भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

१२२ सात्वतसंहिता अनुयागविधिकथनम् पश्चाच्छरीरयात्रार्थमभ्यर्थ्य परमेश्वरम् । लब्धानुज्ञस्तु वै कुर्यादात्मयागं यथाविधि ॥ १८१ ॥ भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् । विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ॥ १८२ ॥ सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी । चेतसा चातुरात्मीया भावनीया च भावना ॥ १८३ ॥ रसात्माऽध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः । प्रद्युम्नो भगवान् रूपे चैतद्वीर्ये तु लाङ्गलीन् ॥ १८४ ॥ भोक्ता महात्मा भगवान् वासुदेवः स्वयं ह्यजः । चतुःप्रणवसंजप्तं ततोऽम्भश्चुलुकं पिबेत् ॥ १८५ ॥ वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् । हुत्वा चाभिमतैर्ग्रासैस्ततोऽश्नीयाद् यथारुचि ॥ १८६ ॥ अथानुयागविधिमाह—पश्चादिति षड्भिः । आत्मयागम् = अनुयागमित्यर्थः । अबात्मतत्त्वं विज्ञेयं विहितं तस्य सर्वदा । आत्मनैवात्मसिद्धयर्थं यागमन्त्रेन तेन च ॥ सह यज्ञावशिष्टेन साम्बुना च फलादिना । —(पौ०सं० ३९।१७१-१७२) इति पौष्करोक्तेः । पवित्रीकृत्य चाम्भसेत्यत्र सच्चरित्ररक्षायाम्—'अयोग्यजन- निरीक्षितत्वयातयामत्वादिदोषसंभावनायां तन्निवृत्त्यर्थं पवित्रीकरणोक्तिः' (पृ० १२५) इति व्याख्यातम् । विनिवेद्य च देवायैत्यत्राऽन्तरात्मनिवेदनं बोध्यम् । तथा च सच्चरित्ररक्षायाम्— हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः । मध्यमानामिकाङ्गुष्ठैर्गृहीत्वान्नं मितं पुनः ॥ प्राणाय चेत्यपानाय व्यानाय च ततः परम् । उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ॥ —(पृ० ९७) इति कर्मकाण्डवचनमुदाहृतम् । पारमेश्वरव्याख्याने तु—'देवाय स्वगृहार्चा- भूताय विनिवेद्य' इति लिखितम्, तदप्रकृतम्, वाक्यस्यान्तरात्मनिवेदनपरत्वात् । तथा च सच्चरित्ररक्षायाम्—'ओदनपचने शुच्यन्नं श्रपयित्वा वेद्यां भगवते नयति । वेद्यां भगवन्तमिष्ट्वा तत्कारिभ्यः प्रयच्छति । कारिणोऽपि प्राप्तेनान्नेन वेद्यां भगवन्तमिष्ट्वा तद्धात्र उपनयन्ति । उपनीतेन धाता स्वयं च कुरुते शिष्टेन च भृत्यान् बिभर्ति' इत्यादिरहस्याम्नायवाक्यार्थविचारणप्रकरणे धात उपनयन्तीति वाक्यस्यान्तरात्म- परत्वमुक्त्वा तत्साधकत्वेन च—'विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा' (६।१८२) (पृ० १२२) इत्यादिसात्वतवचनमुदाहृतम् ।

षष्ठः परिच्छेदः १२३ ननु भवदुदाहृतरहस्याम्नायवाक्येष्वेव भगवन्निवेदितान्नस्य कारिभ्यः प्रदानम्, तेनैवान्नेन कारिभिः स्वार्थभगवद्यजनं कार्यमित्युक्तं खलु, तत्पुनः कथमप्रकृतमिति चेत्, अनभिप्रायज्ञोऽसि । तस्मिन्नर्थे को वा विवादः । तथा कारिप्राप्तान्नेन भगवद्यजनं सर्वसंमतम् । किन्तु विनिवेद्य च देवायेत्यत्र तादृशार्थो वर्णितुं न शक्यते । यत एतद्वाक्यं नहि कारिणां कर्मानुष्ठाननिरूपकम्, अपि तु भगवन्तमिष्टवतः कारिप्रदानं कृतवतोऽनुयागं कुर्वतस्तत्प्रकारनिरूपकमिति बोध्यम् । ननु परार्थमिष्टवता स्वार्थे भगवान् परित्याज्यः किमिति चेत्, ब्रूमः—परिग्राह्य एव पत्रादिभिः पूजनीयः, स्वेन साष्टाङ्गप्रणामादिना सेव्यश्च । किन्त्वस्यापि साष्टाङ्ग- यजनं कर्तुं स्वस्यानवकाश इति ज्ञेयम् । अत एव पारमेश्वरादिषु द्वादशकालार्चनं कुर्वतः कालत्रयेऽप्याह्निकमात्रस्यावकाश उक्तः, न तु स्वार्थाराधनस्य प्रत्येकं कालः प्रदर्शितः । न च द्वादशकालार्चनं कुर्वतः स्वार्थार्चनावकाशो माऽस्तु, त्रिकालाद्यार्चनं कुर्वतः स्वार्थार्चने को विरोध इति वाच्यम्, तदानीमपि स्वार्थार्चनकालस्यानुक्तत्वमेव विरोधः । ननु— प्रातर्मध्यन्दिनं सायं त्रयः कालाः प्रकीर्तिताः । तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ इति स्वार्थाविरोधेन परार्थाधिकृतस्य च । एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ तथैव दीक्षितस्यापि सिद्धान्तरतचेतसः । —(पा०सं० ९।३६, १५२-१५३) इति पारमेश्वरोक्तः किं न श्रुत इति चेत्, ब्रूमः—तत्र स्वस्य कर्मण इत्यनेन स्वा- र्थाविरोधेनेत्यत्र स्वार्थशब्देन च स्नानादिनित्यकर्माण्येवोच्यन्ते, न स्वार्थाराधनमपि । यतस्तत्परार्थयजनवद् बह्वीभिर्घटिकाभिः कर्तृन्तरेणैव साध्यम् । (नास्ति? अस्ति) च स्वार्थपरार्थयोरुभयोरप्येकेनैवाराधनं कार्यमिति पूर्वं भवदुक्तं खलु । तत्र किं नियामकमिति, अनुपपत्तिरेव नियामिका । ननु तदानीं बहुघटिकासाध्यं स्वार्थार्चनं कथं शीघ्रं साध्यत इति चेदुच्यते— उत्सवावधिकं श्रेष्ठमाराधनमुदाहृतम् । होमान्तं मध्यमं प्रोक्तं प्रापणान्तमथाधमम् । क्षुद्रं तु धूपदीपान्तमिदमाराधनं हरेः । इति पाद्मोक्तेः, संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ॥ नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम् ।—(४०।१०४-१०५) इति लक्ष्मीतन्त्रोक्तेश्च लघुपक्षः साध्यत इति बोध्यम् । तथा चोक्तं पाञ्चरात्र- रक्षायां तृतीयेऽधिकारे—‘ईषच्छक्तौ संकुचितपूजनम्, एकोपचारमारभ्य तत्तच्छक्त्या- द्यनुसारेण सहस्रोपचारान्तविधानात्’ (पृ० १६८) इति । ‘यत्पुनरुपचारलोपे प्रत्य- वायादिकमुक्तम्— गन्धहीने भयोक्तिश्च पुष्पहीने तु संकुलम् ।

