समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
चक्रे षष्ठ्यष्टमीतुर्यास्सप्तम्याद्याः प्रकीर्तिताः । वक्रे द्वितीयासप्तम्यौ षष्ठ्यष्टम्यौ चतुर्थिका ॥ २०१ ॥ लघ्वेऽष्टमीत्रिसप्तम्यस्तुर्याषष्ठ्यौ च कीर्तिते । पञ्चमीसप्तमीषष्ठ्यो लाभे पूर्वाष्टमी तथा ॥ २०२ ॥ द्विपञ्चसप्तम्यष्टम्यः षष्ठी संपर्कसंज्ञिते । त्रिपञ्चषष्ठीसप्तम्यो मूलनाम्नि तथाष्टमी ॥ २०३ ॥ स्युरष्टसप्तषट्पञ्चचतुर्थस्त्वव्ययाभिधे । पूर्वाद्या यत्र षण्मूषाः किन्नरं नाम तद् गृहम् ॥ २०४ ॥ यत्राद्यापञ्चसप्तम्यो सह तत् कौस्तुभं विदुः । पूर्वाद्वित्रिचतुःषष्ठीसप्तम्यो हर्म्यसंज्ञिते ॥ २०५ ॥ सप्तमी पञ्चमी षष्ठी द्वित्रिपूर्वाश्च धार्मिके । निषधे द्विचतुःपञ्चषष्ठ्याद्याः सप्तमी तथा ॥ २०६ ॥ त्रिचतुःपञ्चषट्सप्तम्याद्याः स्युर्यन्त्र तद् वसु । साटीके त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥ २०७ ॥ यत्राद्यापञ्चसप्तम्यो वामनं नाम तद् विदुः । आद्याद्वित्रिचतुःषष्ठ्यः साष्टम्यो गौरनामनि ॥ २०८ ॥ आद्याद्वित्र्यष्टमीषष्ठ्यः पञ्चमी चास्थिराभिधे । क्रमिणे त्रिचतुःपञ्चपूर्वाः षष्ठ्यष्टमी तथा ॥ २०९ ॥ खले पूर्वाष्टमीषष्ठीत्रितुर्याः पञ्चमीयुता । विवरे त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥ २१० ॥ आद्याद्वित्रिचतुःसप्तम्यष्टम्यो बालिशाभिधे । पूर्वाष्टमीद्वित्रिसप्तपञ्चम्यो धौमनामनि ॥ २११ ॥ त्रिपुष्टे द्विचतुःपञ्चसप्तम्यादास्तथाष्टमी । मन्दिरे त्रिचतुःपञ्चसप्तम्यादास्तथाष्टमी ॥ २१२ ॥ भवे द्वित्रिचतुःपञ्चम्यष्टम्यः सप्तमी तथा । अशोके द्वित्रिषट्सप्तम्यष्टम्यः पूर्वया सह ॥ २१३ ॥
१ 'नके' ख. पाठः । २ ख. द. द्वि° ।
चतुःशालविधानं नामैकोनत्रिंशोऽध्यायः । १११ भास्वरे द्विचतुःषष्ठ्यः सप्तम्याद्याष्टमीयुता [:] । त्रिसप्तम्यष्टमीषष्ठीतुर्याद्याश्चौष्यसंज्ञिते ॥ २१४ ॥ द्वित्रितुर्याष्टमीषष्ठ्यो लातव्ये सप्तमी तथा । द्विसप्तम्यष्टमीषष्ठीपञ्चम्याद्याश्च सुस्वने ॥ २१५ ॥ त्रिपञ्चम्यष्टमीषष्ठीसप्तम्याद्यास्तथा मखे । द्वित्रिसप्ताष्टमीषष्ठीपञ्चम्यो वाजिसंज्ञिते ॥ २१६ ॥ नेत्रे पूर्वाचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । भ्रमे स्युर्द्विचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ॥ २१७ ॥ घोषे च त्रिचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । एकद्वित्रिचतुःपञ्चषट्सप्तम्यो भवन्ति चेत् ॥ २१८ ॥ मूषास्तदानीं भाण्डीरमिति प्राहुर्निवेशनम् । एकद्वित्रिचतुःपञ्चषष्ठ्यो यत्र तथाष्टमी ॥ २१९ ॥ तद् वैसनमिति प्राहुर्वास्तुविद्याविदो गृहम् । एकद्वित्रिचतुःपञ्चसप्ताष्टम्यो गृहे यदि ॥ २२० ॥ मूषा भवन्ति तद् विद्यात् प्रस्थमित्यभिधानतः । एकद्वित्रिचतुर्थ्यः स्युः षष्ठी सप्तम्यथाष्टमी ॥ २२१ ॥ यस्मिन् मूषास्तदत्राहुः प्रतानमिति मन्दिरम् । चतुर्थीवर्जिताभिः स्यान्मूषाभिर्वेश्म वासुलम् ॥ २२२ ॥ कटं तृतीयाहीनाभिर्विज्ञातव्यं निवेशनम् । मूषाभिरद्वितीयाभिर्लक्ष्मीवासमुदाहृतम् ॥ २२३ ॥ सुगन्धान्तमनाद्याभिरष्टाभिः सर्वभद्रकम् । इत्येकभद्रप्रभृतीनि वेश्मान्युक्तानि यावद्गृह्राष्टभद्रम् । एतांश्चतुशशालगृहप्रभेदान् यो वेत्ति पूजां स लभेत लोके ॥ २२४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चतुश्शालविधानं नाम एकोनविंशोऽध्यायः ।
११२ समराङ्गणसूत्रधारे अथ निम्नोच्चादिफलानि नाम विंशोऽध्यायः। अग्रतःपृष्ठतःशब्दौ द्वारेण नियतौ गृहे। यतो द्वारं तदग्रं स्यात् पृष्ठं पृष्ठमुदाहृतम् ॥ १ ॥ द्रव्यायामोदयव्यासैः शाला यत्राधिका भवेत्। वामा वा दक्षिणा वापि अग्रतः पृष्ठतोऽपि वा ॥ २ ॥ हन्ति द्रव्याधिका द्रव्यमायामाभ्यधिका कुलम्। उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ॥ ३ ॥ यस्य निम्ना भवेद् भूमिर्वामा दक्षिणकास्थला। बहुदोषं हि तद् वास्तु पुत्रपौत्रविनाशकम् ॥ ४ ॥ यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत्। यत्नेनापि कृतं तत् स्याद् भर्तुरल्पफलोदयम् ॥ ५ ॥ पश्चिमेन भवेन्निम्ना भूमिः स्थूलतराग्रतः। यत्र तत् सर्ववर्णेषु सर्वकामप्रदं गृहम् ॥ ६ ॥ अग्रतश्च यदा हीनं पृष्ठतश्चोच्छ्रितं भवेत्। भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ॥ ७ ॥ सच्छत्रं च सकक्षं च तथैव सपरिक्रमम्। सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ॥ ८ ॥ बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम्। सावश्यायं तु यद् वेश्म तद् विद्यात् सपरिक्रमम् ॥ ९ ॥ एकेनाप्यत्र मुखतः पृष्ठतः पार्श्वतोऽपि वा। सप्रभं स्यादलिन्देन लक्षणं तु पृथक् पृथक् ॥ १० ॥ एकोऽलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा। मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ॥ ११ ॥ १ द. ख. प्रायो ।
निम्नोच्चादिफलानि नाम विंशोऽध्यायः । ११३ वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः । वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही ॥ १२ ॥ यस्य स्यातामलिन्दौ द्वौ गृहस्योभयपार्श्वयोः । धनलाभं विजानीयात् तत्प्रवेशे कुटुम्बिनः ॥ १३ ॥ यस्य स्यातामलिन्दौ द्वावग्रतः पृष्ठतस्तथा । धनधान्यमवाप्नोति सौभाग्यं चापि तद्गृही ॥ १४ ॥ यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा । राजप्रसादैस्तत्स्वामी धनधान्यैश्च वर्धते ॥ १५ ॥ वामतो हलकालिन्दो मुखतश्च कृतो यदि । राजदण्डभयं विद्यात् पत्नी चास्य विनश्यति ॥ १६ ॥ दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि । ततः परापि वृद्धिः स्यात् सौभाग्यं च परं भवेत् ॥ १७ ॥ पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि । कलत्रमरणं तत्र भवेद् दुर्भाग्यतापि च ॥ १८ ॥ पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा । अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात् फलम् ॥ १९ ॥ पृष्ठतो दारनाशाय धनलाभाय दक्षिणे । अग्रे राजप्रसादाय वामतोऽर्थविनाशनः ॥ २० ॥ समापितं तु यद् वास्तु सर्वतः परिशोधितम् । स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥ २१ ॥ अंर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया । धर्मकामाश्च वर्धन्ते कीर्त्तिरायुर्यशो बलम् ॥ २२ ॥ नित्यं प्रक्रीडितजनं नित्त्यं सन्निहितश्रि तत् । नृत्यवादित्रगीतैश्च नित्यामोदं निरामयम् ॥ २३ ॥ तत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत् । प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ ॥ २४ ॥ १ द. ख. नाशाय । २ द. ख. चर्चितं । ३ द. ख. धन°। ४ द. ख. हितं । वा. १५
११४ समराङ्गणसूत्रधारे
एकस्मिन् स्वामिनो मृत्युरपरस्मिन् धनक्षयः । पूर्वोत्तरोज्झितौ धन्यौ संज्ञाश्चैषां प्रकारतः ॥ २५ ॥ स्युरुदक्पूर्वयाम्याप्यशालाहीनान्यनुक्रमात् । हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्ननामभिः ॥ २६ ॥ विनियोगो यथालिन्दमलिन्दव्यूहिरच्छया । वेश्मान्यथ द्विशालाानि कीर्त्यन्ते षड् यथाक्रमम् ॥ २७ ॥ दिक्कर्णेषु द्विशालाानि तत्कर्णान्येषु निर्दिशेत् । संमुखे द्वे समेतानि षडेतान्युपलक्षयेत् ॥ २८ ॥ सिद्धार्थं दक्षिणप्रत्यग् भवन्त्यत्रार्थसिद्धयः । यमसूर्यमुदक्प्रत्यक् तत्र मृत्युभयं सदा ॥ २९ ॥ प्रागुदीच्योस्तु दण्डः स्याद् दण्डस्तत्र सदा भवेत् । प्राग्याम्ययोस्तु वाताख्यं वास्तु तत् कलहोत्तरम् ॥ ३० ॥ उदग्दक्षिणसाम्मुख्ये द्विशालं काचवास्त्विति । तत्र ज्ञातिविरोधः स्यान्न तत् कुर्यात् कदाचन ॥ ३१ ॥ प्राक्प्रतीच्योस्तु साम्मुख्ये चुल्लीवास्तु विनिर्दिशेत् । तत्र वित्तक्षयो घोरः कदाप्येतन्न कारयेत् ॥ ३२ ॥ चतुश्शालं त्रिशालेन प्रान्तं प्राकारवर्तिना । पूर्वेण सप्तशालेषु मणिच्छन्द इति स्मृतम् ॥ ३३ ॥ अन्यानि चैवं त्रीण्याहुः प्रान्तमेव प्रदक्षिणम् । अपरं परिधानं च सपक्षमिति तानि च ॥ ३४ ॥ एकभित्ती तु शाले द्वे गृहसंघट्ट उच्यते । न तं कुर्यात् स हि सदा बन्धदोषवधप्रदः ॥ ३५ ॥ इत्युचनीचगृहभागफलं प्रदिष्ट- मस्मिन्नलिन्दफलमप्यशुभं शुभं च ।
