भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

त्रयोदशः परिच्छेदः ३१५ भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता ॥ ४९ ॥ भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया । उदितं सह तेनैव शक्तिद्वितयमव्ययम् ॥ ५० ॥ नानात्वेन हि वै यस्य परिणामः प्रकीर्तितः । श्रीपुष्टिद्विकस्य लक्षणमाह—श्रीपुष्ट्याख्यद्वयमिति सार्धैश्चतुर्भिः । यस्य शक्तिद्वयस्य परिणामो नानात्वेन प्रकाशितः, चिन्ताकीर्तिजयामायादिरूपभेदैः प्रदर्शित इत्यर्थः ॥ ४७-५१ ॥ श्री, पुष्टि दो और शक्तियाँ हैं जो क्रमशः नारायण के दक्षिण और उत्तर रहती हैं । ये दोनों ही गरुड़ के पक्ष पर पद्मासन से बैठी रहती हैं ॥ ४७ ॥ एक के हाथ में कमलिनी का नाल है, तो दूसरे के हाथ में कोमल जल कलश है । सर्वत्रव्यापी भगवान् का सर्वप्रथम होने वाला जो अग्नीषोममय देह है । उनकी दो शक्तियाँ हैं । एक परस्पर मिली हुई और दूसरी परस्पर भिन्न हैं । उसमें लक्ष्मी भोक्त्री शक्ति हैं और दूसरी पुष्टि शक्ति हैं, जिन्हें कर्मी शक्ति भी कहा जाता है ॥ ४८-४९ ॥ जब भगवान् लोक पर अनुग्रह करने के लिये भोग के लिये पृथ्वी पर अवतीर्ण होते हैं तो वे अव्यय प्रभु इन्हीं दोनों शक्तियों के साथ अवतरित होते हैं । इनकी इन्ही दो शक्तियों का परिणाम चिन्ता, कीर्ति, दया, जया तथा माया आदि रूपों में अनेक प्रकार से कहा जाता है ॥ ४९-५१ ॥ दिक्पत्रचतुरन्तःस्थं यद् वै देवीचतुष्टयम् ॥ ५१ ॥ शक्तिः परशुपाशास्रमङ्कुशं तत्करे क्रमात् । लक्ष्मीकीर्त्यादिशक्तिचतुष्टयलक्षणमाह—दिक्पत्रेति ॥ ५१-५२ ॥ चारों दिक्पत्रों के अन्त में जो चार शक्तियाँ स्थित हैं उनके हाथ में क्रमशः परशु, पाश, अस्त्र और अङ्कुश है ॥ ५१-५२ ॥ षट्कं केसरजालस्थं तत्र प्राक्पश्चिमे द्वयम् ॥ ५२ ॥ द्वयं द्वयं सौम्ययाम्ये तासां वामकरेषु च । शङ्खं चक्रं गदा सीरमिष्वस्त्रं नन्दकं शिवम् ॥ ५३ ॥ शुद्ध्य्यादिदेवीलक्षणमाह—षट्कमिति सार्धेन । प्राक्पश्चिमे द्वयम् । प्राग्भागे एका शक्तिः, पश्चिमभागे एका शक्तिरित्यर्थः । द्वयं द्वयं सौम्यायाम्ये । उत्तरकोणद्वये शक्तिद्वयम्, दक्षिणकोणद्वये शक्तिद्वयमित्यर्थः । तथा च लक्ष्मीतन्त्रे—"तस्यैव कोणषट्कस्था षोढाऽहं शृणु नाम च" (८।२३) इति ॥ ५२-५३ ॥ अब शुद्ध्य्यादि देवियों के लक्षण कहते हैं—केशर जाल में छह शक्तियाँ

३१६ सात्वतसंहिता है जिसमें पूर्व और पश्चिम में एक-एक क्रम से दो शक्ति, उत्तर और दक्षिण में दो-दो और इनके वाम हस्त में शङ्ख, चक्र, गदा, हल, बाण एवं नन्दक नामक अस्त्र हैं ॥ ५३ ॥ शक्त्यष्टकलक्षणकथनम् पत्रमध्यनिविष्टं तु यत्कान्ताष्टकमुत्तमम् । तस्य वामकराणां च विज्ञेयं त्वादितोऽष्टकम् ॥ ५४ ॥ श्रीफलं चाक्षसूत्रं स्रग् दर्पणः पुष्पमञ्जरी । विष्टरं किङ्किणी चास्त्रसञ्चयः कमलेक्षण ॥ ५५ ॥ शक्त्यष्टकलक्षणमाह—पत्रमध्येति द्वाभ्याम् । श्रीफलं = विल्वफलमित्यर्थः ॥ ५४-५५ ॥ अब शक्त्यष्टक के लक्षण कहते हैं—पत्र के मध्य में जो आठ (शक्तियाँ) कान्तायें सन्निविष्ट की गई हैं, उनके बायें हाथ में भी आठ वस्तुयें इस प्रकार सन्निविष्ट हैं । (१) श्री फल, (२) अक्षसूत्र, (३) माला, (४) दर्पण, (५) पुष्पमञ्जरी, (६) विष्टर, (७) किङ्किणी, (८) अस्त्र सञ्चय । हे कमलेक्षण ऐसा समझो ॥ ५४-५५ ॥ लक्ष्यादिद्विषट्कलक्षणम् विज्ञेयः शान्तिदः पाणिर्द्वादशानां तु साभयः । अन्तरान्तरयोगेन सर्वाश्चामरलाञ्छिताः ॥ ५६ ॥ स्वस्तिकेनोपविष्टाश्चाप्यन्तर्मुदितमानसाः । लक्ष्यादिद्विषट्कलक्षणमाह—विज्ञेय इत्यर्धेन । सर्वसाधारणं लक्षणमाह— अन्तरेति । अन्तरान्तरयोगेन दक्षिणहस्तधारणेनेत्यर्थः ॥ ५६-५७ ॥ अब इन लक्ष्यादि बारहों के सामान्य लक्षण कहते हैं—इन द्वादश महालक्ष्मि‌यों के दाहिने हाथ में स्वास्तिक आदि माङ्गलिक वस्तुओं के धारण करने के कारण इनमें बारह हाथों को भी अभय देने वाला तथा शान्ति प्रदान करने वाला समझना चाहिये । ये सभी चिह्न देवचिह्नों से युक्त है । स्वास्तिक से युक्त है, सभी भीतर से प्रसन्नचित्त रहने वाले हैं ॥ ५६-५७ ॥ द्व्यादिकस्यास्य संघस्य द्वादशान्तस्य लाङ्गलिन् ॥ ५७ ॥ सितादिकेन वर्णेन लाञ्छनव्यत्ययेन तु । तुल्यलाञ्छनयोगेन तन्निरासे च वै सति ॥ ५८ ॥ वराभयाभ्यामन्योन्यपाणिभ्यामथ केवलात् । बहुधा भेदवृन्दं तु परिज्ञेयं तु पूर्ववत् ॥ ५९ ॥