१२४ सात्वतसंहिता नैवेद्यहीने दुर्भिक्षं मरणं मन्त्रहीनके ॥ अमन्त्रमविधिं चैवमकालं चैव पूजनम् । नित्यं राष्ट्रभयं कुर्यात् तत्तद्ग्रामं तु नश्यति ॥ इत्यादि, तदेतत्सर्वं राजराष्ट्रादिसमृद्ध्यर्थं काम्याराधनेष्वन्येष्वपि पूर्णानुष्ठान- शक्तस्य सम्पूर्णानुष्ठानद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकल्पसमर्थस्यानुकल्पेन वृत्तौ च दोषमाह, न तु नित्ये कर्मणि निष्कामस्ययथाशक्तिकरणे’ (पृ० १७५-१७६) इति च स्पष्टमुक्तम् । रसात्माऽध्यक्षसंज्ञोऽत्र इत्यत्रान्नस्य वीर्यरूपरसेषु क्रमेण सङ्कर्षणादीनां केवलं बलवीर्यतेजोरूपेणावस्थानं भाव्यम्, बलादीनां भोज्यगुणत्वात् । भोक्ता वासुदेवस्तु ज्ञानैश्वर्यशक्तिरूपेण भाव्यः, ज्ञानादीनां भोक्तृगुणत्वात् । तथा च पारमेश्वरे महाहविःप्रकरणे— बलं वीर्यं च तेजश्च अर्घ्यपुष्पं समुत्क्षिपेत् । केवलेन च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥ ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः । स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥ स्पृष्ट्वा स्पृष्ट्वा यथाभोगं बद्ध्या ग्रासमुद्रया ॥ निवेदनीया वै विष्णोरन्तमूर्त्यन्तरस्थिताः । रसवीर्यादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥ —इति (१८।३७८-३८१) लक्ष्मीतन्त्रेऽपि— तारिकामुच्चरन् कुर्यान्नामन्त्रस्थां विभावयेत् ॥ सोमानन्दमयीं दिव्यां क्रमाद्यन्नाद्यतां गताम् । वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ॥ ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम् । आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ॥ —(४०।९६-९८) इति अम्भश्चुलुकं पिबेदित्यत्र परिषेचनमपि कार्यम् । तथा च लक्ष्मीतन्त्रे— अस्त्रेण तारया प्रोक्ष्य तारया परिषिच्य च। उपस्तीर्य ततश्चापो दद्यात् प्राणाहुतिं ततः ॥ (४०।९५) इति। वक्त्रकुण्डेऽथ तेनैवेति प्रणवेनैव प्राणाहुतयः प्रतिपादिताः । अतः प्रसिद्ध- प्राणाहुतिमन्त्रपरित्यागान्न भेतव्यम् । यतः सच्चरित्ररक्षायाम्—‘येषां तु तत्र भगवद- साधारणमन्त्रैर्वक्त्रकुण्डे होमो विहितः, न तेषु वैदिकमर्यादाविरोधः शङ्कनीयः, कल्प- सूत्रप्रतिनियतधर्मान्तरवत् तदुपपत्तेः’ (पृ० १३०) इति प्रत्यपादि । एवं च प्रणवेनैव प्राणाहुतिरिति नियमोऽपि नास्ति । यतः सच्चरित्ररक्षायाम्— येन येन तु मन्त्रेण बहिराराधनक्रमे । वेद्यादिस्थस्य देवस्य प्रापणं विनिवेदितम् ॥ तेन तेन तु मन्त्रेण जुहुयुर्वक्त्रकुण्डके ।

षष्ठः परिच्छेदः १२५ चतुः पञ्चत्रिधा वापि प्राणपूर्व्वैर्द्विजोत्तम ॥ केवला भक्तिपूतास्तु त्रयीधर्मरता द्विजाः । प्राणापानादिभिर्मन्त्रैर्जुहुयुः पञ्चधा क्रमात् ॥ हृदयस्थाय देवाय विष्णवे सर्वजिष्णवे । —(पृ० १३०) इति । नन्वेवं प्राणापानादिमन्त्रान् विना साक्षात् तदन्तरात्मभगवदसाधारणमन्त्रैराहुति- पक्षे निवेदितशेषं विना पृथगनेनानुयाग उदितः । अन्यथा निवेदितनिवेदनाख्यदोषः संभवति । अत एवात्र भोज्यं नैवेद्यपूर्वं तु समादायाथ पात्रगमिति नैवेद्यशब्दः प्रयुक्तः, न निवेदितशब्दः । नैवेद्यम् अन्तरात्मनिवेदनाय कल्पितमित्यर्थः स्वरसः । तथा सति पवित्रीकृत्य चाम्भसेत्युक्तेरपि सार्थक्यं भवतीति चेति सच्चरित्ररक्षादिकं कदापि न श्रुतवानसि, यतस्तत्र सवन्दनाभिषेकन्यायेन निवेदितनिवेदनाख्यदोषः परिहृतः । निवे- दितार्थकनैवेद्यशब्दा अपि बहुशस्तत्र तत्रोदाहृताः ॥ १८१-१८६ ॥ इसके बाद शरीर यात्रा के लिये परमेश्वर की प्रार्थना कर आज्ञा प्राप्त करे । तदनन्तर यथाविधि आत्मयाग करे । सर्वप्रथम पात्र में रहने वाला सभी प्रकार का नैवेद्य देवता को निवेदन कर जल से प्रक्षालित कर भोजन करे । यतः अलक्ष्या एवं सत्यरूपा चतुरात्मीया भावना ही अन्नदोष का नाश करने वाली है अतः उसकी भावना करनी चाहिये ॥ १८१-१८३ ॥ यतः अन्न रसात्माध्यक्ष संज्ञक है, उसके भगवान् स्वादुभाव रूप में प्रद्युम्न व्यस्थित है, वीर्य में सङ्कर्षण स्थित हैं और स्वयं भगवान् वासुदेव स्वयं इसके भोक्ता हैं । इस प्रकार की भावनापूर्वक भोजन के अनन्तर चार बार प्रणव से अभिमन्त्रित एक चुल्लू जल पीवे ॥ १८४-१८५ ॥ इसके बाद पुनः वक्त्ररूप कुण्ड में उसी प्रणव से चार आहुति प्रदान करे । इसी प्रकार अभिमत वक्त्ररूप कुण्ड में अभिमत (यथेच्छ) ग्रास की आहुति देकर यथारुचि भोजन करे ॥ १८६ ॥ समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् । मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ १८७ ॥ कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् । प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ॥ १८८ ॥ अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः । आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणम् ॥ १८९ ॥ अथैवमनुयागानन्तरं पुनराचमनपूर्वकं भगवद्गृहप्रवेशं तत्र कर्तव्याष्टाङ्गप्रणाम- प्रकारमागमाध्ययनरूपस्वाध्यायं चाह—समाचम्येति त्रिभिः । अत्राष्टाङ्गेनेत्येकवचनेन सकृत्प्रणामप्रतिपादकश्लोकद्वयमिदमेवेति सूच्यते । अत एव श्रीमद्भाष्यकारैरपि नित्यग्रन्थे—‘भगवन्तमष्टाङ्गप्रणामेन प्रणम्य’ (पृ० १८७) इत्येकवचनमेव प्रयुक्तम्, अष्टाङ्गप्रणामप्रतिपादकश्लोकद्वयमिदमेवोदाहृतं च (पृ० १८८) ।

१२६ सात्वतसंहिता नन्वत्र समयपरिच्छेदे— प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् । दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमां विभोः ॥ दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । (२१।११-१३) इति बहुवचनमपि वक्ष्यति । तस्य का गतिरिति चेत्, सत्यम् । तत्र चतुर्दिशमिति स्थानभेदोऽप्यस्तीति ज्ञेयम् । ननु च—'एकत्रिपञ्चसप्तादिगणनाविषमं हि यत्' (३७।५३) इति विषम- प्रणामनिषेधकपौष्करोक्तिः, तदनुसारिणी—'तत्र प्रदक्षिणानि प्रणामांश्च युग्मान् कुर्यात्' (पृ० ११४) इति पाञ्चरात्ररक्षोक्तिश्च भवता न श्रुता किमिति चेत्, उच्यते— पौष्करनिष्ठानामेव तदुक्तानुष्ठानम्, सात्वतनिष्ठानां तु सकृदेव प्रणामानुष्ठानं बोध्यम्, 'सकृत्ते नमः, द्विस्ते नमः' इत्यादिभिः पक्षद्वयस्यापि श्रुत्युक्तत्वात्, तथैव शिष्टाचारा- च्च । आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणमित्यत्र पाञ्चरात्ररक्षायाम्—'तदिह भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादीनां श्रवणमनन- प्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः, पारुष्यमनृतं चैव पैशुन्यं चैव सर्वतः । अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ —(मनु० १२।६) इत्यादिदर्शितवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासंभवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति' (पृ० १४९) । इति संगृहीतं द्रष्टव्यम् ॥ १८७-१८९ ॥ तदनन्तर आचमन कर संयमपूर्वक भगवान् के मन्दिर में पुनः जावे । फिर मन, बुद्धि, अभिमान के साथ कछुये के समान चारों हाथ, पैर और पाँचवाँ शिर पृथ्वी पर स्थापित कर साष्टाङ्ग सर्वदा प्रदक्षिणा करे ॥ १८७-१८८ ॥ इस प्रकार साष्टाङ्ग नमस्कार कर भगवान् के आगे बैठकर आगम (मन्त्र) शास्त्र का स्वाध्याय करे और उसके अर्थों पर विचार करे ॥ १८९ ॥ प्राप्ते तु सन्ध्यासमये स्नात्वा च जघनावधि । क्षालयित्वा ततः कुर्याद् वासःसम्परिवर्तनम् ॥ १९० ॥ अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत् ततः । यथाशक्ति जपं कुर्यादासाद्य शयनं ततः ॥ १९१ ॥ समाधाय बहिर्देवं निरालम्बपदे स्थितम् । अप्रयत्नेन वै तावदनिरुद्धेन तेजसा ॥ १९२ ॥ सह तेनैव वै निद्रा यावदभ्येति साम्प्रतम् । समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ॥ १९३ ॥ अथ सायन्तनस्नानादिनिद्रान्तं कर्तव्यकर्मणां क्रमं संक्षेपेणाह—प्राप्त इति सार्धैस्त्रिभिः । अत्र स्नात्वेत्यादिना सन्ध्योपासनादिकमुपलक्ष्यते । देवमर्चयित्वेत्यत्रा-

