समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४३५ १तिलकानां तथोच्छ्रायो विधानव्यो द्विभागिकः । तिलकस्य शिरोघण्टां चैकसूत्रेण मापयेत् ॥ १२॥ जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् । खुरकं वेदिबन्धं च समसूत्रेण मापयेत् ॥ १३॥ ३जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् । खुरकं वेदिबन्धं च समसूत्रेण सूत्रयेत् ॥ १४॥ द्वितीयभूमिकोत्सेधं सिंहकर्ण विभूषयेत् । मस्तके घण्टया युक्ता चतुर्भागोच्छ्रिता च सा ॥ १५॥ ततस्तृतीयभूत्सेधः पदतुल्यांशवर्जितः । चतुर्थी भूमिका कार्या सार्धभागत्रयोच्छ्रिता ॥ १६॥ मञ्जरीस्तम्भयोर्मध्ये सवातायनमेखला । द्वितीया भूमिका या सा सिंहकर्णैरलङ्कृता ॥ १७॥ तस्या द्वारं विधातव्यं कपाटद्वयसंयुतम् । (स्याद्वर्द्वात् ?) पाटितं द्वारं तृतीयायां सदा भुवि ॥ १८॥ पादे(दो) नद्विपदोत्सेधा तदूर्ध्वं वेदिमेखला । कैरवाणां दलैर्युक्ता कर्तव्या दृष्टिहारिभिः ॥ १९॥ वेदिका पञ्चविस्तारा कार्या भागसमुच्छ्रिता । ग्रीवार्धभागिकोत्सेधा घण्टैकं११ भागमुच्छ्रिता१२ ॥ २०॥ पञ्चभाग + विस्तारा घण्टाकोटिर्विधीयते । (कुमान्दं ?)वेदिबन्धं च घण्टाग्रं मस्तकोदयम् ॥ २१॥ मापयेत् समसूत्रेण समन्ताद् भूमिपञ्चके । व्यार्रार्धहस्तसङ्ख्यानि(प्रवेशो ?) प्रथमं क्षितेः ॥ २२॥ अङ्गुलानि तदा ह्यर्थौ द्वितीयायाः प्रकीर्त्तिताः (?)। संयोगादनयोर्यः१६ स्यात् तृतीयायास्तमादिशेत् ॥ २३॥ १ द. वि. । २ द. सूत्र । ३ द. अयं श्लोकः नास्ति । ४ द. सिंहं कर्णे विं० । ५ द. ताः । ६ द. ताः । ७ द. संपुटं । ८ द. स्यादर्द्धोद्घाटितं । ९ द. द्वि । १० द. चो । ११ द. के । १२ द. प्रतौ इतः परं "ग्रीवार्ध भागिकोत्सेधां घण्टैकं भाग मुच्छ्रिता ॥” अयं अधिकः पाठः । १३ द. कुमदं । १४ द. शः । १५ द. तः । १६ द. र्यन् ।
४३६ समराङ्गणसूत्रधारे तदध्यक्षश्चतुर्थ्यास्तु पञ्चम्याः शेष ईरितः । स्वमूलविस्तृतेर्भागस्तृतीयो वेदिकोर्ध्वतः ॥ २४ ॥ लतया विस्तृतिर्भद्रे युक्ताया जालवर्त्मनः (?)। (वेदिदोग्रंविधातव्यो२?) सार्धसविस्तृतौ ॥ २५ ॥ मञ्जर्याः स्तम्भसीमानां क्षोभयेत् पुष्टिमानतः (?)। (वेद्यां भागे?) शालायां निष्कामो मूलकोणतः ॥ २६ ॥ स्थानैर्विचित्ररूपैः स्यात् सिंहकर्णैश्च भूषितः । पञ्चव्यासेन सूत्रेण रेखामस्य समालिखेत् ॥ २७॥ एतद् विमानं ललितं देवदेवस्य कारयेत् । विमानम् ॥ संस्थानं सर्वतोभद्रस्येदानीमभिधीयते ॥ २८ ॥ जठरं बाह्यसीमा च तथा भित्यन्धकारिका५ । जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा भवेत् ॥ २९ ॥ तथैव भद्रविस्तारः षड्भागेन समन्ततः । रथिके च द्विभागे स्तः कोणसंज्ञे च पार्श्वयोः ॥ ३० ॥ मुष्टिप्रमाणं( ण)विस्तारं कर्तव्यमुदकान्तरम् । विस्ताराद् द्विगुणः स्कन्धस्योच्छ्रायो भागविंशतिः (?) ॥ ३१ ॥ पञ्चभागसमुत्सेधा जङ्घा कार्या सदा बुधैः । मेखलान्तरपत्रं च सार्धभागसमुच्छ्रितम् ॥ ३२ ॥ शृङ्गं६ भागत्रयोत्सेधं सग्रीवामलसारकम् । मूलशृङ्गस्य गर्भेण न्यस्येदुपरी भूमिकाम् ॥ ३३ ॥ द्वितीयभूमिविस्तारं दशधा प्रविभाजयेत् । द्वौ भागौ शृङ्गविस्तारौ( रो ) विधेयः पार्श्वयोर्द्वयोः ॥ ३४ ॥ सग्रीवामलसारस्य तैः शृङ्गस्योदयस्थितिः । तस्य शृङ्गस्य गर्भेण कर्तव्योपरिभूमिका ॥ ३५ ॥ १ द. स । २ द. व्यौ । ३ मुद्रित पु. ‘मञ्जर्याः स्तम्भसीमानं क्षोभयेत्पुष्टिमानतः’ इति पाठः स्यात् । ४ द. स्तंभेवि° । ५ द. °की । ६ द. ज्ञ । ७ द. °स्वादयस्त्रिभिः ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४३७ तस्या भूमेस्तु विस्तारं दशधा भाजयेत् पुनः । यः शेषः शिखरायामो (तद्वितिनंते ?) विनिर्दिशेत् ॥ ३६ ॥ विभजेद् वर्धमानं वा रुचकं वास्तुशोभनम् । कर्णान्तरे भद्रमध्ये वल्लभा (ल्मीं) तत्र कारयेत् ॥ ३७ ॥ भूमिकाशिखरेणोर्ध्वं नवभूमिं विभेदयेत् । वेदिकामध्यसूत्रस्य (कर्णतोर्ध्वभुवस्तथा ?) ॥ ३८ ॥ भूमिकोर्ध्वभुवश्चैव विस्तारं दशधा भवे(जे)त् । मूलसीमानुसारेण स्याच्छेदावधि संहँतिः ॥ ३९ ॥ ग्रीवा मूलार्धभागे +++ नामलसारकम् । चन्द्रिका चार्धभागेन + ५++ कलशो भवेत् ॥ ४० ॥ सर्वतोभद्रः ॥ गजस्य संस्थानमथ प्रासादस्याभिधीयते । चतुःषष्टिपदं वास्तु प्रासादस्य विभाजयेत् ॥ ४१ ॥ ततः सीमार्थसूत्रेण पृष्ठतो वृत्तमालिखेत् । पञ्चभागमिर्ना जङ्घा मेखला सार्धभागिकी ॥ ४२ ॥ अग्रतः सूरसेनः स्यात् पृष्ठतः कुञ्जराकृतिः । सीमानमष्टधा कृत्वा विभजेन्नन्दने यथा ॥ ४३ ॥ द्वौ द्वौ चं कर्णयोर्भागौ भद्रेषु चतुरो विदुः । विस्ताराधेन जङ्घा स्याद् रथिकायाः पृथक् पृथक् ॥ ४४ ॥ भागत्रयोच्छ्रितं शृङ्गं कर्णदेशे विधीयते । सप्तभागसमुत्सेधा वलभी मध्यसंश्रिता ॥ ४५ ॥ समन्ताद् भद्रसंस्थाना रेखाग्रीवाण्डकादिभिः । सिंहकर्णैश्च भद्रेषु प्रासादो गर्भ उच्यते (?) ॥ ४६ ॥ (वित्तसाध्यविहीनेन ?) कर्तव्यः स्वस्तिके यथा । (सर्ववत् तस्य स्युः पत्रनिभाः ?) ॥ ४७ ॥ १ द. वर्द्धासानं वा । २ द. ल्मी । ३ द. ॰र्द्वां न च भूमि । ४ स. सङ्गतिः । ५ द. भागेन । ६ द. तां । ७ द. तु । ८ द. नो । ९ द. रथाः सर्वं ।
४३८ समराङ्गणसूत्रधारे विस्तारोऽ+थ जङ्घा च लतिनि स्वस्तिके यथा । उदकान्तर +++ श्रीवत्से² नन्दने यथा ॥ ४८ ॥ पद्मः ॥ ब्रूमोऽथ वृषभं स स्यात् पूर्वोक्तै रूपकर्मभिः । चतुर्भद्रश्चतुर्द्वारो विमानो³ ( सत्रिसाकृति ?५) ॥ ४९ ॥ ( तेवृद्धिरतत्प्रमाणाश्च ? ) सीमाशिखरकोदयैः । कर्णवेर्दकपोटाली⁷ जङ्घाग्रे मस्तकेन च( ? ) ॥ ५० ॥ सार्धद्विभागविस्तारौर( थ ) कैर्वामदक्षिणौ । कार्यौ भद्रं चतुर्भागं भागार्धं सलिलान्तरम् ॥ ५१ ॥ स्तम्भद्वयं भवेत् तस्य सर्वभूम्यन्तरेषु च । एकः स्तम्भो विमाने स्याद् द्वौ स्तम्भौ वृषभे पुनः ॥ ५२ ॥ एष भेदः समाख्यातो विमानस्य वृषंस्य च । वृषभः ॥ मुक्तकोणमथ ब्रूमस्तं भागैरष्टभिर्भजेत् ॥ ५३ ॥ मूलकर्णावुभौ भागौ भवतो वामदक्षिणौ । मध्यंशृङ्गं चतुर्भागं प्रमाणं जठरस्य च ॥ ५४ ॥ कर्णशृङ्गान्तयोर्मध्ये कुर्वीत सलिलान्तरम् । रथकौ पार्श्वयोः पूर्णौ भद्रदेशे जलान्तरम् ॥ ५५ ॥ विस्तारोत्सेथजङ्घाश्च सग्रीवामलसारकः । लतिनामिव कर्तव्याः प्रमाणेन समन्ततः ॥ ५६ ॥ मुक्तकोणः ॥ ब्रूमोऽथ नलिनीं११ तस्याः प्रमाणं लक्षणान्वितम् । तस्यां तु ( मार्गस्यश्च ? ) देवगर्भः सुरालयः ॥ ५७ ॥ भित्तिविस्तृतिरायामो मुक्तकोणे यथा तथा । मध्यदेशे तु यच्छृङ्गं ++ कर्णान्तरे च यत् ॥ ५८ ॥ १ द. ˚रोत्सेध˚ । २ द. त्स । ३ पद्मप्रासादलक्षणस्यारम्भो गजपृष्ठप्रासादलक्षणस्यावसानं च नोपलभ्यते । ४ द. ना । ५ द. तिः । ६ द. च्छे˚ । ७ द. ला । ८ ˚र्गमं˚ । ९ द. ˚षभस्य । १० द. ध्ये । ११ द. ˚नी तस्य ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४३९ मुक्तकोणे यथा तच्च भेदः कर्मविभेदनात् । चतुरश्रे स्मृतो¹ मध्ये कर्णशृङ्गे विचक्षणैः ॥ ५९ ॥ नलिनः ॥ ब्रूमोऽथ मणिकं तस्य शालालिङ्ग(न्द)समुद्गता । अलिन्दकार्धसीमायां सर्वतः स्याच्चतुष्किका ॥ ६० ॥ श्रेयःपुष्टिसुखार्थोऽयं मणिकोऽत्र विमानवत् । दशधा क्षेत्रसीम्नः स्याद् विभागः सर्वतोदिशम् ॥ ६१ ॥ रथ ³+ कर्णिकार्धं च जलवर्त्माथ भद्रकम् । मूलगर्भस्तथोत्सेधो घण्टा स्तम्भान्तविस्तृता ॥ ६२ ॥ भूमिजङ्घासमुत्सेधः कपोताद् द्वारनिर्गमः । सिंहकर्णा विमानानि स्तम्भचित्रादिकास्तथा ॥ ६३ ॥ तोरणान्यथ माल्यानि तस्यालङ्करणानि च । नीलोत्पलदलाकारा मञ्जर्यः सर्वशोभनाः ॥ ६४ ॥ विमानमपरं ह्येतद् योनिरेकैस्तयोर्द्वयोः । केवलं भद्रभेदेन मणिको⁴ द्राविडोऽप्ययम् ॥ ६५ ॥ मणिकः ॥ प्रासादमथ वक्ष्यामो गरुडं सर्वसुन्दरम् । दशधा क्षेत्रविस्तारं तस्य पूर्वं विभजयेत् ॥ ६६ ॥ द्वौ भागौ रथिकाः कार्या मूलकर्णाद् विनिस्स्रुताः । भद्रं षड्(भाग)विस्तारं पक्षवंशादिभेदितम् ॥ ६७ ॥ अलिन्दनिर्गमः कार्यः⁶ सीमार्थेन चतुर्दिशम् । मूलसीमा तु कर्तव्या सलिलान्तरवर्जिता⁷ ॥ ६८ ॥ स्यान्मूलसीमविस्तारात् स्कन्धः स्याद् द्विगुणोच्छ्रितिः । प्रासादस्य समुच्छ्रायात् त्रिभागेन समेखलाम् ॥ ६९ ॥ जङ्घामन्तरपत्रेण (९कुं+युक्तं कुर्व्वस्तनसा ?) । जी(ही)रकं वेदिबन्धं च भागत्रयसमुच्छ्रितम् ॥ ७० ॥ १ द. ˚ते मध्यः । २ द. ˚त्रे । ३ द. कं । ४ द. का तयोर्द्वयोः । ५ द. का द्र˚ । ६ द. र्याः । ७ द. ताः । ८ द. ला । ९ द. कुं युक्तं कुर्वीत सो ।
