सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
४०० सात्वतसंहिता क्रम से वृद्धि होने लगती है । देह के धातुओं पर आश्रित मांस भोजी जन्तुओं की बलि के लिये सातों दिन क्रमशः महिष, अज, गुड, हरिण, शशक, मयूर और चक्रवाक का सम्पादन करे । कुङ्कुम से रँगे हुए विष्ट आदि द्वारा पशु प्रतिनिधि के रूप में करे । जीव हिंसा कदापि न करे क्योंकि स्वार्थ के लिये एवं पदार्थ के लिये अपना कल्याण चाहने वाले पुरुष को प्राणिहिंसा कदापि नही करनी चाहिये । विशेष कर जीवित रहने की इच्छा रखने वाला पुरुष प्राणिहिंसा वर्जित करे । प्राणिहिंसा से आयु का क्षय होता है और प्राणियों को अभयदान देने से आयु की अभिवृद्धि होती है ॥ ३२९ ॥ आयु, आरोग्य, ऐश्वर्य, अपमृत्यु पर विजय महान्, बल, ओज, धृति, धैर्य, मन्त्र के जप से प्राप्त होता है, दूसरे के आयुष्य के हरण से नहीं ॥ ३३० ॥ सत्त्वगुण में स्थित पुरुष की मन्त्र, पूजा, जप, होम, सुवर्ण एवं गवादिक का दान करने से इस लोक की तथा परलोक की वृद्धि होती है ॥ ३३१ ॥ इस प्रकार सात दिन बीत जाने पर मण्डलादि स्थित देवताओं से क्षमा माँग कर मण्डलीय रजःकण तथा बलि आदि की समस्त वस्तुयें दूर जलादि में प्रक्षिप्त कर देवे । यहाँ तक आतुरों के रक्षा विधान की विधि कही गई ॥ ३३२-३३३ ॥ अनातुराणामपि रक्षाविधानम् नीरुजानां विशेषेण रक्षणं भोगसेविनाम् ॥ ३३३ ॥ क्रियारतानां भक्तानामास्तिकानां हितैषिणाम् । कार्यं क्रियापरेणैव मन्त्रज्ञेन सदैव हि ॥ ३३४ ॥ यत्रानेन विधानेन शरीरमपि रक्ष्यते । तत्र भूताः प्रयच्छन्ति कल्याणं सर्वलौकिकम् ॥ ३३५ ॥ अथ सन्धारणीं रक्षां वक्ष्ये विग्रहभूषणम् । या सम्पन्ने क्रियामात्रे धारणादेव रक्षति ॥ ३३६ ॥ प्रणवाद्यन्तसंरुद्धं प्राग्वत् संज्ञापदं लिखेत् । संज्ञाधारं हि तद्बीजं विन्यसेत् प्रणवोदरे ॥ ३३७ ॥ तेनावर्तं त्रिधा कुर्यात् सर्वं तत् सिंहकुक्षिगम् । नेमेर्दशमबीजेन बीजराट् परिवेष्ट्यते ॥ ३३८ ॥ औकाररहितं बीजं नाभिसप्तमसंस्थितम् । भिन्नं सर्वारसंसंस्थैस्तु कृत्वा तेन प्रपूर्य तम् ॥ ३३९ ॥ कमलं तद्बहिः कुर्यात् षड्दलं व्योमभूषितम् । हृदाद्यं नेत्रपर्यन्तं पत्रषट्के तु विन्यसेत् ॥ ३४० ॥
सप्तदशः परिच्छेदः ४०१ प्रणवेन चतुर्दिक्षु संरुद्धं नाम संलिखेत् । रक्षवीप्सापदोपेतं पत्रसन्धिषु षट्स्वथ ॥ ३४१ ॥ द्वादशारं बहिश्चक्रं नाभिनेमियुतं लिखेत् । नाभेरष्टमबीजं यत् तदरेष्वन्तरा न्यसेत् ॥ ३४२ ॥ सप्तमाद् दशमं यावद् वर्जयित्वा अराक्षरम् । क्रमेण भेदयेच्छेषैस्तदराणैः सबिन्दुकैः ॥ ३४३ ॥ जहिवीप्सापदं दोषानमुकस्येति विन्यसेत् । सर्वेषामन्तरालेषु अस्त्रमन्त्रं तु पूर्ववत् ॥ ३४४ ॥ अमुकं पाहि पाहीति द्वादशाक्षरमध्यगम् । चक्रनाभौ तु विन्यस्य नेमिदेशे तथैव हि ॥ ३४५ ॥ क्रमादथ बहिर्लिख्य मन्त्रचक्रस्य यत्नतः । वृत्तत्रयार्धचन्द्राणि चतुरश्रपुराणि च ॥ ३४६ ॥ बिन्दुस्वस्तिककह्लारवज्रसंलाञ्छितानि च । नाभिपूर्वद्वितीयेन चतुर्थेन तदादिना ॥ ३४७ ॥ क्रमाद् वर्णचतुष्केण तानि युक्तानि कारयेत् । सषडङ्गेन बीजेन नाम रक्षपदानुगम् ॥ ३४८ ॥ सम्पुटीकृत्य वृत्ताख्यं मण्डलं परिपूरयेत् । द्वादशार्णेन बाह्यस्थं तृतीयं पूर्य पूर्ववत् ॥ ३४९ ॥ द्वितीयं वा चतुर्थं तु बहिर्दिक्ष्वष्टके क्रमात् । रक्षवीप्सापदोपेतं नामवर्जं नियोजयेत् ॥ ३५० ॥ सह रोचनया योज्य कर्पूरं कुङ्कुमं तु वै । क्षीरेण कापिलेनाथ तद्गोमयरसेन च ॥ ३५१ ॥ निशाम्बुना समालोड्य निम्नगासलिलेन वा । विलिख्य भूर्जपत्रे वा बर्हिपक्षेण वासरे ॥ ३५२ ॥ शुभेऽनुकूले नक्षत्रे सुलग्नेऽभ्युदिते ग्रहे । पूज्य संवेष्ट्य सूत्रेण ततः सद्धातुना तु वै ॥ ३५३ ॥ सन्धार्य मूर्ध्नि कण्ठे वा सततं दक्षिणे भुजे । दैवदोषविमुक्तस्तु वर्धते शोकवर्जितः ॥ ३५४ ॥ अधिभूतैर्भयैर्मुक्तो यावज्जीवं हि तिष्ठति । परार्थतो वा स्वार्थेन कृतकृत्यो यदा भवेत् ॥ ३५५ ॥ दोषवान् शान्तिदेनैव कर्मणाऽनेन साधुना ।
४०२ सात्वतसंहिता
मन्त्री तदा मन्त्रवरं प्रयत्नेन क्षमापयेत् ॥ ३५६ ॥ सिद्ध्यर्थमन्यसिद्धीनां यागहोमजपादिना । अथानातूराणामपि रक्षाविधिमाह—नीरूजानां विशेषेणेत्यारभ्य यागहोमजपादि- नेत्यन्तम् । दैवदोषविमुक्त आधिदैविकतापविमुक्त इत्यर्थः । आधिदैविको नाम शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवस्तापः । शोकवर्जित आध्यात्मिकतापविमुक्त इत्यर्थः । शोकपदमाध्यात्मिकानामन्येषामप्युपलक्षणम् । आध्यात्मिको नाम— कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ (विष्णु पु. ६।५।५) शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः । (विष्णु पु० ६।५।३-४) इत्युक्तस्तापः । अधिभूतमयैर्मुक्त आधिभौतिकतापविवर्जित इत्यर्थः । आधि- भौतिको नाम— पशुपक्षिमन्ुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जन्यन्ते चाधिभौतिकाः ॥ (विष्णु पु० ६।५।