त्रयोदशः परिच्छेदः ३१७ शक्तीशवत् शक्तीनामपि सितादिवर्णपद्मादिलाञ्छनव्यत्ययतुल्यलाञ्छनत्वादि- भेदैर्बहुधा भेदा विज्ञेया इत्याह—द्व्यादिकस्येति सार्धद्वाभ्याम्। द्व्यादिकस्य श्रीपुष्टि- द्विकपूर्वकस्येत्यर्थः । द्वादशान्तस्य लक्ष्मीपुष्ट्यादिद्विषट्कस्येत्यर्थः । संघस्येति जात्येकवचनम् । पञ्चसंघानामित्यर्थः । भवोपकणदेवानां प्रसिद्धत्वात् तल्लक्षणानि सर्वत्र प्रसिद्धानि द्रष्टव्यानीति ॥ ५८-५९ ॥ शेषं भवोपक़रणं देवानां निचयो हि सः । सुप्रसिद्धो महाबुद्धे किन्त्वब्जाद्यैस्तु पूर्ववत् ॥ ६० ॥ ध्यातव्या लाञ्छिताः सर्वे पाणिपादतलेषु च । नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगतत्रये ॥ तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे । ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥ (१२।१६८-१६९) इत्याद्युक्तप्रकारेण शक्तिभूषणास्त्रलाञ्छनानामप्यस्पष्टत्वे तत्पाणिपादतलादिषु तानि द्रष्टव्यानीति चाह—शेषमिति सार्धेन ॥ ६०-६१ ॥ जिस प्रकार भवोपक़रण देवों के प्रसिद्ध लक्षण सर्वत्र प्रसिद्ध देखे जा सकते हैं, उसी प्रकार इनके भी लक्षण सर्वत्र प्रसिद्ध देखे जा सकते हैं । किन्तु जिनके अस्त्र, ध्वज, वस्त्रादि द्वारा लक्षण प्रसिद्ध नहीं है वे भी अपने पैरों में लक्षण धारण करते हैं, अथवा ललाट में, अथवा कन्धों पर, अथवा पीठ में, अथवा दोनों हाथों में धारण करते ही है । बिना लक्षण के नहीं रहते इन लक्षणों के अस्पष्ट होने पर उन्हें हाथों तथा पादतलों में अवश्य देखा जा सकता है इसी बात को स्पष्ट करते हैं—शेषं भवोपक़रणं देवानां निचयों हि सः । सुप्रसिद्धो महाबुद्धे किन्त्वब्जाद्यैस्तु पूर्ववत् ॥ ५७-६१ ॥ भक्तिश्रद्धाव्रतपरः सर्वेषां यः सदैव हि ॥ ६१ ॥ ध्यात्वैवमर्चनं कुर्याद् भोगैः संस्पर्शपूर्वकैः । सोऽचिरान्मोक्षनिष्ठं तु फलं प्राप्नोत्यभीप्सितम् ॥ ६२ ॥ एतेषामर्चनफलमाह—भक्तीति सार्धेन ॥ ६१-६२ ॥ यतः इनके लाञ्छन पाणि पादतल में प्रतिष्ठित हैं । अतः वही साधक उनका ध्यान कर संस्पर्श पूर्वक भोगों (गन्ध, धूपादि, नैवेद्यादि द्वारा) से अर्चन करता है । इस प्रकार वह भक्त शीघ्र ही मोक्ष प्राप्त कर लेता है और शीघ्र ही अपना अभीष्ट भी प्राप्त कर लेता है ॥ ६१-६२ ॥ किरीटाद्यस्त्रनिष्ठेन परिवारेण चावृतम् । भक्त्या ह्यभीप्सितं रूपमर्चनीयमथापि वा ॥ ६३ ॥ निर्मुक्तपरिवारं वा स्वेन ध्यानेन लक्षितम् ।

३१८ सात्वतसंहिता एवं किरीटादिपारिवारध्यानैः सहितं वा तैर्विना केवलतत्तद्भगवन्मूर्त्तिध्यानमात्रेणं वाऽन्वितमर्चनं कार्यमित्याह—किरीटेति सार्धेन ॥ ६३-६४ ॥ इस प्रकार जो किरीटादि परिवारों के साथ, अथवा केवल भगवन्मूर्त्ति के साथ भक्तिपूर्वक परिवार सहित अथवा परिवार रहित ध्यान एवं अर्चन पूजन करता है, भगवान् दोनों प्रकार से उसे चतुर्विध पुरुषार्थ प्रदान करते हैं ॥ ६४ ॥ विदधात्यर्चनान्नूनं स्वपदं फलसंयुतम् ॥ ६४ ॥ ज्ञात्वैवं साधकः कुर्याद् यथाभिमतमर्चनम् । आत्मशक्तिसमैर्भोगैरखिलैः शुद्धविग्रहैः ॥ ६५ ॥ हृदि वेद्यां बहिर्मूर्ती प्रासादे स्वगृहे तु वा । बहुप्राकारनिर्मुक्ते धूमदाहादिनोज्झिते ॥ शरणे रमणीये च निःसम्पर्के तु भाविते ॥ ६६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां भूषणाद्यस्त्रदेवताध्यानं नाम त्रयोदशः परिच्छेदः ॥ १३ ॥ — ❧ ❃ ❧ — उभयथाऽर्चनेऽपि भगवान् चतुर्विधपुरुषार्थानपि प्रयच्छतीति ज्ञात्वा स्वेच्छानु- सारेण यथाशक्त्यार्जितैर्भोगैर्मनसि बहिर्वेद्यां बिम्बे वाऽऽलये स्वगृहे वाऽर्चनं कुर्यादि- त्याह—विदधातीति त्रिभिः ॥ ६४-६६ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये त्रयोदशः परिच्छेदः ॥ १३ ॥ — ❧ ❃ ❧ — यह अर्चन, आत्मशक्ति के अनुरूप तथा आत्मशक्ति के अनुसार शुद्ध विग्रह से हृदय में या वेदी पर, किसी शुद्ध स्थान में, मूर्त्ति में, प्रासाद में, अपने गृह में, बहुत प्राकार से निर्मुक्त स्थान पर, धूम एवं दाह विवर्जित स्थान में, सर्वोत्तम मनोरम गृह में, निर्जन स्थान में तथा अत्यन्त पवित्र स्थान में करना चाहिए ॥ ६४-६६ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के भूषणाद्यस्त्रदेवताध्यान नामक त्रयोदश परिच्छेद की हिन्दी समाप्त हुई ॥ १३ ॥ — ❧ ❃ ❧ —

चतुर्दशः परिच्छेदः पवित्रारोपणविधिः नारद उवाच अखण्डनाय नित्यस्य तथा नैमित्तिकस्य च । कर्मणश्चोदयामास हली विष्णुं मुनीश्वराः ॥ १ ॥ अथ चतुर्दशः परिच्छेदो व्याख्यास्यते । इह नित्यनैमित्तिककर्मणामखण्डनावहं कर्म सङ्कर्षणो वासुदेवं पृच्छतीत्याह—अखण्डनायेति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरों ! अब इसके बाद सङ्कर्षण, भगवान् वासुदेव से नित्य एवं नैमित्तिक कर्मों में जिस प्रकार किसी प्रकार बाधा न हो, वह अखण्डित रहे, इस विषय में पूछते हैं ॥ १ ॥ सङ्कर्षण उवाच यैराजीवावधिं कालं नित्यमाराधनं प्रति । धीः कृता पुण्डरीकाक्ष श्रद्धापूतेन चेतसा ॥ २ ॥ तेषामाकस्मिकाल्लोपाद् भोगानामप्यसम्भवात् । यः स्यात् तस्योपशमनं ज्ञातुमिच्छामि साम्प्रतम् ॥ ३ ॥ प्रश्नप्रकारमाह—यैरिति द्वाभ्याम् । तेषां भागवतानाम्, आकस्मिकाल्लोपाद् अबुद्धिपूर्वकादाह्निकव्रतादिलोपादित्यर्थः । भोगानामसंभवाद् = औपचारिकादीनां लोपादित्यर्थः । यः स्याद् = यो दोषः संभवेदित्यर्थः । तस्योपशमनं = ज्ञातुमिच्छा- मीति प्रश्नः ॥ २-३ ॥ सङ्कर्षण ने कहा—हे भगवन् ! जिस प्रकार महाभागवतों की नित्य एवं नैमित्तिक क्रिया का लोप न हो, अथवा भोगों के अभाव में या औपचारिकता के अभाव से दोष न पड़े, उसके उपशमन का उपाय बताइये क्योंकि उस महाभागवत ने आजीवन नित्य श्रद्धा युक्त चित्त से आप की आराधना की प्रतिज्ञा की है ॥ २-३ ॥ श्रीभगवानुवाच लोभबुद्धिं विना यस्य भोगानामप्यसम्भवः ।

