रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
३२ देवतामूर्त्तिप्रकरणम् ( उत्पातविशेषस्य प्राणिविशेषे फलदायकत्वम् ) ऋषिधर्मपितृब्रह्मप्रोद्भूतवैकृतं द्विजातीनाम् । यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥ ५० ॥ गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजञ्च लोकानाम् । स्कन्दविशाखसमुत्थं माङ्गलिकानां (कं न?) नरेन्द्राणाम्॥५१॥ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे । धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥५२॥ देवकुमारकुमारीवनिताप्रख्येषु (प्रैष्येषु?) वैकृतं यत् स्यात् । तन्न्रभ्यतेः (तन्नरपतेः?) कुमारकुमारिकास्त्री- परिजनाभा(ना?)म् ॥५३॥ रक्षःपिशाचगुह्यकनागानामेव (मेवमेव?) निर्दिष्टम् । द्वययोजककाष्ठस्य , केतोश्च भङ्गाः स्फोटनानि पतनानि वा । तथा सम्पर्यासनम् एतेषामेव विप- र्यासः अक्षस्थाने युगस्य युगस्थाने चक्रस्येत्यादिरूपं विपरिवर्तनमित्यर्थः, सादनं विशरणं सहसैव जर्जरीभावः, सङ्ग आसञ्जनं गमनप्रतिबन्धकीभूतः परस्परसंश्लेषः ; एते न देशस्य नृपस्य च शुभदाः । दैवतयात्रेति पाठो बृहत्संहितायाम् ( अ० ४६, ९ श्लो० ) । ५० । पूर्वं लिङ्गार्चायतनानामित्युक्तम्, 'नर्तनं जल्पनं हास्यम्' इत्यादिना च देववैकृते सामान्यतो 'भयं भवेद्' इति चोक्तम् । सम्प्रति कस्यार्चाया वैकृते कस्यानिष्टमिति विशिष्य वक्तुमाह—ऋषिधर्मेत्यादि । धर्मो देवविशेषः, पितरः प्रसिद्धा भूतजनाः कुत्रचित् लेपमयाः क्रियन्ते ; एतेषामर्चासु यत् प्रोद्भूतं वैकृतं तद् द्विजातीनामनिष्टम् अशुभप्रदम् । यच्च रुद्रस्य लोकपालानामिन्द्रादीनां च वैकृतं तत् पशूनां राज्ञो वाहनीभूताना- मनिष्टमित्यर्थः । ५१ । द्विजातीनामित्युक्तम्, तत्रापि पुरोधसां विशेषमाह—गुर्विति । सितः शुक्रः । एतेषु यद् वैकृतं तत् पुरोधसामित्यर्थः । स्कन्दः कार्त्तिकेयः, विशाखो देवविशेषः ; एतयोरुद्भूतं वैकृतं नरेन्द्राणां न माङ्गलिकम् । ५२ । वेदव्यासे वैकृतं मन्त्रिणि, विनायके वैकृतं चमूनाथे राज्ञः सेनापतौ अनिष्टजनकम् । ५३ । देवकुमारेत्यादि । देवकुमारे यद् वैकृतं तन्नृपकुमारे, एवं कुमारीवनिताप्रैष्येष्वपि बोध्यम् ।
प्रथमोऽध्यायः ३३ [ उत्पातानां फलकालः ] मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥५४॥ [ एतेषां शान्तिः ] बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः । स्नानकुस्तु(सु?)मानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् ॥ ५५ ॥ मधुपर्केण पुरोधा भक्ष्यैर्बलिमिश्च विधिवदुपतिष्ठेत् । स्थालीपाकं जुहुयाद् विधिवन्मन्त्रैश्च तल्लिङ्गैः ॥ ५६ ॥ [ शान्तिफलम् ] इति विबुधविचा(का?)रे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च । विधिवदवनिपालैर्यै (यैः ?) प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥५७॥ ५४। रक्षःपिशाचेत्यादि । एवमेवेति । एतदुक्तं भवति—यथा देवकुमारादौ प्रोद्भूतं वैकृतं नृपस्य कुमारादौ अनिष्टजनकम् एवं रक्षःपिशाचगुह्यकनागानां पुत्रादावपि प्रोद्भूतं वैकृतं नृपस्य पुत्रादावनिष्ठसाधनमित्यर्थः । मासैश्चाप्यष्टाभिरिति । सर्वेषामेव वैकृतानाम् अष्टाभिर्मासैः फलपाको भवतीत्यर्थः । अष्टाभिर्मासैरित्यपवर्गे तृतीया, तथा चाष्टमासाभ्यन्तर एवाद्भुतानि फलमुपदर्शयन्तीत्यर्थः । एवञ्च पूर्वं ‘षण्मासात्त्रिगुणं परम्’ (४७) इति यदुक्तं तदपि साधु सङ्गच्छते । मत्स्यपुराणे— ‘त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद् भयकारकम्’ (अ० २२९, १२श्लो०) इति वर्षत्रयाभ्यन्तरे फलपाककाल उक्तः । अत एवोत्पलभट्टोऽपि ‘अष्टाभिर्मासैरि’त्यस्य अष्टाभिर्मासैरतीतैरित्यर्थमाह (बृहत्संहिता, अ० ४५, १४ श्लो०) । ५५। इदानीम् उत्पातानां शान्तिमाह—बुद्ध्वेति । स्नानं स्नानीयं जलम् । त्र्यहोषित- स्त्र्यहोपोषितः दिनत्रयं कृतोपवास इत्यर्थः । प्रतिमाम् उत्पन्नविकाराम् । ५६। मधुपर्केणेति । स्थालीपाकं चरुं तल्लिङ्गैस्तत्तद्देवतानुमापकैर्मन्त्रैस्तत्तद्देवताया हवनमन्त्रैर्जुहुयात् । ५७। शान्तिफलं शान्त्यवधिश्चाह—इतीति । विबुधविकारे देवकृतोत्पाते जाते देवता—५
३४ देवतामूर्त्तिप्रकरणम् वत्सेनात्रिमुखे कुर्याद् यात्राद्वारे च वास्तुनः । प्रवेशे प्रतिमादीनां गुर्विणीनां विशेषतः ॥५८॥ सतीत्यर्थः, इति पूर्वोक्तप्रकारेण सप्तरात्रं सप्ताहं शान्तयः, तथा द्विजविबुधगणार्चा द्विजदेवगणपूजा गीतनृत्योत्सवाश्च यैरवनिपालैः विधिवत् प्रयुक्तास्तेषां दुरितपाक उत्पातजनितानिष्टफलं न भवति, दक्षिणाभिः एतत्कार्याङ्गभूतदक्षिणाप्रदानादिभिश्च रुद्धो निवारितो भवतीत्यर्थः । एतदन्त उत्पाताध्यायः सर्वथा बृहत्संहितीयोत्पाताध्यायानुरूपः (बृहत्संहिता अ० ४५) । केवलं पञ्चचत्वारिंशश्लोकादूनपञ्चाशश्लोकान्तोऽंशस्तत्र न दृश्यते । ५८। वत्से इत्यादि । तथा विकृतपाठः श्लोकोऽयं यथास्य प्रकरणमपि न सुविज्ञानम् । एवमपि द्वारादिपददर्शनात् सन्निवेशविशेषाच्च द्वारसम्बन्ध्येवायं श्लोक इत्यस्माकं प्रतिभा । दृश्यते हि प्रधानद्वारस्य तैस्तैर्वेधे कर्त्तुरशुभादिवर्णनम् । तथा च बृहत्संहितायाम्- मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभदं द्वारम् । उच्छ्रायाद् द्विगुणमितां त्यक्त्वा भूमिं न दोषाय ॥ इति । (अ० ५२, ७४ श्लो०) अस्यार्थः-मार्गः पन्थाः, तरुर्वृक्षः, कोणोऽस्रिः, कूपस्तम्भौ प्रसिद्धौ, भ्रमो जलनिर्गमन- प्रदेशः । एतैः सम्मुखैर्द्वारं विद्धमशुभदम् । कियति दूरे स्थितो वेधने न दुष्टफलदो भवतीत्याह- उच्छ्रायादिति । यावान् द्वारस्य उच्छ्राय उच्चत्वं तद्विगुणप्रमाणां भूमिं त्यक्त्वा बहिः स्थिता दोषायैव एते दोषा न भवन्ति इत्युत्पलभट्टः । मयमते- वृक्षकर्णावधःस्थूणकूपविद्धं तथैव च ॥ देवायतनविद्धञ्च विधिविद्धं तथैव च । वल्मीकभस्मविद्धञ्च शिरामर्मादिविद्धकम् ॥ इति । (अ० ३०, ३८-३९ श्लो०) विधिविद्धमिति ब्रह्मणा विद्धमित्यर्थः, स च वास्तुमध्यस्थो वा प्रतिमात्मा वा । शिल्परत्ने च- मार्गकूपतरुस्तम्भकोणपीडमशोभनम् । मुख्यद्वारस्य देवानां नराणाञ्च विशेषतः ॥ इति । (पूर्व० अ० २२, २१-२२ श्लो०) एवञ्च- वृक्षे नाभिमुखे कुर्याद् यात्राद्वारञ्च वास्तुनः । इति पूर्वार्द्धं कृतशुद्धिः पाठः । उत्तरार्द्धं समानम् । तथा चायमर्थः-वृक्षे अभिमुखे सम्मुख- वर्त्तिनि सति, प्रतिमादीनां विशेषतो गुर्विणीनां प्रवेशे गृहे च अभिमुखे सति वास्तुनो यात्राद्वारं प्रधानं द्वारं न कुर्यात् । प्रविशन्त्यस्मिन्निति प्रवेशो गृहम् । प्रतिमादीनामित्यादिपदादनुक्तानां
प्रथमोऽध्यायः ३५ नक्षत्रयोनिश्च षडष्टकञ्च वर्गाष्टकं नाडिगतञ्च ऋक्षम्। देवादिकृक्षाणि विशोपकाश्च (?) एते विलोक्याः प्रतिमाविधाने ॥५६॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्त्तिप्रकरणे शिलापरीक्षाप्रतिमाप्रमाणगुण^दोषाङ्गुताधिकारो नाम प्रथमोऽध्यायः। स्तम्भादितत्तद्वस्तूनां ग्रहणम्। एतच्चातिसाहसेन यथाज्ञानमभ्युह्य समुपस्थापितमस्माभि- र्व्याख्यानम्, निर्णये तु पाठकाः प्रमाणम्। रूपमण्डने तु— वत्सेनाभिमुखे कुर्याद् यात्रां द्वारञ्च वास्तुनः। प्रवेशप्रतिमादीनां गुर्विणीनां विशेषतः॥ (अ० १, १७ श्लो०) इति विशेषः। ५९। नक्षत्रयोनिश्चेत्यादि। नक्षत्रयोनिः योनिवैरम्, देवादिकृक्षाणि देवनरराक्षसगणनक्षत्राणि विशोपकाश्च प्रतिमाविधाने देवतामूर्त्तिगठनकाल इत्यर्थः, एते नक्षत्रयोन्यादयः, विलोक्या विचार्या इत्यर्थः। अत्र विशोपकाश्चेति किं शुद्धः पाठः किं वापपाठस्तदपि निर्णेतुमसमर्थैरस्माभिस्तूष्णी- भास्यते। नक्षत्रयोनिविचारः—कर्मकर्त्तुः कर्मदिनस्य च नक्षत्रयोः परस्परं योनिगतशत्रुतां नक्षत्रयोनि- वैरमुच्यते। प्रतिमागठनस्य शुभदिनकरणे नक्षत्रयोनिवैरं दोषावहम्। अत्र कर्मदिननक्षत्रं प्रतिमाया जन्मनक्षत्रं ज्ञेयम्। एवमन्यत्रापि। अश्विन्याः— अश्वयोनिः ज्येष्ठायाः— हरिणयोनिः शतभिषायाः— ” अनुराधायाः— ” स्वात्याः— महिषयोनिः आर्द्रायाः— श्वयोनिः हस्तायाः— ” मूलायाः— ” पूर्वभाद्रपदस्य— सिंहयोनिः उत्तरफल्गुन्याः— गोयोनिः धनिष्ठायाः— ” उत्तरभाद्रपदस्य— ” भरण्याः— हस्तियोनिः चित्रायाः— व्याघ्रयोनिः रेवत्याः— ” विशाखायाः— ” कृत्तिकायाः— मेषयोनिः अश्लेषायाः— विडालयोनिः पुष्यायाः— ” पुनर्वसोः— ” पूर्वाषाढायाः— वानरयोनिः मघायाः— मूषिकयोनिः श्रवणायाः— ” पूर्वफल्गुन्याः— ” रोहिण्याः— सर्पयोनिः अभिजितः— नकुलयोनिः मृगशिरसः— ” उत्तराषाढायाः— ”
३६ देवतामूर्त्तिप्रकरणम् गोव्याघ्रयोः हस्तिसिंहयोः अश्वमहिषयोः श्वहरिणयोः नकुलसर्पयोः वानरमेषयोः विडालमूषिकयोः परस्परं वैरम् अन्यदपि लोकाचारतो वैरम् अवगच्छेत् । एकयोनिश्चेच्छुभम्, भिन्नयोनिश्चेन् मध्यमम्, उक्तरूपगणनया वैरयोनिश्चेदशुभं फलं भवेत् । इति । षडष्टकविचारः— कर्मकर्त्तुर्जन्मराशिमपेक्ष्य कर्मदिनराशिश्चेत् षष्ठो वाऽष्टमः स्यात् तदा षडष्टकदोषो भवेत्, अत इमौ राशी त्याज्यौ । मेषः वृषः मिथुनः कर्कटः सिंहः कन्या तुला वृश्चिकः धनुः मकरः कुम्भः मीनः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ कर्त्तुर्मेषराशिः कर्मयोग्यो राशिः कन्या तुला वा; अत्र कर्त्तुर्जन्मराशेर्मेषात् कर्मदिनस्य कन्याराशिः षष्ठस्तुलाराशिरष्टमः, अतः षडष्टकदोषोद्वावपि त्याज्यौ इत्यादि । वर्गाष्टकगणनानियमः— रविश्चन्द्रो मङ्गलो बुधः बृहस्पतिः शुक्रः शनिलग्नश्चेति वर्गाष्टकम् । वर्गाष्टकगणनाकाले राशिचक्राष्टकं पृथग् विलिख्य तेषां मध्ये यथाक्रमं रव्यादि लग्नान्तं वर्गाष्टकं लिखेत् । जन्म- काले राशिचक्रे कथिता ग्रहा लग्नश्च यत्र यत्र राशौ वर्त्तमानास्तेषाम् एकैकस्यावस्थितिस्थानाद् पृथङ्निर्दिष्टे राशिचक्राष्टके अधोलिखितप्रकारेण रेखा बिन्दूंश्च पातयेत् । प्रथमतौ रवेर्वर्गाष्टकगणनाभिलाषश्चेद् रविर्यस्मिन् राशौ वर्त्तमानस्तत्र, तस्माद्द्वितीय-चतुर्थ- सप्तमाष्टमनवमदशमैकादशराशिषु एकैकां रेखां पातयेत् । तथा चन्द्रमङ्गलादीनां यत्र यत्र रेखाः पातयितव्या उपरिष्टान्निरूपितैरङ्कैस्तत् सुधीभिरवगन्तव्यम् । ग्रहाणां वर्गाष्टकरेखाचक्राणि सूर्याष्टवर्ग रेखा: ४८ | चन्द्राष्टवर्ग रेखा: ४९ रवि: १।२।४।७।८।९।१०।११ | रवि: ३।६।७।८।१०।११ चन्द्र: ३।६।१०।११ | चन्द्र: १।३।६।७।१०।११ मङ्गल: १।२।४।७।८।९।१०।११ | मङ्गल: २।३।५।६।९।१०।११ बुध: ३।५।६।९।१०।११।१२ | बुध: १।३।४।५।७।८।१०।११ गुरु: ५।६।९।११ | गुरु: २।४।७।८।१०।११।१२ शुक्र: ६।७।१२ | शुक्र: ३।४।५।७।९।१०।११ शनि: १।२।४।७।८।९।१०।११ | शनि: ३।५।६।११ लग्न: ३।४।६।१०।११।१२ | लग्न: ३।६।१०।११