१ द. ख. पूर्वोत्तरौ स्थितौ । २ द. ख. कर्तान्येषु । ३ द. दीनाख्यं ।
द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११३ यद् द्वित्रिशालगृहलक्ष्म तदप्यमुष्मिन् सामान्यतो द्वितययोगभवं च सम्यक् ॥ ३६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे निम्नोच्चफलच्छत्रादिसंज्ञालिन्दफलसद्वास्तुफलद्विशालत्रिशाल- गृहसङ्घट्टलक्षणफलानि नाम विंशोऽध्यायः ॥ अथ द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । अथ द्वासप्ततेर्ब्रूमस्त्रिशालानां यथाक्रमम् । अभिधानानि कात्स्न्येन लक्षणानि पृथक् पृथक् ॥ १ ॥ मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः । हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षघ्नमेव च ॥ २ ॥ हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया । तत् स्याद् धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥ ३ ॥ सुक्षेत्रं लक्षणोपेतमृद्धिवृद्धिप्रदं विभोः । चुल्ली दक्षिणया हीना शालया वित्तनाशिनी ॥ ४ ॥ पक्षघ्नं पश्चिमाहीनं वैरकृत् कुलनाशनम् । अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥ ५ ॥ मूषायोगाच्च भेदाः स्युरष्टादश पृथक् पृथक् । जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥ ६ ॥ कनकं काञ्चनं स्वर्णं सुवर्णं च ततः परम् । सन्तापसंज्ञं सारं च तथा चामीकराह्वयम् ॥ ७ ॥ तपनं तापनीयं च शातकुम्भमथापि च । हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥ ८ ॥ १ द. ख. रुक्माभं । २ द. ख. भूमिभू० ।
११६ समराङ्गणसूत्रधारे भेदा हिरण्यनाभस्येत्यष्टादश भवन्त्यमी । नागं सूर्यप्रभाख्यं च मत्तवारणकं तथा ॥ ९ ॥ चतुर्थं केसरीत्युक्तं वासवं चेन्द्रमेव च । हरिं हँसं सारसाण्डं?(ख्यं ) कुञ्जरं तोयदं तथा ॥ १० ॥ मेघमालाभिधानं च धारासारं महोदरम् । कर्दमं नामतश्चान्यत् सुक्षेत्रं प्रकरं तथा ॥ ११ ॥ सुक्षेत्रानुगतान्याहुस्तथान्यद् धान्यपूरकम् । चुल्लीभेदानथ ब्रूमस्तेषामाद्यं भुजङ्गमम् ॥ १२ ॥ निर्जीवाख्यं विहङ्गं च नकुलं पन्नगाह्वयम् । शतच्छिद्रं च सर्पं च कोपसंज्ञं भगन्दरम् ॥ १३ ॥ उद्वेजनाख्यं सन्न्याँसं निस्तोषं करुणाननम् । वारणं दारणं चुल्ली ककुदं कैन्दरं तथा ॥ १४ ॥ इति चुल्लीप्रभेदेषु मन्दिराणि दशाष्ट च । ब्रूमः पक्षघ्न संबद्धगृहनामानि सम्प्रति ॥ १५ ॥ राक्षसं *ध्वान्तसंहारं देवारि सुरदारुणम् । घोषणं व्याघ्रशार्दूले शोषणाख्यं विशोषणम् ॥ १६ ॥ मत्तदं च निरानन्दं शाकुनं विघ्ननिर्घृणे । रिपुसंहेंदपक्षघ्ने सुतघ्नं वैरिपूरणम् ॥ १७ ॥ इत्यष्टादश पक्षघ्नभेदाः प्रोक्ता यथाक्रमम् । हिरण्यनाभभेदेषु धन्यं जाम्बूनदं गृहम् ॥ १८ ॥ आद्याद्याभिश्चतसृभिर्मूषाभिरुपलक्षितम् । यत्राद्याद्वित्रिपञ्चम्यो हिरण्यं नाम तच्छुभम् ॥ १९ ॥ पञ्चम्याद्याद्वितुर्याभिः स्याद् रुक्मं रुक्मदं गृहम् । आद्यात्रितुर्यापञ्चम्यो यत्र तद्धेमसंज्ञितम् ॥ २० ॥ १ ख. चन्द्रमेव च । २ द. ख. सारभांडं । ३ ख. शतच्छत्रं । ४ द. ख. सन्नासं । ५ द. ख. नतं । ६ द. दाहणं । ७ द. ख. कुन्दरं । ८ द. °दारणम् । ९ द. ख. °सहदपक्षघ्नं । १० द. ख. सुतघ्नात्परि° । * लक्षणे तु ध्वान्तसंघातमिति ख. पुस्तके खद्योथानसंहारमिति लक्ष्ये पठ्यते ।
द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११७ द्वित्रितुर्यापञ्चमीभिः कनकं कनकावहम् । साद्याभिर्द्वित्रिषष्ठीभिः काञ्चनं काञ्चनप्रदम् ॥ २१ ॥ आद्याद्वितुर्याषष्ठीभिः स्वर्णं स्वर्णविवृद्धये । सुवर्णमाद्यात्रिचतुःषष्ठीभिः स्यात् सुवर्णदम् ॥ २२ ॥ स्याद् द्वित्रितुर्याषष्ठीभिः सन्तापं तापशान्तिकृत् । आद्याद्विपञ्चमीषष्ठ्यो यत्र तत् सारमुत्तमम् ॥ २३ ॥ चामीकरं त्रिषष्ठ्याद्यापञ्चमीभिर्गृहोत्तमम् । द्वित्रिषट्पञ्चमीभिः स्यात् तपनं नाम मन्दिरम् ॥ २४ ॥ षट्तुर्याद्यापञ्चमीभिस्तापनीयमुदाहृतम् । शातकुम्भं द्विषट्पञ्चचतुर्थीभिर्भवेद् गृहम् ॥ २५ ॥ हिरण्यनाभं त्रिचतुःपञ्चषष्ठीभिरीरितम् । कल्याणमाद्यात्रिचतुःपञ्चषष्ठीभिरुच्यते ॥ २६ ॥ षट्पञ्चद्वित्रितुर्याभिर्भवेद् भूषणसंज्ञितम् । आद्याद्वित्रिचतुःपञ्चषष्ठीभि भूतभूषणम्‡ ॥ २७ ॥ अथ सुक्षेत्रभेदानां लक्षणान्यभिदध्महे । यत्राद्याद्वित्रितुर्याभिस्तन्नागं नाम मन्दिरम् ॥ २८ ॥ यत्राद्याद्वित्रिपञ्चम्यस्तत् सूर्यप्रभमुच्यते । आद्याद्वितुर्यापञ्चम्यो यत्र तन्मत्तवारणम् ॥ २९ ॥ आद्यात्रितुर्यापञ्चम्यो यत्र तत् केसरीं विदुः । वासवं पञ्चमीतुर्याद्वितीयाभिस्तदुच्यते ॥ ३० ॥ षष्ठ्याद्यात्रिद्वितीयाभिरिन्द्रमन्दिरमीरितम् । आद्याद्वितुर्याषष्ठीभिर्हरिसंज्ञमुदाहृतम् ॥ ३१ ॥ आद्यात्रि¹तुर्याषष्ठीभिर्हंससंज्ञं निवेशनम् । षष्ठीद्वित्रिचतुर्थीभिः सारसं नामतो भवेत् ॥ ३२ ॥ आद्याद्विपञ्चषष्ठीभिः कथयन्तीह कुञ्जरम् । आद्यात्रिपञ्चषष्ठीभिर्विज्ञेयं तोयदं गृहम् ॥ ३३ ॥ १ द. °द्वि° । ‡ लक्ष्ये तु भूतिभूषणमिति पठ्यते ।
११८ समराङ्गणसूत्रधारे मेघमालं त्रिषट्पञ्चद्वितीयाभिरुदाहृतम् । धारासारं चतुःपञ्चषडाद्याभिर्भवेद् गृहम् ॥ ३४ ॥ द्विचतुःपञ्चषष्ठीभिर्महोदरमिति स्मृतम् । कर्दमं नाम षट्पञ्चत्रितुर्याभिर्जयावहम् ॥ ३५ ॥ षट्पञ्चतुर्यात्र्याद्याभिः सुक्षेत्रं स्याद् धनप्रदम् । द्वित्रिषट्पञ्चतुर्याभिर्भवेत् प्रकरमृद्धिदम् ॥ ३६ ॥ आद्याभिश्च षडेताभि(?)र्विज्ञेयं धान्यपूरकम् । अष्टादशैते सुक्षेत्रगृहभेदाः प्रकीर्तिताः ॥ ३७ ॥ आद्याद्वित्रिचतुर्थीभिर्मूषाभिः स्याद् भुजङ्गमम् । निर्जीवमाद्यापञ्चत्रिद्वितीयाभिर्निवेशनम् ॥ ३८ ॥ आद्याद्विपञ्चतुर्याभिर्वहन्तीभिर्वि ?(दन्तीह वि)हङ्गमम् । पञ्चाद्यात्रिचतुर्थीभिर्मूषाभिर्नकुलं विदुः ॥ ३९ ॥ पञ्चद्वित्रिचतुर्थीभिः पन्नगं नामतो भवेत् । शतच्छिद्रं षडाद्यां²त्रिद्वितीयाभिर्भवेद् गृहम् ॥ ४० ॥ आद्याद्वितुर्याषष्ठीभिः सर्पमित्यभिधीयते । आद्यात्रिषट्चतुर्थीभिः कोपमित्यभिशब्दितम् ॥ ४१ ॥ षट्चतुस्त्रिद्वितीयाभिर्भवेद् वेश्म भगन्दरम् । आद्याद्विपञ्चषष्ठीभिरुद्वेजनमुदाहृतम् ॥ ४२ ॥ सन्त्यांस³माद्यापञ्चत्रिषष्ठीभिर्भवनाधमम् । द्वित्रिषट्पञ्चमीभिस्तु §निस्तोयमभिधीयते ॥ ४३ ॥ तुर्याद्यापञ्चषष्ठीभिः करुणाननमुच्यते । द्विचतुःपञ्चषष्ठीभिर्वारणं मुखवारणम् ॥ ४४ ॥ त्रिचतुःपञ्चषष्ठीभिर्दारणं श्रीविदारणम् । चुल्लयाद्यात्रिचतुःपञ्चषष्ठीभिर्वित्तनाशनम् ॥ ४५ ॥ १ खदयोलुप्तम् 'द्विती......पञ्चाद्यात्रि 'श्लो. ३९ उत्तरार्ध । २ द. ख. षडाद्यामिर्द्विती° । ३ द. ख. सन्नास° । § लक्ष्यपाठानुरोधेन निस्तोषमिति पाठ्यम् ।
द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । ११९ षट्पञ्चद्वित्रितुर्याभिः ककुदं नाम मन्दिरम् । कन्दरं षट्चतुःपञ्चत्रिद्याचाभिर्गृहाधमम् ॥ ४६ ॥ अथाष्टादश कथ्यन्ते भेदाः पक्षघ्नसंश्रयाः । तेषु राक्षसमायाद्वित्रिचतुर्थीभिरुच्यते ॥ ४७ ॥ पञ्चाद्याद्वितृतीयाभिर्ध्वान्तसंघातमीरितम् । पञ्चाद्याद्विचतुर्थीभिर्देवारीति निगद्यते ॥ ४८ ॥ आद्यात्रिपञ्चतुर्याभिर्विज्ञेयं देवदारुणम् । पश्चत्रिडिचतुर्थीभिर्घोषणं दुःखघोषणम् ॥ ४९ ॥ षडाद्याद्वितृतीयाभिर्व्याघ्रमित्यभिधीयते । आद्याद्वितुर्याषष्ठीभिः शार्दूलं स्यान्निवेशनम् ॥ ५० ॥ आद्यात्रितुर्याषष्ठीभिः शोषणं पुत्रशोषणम् । षट्तुर्याद्वितृतीयाभिर्विजानीयाद् विशोषणम् ॥ ५१ ॥ आद्याद्विपञ्चषष्ठीभिर्मत्तदं नाम मन्दिरम् । निरानन्दाख्यमाद्यात्रिपञ्चषष्ठीभिरुच्यते ॥ ५२ ॥ पञ्चषड्द्वितृतीयाभिः शाकुनं नामतो भवेत् । विघ्नमाद्याचतुःपञ्चषष्ठीभिर्विघ्नवर्धनम् ॥ ५३ ॥ निर्घृणं षट्चतुःपञ्चद्वितीयाभिरसौख्यकृत् । त्रिचतुःपञ्चषष्ठीभिर्वदन्ति रिपुसंहदम् ॥ ५४ ॥ षट्पञ्चतुर्याद्या[या]भिः पक्षघ्नं सुतनाशनम् । षट्पञ्चद्वित्रितुर्याभिः सुतघ्नं सुतसूदनम् ॥ ५५ ॥ षट्पञ्चद्वित्रितुर्याद्या यत्र तद् वैरिपूरणम् । पक्षघ्नस्यान्गान्येवं गृहाण्यष्टादश क्रमात् ॥ ५६ ॥ चतुराद्यास्त्रिशालेषु मूषा बाह्या न चान्तरा । स्याद् विनाद्यां द्वितीयां च त्रिशालं पञ्चभद्रकम् । बाह्यतः क्रममुत्सृज्य त्रिशालविधिरीरितः ॥ ५७ ॥ १ क. पोषणम् ।