३२० सात्वतसंहिता सामर्थ्येन विना यस्य कृच्छ्रादीनां परिच्युतिः ॥ ४ ॥ ज्वरादिव्याधिदोषेण जातो यस्याह्निकक्षयः । चातुर्मास्यस्य चाप्राप्तिर्यस्य स्वातन्त्र्यतो विना ॥ ५ ॥ तस्य तस्य महाबुद्धे शृणु यद्विहितं हितम् । सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ॥ ६ ॥ हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् । औपचारिकभोगानां बीजानि विहितानि वै ॥ ७ ॥ एवं पृष्टो वासुदेवस्तांस्तान् दोषहेतून् स्वयमपि विविच्य तत्तदुपशामकानाह— लोभबुद्धिमित्यादिभिः । लोभबुद्धिं विना द्रव्यलोभं विना । अनुपपत्तिविनाशादिति भावः । यस्य पुरुषस्य यत्पुरुषकर्तृक इत्यर्थः । भोगानाम् = औपचारिक- सांस्पर्शिकाभ्यवहारिकाणाम्, असम्भवो लोपः संभवति । स्वातन्त्र्यतो विना पार- तन्त्र्याद्यस्य पुरुषस्य चातुर्मास्यस्य व्रतस्य चाप्राप्तिर्लोपः संभवति, तस्य तस्य पुरुषस्य यद्विहितं प्रायश्चित्तरूपं हितं विहितं शास्त्रचोदितं तच्छृण्वित्यर्थः । सांस्पर्शिकानां भोगानां स्रक्चन्दनादीनाम्, मात्रावित्तं प्रत्यहं पूजाकाले दीयमानं सहिरण्‍यशालितण्डुलतिलादि- कम्, पूरणं भोगलोपदोषजनितच्छिद्रपूरकमित्यर्थः । हृदयंगमसंज्ञानाम् = आभ्यव- हारिकाणाम्, हविषा प्लुतम् = आज्याक्तमन्नं पूरकम् । औपचारिकभोगानां = छत्र- चामरादीनाम्, विविधानि बीजानि मात्रार्थं कल्पितानि मुद्गादीनि पूरकाणि ॥ ४-७ ॥ श्री भगवान् ने कहा—हे सङ्कर्षण! द्रव्य लोभ के बिना ही जिस पुरुष के आराधना में औपचारिक, सांस्पर्शिक एवं आभ्यवहारिक भोगों का लोप हो जाता है स्वतन्त्रता के अभाव में या परतन्त्रता के कारण जिस पुरुष के चातुर्मासिक व्रतों में विघ्न पड़ जाता है । अब उसके विषय में जो-जो प्रायश्चित्त हैं, हे सङ्कर्षण ! उसे सुनिये । आराधना में सांस्पर्शिक दोष (स्रक्, चन्दनादि का अभाव), पूजा करने में मात्रावित्त (= सहिरण्‍य, शालि, तण्डुल, तिलादि, दान) से पूर्ण होता है । आभ्यवहारिक दोष आज्य परिप्लुत अन्न के होम से पूर्ण होता है और औपचारिक भोग (छत्र, चामरादि के अभाव का दोष) का विविध बीज (मुद्गादिदान) से पूर्ण होता है ॥ ४-७ ॥ कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः । विशेषार्चनसयुक्तश्चातुर्मास्यस्तु संयमः ॥ ८ ॥ सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् । शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ॥ ९ ॥ एवं भोगलोपप्रायश्चित्तमुक्त्वा कृच्छ्रादिलोपप्रायश्चित्तं दर्शयति—कृच्छ्रचान्द्रा- यणादीनामिति । कृच्छ्रचान्द्रायणादीनां व्रतानां विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः अष्टमपरिच्छेदोक्तचातुर्मास्यव्रतनियमः पूरकः ।

चतुर्दशः परिच्छेदः ३२१ अथ क्रमप्राप्तमाह्निकलोपप्रायश्चित्तं दर्शयति—मुक्ताहारोपमं चित्रं शुभं सौत्रं क्षौमादिसूत्रकृतं प्रतिसरं पवित्राख्यं भूषणं भक्तानामाह्निकं लोपम् = आह्निकलोपजन्यं दोषं शमं नयति शान्तिं प्रापयतीत्यर्थः । चातुर्मास्यव्रतलोपस्यापीदं प्रायश्चित्तमिति ज्ञेयम्, तस्याह्निकेष्वेवान्तर्भूतत्वात्, अत एव तस्य प्रत्येकं प्रायश्चित्तानुक्तेः । एवं च मन्त्रलोपक्रियालोपद्रव्यलोपादिसंभवे हि कृच्छ्रचान्द्रायणादिव्रतान्यनुव्रीयन्ते, तेषामपि पूरकश्चातुर्मास्यव्रतः, तस्यापि पूरकं पवित्रारोपणम् । अतोऽस्य सर्वप्रायश्चित्तत्वमुक्तं भवति । तथा च वक्ष्यति कण्ठरवेण— तपोदानव्रतानां च विहितस्याह्निकस्य च । निःशेषयागभोगानां कृत्वा सम्पूरणक्रियाम् ॥—(१५।१) इति ॥ ८-९ ॥ कृच्छ्रचान्द्रायणादि व्रतों में होने वाले दोषों का प्रायश्चित्त विशेषार्चन संयुक्त चातुर्मास्य का संयम है ॥ ८ ॥ अब क्रम-प्राप्त आह्निक क्रिया के लोप से होने वाले दोषों का प्रायश्चित्त कहते हैं—भक्तों के नित्य आराधन में आह्निक दोष होने पर प्रतिसर (क्षौमादि सूत्र की ग्रथित माला जिसे 'पवित्रा' कहते हैं) उससे उस आह्निक-दोष की शान्ति हो जाती है ॥ ९ ॥ पवित्रारोपणानुष्ठानकालकथनम् तच्च मासचतुष्कस्य मध्ये कुर्याच्छुभे दिने । आषाढपञ्चदश्यास्तु यावद् वै कार्तिकस्य च ॥ १० ॥ सम्पूर्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम् । आ कर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि ॥ ११ ॥ कालं तं चाष्टपक्षं तु सौरं मध्यमसंज्ञितम् । एकादश्यादि चान्तो यश्चातुर्मास्योपलक्षितः ॥ १२ ॥ कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम् । तस्मादस्य विधानं विस्तरेण दर्शयन् प्रथमं तदनुष्ठानकालमाह—तच्चेत्या- दिभिः । आषाढपञ्चदश्या = आषाढपौर्णमासीमारभ्य कार्तिकस्य मासस्य सम्पूर्ण- चन्द्रदिवसं पौर्णमासीति यावत् । तावन्तं कालं चान्द्रं चान्द्रमानसंज्ञम् अन्तिमम् अधमं सन्नं विद्धि । आ कर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि सूर्यस्य कर्कटकप्रवेशमारभ्य तुलाधिष्ठानभोगावसानपर्यन्तम् । अथवा तुलायां तुलामासे ये भोगाः शालिव्रीह्यादीनां फलानि, तेषां क्षयावधि तल्लवनसंग्रहणपर्यन्तमित्यर्थः । यद्वा तुलामासस्याभोगो विस्तारस्तदवसानपर्यन्तमित्यर्थः । अष्टपक्षम् = अष्टौ पक्षा यस्य तं तथोक्तं कालं सौरं सौरमानसंज्ञं मध्यमं विद्धि । चातुर्मास्योपलक्षितः = एकादश्यादि चान्तो यः काल आषाढशुक्लैकादशीमारम्य कार्तिकशुक्लैकादश्यन्तं मासचतुष्टयात्मक इत्यर्थः । तं