प्रथमोऽध्यायः ३७ कुजाष्टवर्ग रेखाः ३९ रविः ३।५।६।१०।११ चन्द्रः ३।६।११ मङ्गलः १।२।४।७।८।१०।११ बुधः ३।५।६।११ गुरुः ६।१०।११।१२ शुक्रः ६।८।११।१२ शनिः १।४।७।८।९।१०।११ लग्नः १।३।६।१०।११ बुधाष्टवर्ग रेखाः ३९ रविः ५।६।९।११।१२ चन्द्रः २।४।६।८।१०।११ मङ्गलः १।२।४।७।८।९।१०।११ बुधः १।३।५।६।९।१०।११।१२ गुरुः ६।८।११।१२ शुक्रः १।२।३।४।५।८।९।११ शनिः लग्नः गुर्वष्टवर्ग रेखाः ५६ रविः १।२।३।४।७।८।९।१०।११ चन्द्रः २।५।७।९।११ मङ्गलः १।२।४।७।८।१०।११ बुधः १।२।४।५।६।९।१०।११ गुरुः १।२।३।४।७।८।१०।११ शुक्रः २।५।६।९।१०।११ शनिः ३।५।६।१२ लग्नः १।२।४।५।६।७।९।१०।११ शुक्राष्टवर्ग रेखाः ५२ रविः ८।११।१२ चन्द्रः १।२।३।४।५।८।९।११।१२ मङ्गलः ३।५।६।९।११।१२ बुधः ३।५।६।९।११ गुरुः ५।८।९।१०।११ शुक्रः १।२।३।४।५।८।९।१०।११ शनिः ३।४।५।८।९।१०।११ लग्नः १।२।३।४।५।८।९।११ शन्यष्टवर्ग रेखाः ३९ रविः १।२।४।७।८।१०।११ चन्द्रः ३।६।११ मङ्गलः ३।५।६।१०।११।१२ बुधः ६।८।९।१०।११।१२ गुरुः ५।६।११।१२ शुक्रः ६।११।१२ शनिः ३।५।६।११ लग्नः १।३।४।६।१०।११ लग्नाष्टवर्ग रेखाः ४९ रविः ३।४।६।१०।११।१२ चन्द्रः ३।६।१०।११।१२ मङ्गलः १।३।६।१०।११ बुधः १।२।४।६।८।१०।११ गुरुः १।२।४।५।६।७।९।१०।११ शुक्रः १।२।३।४।५।८।९ शनिः १।३।४।६।१०।११ लग्नः ३।६।१०।११ पराशरीयहोरायां लग्नरेखाः ४९ ग्रन्थान्तरे ३७
३८ देवतामूर्त्तिप्रकरणम् उपर्युक्तनियमेन रेखापाताद् ग्रहाणां शुद्दिमशुद्धिञ्च निर्णयेत् । वर्गाष्टके केनोपायेन ग्रहाणां शुद्धाशुद्धिविचारं फलनिर्णयञ्च कुर्यात् तदिदानीमुच्यते । दशाफलं सुविचारसाध्यम्, महाष्टवर्गाष्ट- वर्गफलन्तु न तथाविधम्, एतद् गणितागतमित्यव्यर्थम् ; गणना चेद्भ्रान्ता स्यात् तदष्टवर्ग- निरूपितफलमवश्यमेव घटेत । अष्टवर्गे ग्रहाणां शुद्धयशुद्धिविचारः फलनिर्णयश्च । यस्य ग्रहस्याष्टवर्गे येषु येषु राशिषु पञ्चभ्यः अष्टौ यावत् फलरेखास्तिष्ठन्ति, स ग्रहस्तेषु तेषु राशिषु क्रमशः शुभफलवर्द्धको भवति । चतस्रो रेखा यदि तिष्ठन्ति, तदा समफलप्रदः ; तिस्रो द्वौ एका वा रेखा तिष्ठति चेत् क्रमेणाशुभफलस्य वर्द्धको भवति । रेखाभावे अर्थात्शून्यत्वे, तद्राशौ तु सातिशयमशुभं ददाति । अतो यस्य ग्रहस्याष्टवर्गं गणयेत् स ग्रहो यस्मिन् गृहे स्थास्यति तद्गृहे यदि चतस्रस्तदधिका वा रेखास्तिष्ठन्ति तदासौ ग्रहः शुद्धः शुभफलप्रदश्चेति जानीयात् । किञ्च—गृहे यस्मिन् रेखाचतुष्टयस्य न्यूनता भवेत् तद्राशिगतश्चेदशुद्धस्तथाऽशुभफलप्रदश्च । ग्रहगणो वर्गाष्टके विशुद्धः सन् यद्युपचयगतो भवेत् ; अर्थात्जन्मराशेर्वा जन्मलग्नाद्वा तृतीय-षष्ठदश- मैकादशस्थानगतः स्यात्, अथवा मित्रगृहगतः किंवा उच्चस्थानगतो भवेत्, तदासौ ग्रहश्चातीव शुभदायको भवेत् । किञ्च ग्रहगणोऽशुद्धो भवन् यद्यपचयस्थानगतो भवेत् अर्थात् तृतीयषष्ठ- दशमैकादशान् विना अन्यराशिगतः स्यात्, शत्रुराशौ नीचराशौ वाऽवतिष्ठते तदातिशय- मशुभप्रदो भवेत् । यत्र यत्र राशौ ग्रहा वर्गाष्टके शुभदा गोचरे तत्तद्राशिषु आगच्छन्त- स्तात्कालिकशुभदा भवन्ति । तत् स्थानं चेज्जन्मराशितस्तस्य ग्रहस्य गोचरनिर्दिष्टशुभस्थानं भवेत् तदा शुभफलवर्द्धकः स्यात्, तस्य राशेर्जन्मलग्नात् प्रभृति यो भावस्तेन तद्भावोत्थफलं तद्भावनिर्दिष्टञ्च भ्रातृपित्रादीनां तात्कालिकशुभसौख्यं कल्पनीयम् । दृष्टान्तो यथा— रवेरष्टवर्गे मिथुनराशौ फलरेखाः षड् भवन्ति; तदवस्थायां रविश्चेन्मिथुनराशिस्थः अर्था- दाषाढमासे विशेषशुभसूचको भवेत् । यत् कर्मणि रविशुद्धेरावश्यकम् आषाढमासे तत् कर्मा- रम्भेण शुभफलं सुनिश्चितम् । यावती यावती रेखा ग्रहाणामष्टवर्गके । तावतीं द्विगुणीकृत्य चाष्टाभिः परिशोधयेत् ॥ १ ॥ अष्टोपरि भवेद् रेखा अष्टाभ्यन्तरबिन्दवः । अष्टाभिश्च समो यत्र समस्तत्र निगद्यते ॥ २ ॥ पूर्वोक्तनियमानुसारण प्रत्येकराशौ यावद्रेखापातो भवेत् ता रेखा द्विगुणीकृत्य ततोऽष्टौ वियोजयेत, ततो यावदवशिष्टं भवेत्, तावदङ्कं तत्तद्राशिषु रक्षेत् । यद्यद्रा- शिषु द्विगुणितेरेखासमष्टिरष्टाभ्यो न्यूना भवेयुः तत्तद्राशिषु अष्टसंख्यातो यावती न्यूना भवेत् तावतो बिन्दून् स्थापयेत् यद्यद्राशिषु द्विगुणितेरेखासमष्टिरष्टौ भवेयुस्तस्मिन् राशौ समं लिखेत् ।