७) इत्युक्तस्तापः । तथा च प्रयोगः— शुभेऽनुकूले नक्षत्रे शुभे ग्रहेऽभ्युदिते सुलग्ने स्नातः कृतमन्त्रन्यासः साधको रोचनाकर्पूरकुङ्कुमानि कपिलाक्षीरेण तद्गोमयरसेन च हरिद्रोदकेन नदीजलेन च समालोड्य तत्कुङ्कुमादिपङ्कं बर्हिपक्षलेखिन्या समादाय भूर्जपत्रादौ वक्ष्यमाणप्रकारेण विलिखेत् । प्रणवसम्पुटितं साध्यनामधेयं श्रीनृसिंहबीजगर्भं विलिख्य तद् बीजं प्रणवगर्भे यथा भवेत् तथा विलिख्य पुनस्तत्प्रणवं बीजगर्भस्थं कृत्वा पुनस्तद्बीजं प्रणवमध्यगतं कृत्वैवं त्रिधावर्तनिन्तरं तत्सर्वं बीजगर्भगतं कृत्वा तद्बीजं नेमेर्दशमबीजेन लकारेण परिवेष्ट्यौकाररहितं नृसिंहबीजं नाभिसप्तमसंस्थितं सकारोपरि संस्थितं सर्वारसंसिस्थितैरकारादिविसर्गान्तैः स्वरैर्विभिन्नं च कृत्वा तेन तं प्रपूर्य तद्बहिव्र्योमभूषितं षड्दलं कमलं विलिख्य तद्दलेषु हृदादिनेत्रान्तान् षण्मन्त्रान् विलिख्य चतुर्दिक्ष्वपि प्रणवसम्पुटितं रक्ष्यस्य नामधेयं रक्ष रक्षेति पदान्वितं पत्रसन्धिषट्केऽपि विलिख्य तद्बहिर्नाभिनेमिसमन्वितं द्वादशारं चक्रं विलिख्य नाभेरष्टमबीजं हकारं सप्ताष्टम- नवम-दशमस्वरान् विहायावशिष्टैरकारादिविसर्गान्तैर्द्वादशस्वरैर्भिन्नं कृत्वा द्वादशारे- ष्वपि क्रमेण लिखेत् ॥ ३३३-३४३ ॥ अराणामन्तरालेषु 'ॐ क्षः वीर्याय अस्त्राय फट् अमुकस्य दोषान् जहि जहीति' विलिखेत् । चक्रस्य नाभिदेशे नेमिभागे च नृसिंहद्वादशाक्षरसम्पुटितममुकं पाहि पाहीति विलिखेत् । ततस्तन्मन्त्रचक्रस्य बहिर्बिन्दुभूषितं वृत्तमण्डलं तद्बहिः स्वस्तिक- भूषितं त्र्यश्रमण्डलं तद्बहिः कह्लारभूषितमर्धचन्द्राकारं मण्डलं तद्बहिर्वज्रलाञ्छितं चतुरश्रं मण्डलं च विलिख्य नाभिपूर्वं यकारं वायुबीजं पूर्वोक्ते वृत्तमण्डले तद्द्वितीयं रेफमग्निबीजं त्रिकोणमण्डले तच्चतुर्थममृतं (वकारं) बीजमर्धचन्द्राकारमण्डले तत्तृतीयं
सप्तदशः परिच्छेदः ४०३ पार्थिवबीजं चतुरश्रमण्डले च विलिख्य वृत्तमण्डले सषडङ्गेन बीजेन सम्पुटीकृतममुक- नामधेयं रक्षेति पदद्वयं विलिखेत् । तथैवार्धचन्द्राकारमण्डलेऽपि द्वादशाक्षरसम्पुटित- ममुकं रक्षेति पदद्वयं विलिखेत् । पुरस्त्यश्रमण्डले वृत्तमण्डलवच्चतुरश्रमण्डलेऽर्ध- चन्द्राकारमण्डलवच्च विलिख्य बहिः प्राच्याद्यष्टदिक्षु रक्ष रक्षेति केवलं नामवर्जितं विलिखेत् । अथेदं यन्त्रं यथाविधि सम्पूज्य सूत्रेण संवेष्ट्य सुवर्णादिधातुना विधाय मूर्ध्नि कण्ठे दक्षिणभुजे वा सततं धारयेत् । अनेन यावज्जीवमाध्यात्मिकादिदैवि- काधिभौतिकतापत्रयभयविमुक्तो भवति । एवं स्वार्थतः परार्थतो वा यन्त्रोद्धारादिकं कृत्वा यागहोमसमाधिभिर्देवं सविशेषं समाराध्य क्षमापयेत् ॥ ३४४-३५७ ॥ इति संधारिणी रक्षाविधिः ॥ अब अनातुरों की रक्षाविधि कहते हैं—क्रियापरायण मन्त्रज्ञ को चाहिये कि वह भोग सेवन करने वाले, रोग रहित, यज्ञ यागादि क्रियापरायण आस्तिक भक्तों की एवं अपने हितेच्छु जनों की रक्षा अवश्य करे ॥ ३३४ ॥ जहाँ उक्त प्रकार से मन्त्रज्ञ शरीर की रक्षा करता है, वहाँ भूतगण भी सार्वलौकिक कल्याण करते हैं ॥ ३३५ ॥ अब शरीर की भूषणभूत सन्धारणी रक्षा कहता हूँ। जिसके क्रिया मात्र के सम्पन्न होने से अथवा उसके धारण करने मात्र से साधक मनुष्य अपनी रक्षा कर लेता है ॥ ३३६ ॥ अब इसकी प्रयोग विधि कहते हैं—शुभ अनुकूल नक्षत्र में, शुभ ग्रह स्थिति में एवं शुभ लग्न में साधक स्नान करे और न्यास करे । फिर रोचना कुङ्कुम एवं कपूर को एक में मिला कर उसे कपिला गौ के दूध एवं गोमय से रस (हरदी का) जल तथा नदी के जल से अच्छी तरह मन्थन कर एकीकरण करे । उस पङ्क को मोर पक्ष की कलम से भोजपत्र आदि पर इस प्रकार लिखे— श्री नृसिंह बीज के गर्भ में प्रणव सम्पुटित साध्य नाम लिखे फिर उस बीज को भी प्रणव गर्भ में जिस प्रकार वह आ सके वैसा लिखे । फिर उस प्रणव को भी उस बीज के गर्भ में स्थापित कर फिर उस बीज को भी प्रणव मध्यगत लिखे । इस प्रकार तीन बार आवृत्ति कर उन सभी को बीज के गर्भ में लिखे । फिर उस बीज को नेमि के दशम बीज लकार से परिवेष्टित करे । फिर औकार रहित नृसिंह बीज को (नाभि सप्तम स्थित) सकार के ऊपर संक्षिप्त कर सभी अरा पर संस्थित एकारादि विसर्गान्त स्वरों से संयुक्त कर, उसके बाहर व्योम- भूषित षड्दल कमल लिख कर, उसके दलों पर हृदादि नेत्रान्त ६ मन्त्रों को लिख कर, उसके चारों दिशाओं में प्रणव सम्पुटित रक्ष्य का नाम 'रक्ष रक्ष' इस पद से युक्त कर, पत्र सन्धि के ६ भागों पर उसे लिखकर उसके बाहर नाभि समन्वित द्वादशाक्षर चक्र लिखकर नाभि का अष्टम बीज हकार लिखे । फिर सप्तम, अष्टम, नवम, दशम (ऋ ॠ लृ लॄ) इन चार स्वरों को छोड़कर
४०४ सात्वतसंहिता अवशिष्ट विसर्गान्त एकादश स्वर (अ आ इ ई उ ऊ ए ऐ ओ औ अः) स्वरों से संयुक्त कर द्वादश अरों पर उन्हें लिखे ॥ ३३७-३४३ ॥ अरों के बीच-बीच में 'ॐ क्षः वीर्याय अस्त्राय फट् अमुकस्य दोषान् जहि जहि' यह लिखे। फिर चक्र के नाभि देश तथा नेमिभाग पर नृसिंह के द्वादशाक्षर मन्त्र से सम्पुटित 'अमुकं पाहि पाहि' यह लिखे। तदनन्तर इस प्रकार लिखे गये उस मन्त्र चक्र के बाहर बिन्दुभूषित वृत्तमण्डल, उसके बाहर स्वस्तिकभूषित त्रिकोणमण्डल, उसके बाहर कहारभूषित अर्धचन्द्राकार मण्डल, उसके बाहर वज्र लाञ्छित चौकोर मण्डल लिखकर नाभिपूर्व वायु बीज यकार लिखे। पूर्वोक्त वृत्त मण्डल पर, उससे दूसरा रेफ अग्निबीज त्रिकोण मण्डल पर, चौथा अमृत बीज वकार अर्धचन्द्राकार मण्डल में, तृतीय पार्थिव बीज लकार इस प्रकार चारों मण्डल पर लिखकर वृत्त मण्डल पर षडङ्गबीज से सम्पुटित 'अमुकनामधेयं रक्ष' इस दो पद को लिखे, फिर उसी प्रकार अर्धचन्द्राकार मण्डल पर भी द्वादशाक्षर सम्पुटित 'अमुकं रक्ष' यह दो पद लिखे। फिर त्रिकोण मण्डल, वृत्त मण्डल, चतुरस्र मण्डल, अर्धचन्द्राकार मण्डल लिखकर उसके बाहर पूर्वादि आठों दिशाओं में केवल रक्ष रक्ष इतना ही नामवर्जित पद लिखे। फिर इस प्रकार निष्पन्न मन्त्र का यथाविधि पूजन कर, उसे सूत्र से संवेष्टित कर और सुवर्णादिक धातु में उसे स्थापित कर शिर, कण्ठ या दाहिने हाथ में कहीं भी सतत् धारण करे। इसको जीवन पर्यन्त धारण करने वाला पुरुष आध्यात्मिक, आधिदैविक तथा आधिभौतिक इन तीनों प्रकार के तापों के भय से सदा विमुक्त हो जाता है। इस प्रकार अपने लिये तथा दूसरों के लिए मन्त्रोद्धार कर याग, होम एवं समाधि द्वारा भगवान् नृसिंह का विशेष रूप से समाराधन करने वाला साधक उनसे प्रार्थनापूर्वक क्षमा याचना करे ॥ ३४४-३५६ ॥ धर्मार्थकाममोक्षाख्य पुरुषार्थचतुष्टयसाधनविधिः अथ मन्त्रवराद् धर्मसाधनं योऽभिवाञ्छति ॥ ३५७ ॥ तत्प्राप्तये विधानं च संक्षेपादवधारय । पितॄणां लुप्तपिण्डानां पिण्डनिर्वापणाय च ॥ ३५८ ॥ प्रीतयेऽपि जगद्धातुः परित्राणार्थमात्मनः । कृतोपवासोऽमावास्यां मण्डलान्तर्गतं विभुम् ॥ ३५९ ॥ आवाह्य पूर्वविधिना योजयेद् भक्तिपूर्वकम् । पाद्यार्घ्यपुष्पधूपैस्तु दानैर्हेमगवादिकैः ॥ ३६० ॥ तिलयुक्तैस्तु नैवेद्यैः सकुशैस्तु तिलान्वितैः । विमलैरम्बुपात्रैश्च स्वयमञ्जलिपूरकैः ॥ ३६१ ॥ सोऽचिरान्मन्त्रमूर्तेर्वै प्रसादाच्छाश्वतं पदम् ।
सप्तदशः परिच्छेदः ४०५ प्राप्नोति नरकस्थांश्च पितॄनपि नयेद् दिवम् ॥ ३६२ ॥ पत्रपुष्पफलान्नाद्यसस्यदध्योदनादिना । रसैरत्नैश्च सद्गन्धैर्वस्त्रोत्कृष्टैस्तु धातुभिः ॥ ३६३ ॥ प्रवालमुक्तामाणिक्यैर्भक्त्या च विभवे सति । बिम्बस्थं मण्डलस्थं वा सर्वैर्यो मन्त्रिराड् यजेत् ॥ ३६४ ॥ षडशीतिमुखोत्थायां पूर्णायों सोपवासकः । यज्ञधर्मफलाकाङ्क्षी स नूनं तदवाप्नुयात् ॥ ३६५ ॥ यो हि वाञ्छति सद्धर्मतीर्थाभिगमनं महत् । स यथावत् क्रमात् पूर्वं मण्डले मन्त्रराड् यजेत् ॥ ३६६ ॥ ततः सम्भृतसम्भारः स्नानपूर्व समर्चयेत् । सिद्धप्रतिष्ठितं बिम्बं सैद्धं वाथ स्वयंकृतम् ॥ ३६७ ॥ पञ्चगव्यदधिक्षीरघृतमध्विक्षुवारिभिः । सर्वौषधीगन्धरत्नफलपुष्पान्वितैर्घटैः ॥ ३६८ ॥ साङ्गेनामन्त्र्य मन्त्रेण शताष्टफलपूरितैः । अन्तरीकृतशुद्धाम्भःकुम्भैरर्घ्यसमन्वितैः ॥ ३६९ ॥ श्रद्धापूतेन मनसा एवं निष्पाद्यते यदि । प्रसादं मन्त्रनाथस्य प्रागुक्तमचिराल्लभेतू ॥ ३७० ॥ संक्रान्त्यां सोपवासस्तु मण्डले मन्त्रनायकम् । समावाह्य यजेद् यस्तु फलपुष्पैर्र्यथर्तुजैः ॥ ३७१ ॥ सप्ताहं फलमूलाशी त्रिकालं स्नानतत्परः । बहुशोऽष्टाङ्गपातैस्तु प्रदक्षिणसमन्वितैः ॥ ३७२ ॥ स नूनं समवाप्नोति शश्वद् यस्तद् व्रतोद्भवम् । अथाभिमतदानाद् वै यो धर्ममभिवाञ्छति ॥ ३७३ ॥ विषुवस्थं दिनं प्राप्य सोपवासस्तु संयतः । अभिसन्धाय मनसा धर्मं दानादभीप्सितम् ॥ ३७४ ॥ निर्वर्त्य मण्डलं रम्यमग्न्यगारसमन्वितम् । गोसम्भवैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ॥ ३७५ ॥ स्रग्वरैर्धूपदीपांस्तु तिलैर्होमाम्बुभाजनैः । सम्यगिष्ट्वाऽथ सन्तर्प्य ज्वलनान्तर्गतं ततः ॥ ३७६ ॥ समिद्भिराज्येन तिलैः सघृतैस्तण्डुलान्वितैः । ततोऽभिवर्धते धर्मो मूर्तादानाच्छताधिकम् ॥ ३७७ ॥
४०६ सात्वतसंहिता दक्षिणे वायने वाथ शुभं निर्वर्त्य मण्डलम् । मन्त्रनाथं तु चावाह्य विधिना संयजेत् ततः ॥ ३७८ ॥ माल्यैर्विलेपनैर्धूपैर्महादीपैघृतादिकैः । गुडखण्डचितैर्भक्ष्यैः पयसा कृसरेण तु ॥ ३७९ ॥ नालिकेरोदकेनैव सक्तुना च घृतेन च । सन्तर्प्य हुतभुङ् मध्ये मन्त्रमाज्यादिकैस्ततः ॥ ३८० ॥ विधिनानेन वै धर्ममिष्टापूर्तमवाप्यते । चन्द्रसूर्योपरागे चाप्यहोरात्रोषितः शुचिः ॥ ३८१ ॥ सर्वोपकरणोपेतमादौ निर्वर्त्य मण्डलम् । न्यस्य मन्त्रवरं तत्र विभवेन यजेत् ततः ॥ ३८२ ॥ सन्तर्प्य वह्निमध्येऽथ समिद्भिर्वा घृतादिकैः । जपेन्मन्त्रवरं पश्चान्मclass? पश्चान्म-न-सा पश्चान्मclass? पश्चान्म-न-सा पश्चान्म-न-सा ध्यानसंयुक्तम् ॥ ३८३ ॥ अक्षसूत्रकरो मन्त्री यावच्चन्द्रार्कदर्शनम् । पूजाहोमजपानां च फलमानन्त्यमवाप्नुयात् ॥ ३८४ ॥ भक्तानामर्थहीनानां मन्त्रैकनियतात्मनाम् । साधनाङ्ग·विहीनानां फलेप्सूनामिदं स्मृतम् ॥ ३८५ ॥ स्नानाद् ध्यानातथा योगाज्जपाद्धोमाच्च सद्व्रतात् । सदन्नपानाद् दानाच्च सर्वलोपाच्च सामयात् ॥ ३८६ ॥ धर्मसाधनमित्युक्तं सवित्तानां विशेषतः । अथार्थसाधनं मन्त्रादभिवाञ्छति योऽचिरात् ॥ ३८७ ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः । कृत्वा यागं यथा सम्यक् सप्ताहं तत्र मन्त्रराट् ॥ ३८८ ॥ यजेत् स विभवेनैव त्रिस्नायी नक्तभोजनः । त्रैकाल्यं हुतभुङ्मध्ये सन्तर्प्याज्येन कालजैः ॥ ३८९ ॥ विल्वैरामलकैः पद्मैस्तदभावे कुशाङ्कुरैः । य इच्छेत् तस्य कालं तु मन्त्रं मन्त्रेश्वरात् फलम् ॥ ३९० ॥ वैशाख्ये हि सिते पक्षे सौम्यश्रवणसंयुते । सोपवासेन कर्तव्यं मन्त्रेशस्यार्चनं महत् ॥ ३९१ ॥ स्थले वा मण्डले बिम्बे साम्भःकुम्भेऽथवा ततः । दक्षिणोत्तरपादाभ्यां मन्त्रनाथस्य पूजयेत् ॥ ३९२ ॥ गङ्गां च यमुनां चैव नतिना प्रणवेन तु ।