३२२ सात्वतसंहिता कालं वैष्णवं वैष्णवमानसंज्ञम्, उत्तमं तं विद्धि । पारमेश्वरव्याख्याने— "एकादश्यादि चान्तो य इत्यत्र एकादश्यामादिरारम्भस्तत्र तीर्थं वा" इति विलिखितम् । तद्वि- चारणीयम् ॥ १०-१३ ॥ वह पवित्रारोपण चातुर्मास्य काल में पवित्र शुभ तिथि में करे, आषाढ़ की पूर्णिमा से लेकर कार्तिक की पूर्णिमा तक का दिन चातुर्मास्य कहा जाता है ॥ १० ॥ जिस दिन चन्द्रमा सायं से कार्तिक मास के जिस दिन सारा दिन चन्द्रमा हो उस दिन को 'पूर्णमासी' कहा जाता है उतना चान्द्रमान काल 'अधम' कहा जाता है ॥ १०-११ ॥ कर्क की संक्रान्ति से लेकर तुलाभोगक्षयावधि पर्यन्त इस प्रकार कुल आठ पक्ष का सौर काल 'मध्यम' संज्ञक कहा जाता है। अतः आषाढ़ शुक्ल एकादशी से लेकर कार्त्तिक शुक्ल एकादशी के अन्त तक का काल विद्वानों द्वारा चातुर्मास्य 'उत्तम' संज्ञक कहा जाता है ॥ ११-१२ ॥ अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ॥ १३ ॥ निर्वाहणीयोऽप्यपरः कालश्चान्द्रायणादिना । उत्तमकालालाभेऽधमादिकाले वेदनुष्ठेयमित्याह—अप्राप्तेरिति ॥ १३-१४ ॥ यही काल वैष्णव मान के अनुसार चातुर्मास्य समझना चाहिये जो सर्वोत्तम है। यदि इस प्रकार का काल संभव न हो, तब अधमकाल में भी वेदानुष्ठान (पवित्रारोपण) अनुष्ठेय है ॥ १३-१४ ॥ सम्पाद्यं चैव तन्मध्ये विधिवद् यागपूरकम् ॥ १४ ॥ दिनत्रये तु पूर्वोक्ते पूर्णिमाद्युपलक्षिते । सोपवासैः क्रियापूर्वं कर्म प्रातिसरीयकम् ॥ १५ ॥ उत्तमकालेष्वन्यतमे दिनत्रये पवित्रारोपणं कार्यमित्याह—सम्पाद्यमिति । सम्पाद्यं = कर्तव्यमित्यर्थः । तन्मध्ये उत्तमादिकालत्रयमध्ये, यागपूरकं = भगवदाराधनच्छिद्र- पूरकमित्यर्थः, पौर्णिमाद्युपलक्षिते = पौर्णमास्या एकादश्या संक्रान्त्या वाऽन्वित इत्यर्थः । प्रातिसरीयकं = पावित्रकमित्यर्थः ॥ १४-१५ ॥ तीन दिन के उत्तम काल में किसी भी उत्तम दिन पवित्रारोपण विधेय है । इस उत्तमादिकालत्रय के मध्य में भगवदाराधन में होने वाले छिद्र की पूर्ति के लिये याग तथा पौर्णमासी एकादशी अथवा संक्रान्ति काल में प्रतिसरानुष्ठान (पवित्रा- रोपण) भी विधेय है ॥ १४-१५ ॥ पवित्रदिवसाख्य कर्मकथनम् दशम्यामर्चनं कृत्वा हुत्वाग्निं च निशामुखे । आनिमन्त्र्य च देवेशं धूपं दत्त्वाऽर्घ्यपूर्वकम् ॥ १६ ॥

चतुर्दशः परिच्छेदः ३२३ निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः । तथापि भक्त्या तृप्तोऽहं त्वां यजाम्यात्मसिद्धये ॥ १७ ॥ निवेद्य मुखवासादीनित्युक्त्वा दन्तधावनम् । सम्पूज्याथ सुगन्धैस्तु सितसूत्रसमूहजम् ॥ १८ ॥ शुभं प्रतिसरं त्वेकं तत्तुल्यानि बहूनि वा । कुङ्कुमाद्यैर्यथाशोभं रञ्जयित्वा स्वशक्तितः ॥ १९ ॥ जाम्बूनदमयैः पुष्पैर्नारत्लोपशोभितैः । सनालैर्भूषणीयं च रम्यैर्वा रजतोत्थितैः ॥ २० ॥ धूपितेऽभिनवे भाण्डे कृत्वाच्छाद्यास्तरेण तु । प्रणवेनार्चयित्वा तु संस्थाप्य पुरतो विभोः ॥ २१ ॥ देवागारं बहिश्चान्तर्मन्दिरं यागसंज्ञितम् । संवेष्ट्य सितसूत्रेण चतुर्धा तद्गुणेन तु ॥ २२ ॥ ततोऽभ्यर्च्य समूहं तु पञ्चकालपरायणम् । षट्कर्मनिरतं चापि यतिवृन्दं तु वैष्णवम् ॥ २३ ॥ समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् । सन्निधानमतः कार्यं मदनुग्रहकाम्यया ॥ २४ ॥ स्नानाद्यमेकादश्यां वै सविशेषं समाचरेत् । हवनान्तं क्रियाकाण्डं जपस्तुतिपरस्ततः ॥ २५ ॥ आराध्यस्याग्रतः स्थित्वा जागरेण नयेन्निशाम् । अथ दशम्येकादश्योः कर्तव्यं पवित्रदिवासाख्यं कर्माह—दशम्यामित्यारभ्य जागरेण नयेन्निशामित्यन्तम् । अर्चनं कृत्वा कुम्भमण्डलबिम्बेषु यथाविधि सम्पूज्ये- त्यर्थः । अग्निं च हुत्वा अग्नौ च देवं सन्तर्प्येत्यर्थः, एवमधिवासदिनादिषु चतुःस्थाना- र्चनस्येश्वरपारमेश्वरादिषु प्रतिपादितत्वात् । यद्वाऽर्चनं कृत्वेत्यत्र केवलबिम्बार्चनमेव विवक्षितम्, यदा तु केवलं बिम्बे पवित्रारोपणं भवेत्॥ तदा स्याद् बिम्बकस्यैव अधिवासोक्तपूजनम्। तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले॥ —(१२।४७८-४७९) इति पारमेश्वरोक्तेः । इत्थं दिनद्वयेऽप्यधिवासकरणाशक्तस्यैकादश्यामेवाधि- वासनम्, तत्राप्यशक्तस्य सद्योऽधिवासनम्, अधिवासात् पूर्वमङ्कुरार्पणं रक्षाबन्धनं चोक्तमीश्वरे— पूर्वं दशम्येकादश्योः कुर्यात् कर्माधिवासनम्। एकादश्यां वानुकल्पे अधिवासनमाचरेत्॥

