत्रे निधापयेत् स्त्रीणां सप्तरात्रं सुरेश्वरि ॥ ३३ ॥ पुष्पाणां रक्तपीतानां रसैः पत्रैश्च¹⁰ भावयेत् ॥ ३४ ॥ (1) K reads कनिष्टकः. M reads कनिष्ठिकः. Both are incorrect. (2) B has निर्यासै चालोद्य. M has निर्यासै चालोध्या. Both are incorrect. (3) K reads दोषः विनिर्मुक्तः. M reads विनिर्मुक्तो. Both are gram. inc. (4) पीतवर्णसु जायते, a variant in K, which seems to be an error of the scribe. जायते पीतवर्णकः, a variant in M. [Vide रस.स. Chap. II. vs. 153-154.] (5) M reads रसको. [The term रसक is of both genders.] (6) M reads रजस्वलाया ऋतुजेन. (7) K reads तुरगेण. [Both उरग (lead) and तुरग (sulphur) are mentioned in रसचिन्तामणि, Chap. 3.] (8) M has समं त्रिपुटेन. (9) This hemistich is not found in B and M. After this 32nd śloka we find चण्डश्च in K only; hence we have not inserted it in the text. It appears to be redundant. (10) B reads पचैश्च, which is evidently an error of the scribe. K reads पिष्टैश्च, which is also incorrect, as the पिष्ट of flowers is unusual.

सप्तमः पटलः । १०१ क्षारैः स्नेहेश्च चाम्लैः भावितं रसकं मुहुः । ऊर्ध्वालाक्षानिशा¹पथ्या भूलताधूमसंयुतम्² ॥ ३५ ॥ मूकभूषागतं³ ध्मातं टङ्कणेन समन्वितम् । सत्त्वं कुटिलसङ्काशं मुञ्चत्येव⁴ न संशयः⁵ ॥ ३६ ॥ गोभद्दो रसकस्तुत्यं⁶ क्षितिकिट्टो⁷ रसोद्भवः । खर्परो⁸ नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः⁹ ॥ ३७ ॥ रसको रञ्जको रुच्यो वातहृत् श्लेष्मनाशनः¹⁰ । त्रिदोषघ्नस्तु तत्सत्त्वं नेत्रदोषविनाशनम्¹¹ ॥ ३८ ॥ ॥ इति रसकशुद्धिः¹² ॥ कालकूट¹³विषं पीत्वा गरुड़ः सोढुमक्षमः ।


(1) B has उर्वालाक्षा तथा, wherein the first term is not correct. K has तथा in lieu of निशा. M has ऊर्ध्व instead of ऊर्ध्वा. [Vide रस.स. Chap. II. v. 162, which mentions निशा.] (2) K reads संयुता, which is gram. inc. (3) B has गते. K has मूखा. M has एक in place of मूक. All the readings are inc. (4) Vide रस.स. Chap. II. v. 161, which says “वङ्गाभं पतितं सत्त्वं.” K reads मुञ्चत्यथ. M reads मुञ्चत्येवं. (5) Cf. रस.स. Chap. II. v. 162. (6) M has an incomplete charaṇa—रसन्तु······त्य. (7) M reads भद्दो, which seems to be inc. (8) B has खुर्परो. M has कर्परो. (9) K reads रतिकृत्ताम्ररंजकः. M reads रीतिकृत्ता शिरञ्जकः. (10) M reads नाशिनी, which is not correct. [रस.स. states कफपित्तविनाशनः. Chap. II. v. 150.] (11) K reads नेत्ररोगविनाशनम्. M reads नेत्रदोषं हरन्ति च, which is gram. inc. (12) B has not इति. M reads रसकविधिः, which is not correct. (13) B reads कालकूटे.