तदङ्घ्रिजलमिश्रेण घटमापूर्य चाम्भसा ॥ ३९३ ॥ अलङ्कृत्य यथाशोभं पुष्पवस्त्रानुलेपनैः । विनिवेश्य च तद्वक्त्रे तिलहोमफलान्वितम् ॥ ३९४ ॥ मध्वाज्यशर्कराद्येन पूर्णं दध्योदना(नि?दि) च । महत्पूर्णघटं चैव पात्रं वा वैदलं ततः ॥ ३९५ ॥ निवेद्य मन्त्रमूर्त्तौ प्राक् सदुपानहसंयुक्तम् । तत्रातपत्रसहितं पात्रमाहूय वै ततः ॥ ३९६ ॥ स्रक्चन्दनायैर्धूपैस्तु तमलङ्कृत्य वाससा । मन्त्रेणार्घ्योदकं पाणौ दत्त्वा तदनु तद्घटम् ॥ ३९७ ॥ प्रतिपाद्य जगद्योनेः प्रीत्यर्थमपि तेन वै । प्रसक्तेन परां प्रीतिं वाच्यो मन्त्री महामते ॥ ३९८ ॥ एवमेव प्रपन्ना ये नारायणमनामयम् । वर्णा ब्राह्मणपूर्वा ये ते स्वदुष्कृतशान्तये ॥ ३९९ ॥ स्नात्वाऽभ्यर्च्य पितॄन् देवान् सन्नदीभ्यां तु सङ्गमे । आ नाभिमवतीर्याऽथ विमलाञ्जलिपूरकैः ॥ ४०० ॥ निर्वर्त्य भगवाद्यागं दद्याद् विप्रवराय च । आप्त्यर्थं विबुधानां च सर्वलोकनिवासिनाम् ॥ ४०१ ॥ पितॄणां स्वकुलोत्थानां सततं श्राद्धकाङ्क्षिणाम् । श्वेतद्वीपाप्तये चैव वृद्ध्यर्थं च स्वसन्ततेः ॥ ४०२ ॥ आस्तां सितासिता चैव द्वादशी त्वमलेक्षण । भगवद्भावपूतानां या काचिदपरा तिथिः ॥ ४०३ ॥ सा चैव श्रवणोपेता युता चाभिजिता तु वै । सा तेषामङ्गभावं च याति सर्वफलाप्तये ॥ ४०४ ॥ तस्मात् कृतोपवासस्तु तस्यामभ्यर्च्य मन्त्रराट् । विभवेनाथवा शक्त्या मन्त्रसाम्मुख्यसिद्धये ॥ ४०५ ॥ यानि यानीह दानानि गोभूहेमादिकानि च । दत्तानि चानुरूपाणि जनानां कृतकर्मणाम् ॥ ४०६ ॥ फलदानि च दातॄणां भवदार्थ्यकराणि च । सम्यग् दत्तानि तान्येव भक्तानां भावितात्मनाम् ॥ ४०७ ॥ भगवत्पादलिप्सूनां भवन्ति भवशान्तये । अपिवादमिदं तावद् यत् सर्वत्राच्युतो हरिः ॥ ४०८ ॥
विष्णुर्नारायणो हंसः सर्वशक्तिमयः प्रभुः । द्रव्यात्मना विभक्तश्च ज्ञातव्यो ज्ञानकर्मणि ॥ ४०९ ॥ त्रिविधेन तु भेदेन बुद्बुदाद्या यथाम्भसि । एवं दानं स्वमात्मानं पात्रं नारायणात्मकम् ॥ ४१० ॥ बुद्ध्वा सामान्यबुद्ध्या प्राक् पुनस्तत्रिविधं पृथक् । सविशेषं परिज्ञेयं दानकाले ह्युपस्थिते ॥ ४११ ॥ उपायलक्षणं द्रव्यमभ्यूह्यादौ स्वचेतसा । अनन्तशक्तेः सामर्थ्यमिदं किञ्चिदनश्वरम् ॥ ४१२ ॥ दानाभिमानदेहस्तु प्रत्यगात्मा त्वहं प्रभुः । पात्रभावत्वमापन्नो मदनुग्रहकाम्यया ॥ ४१३ ॥ देवः पञ्चतनुः साक्षात् पञ्चभूतात्मना त्विदम् । ज्ञात्वैवं द्वादशार्णेन स्वेन वा न्यस्तविग्रहः ॥ ४१४ ॥ प्रत्ययं मन्त्रमालम्ब्य द्रव्यहोमादिकं ततः । स्वरूपमजहद् ध्यायेन्महद्रश्मिकदम्बवत् ॥ ४१५ ॥ अमन्त्रेण यजेत् पश्चादर्घ्यपुष्पानुलेपनैः । सिंहद्विष्ट्कमन्त्रेण स्वेकेनाङ्गोोज्झितेन वा ॥ ४१६ ॥ सकलीकरणं कुर्यात् पात्रभूतपरात्मना । तमर्चयित्वा विधिवद् वस्त्रस्रगनुलेपनैः ॥ ४१७ ॥ भगवत्प्रीतिपूर्वं तु दानं दद्याच्च सोदकम् । तेनापि प्रीणनं कार्यं भगवद्भावितात्मना ॥ ४१८ ॥ दानं ज्ञानात्मतां येन प्रयात्यच्युतवेदिनाम् । नारायणः परंब्रह्म प्रतिशब्दत्वमागतः ॥ ४१९ ॥ संसारानलतप्तानां भक्तानां मोहशान्तये । अतस्तस्य स्वमन्त्रेण मूर्तिदानं समाचरेत् ॥ ४२० ॥ द्वादशाक्षरपूर्वेण त्वथवाऽन्येन केनचित् । अनन्तं त्वमलं त्वेवं क्रोडीकृत्य तदात्मना ॥ ४२१ ॥ समर्चनीयं विधिवन्मन्त्राकृति यथा सदा । एवं दानप्रदानेन यजेन्मन्त्रात्मना परम् ॥ ४२२ ॥ महन्मन्त्रात्मना चैव पुनः सद्व्रतसिद्धये । ब्रह्मत्वमेति वै येन व्रतिना भगवद्व्रतम् ॥ ४२३ ॥ अनेकभेदभिन्नं च सदानं यत्पदार्थिनाम् ।
सप्तदशः परिच्छेदः ४०९ तपो यज्ञं हि विधिवद् ब्रह्मभावनयाऽर्चयेत् ॥ ४२४ ॥ यथा स्यान्मोक्षफलदमचिराद् विष्णुयाजिनाम् । नानाद्रव्याङ्गदेहं यद् यज्ञं चानेकलक्षणम् ॥ ४२५ ॥ मूर्ततां यज्ञमन्त्रेण नीत्वैवं प्राक् समर्चयेत् । जुहुयादा समाप्यन्तं पूर्णान्ते हेममृच्छति ॥ ४२६ ॥ दानानां च व्रतानां च तपसां यज्ञकर्मणाम् । निवेदितव्यं यद् द्रव्यं दत्तं वा यत्र यत्पुरा ॥ ४२७ ॥ कर्तव्यमनुयागार्थं प्राक् तदेव हि केवलम् । तद्भावितमतोऽश्नीयात् पावनं प्रापणान्वितम् ॥ ४२८ ॥ भवेत् त्रिरात्रं फलदं भक्तानां शुभकारिणाम् । किं पुनस्तु समर्थानां चोदनाश्रयिणां तु वै ॥ ४२९ ॥ दानधर्मरतानां च व्रतिनां यज्ञयाजिनाम् । परत्र भवभीरूणामल्पार्थिनां शुभार्थिनाम् ॥ ४३० ॥ शमीपलाशश्रीवृक्षैः समिद्भिश्चामलद्रुमैः । अम्भसा चाम्बुमध्ये च मन्त्रतर्पणमाचरेत् ॥ ४३१ ॥ सप्ताहे समतीते तु मन्त्रमुत्थाप्य मण्डलात् । ध्यानयुक्तं जपं कुर्याल्लक्षसंख्यं समाहितः ॥ ४३२ ॥ ब्रह्मचर्यस्थितो मौनी दुष्टाहारविवर्जितः । क्षारारनालतैलानां परित्यागी ह्यलोलुपः ॥ ४३३ ॥ नित्यं कुशाजिनेशायी मानमात्सर्यवर्जितः । तप्तहाटकसंकाशं परिभ्रमणविग्रहम् ॥ ४३४ ॥ भूरिधारासमाकीर्णं वक्त्रमग्रे खगं स्मरेत् । तन्नाभिसंस्थितं मन्त्रमचलं चैव सम्मुखम् ॥ ४३५ ॥ नानारत्नप्रभाकान्तिमुद्गिरन्तं स्वविग्रहात् । हेमादिधातुनिचयं चन्द्रकान्तादिसन्मणीन् ॥ ४३६ ॥ एवं ध्यायेज्जपेच्चापि पूजयेदन्तरान्तरा । नियमादा समाप्त्येव जपान्ते वित्तपः स्वयम् ॥ ४३७ ॥ आज्ञावश्यो विधेयः स्यादात्मना च धनेन च । प्रयच्छत्यर्थिनां कामं भुङ्क्ते सोऽविरतं स्वयम् ॥ ४३८ ॥ आयुरारोग्यसंयुक्तो मन्त्रेशस्य प्रभावतः । प्रवर्ततेऽर्थयुक्तानां काम आशु च भोगिनाम् ॥ ४३९ ॥ सा० सं० - 30