३२४ सात्वतसंहिता

सद्योऽधिवासं द्वादश्यां कुर्याद्वा शक्त्यभावतः । अधिवासदिनात् पूर्वदिनं कृत्वाङ्कुरार्पणम् ॥ अधिवासदिने कुर्याद् रक्षाबन्धं च देशिकः । —(१४।१६७-१६९) इति । एवमेवोक्तं पारमेश्वरेऽपि— प्राक्सप्त(मे) दिने कृत्वा प्राग्वदङ्कुररोपणम् । प्राग्वत् कृत्वाधिवासं तु पुरस्ताद् वासरद्वये ॥ —(१२।४७५) इति । द्रव्याभावो द्विजश्रेष्ठ! अशक्तिर्यदि वा भवेत् । सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्यनुसारतः ॥ —(१२।४९८-४९९) इति । अधिवासदिने चतुःस्थानार्चनानन्तरम् ‘‘आनिमन्त्र्य च देवेशम्’’ (१४।१६) इत्यत्रैकैकं पवित्रं समर्पणीयम् । तथा चोक्तमीश्वरे पारमेश्वरे च— प्रणम्य देवदेवेशं ततस्त्वेकं पवित्रकम् । दहनाप्यायसंशुद्धं प्रोक्षितं चार्घ्यवारिणा ॥ वासितं गन्धधूपाभ्यां चतुःस्थानस्थितस्य च । निवेद्य च क्रमेणैव धूपं दत्त्वाऽर्घ्यपूर्वकम् ॥ इति । —(ई०सं० १४।१८०-१८१, पा०सं० १२।२६१-२६२) पवित्रनिर्माणप्रकरणेऽपि— चतुःस्थानावतीर्णस्य विभोरामन्त्रणाय वै । पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ॥ इति । —(ई०सं० १४।११२-११३, पा०सं० १२।१४१-१४२) अत्र पवित्राणां तन्तुसंख्याग्रन्थिकल्पनगर्भरचनादिकं नोक्तमपीश्वरपारमेश्वराद्युक्तं ग्राह्यम् । अथवा— यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया । निशारोचनया वापि पवित्राणां च धातुना ॥ केनचिद् ग्रन्थयो विप्रा विधिवत् परिरञ्जयेत् । पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ —(ई०सं० १४।२६७-२६८, पा०सं० १२।५००-५०१) इतीश्वरपारमेश्वरयोर्लघुपक्षस्याप्युक्तत्वात् तन्तुग्रन्थिनियमादीनामन्यतो ग्रहणा- भावेऽपि न प्रत्यवायः । ननु यथेच्छाग्रन्थिकल्पनस्यापि मूलेऽनुक्तत्वात् तदपि वाऽन्यत्र ग्राह्यं खल्विति चेन्न, ‘‘मुक्ताहारोपमम्’’ (१४।९) इत्यनेनैव ग्रन्थिकल्पनसिद्धेः । ‘‘संवेष्ट्य सित- सूत्रेण चतुर्धा तद्गुणेन तु’’ (१४।२२) इत्यत्र तद्गुणेन चतुर्गुणेनेत्यर्थः,

चतुर्दशः परिच्छेदः ३२५ चतुर्गुणेन संवेष्ट्य ह्यन्तराद् यागमन्दिरम् । प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन् ॥ — (१२।२६९-२७०) इति पारमेश्वरस्यष्टोक्तेः ॥ १६-२६ ॥ यह पवित्रानुष्ठान दशमी अथवा एकादशी को भी किया जा सकता है, प्रतिसर (= पवित्रारोपण) कर्म में उपवास कर्म करे । सायंकाल अग्नि में हवन कर दशमी को भगवान् का अर्चन करे । प्रथम देवेश का आमन्त्रण करे, अर्घ प्रदान करे, फिर धूप देवे ॥ १६ ॥ फिर उनसे प्रार्थना करे—हे भगवन् ! आप स्वयं अपने आनन्दमय भोग से नित्य तृप्त हैं । आप में कोई विकार है ही नहीं, तथापि आप की भक्ति से तृप्त हुआ मैं अपनी सिद्धि की कामना के लिये आप का यजन करता हूँ ॥ १७ ॥ इस प्रकार प्रार्थना कर भगवान् को दन्त धावनादि मुख वास प्रदान करे । फिर श्वेत सूत्र समूह से बने हुए एक अथवा अनेक सूत्र समूहों की सुगन्धित वस्तुओं से पूजा करे । उसे कुङ्कुमादि से यथाशक्ति रञ्जित करे, जिससे वह शोभा सम्पन्न हो जाय । सुवर्णमय पुष्पों से तथा नाना प्रकार के रत्नों से अथवा रजतमय खण्डों से धूपित नाल उसे भूषित करे । इस प्रकार भूषित कर लेने के बाद किसी भूषित अभिनव भाण्ड में अन्तरण पर स्थापित कर प्रणव से अर्चना करे । फिर उसे भगवान् के सामने स्थापित करे ॥ १८-२१ ॥ फिर देवागार, मन्दिर और यज्ञभूमि को श्वेतसूत्र से चार बार लपेट कर उसे सामूहिक रूप से नित्य पूजन करे । फिर पञ्चकाल परायण षट्कर्म निरत यतिवृन्दों तथा वैष्णवों को बुलावे तथा प्रार्थना करे कि मैं आप लोगों के समक्ष कल अपने इन प्रभु की पूजा करूँगा । अतः हे प्रभु ! मेरे ऊपर कृपा करते हुए कल अवश्य पधारियेगा ॥ २२-२४ ॥ इसके बाद एकादशी के दिन स्नानादि कार्य विशेष रूप से सम्पादन करना चाहिए । फिर हवनादि समस्त क्रिया-काण्ड करे तथा साधक जप और स्तुति में तत्पर रहे । अपने आराध्य भगवान् के सामने स्थित होकर जागते हुए रात बितावे ॥ २५-२६ ॥ पुनरभ्यर्च्य देवेशं प्रभाते विधिपूर्वकम् ॥ २६ ॥ भूषयेद् भूषणैर्नैव त्वामूर्ध्नः प्रणवेन तु । यथारूपैश्च बहुभिर्भूयाद् बद्धाञ्जलिस्त्विदम् ॥ २७ ॥ नावलेपान्न मोहाच्च कर्मत्यागो मया कृतः । त्वमेव सर्वं जानासि सर्वेश हृदये स्थितः ॥ २८ ॥ यथाशक्त्या त्वनिच्छातातस्तत्रापि परमेश्वर ।

३२६ सात्वतसंहिता तन्निमित्तमिदं कर्म कृतं त्वत्प्रीतये मया ॥ २९ ॥ एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान् । भगवत्प्रतिपत्त्या तु शक्त्या प्रावरणैर्धनैः ॥ ३० ॥ तथा प्रतिसरान्तैस्तु ब्रह्मचारीन् यतीन् गुरून् । तर्पयित्वाऽथ चान्नेन पूतेन विविधेन तु ॥ ३१ ॥ क्षान्त्वाऽनुव्रज्य नैवेद्यपूर्वं कुर्याच्च भोजनम् । अथ द्वादश्यां प्रातर्नित्यार्चनचतुःस्थानार्चनपूर्वकं पवित्रसमर्पणम्, हविर्निवेदना- द्यनन्तरं नावलेपादिति श्लोकद्वयेन प्रार्थनम्, भगवत्प्रतिपत्त्या चतुर्णां कारिणां ब्रह्म- चार्यादीनां भागवतानां च पवित्रसमर्पणहविर्भोजनान्तमर्चनमपराधक्षमापणादिकं स्वानु- यागं चाह—पुनरभ्यर्च्य देवेशमित्यादिभिः । प्रावरणैर्वस्त्रैरित्यर्थः ॥ २६-३२ ॥ फिर प्रभात होने पर विधिपूर्वक देवेश का अभ्यर्चन करे । फिर प्रणव मन्त्र से भगवान् के रूप के अनुसार पैर से शिर तक भगवान् को भली प्रकार से भूषित करे । तदनन्तर हाथ जोड़कर इस प्रकार प्रार्थना करे ॥ २६-२७ ॥ हे भगवन् ! मैंने अहङ्कारवश अथवा अज्ञानवश अपने इस कर्म का त्याग नहीं किया है । आप सबके हृदय में निवास करते हैं और सब कुछ जानते हैं । हे परमेश्वर ! मैंने अनिच्छावश भी अपनी शक्ति के अनुसार उस मूल के कारण यह सारा कार्य आपकी प्रीति के लिये किया है ॥ २८-२९ ॥ साधक इस प्रकार प्रार्थना कर चार अथवा पाँच पाँचरात्र के उपासकों की पूजा करे । इस प्रकार द्वादशी को प्रातः नित्यार्चन चतुःस्थानार्चनपूर्वकभगवान् को पवित्रा समर्पण करे । फिर हवि निवेदन के अनन्तर ‘नावलेपादिति’ (२८-२९) श्लोक द्वय से प्रार्थना करे । फिर भगवद् इष्ट या चार कर्मकारी ब्रह्मचारियों को तथा चार महाभागवत भक्तों को पवित्रा समर्पण कर हविष्य भोजन करावे । पुनः अर्चनपूर्वक अपराध समापन करावे । पुनः उन ब्रह्मचारी तथा महाभागवतों को पीछे अनुगमन कर नैवेद्य पूर्वक भोजन करे ॥ ३०-३२ ॥ अपरेऽहनि संन्यासमाचरेद् वा दिने दिने ॥ ३२ ॥ अपनीय तु माल्यादीन् प्रदद्याद् वा दिने दिने । नो याति म्लानतां यावच्चतुर्थेऽहनि वा त्यजेत् ॥ ३३ ॥ विशेषयागपूर्वं तु कारिभ्योऽवसरे स्वके । तदपरेद्युरेव पवित्रविसर्जनमाह—अपरेऽहनीत्यर्धेन । अथवा पुष्पाणामेव प्रत्यहं विसर्जनं कुर्वन् पवित्राणां विसर्जनं तु चतुर्थेऽहनि विशेषेण कारिपूजनपूर्वकं कुर्यादित्याह—अपनीयेति सार्धेन । एतदूर्ध्वमपि पवित्र- स्थापनमुक्तमीश्वरपारमेश्वर्योः—