प्रथमोऽध्यायः ३६ बिन्दुपातस्य रेखापातस्य च नियमः शून्ये तु बिन्दवश्चाष्टौ रेखैके रसविन्दवः । चत्वारो बिन्दवो युग्मे द्विविन्दू रामरेखके ॥ ३ ॥ समो रेखाचतुर्थे तु पञ्चके नेत्ररेखके । षड्रेखासु चतू रेखाः सप्तमे रसरेखिकाः ॥ ४ ॥ पूर्वोक्तप्रकारेण द्विगुणितरेखासङ्ख्याकादष्टौ वियोजयेत् । तेन शून्येऽवशिष्टे बिन्द्वष्टकं रक्षेत् । एकेरेखायामवशिष्टायां बिन्दुषट्कम्, रेखाद्वये बिन्दुचतुष्टयम्, रेखात्रये बिन्दुद्वयं रक्षेत् ; रेखाचतुष्टये स्थिते समो भवेत् ; रेखापञ्चके रेखाद्वयम्, रेखाषट्के रेखाचतुष्टयम्, रेखासप्तके रेखाषट्कं भवेत् । इत्थं रेखाबिन्दुपातेन फलं विचार्यम् । रेखाभिस्तु शुभं ज्ञेयं बिन्दुभिरशुभं फलम् । यत्र रेखा न बिन्दुश्च तत् समं परिकीर्त्तितम् ॥ ५ ॥ रेखायोगेन बिन्दुयोगेन वा ग्रहाणां फलम् स्वोच्चमित्रादिवर्गस्थाः केन्द्रादिबलसंयुताः । अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥ ६ ॥ दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः । ते सर्वे शुभदा नित्यमधिबिन्दुयुता यदि ॥ ७ ॥ दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः । करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥ ८ ॥ एतेषामर्थः—उच्चस्थो मित्रादिवर्गगतः केन्द्रादिस्थो वा बलवान् ग्रहो वर्गाष्टकचक्रे एकादिस्वल्पबिन्दुयुक्तराशिस्थ एकादिस्वल्परेखायुक्तराशिस्थो वा चेदनिष्टफलप्रदः । षडादिदुःस्थानस्थो नीचराशिनवांशास्थः शत्रुक्षेत्रनवांशास्थो वा नितरां दुर्बलोऽपि ग्रहः बिन्दु- युक्तराशिस्थो रेखायुक्तराशिस्थो वाचेत् शुभफलप्रदः । रव्यादिग्रहाणामष्टवर्गे रेखाहीनेऽष्टशून्ययुक्ते वा राशौ शनिर्गोचरवृत्त्या गतश्चेत् तद्राशिनिर्दिष्ट- भावफलस्यानिष्टम्, रोगम्, शत्रुवृद्धिम्, तथा भयाकुलत्वादिकम्, तद्भावनिर्दिष्टञ्च पितृभ्रात्रा- दीनामपि तद्रूपमशुभं परिकल्पयेत् । अष्टवर्गे रव्यादिग्रहाणां विशेषफलं ग्रन्थबाहुल्यभयादिह परित्यक्तं ज्योतिषग्रन्थे तदनुसन्धेयम् ।
४० देवतामूर्तिप्रकरणम् नाडीगतऋक्ष-(नाडीवेध-) विचारः- नाड्यस्तिस्रः; प्राङ्नाडी, मध्यनाडी, पृष्ठनाडी च। प्राङ्नाडीस्थनक्षत्राणि- १ ६ ७ १२ १३ १८ १९ २४ २५ अश्विनी, आर्द्रा, पुनर्वसुः, उत्तरफल्गुनी, हस्ता, ज्येष्ठा, मूला, शतभिषा, पूर्वभाद्रपदश्च। मध्यनाडीस्थनक्षत्राणि- २ ५ ८ ११ १४ १७ २० २३ भरणी, मृगशिराः, पुष्या, पूर्वफल्गुनी, चित्रा, अनुराधा, पूर्वाषाढा, धनिष्ठा, २६ उत्तरभाद्रपदश्च। पृष्ठनाडीस्थनक्षत्राणि- ३ ४ ९ १० १५ १६ २१ २२ २७ कृत्तिका, रोहिणी, अश्लेषा, मघा, स्वाती, विशाखा, उत्तराषाढा, श्रवणा, रेवती च एकं त्रिनाडीचक्रं विलिख्य तत्र नाडीवेधविचारं कुर्यात्। यदि कर्त्तुः कर्मदिनस्य च नक्षत्रमेकनाडीस्थं भवेत्तदा नाडीवेधदोषो भवति। नाडीवेधदोषगते नक्षत्रे प्रतिमाघटनं निषिद्धम्। प्रतिप्रसवः- एकराश्यादियोगे तु नाडीदोषो न विद्यते। कर्त्तुः कर्मदिनस्य च सत्येकराशौ दोषोऽसौ न स्यात्। इत्यादि। त्रिनाडीचक्रम्।
| आद्यनाडी | मध्यनाडी | पृष्ठनाडी |
|---|---|---|
| १ | २ | ३ |
| ६ | ५ | ४ |
| ७ | ८ | ९ |
| १२ | ११ | १० |
| १३ | १४ | १५ |
| १८ | १७ | १६ |
| १९ | २० | २१ |
| २४ | २३ | २२ |
| २५ | २६ | २७ |
प्रथमोऽध्यायः ४१ देवादित्रिकूट( गण- )विचार :— गणस्त्रिविधः, देवगणः, नरगणः, राक्षसगणश्च । जन्मनक्षत्रेण जातकस्य गणो निरूप्यते । तद् यथा— हस्ता, स्वाती, मृगशिराः, अश्विनी, श्रवणा, पुष्या, रेवती, अनुराधा, पुनर्वसुः । एषु जातो देवगणः । आर्द्रा, रोहिणी, उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदम्, भरणी, पूर्वफल्गुनी, पूर्वाषाढा पूर्वभाद्रपदम् । एषु जातो नरगणः । ज्येष्ठा, अश्लेषा, विशाखा, मूला, शतभिषा, धनिष्ठा, कृत्तिका, चित्रा, मघा । एषु जातो राक्षसगणः । यस्मिन् नक्षत्रे प्रतिमा निर्मीयते तत् प्रतिमाया जन्मनक्षत्रम् । तेन च नक्षत्रेण प्रतिमाया गणनिरूपणं स्यात् । कर्मकर्तृगणेन सह प्रतिमागणमिलनदिवसे प्रतिमाघटनं कुर्यात् । मिलनञ्च वक्ष्यमाणरीत्या ज्ञेयम् । गणशुभाशुभकथनम् स्वजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे विरोधश्च मृत्युर्मानुषराक्षसे ॥ इति देवता—६