४४० समराङ्गणसूत्रधारे अलिम्बा(न्दा)नां समुत्सेधं शे(शि)खरार्धेन कारयेत् । षड्भागं स्कन्धविस्तारं विदधीत विचक्षणः ॥ ७१ ॥ ग्रीवार्धभाग(मुत्से)धाद् भागमामलसारकम् । कुमुदं चार्धभागेन कुम्भः स्यादेकभागिकः ॥ ७२ ॥ गरुडः ॥ अथोच्यते वर्धमानो दशधा तं विभाजयेत् । पादोनांशद्वयं कुर्यात् पार्श्वयोः कर्णविस्तृतिम् ॥ ७३ ॥ सपादपदविस्तारौ रथकौ वामदक्षिणौ । चतुर्भागोन्मितं भद्रं विस्तारेण प्रकीर्तितम् ॥ ७४ ॥ विस्तारो(राद्) द्विगुणोच्छ्रायं स्कन्धं यावत् प्रकल्पयेत् । खुरकस्याथ जङ्घाया मञ्जरीस्कन्धयोरपि ॥ ७५ ॥ ग्रीवामलसारकादेः प्रमाणं गरुडे यथा । वर्धमानः ॥ द्वाविंशतिकरायामः शङ्खावर्तोऽथ कथ्यते ॥ ७६ ॥ मूलसीमावृत्तनाहस्तस्य स्यात् पद्मके यथा । भित्तिगर्भस्य विस्तारः (पादेनार्धनवकमात् ? ) ॥ ७७ ॥ अलिन्दमग्रतः कुर्यात् सिंहकर्णविभूषितम् । उत्सेधत्र्यंशतो जङ्घा (वेद्यं ?) तत्र विभागतः ॥ ७८ ॥ आस्कन्धं वेदिकाबन्धाद् विस्तृतेर्द्विगुणोच्छ्रितिः । मेखलान्तरपत्रं च जङ्घामध्ये विधीयते ॥ ७९ ॥ भ्रमयेत् कर्णसूत्रेण बहिर्वृत्तं समन्ततः । कर्णदिक्पालयोर्मध्यं वृत्तसूत्रेण वर्तयन्(येत्) ॥ ८० ॥ अवशिष्टं त(ल)च्छन्दं स्वस्तिकस्येव कारयेत् । ग्रीवा(में)मलसारं च कलशं वारिनिर्गमम् ॥ ८१ ॥ कुर्वीत स्वस्तिकस्येव विस्तारोत्सेधमानतः । शू(मू)लसीमानुसारेण च्छेदे संचरणं भवेत् ॥ ८२ ॥ १ द. तथा मुद्रित पुस्तकेऽपि ‘पादेनार्धेन च क्रमात्’ पाठः । २ द. ण । ३ द. मा ।
विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४१ तद्रूपमेव लतिनं वर्तयेद् वलनाकृतिम्¹ । शङ्खावर्तः ॥ ब्रूमोऽथ पुष्पकं स स्याद् विमानसदृशाकृतिः ॥ ८३ ॥ तावत्प्रमाणस्तद्वृद्धिः पञ्चभूश्चतुरश्रकः । (विमानेन मानयुक्त ?) यन्मञ्जर्या यच्च लक्षणम् ॥ ८४ ॥ तत् कार्यमत्र मञ्जर्या नतु कार्य जलान्तरम् । पुष्पकः ॥ गृहराजमथ ब्रूमः स स्यात् कैलाससन्निभः ॥ ८५ ॥ विटङ्कनिर्गमाधारनिर्यूहैः सर्वतो वृतः³ । वलभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥ ८६ ॥ कपोतस्तम्भपर्यन्तः शाला(ल)भञ्जीविराजितः । वेदिकाखण्डजालाद्यं क++ परितो भवेत् ॥ ८७ ॥ (कुर्वीत ?) मल्लकैश्छाद्यैः सिंहकर्णैश्च भूषितः । अलिन्दभेदतः प्राहु(गृह)राजमितं(मं) बुधाः ॥ ८८ ॥ कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपि च । गृहराजः ॥ ब्रूमोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥ ८९ ॥ तेनैव लतिनं सर्वं कुर्वीतैवं विचक्षणः । यथा मूले विभक्ताः स्युर्लतिनैस्वस्तिकादयः ॥ ९० ॥ तथैषां स्कन्धभक्तानां मध्ये रेखां प्रकल्पयेत् । प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥ ९१ ॥ (सुँधानासोदयैः ?) खस्य कर्तव्यः स+भागिकः । स्कन्धं यावत् समुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९२ ॥ (त्यवृ?) द्वागोच्छ्रिता जङ्घा मेखला⁷ चा+भागिकी । मध्यशाला द्विभागाश्च मूलसूत्रविभागत्ः ॥ ९३ ॥ १ द. तिः । २ द. द । ३ द. दतः । ४ द. का । ५ द नः । ६ द. मुद्रित पुस्तके ‘शुकनासोदयः’ इति पाठः स्यात् । ७ द. र्य । ८ द. लां । वा. ५६
४४२ समराङ्गणसूत्रधारे
कर्णा¹ द्विभागिकाश्चैव जलमार्गस्तु षोडश । अष्टौ शाला भवन्त्यस्मिन् कर्णाश्चाष्टौ समन्ततः ॥ ९४ ॥ प्राग्ग्रीवं बाह्यतः कुर्यात् ( ²मुखभाग³ ? ) विचक्षणः⁴ । कलशश्चण्डिका ग्रीवा तद्वदामलसारकः ॥ ९५ ॥ ऊर्ध्वं ऊर्ध्वप्रमाणं च यथैवाद्य(?)तथा भवेत् । स्वस्तिकः ॥ रुचकं ब्रूमहे तस्य विभागो दशधा भवेत् ॥ ९६ ॥ भागद्वयमितौ कर्णौ भद्रं षड्भागसम्मितम् । तेषां विनिर्गमं विद्या( ५दैस्तामात्रा ? ) प्रमाणतः ॥ ९७ ॥ कुर्यादुदकमार्गांश्च प्रासादे रुचके क्वचित् । स्कन्धावशिष्टमुत्सेधो विस्ताराद् द्विगुणो भवेत् ॥ ९८ ॥ वेदिकायास्तु विस्तारः स्कन्धे षड्भागिकः स्मृतः । तृतीयांशेन कुर्वीत जङ्घामूर्ध्वं सुरोदयान्⁷ ॥ ९९ ॥ जङ्घायाश्च त्रिभागेन कार्या खुरखरण्डिका । मेखलान्तरपत्रं च कुर्यादध्यक्षभागिकम् ॥ १०० ॥ सार्धत्रिगुणसूत्रेण पूर्वा कर्कटना भवेत् । ( १०चतुर्गुणं मूलसूत्रेण मध्ये कर्कटना स्मृतौ ? ) ॥ १०१ ॥ विभज्य दशधा स्कन्धविस्तारं तैः प्रकल्पयेत् । भद्रं चतुर्भिः ११कर्णांशु(र्णांस्तु ) कुर्याद् भागैस्त्रिभिस्त्रिभिः ॥१०२॥ स्वच्छाया भूमिकाः कार्या या¹² वा मूलार्धभागिकीः¹³ (?) । भागेनामलसारं च कुमुदं चार्धभागिकम् ॥ १०३ ॥ कुम्भं भागेन कुर्वीत प्रासादे¹४ रुचके¹⁵ बुधः । साधारणोऽयं सर्वेषां प्रासादस्तु दिवौकसाम् ॥ १०४ ॥ रुचकः ॥