चतुर्दशः परिच्छेदः ३२७ एकरात्रं त्रिरात्रं वा पञ्च वा सप्तरात्रकम् । पवित्रकं स्थापयित्वा ततः संन्यासमाचरेत् ॥ अथवार्चागतं विप्र तावत्संस्थाप्य भूषणम् । यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ इति । —(ई०सं० १४।२५०-२५१, पा०सं० १२।४४६-४४७) अन्ये च बहवो विशेषा अत्रापेक्षिता ईश्वरादिषु द्रष्टव्याः ॥ ३२-३३ ॥ फिर दूसरे दिन विधिपूर्वक सन्यास ग्रहण कर लेवे, अथवा पूर्वदिन का समर्पित माल्यादि हटाकर प्रतिदिन नयी-नयी माला समर्पित करे, अथवा यदि माला तीन दिन तक मलिन न हुई हो तो उसे चतुर्थ दिन त्याग करे । इस प्रकार कार्यकारी भक्तों के लिये, अपने अवसर उपस्थित होने पर अन्य भी, बहुत सी विशेषतायें हैं ॥ ३२-३४ ॥ एवं कृते सति तदा सिद्धिर्भवति शाश्वती । सर्वथाऽऽराधकानां तु चेतसोऽभीप्सितं तथा ॥ ३४ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां पवित्रारोपणविधिर्नाम चतुर्दशः परिच्छेदः ॥ १४ ॥ — ❧ ✶ ❧ — एतत्फलमाह—एवमिति ॥ ३४ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये चतुर्दशः परिच्छेदः ॥ १४ ॥ — ❧ ✶ ❧ — जो इस प्रकार से आराधना में दोष होने पर, इस प्रकार का प्रायश्चित करता है उसे शाश्वती सिद्धि प्राप्त होती है तथा आराधना करने वाले का सर्वथा अभीष्ट सिद्ध हो जाता है ॥ ३४ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के पवित्रारोपणविधि नामक चतुर्दश परिच्छेद की हिन्दी समाप्त हुई ॥ १४ ॥ — ❧ ✶ ❧ —

पञ्चदशः परिच्छेदः पवित्रस्नानविधिः श्रीभगवानुवाच तपोदानव्रतानां च विहितस्याह्निकस्य च । निश्शेषयागभोगानां कृत्वा सम्पूरणक्रियाम् ॥ १ ॥ अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमे तु वा । स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशे च सङ्गमे ॥ २ ॥ नद्यां समुद्रगामिन्यां देवखाते हदे तु वा । प्रीतये परमेशस्य त्वात्मनो दुःखशान्तये ॥ ३ ॥ आह्लादायामराणां च पितॄणां तृप्तये तु वै । आप्यायनार्थं भूतानां भुवनानां च भूतये ॥ ४ ॥ देशदोषप्रशान्त्यर्थं गोब्राह्मणहिताय च । अथ पञ्चदशपरिच्छेदो व्याख्यास्यते । एवं सर्वच्छिद्रपूरकं पवित्रारोपणाख्यं कर्म कृत्वा तदवरोपणदिने तदनन्तरं देवस्यावभृथं कार्यमित्याह—तप इत्यादिभिः ॥ १-५ ॥ श्री भगवान् ने कहा—इस प्रकार सर्वाच्छिद्रपूरक पवित्रारोपण कर्म करने के पश्चात् तप, दान एवं व्रतों को तथा विहित आह्निक कर्मों को सम्पूर्ण याग भोगों के छिद्र पूर्ति की सारी क्रिया सम्पादन करे । दूसरे दिन, अथवा चौथे दिन, अथवा सातवें दिन किसी तीर्थ प्रदेश में, अथवा सङ्गम स्थल में पूज्य मन्त्र के स्नान कराने की क्रिया सम्पादन करे ॥ १-२ ॥ अथवा समुद्रगामिनी नदी में, देवखात में, ह्रद में इस पूज्य मन्त्र का स्नान, परमेश्वर की प्रीति के उद्देश्य से, अथवा अपने दुःख की शान्ति के उद्देश्यों से, अथवा देवताओं को प्रसन्न करने के लिये, अथवा पितरों की तृप्ति के लिये करावे, अथवा प्राणियों के वृद्धि के उद्देश्य से, अथवा समस्त लोकों के कल्याण के लिये कराना चाहिये । देशदोष की प्रशान्ति के लिये, अथवा गौ ब्राह्मण के हित के लिये पूज्यमन्त्र का स्नान कराना चाहिये ॥ ३-४ ॥

पञ्चदशः परिच्छेदः ३२९ कुशकूर्चनिर्माणप्रकारकथनम् बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ॥ ५ ॥ प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः । ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ॥ ६ ॥ तस्य मध्यमनालं यन्त्यग्भूतमवतिष्ठते । आराध्य मन्त्रनाथेन स्मरेद् व्याप्तं महात्मना ॥ ७ ॥ विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् । अनेकगर्भमुच्चं यत्काण्डं काण्डेषु चोत्तमम् ॥ ८ ॥ अणिमादिगुणैर्युक्तं पुंस्तत्त्वं तेन कल्प्यते । वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ॥ ९ ॥ बहिःकाण्डचतुष्केण चित्तपूर्वं चतुष्टयम् । ग्रथनीयमधोवक्त्रमव्यक्तान्तं स्वकैः पदैः ॥ १० ॥ प्रणवादिमोऽन्तैस्तु व्यापकं सूक्ष्मलक्षणम् । एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत् तथा ॥ ११ ॥ कर्मेंन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् । पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्माऽवसानिकम् ॥ १२ ॥ अवशिष्टैस्तु तत्काण्डैर्बध्नीयात् तत् तरण्डवत् । विना शिखासमूहेन समुत्तानावधेरथ ॥ १३ ॥ किञ्चित् तदूर्ध्वदेशाच्च यथा नो याति वै पुनः । बहुधा काण्डसंघस्तु कल्पितस्तत्त्वसंख्यया ॥ १४ ॥ विभिन्नानां च काण्डानां भङ्गादेकतमस्य च । उत्पद्यतेऽन्यथात्वं च तस्मात् तद् ग्रथयेद् दृढम् ॥ १५ ॥ तदर्थं कुशकूर्चनिर्माणप्रकारमाह—बहुशाखमित्यादिभिः। बहुशाखम् = अनेक- काण्डान्वितमित्यर्थः । तेनैव = प्रणवेन, तन्मूलं = दर्भमञ्जरीमूलम्, अधिष्ठितं कुर्याद् = व्याप्तं भावयेदित्यर्थः । परमात्मीयं विवर्तं = भगवदाकारान्तरमित्यर्थः । अध्य- क्षाख्यमिति विवर्तस्य विशेषणम् । अध्यक्षं नाम भगवत्सूक्ष्मरूपभेदः । तथा चोक्तं जयाख्ये— तन्महाविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज । प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ॥ परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् । तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ सिद्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् । —(१५।२३५-२३७) इति । सा० सं० - 25