द्वितीयोऽध्यायः [ माननिर्णयः ] छाया रेणु(श्र?) बालाग्र-लिख्षा-यूका यवोऽङ्गुलः । क्रमाद्दशगुणं मानं ज(जि?)नसंख्यैः करा(रोऽ?)ङ्गुलैः ॥१॥ १ । छायेति । एतेषां छायाद्यङ्गुलान्तानां सप्तानां पदार्थानां यथोत्तरं दशगुणं मानमित्यर्थः । तथा च—छायाया दशगुणं रेणोर्मानम्, रेणोर्दशगुणं बालाग्रस्य केशकोटेर्मानम्, ततो दशगुणं लिक्षस्य, ततो दशगुणं यूकस्य, ततो दशगुणं यवस्य, ततो दशगुणञ्चाङ्गुलस्य मानमिति स्पष्टार्थः । अत्र छायापदार्थनिर्णयो दुष्करः, कापि तादृशार्थकपाठानुपलब्धेः । बृहत्संहितायाम्— परमाणुरजोबालाग्रलिक्षयूकं यवोऽङ्गुलं चेति । अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या ॥ ( अ० ५७, २ श्लो० ) इति छायास्थाने परमाणुपदमाह । अन्यत्र परमाणुस्वरूपमुक्तम्— जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । प्रथमं तत् प्रमाणानां परमाणुं प्रचक्षते ॥ इति । तस्मादत्र छायापदं परमाणुसमानार्थकमिति प्रतीमः । रेणुश्चान्यत्र रजःपदेन व्यपदिष्टस्त्रस- रेणुरूपः । तथा च शिल्परत्नपूर्वभागे मानमधिकृत्य— परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः ॥ तदष्टभिस्तु बालाग्रं लीक्षा बालाग्रकाष्टभिः । इति ( अ० २, १-२ श्लो० ) एतदपि स्मृत्यन्तरविरुद्धम्, 'अणुद्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः' ( स्क-३, अ० ११, श्लो० ५ ) इति भागवतीयात् । यव इति यवोदरम् ; तथा च शब्दकल्पद्रुमधृत-लीलावत्याम्— 'यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । इति । शिल्परत्नपूर्वभागेऽपि 'यवोदरैः षड्गुणैर्वा' इत्युक्तम् । शब्दकल्पद्रुमे तिथ्यादितत्त्वधृत- कालिकापुराणमपि— यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैः ... ... ॥ इत्याह ।
क्रमाद्दशगुणमिति । एतच्चिन्त्यम्, पूर्वोद्धृतबृहत्संहितादिवचनेष्वष्टभिः परमाणुभी रज इत्यादिक्रमेणाष्टगुणवृद्धेरेव श्रवणात् । शिल्परत्नपूर्वभागे— यवोदरैः षड्गुणैर्वा सप्तभिर्वाऽधमादिकम् । क्रमादष्टगुणैर्वाऽथ मानाङ्गुलमिति स्मृतम् ॥ (अ० २, ३ श्लो०) इति मानविकल्पमुपदर्शयताऽपि तद्ग्रन्थकृता दशगुणस्यानुल्लेखात् । एतेनैतन्मतसम्मतश्चतुर्विंश- त्यङ्गुलकः करः क्रमादष्टगुणमानस्वीकर्तृ मते षडङ्गुलेनाधिको भवतीति ज्ञेयम् । तथा च एकस्मि- न्नङ्गुले यवद्वयवृद्ध्या चतुर्विंशत्यामङ्गुलेषु अष्टचत्वारिंशद्यववृद्धिनियता, ते चाष्टचत्वारिंशद् यवाः षडङ्गुलम् इति तेन सह मिलनात्त्रिंशदङ्गुलः करो भवति । सत्यपि प्रकारविरोधे नेदमपि करमानमप्रमाणम्, तथा च शिल्परत्नपूर्वभागे— अङ्गुलत्रितया मुष्टिर्वितस्तिर्द्वादशाङ्गुलिः । तद्द्वयं हस्तमुद्दिष्टं तच्च किष्कुरिति स्मृतम् । एकैकाङ्गुलवृद्ध्याऽतो भवन्त्यष्टौ कराः स्फुटम् ॥ प्राजापत्यं धनुर्मुष्टिश्चाप्रग्रहमतः परम् । प्राच्यां वैदेहकं नाम्ना वैपुल्यञ्च प्रकीर्त्तितम् । इत्थमेकोत्तरत्रिंशदङ्गुलान्ताः कराः स्मृताः ॥ (अ० २, ९-११ श्लो०) इत्येकत्रिंशदङ्गुलान्तमपि करमाह । तस्मान्मतान्तरमिदम् इति ज्ञेयम् । जिनसंख्यैरिति । जिनाश्चतुर्विंशतिः, चतुर्विंशत्याऽङ्गुलैः करो हस्त इत्यर्थः । तथा च बृहत्संहितायाम् (अ० ५७, २ श्लो०) उत्पलभट्टधृतवचनम्— तस्माद् रजः कचाग्रञ्च लिक्षा यूका यवोऽङ्गुलम् । क्रमादष्टगुणं ज्ञेयं जिनसंख्याङ्गुलैः करः ॥ इति । तस्मादिति परमाणोः, तस्यैव तत्र प्रकृतत्वात् । अङ्गुलस्य च मानाङ्गुलं मात्राङ्गुलम् इति द्वौ भेदौ । अधस्ताद् यदुक्तं तन्मानाङ्गुलम् । मात्राङ्गुलमुक्तं शिल्परत्नपूर्वभागे— तज्जन्तुर्दक्षिणकरमध्यमामध्यपर्वणः । दैर्घ्यं मात्राङ्गुलं श्रेष्ठं नीचं तद्व्याससम्मितम् ॥ इति (अ० २, ८ श्लो०) अस्यार्थः—कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलेर्मध्यपर्वणो यद् दैर्घ्यं तच्छ्रेष्ठं मात्राङ्गुलम्, तस्यैव मध्यपर्वणो विस्तारसम्मितञ्च कनिष्ठं मात्राङ्गुलम् इति । अनयोश्च कर्मभेदे विनियोगभेदमाह तत्रैव— मानाङ्गुलैः केवलमेव कुर्याद् देवालयादीनि गृहाणि वा नृणाम् । कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गुलमिष्यते बुधैः ॥ इति (अ० २,१७ श्लो०) अत्र 'देवालयादीनि' इत्यादिपदाद्देवप्रतिमानामपि ग्रहणम् । काश्यपशिल्पेऽपि— 'मानाङ्गुलन्तु वा प्रोक्तं पुरप्रासादमानकम्' (अ० ५०, ३७ श्लो०) इत्युक्तम् ।
४४ देवतामूर्तिप्रकरणम् तस्याङ्गुलप्रमाणेन द्व्यङ्गुलं गोलकं भवेत् । कला च तत्समा प्रोक्ता द्वाभ्यां तु भागमे(ए?)व च ॥ २ ॥ [ तालमानकथनम् ] एभिरेव त्रिभिर्भागैस्तालमानं प्रकीर्तितम् । एकतालादि वक्ष्यामि यथा भवति नान्यथा ॥ ३ ॥ क्वचिच्च मानाङ्गुलं प्रतिमापरिमाणेनापि निर्णीयते । तथा च- ‘स्वैरङ्गुलप्रमाणैर्द्वादश विस्तीर्णमायतञ्च मुखम्’ (अ० ५७, ४ श्लो०) इत्यादिबृहत्संहितावचने ‘स्वै’रित्यस्य विवरणप्रसङ्गेनोक्तमुत्पलभट्टैः-“यस्मात् काष्ठात् पाषाणादिकाद्वा प्रतिमा क्रियते तद्दर्ध्यं पीठप्रमाणविवर्जितं द्वादशभागविभक्तं कृत्वा तत्रैको भागो नवधा कार्यः, सोऽङ्गुलसंज्ञा भवति । यस्मादष्टाधिकमङ्गुलशतं प्रतिमाप्रमाणं वक्ष्यति (अ० ५७, ३० श्लो०) । प्रतिमायाः ‘स्वैरात्मीयैरङ्गुलप्रमाणैः’ इत्यलं प्रसङ्गादागतस्य प्रपञ्चनेन । २। तस्येति । असमर्थमपीदं पदमगतिकतया ‘अङ्गुलप्रमाणेने’त्यस्यैकदेशेनाङ्गुलपदेन सामा- नाधिकरण्येनान्वीयते । तथा च तस्य प्रक्रान्तस्याङ्गुलस्य प्रमाणेनेत्यर्थः । तत्समेति गोलकसमा इति । द्व्यङ्गुलमानेत्यर्थः । द्वाभ्यामिति कलाभ्यां गोलकाभ्यां वा भागो भवति, अतस्तस्य चतुरङ्गुलं मानमित्यर्थः । तदुक्तं समराङ्गणसूत्रधारे- द्व्यङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते । द्वे कले गोलकौ ( वाहौ ? वा द्वौ ) भागो मानेन तेन तु ॥ (अ० ७५, ३ श्लो०) ३ । एभिरिति । एतादृशैर्भागैस्तालमानम् एकतालस्य परिमाणं भवतीति शेषः । एवञ्च द्वादशभिरङ्गुलैरेकतालो भवतीत्यर्थः । तदुक्तं शुक्रनीतिसारे- स्वस्वमुष्टेश्चतुर्थोऽशो ह्यङ्गुलं परिकीर्त्तितम् । तदङ्गुलैर्द्वादशभिर्वेत्तालस्य दीर्घता ॥ इति । (अ० ४, प्र० ४, ८२ श्लो०) इदमत्र विवेचनीयम्-द्वादशाङ्गुलं तालस्य परिमाणमिति स्थिते दशतालप्रतिमा विंशत्यधिक- शताङ्गुलपरिमाणा भवति । दशतालप्रतिमा च- दशतालः स्मृतो रामो बलिवैरोचनिस्तथा । वराहो नारसिंहश्च ... ... ... ॥ (अ० २५९, १-२ श्लो०) इत्यनेन मत्स्यपुराणे उक्ता, ग्रन्थकृता चोपरिष्टात्- दशतालैर्भवेद्रामो बलिवैरोचन(नि ?)स्तथा । सिद्धाश्चैव जितेन्द्राश्च ऊर्ध्वांस्ते च प्रकीर्त्तिताः ॥ (अ० २, ९ श्लो०) इत्यनेन वक्ष्यते । एषामङ्गुलीसंख्याऽप्युक्ता बृहत्संहितायाम्- दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् । द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥ इति (अ० ५७, ३० श्लो०)
द्वितीयाऽध्यायः ४५ एवञ्च रामादीनां प्रमाणं दश तालास्ते च विंशत्यधिकं शतमङ्गुल्य इत्यायातम् । एतेन— 'उत्तमं दशतालं स्याच्चतुर्विंशच्छताङ्गुलम्' ( शि० उ० ४ अ० ३७ श्लो०, काश्यप० ९० अ० ७७ श्लो० ) इति यच्छिल्परत्न-काश्यपशिल्पयोरुक्तं तच्चिन्त्यम् । एतन्मते तालादीनामुत्तममध्यमाधमभेदेन त्रैविध्यमुक्तम्, तथा च काश्यपशिल्पे पूर्वोद्धृतादर्द्धात् परम्— मध्यमं दशतालं स्याद् भानुषङ्क्त्यङ्गुलं भवेत् । कलाधिकशताङ्गुल्यमधमं दशतालकम् । सद्वादशशतं भागं नवतालोत्तमं भवेत् ॥ अष्टोत्तरशतांशन्तु मध्यमं नवतालकम् । कन्यसं नवतालं स्याद् द्वेधा( स्याद्भेदा )धिकशतं भवेत् ॥ तालं प्रत्येवमेवं तु क्रमाद् वेदाङ्गुलं हरम् ( अ० ९०, ७७-८० श्लो० ) इत्युक्तम् । शिल्परत्नोत्तरभागेऽपि यथोक्ताच्छ्लोकादर्द्धत्रितयात् परम्— 'तालं प्रत्येवमेवन्तु क्रमाद् वेदांशहानितः' ( अ० ४, ३८ श्लो० ) इत्युक्त्वा सर्वेषामेव तालानां चतुश्चतुरङ्गुलहान्या उत्तममध्यमाधमत्वं प्रतिपादितम् । तन्न मत्स्यपुराणे यद्दशतालप्रमाणत्वमुक्तं रामादीनां तन्मध्यमं दशतालमादायैवेत्यभ्युपगमेन जातेऽपि कथञ्चित् समाधाने, बृहत्संहितायां 'द्वादशहान्ये' (अ० ५७, ३० श्लो० )त्यादि यदुक्तं तेन त्वसामञ्जस्यं दुष्परिहरमेव । 'द्वादशहान्ये'त्यादिपरार्द्धस्य त्वयमर्थः—शेषा अन्याः प्रतिमा द्वादशहान्या द्वादशकद्वादशकहीनत्वेन प्रवरसमन्यूनपरिमाणा भवन्ति । विंशत्यधिकाङ्गुल- शताद् द्वादशाङ्गुलान्यपास्याष्टाधिकं शतमङ्गुलानां प्रतिमा प्रधाना भवति । ततोऽपि द्वादशक- मपास्य षण्णवत्यङ्गुलसमा मध्यमा प्रतिमा, ततोऽपि द्वादशकमपास्य चतुरशीत्यङ्गुला न्यूनपरिमाणा प्रतिमा भवतीत्यर्थः, एवमेवोत्पलभट्टाः । एतच्च परिमाणं काश्यपशिल्पादिमते मध्यमनवतालादि- सप्ततालान्तप्रतिमाया इति ज्ञेयम्, मध्यमनवतालस्याष्टाधिकशताङ्गुलत्वादन्ते सप्ततालस्य चतुर- शीत्यङ्गुलत्वाच्च । परं सप्तभिस्तालैर्देवप्रतिमाया विधानं नोपलभ्यते, तैः 'पिशाचाः सप्तमेन तु' ( अ० ९०, ८७ श्लो० ) इत्यादिना पिशाचानामेव काश्यपशिल्पे कर्तन्यतोपदेशात् । समराङ्गण- सूत्रधारेऽपि— देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् । त्रिंशद्भागायतं चैतद् विदध्याच्चित्रशास्त्रवित् ॥ इति भागमानेन यत् प्रतिमाया मानमुक्तम्, तेनाऽपि विंशत्यधिकशताङ्गुलमेव प्रतिमायाः परिमाणं भवति, भागस्य चातुराङ्गुल्याभिधानात्, बृहत्संहितायाञ्च देवप्रतिमाया एव चतुरशीत्यङ्गुल- मानायाः कनीयस्त्वकथनाच्च ।
४६ देवतामूर्त्तिप्रकरणम् [ तालमानेन मूर्त्तीनां कर्तव्यता ] कीर्ति(कूर्म?)मुखं त(ता?)लमुखं द्वाभ्यां प्रोक्ता विहङ्गमाः । त्रितालैः कुञ्जरा ज्ञेया वेदतालैस्तुरङ्गमाः ॥ ४ ॥ यच्च शिल्परत्न-काश्यपशिल्पयोः 'क्रमाद् वेदाङ्गुलं हर्म्यं' 'क्रमाद् वेदांशहानितः' इत्यादिना सर्वत्रैव ताले चतुरङ्गुलहान्या प्रतिमाया उत्तमादित्वमतिदिष्टम्, तदपि नवतालविश्रान्तमिति प्रतीयते । नव- तालस्यैव कण्ठत उत्तमादित्वकथनात् । कियद्भिर्वा किग्विधैर्वा उत्तमादिभेदभिन्नैस्तालैः कस्य प्रतिमा कार्येत्यपेक्षायामपि त्रिधा भिन्नैर्नवतालैः प्रतिमाविधानस्योक्तत्वाद् अष्टतालैः पुनरेकविधैरेव तद्विधानस्याभिहितत्वाच्च । किञ्च—यद्येवं सर्वत्र ताले वेदांशहान्योत्तमादिभेदः कल्प्येत तदैकतालेऽपि तथात्वप्राप्तेर्मध्यमेकतालमष्टाङ्गुलम् अधमञ्चैकतालं चतुरङ्गुलं भवेदिति पूर्वोक्तम्— 'तदङ्गुलैर्द्वादशभिर्भवेत्तालस्य दीर्घता' इति वचनं व्यर्थमेव स्यात् । न चैतदप्युत्तमेकतालपरमिति कल्पने नार्थक्षतिरिति वाच्यम्, तादृशकल्पने मानाभावात् । न च 'वेदांशहानितः' इत्यादिवचनमेव तत्र मानमित्यपि वाच्यम्, तस्य नवतालपर्यन्तिकत्वस्वीकारेऽपि क्षत्यभावादिति दिक् । ४ । कीर्तीति । तालमुखमिति तालानां मुखम् आद्यावयव एकताल इत्यर्थः, यत्र तथाभूतं कूर्ममुखं भवेदित्यर्थः । 