१२० समराङ्गणसूत्रधारे १हिरण्यनाभादिनिकेतानां चतुष्टयस्यैवममी प्रकाराः । द्विसप्ततिः कृत्स्नतयोपदिष्टाः प्रत्येकमष्टादशभेदक्लृप्ताः ॥ ५८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः ॥ अथ द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ॥ द्विशालानि द्विपञ्चाशत् स्युः शुभान्यशुभानि च । लक्षणानि क्रमात् तेषामिदानीं सम्प्रचक्ष्महे ॥ १ ॥ सिद्धार्थं यमसूर्यं च दण्डाख्यं वातसंज्ञितम् । चुल्ली काचं च मुख्यानि द्विशालानि षडेव हि ॥ २ ॥ अनेकभेदभिन्नानि लघुप्रस्तारयोगतः । मूषाभेदक्रमेण स्युर्भेदाभेदक्रमेण तु ॥ ३ ॥ तथा निलीनकरणाद् वीथिकालिन्दमार्गतः । प्राग्ग्रीवादिविधानेन द्वैशाल्यादिविपर्ययात् ॥ ४ ॥ यथासम्भवमेतानि कथयामः समासतः । निर्वाहताश्च मूषाणामनिर्वाहाच्च नामतः ॥ ५ ॥ छन्दतो गुणतो रूपाद्शुभानि शुभानि च । हितार्थाय नरेन्द्राणां वर्णिनां लिङ्गिनामपि ॥ ६ ॥ हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि । तत् सिद्धार्थमिति ज्ञेयं वित्तसम्पत्तिकारकम् ॥ ७ ॥ मृत्युदं महिषीगावीभ्यां भवेद् यमसूर्यकम् । दण्डं स्याच्छगलीगावीशालाभ्यां दण्डभीतिदम् ॥ ८ ॥ वातं करेणुच्छगलीयुक्तमुद्वेगकारकम् । महिष्यजाभ्यामुद्वेगकरी चुल्ली धनापहा ॥ ९ ॥ १ द. हिरण्यतालादि° ।
द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः । १२१ काचं करेणुगावीभ्यां सुहृत्प्रीतिविनाशनम् । एकमूषममूषं च न द्विशालेषु कारयेत् ॥ १० ॥ व्यत्यासात् काचचुल्ल्योश्च सर्वाभिस्तिसृभिस्तथा । चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥ ११ ॥ प्रत्येकमेकादशधा मन्दिराण्यभिधानतः । अन्ये चतुर्धा भिद्येते प्रत्येकं द्वे निवेशने ॥ १२ ॥ एषां मूषा भिदाभेदात् तद्भावावाहहेतुकाः । वसुधारं भवेत् तेषामाद्यं सिद्धार्थकं ततः ॥ १३ ॥ कल्याणकं शाश्वतं च शिवं कामप्रदं तथा । स्त्रीदं शान्तं निष्कलङ्कं धनाधीशं कुबेरकम् ॥ १४ ॥ सिद्धार्थमनुजान्येवमेतान्येकादश क्रमात् । संहारं यमसूर्यं च कालं वैवस्वतं यमम् ॥ १५ ॥ करालं विकरालं च कबन्धं मृतकं शवम् । यमसूर्यस्य भेदाः स्युः सद्मनो महिषं तथा ॥ १६ ॥ प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे । विग्रहं निग्रहं धूम्रं निर्धूमं दन्तिदारुणम् ॥ १७ ॥ एकादशामी दण्डस्य भेदा दण्डभयप्रदाः । मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥ १८ ॥ घनोर्यम्बुदविध्वंसि * प्रलयं कलहं कलिः । कलिचुल्ली च वातस्य भेदा उद्वेगदायकाः ॥ १९ ॥ रोगं चुल्ल्यनलं भस्म चुल्ल्या भेदचतुष्टयम् । काचस्य तु च्छलं काचं कुलघ्नं † च विरोधि च ॥ २० ॥ द्वापञ्चाशद् द्विशालानाममी भेदाः प्रकीर्तिताः । ब्रूमः साम्प्रतमेतेषां लक्षणानि पृथक् पृथक् ॥ २१ ॥ १ द. शाश्वतकं । २ क. द. शिवम् । ३ क. द. धूमं । ४ द. ˚दारणाम् । ५ क. चनाशीं˚ ।
- लक्षणश्लोके एतत्स्थाने रोगमिति पठ्यते । † लक्षणपाठरीत्या तु कुलहमिति पठ्यम् । वा. १६
१२२ समराङ्गणसूत्रधारे। आद्याद्वितीये वहतो यत्र मूषे धनप्रदे। वसुधाराभिधानं तद् गृहं सर्वार्थकानुगम् ॥ २२ ॥ आद्यातृतीये वहतो यत्र सिद्धार्थकं२ हि तत् । सर्वोपद्रवनिर्मुक्तं सिद्धिकृच्चिन्तितार्थकृत् ॥ २३ ॥ द्वितृतीयं वहन्मूर्षं भवेत् कल्याणमृद्धिकृत्। वहदाद्यचतुर्थिकं शाश्वतं गृहमुत्तमम् ॥ २४ ॥ शिवं द्वितीयांतुर्याभ्यां वहन्तीभ्यां सुँखप्रदम्। कामदं त्रिचतुर्थीभ्यां भवेच्चिन्तितकामदम् ॥ २५ ॥ आद्याद्याभिसु(स्तु) तिसृभिः श्रीप्रदं संप्रदं(?) प्रभोः। आद्याद्वितीयातुर्याभिः शान्तं शान्तिप्रदायकम् ॥ २६ ॥ आद्यातृतीयातुर्याभिर्निष्कलङ्कं समृद्धिकृत्। द्वितीयाचतुर्थीभिर्धनेशं धनवर्धनम् ॥ २७ ॥ आद्याद्याभिश्चतसृभिः कुबेरं वित्तवृद्धिकृत्। यमसूर्यप्रभेदेषु ब्रूमो लक्ष्म फलानि च ॥ २८ ॥ आद्याद्वितीयामूर्षाभ्यां संहारं स्वामिनाशनम्। गृहमाद्यातृतीयाभ्यां मृत्युदं यमसूर्यकम् ॥ २९॥ द्वितृतीयं वहन्मूषं कालं योषिद्विनाशनम्। वैवस्वतं वहत्तुर्यप्रथमं रोगकारकम् ॥ ३० ॥ यमालयं द्वितुर्याभ्यां स्वामिनो यमदर्शनैम्। करालं त्रिचतुर्थीभ्यां भर्तुः प्राणविनाशनम् ॥ ३१ ॥ आद्याभिस्तिसृभिः स्वामिनाशनं विकरालकम्। आद्याद्वितीयातुर्याभिः कबन्धं भर्तृनाशनम् ॥ ३२ ॥ आद्यांतृतीयातुर्याभिर्भर्तृघ्नं मृतकालयम्। शबं द्वित्रिचतुर्थीभिः स्वामिनो मरणप्रदम् ॥ ३३ ॥ १ क. द. सिद्धार्थं । २ द. सिद्धार्थदं । ३ द. द्वितीयं । ४ द. शुभं गृहम् । ५ द. ख. ०दर्शकम् । ६ द. ०प्रणाशनम् । ७ क. द्वि° ।