षष्ठः परिच्छेदः १२७ र्चनप्रकारः, अग्निं यजेदित्यत्र होमप्रकारश्च पूर्वोक्त एव ग्राह्यः । एतेन स्वार्थ- परार्थयोरुभयत्रापि कालद्वयार्चनं मुख्यं भवति, अविशेषेणोक्तत्वात् । सति विभवे पारमेश्वराद्युक्तं द्वादशकालार्चनादिकं परार्थे कार्यम्, तदुद्दिश्यैवोक्तत्वात् । साय- माचमनं चानुयागान्तमिति ज्ञेयम्, सायंप्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ —(मनु० २।५२) इति रात्रिभोजनस्यापि शास्त्रीयत्वात् । नन्वत्रानुयागः कण्ठरवेण नोक्तः, लक्ष्मीतन्त्रेऽपि— सन्ध्यामुपास्य विधिवदभिगम्य मां धिया । योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा॥ —(४०।१०२) इत्यत्रानुयागो नोक्तः, ईश्वरपारमेश्वरयोरपि— 'सायन्तनार्चनं कुर्यात् षडङ्गं बलि- पश्चिमम्' (ई०सं० ६।७८; पा०सं० ७।४३७) इति, 'त्रिकालेष्वेकसप्ताङ्गं षडङ्गं चाचरेद् द्वयम्' (ई०सं० ६।७८; पा०सं० ७।४३४) इति च वह्निसन्तर्पणान्त- मेवार्चनमुक्तम् । एवं वचनेषु जागरूकेषु कथं रात्रावनुयागः शास्त्रीयो भवतीति चेत्, सत्यम् । अत्र सर्वत्रापि रात्रिभोजनस्य नैयत्याभावात् तथोक्तमिति ज्ञेयम् । यतः पाद्मे— ततः पश्चिमसंध्यायां प्राप्तायां तत्र चोदितम् । जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ॥ अर्चयित्वा यथान्यायं यथापूर्वमशेषतः । भुक्त्वा संविश्य शयने समुत्थाय महानिशि ॥ आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् । इति रात्रिभोजनमप्युक्तम् । ननु रात्रिभोजनस्य नैयत्याभावेन तदप्रतिपादने समर्थित एकादश्याद्युपवासदिवसेषु दिवाभोजनस्यापि नैयत्याभावात् तत् कथं प्रतिपादितमिति चेत्, ब्रूमः—दिवोपवासस्य क्वाचित्कत्वाद् रात्र्युपवासस्य पञ्चपर्वादिषु बाहुल्याद् दिवारात्र्यनुयागयोः प्रतिपादनाप्रतिपादने बोध्ये । नित्यग्रन्थेषु दिवानुयागस्याप्यनुक्तिरेवमेव समर्थिता वेदान्ताचार्यैः पञ्चरात्र- रक्षायाम्—'तथाह्युपवासदिवसेष्वेकादश्यादिष्वनुयागस्य लोपो भवति । सप्ताङ्गमेव तदानीं यजनम् । अत एवानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिः । तदर्थकालश्च तस्मिन् दिवसे स्वाध्याययोगादिष्वन्यतमेन यथोचितं यापनीयः' (पृ० १६७) इति । अत्र सप्ताङ्गमित्यनेनैकादश्यादिष्वपि पितृसंविभागः कार्य इत्युक्तं भवति । स च तिलोदका(न्तरूपं ? न्न्रूपो) न ब्राह्मणभोजनरूप इति ज्ञेयम्, यतस्तत्रैव कदाचिद् द्वादश्यादिषु प्रभाते पारणं भवति । तदर्थं पूर्वं यजने कृतेऽपि स्वकालप्राप्तं मध्यन्दिनयजनं सप्ताङ्गमिति भोजनानन्तरमपि पितृसंविभाग उक्तो नान्नश्राद्धरूपः, अपि तु तिलोदका(न्त? न्न)रूप एव । ननु भवता द्वादश्यादिषु प्राभातिकार्चनानन्तरमपि पितृसंविभागः कथमुक्त इति चेत्, सत्यम् । तत् परार्थविषयम्, तत्र प्राभातिकार्चनस्याप्युक्तत्वात्, 'तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम्' (ई०सं० ६।७६; पा०सं० ७।४३२) इति कण्ठो-

१२८ सात्वतसंहिता क्तैश्च। स्वार्थे माध्याह्निकार्चनमात्रस्योक्तत्वात्। तदनन्तरमेव पितृसंविभागानुष्ठान- मप्यस्माकमप्यविरुद्धं बोध्यम्। ननु च स्वार्थे इज्याकाले माध्याह्निकार्चनमात्रमुचितम्। सायन्तनार्चनमपि भवता कथमङ्गीकृतमिति चेत्, सत्यम्। तद्योगङ्गं जयाख्यपद्मादिष्वपि कण्ठरवेणोक्तं द्रष्टव्यम्। यथाशक्ति जपं कुर्यादित्यत्रागमाध्ययनरूपस्वाध्यायमन्त्रजपो बोध्यः, प्रसिद्धजपयज्ञस्य हविर्निवेदनानन्तरमेव कर्तव्यत्वात्। तथा च पञ्चरात्ररक्षायां संग्रहः— ‘अथ लोहितायति भास्करे यथासूत्रं सायंसन्ध्योपासनं सायंहोमः पुनर्यथाशक्ति भग- वदभिगमनहविर्निवेदनपूर्वकं भोजनम्। केनचिन्निमित्तेन विलुप्ते भोजने प्राणाग्नि- होत्रमन्त्रजपः, ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति क्रमः’ (पृ० १५०) इति। समाधाय बहिर्देवमित्यत्र तेन सह बहिःस्थितेन भगवता सहेत्यर्थः। निद्रा यावदभ्येति तावदन्तं बहिर्निरालम्बपदे स्थितं देवं समाधाय ध्यात्वेत्यर्थः। इह प्रयत्नपूर्वकं चित्तनिरोधं कृत्वा ध्याने कृते निद्रा न संभवति। तदभावे योगं कर्तुं चित्तस्वास्थ्यं न जायत इत्याशयेनाप्रयत्नेनानिरुद्धेन चेतसेत्युक्तम्। अस्य पदद्वयस्यापि समाधायेत्यत्रान्वयः। पारमेश्वरव्याख्याने तु—‘अबहिः हृत्कमले’ इति व्याख्यातम्। तन्मन्दम्, यतः सात्वतेश्वरपारमेश्वरादिषु पञ्चरात्ररक्षादिषु (पृ० १६४) च समाधाय बहिर्देवमित्येकरूपः पाठो दृश्यते। तथा पाठाङ्गीकारेऽर्थ(T)सामञ्जस्यमपि न संभवति ॥ १९०-१९३ ॥ सन्ध्या समय प्राप्त होने पर जघन पर्यन्त स्नान करे फिर वस्त्र क्षालन कर दूसरा वस्त्र पहने ॥ १९० ॥ फिर भगवान् का अर्घ पुष्पादि से अर्चन कर अग्निदेव का यजन करे। यथाशक्ति जप करे फिर शयन स्थान पर जावे और वहाँ हृदय स्थान में स्थित देवता का ध्यान तब तक करे जब तक निद्रा न आवे ॥ १९१-१९३ ॥ कमण्डलुस्थितेनैव समाचम्य तु वारिणा। गुरुं देवं नमस्कृत्य ह्युपविश्याजिनासने ॥ १९४ ॥ अथ योगं दर्शयन् तत्पूर्वकृत्यमाह—समुत्थायेति सार्धेन। अयं श्लोकः पञ्च- रात्ररक्षायामेव व्याख्यातः। तथाहि—‘एतत्संहितानिष्ठानामेष योगकालनियमः। निःशब्दे सर्वसुप्तिकाले चैकाग्र्यातिशयसंभावनया च तद्विधिः। तत्तत्पुरुषशक्त्या- द्यनुसाराच्च तत्तत्कालविधेर्न विरोध इत्युक्तम्। तत्र— वैष्णवीं धारयेद् यष्टिं सोदकं च कमण्डलुम्। यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ (४।३६) इत्यादिभिर्मन्वाद्युपदिष्टसोदककमण्डलुधारणादिकं भगवद्योगिनोऽपि विहित- मिति ज्ञापनाय कमण्डलुस्थितेनैवेत्युक्तम्, निद्रान्तनिमित्तयोत्तरकर्माङ्गतया च तन्त्रेणा- चमनम्। तुशब्देन स्वशास्त्रोक्तविशेषः, तोयालाभदशायां दक्षिणश्रवणस्पर्शश्च व्यज्यते। स्मरन्ति हि— एवमाचमनाशक्तावलाभे सलिलस्य च।