१ द. र्ण । २ मुद्रित पुस्तके 'मुखभागे' इति स्यात् । ३ द. गे । ४ द. णैः । ५ मु. पु. 'हस्तमात्रम्' इति स्यात् । ६ द. न्धो । ७ द. विश । ८ द. न् । ९ द. ता । १० मुद्रित पु. 'चतुर्गुणेन सूत्रेण मध्यकर्कटना स्मृता' । इति स्यात् । ११ द. कर्णांशु कुं । १२ द. ग्रीवा । १३ द. की । १४ द. द । १५ द. कं ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४० पुण्ड्रवर्धनकं ब्रूमः प्रासादं वल्लभं हरेः । भ्रमयेन्मूलसीमाष्टग्वृत्तमादौ समन्ततः ॥ १०५ ॥ तच्छालाकर्णसंयुक्तं कर्तव्यं सर्वतोदिशम् । यच्छन्दः स्वस्तिकेऽस्य(स) स्याद् द्विगुणः पुण्ड्रवर्धने १०६ ॥ जङ्घोदकान्तभद्राणामुच्छ्रायो विस्तृतिश्च या । स्वस्तिके कथिता सैव विज्ञेया पुण्ड्रवर्धने ॥ १०७ ॥ पुण्ड्रवर्धनः ॥ अथाभिधीयते मेरुर्दशधा तत्र भाजयेत् । सीमा(नं) तस्य कुर्वीत शृङ्गं चापि (वि ?) भागिकम् ॥ १०८ ॥ १शेषं + भागिकं भद्र( २मांयमाने ? ) ३विधीयते । पदस्य षोडशौसेने(शांशेन ) कर्तव्यमुदकान्तरम् ॥ १०९ ॥ पदैः षोडशभिर्गर्भो विधातव्यः पदं पदम् । भित्तिरन्धारिका बाह्यभित्तिश्चास्य विधीयते ॥ ११० ॥ भागषट्कोच्छ्रिता जङ्घा मेखला चैकभागिकी५ । शृङ्गं च त्रिपदोत्सेधं शिखरं स्याद् दशोच्छ्रितम् ॥ १११ ॥ कर्तव्यं वास्तुशास्त्रज्ञैस्तरस्यैकादशभूमिकम् । अर्धपञ्चमविस्तारः स्कन्धो ग्रीवार्धभागिका ॥ ११२ ॥ उच्छ्रायेण विधातव्या भा(गि)क्रोत्सेधमण्डकम् । भागार्धि(र्ध)कं च कुमुदं भागिका कलशोच्छ्रितिः ॥ ११३ ॥ षड्गुणेनैव सूत्रेण रेखा तस्य प्रकीर्तिता । मेरुं मेरुगिरिप्रख्यमेवं यः कारयेदिमम् ॥ ११४ ॥ शिलाभिरिष्टकाभिर्वा स महत् पुण्यमाप्नुयात् । मेरुः ॥ लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥ ११५ ॥ १ द. शेषं षड्भागिकं भद्रमा° । २ 'मायामेन' इति मुद्रित पुस्तके पाठः स्यात् । ३ द. भि । ४ द. षोडसांशेन । ५ द. तरां । ६ द. का । ७ द. च्छ्र । ८ द. र्धि । ९ द. षड्गुणो न च सू° ।
४४४ समराङ्गणसूत्रधारे गर्भ¹स्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्द²रे । ³+++ मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥ ११६॥ वलभी⁴ मध्यदेशे तु शिखरोर्ध्वसमुद्भूता⁵ । सर्वमा(म)न्यत् प्रमाणं तु मेरोरिव भवेदिह ॥ ११७॥ मन्दरः ॥ कैलासमथ वक्ष्यामो दशधा तं विभाजयेत् । भद्रं षड्भागविस्तारं मध्यदेशे विनिःसृतम् ॥ ११८॥ कर्ण(र्णा) द्विभागविस्ताराः सलिलान्तरवर्जिताः । गर्भस्यार्धेन निष्कासः कार्यो भद्रस्य सर्वतः ॥ ११९॥ (लँतिस्याखरं ?) मध्ये शिखराधसमोदयम् । भित्तिगर्भभ्रमन्तीनां जङ्घामेखलयोरपि ॥ १२०॥ विस्तारमुदयं चास्मिन् विदध्यात् स्कन्धशृङ्गयोः । मेरोरिवास्मिन् प्रासादे (वैवचद्ध ?) ग्रीवाण्डकस्य च ॥ १२१ ॥ कैलासः ॥ ब्रूमोऽथ हंसक(म)स्य स्याद् विभागो रुचके यथा (?) । जलान्तरं विशेषोऽत्र शेषं⁹ भ(रु) चंकवद् भवेत् ॥ १२२॥ हंसः ॥ भद्रस्य लक्षणं ब्रूमो दशधा तं विभाजयेत् । गर्भविस्तारमानेन स्यादस्मिन् भद्रविस्तृतिः¹¹ ॥ १२३॥ सार्धद्विभागविस्तारौ रथकौ वामदक्षिणौ । गर्भाधा(?) तुल्यमायामात्¹² प्राग्ग्रीवं चेह(लं ?) कारयेत् ॥ १२४॥ प्राग्ग्रीवस्य समुत्सेधं शिखराधेन कारयेत् । वलभीं¹³ मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ॥ १२५ ॥ १ द. र्गं । २ द. न्दिं । ३ द. मंदिरं । ४ द. भीं । ५ द. च्छ्रिता । ६ द. लतिः स्याच्छिखरं मध्ये । ७ द. न्ता । ८ द. व बद्ध । ९ द. षे । १० द. व । ११ द. स्तृ । १२ द. सा । १३ द. भी ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४५ ( १लताजलेगवाक्षाद्यैो ? )२श्चतुष्काभिश्चतुर्दिशम् । भद्रो भवति शेषं तु स्यादत्र रुचके यथा ॥ १२६ ॥ भद्रम् ॥ अथ ३तुङ्गं प्रवक्ष्यामो द्वितीयो ह्येष मन्दरः । भूषयेत् सिंहकर्णैस्तं लतामूर्ध्वं च कारयेत् ॥ १२७॥ भूमि४र्भूमिसमुत्सेधः स्तम्भचित्रौ५दिकं तथा । मेरोरिवात्र मध्ये तु मञ्जर्यः सर्वतोदिशम् ॥ १२८॥ तुङ्गः ॥ ब्रूमोऽथ मिश्रकं स स्यान्मानसंस्थानलक्षणैः । भौमो(?)६वि( मानव )न्मध्ये शृङ्गं कैलासवद् भवेत् ॥ १२९ ॥ मिश्रकः ॥ ( अथ मालामाकारं तु तं कृत्वा गवाक्षैरुपशोभयेत् ?७) । यत्किञ्चिन्मानमध्यं तु तदाद्यस्येव ( प्र ?)कल्पयेत् ॥ १३० ॥ गवयः ॥ चित्रकूतमथ ब्रूमो दशधा तं विभाजयेत् । प्राग्ग्रीवा निर्गता(?) तस्य गर्भमानेन कारयेत् ॥ १३१ ॥ सार्धद्वर्यार्घो८विस्तारांस्तत्कर्णान् वामदक्षिणान् । उत्सेधस्य ९त्रिभागेन जङ्घोत्सेधं प्रकल्पयेत् ॥ १३२ ॥ जङ्घोत्सेधत्रि१०भागेन विन्यस्येत्११ खुरपिण्डिकाम् । कपोता१२न्तरपत्रं च तत्र स्यादधभागिकम् ॥ १३३ ॥ शिखरोत्सेधमानं यत् तत् त्रयोदशभिः पदैः । तत्र( भूमां१३स्तदुत्सेधं ? ) कल्पयेदनुसारतः ॥ १३४ ॥ ( स्तास्तम्भसो भित्तिः १४ ?) कुर्यान्मुक्ताश्च परिकर्मणा । कूटच्छेदेन तत्कर्म विन्यस्येत्१५ सर्वतोदिशम् ॥ १३५ ॥
१ मु. पु. ‘लताजालगवाक्षाद्यैः’ इति स्यात् । २ द. प्रतौ यश्चचतुष्की । ३ मु. पु. ‘उन्नुङ्ग’ इति लक्ष्यनिर्देशे पश्यते । ४ द. भू । ५ द. विवा । ६ द. वि । ७ अत्र मालाधरप्रासादलक्षणस्यावसानं, गवयप्रासादलक्षणस्यारम्भश्च मातृकायां नोपलभ्यते । ८ द. यां । ९ द. वि । १० द. वि । ११ द. से । १२ द. लासु । १३ द. मी । १४ द. तः । १५ द. से ।
भक्तमन्तरपत्रेण तलच्छन्दं तदूर्ध्वतः । द्वे द्वे कूटो ततो न्यस्येद् वामदक्षिणकर्णयोः ॥ १३६ ॥ शालामध्ये तु चत्वारि (नामे ?)कूटानि सर्वतः । भूमिकाः सिंहकर्णाश्च कपाटद्वारघटनाः ॥ १३७॥ शिखराणां समुत्सेधो त(य)थैवाद्ये तथा भवेत् । चित्रकूटः ॥ किरणः कथ्यते से स्यात् पद्मतुल्यः³ प्रमाणतः ॥ १३८ ॥ द्वात्रिंश(दनारा ?) नस्मिन् विदध्यात् षोडशाथवा । शालासु भेदः कर्णैः स्याच्छेषं मालाधरे यथा ॥ १३९ ॥ किरणः ॥ सर्वाङ्गसुन्दरं ब्रूमः कर्मभेदैरनेकता । नानाश्ल्पिलताधारं प्रासादैर्बहुभिर्युतम् ॥ १४० ॥ (तलच्छन्दतुल्यन्यासविरूक्तं ?) बहुलक्षणम् । ना ++++++ प्रासादे सर्वसुन्दरे ॥ १४१ ॥ तोरणैः सिंहकर्णैश्च संयुक्तं परिकर्मभिः । प्रमाणमिह यत्किञ्चित् सर्व विद्यात् तदाद्यवत् ॥ १४२ ॥ सर्वसुर्न्दरः ॥ श्रीवत्समथ वक्ष्यामो दशधा तं विभाजयेत् । भागत्रयेण कुर्वीत शालां तत्र विचक्षणः ॥ १४३ ॥ सार्धभागप्रविस्तारौ रथकौ वामदक्षिणौ । मूलकर्णा भवन्त्यत्र भागद्वितयविस्तृताः ॥ १४४ ॥ प्रासादहस्तमात्राभिः प्रत्येकं भद्रनिर्गमः । द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमे(व वा) ॥ १४५ ॥ १ द. पु । २ द. स्वा । ३ द. त्याः । ४ द. विं । ५ द. ˚त्पं लाला˚ । ६ द. भ । ७ द. र्णेः संयुक्तः । ८ द. प्रतौ नास्ति । ९ इह श्रीवत्सः पद्मनाभः वैराजः वृत्तकः नन्द्यावर्तः वलभीः सुपर्णः इत्येतेषां प्रासादानां क्रमेण लक्षणेषु वक्तव्येषु तानि आदर्शग्रन्थे तथा संकुलतया लिखितानि, यथा मिथो विवेक्तुं न शक्येरन् । अतो यथास्थित एवादर्शपाटो मुद्रणीय आपतितः । किन्तु पद्मनाभ-वैराज- वृत्तकानां लक्षणं परं क्रमिकं दृश्यते । १० द. ती ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४७ (भैली ?) मध्ये तु मञ्जर्यः कार्याः पद्मदलोपमाः । सर्वतः परिकर्म स्याद् रथिका कर्णसंश्रयौ ॥ १४६ ॥ आमलैँश्चन्द्रशालाभिः स्कन्धान्तं परिपूरयेत् (?) । खुरपिण्डौँ च जङ्घा च कुम्भायं शिखरादिँ च ॥ १४७ ॥ यत्किञ्चित् तत् प्रमाणेन वर्धमानसमं भवेत् । नन्द्यावर्तः ॥ ब्रूमो वलभ्यं स भवेद् गृहराजस्य सन्निभः ॥ १४८ ॥ आर्व(य)तश्चतुरश्रो वा प्रमाणैनैकतः समः । चतुरश्रंस्तु विस्तारादुदयो(ये) द्विगुणो भवेत् ॥ १४९ ॥ (आद्यतन्त्रस्य पुनः सार्धः स्कन्धोच्छ्रायो विधीयते ? ) । (विस्तारं दशधा समक्ष + तुरश्च समन्तः ?) ॥ १५० ॥ विभाजे (भागे) स्यात् ततो मानं पूर्वप्रासादसन्निभम् । स्वरूपं तस्य वक्ष्यामः श्रीवत्समिव तं भवे ( जे ) त् ॥ १५१ ॥ यद्वा विमानरुचकवर्धमानादिसद्मनां । छन्दे नैकस्य कस्यापि प्रासादस्य विभाजयेत् ॥ १५२ ॥ भूस्तम्भपरिकर्माणि विस्तारोत्सेधमेखलाः । सिंहकर्णरथा घण्टा तथा कुम्भाग्रषण्डकम् ॥ १५३ ॥ यत्किञ्चित् तत् प्रमाणेन यथैवाद्यं तथा भवेत् । वलभ्यः ॥ सुपर्णस्य (स्व) रूपं च प्रमाणं चाभिधीयते ॥ १५४ ॥ विभक्तं सिंहरूपेण सर्वभद्रं निवेशयेत् । भागैश्चतुर्भिर्निष्क्रान्तं भद्रं (गैँभयितः ?) समम् ॥ १५५ ॥ द्वौ भागौ मूलकर्णौ तु षड्भागा भद्रविस्तृतिः । पञ्चभागोच्छ्रिता जङ्घा मेखला तस्य भागिका ॥ १५६ ॥ १ द. शाला । २ द. यां । ३ द. लै । ४ द. ण्डी । ५ द. 'रोदिव । ६ द. प । ७ द. स्रस्य । ८ द. पुरश्च समंततः । ९ द. विभजेत् । १० द. नां । ११ द. गर्भायतः; मुद्रित प्रतौ 'गवयत:' इति स्यात। १२ द. द्वि ।
४४८ समराङ्गणसूत्रधारे मूलजङ्घात्रिभागेन खुरवेदिसमुच्छ्रितिः¹। ( सच ?) मध्ये तु शृङ्गे द्वे कर्तव्ये² वामदक्षिणे ॥ १६७ ॥ उच्छ्रायाद् द्विपदे स्यातां विभक्ते सर्वतोदिशम् । मूलकर्णेषु शृङ्गाणां त्रिपदा स्यात् समुच्छ्रितिः ॥ १६८ ॥ +++++ सेवापि चतुरङ्गुलमेव वा । कुर्याज्जालौ( ध ?)विस्तारं श्रीवत्से नन्दने यथा ॥ १६९ ॥ विस्ताराद् द्विगुणोत्सेधः स्कन्धः षड्भागविस्तृतः । उत्सेधस्य त्रिभागेन जङ्घोत्सेधो विधीयते ॥ १७० ॥ तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् । मेखलान्तरपत्रं च विदध्यात् सार्धभागिकम् ॥ १७१ ॥ विभाज्या दशभिर्भागैः पूर्ववत् स्कन्धविस्तृतिः⁴। सार्धद्वैगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥ १७२ ॥ चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् । श्री( ग्री )वार्थभागमुत्सेधात् कुमुदं कुम्भकं पुनः ॥ १७३ ॥ अस्मिन्नामलसारं च यथा⁵ चाद्ये तथा भवेत् । श्रीवत्सः ॥ पद्मनाभंमथ ब्रूमः पद्मशालाभिरन्वितम् ॥ १७४ ॥ द्वितीयः⁶ पद्मकॊ ह्येष पद्ममालाधरः शुभः । सर्वमन्यत् प्रमाणं तु पद्मस्वस्तिकयोर्यथा ॥ १७५ ॥ पद्मनाभः ॥ वैराजमथ वक्ष्यामि⁷ स विज्ञेयो विमानवत् । ( रूपशिखं + मुत्सेधस्तम्भग्रीव + रूपकम् ? ) ॥ १७६ ॥ संभातोरणनिर्यूहसिंहकर्णा( र्णै )श्च तादृशैः¹²। साधारं चतुरश्रं च तं कुर्यात् पञ्चभूमिकम् ॥ १७७ ॥ १ द. तिं । २ द. व्यो । ३ द. जलाध । ४ द. तिं । ५ द. त्रि । ६ द. यथैवाद्ये । ७ द. क । ८ द. यं । ९ द. मः । १० द. वे । ११ द. स्तंभ । १२ द. शः ।
विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४४९ विमानसदृशाकारो वैराजोऽयमुदाहृतः । ²वैराजः ॥ ब्रूमोऽथ वृत्तकं मूले चतुरश्रः प्रकीर्तितः ॥ १७८ ॥ जङ्घामूले ततोऽष्टाभिस्त्रि( त्रि )वृत्तो भागत्तृतीयेके । मूलमध्याग्रतः³ पूर्णं तं कुर्यात् सर्वतोदिशम् ॥ १७९ ॥ भद्राकारं च भद्रेषु विभागे४ चतुरश्रके । ( अष्टाश्रिवज्र्रंकाकारा ? ) वृत्ते स्वस्तिकसन्निभम् ॥ १८० ॥ यथा मूलैविभागेन लतिनः स्वस्तिकोदयः । तथा वृद्धिप्रमाणाभयामयमप्याद्यवद् भवेत् ॥ १७१ ॥ वृत्तकः ॥ नन्द्यावर्तमथ ब्रूमो दशधा तं विभाजयेत् । ( र्पादोमध्यंशविस्तारो ? ) कर्णौ कुर्वीत पार्श्वयोः ॥ १७२ ॥ चतुर्भागप्रविस्तारं भद्रमस्य प्रकल्पयेत् । सपादपदिकं कुर्याच्छालाकर्णान्तरे रथम् ॥ १७३ ॥ जलाधाररथं कर्णं( तः ? )शालान्तेषु यथेष्टितः । ष+सु शिखरायामास्तन्मध्ये वलभी भवेत् ॥ १७४ ॥ जलमार्गं चैं कुर्वीत शालाकर्णान्तमूलयोः । प्रमाणमन्यथा किञ्चिद् ( भूसिंहस्येव ? ) कारयेत् ॥ १७५ ॥ सुपर्णः ॥ प्रमाणमथ सिंहस्य लक्षणं चाभिधीयते । दशधा क्षेत्रविस्तारं विभजेत् सर्वतः समम् ॥ १७६ ॥ द्विभागौ मूलकर्णौ तु कर्तव्यौ वामदक्षिणौ । मूलभद्रस्य विस्तारः षड्भिर्भागैर्विधीयते ॥ १७७ ॥ १ द. वि । २ द. वि । ३ द. तत् । ४ द. गं। ५ मुद्रित पु. ' अष्टाश्रौ वज्रकाकारम् ' इति स्यात् । ६ द. ज्ञ । ७ द. ला । ८ मुद्रित पुस्तके ' पा दोनब्यंशविस्तारौ ' इति पाठः स्यात् । द. प्रतौ च इत्येव पाठः । ९ द. लां । १० द. र्णन्तिः । ११ द. यथोष्टितः । १२ द. र्गाश्च । वा. ५७