१०४ रसार्णवे सुधामपि तथावामत्¹ भुक्त चाशीविषामृते² । स्वयं विनिर्गते चक्ष्वोः सस्वकोऽभूत् स कालिकः³ ॥ ३९ ॥ एकधा सत्वकस्तस्य⁴ स्त्रीमूत्रे भावयेद्रजः⁵ । भृशं⁶शोषितमध्ये वा दिनमेकं निधापयेत् ॥ ४० ॥ तस्य चूर्णं महेशानि पादसौभाग्यसंयुक्तम्⁷ । करञ्ज तैलमध्यस्थं दिनमेकं निधापयेत्⁸ ॥ ४१ ॥ मध्यस्थमन्धमूषायाः⁹ धमयेत् कोकिलाचयम्¹⁰ । इन्द्रगोपकसंकाशं¹¹ सत्त्वं पतति शोभनम्¹² ॥ ४२ ॥ एकधा सत्वकस्तस्मात्¹³ आतो निपतितो भवेत् ।

(1) B reads स्वधावामत्. K reads सुधां चाह. M reads सुधामविषमृधात्मानं, which is unintelligible. We have kept अवामत्, though gram. incorrect, merely for the sake of metre. (2) मोक्षमाशीविषामृते, a variant in B. सुह्मामासोदविषामृते, a variant in K. मोक्षमाशीविषाहते, a variant in M. [Vide रस्रत्नसमुच्चय Chap. II. vs. 126–127.] (3) M reads सकामतः. (4) एकश| सखकसुखं, a reading in K, which seems to be inc. M reads एकथा instead of एकधा. (5) M reads द्रावयेद्रजः. (6) M has भर. (7) M has an incorrect reading—पादचन्द्रसायसंयुतम्. (8) Cf. रस.स. Chap. II. v. 133. (9) K has धन्ममूखायां, which is erroneous. M has मयकृपायां, which is absurd. रस.स. has धन्धमूवासमध्यस्थं. Chap. II. v. 134. (10) K reads आपयेत्. रस.स. reads also आपयेत् कोकिलाषयम्. Chap. II. v. 134. (11) M has an absurd reading—षगोपकाभासा- काश. रस.स has इन्द्रगोपाह्वति चैव. (12) रस.स. reads भवति instead of पतति. Chap. II. v. 134. (13) K reads सत्वकस्तुल्यं. M reads रकथा सत्वकामञ्जे.

सप्तमः पटलः । १०५ कालिकांरहितो रक्तः शिखिकंठ¹समाकृतिः ॥ ४३ ॥ सस्यो मयूरतुत्थं स्यात्² वह्निकृत् कालनाशनः³ । रसायने तु योग्यः स्याद्⁴ वयस्तम्भकरो भवेत् ॥ ४४ ॥ सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः⁵ ॥ ४५ ॥ ॥ इति सस्यकशुद्धिः ॥ दरदस्त्रिविधः प्रोक्त⁶श्चर्मांरः शुकतुण्डकः⁷ । हंसपादस्तृतीयः स्याद्⁸ गुणवानुत्तरोत्तरः९ ॥ ४६ ॥ चूर्णपारदभेदेन¹⁰ द्विविधो दरदः पुनः ॥ ४७ ॥


(1) K has शिखिकंस. M has शिखिकर्षिं. But रस.स. has मयूरकण्ठसच्छायं. Chap. II. v. 127. (2) B has तुल्य स्याद्. K has तुल्य स्या. M has तुर्थस्य. All the readings are gram. incorrect. (3) B reads कलताशनः, which has no clear sense. K reads वह्निकृद्वह्निनाशनः. (4) B and K have योग्य स्याद्. M has योग्यस्स्याद्. Both are gram. inc. (5) K and M read रसवर्गेण, which is evidently an error; because we find in रस.स. रक्त- वर्गेण, which is supported by the MS. B. M has भावितम्, which is gram. erroneous. [Vide रस.स. Chap. II. v. 130.] (6) दरदस्त्रिविधो रक्त, a variant in B and M. (7) B has चर्मांरशुकटण्डकः. M has चर्माभः शुकदण्डकः. (8) B and M read इसपादस्तु लेपः स्यात्. [रस.स. reads हंसपाकः. Vide Chap. III. v. 139.] (9) All the MSS. have उत्तरोत्तरम्; but since दरद is written in the masculine gender, it ought to have an adjective in the same gender. (10) K reads भेदानि. M reads दारद. Both are inc. 14