षष्ठः परिच्छेदः १२९ पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् ॥' —(प०पृ०८२-८३) इति। अजिनासन इति ‘चेलाजिनकुशोत्तरम्’ (भ०गी० ६।११) इति गीते प्रधानां- शग्रहणमिति ॥ १९३-१९४ ॥ फिर निद्रात्याग कर शैथिल्य दूर कर कमण्डल स्थित जल से आचमन करे और गुरु देवता को नमस्कार कर मृगचर्म के आसन पर बैठे ॥ १९४ ॥ न्यासं मन्त्रचतुष्केण कुर्यात् संहारलक्षणम् । आपादाज्जानुपर्यन्तमनिरुद्धं च विन्यसेत् ॥ १९५ ॥ प्रद्युम्नाख्यं न्यसेन्मन्त्रं नाभ्यन्तं जानुमण्डलात् । नाभेरार्कणदिशं तु मन्त्रं साङ्कर्षणं न्यसेत् ॥ १९६ ॥ आकर्णाद् ब्रह्मरन्ध्रान्तं चतुर्थं विनिवेद्य च । ततस्त्वभिमतेनैव त्वास्ते पद्मासनादिना ॥ १९७ ॥ स्वात्मना चातुरात्म्यमभिमानं समाश्रयेत् । अथ वासुदेवादिमन्त्रचतुष्टयस्य स्वशरीरे संहारक्रमेण न्यासं पद्मासनादिष्वन्य- तमेनोपवेशनं स्वस्मिन् चातुरात्मीयाभिमानावलम्बनं चाह—न्यासमिति सार्द्धैस्त्रिभिः । चातुरात्म्यमभिमानं समाश्रयेदित्यत्र तत्तन्मन्त्रजपध्यानकाले तत्तन्मूर्त्तितादात्म्यावलम्बनं बोध्यम्, अन्यथा युगपत्सर्वमूर्त्तितादात्म्याश्रयणस्याशक्यत्वात् तस्य प्रत्येकमेव वक्ष्य- माणत्वाच्च । अत्र चातुरात्म्यार्चनप्रकरणादेव चतुर्भिर्मन्त्रैर्यो गानुष्ठानादिकमुक्तम् । नह्येकमूर्त्यर्चनविभवार्चनादिप्रकरणेऽप्येतैरेव मन्त्रैर्यो गोऽनुष्ठेय इति नियमः, अपि तु तत्तत्प्रकरणानुसारिमन्त्रैरिति बोध्यम् । ननु पञ्चरात्ररक्षायामत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितानन्तरनिष्ठानामपि साधारणमित्युक्तम् । एतेनैतत्संहितानिष्ठानां सर्वप्रकरणेष्वपि मन्त्रचतुष्केणैव योग इति ज्ञायते, यतस्तत्र प्रकरणान्तरनिष्ठानामपीति नोक्तमिति चेत्, ब्रूमः—अत्र चातुरात्म्या- राधनस्यैव विस्तरात् प्रकरणान्तरस्य संकुचितत्वात् प्रकरणान्तरेऽपि साधारणमिति नोक्तम् । संहितानन्तरनिष्ठानामपि साधारणमित्यनेनैव तदर्थोऽपि किंपुनर्न्यायेन सिद्धो भवतीति ज्ञेयम् । अन्यथा सर्वेषामपि व्यूहचतुष्टयेनैव योगानुष्ठाननियमे— कैवल्यफलदा ह्येका भोगकैवल्यदा परा । भोगदैव तृतीया च प्रबुद्धानां सदैव हि ॥—(१९।४) इति वक्ष्यमाणपरादिमन्त्रदीक्षितफलभेदानुसारेण कैवल्येच्छया केवलं परात्पर- मन्त्रं प्राप्तवतां काम्येच्छया विभवमन्त्रमात्रमधिकृतवतां च योगानुष्ठानं न संभवेत् । अतो यस्य यस्मिन् मन्त्रेऽभिरतिस्तस्य तेन योगानुष्ठानमिति सिद्धम् ॥ १९५-१९८ ॥ तदनन्तर चार मन्त्र से संहार लक्षण (= विपरीत क्रम) न्यास करे । फिर पैर से लेकर जानु पर्यन्त अनिरुद्ध मन्त्र से न्यास करे ॥ १९५ ॥

१३० सात्वतसंहिता जानु से लेकर नाभि मण्डल तक प्रद्युम्न मन्त्र से और नाभि से कर्ण पर्यन्त सङ्कर्षण मन्त्र से न्यास करे ॥ १९६ ॥ कान से ब्रह्मरन्ध्र तक चतुर्थ मन्त्र से न्यास करे । इसके बाद अपनी इच्छानुसार पद्मासन आदि से बैठे । अपनी आत्मा में चातुरात्म्य अभिमान का ध्यान करे ॥ १९७-१९८ ॥ समं कायशिरोग्रीवं सन्धाय सह वक्षसा ॥ १९८ ॥ दृङ्नासाग्रगता कार्या विनिमीलितलक्षणा । जिह्वा तालुतलस्था च सान्तरे दशनावली ॥ १९९ ॥ ईषदोष्ठपुटौ लग्नौ धार्ये द्वे बाहुकूर्परी । ऊरुमध्यप्रदेशे तु हस्तौ नाभावधो न्यसेत् ॥ २०० ॥ अधरोत्तरयोगेन वामदक्षिणतः क्रमात् । अचलं योगपट्टेन त्वेवं सन्धार्य विग्रहम् ॥ २०१ ॥ सङ्कोच्यापानदेशं त्वप्युपरिष्टात् तमेव हि । विकास्यावर्णहीनेन हार्णेनालक्ष्यमूर्त्तिना ॥ २०२ ॥ अथ योगानुष्ठानकाले कायशिरःप्रभृत्यवयवानां सन्धारणक्रममाह—सममिति सार्धैश्चतुर्भिः ॥ १९८-२०२ ॥ उस समय काय, शिर, ग्रीवा तथा वक्षस्थल को सीधे स्थापित करे और नेत्रों को बन्द कर उसे नासा के अग्रभाग पर स्थापित करे । जिह्वा को तालु के नीचे, दन्त पङ्क्तियों को मुख के भीतर स्थापित करे ॥ १९८-१९९ ॥ दोनों ओष्ठ पुटों को किञ्चिन्मात्र संलग्न रखे तथा दोनों बाहुकूर्परों को ऊरु के मध्यप्रदेश में रखे और दोनों हाथों को बायें दाहिने कर ऊपर नीचे कर नाभि के नीचे स्थापित करे । इस प्रकार यौगिक रीति से शरीर को स्थापित कर अपान देश को संकुचित करे । फिर ऊपर अ वर्ण से हीन तथा ह वर्ण के साथ लक्षित मूर्त्ति के सहित उसको विकसित करे ॥ २००-२०२ ॥ विषयान्तर्निविष्टं तु क्रमाच्चित्तं समाहरेत् । कुर्याद् वै बुद्धिल्लीनं तु तां च कुर्यात् स्वगोचरे ॥ २०३ ॥ ततो विषयेभ्यश्चित्तमाकृष्य बुद्धौ संयोज्य बुद्धिं स्वगोचरे भगवति न्यसेदि- त्याह—विषयेति । तथा च पञ्चरात्ररक्षायां शाण्डिल्यस्मृतौ— ईदृशः परमात्माऽयं प्रत्यगात्माऽयमीदृशः । तत्सम्बन्धानुसंधानमिति योगः प्रकीर्तितः ॥ योगो नामेन्द्रियैर्वश्यैर्बुद्धेर्ब्रह्मणि संस्थितिः ।