४१० सात्वतसंहिता तत्साधनमथो वक्ष्ये साधकानां हिताय च । मण्डलं पूर्ववत् कृत्वा शुचौ देशे मनोरमे ॥ ४४० ॥ सङ्गुप्ते तत्र मन्त्रेशं समाहूय च संयजेत् । त्रिरात्रं सप्तरात्रं व जुहुयात् तदनन्तरम् ॥ ४४१ ॥ प्रागुक्तेन विधानेन जपध्याने समाचरेत् । सर्वाधारं हरिं ध्यायेत् पद्मरागरुचिं महत् ॥ ४४२ ॥ तन्मध्ये विद्रुमाभं च बन्धुजीवनिभोज्ज्वलम् । ध्यायेन्मन्त्रवरं मन्त्री जपेत् पूर्वोक्तसंख्यया ॥ ४४३ ॥ स्त्रीभोगं चेतसः कृत्वा जपान्ते साधकस्ततः । प्रार्थयन्तेऽत्र भीताश्च सन्तप्ता मदविह्वलाः ॥ ४४४ ॥ देवकिन्नरनार्यस्तु यक्षगन्धर्वकन्यकाः । सिद्धाः सुराङ्गनाश्चान्या नरनागस्त्रियोऽखिलाः ॥ ४४५ ॥ आजीवावधि वै सम्यक् कर्मणा मनसा गिरा । सेवन्ते साधकेन्द्रं तं मन्त्रस्यास्य प्रभावतः ॥ ४४६ ॥ यं यं समीहते कामं पातालोत्तिष्ठपूर्वकम् । लक्षजापात् तथा होमात् तं तं यच्छति मन्त्रराट् ॥ ४४७ ॥ अथ कामोपभोगात् तु विरतस्य च मन्त्रिणः । मोक्षदं सम्प्रदायं च कथयिष्ये यथार्थतः ॥ ४४८ ॥ कृत्वा यागवरं भूयः प्रसन्नेनान्तरात्मना । पूर्वोक्तं तु यजेत् कालं तत्र मन्त्रवरं क्रमात् ॥ ४४९ ॥ तर्पयित्वा विधानेन कुण्डे वाऽथ जलेऽम्भसा । सर्वदोषनिवृत्त्यर्थं प्रायश्चित्तार्थमेव च ॥ ४५० ॥ जपेदयुतमेकं तु प्रागुक्तं वा स्वशक्तितः । हृत्पुण्डरीकमध्येऽथ स्मरेन्मन्त्रं समाहितः ॥ ४५१ ॥ रोमकूपगणैः सर्वै रत्नज्वालाशतावृत्तम् । तन्मयं च स्वचैतन्यं कृत्वा तद् वह्निरश्मिभिः ॥ ४५२ ॥ भूतदेहं दहेत् कृत्स्नं तद्वियुक्तश्च साम्प्रतम् । मार्तण्ड इव पक्षीश आस्ते मन्त्रस्वरूपधृक् ॥ ४५३ ॥ अथ मन्त्राकृतिं स्वां वै ध्यायेत् परिणतां शनैः । तेजोगोलकसंकाशं सर्वाङ्गावयवोज्झितम् ॥ ४५४ ॥ तत्तेजोगोलकं पश्चाद् बृहत्परिमितं च यत् ।
सप्तदशः परिच्छेदः ४११ सर्वगं शब्दरूपं च भावरूपं तु चिन्मयम् ॥ ४५५ ॥ तस्मादप्यभिमानं तु ह्यस्मिताख्यं शनैः शनैः । विनिवार्य यथा शश्वद् ब्रह्म सम्पद्यते स्वयम् ॥ ४५६ ॥ इत्येवं वैभवीयस्य नृसिंहस्य महात्मनः । आराधनं च संक्षेपादुक्तं सिद्धिसमन्वितम् ॥ ४५७ ॥ नित्यक्रियापराणां च संसारोद्विग्नचेतसाम् । मद्भक्तानामिदं वाच्यं शुद्धानां संयतात्मनाम् ॥ ४५८ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां वैभवीयनृसिंहकल्पो नाम सप्तदशः परिच्छेदः ॥ १७ ॥ — ❧❦❧ — अथानेन नृसिंहमन्त्रेण धर्मार्थकाममोक्षाख्यचतुर्विधपुरुषार्थसाधनविधिमाह—अथ 'मन्त्रवराद्धर्मेंति' प्रक्रम्य यावत् परिच्छेदपरिसमाप्ति । सुगमस्तदर्थः ॥३५७-४५८॥ ॥ इति श्रीमौज्यायनाकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये सप्तदशः परिच्छेदः ॥ १७ ॥ — ❧❦❧ — हे सङ्कर्षण! याग, होम एवं जपादि द्वारा अन्य सिद्धियों के लिये तथा धर्म, अर्थ, काम एवं मोक्ष चतुर्विध पुरुषार्थ सिद्धि के लिये जो इस मन्त्रराज की उपासना करना चाहता है, अब उसकी प्राप्ति के उपायों को सुनिए । यह सद्धर्म लुप्त पिण्ड वाले पितरों को पिण्ड का निर्वापण कराने वाला है । जगद्धाता के प्रीति का कारण है और आत्मरक्षा करने वाला है । साधक अमावास्या को उपवास करे । फिर मण्डलान्तर्गत मन्त्र मूर्ति विभु का आवाहन कर पूर्व की भाँति भक्तिपूर्वक उनका पाद्य, अर्घ्य, पुष्प, सुवर्ण, गवादि, दान, तिल युक्त नैवेद्य जो सकुशल तथा तिलयुक्त हो, स्वच्छ जलपात्रों से युक्त हो और अञ्जलि पूर्ण करने वाला हो, इस प्रकार के पदार्थों से पूजन करता है, वह भगवत्प्रसाद से थोड़े ही काल में शाश्वत-पद प्राप्त कर लेता है और अपने नरक में रहने वाले पितरों को स्वर्ग लोक प्राप्त करा देता है ॥ ३५७-३६२ ॥
४१२ सात्वतसंहिता जो साधक विभव होने पर पत्र, पुष्प, फल, अन्न, सस्य, दधि, ओदनादि के द्वारा तथा रस, अन्न, सद् गन्ध, उत्कृष्ट वस्त्र, उत्कृष्ट धातु जैसे प्रवाल एवं मुक्ता मणि आदिकों के द्वारा भक्तिपूर्वक बिम्बस्थ, अथवा मण्डस्थ प्रभु का यजन करता है, अथवा जो मुख्य मुख्य ८६ पूर्णिमाओं में उपवास कर भगवान् का यजन करता है वह अवश्य उसे प्राप्त करता है ॥ ३६३-३६५ ॥ जो सद्धर्म चाहता है, अथवा महान् तीर्थ में गमन करना चाहता है, वह सर्वप्रथम मण्डल पर मन्त्रराज का यजन करे ॥ ३६६ ॥ स्नान के पूर्व समस्त पूजा सामग्री एकत्रित करे । तदनन्तर स्नान कर किसी सिद्ध प्रतिष्ठित बिम्ब में, अथवा स्वयं सिद्ध बिम्ब में, अथवा अपने द्वारा स्वयं स्थापित बिम्ब में, पञ्चगव्य, दधि, क्षीर, घृत, मधु, इक्षु, जल, सर्वौषधी, गन्ध, रत्न और फल पुष्पान्वित घटों से साङ्ग मन्त्र द्वारा आवाहन कर १०८ फलों से पूर्ण घटों द्वारा तथा शुद्ध जल से पूर्ण अर्घ्य समन्वित कलशों द्वारा श्रद्धापूत मन से भगवान् का ठीक-ठीक पूजन करता है, वह मन्त्रनाथ के पूर्व में कहे गये सभी प्रकार के प्रसाद को शीघ्र प्राप्त कर लेता है ॥ ३६६-३७० ॥ जो साधक सङ्क्रान्ति के दिन उपवास कर मण्डल में मन्त्रनायक का आवाहन कर ऋतु में उत्पन्न होने वाले फल पुष्पों से श्रद्धापूर्वक यजन करता है। सात दिन तक फल मूल खाकर रहता है । तीनों कालों में स्नान करता है । अष्टाङ्ग प्रणिपात कर अनेक प्रकार से प्रदक्षिणा करता है, वह निश्चय ही उस व्रत से होने वाले समस्त फलों को प्राप्त करता है, अथवा जो अभिमत दान द्वारा धर्म की इच्छा करता है, वह विषुवस्थ दिन प्राप्त कर उपवास करे और संयम से रहकर अपने मन में दिये जाने वाले दान से अभीष्ट धर्म की प्राप्ति का ध्यान करे । फिर मण्डल निर्माण करे, उसमें अग्नि का आगार निर्माण करे । गाय के दूध, घी, दही के भक्ष्य पदार्थों द्वारा तथा फल समन्वित मूलकों को नैवेद्य, उत्तमोत्तम माला, धूप, दीप, तिल, होमपात्र एवं जलपात्र के द्वारा भगवान् को समिधा, घृत, तिल, सघृत तण्डुल पदार्थों द्वारा होम कर सन्तर्पण करता है, उसको मूर्त आदान की अपेक्षा सौगुना धर्म से भी अधिक धर्म का अभिवर्धन होता है ॥ ३७१-३७७ ॥ अथवा दक्षिणायन में शुभ मण्डल का निर्माण करे और उस पर मन्त्रनाथ का आवाहन कर विधिपूर्वक माला, विलेपन, धूप, महादीप, घृतादि, गुड, खाँड़ एवं अन्य भक्ष्य पदार्थ, दूध, कृसर, नारिकेल के जल, सत्तू और घृत द्वारा भगवान् का पूजन करता है या घृतादिक से अग्नि के मध्य में होम कर उन्हें सन्तुप्त करता है, इस प्रकार के धर्माचरण करने से उस साधक को इष्टापूर्त्त का फल प्राप्त होता है ॥ ३७८-३८० ॥ चन्द्र एवं सूर्योपराग (= ग्रहण) में साधक दिन-रात पवित्र रहकर उपवास