द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः १२३ आद्याद्याभिस्तिसृभिः स्वामिघ्नं महिषं विदुः । प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया ॥ ३४ ॥ गृहमादौ विजानीयाद् भर्तुर्नृपभयप्रदम् । चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् ॥ ३५ ॥ दण्डं स्याद् द्वितृतीयाभ्यां राजदण्डाय दारुणम् । उद्दण्डमाद्यातुर्याभ्यां स्वामिनो दण्डभीतिदम् ॥ ३६ ॥ काण्डं द्वितीयातुर्याभ्यां काण्डवद्भेदकारकम् । कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम् ॥ ३७ ॥ प्रथमा(द्वि)तृतीयाभिर्विग्रहं वधबन्धकृत् । आद्याद्वितीयातुर्याभिर्निग्रहं विग्रहावहम् ॥ ३८ ॥ आद्यातृतीयातुर्याभिर्धूम्रं सर्वधनापहम् । द्वितृतीयाचतुर्थीभिर्निर्धूमं धननाशनम् ॥ ३९ ॥ आद्याद्याभिस्तिसृभिर्दन्तिदारुणमर्थहृत् । आद्याद्वितीयामूर्षाभ्यां वातभेदेषु मन्दिरम् ॥ ४० ॥ मरुत्संज्ञं भवेत् तत्र वसतां कलहः सदा । उद्वेगकारि पवनं तृतीयाथोपलक्षितम् ॥ ४१ ॥ वाताख्यं द्वितृतीयाभ्यां सदा सन्तापकारकम् । सन्तापोद्भासकार्याद्यातुर्याभ्यामनिलं भवेत् ॥ ४२ ॥ प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम् । तृतीयया चतुर्थ्या च घनार्युद्वेगकारकम् ॥ ४३ ॥ आद्यया द्वितृतीयाभ्यां रोगं कार्यार्थनाशनम् । आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् ॥ ४४ ॥ आद्याद्वितीयातुर्याभिः कलहं कलहावहम् । द्वितृतीयाचतुर्थीभिः केलिः सन्तापकारकम् ॥ ४५ ॥ १ द. ख. ॰मूषाभिः । २ क. द. कलिसं०
१२४ समराङ्गणसूत्रधारे आद्याद्याभिश्चतसृभिः कलिचुल्ली धनापहा । रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदमू ॥ ४६ ॥ स्याद् द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी । वसुघ्नमनेलं नाम त्रितुर्याभ्यां निवेशनम् ॥ ४७ ॥ वित्तघ्नमाद्यातुर्याभ्यां भस्मारुयं स्वामिनः सदा । उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् ॥ ४८ ॥ छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत् । दक्षिणोत्तरमूषाणां पौरस्त्ये वहतो यदि ॥ ४९ ॥ † काञ्चं नाम तदा वेश्म सज्जनानन्दकारकम् । मूषाभ्यां दक्षिणाभ्यां स्यात् कुलहं त्रिकुलक्षयम् ॥ ५० ॥ दक्षिणोत्तरमूषाणां पाश्चात्ये वहतो यदि । *विरोधं नाम तद्वेश्म सर्वलोकविरोधकृत् ॥ ५१ ॥ उक्तान्येवं द्विपञ्चाशद् द्विशालानां समासतः । ऐनाने मूषावहनप्रभेदात् फलप्रभेदाच्च निदर्शितानि । द्विशालवेश्मान्यथुनैकशालान्युदाह्रियन्ते भवनानि सम्यक् ॥५२॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः ॥ अथ एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः । गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ । शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥ १ ॥ विन्यसेच्चतुरः पूर्वं गुरून् वर्णान् यथाविधि । एभ्य एव प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥ २ ॥ १ क. ॰नि॰ । २ क. ॰खी॰ । ३ द. एतानि । ४ क. ॰रुव॰ । † लक्ष्यपाठानुरोधात् काचमिति पाठ्यम् * लक्ष्ये विरोधीति पठ्यते ।
एकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । १२५ गुरोरधो लघुं न्यस्येत् पूर्वं शेषं यथोपरि । गुरुभिः पूरयेत् पश्चाद् यावत् स्युर्लघवोऽखिलाः ॥ ३॥ विद्यादलिन्दान् सर्वेषु लघुस्थानेषु पण्डितः । संख्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥ ४ ॥ एषामलिन्दसंयोगाद् भवनानां पृथक् पृथक् । नामानि गुणदोषांश्च वक्ष्यन्तेऽनुक्रमादतः ॥ ५ ॥ ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् । सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ ६ ॥ आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् । ध्रुवे जैयमवाप्नोति धन्ये धान्यागमो भवेत् ॥ ७ ॥ जये सपत्नाञ् जयति नन्दे सर्वाः समृद्धयः । खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥ ८ ॥ आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः । मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता ॥ ९ ॥ सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा । क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥ १० ॥ धनदे हेमरत्नादि गाश्चैव लभते पुमान् । क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥ ११ ॥ आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः । यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥ १२ ॥ तद् गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् । मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥ १३ ॥ तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत् । अलिन्दश्चेद् द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥ १४ ॥ १ द. सव्यावृत्तं । २ ख. ॰वं । ३ द. ख. ध्रुव॰ ।
२. राज-प्रासाद, मन्दिर-वास्तु व स्तम्भ लक्षण (अध्याय १६-३५)
१२६ समराङ्गणसूत्रधारे मुदितं तद् भवेद् भर्तुर्भूतिकृद् भवनोत्तमम् । सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥ १५ ॥ वर्धमानं तदा तत् स्यात् स्वामिलक्ष्मीविवर्धनम् । क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥ १६ ॥ करालं तद् विजानीयाद् भर्ता तस्य विनश्यति । अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥ १७ ॥ सुनाभं तद् भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात् । आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥ १८ ॥ ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत् । द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥ १९ ॥ तत् समृद्धीमिति ख्यातं गृहं स्यात् पुण्यकर्मणाम् । यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥ २० ॥ शालाविभागं ज्ञात्वैषां तिर्यक् षड्दारु विन्यसेत् । षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥ २१ ॥ सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम् । सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥ २२ ॥ उद्योतं भीषणं शून्यमजितं कुलनन्दनम् । नामभिर्वेश्मनामेषां गुणदोषान् प्रकल्पयेत् ॥ २३ ॥ यथार्थनामान्येतानि यस्मात् प्रोक्तान्यविस्तरात् । एभ्य एवापराणि स्युर्वेश्मान्यन्यानि षोडश ॥ २४ ॥ शालापुरोविनिर्युक्ततिर्यक्षड्दारुकारणात् । हंसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम् ॥ २५ ॥ रुचिरं सम्भृतं क्षेममाक्षेमं सुकृतं वृषम् । उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् ॥ २६ ॥ एषामपि यथार्थत्वाद् गुणदोषान् निरूपयेत् । शालामध्ये च तिर्यक्स्थं षैड्दारु विनिवेशयेत् ॥ २७ ॥
१ क. ख. द. समृद्धिं । २ द. ˚न्येतानि । ३ द. भित्तिश्चैव निवेशयेत् ।
विहाय मर्मणां वेधानमीषामेव वेश्मनाम् । षोडशैव परेऽपि स्युर्भेदास्तांश्च यथाक्रमम् ॥ २८ ॥ कथयामः समासेन यथार्थैरेव नामभिः । अलङ्कृतमलङ्कारं रमणं पूर्णमम्बरम् ॥ २९ ॥ पुण्यं सुगर्भं कलशं दुर्गतं रिक्तमीप्सितम् । सुभद्रं वन्दितं दीनं विभवं सर्वकामदम् ॥ ३० ॥ शालान्तः स्थितषड्दारुपश्चादपवरैः कृतैः । एभ्योऽपरेऽपि निर्दिष्टा भेदाः षोडश वेश्मनाम् ॥ ३१ ॥ प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम् । यशोदं कुमुदं कालं भासुरं सर्वभूषणम् ॥ ३२ ॥ वसुधारं धनहरं कुपितं वित्तवृद्धिदम् । कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत् ॥ ३३ ॥ अनन्तरमिहोक्तानि यानि वेश्मानि षोडश । प्रत्येकं तान्यलिन्देन परिकु(ष्कु)र्याच्चतुर्दिशम् ॥ ३४ ॥ तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः । चूडामणिं प्रभद्रं च क्षेमं शेखरमद्भुतम् ॥ ३५ ॥ विकाशं भूतिदं हृष्टं विरोधं कालपाशकम् । निरामयं सुशालं च रौद्रं मोघं मनोरथम् ॥ ३६ ॥ सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत् । वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् ॥ ३७ ॥ कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम् । हस्तिनी महिषी गावी छागली च यथाक्रमम् ॥ ३८ ॥ तद्द्रव्येन द्विपूर्वाणि ब्रूमो नामानि वेश्मनाम् । द्विहंसकं द्विचक्राह्वं द्विसारसमथापरम् ॥ ३९ ॥
१ द. ख. वञ्चितं । २ द. वृत्तिं । ३ द. परिकुर्याच्च तिर्यकम् ।
१२८ समराङ्गणसूत्रधारे द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद् गृहम् । त्रीण्यायुःपशुधान्यानां क्रमादाद्यानि वृद्धये ॥ ४० ॥ एतेषामेव नाशाय भवेद् वेश्म द्विकोकिलम् । इत्येकशालभवनान्युदितान्यलिन्द- षड्दारुकापवरकावरणादिभेदैः । संज्ञा च लक्षणफलैः करिणीमुखाभिः शालाभिरेवमपराणि च र्युग्मजानि ॥ ४१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे एकशाललक्षणफलद्विहंसादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः । अथ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । कर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः । असम्बाधाजिराणि स्युर्ह्लानि दश पञ्च च ॥ १ ॥ ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम् । नन्दनं खादकं ध्वाङ्क्षं विकृतं विलयं क्षयम्² ॥ २ ॥ याम्यं च विपरीतं च भद्रकं चेति नामतः । एतानि हलकाख्यानि विद्याद् गेहानि यत्नतः ॥ ३ ॥ अग्निरक्षोनिलेशानकोणं³ङ्गानां यथाक्रमम् । एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥ ४ ॥ अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च । तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ॥ ५ ॥ सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम् । वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥ ६ ॥ १ क. युग्मलाभिः, द. ख. युग्मितानि । २ द. क्षमम् । ३ द. ख. कोणे भागां ।
द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । १२९ प्रथमं च द्वितीयं च गृहे तु हलकं यदि । चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ॥ ७ ॥ वायव्यं हलकं यत्र रोगं रोगविवर्धनम् । प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥ ८ ॥ पापं तन्नामतो वास्तु सर्वपापप्रयोजकम् । पित्रूरोगोक्तकोणाभ्यां भयदं रोगमृत्युवे ॥ ९ ॥ पित्रूरोगानिकोणेषु नन्दनं गृहमादिशेत् । सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥ १० ॥ ईशान्यां तु चतुर्थेन खादकं खादकं गृहम् । लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥ ११ ॥ ध्वाङ्क्षं तन्नामतो वास्तु दरिद्राणां विधीयते । द्वितीया च चतुर्थी च शाला लाङ्गलके यदि ॥ १२ ॥ विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः । आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ॥ १३ ॥ विलयं हानिदं नित्यं गृहं तद् वित्तनाशनम् । वायव्यं हलकं यस्मिन्नैशान्यां च यदा पुनः ॥ १४ ॥ क्षयं क्षयकरं नित्यं हलकेषु गृहं भवेत् । अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥ १५ ॥ याम्यं मृत्युकरं नृणां न तत् कुर्यात् कदाचन । मारुते नैर्ऋतैशान्योः शालाकर्णेषु लाङ्गलम् ॥ १६ ॥ विपरीतं व्याधिकरं नृणां नाशकरं तथा । चतस्रो हलके यत्र प्रादक्षिणयमुखाः स्थिताः ॥ १७ ॥ भद्रकं नाम तद् वास्तु सर्वभद्रप्रयोजकम् । द्वारोच्छ्रायं सविस्तारं तलोच्छ्रायं च वेश्मनाम् ॥ १८ ॥ १ ख. रोगभयप्रदम् । २ क. पापकं नामतो । ३ क. यस्मिन्नीशान्यां । ४ द. ख. ज्ञेयं । ५ द. ख. मुखास्तथा । वा, १७