३३० सात्वतसंहिता पुंस्तत्त्वं = जीवात्मेत्यर्थः । तस्य वाचकं = जीवमन्त्रमित्यर्थः । हंसयुक्तं = हंसाक्षरयुक्तमित्यर्थः । द्विलक्षणं = पदद्वयात्मकमित्यर्थः । तथा च तन्मन्त्रोद्धारो जयाख्ये— अप्रमेयेण सूत्रेण व्योमाख्येनामृतेन च । परमेश्वरयुक्तेन त्रितारोक्तात्मना तु वा ॥ (७।२५) इति । अयमेवार्थः सुस्पष्टमुपबृंहितो लक्ष्मीतन्त्रे—"प्रत्यगात्मपरामर्शिशब्दः सोमोऽथ सर्गवान्" (३३।४७) इति । एवं च 'अहं सः' इति जीववाचकमन्त्रो ज्ञेयः । चित्त- पूर्वकमव्यक्तान्तं चतुष्टयं = मनोबुद्ध्यहङ्कारप्रकृत्याख्यं तत्त्वचतुष्टयमित्यर्थः । प्रणवादिन्मोन्तैः = स्वकैः पदैः ॐकारनमस्कारसम्पुटितैश्चतुर्थ्यन्तैस्तत्तन्नामभि- रित्यर्थः । कर्मेन्द्रियाणि = वाक्पाणिपादपायूपस्थानि । तन्मात्रपञ्चकं = शब्द- तन्मात्रादिपञ्चकम् । भूतानां पञ्चकम् = आकाशादिभूतपञ्चकम् । क्ष्मावसानि(का?कं) = पृथिव्यन्तमिति तद्विशेषणम् । अवशिष्टैस्तत्काण्डैः पञ्चविंशतिकाण्डेभ्योऽतिरिक्तैः कुशकाण्डैरित्यर्थः ॥ ५-१५ ॥ अब स्नान के लिये सर्वप्रथम कूर्चनिर्माण का प्रकार कहते हैं—जिसमें बहुत सी शाखायें हों, जो स्थूल हो, जो पुष्पित न हो ऐसे कुशों को पूर्वाभिमुख हो, प्रणव मन्त्र से, पृथ्वी से उखाड़ कर कुश मूल में भगवद् भावना कर भगवान् को स्थापित करे ॥ ५-६ ॥ उसका मध्यमनाल जो नीचे की ओर लटका हुआ है, उसमें महात्मा मन्त्रनाथ की आराधना कर उनसे व्याप्त होने की भावना करे ॥ ७ ॥ उसे सर्वाध्यक्ष परमात्मा का जीवात्म स्वरूप दूसरा विवर्त्त (= परिणाम) समझे । सभी काण्डों में जो अनेक गर्भों वाला सबसे ऊँचा काण्ड है, उसमें अणिमादि से युक्त पुंस्तत्त्व (जीव) की कल्पना करे । फिर उसमें जीव वाचक 'हंस' युक्त इन दो पदद्वयात्मक अक्षरों की कल्पना करे ॥ ८-९ ॥ फिर उसमें चित्तपूर्वक अव्यक्तान्त (मन, बुद्धि, अहङ्कार एवं प्रकृति) इन तत्त्व चतुष्टय की अधोमुख ॐकार तथा नमस्कार सम्पुटित चतुर्थ्यन्त तत्तन्नामों से ग्रथित करे ॥ १० ॥ इसी प्रकार वाक्पाणिपादपायूपस्थ को भी उनके नाम पञ्चक के साथ तथा शब्द-तन्मात्रादि पञ्चक को और आकाशादि पृथ्व्यन्त भूतपञ्चक को भी उसमें बाँध देवे । पचीस काण्ड से बचे हुए (कुश) काण्डों को एक में मिलाकर गोले के समान बाँध देवे । उन शेष काण्डों को इस प्रकार दृढ़ता से बाँधे जिससे वह पुनः ऊपर की ओर न उठे । जहाँ तक हो सके काण्ड की संख्या तत्त्व संख्या (२५) तक ही होनी चाहिये । इससे अधिक काण्ड संख्या होने पर उसमें किसी एक काण्ड के भग्न होने से अनर्थ उत्पन्न होने की संभावना रहती है । इसलिये उतने काण्ड को दृढ़ता के साथ बाँधे ॥ ११-१५ ॥

पञ्चदशः परिच्छेदः ३३१ दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम्। अनुसन्धीयते तत्र मन्त्रध्यानं यथास्थितम्॥ १६ ॥ पूजयित्वाऽर्घ्यपुष्पाद्यैरलङ्कृत्य पठेदिदम्। एवंविधं पवित्रं परिकल्प्य तत्र ध्यानपूर्वकं भगवन्तमभ्यर्च्य प्रार्थयेदित्याह— दर्भमञ्जरिजमिति सार्धेन। तीर्थबिम्बाद्यभावे त्वेवं दर्भपवित्रकल्पनं कार्यम्। तत्सत्त्वे तस्यैव तीर्थस्नानं बोध्यम्। तथा चेश्वरपारमेश्वर्योः— यथावत् स्नपन कुर्यात् तीर्थबिम्बे विशेषतः। नित्यस्नपनबिम्बे वा कुर्यात् तत्तदसन्निधौ॥ नित्योत्सवपरे बिम्बे ह्याचरेत् तदसन्निधौ। तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे॥ इति। —(ई०सं० १४।२८०-२८१, पा०सं० १२।५३५-५३७) ॥ १६-१७ ॥ इस प्रकार साधक दर्भ की मञ्जरियों से पवित्री निर्माण करे। फिर उसमें मन्त्र का ध्यान कर मन्त्रनाथ की प्रतिष्ठा करे। फिर अर्घ्य पुष्पादि से अलङ्कृत कर यह प्रार्थना करे ॥ १६-१७ ॥ त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम्॥ १७ ॥ त्वय्येवाधिष्ठितं सर्वमिति जानामि तत्त्वतः। तत्रापि च त्वयाऽऽदिष्टं क्रियाकाण्डं शुभप्रदम्॥ १८ ॥ यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया। प्रार्थनाश्लोकद्वयमाह—त्वमिति ॥ १७-१९ ॥ प्रार्थना मन्त्र का अर्थ—हे भगवन्! आप ही महान् तीर्थ हो, आप महान् आयतन हो, सारी सृष्टि आप में ही अधिष्ठित है, इस बात को मैं तत्त्वतः जानता हूँ। फिर भी आपकी आज्ञा से इसे कल्याणकारी क्रिया काण्ड का आपका अनुग्रह प्राप्त करने के लिये आज इसका निर्वाह कर रहा हूँ ॥ १७-१९ ॥ एवं विज्ञाप्य भगवन्! मन्त्रमूर्तिं परावरम्॥ १९ ॥ तं पत्रपात्रगं कृत्वा ब्रह्मयानगतं तु वा। वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम् ॥ २० ॥ नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च। पूर्वमुखं च तं यानमथादाय पवित्रकम्॥ २१ ॥ वामहस्ततले कुर्यात् क्ष्मामण्डलगतां त्विव। विधृत्यान्मध्यभागाच्च पाणिना दक्षिणेन तु॥ २२ ॥ अवतीर्याम्भसो मध्ये निमज्जेत् सह तेन वै।

३३२ सात्वतसंहिता एवं विज्ञाप्य तत्पवित्रं ब्रह्मयाने वा समारोप्य वेदवाद्यघोषैः सह तीर्थसमीपं नीत्वा तत्र प्राङ्मुखमवरोप्य पवित्रमादाय वामकरतले भूमण्डलगतिमिव निधाय तन्मध्यं दक्षिणपाणिना गृहीत्वा तीर्थमध्येऽवतीर्य तेन सह स्नायादित्याह—एवमिति चतुर्भिः ॥ १९-२३ ॥ इस प्रकार परावर मन्त्रमूर्त्ति भगवान् से निवेदन कर उन्हें किसी पत्ते के पात्र में, अथवा किसी ब्रह्मयान में समारोपित कर वेद गान की ध्वनिपूर्वक शङ्ख बजाते हुए, माङ्गलिक जय-जयकार शब्द करते हुए, किसी तीर्थ स्थान में ले जाकर उसके तट पर उन्हें स्थापित करे। उस यान को पूर्वाभिमुख कर उसमें से उस पवित्रक को लेकर, अपने बायें हाथ पर भूमण्डल के समान स्थापित करे ॥ १९-२१ ॥ फिर अपने दाहिने हाथ से उन्हें मध्य भाग में ग्रहण कर जल में उतर कर उनके साथ ही डुबकी लगावे। (उसी समय वहाँ समस्त तीर्थ भी उनके साथ पहुँच जाते हैं) ॥ २२-२३ ॥ सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात् तु वै ॥ २३ ॥ निःशेषाणि च तीर्थानि लोकत्रयगतानि च। मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ॥ २४ ॥ तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः। किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः ॥ २५ ॥ साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया। तत्काले तत्तीर्थे सर्वतीर्थसान्निध्यप्रभावमाह—सन्निधिमिति त्रिभिः ॥ २३-२६॥ जब मन्त्रात्मा प्रभु रक्षा के लिये, क्षण भर के लिये भी जलाशय में उपस्थित हो जाते हैं, तभी तीनों लोकों के समस्त तीर्थ उस जलाशय में पहुँच जाते हैं ॥ २३-२४ ॥ इस प्रकार उस जलाशय में समस्त आयतनों तथा समस्त तीर्थों का एकत्र समागम हो जाता है। जहाँ अधोक्षज भगवान् विष्णु मन्त्रमूर्त्ति रूप से विराज रहे हों वहाँ सभी तीर्थ आयतन क्यों न उपस्थित हो? ॥ २५ ॥ साधकों से अभ्यर्थित जो तीर्थ प्राप्त कर इस विधि से स्नान करता है वह तत्त्ववेत्ता है। सभी साधकों को इसी प्रकार सर्वानुग्रह बुद्धि से स्नान करना चाहिये ॥ २६ ॥ विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्त्ववित् ॥ २६ ॥ स्नापयेद् बन्धुमित्रादीन् प्राप्नुवन्त्यचिराच्च ते। तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः ॥ २७ ॥ एवं कूर्च्चद्वारा दूरदेशगतानां जनानामपि तीर्थस्नानं फलाधायकमित्याह—विद्वा-

पञ्चदशः परिच्छेदः ३३३ निति सार्धेन । बान्धवादीनामिति कर्मणि षष्ठी । ते बान्धवादय इत्यर्थः ॥ २६ - २७ ॥ जो विद्वान् इस प्रकार तीर्थ में आकर स्नान करता है वह तत्त्ववेत्ता साधक है । इसी प्रकार अपने सभी बन्धुओं और मित्रों को तीर्थ में स्नान कराना चाहिये । ऐसा करने से वे सभी बन्धु-बान्धव मन्त्रमूर्ति के कृपा प्रसाद से उस तीर्थ स्नान का फल अनायास ही प्राप्त कर लेते हैं ॥ २६-२७ ॥ किन्तु तद्यानवादित्रवर्जितस्तु भवेद् विधिः । इमं विद्धि महाबुद्धे विशेषं चात्र कर्मणि ॥ २८ ॥ अत्र विशेषमाह—किन्त्विति । यानारोपणं मङ्गलवाद्यान्वितत्वं च भगवत एवा- र्हम्, नान्यस्येति भावः ॥ २८ ॥ किन्तु हे महाबुद्धे ! इस कर्म में यह एक विशेषता है कि तीर्थ स्नान में वाहन, बाजा आदि वर्जित रखे ॥ २८ ॥ सामान्यमविनाशं यच्चिन्मयं रूपमैश्वरम् । विशेषसंज्ञासम्बन्धं जीवहंसं विभाव्य तम् ॥ २९ ॥ पवित्रकं तदाकारं स्मृत्वा स्नाप्यस्ततोऽम्भसा । अस्य शरीरस्य भगवच्छरीरभूतत्वादेनमपि भगवदात्मकं स्मृत्वा पवित्रद्वारा स्नानं कारयेदित्याह—सामान्यमिति सार्धेन ॥ २९-३० ॥ उस पवित्रक में सामान्य अविनाशी सच्चिन्मय ऐश्वर स्वरूप विशेष संज्ञा सम्बन्ध वाले जीव रूप हंस की संभावना करे । इस प्रकार के आकार का ध्यान कर उसे जल में स्नान करावे ॥ २९-३० ॥ एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ॥ ३० ॥ सम्पाद्यं विष्टरैः स्नानं दूरस्थानां सदैव हि । तेनैकेनैव पवित्रेण बहूनां बान्धवादीनां यद्वा पृथक् पवित्रैः स्नानं कारयेदि- त्याह—एवमिति । दूरस्थानां ग्रामान्तरगतानां लोकान्तरगतानां वेत्यर्थः ॥ ३०-३१ ॥ इसी प्रकार उस पवित्रक के साथ अन्यों को अनेक लोगों के साथ स्नान करावे । फिर दूर के लोगों को भी स्नान करा कर भगवान् के स्नानान्तर के पश्चात् उन्हें विष्टर सम्पादन करे ॥ ३०-३१ ॥ सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते ॥ ३१ ॥ रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि । यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ॥ ३२ ॥ सनृत्तगेयवादित्रं जागरणेन समन्वितम् । एकरात्रं द्विरात्रं वा त्रिरात्रं भक्तिपूर्वकम् ॥ ३३ ॥

३३४ सात्वतसंहिता एवमवभृथानन्तरं ब्रह्मरथे पवित्रस्थं देवमारोप्याभ्यर्च्य तदीयाराधनपूर्वकं ग्रामप्रादक्षिण्येने यात्रोत्सवं कुर्यादित्याह—सम्पन्न इति सार्द्धद्वाभ्याम् । उत्सवानन्तरं तद्रात्रौ जागरणं च कार्यमिति भावः । द्विरात्रं त्रिरात्रमावृत्तिरुत्सवस्यैव न तु स्नानस्य ॥ ३१-३३ ॥ हे महामते ! इस प्रकार स्नान सम्पन्न हो जाने पर दूसरे दिन रथ निर्माण कर, यथाविधि अर्चन पूजन कर, अन्नदान पुरः सर यात्रोत्सव करे । यह यात्रोत्सव वृत्त गेय वादित्र और जागरण पुरस्सर भक्तिपूर्वक एक रात, दो रात अथवा तीन रात तक निरन्तर होना चाहिये ॥ ३१-३३ ॥ सकृत् संवत्सरस्यान्ते उत्सवं स्नपनादिकम् । कुर्याद् यो मन्त्रनाथस्य स सिद्धिं लभते पराम् ॥ ३४ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां पवित्रस्नानविधिर्नाम पञ्चदशः परिच्छेदः ॥ १५ ॥ — ❦ ❖ ❦ — पवित्रोत्सवप्रकरणे फलमाह—सकृदिति ॥ ३४ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये पञ्चदशः परिच्छेदः ॥ १५ ॥ — ❦ ❖ ❦ — जो संवत्सर के अन्त में एक बार भी इस प्रकार मन्त्रनाथ का स्नपनोत्सव करता है, वह शीघ्र ही परा (= श्रेष्ठ) सिद्धि प्राप्त कर लेता है ॥ ३४ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के पवित्रस्नानविधि नामक पञ्चदश परिच्छेद की हिन्दी समाप्त हुई ॥ १५ ॥ — ❦ ❖ ❦ —