षष्ठः परिच्छेदः १३१ प्रयुक्तैरप्रयुक्तैर्वा भगवत्कर्मविस्तरैः ॥ —(पृ० ५९) इति (शा०स्मृ० ५।१३-१४) । तत्रैव तृतीयेऽधिकारे (पृ० १५८) पराशरः— आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ इति ॥ २०३ ॥ —(विष्णु०पु० ६।७।३१) । अन्य विषयों में सन्निविष्ट चित्त को क्रमशः विषय से पृथक् करे । पुनः बुद्धि में लीन करे । फिर उस बुद्धि को भी परमात्मा में संस्थापित करे ॥ २०३ ॥ समाधायात्मनात्मानं सह मन्त्रैस्ततः क्रमात् । आ जाग्रत्पदभूमेर्वै यथा तद् गदतः शृणु ॥ २०४ ॥ जाग्रत्पदमारभ्य तुर्यपदान्तं तत्तत्पदस्थितेन परमात्मना सह तत्तन्मन्त्रजपपुरस्सरं प्रत्यगात्मनः संयोगभावनामूक्त्वा तां विस्तरेण वक्ष्यामि शृण्वित्याह—समाधायेति । तथा च पञ्चरात्ररक्षायां दक्षः— सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् । एतद्ध्यानं च योगश्च शेषोऽन्यो ग्रन्थविस्तरः ॥ —(द०स्मृ०७।२०) इति । याज्ञवल्क्यश्च—'वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं ब्रह्मणि न्यसेत्' इति । वृत्तिहीनं बाह्यवृत्तिरहितमित्यर्थः' (पृ० ७६) ॥ २०४ ॥ जाग्रत् पद से लेकर तुर्य पदान्त तत्तत्पद से स्थित उस परमात्मा के साथ तत्तन्मन्त्र पुरःसर संयोग भावना करे । उसी संयोग भावना को अब विस्तार के साथ कहा जा रहा है । हे सङ्कर्षण! अब उसे सुनिये ॥ २०४ ॥ मध्याह्नभास्कराकारैः सर्वैः संशान्तविग्रहैः । स्मरेत् पूर्वोदितं पद्मं चातुरात्म्यैरधिष्ठितम् ॥ २०५ ॥ ततो जाग्रत्पदस्थं चाप्यनिरुद्धं च मन्त्रराट् । परावर्त्य शतं बुद्ध्या तदभिन्नेन चात्मना ॥ २०६ ॥ तन्मन्त्रजपसामर्थ्यात् तादात्म्यस्थितिबन्धनात् । महिमा तु सविज्ञानस्तदीयस्तस्य जायते ॥ २०७ ॥ अभ्यासाद् वत्सरान्ते तु तदद्वैतसमन्वितम् । अथ प्रद्युम्नमन्त्रं तु परावर्त्य शतद्वयम् ॥ २०८ ॥ योऽयं सोऽहमनेनैवाप्यद्वैतेन सदैव हि । एवमेव समभ्यासाद् मतिमांश्छिन्नसंशयः ॥ २०९ ॥

१३२ सात्वतसंहिता तत्प्रभावाच्च तेनैव तथा कालेन जायते । अनेन क्रमयोगेन जपवृद्ध्याऽन्वितेन तु ॥ २१० ॥ निखिलं चाप्यधीकुर्याद् मन्त्रवृन्दं पुरोदितम् । यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे ॥ २११ ॥ प्रलीनमूर्तिरमलो ह्यनन्ततेजसां निधिः । चिदानन्दघनः शान्तो ह्यनौपम्यो ह्यनाकुलः ॥ २१२ ॥ समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् । ध्यातृध्येयाविभागेन यावत् तन्मयतां व्रजेत् ॥ २१३ ॥ यदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् । अभ्यासाद् भगवद्योगी ब्रह्म सम्पद्यते तदा ॥ २१४ ॥ विस्तरेण योगप्रकारमाह—मध्याह्नभास्कराकारैरित्यारभ्य ब्रह्म सम्पद्यते तदित्य- न्तम् । अस्यार्थः—स्वहृदयकमलं तत्तत्पदभेदेन चातुरात्म्यैरधिष्ठितं स्मृत्वा जाग्रत्पद- स्थेनानिरुद्धेन सह आत्मानमेकीभूतं ध्यायन् प्रत्यहं तन्मन्त्रं शतवारं जपेत् । एवं तन्मन्त्रजपसामर्थ्याच्च तदीयं ज्ञानं माहात्म्यं च स्वस्यापि संभवति । एवमेकं संवत्सरं योगाभ्यासे कृतेऽनिरुद्धतादात्म्यसमन्वितो भवति । तदनन्तरमनिरुद्धं मन्त्रेण सह प्रद्युम्ने संहृत्य प्रद्युम्नोऽहमिति तादात्म्यभावनां कुर्वन् प्रत्यहं तन्मन्त्रं शतद्वयं जपन् पुनरेकं संवत्सरं नयेत् । एतेन प्रद्युम्नप्रभावो भवति । एवंरीत्या सङ्कर्षणमन्त्रं वासुदेवमन्त्रं स्वप्नव्यूहानिरुद्धादिवासुदेवान्तमन्त्रचतुष्टयं तथा सुषुप्तिव्यूहचतुष्टयं च प्रत्येकमेकैकं संवत्सरं जपवृद्धिक्रमेण तत्तादात्म्यभावनया सहाऽभ्यसन् तत्तन्मन्त्रं तदुत्तरमन्त्रे उपसंहरन् सुषुप्तिव्यूहवासुदेवमपि पूर्वोक्तलक्षणतुर्यस्थाने स्थिते परात्परवासुदेवे उपसंहरन् तत्तादात्म्यभावनया तन्मन्त्रं ध्यातृध्येयाविभागेन यावत्तन्मयत्वं व्रजेत् तावदन्तं ततो जपक्रियां त्यजेत् । एवमभ्यासाद् भगवद्यो(गि?गी) वेद्यवेदकभावरहिते समाधौ यदा स्थितिं लभते, तदा ब्रह्म सम्पद्यते । ब्रह्मैव भवतीत्यर्थः । परमसाम्यं भजतीति यावत् । यत्र यत्र योऽयं सोऽहमित्येवंरीत्या तत्तद्व्यूहतादात्म्याश्रयणमप्युक्तम्, तेन स्वस्य तदद्वैतसिद्धिश्च प्रतिपादिता । अत्र सर्वनामस्वरूपैक्यं चिन्तनीयम् । यतः— योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं न तेन कृतं पापं चौरेणात्माहारिणा ॥ इत्यन्यथा ज्ञानेन फलवैपरीत्यमुक्तम् । अपि तु तत्र सर्वप्रकारैक्यं बोध्यम्, यतः प्रकारैक्ये चास्ति तत्त्वव्यवहारः—सोऽयं गौरिति । ननु ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा० उ० ६।२।१), ‘तत्त्वमसि’ (छा० उ० ६।८।७) इत्यादिश्रुतिशतसिद्धं स्वरूपैक्यमपलपतां युष्माकमेवान्यथा ज्ञानमिति चेत्, ब्रूमः—किमिदानीमस्माभिस्तत्त्वनिर्णयः क्रियते? श्रीमद्भाष्यकार- प्रभृतिभिर्निर्णीते विषये किमावयोर्विवादेन । नन्वत्र समाधायात्मनात्मानं सह मन्त्रैस्ततः क्रमादिति, तदभिन्नेन चात्मनेति, तदद्वैतसमन्वितमिति, योऽयं सोऽहमनेनैवाप्यद्वैतेन

षष्ठः परिच्छेदः १३३ सदैव हीति, ध्यातृध्येयाविभागेन यावत्तन्मयतां व्रजेदिति, ब्रह्म सम्पद्यते तदेति च सुस्पष्टं शुद्धाद्वैतमसकृदुपदिश्यते । एतद्वाक्यजातं सर्वमद्वैतमनङ्गीकुर्वतां भवतां विरुद्धम्, भवद्भाष्यादिषु न विचारितं च । अतोऽस्मिन् विषये वयं विप्रतिपद्यामहे, इति चेत्, सत्यम् । स्वशास्त्रतया न तद्वचनजातं भाष्यादिषु(न?) विचारितम्, तथाप्येतत्सजातीय- श्रुतीतिहासपुराणवाक्यानां विचारितत्वादेषामपि चारितार्थ्यं बोध्यम् । विचारितं चैतत् सर्वमपि वेदान्ताचार्यैः पञ्चरात्ररक्षायां द्रष्टव्यम् ॥ २०५-२१४ ॥ अपने हृदयकमल को तत्तत्पद भेद से मध्याह्न सूर्य के समान दीप्तियुक्त शान्त विग्रहों वाले चातुरात्म्य से अधिष्ठित समझ कर जाग्रत्पद पर स्थित अनिरुद्ध के साथ अपनी आत्मा को एकीभूत रूप में ध्यान करते हुए प्रतिदिन अपने अनिरुद्ध मन्त्र का सौ बार जप करे ॥ २०५-२०६ ॥ उस मन्त्र के जप के सामर्थ्य से अनिरुद्ध के साथ तादात्म्य की स्थिति के बन्धन से उनके विषय में सविज्ञान महिमा उत्पन्न हो जाती है । इस प्रकार के अभ्यास से एक संवत्सर पर्यन्त जप करने से प्रद्युम्न का प्रभाव प्रगट होता है । इस प्रकार सङ्कर्षण मन्त्र, वासुदेव मन्त्र, स्वप्न व्यूह के अनिरुद्धादि वासुदेवान्त मन्त्र चतुष्टय तथा सुषुप्तिव्यूह चतुष्टय, इनके एक-एक मन्त्रों को संवत्सर पर्यन्त जपवृद्धि के क्रम से तादात्म्य भावना के साथ अभ्यास करते हुए तत्तन्मन्त्र को तत्तदुत्तर मन्त्र में उपसंहार करते हुए, सुषुप्तिव्यूह वासुदेव को तुर्य स्थान में स्थित परात्पर वासुदेव में उपसंहार करते हुए, उस मन्त्र को ध्याता एवं ध्येय के विभाग से जब तन्मय की स्थिति उत्पन्न हो जावे तब उसके अन्त में जप क्रिया का परित्याग कर देवे । इस प्रकार अभ्यास करने वाला योगी वेद्य-वेदकभाव से रहित जब समाधि की स्थिति प्राप्त कर लेता है तब वह 'ब्रह्म' हो जाता है ॥ २०७-२१४ ॥ ततः श्रमजयं कुर्यात् त्यक्त्वा ध्यानासने क्रमात् । समाप्ते शयनस्थश्च कालं रात्रिक्षयावधि ॥ २१५ ॥ एवं योगानुष्ठानानन्तरं पुनर्ब्राह्ममुहूर्त्तपर्यन्तं विश्राममाह — तत इति ॥ २१५ ॥ तदनन्तर वैष्णव साधक ध्यान एवं आसन का क्रमशः परित्याग करे । फिर शयन कर परिश्रम को दूर करे ॥ २१५ ॥ ब्राह्मे मुहूर्ते सम्प्राप्ते ह्युत्थाय शयनात् ततः । स्नात्वाऽभ्यर्च्य जगन्नाथं समिद्दानं समाचरेत् ॥ २१६ ॥ जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत् । ऊनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये ॥ २१७ ॥ दद्यात् पूर्णाहुतिं कृत्वा पूर्ववत् सेचनादिकम् । ततो देवं तु पीठस्थं कुण्डस्थमनलं ततः ॥ २१८ ॥