'एकतालन्तु कूर्मकम्' इति काश्यपशिल्पे ( अ० ५०, ८९ श्लो० ), 'तालात् कूर्माकृतिर्हरि'रिति शिल्परत्नोत्तरभागे च ( अ० ४, ९० श्लो० ) अविशेषेण कूर्मस्यैव विधानादत्राङ्गविशेषकल्पना निष्प्रमाणान्तराऽपि युक्तिसहेति 'कूर्ममुख'मिति पाठान्तरं कल्पितम् । तथा हि यदत्र प्रकरणे तालेन प्रमाणमभिहितं तद् दैर्घ्यमभिप्रेत्य, आयामस्तु ग्रन्थान्तरादवगम्यते । तथा च समराङ्गणसूत्रधारे दशतालमूर्त्तिं प्रकृत्य भागमानेनोक्तम्— देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् । त्रिंशद्भागायतं चैतद् विदध्याच्चित्रशास्त्रवित् ॥ ( अ० ७५, ४-५ श्लो० ) । इति । भागश्चतुरङ्गुलम् । एवञ्च गोलाकृतेः कूर्मस्य तालेन दैर्घ्यकथनापेक्षया दीर्घाकृते- स्तनमुखस्य तदुक्तिर्युक्तिबाहुल्यं भजत इति साध्वियं पाठकल्पना । यद्वा—कूर्मस्य मुखमिव मुखं यस्येति विग्रहात् कूर्मावतारी हरिरित्यर्थः पूर्वोद्धृतशिल्परत्नवचनप्रामाण्यादवसेयः । न च— 'कूर्मावतारिणं देवं कमठाकृतिमालिखेत्' ( अ० २९, १२३ श्लो० ) इति शिल्परत्नोत्तरभागीयपद्यदर्शनात् कूर्मावतारस्य हरेः सर्वाण्येवाङ्गानि कूर्मसदृशानीति कथं मुख- मेव कूर्माकृतीत्युच्यते इति वाच्यम्, अत्र सामान्येन विशेषो लक्षणीयः, तथा च मुखपदमत्रावयव- सामान्ये लाक्षणिकमिति न काचिदनुपपत्तिः । अत्र मूले बिन्दू अपि प्रामादिकाविति ज्ञेयम्, प्रक्रमात्
द्वितीयोऽध्यायः ४७ कुब्जाश्च पञ्चभिस्तालैरुपविष्टो जनस्तथा । उपविष्टाः प्रकर्तव्या ब्रह्मविष्णुशिवा वृषः ॥ ५ ॥ शूकरं पञ्चतालैश्च षट्तालं स्याद् विनायकम् । मध्यमं शूकरं ज्ञेयं वृषभश्च तथैव हि । मनुजाः सप्तभिस्तालैर्वृषभं शूकरन्तथा ॥ ६ ॥ अष्टाभिः पार्वती प्रोक्ता मातरश्च तथैव हि । दुर्गा लीला महालक्ष्मील(र्ल?)दमीर्या तु सरस्वती ॥७॥ कालिन्दी चैव सावित्री नदा(नन्दा?) पद्मावती तथा । कात्यायनी समाख्याता भगवत्यष्टकाल(ताल?)का ॥८॥ नवतालैर्भवेद् विष्णुर्ब्रह्मात्मा देवतास्तथा । कर्मणि प्रत्ययस्यैव स्वारसिकत्वेन 'कीर्त्तिमुखस्तालमुखो' इति पाठस्यैव मान्यत्वात्। एवमिहाहमहमिकयैव बिन्दुविसर्गयोर्व्यत्ययस्तत्र तत्र समुल्लसन् पाठकः स्वयं विचार्यः। रूपमण्डने तालमधिकृत्य- 'ग्रासवक्त्रमेकभागे द्वौ पक्षी कुञ्जराद्ययः' इत्येतत्समानार्थं पद्यमाह। अत्र कियद्भिस्तालैः के के कर्त्तव्या इत्यत्र शिल्पशास्त्रकृतां बहवो मतभेदा दृश्यन्ते, ते च प्रभूत- स्थानसव्यपेक्षा इति सर्वमनुद्धृत्याष्टतालत एकतालान्ता विलोमेन काश्यपशिल्पादुद्ध्रियन्ते, एतेषामेवान्नाधिक्येनोपयोगित्वात्। अत्र चादर्शप्राप्तमशुद्धं पाठमपहाय सम्पादकैः कृतशुद्धयः पाठा उद्ध्रियन्ते— अष्टतालेन साध्यांस्तु पिशाचाः सप्तमेन तु । रसतालेन कुब्जांस्तु कारयेद्देशिकोत्तमः ॥ पञ्चतालोक्तमानेन वित्तेशं कारयेद् बुधः । तन्मध्यमाधमेनैव सर्वभूतगणान् कुरु ॥ बालन्तु वेदतालेन त्रितालेनैव कारयेत् । द्वितालं किन्नरञ्चैव एकतालन्तु कूर्मकम् ॥ इति । (अ० ६०, ८७-८९ श्लो०) ६। मध्यममिति । प्रथमार्द्धे पञ्चतालकर्त्तव्यत्वेन यः शूकर उद्दिष्टः स मध्यम इति ज्ञेयः नोत्तमो नापि वाऽधमः। एवं तृतीयार्द्धे सप्ततालकर्त्तव्यत्वेन यो वृषभ उद्दिष्टः सोऽपि मध्यम एवेत्यर्थः । सप्ततालकर्त्तव्यस्तृतीयशूकरश्च मध्यमेतर इति व्याख्येयम्, अन्यथा पौनरुक्त्यापत्तेः । वृषभशूकरयोः साप्ततालिकत्वकथनं मतान्तरेणेति ज्ञेयम् ।
४८ देवतामूर्तिप्रकरणम् दशतालैर्भवेद्रामो बलिवैरोचन(नि?)स्तथा । सिद्धाश्चैव जितेन्द्राश्च ऊर्द्वांस्ते च प्रकीर्तिताः ॥ ९ ॥ ताला एकादश स्कन्दो हनुमांश्चण्डिका तथा । भूतानाञ्च समस्तानामेष तालः प्रकीर्तितः ॥ १० ॥ ताला द्वादश वेताला राक्षसाश्च त्रयोदश । पिशाचाः क्रूरकर्माणः शस्यन्ते मुकुटैर्विना ॥ ११ ॥ तालाश्चतुर्दश प्रोक्ता दैत्येन्द्रा मुकुटैर्युताः । तिथ्या समानतालैश्च भृगुरूपं प्रकारयेत् ॥ १२ ॥ अत ऊर्ध्वं न कर्तव्यं प्रमाणं कथयाम्यतः । [ तालानुसारेणावयवमानम्, तत्र सप्ततालेऽवयवमाननिरूपणम् ] सप्ततालं प्रवक्ष्यामि केशान्ते च त्रिमात्रकम् ॥ १३ ॥ १०–१२। एकादशादिपञ्चदशान्तास्ताला नान्यत्रोपलभ्यन्ते । रूपमण्डने तु— 'कलांशाः क्रूरदेवाः स्युरत ऊर्ध्वं न कारयेत्' । ( अ० १, २३ श्लो० ) इत्यनेन षोडश तालाः क्रूरदेवानां मानमित्युक्तम् । यच्च काश्यपशिल्पे— एकादिनवहस्तान्तं नवधा हस्तमानकम् । तालादिनवतालान्तं तथा नवविधं भवेत् ॥ ( अ० ५०, ३४ श्लो० ) इति नवतालान्तं तालमानमुक्तं तत्तु सामान्यत इति ज्ञेयम् । एवञ्च सत्यामपि पूर्वार्द्धे हस्त- मानस्य नवधात्वोक्तौ यत् पूर्वम्— दशादिकरवृद्ध्या तु षट्त्रिंशत् प्रतिमाः पृथक् । बाणवेदकरान् यावच्चतुष्क्यां पूजयेत् सुधीः ॥ ( अ० १, १९ श्लो० ) इत्युक्तम्, तस्यापि विशेषान्तःपातान्नासामञ्जस्यमिति ध्येयम् । १३। इदानीं कियत्तालानां प्रतिमानां कियन्त्यङ्गमानानीति वक्तुमादौ सप्ततालप्रतिमाया अङ्गमानमाह—सप्ततालमिति । रूपमण्डने तु षट्तालप्रतिमाया अप्यङ्गविभाग उक्तः ; तथा च— मुखं तालद्वयं तस्य जठरं तत्समं भवेत् । गुह्यं वेदाङ्गुलम् ऊरू सप्त जङ्घा च तत्समा ॥