४५० समराङ्गणसूत्रधारे विस्तारो द्विगुणैः कार्यः स्कन्धोत्सेधप्रमाणतः । पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी ॥ १७८ ॥ खुरकं वेदिबन्धं च तैत्त्रिभागेन कल्पयेत् । भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥ १७९ ॥ सिंह(स्य) कर्णवन्मध्ये वलभी भूषयेद् बुधः । सर्वमन्यत् प्रमाणं च सर्वतोभद्रवद् भवेत् ॥ १८० ॥ सिंहः ॥ विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत् । (४द्विभागिको मूलभद्रस्य ?) हस्ततुल्याङ्गुलो भवेत् ॥ १८१ ॥ शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत् । कूटे द्वे सर्वतो न्यस्येच्छ्लिष्टे + मूलक + योः ॥ १८२ ॥ एष भेदः समुद्दिष्टः शाला स्यात् कूटवर्जिता । प्रमाणमन्यत् सर्वं तु विज्ञेयं चित्रकूटवत् ॥ १८३ ॥ ६विचित्रकूटः ॥ योगपीठमथ ब्रूमात्रिविष्टपमिवोत्तमम् । विभजेद् भागविंशत्या चतुरश्रं समन्ततः ॥ १८४ ॥ (कोष्ठान्यद्भागविस्तारा ?) कुर्याद् दिक्षु विदिक्षु च । भागिकौ जलमार्गौ च विदध्याद् वामदक्षिणौ ॥ १८५ ॥ विस्तारात् तेषु गर्भः स्याद् भागत्रितयसंमितः । पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ॥ १८६ ॥ खुरकं वेदिबन्धं च कुर्याद् भागत्रयोच्छ्रितम् । विस्तारात् (कुर्याद् दिक्षु ?) द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः ॥ सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः । रचनास्य विधातव्या कथिता पुष्पके तथा ॥ १८८ ॥ १ द. रा । २ द. णा । ३ द. त्रि । ४ द. द्विभागिकौ मूलकर्णौ षड्भागाद्द्रुद्विविस्तृतिः । निर्गमो मूलभद्रस्य हस्ततुल्यांगुलो भवेत् । ५ द. न्यस्येत्संश्लिष्टे मूलकर्णयोः । ६ द. मुद्रित पुस्तके 'विचित्र' इति लक्ष्य निर्देशे पठितः । ७ द. य ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५१ सान्धारः केवलं कार्यः प्रासादोऽयं विचक्षणैः । योगपीठः ॥ घण्टानादमथ ब्रूमः सं भवेत् पञ्चभूमिकः ॥ १८९ ॥ अष्टाश्रिःकोणः कर्तव्यः संस्थानात् पुष्पकोऽपरः । भैरवो भद्रकाली च (स्थाप्यै चात्र पाठैको ?) ॥ १९० ॥ घण्टानादः ॥ पताकिनमथ ब्रूमो वातोद्भूतमिवार + । लतिनं लतिनाकारं ( ? ) विभक्तं सर्वतोदिशम् ॥ १९१ ॥ तं चण्डिकायाः कुर्वीत रुचकं वर्धमानकम् । ( वृक्षपताकिनं वक्ष्यामि + भृतं शाखिनं यथा ? ) ॥ १९२ ॥ पताकिनः ॥ गुहाधरमथ ब्रूमः श्रीपुष्टिसुखदायिनम् । विभक्ते दशधा क्षेत्रे भद्रं स्याद् गर्भमानतः ॥ १९३ ॥ अर्धेन मूलगर्भस्य कार्यों भद्रस्य निर्गमः । सार्धभागप्रविष्टारौ कर्णौ द्वौ द्वौ च पार्श्वयोः ॥ १९४ ॥ ( जैलाधा ? ) मूलकर्णान्ते कर्तव्यः पार्श्वयोर्द्वयोः । तद्द्वारमध्यदेशे तु विन्यस्येत् स्तम्भतोरणम् ॥ १९५ ॥ विस्तारद्विगुणोत्सेधश्चतुःशृङ्गश्चतुर्मुखः ? । भूग्रीवामेखलाजङ्घाः कुम्भकामलसारके ॥ १९६ ॥ सिंहस्येव प्रकुर्वीत गुहाधारस्ततो भवेत् । द्वारभेदेन नामास्य प्रासादस्य विनिर्मितम् ॥ १९७ ॥ गुहाधरः ॥ कथयामोऽथ शालाकं दशधा नं विभाजयेत् । द्विभागिकौ मूलकर्णौ षड्भागा भद्रविस्तृतिः ॥ १९८ ॥ द्वाराणि भद्रमध्ये स्युर्मूलद्वारसमानि तु । चतुर्बाहुश्चतुर्द्वारो द्वितीयो रुचको ह्यसौ ॥ १९९ ॥ १ द. सं । २ द. श्रि । ३ द. प्या । ४ द. पीठके । ५ द. वृक्षं पंतान वं° । ६ द. मु । ७ द. जलधो । ८ द. था ।
४५२ समराङ्गणसूत्रधारे द्वारमानेन नामास्य शालाक इति कीर्तितम् । प्रमाणमन्यद् यत्किञ्चिद् भद्रकस्येव तद् भवेत् ॥ २००॥ शालाकः ॥ इदानीं वेणुकं ब्रूमश्चतुरश्रं समं शुभम् । न कुर्याद् भद्रनिष्क्राममात्रच्छत्रात्मनः( ? ) शुभम् ॥ २०१ ॥ विस्तारद्विगुणोच्छ्रायः कुम्भाग्रं¹ (यचेदिष्यत् ?)। शिखाद्विगुणमानस्य जङ्घा त्र्यंशेन कल्पते ॥ २०२ ॥ जङ्घात्रिभागमुत्सेधात् कार्या खुरवरण्डिका । कपोतान्तरपत्रं च कर्तव्यं सार्धभागिकम् ॥ २०३ ॥ चतुर्भागो(गे)न सूत्रेण वेणुकोशं समालिखेत् । सर्वतः शोभनं कुर्यात् तं कपोतविनिर्गमै² ॥ २०४ ॥ मुखेऽस्य सिंहकर्णाः स्युश्चन्द्रशालाविवर्जिताः । प्रमाणमस्य यत्किञ्चिद् वेणुकं च विधीयते ? ॥ २०५ ॥ वेणुकम् ॥ इदानीं कुञ्जरं ब्रूमो गजलक्षणलक्षितम् । अर्धसूत्रेण तत्सा(सी)म्नः पृष्ठतो वृत्तमालिखेत् ॥ २०६ ॥ चतुर्भागा भवेज्जङ्घा मेखला सार्धभागिका । वृत्ताकारं पृष्ठदेशे तं कुर्वीत विचक्षणः ॥ २०७॥ शालासु सिंहकर्णाः स्युः पार्श्वतः पृष्ठतोऽग्रतः । कर्णाश्च तस्य कर्तव्याः शृङ्गैः सर्वैर(वै³)ऽपि पूरिताः ॥ २०८ ॥ मध्यप्रदेशे वलभी कर्तव्या चातिशोभना । यत्किञ्चित् तत्प्रमाणं तु यथैवाद्ये४ तथा भवेत् ॥ २०९॥ कुञ्जरः ॥ अथ हर्षं प्रवक्ष्यामश्चतुरश्रं मनोरमम् । विस्तारात् सार्ध उत्सेधः (स्गौँद्धूयटां ?) मस्तकावधेः ॥ २१० ॥ १ द. 'ग्रं यावदिष्यति । २ द. मैः । ३ द. पुस्तके नास्ति । ४ द. द्यं । ५ द. स्याद्वर्धटाम- स्तकावधे ।
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४९३ छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम् । शुकनासं सुखातेन शोभितं परिकर्मणा ॥ २११ ॥ जङ्घामेखलयोश्च + सुरपिण्डस्य चोच्छ्रितिः । घण्टाग्रं चन्द्रशाला च च्छाद्यकं च यदृच्छया ॥ २१२ ॥ कुर्यात् प्रमाणमन्यच्च यथैव मनसः १प्रियम् । हर्षणः ॥ इदानीं विजयं ब्रूमः प्रासादं (सार्थ ?) शोभनम् ॥ २१३ ॥ लतिनो वर्धमानेन³ ++++ विभाजयेत् । शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥ २१४ ॥ अग्रप्राग्ग्रीवकौ कार्यों रथकौ वामदक्षिणौ । (कर्तव्योर्ध्वलतश्चापं पूर्णः ?) सर्वतोदिशम् ॥ २१५ ॥ विजयो वर्धमानश्च प्रमाणेन समावुभौ । अलिन्दभेदान्नामास्य कृतं विजय इत्यदः ॥ २१६ ॥ महापद्मः ॥ ब्रूमोऽथ हर्म्यं प्रासादं ४तं कुर्यादेकभूमिकम् । दारुजं चतुरश्रं च (पट्टर्तुलांभित्तिभिः ?) ॥ २१७ ॥ दण्डच्छाद्यं च कुर्वीत समन्ताच चतुष्किकाम् । ऊर्ध्वतस्तुम्बिकाक्रान्तं पद्मखण्डै⁷र्विभूषितम् ॥ २१८ ॥ मुखैः(खे) पत्रैर्गवाक्षैश्च वेदिकास्तम्भतोरणैः । वलभीशालभञ्जीभिः सिंहकर्णैश्च भूषयेत् ॥ २१९ ॥ विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्रयसंमितम् । हर्म्यः ॥ इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥ २२० ॥ कुर्याद् ⁸भूर्म्यमानेऽत्र द्वारि मण्डपभूषितम् । चतुर्द्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ॥ २२१ ॥ १ द. ला । २ द. पू । ३ द. नेनं विदाजं । ४ इह 'विजयः' इति लेख्यं भाति । महापद्म इति लेखनेन च विजयानन्तरक्रमलक्षणीयानामुदकुम्भमोदकमहापद्मानां लक्षणश्लोका गलिता इत्यनुमीयते । ५ द. तत् । ६ द. त्यामिदिभिः । ७ द. ण्डे । ८ द. कुर्यास्तं हं ।
४५४ समराङ्गणसूत्रधारे प्रमाणमन्यदप्यस्य हर्म्यस्यैवाखिलं भवेत् । उज्ज्यन्तः^{२} ॥ इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥ २२२ ॥ हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः । अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥ २२३ ॥ चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः । प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥ २२४ ॥ गन्धमादनः ॥ ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपंसमो भवेत् । विभजेद् भागविंशत्या पञ्चभौमं च कारयेत् ॥ २२५ ॥ +द्विभागानि कूटानि सैकमण्डशतं भवेत् । भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥ २२६ ॥ प्रमाणमस्य यत्किञ्चित् तत् त्रिविष्टपवद् भवेत् । निरवद्यः^{६} ॥ विश्रान्तमथ वक्ष्यामः सर्वतोभद्रसन्निभम् ॥ २२७ ॥ सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् । गवाक्षां वेदिजालाद्याः(?) कुर्याद् दिक्षु चतुष्किकाः ॥ २२८ ॥ विश्रान्तः ॥ मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा । साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥ २२९ ॥ वेदिर्षण्डाम्बुमार्गाद्यैः^७ प्रतोलीद्वारजालिकैः । सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥ २३० ॥ वृत्तस्तम्भस्तुलाच्छेन्नो बहिश्चाद्येन भूषितः । सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥ २३१ ॥ १ द. स्यै । २ द. प्रतौ नास्ति । ३ द. ऽथ सततं शृंगं । ४ द. पस्य । ५ द. त । ६ इद 'शतशृङ्ग' इति लेख्यम् । निरवद्यस्य लक्षणमपि गलितम् । ७ द. क्षं । ८ द. ख । ९ द. यः । १० द. च्छेद्रो ।