१३४ सात्वतसंहिता न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात्। निःशेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च॥ २१९॥ यागोद्देशातत्तथा कुण्डात् स्तराद्यस्याखिलस्य च। सहोपलेपनेनैव सर्वमम्भसि निक्षिपेत्॥ २२०॥ ब्राह्ममुहूर्तमारभ्य कर्तव्यक्रमं संक्षेपेणाह—ब्राह्म इति पञ्चभिः । न्यासद्वयं करन्यासाङ्गन्यासयोर्द्वयमित्यर्थः । एवं न्यासोपसंहारानन्तरमनुयागादिकं कार्यम्। तथा च जयाख्ये— यागस्थानाच्च तिलकं कृत्वा न्यासं स्वविग्रहात्। उपसंहृत्य मेधावी कुर्याद् वै भोजनादिकम्॥ —(१५।२६१) इति। लक्ष्मीतन्त्रेऽपि— अर्घ्याद्यमुपसंहृत्य वर्मस्त्रैः प्रतिगृह्य च। उपसंहृत्य च न्यासमनुयागं समाचरेत्॥(४०।९४) इति। एवं भोजनात् पूर्वं न्यासस्योपसंहृतत्वात् पुनः सायं पूजारम्भे न्यासोऽनुष्ठेय इति ज्ञायते। यद्यपि पारमेश्वरे— श्रेष्ठः प्रभातकालः स्यात् त्रिषु कालेषु वै पुनः। यथावन्मन्त्रविन्यासमात्मनः करदेहयोः॥ हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः। नित्यं प्राभातिके कुर्यादन्यत्रेच्छानुसारतः॥(९।४-५) इत्युक्तम्, तथापि तन्माध्याह्निकाचंर्चनादिष्वनुपसंहृतन्यासपूजकविषयम् । सायं- पूजारम्भे तु न्यासोऽवश्यमनुष्ठेयः, मध्याह्नानुयागात् पूर्वमेव न्यासस्योपसंहृतत्वात्, न्यासं विना पूजनानौचित्याच्च ॥ २१६-२२०॥ रात्रि के बीत जाने पर ब्रह्ममुहूर्त उपस्थित हो जाने पर शयन से उठ कर स्नान करे । फिर जगन्नाथ का अर्चन करे तदनन्तर समिधा दान करे ॥ २१६ ॥ तदनन्तर तिल, घृतादि जो भी वस्तु हो उससे हवन करे । न्यूनाधिक दोष की शान्ति के लिये तथा कर्म की समृद्धि के लिये पूर्ववत् सेचनादि कर्म कर पूर्णाहुति देवे । तदनन्तर अङ्गन्यास तथा करन्यास संक्षेप में कर पीठ पर स्थित देव की तथा कुण्ड स्थित अग्नि को तथा अर्घ्यादिक का उपसंहार करे ॥ २१७-२१९ ॥ यागस्थान से एवं कुण्ड से समस्त संस्तर (= यज्ञ) प्रदेश के उपलेपन के साथ समस्त सामग्री जल में फेंक देवे ॥ २२० ॥ सकृत् त्र्यहं च सप्ताहं पक्षं मासमथापि वा। यो यजेद् विधिनाऽनेन भक्तिश्रद्धासमन्वितः॥ २२१ ॥

षष्ठः परिच्छेदः १३५ सोऽपि यायात् परं स्थानं किं पुनर्योऽत्र संस्थितः । यावज्जीवावधिं कालं बद्धकक्ष्यो महामतिः ॥ २२२ ॥ एवमाराधनस्य यथाशक्त्यनुष्ठानेऽपि साफल्यमाह— सकृदिति द्वाभ्याम् ॥ २२१-२२२ ॥ इत्युक्तं चातुरात्म्यं समासादमलेक्षण । सबाह्याभ्यन्तरं सम्यङ्मया ते यजनं शुभम् ॥ २२३ ॥ यज्ज्ञात्वा क्षयमायाति त्वविद्याबीजमक्षयम् । अचिरादेव भविनां भक्तानां भावितात्मनाम् ॥ २२४ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां चतुरात्म्याराधनं नाम षष्ठः परिच्छेदः ॥ ६ ॥ — ❦ — उक्तमर्थं निगमयति—इतीति द्वाभ्याम् ॥ २२३-२२४ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये षष्ठः परिच्छेदः ॥ ६ ॥ — ❦ — जो साधक यह यजन क्रिया एक दिन, तीन दिन, एक सप्ताह, पक्षभर, मास पर्यन्त भक्तिश्रद्धा से समन्वित हो, इस विधि से सम्पादन करता है, वह भक्त परं पद (विष्णुपद) को प्राप्त करता है । जो बुद्धिमान साधक यावज्जीना- वधि कमर कस कर इस याग को सम्पादन करता है उसके विषय में क्या कहा जाय? ॥ २२१-२२२ ॥ हे अमलेक्षण! इस प्रकार संक्षेप में सबाह्यान्तर चतुरात्मीयात्मक कल्याण- कारी यजन का सम्यक् प्रतिपादन किया गया । जिसे जान लेने मात्र से भवितात्मा संसारी समस्त भक्तों को अक्षय अविद्याबीज का अल्पकाल में विनाश हो जाता है ॥ २२३-२२४ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के चतुरात्म्याराधन नामक षष्ठ परिच्छेद की हिन्दी समाप्त हुई ॥ ६ ॥ — ❦ —

सप्तमः परिच्छेदः अमन्त्रकव्रतविधिः नारद उवाच प्रसन्नेनाथ विभुना यदुक्तो लाङ्गली पुनः । निःश्रेयसकरं कर्म तदाकर्णयत द्विजाः ॥ १ ॥ अथ सप्तमो व्याख्यास्यते । नारदो मुनीन् प्रति वासुदेवेन सङ्कर्षणायोपदिष्टं व्रताख्यं कर्म शृणुध्वमित्याह—प्रसन्नेनेति ॥ १ ॥ नारद ने कहा—हे मुनिगणो ! प्रसन्न विभु भगवान् ने पुनः सङ्कर्षण को जिस निःश्रेयस कर्म का उपदेश दिया उसे सुनिये ॥ १ ॥ श्रीभगवानुवाच शृणु ब्रह्ममयं पुण्यमपुण्यचयदाहकृत् । तत्त्वतः प्रतिपन्नानामचिरादेव सिद्धिदम् ॥ २ ॥ भगवान् संकर्षणं प्रत्याह—शृण्विति । पुण्यं पुण्यावहम् । अपुण्यचयदाहकृत् पापविध्वंसकम् । कर्मेत्यनुषङ्गः ॥ २ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण ! जो पुण्यावह कर्म पाप समूहों को जला देने वाला होता है तथा निष्कपट रूप से भगवान् में प्रतिपन्न भक्तों को शीघ्र सिद्धि प्रदान करने वाला है, उसे सुनिए ॥ २ ॥ व्यूहान्तरस्वरूपप्रतिपादनम् परं ब्रह्म परं धाम चातुरात्मकमव्ययम् । जाग्रत्संज्ञे स्वयं यत्तु पदे व्यक्तचतुर्भुजम् ॥ ३ ॥ नूनं कर्मात्मतत्त्वानां भवदुःखप्रशान्तये । भावमाक्रम्य रूपेण तेन मोक्षप्रदेन च ॥ ४ ॥ ततस्त्वप्यययोगेन स्वस्वमूर्तिचतुष्टयम् । नीत्वा परिणतिं योगादात्मन्यास्ते च पूर्ववत् ॥ ५ ॥