द्वितीयोग्ध्यायः ४१ वक्त्रं तालप्रमाणञ्च ग्रीवा स्यादङ्गुलद्वयम्। सार्द्धसप्ताङ्गुलं वक्षो मध्यं नवभिरङ्गुलैः ॥ १४ ॥ सप्तसार्द्धं( ?)नाभिमेढ्रमूरू अष्टादश स्मृताः। जान्वङ्गुलद्वयं प्रोक्तं जङ्घे अष्टादशाङ्गुले । पादोत्सेधन्वि(स्त्रि ?)मात्रन्तु(स्तु ?) मनुजाः सप्ततालये(के ?)॥१५॥ [ मध्यमसप्ततालेऽवयवमाननिरूपणम् ] सप्तसार्द्धं प्रवक्ष्यामि तालं मङ्गल-शुक्रयोः । बुधसौर्योस्तथा ज्ञेयं केशान्तञ्च त्रिमात्रकम् ॥ १६ ॥ वक्त्रं द्वादशमात्रन्तु ग्रीवा चैव त्रिमात्र(त्रि ?)का । दशमात्रं भवेद् वक्षो नाभिमेढ्रं तथोदरम् ॥ १७ ॥ अष्टादश भवेदूरू(रुः ?) जानु मात्राद्वयं स्मृतम् । अष्टादशाङ्गुलौ ग्रन्थी ग्रहाणामङ्गुलो पदौ ॥ १८ ॥ [ अष्टतालेऽवयवमानम् ] अष्टतालं प्रवक्ष्यामि देव्याश्चण्डस्य(ण्ड्याश्च ?) लक्षणम् । मात्रात्रयं स्यात् केशान्तं वक्त्रञ्च द्वादशाङ्गुलम् ॥ १९ ॥ ग्रीवा च अ(त्र्य ?)ङ्गुला कार्या हृदयं नवभिस्तथा । मध्यं द्वादशमात्रं स्यान्नाभिमेढ्रे नवाङ्गुले ॥ २० ॥ एकविंशद् भवेदूरू(रुः ?) जानु चैव गुणाङ्गुलम् । जङ्घाऽङ्गुलैकविंशत्या पादमूलं गुणाङ्गुलम् ॥ २१ ॥ गुणाङ्गुलं भवेज्जानु पादः कार्यो गुणाङ्गुलः । रसतालमिति प्रोक्तम्............ ॥ इति ( अ० १, २४-२५ श्लो० ) शिल्परत्नोत्तरभागे च दशादिवितस्ततालान्तप्रतिमाया अङ्गविभागः प्रदर्शित इति विशेषः । १६ । सप्तसार्द्धमिति मध्यमसप्ततालमित्यर्थः ; तत्प्रमाणञ्चैतन्मते नवत्यङ्गुलम्, मतान्तरे त्वष्टाशीत्यङ्गुलमिति ज्ञेयम् । प्रकरणेऽस्मिन् मात्राभागादिशब्दोऽङ्गुलमानबोधकः । देवता-७
५० देवतामूर्त्तिप्रकरणम् [ मध्यमाष्टतालेऽवयवमानम् ] अष्टसार्द्धं प्रवक्ष्यामि गीष्पतेस्ताललक्षणम् । केशान्तश्च त्रिमात्रन्तु वक्त्रं स्याद्द्वादशाङ्गुलम् ॥२२॥ ग्रीवा च अ(त्र्य?)ङ्गुला कार्या हृदयं नवभिस्तथा । त्रयोदश भवेन्मध्यं तालेन नाभिमेढ्रके ॥२३॥ द्वाविंशत्या भवेदूरूर्जानु चैव त्रिमात्रकम् । जङ्घे ऊरुसमे प्रोक्ते त्र्यङ्गुलः पाद एव च ॥२४॥ [ नवमतालेऽवयवमानम् ] नवतालं प्रवक्ष्यामि ब्रह्माद्या देवता यथा । केशान्तश्च त्रिमात्रन्तु कर्तव्यं देवरूपकम् ॥२५॥ यावन्मानो भवेत्तालो विभजेद्भवविभागकैः । सूर्य(१२)राम(२)दशा(२०)र्का(१२)ब्धि (४)वसु(८)जैन(२४) युगा(४)र्हताः(२४) ॥२६॥ वेदा(४) वक्त्रगलौ वक्षो नाभिस्तूदरगुह्यकम् । तथोरू जानुनी जङ्घे चरणौ च यथाक्रमे(क्रमम्) ॥२७॥ विस्तरस्तेन(विस्तारः स्तन)गर्भे च द्वादशाङ्गुलमीरितम् । तद्बाह्ये वेदवेदांशे कक्षे एकान्तरे ततः ॥२८॥ सप्तसप्ताङ्गुलौ बाहू दीर्घ(दैर्घ्ये) स्यात् षोडशाङ्गुलौ । करोऽष्टादशमात्रे(त्रः?) च विस्तरे(विस्तारो)ऽग्रे गुणाङ्गुलः ॥२९॥ दीर्घे सूर्याङ्गुलः पाणिविस्तरे पञ्चमात्रकः । नाभिः सूर्याङ्गुलो व्यासे कटिः प्रोक्ता जिनाङ्गुला ॥३०॥ २८-२९। स्तनगर्भे स्तनयोरन्तरे । ईरितं कथितम् । तद्बाह्ये स्तनगर्भाद् बहिः कक्षे कक्षद्वयं वेदवेदांशे अष्टाङ्गुले । तत एकान्तरे एकमात्रव्यवधाने बाहू सप्तसप्ताङ्गुलौ विस्तारे एकः सप्ताङ्गुलस्तथा अन्यश्च सप्ताङ्गुलः । करमानान्तरमाह-करोऽष्टादशमात्रः, अग्रे अग्रस्य विस्तारः गुणाङ्गुलः षडङ्गुलः ।
द्वितीयोऽध्यायः ५१ मूल एकादशोरू स्याद् जङ्घा प्रान्ते युगाङ्गुला । चतुर्दशाङ्गुलः पादस्ततोऽर्द्धे(स्तदूर्ध्वे) च युगाङ्गुलः ॥३१॥ कक्षः स्कन्धस्तदूर्द्धे तु कर्त्तव्यश्चाष्टमात्रकः । ग्रीवा चाष्टाङ्गुला व्यासे पादः प्रोक्तः षडङ्गुलः ॥३२॥ जानाति नानाविधरूपभावं श्रीविश्वकर्मा सुरसूत्रधारः । ऊर्द्धाण्डजस्वेदजरायुजाढ्यं स विश्वरूपं सुखहेतवेऽस्तु ॥३३॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे देवतामूर्त्तिप्रकरणे प्रतिमातालनिर्णयाधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥ ३० । पुनरपि करमानान्तरमाह—दीर्घ इति । पाणिदैर्घ्ये सूर्याङ्गुलः द्वादशाङ्गुलः, विस्तारे पञ्चमात्रकः पञ्चाङ्गुलः । व्यासे विस्तारे जिनाङ्गुला चतुर्विंशत्यङ्गुला । ३१-३२ । ऊरुप्रमाणमाह—मूल इति । ऊरुमूलमेकादशाङ्गुलं स्यादित्यर्थः । जङ्घा प्रान्ते युगाङ्गुला चतुरङ्गुला । पादश्चतुर्दशाङ्गुलः, तदूर्द्धे युगाङ्गुलः, कक्षश्च युगाङ्गुलः । तदूर्द्धं तु अष्टमात्रकः स्कन्धः कर्त्तव्यः । ३४ । अत्र य इत्यध्याहार्यम् , नानाविधरूपभावम् ऊर्द्धाण्डजस्वेदजरायुजाढ्यं विश्वस्य रूपं यो जानाति स सुखहेतवेऽस्त्वित्यन्वयः । ऊर्द्धं उपरिस्था उद्भिद् इत्यर्थः, ते च अण्डानि च तेभ्यो जायन्ते इत्यूर्द्धाण्डजाः ; 'द्वन्द्वात् पूर्वं परं वा यत् श्रूयते तल्लभते प्रत्येकमभिसम्बन्धमिति न्यायाद् उद्भिजा अण्डजाश्चेत्यर्थः ।