सप्तदशः परिच्छेदः ४१३
करे। फिर सर्वप्रथम सभी उपकरणों से युक्त मण्डल का निर्माण करे और उस पर मन्त्रनाथ की प्रतिष्ठा करे। फिर साधक को अपनी शक्ति के अनुसार उनका यजन करना चाहिए ॥ ३८१-३८२ ॥ तदनन्तर अग्नि के मध्य में समिधा एवं घृतादिकों से होम कर मन्त्र के स्वरूप का ध्यान करते हुए मन से मन्त्रराज का जप करे ॥ ३८३ ॥ इस प्रकार जप करने वाला साधक जब तक जगत् में चन्द्रमा और सूर्य का दर्शन हो रहा है, तब तक अपने पूजा, जप और होम का अनन्त फल प्राप्त करता है ॥ ३८४ ॥ जो भक्त अर्थहीन हैं और सभी प्रकार के साधना से रहित हैं, किन्तु मन्त्र में एकमात्र नियमतः श्रद्धा रखने वाले हैं और फल की कामना करते हैं उनके लिये यह साधन कहा गया ॥ ३८५ ॥ स्नान, ध्यान, योग, जप, होम, उत्तम व्रत, उत्तम अन्न का भोजन, धन, सर्वस्व का त्याग, समय-धर्म का पालन ये सभी धर्म साधन कहे गये हैं विशेष कर धनिकों के लिये। जो मन्त्र के द्वारा शीघ्रातिशीघ्र अर्थ साधन चाहते हैं। चाहे ब्रह्मचारी, चाहे गृहस्थ, चाहे वानप्रस्थ, चाहे सन्यासी हों वे सात दिन पर्यन्त ठीक रीति से इस यज्ञ का सम्पादन करें, तीनों काल स्नान करें, नक्त में भोजन करें, तीनों काल घी तथा तत्काल में उत्पन्न हवि से उदर की अग्नि को तृप्त करें। अथवा बिल्व, आमलक एवं पद्म से उसके अभाव में कुशाङ्कुर से होम करें। इस प्रकार जो अनुष्ठान करता है तो उसका उस मन्त्रोद्धार के द्वारा तत्काल फल प्राप्त होता है ॥ ३८६-३९० ॥ वैशाख मास में, शुक्ल पक्ष में, जब सोमवार युक्त श्रवण नक्षत्र हो, उस दिन उपवास करे और मन्त्रेश का महान् अर्चन करे। पुण्य स्थल में, अथवा मण्डल में, अथवा बिम्ब में, अथवा जल पूर्ण कलश में, मन्त्रनाथ के दक्षिण और उत्तर दोनों पादों (गङ्गा, यमुना) का पूजन करे ॥ ३९१-३९२ ॥ भगवान् का दक्षिण पाद गङ्गा हैं तथा उत्तर पाद यमुना हैं, इनका पूजन 'प्रणव पूर्वक नमः' इस मन्त्र द्वारा करे। उनके पैर से निकली हुई गङ्गा के जल से घड़ा भरे। उसे पुष्प, वस्त्र एवं अनुलेपन से अलङ्कृत करे। उसमें तिल, होम तथा फल डालकर उनके मुख में स्थापित करे ॥ ३९२-३९४ ॥ इसी प्रकार मधु, घृत, शर्करादि, दधि, ओदनादि भी जलपूर्ण घट अथवा पत्ते से रहित पात्र आदि वस्तुयें मन्त्र मूर्ति को निवेदन करे। इसी प्रकार उपानह संयुक्त स्रक् (माला), चन्दन, अर्घ, धूप से, वस्त्र से अलङ्कृत करे। आतपत्र (छाता) भी मन्त्र द्वारा निवेदन करे। अर्घ्योदिक हाथ में देवे। इसके बाद घट प्रदान करे। इस प्रकार भगवान् की प्रीति के लिये उपर्युक्त सभी वस्तुयें प्रतिपादन
४१४ सात्वतसंहिता करे । इस प्रकार सभी ब्राह्मणादि वर्ण उन अनामय नारायण के शरणागत हो जाते हैं उनके समस्त पापों की शान्ति हो जाती है ॥ ३९५-३९९ ॥ उत्तमोत्तम नदियों के संगम में नाभि पर्यन्त जल में उतर कर स्नान करे । अञ्जलि में विमल जल भर कर देवता और पितरों का तर्पण करे । फिर भगवद् याग निवर्त्तन कर श्रेष्ठ ब्राह्मण को दान देवे । यह सारा कार्य सभी लोक में रहने वाले देवताओं की प्राप्ति के लिये सतत् श्राद्ध की आकांक्षा करने वाले अपने कुल में उत्पन्न पितरों की मुक्ति के लिये, स्वयं श्वेत द्वीप की प्राप्ति के लिये तथा अपने सन्तति की वृद्धि के लिये साधक करे ॥ ४००-४०२ ॥ हे अमलेक्षण ! सङ्कर्षण चाहे शुक्ल पक्ष की द्वादशी हो, अथवा कृष्णपक्ष की द्वादशी हो, यदि वह श्रवण नक्षत्र से युक्त हो, अथवा अभिजित् नक्षत्र से युक्त हो, ऐसी तिथि उपर्युक्त सभी फलों की प्राप्ति के लिय विशिष्ट रूप से साधक बन जाती है ॥ ४०३-४०४ ॥ इस कारण ऐसा काल प्राप्त होने पर उस दिन उपवास करे और अपने विभव के अनुसार अथवा अपनी शक्ति के अनुसार मन्त्र के सम्मुख (= साक्षात्) की सिद्धि के लिये उस तिथि में मन्त्रराज का अर्चन करे ॥ ४०५ ॥ गौ, भूमि एवं सुवर्णादि जो-जो दान अनुरूप सदाचारी जनों को दिये जाते हैं, वे-वे सभी दान देने वालों को फल तो देते ही हैं संसार में उनकी अभिवृद्धि भी करते हैं । किन्तु वही दान यदि भावितात्मा भगवत् पाद लिप्सु भगवद् भक्तों को दिये जायें तो वे भवशान्ति के कारण बन जाते हैं । यह वाद है कि अच्युत हरि सर्वत्र विद्यमान हैं । विष्णु, नारायण, हंस, सर्वशक्तिमय प्रभु ही द्रव्य के रूप में विभक्त हैं यह बात ज्ञानकर्म में समझना चाहिये ॥ ४०६-४०९ ॥ जिस प्रकार जल में बुद्बुद् आदि तीन रूपों में विभक्त हो जाते हैं, उसी प्रकार दान, स्वकीय आत्मा और नारायणात्मक पात्र इन तीन रूपों में वह द्रव्य भी प्रविभक्त हो जाता है ॥ ४१० ॥ इस प्रकार सामान्य बुद्धि से ज्ञान कर उन तीनों को दान काल उपस्थित होने पर सविशेष समझना चाहिये ॥ ४११ ॥ साधक सर्वप्रथम अपने मन से 'यह मुक्ति का किञ्चिद् द्रव्य अनन्तशक्ति के सामर्थ्य से अनश्वर है । दानाभिमानी प्रत्यगात्मा मैं हूँ तथा प्रभु मुझ पर कृपा करने की इच्छा से पात्रभावापन्न हैं, देव साक्षात् पञ्चतनु हैं, यह सब पञ्चभूतात्मक जगत् है, ऐसा समझ कर द्वादशार्ण मन्त्र से अपने शरीर पर न्यास करने वाला साधक मन्त्र को प्रत्यय का सहारा लेकर द्रव्य द्वारा होमादि क्रिया करे और अपने स्वरूप को न त्यागते हुए महान् रश्मि समूहात्मक मन्त्र का ध्यान करे । तदनन्तर बिना मन्त्र के अर्घ्य, पुष्प तथा अनुलेपन द्रव्य से बिना मन्त्र के यजन करे अथवा नृसिंह के