सप्तमः परिच्छेदः १३७ अनुग्रहार्थं भविनां नानाकृत्या तु वै पुनः । देहकान्तिमनुज्झित्य दिक्क्रमेण तु वै सह ॥ ६ ॥ पौरुषेण तु रूपेण प्रत्येकेन त्रिधा त्रिधा । वासुदेवादिकेनैव व्यक्तचक्रादिना युतम् ॥ ७ ॥ उत्कृष्टादिगुणाढ्यानामा सृष्टेर्नान्ययाजिनाम् । वर्णानां जनकत्वेन व्यक्तिमभ्येति शाश्वतीम् ॥ ८ ॥ पूर्वोक्तं परात्परं नित्योदितव्यूहाख्यं वासुदेवादिचतुष्टयमेव पूर्वोक्तजाग्रद्व्यूह- रूपेणाविर्भूतम्, तज्जीवात्मनां संसारखेदनिवृत्त्यर्थं तेनैव रूपेण च व्यक्तीभूय जाग्रत्पदे विदिक्ष्वप्यव्ययक्रमेणावतीर्णं पुरुषादिमूर्तिचतुष्टयं स्वात्मनुसंहृत्य पुनः संसारिणामनुग्रहार्थं प्रत्येकं त्रिधा त्रिधा वासुदेवः केशवादित्रिकरूपेण, सङ्कर्षणो गोविन्दादित्रिक रूपेण, प्रद्युम्नस्त्रिविक्रमादित्रिकरूपेण, अनिरुद्धो हृषीकेशादित्रिकरूपेण व्यक्तचक्रादिलाञ्छनैः सह भगवदेकान्तिनां पोषकत्वेन शाश्वतीमभिव्यक्तिमभ्येतीत्याह—परं ब्रह्मेति षड्भिः । देहकान्तिमनुज्झित्येत्यनेन जाग्रद्व्यूहवासुदेवादिचतुष्टयस्य पूर्वं यादृशो वर्णभेद उक्तः, केशवादित्रिकचतुष्टस्यापि तादृश एवेत्युक्तं भवति ॥ ३-८ ॥ परात्पर नित्योदित व्यूहाख्य वासुदेवादि चतुष्टय ही पूर्वोक्त जाग्रदादि अवस्थाओं में व्यूहरूप से अन्तर्विभूत, वही जीवात्माओं के संसार रूप खेद की निवृत्ति के लिये, उसी रूप से प्रगट होकर जाग्रत्पद में, कोणों में, अव्यय क्रम से आविर्भूत होता है और पुरुषादि चतुष्टय को अपने में उपसंहृत कर पुनः संसारी जीवों के कल्याण के लिये प्रत्येक व्यूह तीन-तीन रूपों में विभक्त हो जाता है। वासुदेव केशवादि तीन रूपों में, सङ्कर्षण गोविन्दादि त्रिक रूप में, प्रद्युम्न त्रिविक्रमादि तीन रूप में और अनिरुद्ध हृषीकेशादि तीन रूपों में व्यक्त चक्रादि चिह्नों के साथ भगवद् भक्तों का पोषक होकर शाश्वती अभिव्यक्ति के रूप में वही प्रगट होता है। जिस प्रकार जाग्रद व्यूह वासुदेवादि चतुष्टय में पहले जैसा वर्णभेद कहा गया है, केशवादि त्रिक चतुष्टय में भी उसी प्रकार का वर्ण भेद विद्यमान रहता है ॥ ३-८ ॥ व्यूहान्तराभिव्यक्तिप्रयोजनम् यां समालम्ब्य संसारादचिरादेव यान्ति च । सुप्रबुद्धः परं धाम दानधर्मव्रतादिना ॥ ९ ॥ एवं केशवादिरूपेणाभिव्यक्तेः प्रयोजनमाह—यामिति ॥ ९ ॥ अब केशवादिरूप से अपनी अभिव्यक्ति का कारण कहते हैं—जिसका आश्रय लेकर सुप्रबुद्धजन दान एवं धर्म का आचरण करने से शीघ्र ही परंधाम को प्राप्त कर लेते हैं ॥ ९ ॥ सा० सं० - 13

१३८ सात्वतसंहिता व्रतारम्भकर्तव्यतानिरूपणम् कर्तव्यमिति वै कर्म त्वैश्वर्यं यः समाचरेत् । भक्त्या व्रतच्छलेनैव तस्यायं विहितः क्रमः ॥ १० ॥ अतो वासुदेवादीनां केशवादीनां च प्रीणनव्रतानुष्ठानक्रमो वक्ष्यत इत्याह— कर्तव्यमितीति । ऐश्वर्यम् ईश्वरसम्बन्धि, तत्प्रीणनमित्यर्थः । यद्वा ऐहलौकिकैश्वर्यादि- सम्पादकमित्यर्थः । उभयथा कर्मणो विशेषणम् ॥ १० ॥ अब वासुदेवादि तथा केशवादिकों को प्रसन्न करने के लिये व्रतानुष्ठान का क्रम कहते हैं—जो वैष्णव ऐहलौकिक ऐश्वर्यादि के सम्पादन करने वाले, कर्म एवं भक्ति से अथवा व्रतादि के बहाने से भी व्रतानुष्ठान करता है उसके लिये यह विहित कर्म है ॥ १० ॥ कार्तिकस्य दशम्यां तु मासस्य तु निशागमे । घृतेन पञ्चगव्येन बिम्बपादाम्भसा तु वा ॥ ११ ॥ कृत्वा स्वकोष्ठसंशुद्धिं निस्सृत्योदरगं मलम् । स्मरन् प्रभुं समाचम्य पाणौ कृत्वा कुशोदकम् ॥ १२ ॥ तत्क्षेपपूर्वकं सङ्कल्प आवर्तव्यो व्रतं प्रति । ॐ व्रताधिपतये देव नित्यनिर्मलमूर्तये ॥ १३ ॥ वत्सरं परिपीडैस्तु त्वामहं तोषयाम्यजम्। दशम्यां सायंकाले पञ्चगव्या(द्य)न्यतमप्राशनेन स्वशरीरशुद्धिमाचमनप्राणायामौ कुशोदकप्रक्षेपपूर्वकं संकल्पं चाह—कार्तिकस्येति सार्धद्वाभ्याम् । घृतेन पञ्चगव्येन बिम्बपादाम्भसा तु वेत्यत्रोत्तरोत्तरं श्रेष्ठं सम्बोध्यम् । तथा च सच्चरित्ररक्षायां तृतीयेऽधिकारे ब्रह्माण्डे— पृथिव्यां यानि तीर्थानि तेषु स्नातेषु यत्फलम् । विष्णोः पादोदकं मूर्ध्नि धारयेत् सर्वमाप्नुयात् ॥ मानवो यस्तु गङ्गायां स्नानं पानं समाचरेत् । तस्य यादृग् भवेत् पुण्यं तादृक् पादाम्बुधारणात् ॥ त्रिषु लोकेषु यत्तीर्थं प्रयागं पुष्करादिकम् । तत्पादयुग्मे कृष्णस्य तत्र तिष्ठति नित्यशः ॥ श्रीभागवते— पादोदकस्य माहात्म्यं जानात्येव हि शङ्करः । विष्णुपादोद्भवां गङ्गां शिरसा धारयन् हि सः ॥ प्रायश्चित्तमनुप्राप्तः कृच्छ्रं वाप्यघमर्षणम् । विष्णुपादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥ (पृ०११०)