सप्तदशः परिच्छेदः ४१५ द्वादश मन्त्रों से यजन करे। तदनन्तर अङ्गन्यास के बिना पात्रभूत परात्मा से सकली- करण करे। फिर वस्त्र, माला एवं अनुलेपन से विधिवत् भगवान् की अर्चना करे । तदनन्तर हाथ में संकल्प का जल लेकर भगवत् प्रीतिपूर्वक दान देवे । इस प्रकार साधक भगवद्-भावित आत्मा से दान द्वारा भगवान् को प्रसन्न करे ॥४१३-४१८॥ ज्ञानात्मा के लिये दान वह है जिससे वह अच्युतवेत्ताओं के पास पहुँच जावे । नारायण ही परंब्रह्म से प्रतिशब्दित कहे जाते हैं ॥ ४१९ ॥ यतः संसार रूप अग्नि से सन्तृप्त भक्तों के मोह शान्ति में भगवान् ही कारण हैं। अतः उनके मन्त्र से उन्हीं की मूर्ति का दान करे ॥ ४२० ॥ प्रथम द्वादशाक्षर मन्त्र से अथवा अन्य जिस किसी मन्त्र से अनन्त एवं अमल उन नारायण को स्वयं गोद में स्थापित करे ॥ ४२१ ॥ उन मन्त्र की आकृति वाले भगवान् की सर्वदा अर्चना करे । इस प्रकार दान प्रदान करे ॥ ४२२ ॥ मन्त्रात्मना परब्रह्म की पूजा करे । फिर सद्व्रत की सिद्धि के लिये महामन्त्र द्वारा उनकी पूजा करे । इस प्रकार व्रती द्वारा किया गया भगवद् व्रत साधक को ब्रह्मत्त्व की प्राप्ति करा देता है ॥ ४२३ ॥ विभिन्न पदार्थों से युक्त दिया गया यह दान अनेक भेदों से भिन्न-भिन्न है । अतः तप एवं यज्ञ का अनुष्ठान सविधि ब्रह्म भावना से करे जिससे यज्ञ विष्णु- याजियों के लिये शीघ्र मोक्ष फल प्रदान करने वाला हो जाये । वह यज्ञ अनेक द्रव्यों वाला है उसके अनेक लक्षण हैं ॥ ४२४-४२५ ॥ सर्वप्रथम यज्ञ मन्त्र से मूर्ति निर्माण कर उसकी अर्चना करे । फिर समाप्ति पर्यन्त हवन करे । पूर्णाहुति के अन्त में सुवर्ण प्रदान करे ॥ ४२६ ॥ दान, व्रत, तप और यज्ञ कर्मों में जो द्रव्य निवेदनीय हो अथवा जो पहले दिया जा चुका हो, उससे पहले केवल अनुयाग के लिये कर्त्तव्य करे । भगवान् को निवेदित कर प्राणान्वित अन्न का भोजन करे क्योंकि वह पावन है । ऐसा अन्न शुभकारक भक्तों के लिये तीन रात में ही फल प्रदान करता है ॥ ४२७-४२९ ॥ जो समर्थ हैं, शास्त्र में कहे हुए धर्म के अनुसार चलते हैं, दानधर्म में निरत हैं, व्रत करने वाले हैं, यज्ञ द्वारा यजन करते हैं, परलोक का तथा इस लोक का भय करने वाले हैं, थोड़ा अर्थ होने पर भी कल्याण चाहते हैं ऐसे लोगों के विषय में क्या कहा जा सकता है ॥ ४३० ॥ साधक सर्वप्रथम जल के मध्य में शमी पलाश तथा श्री वृक्षों से समिधाओं से आँवला के वृक्षों से तथा जल से मन्त्र तर्पण करे ॥ ४३१ ॥ जब एक सप्ताह व्यतीत हो जावे, तब मन्त्र देवता को मण्डल से उठाकर
४१६ सात्वतसंहिता समाहित चित्त हो ध्यान करते हुए एक लाख की संख्या में जप करे ॥ ४३२ ॥ ब्रह्मचर्य में स्थित रहे, मौन धारण करे, दुष्टाहार वर्जित रखे क्षार (खारा), आरनाल (काँजी) तथा तेल का परित्याग रखे, लोलुपता का त्याग करे । मान मत्स्रता का त्याग करे । नित्य कुशा तथा अजिन पर शयन करे । फिर तपाये हुए सोने के समान तथा नित्य परिभ्रमणशील शरीर वाले एवं अनेक धारा से समाकीर्ण मुख वाले ऐसे गरुड़ का अपने आगे स्मरण करे । वहाँ पर स्थित अचल मन्त्र का भी उनके सम्मुख स्मरण करे ॥ ४३३-४३५ ॥ गरुड़ का ध्यान—वे गरुड़ अपने शरीर से नाना रत्न की प्रभा से युक्त कान्ति उगल रहे हैं, सुवर्णादि धातुओं के समूह तथा चन्द्रकान्ता आदि उत्तम मणियों का भी उद्गिर ण कर रहे हैं—इस प्रकार के गरुड़ का ध्यान और जप करना चाहिए । फिर बीच-बीच में पूजन करे । यह कार्य नियम से आरम्भ कर समाप्ति पर्यन्त नित्य स्वयं करे । ऐसे साधक के सभी लोग आज्ञा के वशीभूत हो जाते हैं । किं बहुना, अपनी आत्मा तथा धन से उसके विधेय हो जाते हैं, वह याचकों की कामना पूर्ण करने वाला तथा स्वयं समस्त भोगों का भोक्ता हो जाता है ॥ ४३६-४३८ ॥ अब जिस प्रकार मन्त्रेश्वर के प्रभाव से साधक आयु एवं आरोग्य से संयुक्त हो जाता है तथा जिस प्रकार अर्थी जनों के तथा भोगीजनों की कामना शीघ्र पूर्ण हो जाती है ऐसे साधकों के हित के लिये साधन को कहता हूँ । अत्यन्त पवित्र, मनोरम तथा सुरक्षित देश में मण्डल निर्माण करे । उस मण्डल पर मन्त्रेश का आवाहन कर यजन करे । तीन रात तथा सात रात पर्यन्त निरन्तर होम करे । तदनन्तर पूर्व में कही गई विधि के अनुसार जप एवं ध्यान करे । पद्मरागमणि के समान सर्वाधार हरि का ध्यान करे ॥ ४३९-४४२ ॥ उसके मध्य में विद्रुम की आभा वाले बन्धुजीव पुष्प के समान उज्ज्वल वर्ण वाले मन्त्रवर का मन्त्री पूर्वोक्त संख्या में जप करे ॥ ४४३ ॥ जप करने के उपरान्त साधक मानस रूप से स्त्रीभोग सम्पादन करे । ऐसा करने से काम सन्तप्त, भयभीत, मद विह्वल स्त्रियाँ उसकी प्रार्थना करती हैं । देव किन्नरों की स्त्रियाँ, यक्ष एवं गन्धर्वों की कन्यायें, सिद्ध, सुराङ्गनायें समस्त नरों एवं नागों की स्त्रियाँ आजीवन इस मन्त्र के प्रभाव से मन, वचन और कर्म से उसकी सेवा करती है ॥ ४४३-४४६ ॥ इसके बाद पुनः एक लक्ष के जप से तथा उतने ही होम से साधक जो-जो कामनायें करता है उन-उन कामनाओं को मन्त्रराज पूर्ण करते हैं ॥ ४४७ ॥ अब कामोपभोग से विरत मन्त्रज्ञ साधकों के लिये मोक्षप्रद सम्प्रदाय को यथार्थ रूप से कह रहा हूँ । इसके बाद साधक प्रसन्न अन्तरात्मा से पुनः वही
सप्तदशः परिच्छेदः ४१७ श्रेष्ठ याग सम्पादन कर पूर्वोक्त काल तक मन्त्रवर का यज्ञ करे । फिर विधिपूर्वक कुण्ड में उनका तर्पण करे अथवा जल में जल से सन्तृप्त करे । फिर सर्वदोषों की निवृत्ति के लिये तथा प्रायश्चित्त के लिये एक अयुत (दस हजार) जप अपनी शक्ति के अनुसार करे । समाहित चित्त होकर हृत्कमल के मध्य में मन्त्र का स्मरण करे ॥ ४४८-४५१ ॥ साधक मन्त्राग्नि से निकलती हुई ज्वाला रश्मियों से अपने सारे रोमकूप गणों को रत्नज्वाला शंतावृत कर उसमें अपने चैतन्य को मन्त्रमय बना कर, उसमें अपना भौतिक देह जला देवे । इस प्रकार भौतिक देह से रहित होने पर साधक मन्त्र का स्वरूप धारण कर सूर्य के समान तेजस्वी होकर साक्षात् गरुड़ बन जाता है ॥ ४५२-४५३ ॥ फिर अपने उस मन्त्राकृति को धीरे-धीरे परिणत होकर तेजो गोलक के समान सभी अङ्गावयवों से रहित देखे । इसके पश्चात् उसे तेजोगोलक को धीरे- धीरे परिणत होकर बृहत् परिमाण में सर्वत्र गमन करने वाला शब्दरूप, भावरूप और चिन्मयरूप में देखे ॥ ४५४-४५५ ॥ उसके बाद धीरे-धीरे अपने 'अस्मिता' नामक अभिमान का त्याग कर देने पर वह साधक स्वयं ब्रह्म स्वरूप बन जाता है । हे सङ्कर्षण ! इस प्रकार वैभवीय महात्मा नृसिंह की सिद्धि से समन्वित आराधन का प्रकार संक्षेप में कहा गया ॥ ४५६-४५७ ॥ यह वैभवीय नृसिंह के आराधन का प्रकार नित्य क्रिया में परायण, संसार से उद्विग्न चित्त वाले, संयतात्मा, शुद्ध मेरे भक्तों को ही सुनाना चाहिये । अन्य को नहीं ॥ ४५८ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के वैभवीयनृसिंहकल्प नामक सप्तदश परिच्छेद की हिन्दी समाप्त हुई ॥ १७ ॥
अष्टादशः परिच्छेदः अधिवासदीक्षाविधिः नारद उवाच एवमुक्ते सति पुनः कामपालो मुनीश्वराः । उवाचेदं हरिं वाक्यं लोकानुग्रहकाम्यया ॥ १ ॥ अथाष्टादशः परिच्छेदो व्याख्यास्यते। संकर्षण पृच्छतीत्याह—एवमिति ॥ १ ॥ नारद जी ने कहा—हे मुनिश्वरों ! भगवान् वासुदेव द्वारा इस प्रकार कहे जाने पर सङ्कर्षण ने संसार पर अनुग्रह करने की कामना से पुनः श्रीकृष्ण से कहा ॥१॥ सङ्कर्षण उवाच सम्प्राप्तप्रत्ययानां च द्विजातीनां च साम्प्रतम् । सम्यक् प्रक्षीणपापानामारूढानामिह क्रमे ॥ २ ॥ दीक्षात्रयस्य भगवन् ज्ञातुमिच्छामि निर्णयम् । यत्प्राप्य भगवद्भक्तः कृतकृत्योऽचिराद्भवेत् ॥ ३ ॥ प्रश्नप्रकारमाह—सम्प्राप्तेति द्वाभ्याम् ॥ २-३ ॥ सङ्कर्षण ने कहा—हे प्रत्यय! जिन द्विजातियों को आप में प्रत्यय (आस्था, विश्वास) प्राप्त हो गया है । जिनके पाप सर्वथा प्रक्षीण हो चुके हैं और जो वैष्णव दीक्षा-क्रम में आरुढ़ हो गये हैं । उन द्विजातियों के तीनों दीक्षा क्रमों को मै जानना चाहता हूँ, जिसे प्राप्त कर भगवद् भक्त अपने को कृतकृत्य बना लेता है ॥२-३॥ दीक्षामण्डपनिर्माणप्रकारकथनम् श्रीभगवानुवाच शुभेऽनुकूले नक्षत्रे तिथौ लग्ने ग्रहेक्षिते । भक्तानामधिवासार्थं क्ष्मापरिग्रहमाचरेत् ॥ ४ ॥ पुण्ये देशेऽनुकूले च मनोज्ञे साधुसेविते । मृद्वारिफलपुष्पाढ्ये समित्कुशसमन्विते ॥ ५ ॥
अष्टादशः परिच्छेदः ४१९ एवं पृष्ठो वासुदेवः प्रथमं क्षमापरिग्रहपूर्वकं दीक्षामण्डपनिर्माणप्रकारमाह— 'शुभेऽनुकूले नक्षत्र' इत्यारभ्य 'बलिं सर्वत्र सर्वदा' इत्यन्तम् ॥ ४-२५ ॥ श्री भगवान् के कहा—शुभ अनुकूल नक्षत्र, तिथि, शुभ ग्रह से दृष्ट लग्न में भक्तों के निवास के लिये साधक सर्वप्रथम भूमि अधिग्रहण करे । वह भूमि उत्तम मिट्टी, जल, फल तथा पुष्प से समृद्ध हो । समिद् कुशा समन्वित हो, अनुकूल पुण्य प्रदेश में हो, मनोज्ञ हो और साधु सन्तों से सेवित हो ॥ ४-५ ॥ गोसस्यशालिसुभगे क्षुद्राप्राणिविवर्जिते । तत्र वर्णानुरूपाम् क्ष्माम् गच्छेत् पूर्वोक्तलक्षणाम् ॥ ६ ॥ सर्वदोषविनिर्मुक्तां सत्पक्षमृगसेविताम् । या शुभायतननोद्देशैर्मठैर्गोष्ठापणैर्गृहैः ॥ ७ ॥ तोयाशायाश्रमैः क्षेत्रैः सद्धैरन्तरीकृता । जलौघभयनिर्मुक्ता बलाद् भुक्त च सज्जनैः ॥ ८ ॥ वनैरुपवनैर्ग्रामैर्नगराङ्गैः समावृता । अलाभे सति लाभे वा स्वभूमेर्ब्राह्मणादिषु ॥ ९ ॥ स्वमन्त्रेणार्चनात् स्वत्वं कुर्याद् वर्णव्यपेक्षया । उद्धृतां कृतखातां च ज्ञात्वा दोषोज्झितां पुरा ॥ १० ॥ गाय एवं हरे भरे सस्यों से पूर्ण हो और वहाँ क्षुद्र प्राणि न हों । इस प्रकार अपने वर्ण के अनुरूप पूर्वोक्त लक्षण वाली भूमि का अधिग्रहण करे । वह भूमि समस्त दोषों से रहित तथा उत्तम पक्षियों के एवं उत्तम मृगों से सेवित होनी चाहिये । जो शुभायतन, शुभ उद्देश्य वाली, शुभ मठों, शुद्ध आपणों (बाजारों) तथा शुभ ग्रहों से समन्वित हो । वहाँ जलाशय, आश्रम क्षेत्र तथा सदाचारी सज्जनों का निवास हो । जल प्लावन की संभावना न हो तथा सज्जन लोग हठपूर्वक रहने के लिये विवश हों । वह भूमि वन, उपवन, ग्राम, नगर के अङ्गों से समावृत (घिरा) हो । यदि ऐसी भूमि न प्राप्त हो, तब ब्राह्मणादि से खरीद कर प्राप्त करे, अथवा अपने मन्त्र से भूमि का अर्चन कर अपने वर्णानुसार भूमि पर अधिकार करे ॥ ६-१० ॥ शुभमृत्पूरितां कृत्वा लध्वश्मभिरथान्तरा । ततस्त्वाकुट्टयेत् पश्चात् पञ्चगव्येन सेचयेत् ॥ ११ ॥ युक्तां हेमादिसद्रत्नैः समीकृत्योपलिप्य च । तत्रार्चनं विभोः कुर्याद् ध्यानान्तं चैव पूर्ववत् ॥ १२ ॥ वहाँ के ऊपर की मिट्टी अथवा खन कर भीतर की मिट्टी की परीक्षा करे । जब वह सर्वथा दोषरहित हो । तब वहाँ के गड्ढे आदि को शुभ मृत्तिका से पूर्ण