सप्तमः परिच्छेदः १३९ इत्यादि। एतदलाभे पञ्चगव्यम्, तस्याप्यलाभे घृतं वा ग्राह्यमिति भावः। तथा च पाद्मे स्नपनाध्याये— अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते। पञ्चगव्येषु यस्य स्यादलाभस्तत्कृते घृतम्॥ इति॥ प्रभुं स्मरन् उदरगं मलं निस्सृत्येत्यनेन प्राणायामः सूच्यते यथा, तथा वक्ष्यति प्राणायामं नृसिंहकल्पपरिच्छेदे— नाभिदेशस्थितं ध्यात्वा देवं संगृह्य कल्मषम्। निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत्॥ निरस्तपापमाकृष्य वातचक्रसमन्वितम्। नासाग्रेण तु मन्त्रेशं देहसम्पूरणाय च॥ तं ध्यायेद् हृदयस्थं च गतिरुद्धेन वायुना। (१७।१८-२०) इति॥ ११-१३॥ संकल्पमन्त्रमाह—ॐ व्रताधिपतय इति। परिपीडैः, उपवासैरित्यर्थः॥ १३-१४॥ कार्त्तिक महीने की दशमी तिथि को सायङ्काल के समय घृत से, पञ्चगव्य से, अथवा बिम्ब के पादोदक से, अपने कोष्ठ की संशुद्धि करे और भीतर का पाप बाहर निकाल देवे। प्रभु का स्मरण करते हुए हाथ में कुशोदक का जल लेकर उसे शरीर पर छिड़के, फिर आचमन करे॥ ११-१२॥ फिर व्रत के लिये संकल्प करे। अब संकल्प का मन्त्र कहते हैं—'ॐ व्रताधिपतये देव....त्वामहं तोषयाम्यजम्' (यह संकल्प का स्वरूप है। संकल्प में आये हुए 'परिपीडैः' का अर्थ 'उपवासों के द्वारा' है)॥ १३-१४॥ प्रयतो दर्भशय्यायां क्ष्मातले रजनीं नयेत्॥ १४॥ एकादश्यां प्रभातेऽथ स्नात्वा देवमधोक्षजम्। ध्यात्वाऽभ्यर्च्य यथापूर्वं नानानामान्तरैः शुभैः॥ १५॥ एवं संकल्पानन्तरं तस्यां रात्रौ केवलभूतले कुशोपरि शयनमाह—प्रयत इत्यर्धेन। एकादशीप्रभातकृत्यमाह—एकादश्यामिति। नानानामान्तरैः सहस्त्रनामादि- भिरित्यर्थः। स्तुत्वेति शेषः॥ १४-१५॥ तदनन्तर कुशा के बिस्तर पर रात बितावै। प्रातःकाल एकादशी के दिन स्नान कर देवाधिदेव अधोक्षज भगवान् विष्णु का ध्यान कर उनके कल्याणकारी एवं अनेक भिन्न-भिन्न नामों से पूर्व की भाँति उनकी अर्चना करे॥ १४-१५॥ वासुदेवस्य लाञ्छन ध्यानप्रकारकथनम् कराभ्यां लम्बमानाभ्यां संस्थितौ दक्षिणादितः।

१४० सात्वतसंहिता पद्मशङ्खौ सुशोभाढ्यौ यथा तदवधारय ॥ १६ ॥ तर्जनीमध्यमाभ्यां तु नम्राभ्यां मध्यतः स्थितम् । निषण्णं तलपर्यन्ते शङ्खमूर्ध्वमुखं शुभम् ॥ १७ ॥ सनालं कमलं तद्वत् सितं विकसितं तु वै । मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणम् ॥ १८ ॥ लम्बमानमधोवक्त्रं साङ्गुष्ठं संस्मरेद् विभोः । वासुदेवस्य लाञ्छनध्यानप्रकारमाह—कराभ्यामिति सार्द्धैस्त्रिभिः । लम्बमान- दक्षिणहस्ते तर्जन्यङ्गुष्ठाभ्यां संगृहीतं तलप्रदेशेऽधोमुखं स्थितं शङ्खवत् सितं विकसितं मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणं सनालं कमलं तथा वामहस्ते नम्राभ्यां तर्जनीमध्यमाभ्यां मध्यतो गृहीतं तलप्रदेशे ऊर्ध्वमुखं स्थितं शङ्खं च ध्यायेदित्यर्थः । ननु जाग्रद्व्यूहवासुदेवस्य पूर्वं चतुर्भुजत्वमुक्तम्, इदानीं लाञ्छनद्वयमात्रस्योक्ता द्विभुजत्वमेव ज्ञायत इति चेत्, किं तावता भवतो विरोधः, उभयथापि लक्षणं स्यात् ॥ १६-१९ ॥ अब भगवान् वासुदेव का शङ्खादि से युक्त सलाञ्छन ध्यान का प्रकार कहते हैं—हे सङ्कर्षण ! भगवान् जिस प्रकार अपने लम्बे-लम्बे हाथों में दक्षिण के क्रम से शोभायुक्त कमल और शङ्ख धारण किये हुए हैं, उसे सुनिये ॥ १६ ॥ लम्बे दाहिने हाथ में तर्जनी एवं अङ्गुष्ठ से पकड़कर तलप्रदेश में अधोमुख स्थित शङ्ख के समान उज्ज्वल एवं विकसित, कुछ-कुछ शेषलतागण समन्वित एवं सनाल कमल का तथा बायें हाथ में नीचे की ओर तर्जनी एवं मध्यमा अङ्गुलियों के मध्य में गृहीत तलप्रदेश में ऊर्ध्व मुख स्थित शङ्ख धारण किये हुए भगवान् का स्मरण करे ॥ १७-१९ ॥ होमान्तमखिलं कृत्वा ध्यायेदनिमिषस्ततः ॥ १९ ॥ दिनमध्येऽर्चनं कुर्याद् दिनान्ते स्नानवर्जितम् । महार्थैर्विविधैः स्तोत्रैर्गीतवाद्यसमन्वितैः ॥ २० ॥ निशां नीत्वा प्रभातेऽथ स्नानपूर्वमजं यजेत् । चतुरात्मानमव्यक्तमनुयागान्तकर्मणा ॥ २१ ॥ उदितेऽथ निशानाथे चास्तं याते दिवाकरे । क्षान्त्यर्थमर्चनं कुर्याद् दण्डवत् प्रणमेत् क्षितौ ॥ २२ ॥ चतुर्धा वै चतुर्दिक्षु ततः कुर्यात् प्रदक्षिणम् । एकैकस्याग्र उच्चार्य चतुर्धा तु पदं पदम् ॥ २३ ॥ तद्वाचकांस्तोत्रमन्त्रांस्ततः कृत्वा स्वभावगम् । तद्व्यक्तिव्यञ्जकेनैव सह वाक्यगणेन तु ॥ २४ ॥

सप्तमः परिच्छेदः १४१ ततो होमान्तं सर्वं कृत्वा पुनस्तमेव ध्यायन् प्राप्ते मध्याह्ने यथाविध्यर्चनं कृत्वा सायन्तनार्चनं तु स्नपनवर्जितं कृत्वा गम्भीरार्थगर्भितविविधस्तोत्रगीतवाद्यादिभिः सह तां निशां जागरणेन नीत्वा द्वादश्यां प्रभाते स्नानपूर्वकं यथाविधि चतुरात्मानं प्रभुं सम- भ्यर्च्य पारणान्तं कृत्वा सायन्तनार्चनं च कृत्वाऽपराधक्षमापणं कुर्वन् चतुर्दिक्षु चतुर्वारं दण्डवत् प्रणम्य चतुर्वारं प्रदक्षिणं कुर्वन् एकैकस्याग्रतः स्थित्वा तत्तद्वाचकस्तोत्र- मन्त्रवाक्यादीनि पठेद्दिति प्रयोगपद्धतिमाह—होमान्तमित्यादिभिः ॥ १९-२४ ॥ तदनन्तर होमान्त सभी कर्म करते हुए ध्यान करे । मध्याह्न होने पर यथाविधि अर्चन करे । पुनः सायङ्काल का अर्चन स्नान के बिना ही सम्पादन कर, गम्भीरार्थ-गर्भित, विविध स्तोत्र, गीत एवं वाद्यादि से उस रात को जागते हुए व्यतीत कर देवे । फिर द्वादशी को प्रभातकाल में यथाविधि चतुरात्मा प्रभु की पूजा कर पारण करे और सायंकाल की पूजा करे । अपराध के लिये क्षमा माँगे और चारों दिशाओं में चार बार दण्डवत् करे । चार बार प्रदक्षिणा कर एक-एक के आगे स्थित होकर तद्वाचक स्तोत्र मन्त्र वाक्यादि पढ़े ॥ १९-२४ ॥ वासुदेवादीनां जितन्तामन्त्रचतुष्टयम् जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते । रागदोषादिनिर्मुक्तो समस्तगुणमूर्तिमान् ॥ २५ ॥ नाथ ज्ञानबलोत्कृष्ट नमस्ते विश्वभावन । सङ्कर्षण विशालाक्ष सर्वज्ञ परमेश्वर ॥ २६ ॥ देव ऐश्वर्यवीर्यात्मन् प्रद्युम्न जगतांपते । नमस्तेऽस्तु हृषीकेश सर्वेश्वर जगन्मय ॥ २७ ॥ स्थित्युत्पत्तिलयत्राणहेतवे शक्तितेजसे । जयानिरुद्ध भगवन् महापुरुष पूर्वज ॥ २८ ॥ वासुदेवादीनां जितन्तादिस्तोत्रमन्त्रचतुष्टयं स्वयमेवाह—जितं त इति चतुर्भिः । अत्र प्रथमश्लोके प्रथमं पादम्, द्वितीये द्वितीयम्, तृतीये तृतीयम्, चतुर्थ चतुर्थं च संगृह्यैकश्लोकरूपेण लक्ष्मीतन्त्र (२४।६९) पाद्मादिषु प्रतिपादितम् । तस्याष्टा- क्षरादिव्यापकत्वं चोक्तं लक्ष्मीतन्त्रे— पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ विष्णवे नम इत्येवं नमो नारायणाय च । नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरन्दर । ओङ्कारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥......