भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

एकोनविंशः परिच्छेदः ४७९ इन तत्त्वों से अणिमादिगुण युक्त सभी मन्त्रों की उत्पत्ति हुई है । ये सभी मन्त्र ज्ञानैश्वर्यादि षड्गुणों से तथा हृदयादि अङ्गमन्त्रों से युक्त हैं । इनकी संख्या का अन्त नहीं है ॥ १३४ ॥ भगवान् की आराधना करने वाले जनों के आत्मलाभ के लिये और अन्य जनों के मोह के लिये तथा उसके क्षय के लिये उन्हीं से निर्माण सहित सुषुप्ति, स्वप्न एवं जाग्रत् ये तीन पद व्यञ्जित हैं ॥ १३५ ॥ यह सारा जगत् तथा १४ भुवन जो त्रिगुणात्मक है, वह अशुद्ध है और भोग्य प्राप्त कर पृथक् रूप से स्थित है ॥ १३६ ॥ इत्यध्वषट्कमुद्दिष्टं हेयोपादेयलक्षणम् । भुवनाध्वा पदाध्वा च विना तुर्यपदेन तु ॥ १३७ ॥ हेयः शेषमुपादेयं कर्मिणां तदपेक्षया । उक्तार्थं निगमनपूर्वकं तस्मिन्नध्वषट्के भुवनाध्वनः पदाध्व(नि?नः) सुषुप्त्यादि- पदत्रिकस्य च हेयत्वं तुर्यपदस्य मन्त्राध्वादीनां चोपादेयत्वं चाह—इत्यध्वषट्कमिति सार्धेन । एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि— तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम् । मायादिक्षितिपर्यन्ता योक्ता भुवनपद्धतिः ॥ भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः । (२२।२७-२८) इति ॥ १३७-१३८ ॥ यहाँ तक छः अध्वा का वर्णन किया गया है । इनमें कुछ हेय हैं और कुछ उपादेय हैं (जैसे—भुवनाध्वा पदाध्वा हेय है, मन्त्राध्वा, तत्त्वाध्वा एवं कलाध्वा तथा वर्णाध्वा ग्राह्य हैं) ये चार ही भक्तों के लिय ग्राह्य हैं किन्तु ये चार भी विशुद्ध अन्तःकरण वाले मुमुक्षु के लिये कभी हेय कोटि में हो जाते हैं ॥ १३७-१३८ ॥ व्यपेक्षयाऽप्युपेयश्च हेयपक्षे प्रयाति च ॥ १३८ ॥ किन्तु तत्प्राप्त्युपायं वै निस्तरङ्गे परे पदे । विवेकपदसंस्थस्य दीक्षया संस्कृतस्य च ॥ १३९ ॥ विचार्यमाण एवं हि विश्रामो यत्र वै स्फुटम् । जायते तत्परं ब्रह्म वासुदेवाख्यमव्ययम् ॥ १४० ॥ मुमुक्षोः शुद्धाः सन्तोऽप्यनपेक्षया तस्य तेऽपि हेयपक्षान्तर्गता भवन्तीत्याह— व्यपेक्षयेत्यर्धेन । तर्हि मुमुक्षुप्राप्यं किमिति चेत्, तदाह—किन्विति द्वाभ्याम् । विश्राम इत्यत्र षडध्वनामिति शेषः ॥ १३९-१४० ॥ किन्तु विवेकपद में स्थित रहने वाले ज्ञानी तथा दीक्षा सम्पन्न दीक्षित के लिये उसकी प्राप्ति उपाय निस्तरङ्ग पर पद में ही है ॥ १३९ ॥

४८० सात्वतसंहिता इस प्रकार विचार करने पर जहाँ स्पष्ट रूप से छः अध्वा को विश्राम मिलता है वही वासुदेव नामक अव्यय 'तत्' पद वाच्य ब्रह्म है ॥ १४० ॥ अम्बरं परमाणूनां बहूनामास्पदं यथा। तथाऽनाद्यबुद्धानां जीवानां हि निकेतनम्॥ १४१ ॥ विज्ञेयं भुवनानां च पदानामन्तरं हि यत्। भुवनपदाध्वद्वयमप्यसंख्यातचेतनास्पदमित्याह—अम्बरमिति सार्धेन ॥ १४१ - १४२ ॥ जिस प्रकार यह बृहदाकाश बहुत परमाणुओं का आस्पद है उसी प्रकार अनादि काल से अज्ञानी जीवों का यह भुवनाध्वा तथा पदाध्वा निकेतन है। उसी के आकाश में अपूर्ण इच्छा वाले अज्ञानी जीवों से सुख-दुःख का अनुभव कराते हुए उनसे ये मन्त्र क्रीडा करते हैं ॥ १४१-१४२ ॥ विनेश्वरेच्छया तेषां मन्त्रा वै क्रीडयन्ति च ॥ १४२ ॥ मायीयेऽध्वद्वये तस्मिन् सुखदुःखमयैः फलैः। ईश्वरेच्छानुविद्धानां भक्तानां परमेश्वरे ॥ १४३ ॥ तत्राम्बरे इच्छाविधुरान् जीवान् सुखदुःखफलानुभवैर्मन्त्राः क्रीडयन्तीत्याह— विनेति। मायीये प्राकृत इत्यर्थः ॥ १४२ - १४३ ॥ गुरूणां दीक्षितानां चाप्याराधनरतात्मनाम्। भवन्त्यध्वद्वयोर्ध्वस्था मन्त्राश्चाज्ञाप्रतीक्षकाः ॥ १४४ ॥ ईश्वरेच्छानुविद्धानां तु स्वयं वश्या भूत्वा तान् भोगार्थं स्वस्थाने नयन्तीत्याह— ईश्वरेति सार्धद्वाभ्याम् ॥ १४३ - १४५ ॥ ये दोनों अध्वा मायिक हैं जो सुख दुःख रूप दो फलों से संयुक्त हैं। ईश्वर की इच्छा करने वाले परमेश्वर में भक्ति रखने वाले गुरुओं तथा दीक्षित जनों की आराधना में तत्पर रहने वालों की भुवनाध्वा तथा पदाध्वा इन दो अध्वों से ऊपर रहने वाले मन्त्र आज्ञा की प्रतीक्षा करते रहते हैं ॥ १४३ - १४४ ॥ नयन्ति कर्मिणः सम्यग् मायीयाध्वद्वयाद् बलात्। स्वस्थानमणिमादीनां भोगानां प्राप्तये तु वै ॥ १४५ ॥ ये मन्त्र ईश्वरेच्छानुविद्ध भक्तों के वशीभूत हो कर उन्हें अणिमादि के भोग के लिये भुवनाध्वा तथा पदाध्वा से ऊपर स्वयं अपने स्थान में ले जाते हैं ॥ १४५ ॥ विरक्तस्य च तद्भोगात् स्वशक्त्या प्रेरयन्ति च। स्वव्यापारवशेनार्पि तत्त्वाध्वन्यमृतोपमे ॥ १४६ ॥ यत्राणिमादि मन्येत तृणानीव च संस्थितः।

एकोनविंशः परिच्छेदः ४८१ तत्र भोगविरक्तं चेतनं तु मन्त्राः स्वशक्त्यैव वासुदेवादिस्तत्त्वाध्वानं प्रापयन्ती- त्याह—विरक्तस्येति सार्धेन । यत्र तत्त्वाध्वनि संस्थितः पुरुषोऽणिमादि मन्त्राध्वन्यनु- भावभोगान् तृणानीव मन्येत तृणसदृशान् भावयेदित्यर्थः ॥ १४६-१४७ ॥ अनुग्रहपरास्तस्य तत्त्वाध्यक्षादयोऽमलाः ॥ १४७ ॥ नयन्त्यप्ययतां सम्यक् सकलाध्वनि शाश्वते । तत्रापि विरक्तं पुरुषमनिरुद्धादयः कलाध्वनि योजयन्तीत्याह—अनुग्रहेति । ततो विकलाध्वमूर्तिर्वासुदेवो वर्णाध्वानं प्रापयति ॥ १४७-१४८ ॥ यदि वह चेतन भोग से विरक्त है तब मन्त्र स्वयं अपनी शक्ति से उसे अमृत के समान वासुदेवादि ‘तत्त्वाध्वा’ प्राप्त कराते हैं । उस तत्त्वाध्वा में स्थित हुआ पुरुष जब मन्त्राध्वा में विद्यमान समस्त अणिमादि भोगों को तृणवत् समझता है । तब अत्यन्त शुद्ध तत्त्व के अध्यक्ष अनिरुद्धादि उस पर अनुग्रह कर उसे शाश्वत ‘कलाध्वा’ में ले जाते हैं ॥ १४६-१४८ ॥ स षाड्गुण्यमयो ब्रह्म वासुदेवोऽध्वमूर्तिभृत् ॥ १४८ ॥ नित्ये स्वात्मनि सम्बन्धे शब्दब्रह्माभिधेऽध्वनि । करोति योजनां तस्य यत्रस्थः स्वयमेव हि ॥ १४९ ॥ प्राप्नोति तत्परिज्ञानात् सुशान्तं भगवत्पदम् । तत्र स्थितः पुरुषः स्वयमेव वर्णाध्वपरिज्ञानाद् भगवत्पदं प्राप्नोतीत्याह—स इति द्वाभ्याम् ॥ १४८-१५० ॥ फिर विकलाध्व मूर्ति षाडगुण्यमय भगवान् वासुदेव उसे स्वयं वर्णाध्वा में ले जाते हैं । वह वर्णाध्वा नित्य है । आत्म सम्बन्धी है । शब्द ब्रह्म उसका नाम है । उसमें स्थित हुआ पुरुष वर्णाध्वा का ज्ञान कर स्वयं सुशान्त भगवत् पद प्राप्त करता है ॥ १४८-१५० ॥ सङ्कर्षण उवाच देव वर्णाध्वविज्ञानं वद किंलक्षणं मम ॥ १५० ॥ प्राप्नोति यत्परिज्ञानादध्ववी सद्वासुदेवताम् । सङ्कर्षणः प्रसक्तं वर्णाध्वज्ञानं पृच्छति—देवेति ॥ १५०-१५१ ॥ सङ्कर्षण ने कहा—हे देव ! अब आप मुझे वर्णाध्वा का ज्ञान कराइये । उसका लक्षण क्या है? जिसके परिज्ञान से अध्ववेत्ता साधक वासुदेवता को प्राप्त कर लेता है ॥ १५०-१५१ ॥ श्रीभगवानुवाच पञ्चाध्वकोशमुक्तस्य लब्धसत्तस्य चात्मनः ॥ १५१ ॥

४८२ सात्वतसंहिता योऽनुभूतिपदं यापि धारासन्तानरूपधृक्। भिन्नवर्णमयः शब्दः पूर्वलक्षणलक्षितः ॥ १५२ ॥ स चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना। प्रभवाप्यययोगेन शब्दभास्वरलक्षणः ॥ १५३ ॥ सकारान्तस्त्वकाराच्च हकारादन्त एव हि। एवं पृष्टो वासुदेवः पूर्वोक्तं वर्णाध्वानं प्रभवक्रमेऽकारादिसकारान्तम्, अप्यय- क्रमे हकाराद् आकारान्तं च चातुरात्म्यसमूहरूपेण भावयेदित्याह—पञ्चेति त्रिभिः। पञ्चाध्वकोशमुक्तस्य भुवनादिपञ्चाध्वनः समतिक्रान्तस्येत्यर्थः । शब्दभास्वरलक्षणो भास्वरध्वनिलक्षण इत्यर्थः । तथा च लक्ष्मीतन्त्रे— मच्चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना ॥ प्रभवाप्यययोगेन भारूपध्वनिलक्षणः । (२०।१०-११) इति ॥ १५१-१५४ ॥ प्रभवे द्वादशान्तस्तु हकारश्चतुरात्मनाम् ॥ १५४ ॥ अकारस्त्वप्यये चैव तुल्याऽतोनयोः स्मृता। अकारहकारयोर्द्वादशान्तत्वेन साम्यमाह—प्रभव इति । चतुरात्मनां द्वादशान्त इत्यन्वयः । द्वादशान्तो धारणाद्विषट्कान्त इत्यर्थः । अत्राकारादिहकारादिष्वेकोन- पञ्चाशद्वर्णेष्वकारादिसकारान्तं वर्णचतुष्टयक्रमेण द्वादश व्यूहा भवन्ति । तदुपर्य- वशिष्टस्य हकारस्य द्वादशान्तत्वम्, एवमप्ययक्रमे हकारमारभ्याऽऽकारान्तं व्यूह- द्विषट्कान्तरमवशिष्टस्याऽकारस्य द्वादशान्तत्वमिति भावः ॥ १५४-१५५ ॥ श्री भगवान् से कहा—पूर्वलक्षण से लक्षित यह वर्णाध्वा भिन्न-भिन्न वर्णों वाला शब्द है। वह वर्णाध्वा सृष्टिक्रम से अकारादि सकारान्त है तथा संहार क्रम से हकार से लेकर अकारान्त है, उसका चातुरात्म्य समूह रूप में भावना करे। वह भुवनादि पाँच अध्वा से अलग है और भास्वरध्वनि लक्षण वाला है । इसमें आकार और हकार दोनों द्वादशान्त होने के कारण समान हैं । इसमें आकारादि तथा हकारादि में ४९ वर्ण आते हैं । जिसमें सृष्टिक्रम से अकारादि से लेकर सकारान्त वर्णों में वर्ण चतुष्टय के क्रम से द्वादश व्यूह होते हैं । उसके बाद अवशिष्ट हकार की द्वादशान्त संज्ञा है, इसी प्रकार संहार क्रम में हकार से लेकर आकार पर्यन्त ४, ४ वर्णों के क्रम से १२ व्यूह होते हैं । अवशिष्ट अकार की द्वादशान्त संज्ञा होती है । इस प्रकार दोनों की तुल्यता है ॥ १५१-१५५ ॥ वर्णव्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना ॥ १५५ ॥ विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः। अत्रैकैका परिज्ञेया मूर्तिर्वै त्वेवमेव हि ॥ १५६ ॥

एकोनविंशः परिच्छेदः ४८३ युक्तां विश्रामपूर्वेण चतुष्केण समासतः । दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ॥ १५७ ॥ द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् । सोपानभूतं यत् क्रान्त्वा द्वादशान्तं विशेत् परम् ॥ १५८ ॥ तस्मिन् वर्णाध्वन्यकारादिक्रमेण विश्रामादिचतुष्टयेनास्य ज्ञेयत्वं वासुदेवाद्येकै- कमूर्तेरपि विश्रामादिचतुष्केण युक्तत्वं दण्डवत् सन्निवेशेन संस्थितिं तस्यां द्वादश- धारणानां द्वादशान्तारोहणे सोपानभूतत्वं चाह—वर्णव्यूहेति सार्धैस्त्रिभिः । आ वासुदेवतो = वासुदेवमारभ्येत्यर्थः । अस्यैकैका मूर्तिरित्यत्रान्वयः । विश्रामो वर्णानां सूक्ष्मावस्थेत्यर्थः । उदयः = पश्यन्त्यवस्था । व्याप्तिर्मध्यमावस्था । व्यक्तिर्वैखरी- वस्था । तथा च लक्ष्मीतन्त्रे— शान्तरूपाऽथ पश्यन्ती मध्यमा वैखरी तथा । चतुरूपा चतुरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ वासुदेवाद्यः सूक्ष्मा वाच्याः शान्तादयः क्रमात् । (१८।२९-३०) एवं वासुदेवाद्येकैकमूर्तिरपि विश्रामादिचतुष्टयेन युक्ता ज्ञेया । तत्र विश्राम- स्तुरीयव्यूहावस्था । उदयः = सुषुप्तिव्यूहावस्था । एवं विश्रामादिशब्दवाच्यतुरीयव्यूहा- वस्थादिचतुष्टयविशिष्टा वासुदेवादिमूर्तिर्विश्रामादिशब्दवाच्यसूक्ष्मावस्थादिचतुष्टयश्लिष्टे- ष्वकारादिवर्णेषु दण्डवत्सन्निवेशेन संस्थितेति फलितोऽर्थः । अथवा वर्णानां सूक्ष्माद्य- वस्था इदानीं न विवक्षिताः, किन्तु विश्रामादिशब्दैर्वासुदेवामूर्तेस्तुरीयव्यूहावस्थादय एव विवक्षिताः । तासामवस्थानामेकैकस्मिन् वर्णे एकैकावस्थाक्रमेण प्रत्येकं वर्ण- चतुष्टयेऽवस्थाचतुष्टयं बोध्यम् । एवमवस्थाचतुष्टयात्मके वर्णचतुष्टये वासुदेवाद्यैकेका मूर्तिर्ज्ञेया । एवं चाका- रादिषोडशवर्णानां चतुष्टयचतुष्के जाग्रद्व्यूहवासुदेवाद्यश्चतस्रो मूर्तयः, (अ?क) कारादिचतुष्टयवर्णानां चतुष्टयचतुष्के स्वप्नव्यूहवासुदेवाद्यश्चतस्रो मूर्तयः, थकारादि- सकारान्तषोडशवर्णानां चतुष्टयचतुष्के सुषुप्तिव्यूहमूर्तयः, एतद्द्वादशान्ते हकारे— अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् । सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ॥ चातुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् । (५।८१-८२) इत्युक्तलक्षणा तुरीयव्यूहमूर्तिरित्यर्थो ज्ञेयः । एवं हकाराद्यकारान्तं प्राति- लोम्येनापि ज्ञेयम् । यद्वाऽकारादिवर्णषोडशके व्यक्तिशब्दवाच्या जाग्रदवस्था, ककारादिवर्णषोडशके व्याप्तिशब्दवाच्या स्वप्नावस्था, थकारादिसकारान्तवर्ण- षोडशके उदयशब्दवाच्या सुषुप्त्यवस्था, द्वादशान्ते हकारे विश्रामशब्दवाच्या तुरीया- वस्था । तत्र तत्र तत्तद्व्यूहमूर्तयः पूर्वोक्तक्रमेणैव बोध्याः । नन्वत्र भवदुक्तं त्रिविधं व्याख्यानमप्यसङ्गतम्, जगज्जननीकृतव्याख्या- विरोधात् । लक्ष्मीतन्त्रे हि—

वार्णे व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना । विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः ॥ अत्रैकैका परिज्ञेया मूर्तिर्वै त्वेवमेव हि । युक्ता विश्रामपूर्वेण चातुष्केण समासतः ॥ विश्रामं चिन्तयेद् देवं वासुदेवं सनातनम् । अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ॥ सङ्कर्षणादितत्त्वानि विश्रामन्ति लयेऽत्र हि । ततः सङ्कर्षणं देवमाकारामुदयं स्मरेत् ॥ उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम् । व्याप्तिं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् ॥ त्रिविधं प्राप्यते तेन त्रयीकर्मात्मना जगत् । अनिरुद्धं व्यक्तिरूपमीकारान्तमनुस्मरेत् ॥ व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः । दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ॥ आ सकाराच्चतूरूपयुक्ता मे चतुरात्मता । स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् ॥ हकारं वासुदेवं तु विश्रामं परिचिन्तयेत् । सङ्कर्षणं सकारान्तमुदयं त्वप्यये स्मरेत् ॥ एवमाकारतो दिव्यं चिन्तयेच्चतुरात्मनाम् । द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् ॥ सोपानभूतं यत्क्रान्त्वा द्वादशान्तं विशेत् परम् । एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता ॥ (२०।१३-२३) इति विश्रामोदयव्याप्तिव्यक्तिशब्दानां वासुदेवादिचतुर्मूर्तिपरत्वं सुस्पष्टं व्याख्या- तमिति चेत्, अस्मदुक्तप्राथमिकव्याख्यानस्य लक्ष्मीवचनानुसारित्वमजानन्नेवमात्थ । तत्राकरदिवर्णेषु चतुर्षु वासुदेवादीनां चतुर्णां चतुर्णामिवस्थानं किमस्माभिर्निरुद्धम्, अपि तु विश्रामादिशब्दानां सूक्ष्मावस्थादिवाचकत्वमस्माभिरुक्तम् । लक्ष्मीतन्त्रे तु तदर्थस्य सुप्रसिद्धत्वात् तद्विवरणं विना वासुदेवादिवाचकत्वं दुर्ज्ञेयं सुस्पष्टं व्याख्यातम् । तावता तेषां शब्दानां वासुदेवादिवाचकत्वमेव, सूक्ष्माद्यवस्थावाचकत्वं न संभवतीति न नियमोऽस्ति, उत्तरत्र "युक्ता विश्रामपूर्वेण चतुष्केण समासतः" (लक्ष्मी० २०।१४) इत्यत्र विश्रामादिशब्दानामवस्थावाचकत्वस्य दुर्निवारत्वात् ॥ १५५-१५८ ॥ यही वासुदेव, सङ्कर्षण, प्रद्युम्न और अनिरुद्ध नामक एक-एक के क्रम से चार मूर्तियाँ हैं। जो विश्राम, उदय, व्याप्ति तथा व्यक्ति इन चारों से क्रमशः युक्त हैं। वर्णों की सूक्ष्म अवस्था विश्राम है, वही वासुदेव हैं। पश्यन्ती अवस्था उदय हैं, जो सङ्कर्षण हैं। मध्यमावस्था व्याप्ति है, जो प्रद्युम्न हैं। वैखरी अवस्था व्यक्ति है, जो अनिरुद्ध हैं ॥ १५५-१५६ ॥ इस वर्णाध्वा में आकारादि क्रम से विश्रामादि चतुष्टय द्वारा वासुदेवादि व्यूह

ज्ञेय हैं । इनकी संस्थिति दण्ड के समान है । उसमें द्वादश धारणा द्वादशान्त के आरोहण में सोपान के समान है ॥ १५७-१५८ ॥ नीत्वैवं व्यक्तिभावेन हृत्पद्मोदरसंस्थितम् । वर्णाध्वानं दीक्षितस्य शब्दब्रह्मेति या स्थितिः ॥ १५९ ॥ एवंभूतस्य वर्णाध्वनः प्रकारः शिष्याय सुव्यक्तमुपदेश्य इत्याह—नीत्वेति । हृत्पद्मोदरसंस्थितम्, तत्राब्जं चार्कमालम्ब्य परा वाग् भ्रमरी स्थिता । या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् । अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ॥ (२।६७-६८) इत्युक्तप्रकारेण हृदयकमलान्तः स्थितमित्यर्थः । अत्र दीक्षितस्येत्येनेन षडध्व- मोचनपर्यन्तस्यैव कर्मणो दीक्षाशब्दाभिधेयत्वं ज्ञायते । एवमेवोक्तं जयाख्यलक्ष्मी- तन्त्रादिष्वपि । एतेन सिद्धान्तचन्द्रिकायां दीक्षाशब्दस्य नियमपरिग्रहणवाचित्वमुक्तं निरस्तं भवति, नियमानामुत्तरत्र वक्ष्यमाणत्वात् ॥ १५९ ॥ हृदय रूपी कमलोदर में स्थित इस वर्णाध्वा का गुरु दीक्षित पुरुष को उपदेश करे । जिसकी शब्द ब्रह्म रूप से प्रतिष्ठा है ॥ १५९ ॥ संसेच्य हुतभुग्भूमिं प्रणीतेनोदकेन तु । सह शिष्येण चात्मानं तेनैवाच्छिद्रसिद्धये ॥ १६० ॥ पूर्ववद् भूतिना कृत्वा लक्ष्म चाग्निं प्रणम्य च । समुत्थाय ततो यायात् तं गृहीत्वाऽच्युतालयम् ॥ १६१ ॥ अथ प्रणीतोदकेन कुण्डादिसेचनं भस्मना तिलकधारणम् अग्निप्र(माणा ? - णामा)दिकं मण्डलस्थस्य बिम्बस्थस्य वा भगवतोऽभ्यर्चनपूर्वकं तत्सन्निधौ शिष्याय नियमोपदेशं मानसाराराधनक्रममुद्रान्यासध्यानसमन्वितमन्त्रोपदेशम् आराधनादीनामिति- कर्तव्यताक्रमोपदेशं स्वसमक्षमेव शिष्येण भगवदाराधनाद्यनुष्ठापनं गुर्वर्चनं शिष्यस्य मस्तके मन्त्रोदकसेचनम् आशीर्वचनपूर्वकं तन्मस्तके मन्त्रहस्तदानमाशीर्वचनप्रकारं चाह—संसेच्य हुतभुग्भूतमित्यारभ्य मोक्षलक्ष्मीसमन्वितेत्यन्तम् । तवास्तु वैभवी सिद्धिरित्यत्र व्यूहदीक्षायां तवास्तु व्यूहसंसिद्धिरिति, ब्रह्मादीक्षायां तवास्तु ब्रह्मसंसिद्धि- रिति योज्यम् । अत एवास्मत्तातपादैः सात्वतामृते व्यापकमन्त्रदीक्षाप्रकारणात्— "तवास्तु विभवादीनां सिद्धिर्मोक्षश्रियान्विता" इति प्रतिपादितम् । ननु केवलं परव्यूहविभवदीक्षात्रयमत्र प्रतिपादितम्, व्यापकमन्त्रदीक्षानुष्ठाने किं मूलम्, तावतैकमन्त्रेण विभवादिसर्वदेवीया सिद्धिः कथं जायत इति चेत्, अस्ति तत्र च सात्वतोपबृंहणमीश्वरतन्त्रं पाद्मादिकं च मूलम्, एकमन्त्रस्यापि व्यापकत्वेन विभवादि- सर्वदेवाविष्कृतत्वात् । तेन सर्वदेवीया सिद्धिर्निरङ्कुशां सिद्ध्यतीति बोध्यम् ।

४८६ सात्वतसंहिता ननु सिद्ध्यतुनाम तादृशी सिद्धिः, तदानीं व्यापकमन्त्र एव तद्दीक्षितस्याधि- कारः। नहि विभवादिदीक्षां विना तत्तन्मन्त्रेष्वधिकारः सिद्ध्यतीति वाच्यम्, तेनैव सर्व- दीक्षाणां चारितार्थ्यात् । तथा चैश्वरे तन्त्रे— एवं दीक्षात्रयं चापि दद्यादेकस्य वा क्रमात् । सर्वाराधनयोग्यत्वसिद्धये मुनिपुङ्गवाः ॥ यद्वाऽष्टाक्षरमन्त्रादौ व्यापकत्रितये द्विजाः । शक्तिभूषणवाहास्त्रमन्त्रांश्चोपदिशेद् गुरुः ॥ इति । —(२९।४६०-४६१, ४६३) पाद्मेऽपि— ध्यात्वा च दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् । मन्त्रं दद्यादृषिच्छन्दोदैवतं चाङ्गमेव च ॥ द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् । मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ॥ इति व्यापकमन्त्रदीक्षाप्रकरण एव समस्तमूर्तिमन्त्राणामप्युपदेशः प्रतिपादितः । एवं च यथा प्रधानमन्त्रदीक्षायाः शक्तिभूषणवाहनास्त्रमन्त्रेष्वप्यधिकारः सिद्ध्यति, तथा व्यापकमन्त्रदीक्षयैव विभवादिमन्त्रेष्वधिकारः सिद्ध्यतीति ज्ञेयम् ॥ १६०-१६८ ॥ फिर गुरु निर्विघ्नता सिद्धि के लिये शिष्य के साथ प्रणीता के जल से अग्निकुण्ड का सेचन कर अपने को भी संसिक्त करे । भस्म का तिलक धारण करे और अग्नि को प्रणाम करे । मण्डलस्थ अथवा बिम्बस्थ भगवान् का अभ्यर्चन करे ॥ १६०-१६१ ॥ पूजयित्वा जगन्नाथं निवेद्य नियमान् शिशोः । सविशेषान् समासेन सान्तरान् योग्यतावशात् ॥ १६२ ॥ फिर वहीं अग्निकुण्ड के समीप सविशेष अथवा संक्षेप में योग्यता के अनुसार शिष्य को नियमोपदेश करे ॥ १६२ ॥ यथावदुपदेष्टव्यं ततस्तस्यार्चनं हृदि । मुद्रासमन्वितो मन्त्री न्यासध्यानपुरस्सरः ॥ १६३ ॥ इतिकर्तव्यताशास्त्रसंक्षिप्ता च सविस्तरा । तत्समक्षं ततस्तेन सर्वं कार्यं यथास्थितम् ॥ १६४ ॥ गुर्वर्चनं ततः कुर्यादात्मना च धनादिना । पूरयित्वाऽम्भसा पाणिमर्घ्यपात्रात् तु दक्षिणम् ॥ १६५ ॥ षडङ्गमन्त्रसंजप्तं क्षेप्तव्यं तस्य मस्तके । मण्डलं प्रणवेनाथ पाणौ सूर्यप्रभं स्मरेत् ॥ १६६ ॥

एकोनविंशः परिच्छेदः ४८७ फिर मनसाराधन क्रम, मुद्रा, न्यास, ध्यान समन्वित मन्त्रोपदेश, आराधनादि की इतिकर्त्तव्यता के क्रम का उपदेश करे । फिर अपने ही सामने शिष्य से भगव- दाराधनादि अनुष्ठान, अपने को स्वयं अर्पण तथा धनादि द्वारा गुर्वर्चन करावे । तदनन्तर गुरु स्वयं अर्घ्यपात्र का जल अपने दाहिने हाथ में लेकर षडङ्गमन्त्र का जप करते हुए शिष्य के मस्तक पर प्रक्षिप्त करे । फिर अपने हाथ में सूर्य की किरणों के समान देदीप्यमान मण्डल का स्मरण करे ॥ १६३-१६६ ॥ तत्राभिन्नं न्यसेत् प्राग्वद् वैभवं देवतागणम् । कृत्वा धियार्चितं दद्यात् साशिषं तस्य मूर्धनि ॥ १६७ ॥ यथोक्ता च यथाभीष्टा त्वचिरादेव पुत्रक । तवास्तु वैभवी सिद्धिमौक्षलक्ष्मीसमन्विता ॥ १६८ ॥ फिर उससे अभिन्न वैभवीय देवतागणों का शिष्य के शरीर में न्यास करे । मानस अर्चन कराकर उसके शिर पर इस प्रकार आशीर्वाद देवे । हे पुत्र! जैसा कि कहा गया है और जैसा आपको अभीष्ट भी है वैसी मोक्ष लक्ष्मी-समन्वित 'वैभवी सिद्धि' आपको प्राप्त हो ॥ १६७-१६८ ॥ इति वैभवदीक्षाया लक्षणं समुदाहृतम् । तत्प्रयुक्तस्य सामान्यं सर्वमन्त्रगणस्य च ॥ १६९ ॥ अथोक्तमर्थं निगमयति—इतीति । तत्प्रयुक्तस्य वैभवार्चनासक्तस्य शिष्यस्येत्यर्थः । सर्वमन्त्रगणस्य पद्मनाभादि- पातालशय्यन्तविभवदेवमन्त्रसमूहस्येत्यर्थः ॥ १६९ ॥ हे सङ्कर्षण ! यहाँ तक हमने वैभवदीक्षा का लक्षण आपसे कहा । उनमें सामान्य रूप से प्रयुक्त होने वाले सभी मन्त्रों को भी कहा गया है ॥ १६९ ॥ येन येन हि मन्त्रेण दीक्षा कार्या हि कस्यचित् । तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ॥ १७० ॥ कार्योऽत्रावयवानां तु विनियोगो यथोदितः । समूहवद् हृदादीनां मूलान्तानां समाचरेत् ॥ १७१ ॥ सह तत्त्वगणेनैव सर्वदाऽध्यात्मरूपताम् । सम्भ्यूह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै ॥ १७२ ॥ एतेषु विभवमन्त्रेष्वेकैकेनैव मन्त्रेण यस्य दीक्षाऽभिमता तस्य तादृशदीक्षायां विशेषानाह—येनेति त्रिभिः । अवयवानामङ्गमन्त्राणामित्यर्थः । समूहवत् पातालशय- नादिपद्मनाभान्तसमूहवदित्यर्थः । एकमन्त्रदीक्षाप्रकरणात् पृथिव्यादिसप्तके पूर्वोक्त- विभवदेवसमूहं विना तत्स्थाने हृन्मन्त्रादिमूलमन्त्रान्तानां सप्तानां विनियोगः कार्य इति फलितोऽर्थः ॥ १७०-१७२ ॥

४८८ सात्वतसंहिता जिस-जिस मन्त्र से जिस-किसी को दीक्षा देनी हो उस-उस मन्त्र, छन्द, देवता, ऋषि तथा कार्यों का उद्देश कर उसके अवयवभूत हृदादि छः अङ्गों का तथा मूलमन्त्र का विनियोग अवश्य करे ॥ १७०-१७२ ॥ नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते । निरङ्गानां तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ॥ १७३ ॥ प्रणवो विनियोक्तव्यः सह कर्मपदेन तु । पञ्चाङ्गमन्त्रदीक्षायां निरङ्गमन्त्रदीक्षायां च गतिमाह— नेत्रेति सार्धेन ॥ १७३-१७४ ॥ पञ्चाङ्ग मन्त्र की दीक्षा नेत्रकर्म में हृद्बीज का प्रयोग करे । निरङ्गमन्त्र दीक्षा में कर्म के साथ केवल प्रणव (ॐ) का प्रयोग करे । इस प्रकार व्यूह दीक्षा चाहने वालों के लिये इस प्रकार की विधि सम्पादन करनी चाहिये ॥ १७३-१७४ ॥ व्यूहदीक्षायां विशेषकथनम् सम्पाद्या विधिनानेन व्यूहदीक्षाऽर्थिनां सदा ॥ १७४ ॥ किन्तु वै तत्र योक्तव्यं प्रत्येकस्मिन् हि कर्मणि । चतुष्कं वासुदेवाद्यं बीजानां यत् पुरोदितम् ॥ १७५ ॥ व्यूहदीक्षायां विशेषमाह—सम्पाद्येति सार्धेन । पुरोदितम् अष्टमे परिच्छेदे ‘‘सान्तं षष्ठस्वरारूढम्’’ (८।१०) इत्यादिभिः प्रतिपादितमित्यर्थः ॥ १७४-१७५ ॥ अब व्यूह दीक्षा में विशेष कहते हैं—व्यूह दीक्षा के प्रत्येक कर्म में वासुदेवादि के चारों बीजों का प्रयोग करे । (द्र. ८.१०) ॥ १७५ ॥ ब्रह्मदीक्षायां विशेषकथनम् एवमेवाद्यमन्त्रस्तु निःशेषः कर्मसंग्रहे । योक्तव्यो ब्रह्मदीक्षायां षोढा भक्त्वा च पूर्ववत् ॥ १७६ ॥ स्वरूपेण यथावस्थमुक्तेष्ववसरेषु च । किन्त्वेकवचनेनात्र देवानां प्रार्थना मता ॥ १७७ ॥ योजना त्वधिवासोक्ता विज्ञातव्या समासतः । ब्रह्मदीक्षायां विशेषानाह—एवमेवेति सार्द्धद्वाभ्याम् । आद्यमन्त्रस्य षोढा विभजनप्रकारस्तु द्वितीयपरिच्छेदे (२।३२-३५) एव प्रदर्शितः । एकवचनेन प्रार्थना “युष्मत्प्रसादसामर्थ्यात्” (१९।१०१) इत्यादिस्थलेषु ज्ञेया । नन्वत्र देवानामिति बहुवचनमस्ति, कथं तेषामेकवचनेन प्रार्थनेति चेत्, सत्यम् । तत्रापि चातुरात्म्यसत्त्वाद् बहुवचनमुक्तम् । तथापि— अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।

एकोनविंशः परिच्छेदः ४८९ सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ॥ चातुरात्म्यं तदाद्यं वै शुद्धं संविन्मयं महत् । (५।८१-८२) इत्यादिमूर्तेरेव प्राधान्यादेक एव मन्त्र उक्तः, एकवचनेनैव प्रार्थनेति बोध्यम् । अधिवासोक्ता योजना नाम, ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय । तत्राहं योजयाम्येनं यत्कर्म त्वत्परायणम् ॥ (१८।२३२) इत्येवंरूपेत्यर्थः । इयं योजना ज्ञातव्या एतद्दीक्षाविषयत्वेन बोध्याऽनेनेत्यर्थः, एकवचनप्रयोगात् । एतेन व्यूहदीक्षायां विभवदीक्षायां च तस्मिन् योजनाश्लोके बहुवचनं योज्यमित्यर्थात् सिद्धम् । तत्राप्येकैकमन्त्रेणैव दीक्षायामेकवचनेनैव प्रार्थना- योजनादिकं कार्यम् । अत एवास्मत्तातपादैः सात्वतामृते युष्मत्प्रसादसामर्थ्यादिति प्रार्थनाश्लोके त्वत्प्रसादस्य सामर्थ्यदित्येकवचनं प्रयुक्तम् । ननु सात्वतामृते व्यापकमन्त्रदीक्षा प्रतिपादिता । व्यापकमन्त्रस्य परव्यूह- विभवाख्यसर्वदेवविषयत्वं भवतैवोक्तम् । तादृशमन्त्रदीक्षायां सर्वे देवा अपि प्रार्थ्याः । तथा सति कथमेकवचनं समञ्जसं भवतीति चेत्, ब्रूमः-यथैक एव मन्त्रः सर्वान् विषयीकरोति, तथैकवचनमपीति बोध्यम् । अत एव हि पाद्मेऽष्टाक्षरकल्पे द्वादशा- क्षरकल्पे चैकवचनेनैव ध्यानमुक्तम्-"चतुर्बाहुमुदाराङ्गम्" इत्यादिभिः । ननु तर्ह्यष्टाक्षरेण परव्यूहविभवार्चनप्रकरणे सर्वत्र पाद्मोक्तध्यानमेवानुसरणीयं किमिति चेतुच्यते, अष्टाक्षरेण तेषामर्चनप्रकारेण सामान्यतः पाद्माद्युक्तप्रकारेण वा विशेषाकारेण वा ध्येयम् । तत्र न विवादः । अत एव हीश्वरपारमेश्वरयोर्व्यापकमन्त्रे- णैवार्चने उक्तेऽपि तत्तद्दिव्यदेशस्थितमूर्तिध्यानमेव प्रतिपादितम् ॥ १७६-१७८ ॥ अब ब्रह्म दीक्षा की विशेषता कहते हैं-ब्रह्म दीक्षा में कर्म संग्रह में आद्य मन्त्र का छः विभाग कर पूर्ववत् योजना करे । (आद्य मन्त्र के षोढा विभाजन का प्रकार द्र. २.३२-३५) ॥ १७६ ॥ उक्त अवसरों पर देवताओं के स्वरूप पर होने के कारण एक वचन से ही प्रार्थना करे । (यथा युष्मत्प्रसादसामर्थ्यादित्यादि द्र.१९.१०१) ॥ १७७ ॥ अधिवास प्रकरण में संक्षेप में योजना कह दी गयी है । उसे वहीं से समझ लेना चाहिये । यथा- ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय । तत्राहं योजयाम्येन यत्कर्म त्वत्परायणम् ॥ (द्र. १८.२३२) यह योजना दीक्षा विषयक है ऐसा समझना चाहिये । 'व्यूह दीक्षा' तथा 'ब्रह्म दीक्षा' इन दोनों का केवल मोक्ष के अतिरिक्त और कोई फल नहीं है ॥ १७८ ॥ नित्यदीक्षाद्वयस्यास्य नान्यन्मोक्षादृते फलम् ॥ १७८ ॥ तत्रापि चातुरात्मीया दीक्षा प्राक् कमलेक्षण । सा० सं० - ३५

४९० सात्वतसंहिता बलाद् ददाति षाड्गुण्यभोगाप्तिं भावितात्मनाम् ॥ १७९ ॥ फलं स्रक्चन्दनादीनां होमद्रव्यस्य चापि यत् । प्रकृत्या सह चाप्येति विलयं ब्रह्मदीक्षया ॥ १८० ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां दीक्षाविधिर्नाम एकोनविंशः परिच्छेदः ॥ १९ ॥ — ❦ ❁ ❦ — किं बहुना व्यूहब्रह्मदीक्षयोः केवलमोक्षप्रदत्वेऽपि तत्रैहिकफलानामप्यानुषङ्गि- कत्वमस्तीत्याह—नित्येति सार्धद्वाभ्याम् ॥ १७८-१८० ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये एकोनविंशः परिच्छेदः ॥ १९ ॥ — ❦ ❁ ❦ — फिर भी हे कमलेक्षण ! चतुरात्मीया दीक्षा परमेश्वर की आराधना करने वालों को हठात् षाड्गुण्य और भोगों की प्राप्ति कराती है । इसी प्रकार ब्रह्म दीक्षा से फल, माला, चन्दन तथा होम द्रव्य की प्रकृतिवशात् ईश्वराराधक को प्राप्त होते रहते हैं और पुनः ब्रह्मदीक्षा से विलीन हो जाते हैं ॥ १७९-१८० ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के दीक्षाविधि नामक उन्नीसवें परिच्छेद की हिन्दी समाप्त हुई ॥ १९ ॥ — ❦ ❁ ❦ —

विंशः परिच्छेदः अभिषेकविधिः नारद उवाच दीक्षालक्षणमुक्तवैवं सीरिणं चाथ चक्रभृत् । यथावच्च मुनिश्रेष्ठाः पुनरेवाऽब्रवीदिदम् ॥ १ ॥ अथ विंशः परिच्छेदो व्याख्यास्यते । भगवान्नेवं दीक्षालक्षणमुक्त्वा पुनरभि- षेकमुपदिशतीत्याह—दीक्षेति ॥ १ ॥ नारद जी ने कहा—हे श्रेष्ठ मुनियो ! चक्रधारी भगवान् श्रीकृष्ण ने हलधर भगवान् सङ्कर्षण से इस प्रकार यथावत् दीक्षा के लक्षणों को कहने के बाद पुनः कहा ॥ १ ॥ अभिषेककालकथनम् अथ मण्डलदृष्टस्य शास्त्रज्ञस्य यथार्थतः । समाराधनसक्तस्य पुत्रकत्वं गतस्य च ॥ २ ॥ अभिषेकेऽधिकारिणं तत्प्रयोजनं कालं चाह—अथेति द्वाभ्याम् । मण्डलदृष्टस्य दृष्टमण्डलस्येत्यर्थः, समयनिष्ठस्येति यावत् । "लब्धदर्शनमात्रो वै मन्त्रमूर्तेस्तु मण्डले" (२२।१४) इति समयनिष्ठस्य लक्षणं वक्ष्यति । शास्त्रज्ञस्य तदनन्तरं शास्त्रव्यवसायपरस्येत्यर्थः, ततः प्रभृति कालाच्च सुप्रश्नाच्च सुदेशिकात् ॥ पाठपूर्वं हि शास्त्रार्थमभ्यर्थयति योऽनिशम् । (२२।१५-१६) इति वक्ष्यमाणत्वात् । पुत्रकत्वं गतस्य "विज्ञाता गुरुणा यस्य" (२२।२९) इत्यारभ्य, "स शिष्यः पुत्रको नाम स्वपुत्रादधिकः सदा" (२२।३८) इत्यन्तं वक्ष्य- माणलक्षणविशिष्टस्येत्यर्थः । समाराधनसक्तस्य "पूर्ववल्लब्धदीक्षस्तु मन्त्राराधन- तत्परः" (२२।३९) इत्यादिक्रमेण वक्ष्यमाणलक्षणविशिष्टस्येत्यर्थः । एवं मण्डल- दृष्टस्येत्यादिविशेषणचतुष्टयविशिष्टस्य शिष्यस्य तत्कालं दीक्षानन्तरमेवाभिषेचनं कार्यमिति फलितार्थः ।

४९२ सात्वतसंहिता नन्वेतदभिषेचनं विशेषणविशिष्टस्येति किं नियामकम्, समयिनः = पुत्रकस्य साधकस्य वाऽभिषेकः कार्य इत्यर्थः सरसः । यतः श्रीजयाख्ये— सेनापतिक्रमेणैव समयज्ञस्य सर्वदा । महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ॥ युवराजविधानेन दातव्यः साधकस्य तु । राजोपचारविधिना अभिषेको गुरोः स्मृतः ॥ (१८।३४-३५) इति सामयिकादीनां चतुर्णामप्यभिषेकः प्रतिपादित इति चेत्, ब्रूमः—जयाख्ये तेषां प्रत्येकमभिषेकप्रयोगभेदाश्च प्रतिपादिताः । अत्र तु केवलमाचार्याभिषेकविधान- मुक्तम् । अतोऽस्मदुक्तार्थ एव सरसः । न च तर्हि विशेषणानां वैय्यर्थापत्तिः, समाराधनसक्तस्येत्येतावन्मात्रेणैव चारितार्थ्यादिति वाच्यम्, तत्तत्सर्वगुणविशिष्टस्यैवा- भिषेकार्हत्वोक्त्या सामर्थ्यात् । किञ्च, अत्र वक्ष्यमाणेषु समयिपुत्रकसाधकलक्षणेषु जयाख्यवदभिषिक्तत्वं कुत्रापि न वक्ष्यति । आचार्यलक्षणेष्वेव—“लिङ्गैः पूर्वोदितै- र्युक्तस्त्वभिषिक्तो विशेषतः” (२२।४४) इत्यभिषिक्तत्वं वक्ष्यति । अत एवैतदुप- बृंहणेश्वरतन्त्रे— इत्येवमभिषेकस्तु भवेन्मुख्याधिकारिणाम् ॥ अन्ये तु दीक्षामात्रेण संस्कार्या मुनिपुङ्गवाः । (२१।५०३-५०४) इति सुस्पष्टं प्रतिपादितम् । पाद्मेऽपि— शिष्यं सुतं वा सर्वज्ञमनसूयं जितेन्द्रियम् । आचार्यवंशजन्मानं निग्रहानुग्रहक्षमम् ॥ शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् । वेदवेदान्ततत्त्वज्ञमाचार्यपदकाङ्क्षिणम् ॥ देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्त्ववित् । कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ॥ कुर्यान्मण्डलपूजादि कुम्भयागावसानिकम् ॥ इत्याचार्यवंशजानामेवाभिषेकः प्रतिपादितः, तेषामेव कर्षणादिष्वधिकारश्च ॥२॥ सिद्ध्यर्थं सर्वमन्त्राणामधिकाराप्तये तु वा । तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम् ॥ ३ ॥ ननु तर्हि जयाख्ये चतुर्वर्णानां चतुराश्रमिणां चतुर्विधशिष्याणां चाभिषेकः प्रति- पादितः । तत्र का गतिरिति चेत्, दत्तोत्तरमेतत् । जयाख्यनिष्ठानां सर्वेषामपि तारतम्ये- नाभिषेकः स्यात् । एतस्मिन्नाचार्याभिषेकमात्रस्योक्तत्वात् साधकाद्यभिषेकविधाना- नामनुक्तत्वाच्चैतन्निष्ठैराचार्याभिषेकमात्रमनुष्ठेयम् । यद्वा—अनुक्तमन्यतो ग्राह्यमिति न्यायेन साधकाभिषेकाद्यनुष्ठानेऽपि न प्रत्यवायः ॥ ३ ॥ अब समय निष्ठ तदनन्तर (द्र. २२.१४) शास्त्र के व्यवसाय में निरस पुत्रता को प्राप्त होने वाले (पुत्रक लक्षण २२.३८ द्र.) समाराधन में आसक्त (द्र.

विंशः परिच्छेदः ४९३ २२.३९), अथवा चारों से विशिष्ट शिष्य का, सभी मन्त्रों की सिद्धि के लिये, अथवा सभी मन्त्रों पर अधिकार प्राप्ति के लिये, दीक्षा के अनन्तर तत्काल उनका अभिषेक कर देना चाहिये ॥ २-३ ॥ अथाभिषेकविधानम् भगवत्तत्त्ववेत्तॄणां पञ्चकालरतात्मनाम् । संहितापारगाणां च आचार्याणां च सन्निधौ ॥ ४ ॥ यतीनां बद्धलक्ष्याणां साधकानां महात्मनाम् । देवस्य पुरतः कुर्याच्चतुरश्रं तु मण्डपम् ॥ ५ ॥ सर्वोपकरणोपेतं मध्ये भद्रासनान्वितम् । तस्मिन् कुर्यादनन्ताद्यं सन्धानं त्वासनोदितम् ॥ ६ ॥ अथाभिषेकविधानमाह—भगवत्तत्त्ववेत्तॄणामित्यारभ्य पूर्णान्तं चाग्निमध्यगमि- त्यन्तम् । देवस्य पुरत इत्यत्र मण्डलस्थस्य बिम्बस्थस्य वा देवस्येत्यर्थः । अनन्ताद्य- मित्यत्राद्यपदेन धर्मज्ञानादयः संग्राह्याः । अष्टाङ्गेन अष्टोपचारैरित्यर्थः । वैष्णवं कुम्भं दीक्षार्थं स्थापितं महाकुम्भमित्यर्थः । ननु दीक्षार्थं स्थापितं महाकुम्भमिति कोऽयं नियमः । यतो जयाख्यपाद्मयोर्भि- षेकार्थं पृथक् कुम्भस्थापनमुच्यत इति चेन्न, अत्र पृथगनुक्तत्वात्, महाकुम्भस्य विनियुक्तत्वादेवोत्तरत्र—'क्षान्त्वा यथोक्तविधिना सकुण्डान्मण्डलान्तरात्' (२०।१९) इति केवलकुण्डमण्डलाभ्यामेव भगवद्विसर्जनस्य वक्ष्यमाणत्वाच्च । ननु साधकस्य खल्वाचार्याभिषेकः कार्यः । साधकलक्षणं तु—‘‘पूर्ववल्लब्ध- दीक्षस्तु मन्त्राराधनतत्परः'' (२२।३९) इत्यादि वक्ष्यति । जयाख्येऽपि— मन्त्रसिद्धिश्च वै यस्य विज्ञाता गुरुणा यदा । गुरुणा वै सोऽभिषिक्तस्ततः शिष्यः प्रसादतः ॥ (१७।४६) इति प्रतिपाद्यते । एवं दीक्षानन्तरं मन्त्रसिद्धयर्थं बहुकालमनुष्ठितव्रतस्य साधकस्य दीक्षार्थं स्थापितमहाकुम्भेनैवाभिषेकः कथं संघटते । अतोऽभिषेककालेऽपि कुम्भ- मण्डलाग्निष्वर्चनं कार्यम् । तदातनमहाकुम्भेनैवाभिषेकः सरस इति चेत्, स्थूल- मनीषोऽसि । किमेकं शिष्यमुद्दिश्यैव दीक्षाप्रारम्भः क्रियते? बहूनुद्दिश्य क्रियमाणे दीक्षाक्रमे कांश्चित् समये नियोजयति, समयिनः पुत्रकपदे नियोजयति, पुत्रकान् साधक- पदे नियोजयति, साधकानाचार्यपदेऽभिषेचयतीति सूक्ष्मदृष्ट्या द्रष्टव्यम् । नृसिंह- दीक्षाप्रकरणे— ततः शुचीन् सोपवासान् शोधितान् बद्धलोचनान् ॥ भक्तान् प्रवेशयेत् तत्र गृहीतकुसुमांस्तु वै । (१७।११५-११६) इति बहूनां युगपद्दीक्षाक्रममुक्तं किं न श्रुतवानसि । अन्यथा—‘‘तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम्'' (२०।३) इत्युक्तः कालः संभवेत् । एकमेवो-

४९४ सात्वतसंहिता द्दिदृश्य क्रियमाणदीक्षाक्रमेऽपि भगवदनुग्रहवशात् सद्यस्तन्मन्त्रसिद्धिलिङ्गदर्शनादौ तत्काल एवाभिषेकोऽपि संभवत्येव । प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ॥ अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः । देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ॥ तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा । तीव्रमन्दधियां तेषां तदा दीक्षां समाचरेत् ॥ (१७।११६-११८) इति समयिपुत्रकाणां भक्त्यतिशये तीव्रबुद्धित्वे च तदानीमेव दीक्षाचरणं सुस्पष्टं प्रतिपादितं हि । ननु पुत्रकाणां दीक्षाचरणकथनं तत्र किं साधकमिति चेत्, जरकुड्य- दुःशङ्कापरिहरणं चतुर्मुखस्याप्यशक्यम् । कृत्वा. निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् । तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाहिताञ्जलिः ॥ (२२।३१) इति वक्ष्यमाणलक्षणानुसारेण पुष्पाञ्जलिप्रक्षेपाद्यनन्तरं हि पुत्रकत्वं सिद्ध्यति । तदा पुत्रकपदारूढस्यापि तदानीमेव दीक्षाचरणकथनं तत्र साधकं (कथं) न भवेत्, "सिद्धये द्रुतहेमाभम्" (२०।१९) इत्युक्तत्वात् । "ध्यात्वा तं स्फटिकामलम्" (२०।९२) इत्यत्र मुक्तय इति ज्ञेयम् । "स्वाहान्तं भोगसिद्धयर्थं नमोऽन्तं मोक्ष- सिद्धये" (१९।८५) इति पूर्वमेवोक्तं हि । यथार्हदण्डसहितं तत्तद्वर्णाश्रमविहितदण्ड- मित्यर्थः । एतेन "काषाये क्षौमवाससी" (२०।१७) इत्यपि व्याख्याते ॥ ४-१८॥ साधक को भगवत्तत्त्व वेत्ताओं के एवं पञ्चकाल भगवान् में निरतात्मा लोगों के तथा संहिता का मर्म जानने वालों के सन्निधान में यह अभिषेक क्रिया करनी चाहिये ॥ ४ ॥ इसी प्रकार अपने लक्ष्य का ध्यान करने वाले यतियों तथा साधकों के सन्निधान में भी यह अभिषेक क्रिया की जानी चाहिये । देवाधिदेव के सामने चौकोर मण्डप का निर्माण करना चाहिये । उस मण्डप को अभिषेक के लिये उपयुक्त समस्त उपकरणों से युक्त करना चाहिये । उसके मध्य में भद्रासन का निर्माण करे । उसमें अनन्तादि धर्मादि के लिये आसनादि निर्माण करे ॥ ५-६ ॥ पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् । बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ॥ ७ ॥ कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः । शङ्खाद्यैर्ध्मायमानं तु पाठ्यमानं तु मङ्गलैः ॥ ८ ॥ जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् । अष्टाङ्गेणार्चयित्वा तु कुम्भमादाय वैष्णवम् ॥ ९ ॥

विंशः परिच्छेदः ४९५ स तत्रस्थेन मन्त्रेण सम्यक् सिद्धिव्यपेक्षया । सहस्रावर्तितं कृत्वा शतावर्तितमेव वा ॥ १० ॥ तदनन्तर देवाधिदेव के सामने अर्घ्य पुष्पादि से पद्मासन पर बैठे हुए शिष्य की पूजा कर हाथ जोड़े हुए शिष्य को उस मण्डप में आरोपित करे । उस समय सौभाग्यवती सुन्दर स्त्रियाँ गान करें, बन्दी लोग स्तुति करें, अन्य लोग शङ्ख बजावें, मङ्गल पाठ करें, कोई पर-मन्त्र का जप करे और कोई अच्युत का ध्यान करे । तदनन्तर वैष्णव कुम्भ के द्वारा अष्टाङ्ग से उसकी अर्चना करनी चाहिये । तदनन्तर वह आचार्य शिष्य सिद्धि की अपेक्षा रखते हुए तत्रस्थ मन्त्र का एक सहस्र संख्या में अथवा शत संख्या में जप करे ॥ ७-१० ॥ सिद्धये द्रुतहेमाभं स्मृत्वा तमभिषिच्य च । स्वाहान्तमन्त्रमुच्चार्य प्लुतं हृत्कमलोदरात् ॥ ११ ॥ एवमुक्त्वा नमोऽन्तं तु ध्यात्वा तं स्फटिकामलम् । समुत्कीर्य खरन्ध्रेण तस्य हृत्पद्मगं स्मरेत् ॥ १२ ॥ सिद्धि के लिये तपाये हुए काञ्चन वर्ण के समान मन्त्र का स्मरण करना चाहिए । तदनन्तर साधक हृत्कमलोदर से निकले हुए स्वाहान्त मन्त्र का उच्चारण कर अभिषेक करे । फिर स्फटिक के समान अमल मोक्ष का नमोऽन्त उच्चारण कर, उसे आकाश मण्डल से, शिष्य के हृदय रूपी पद्म में स्थापित कर, स्मरण करे ॥ ११-१२ ॥ चिच्छक्तिविग्रहं ब्रह्म त्वात्मानन्दलक्षणम् । समारोप्य धिया सम्यक् स्वाधिकारं तु चाखिलम् ॥ १३ ॥ प्रतिपाद्यार्चितं शुद्धं दिव्यमागमसञ्चयम् । शुभमाराधनाधारमक्षसूत्रं च किङ्किणीम् ॥ १४ ॥ स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रे कमण्डलुम् । चमसं सार्घ्यपात्रं च दर्भान् कृष्णाजिनं ततम् ॥ १५ ॥ पादुके पादपीठं च च्छत्रमासनदर्पणम् । मायूरं व्यजनं शुक्लं चामरं भगवद्ध्वजम् ॥ १६ ॥ यथार्हदण्डसहितं काषाये क्षौमवाससी । समुत्थाप्यासनात् सर्वमाहृत्य स्नानजं जलम् ॥ १७ ॥ विनिक्षिप्य शुचौ स्थाने देवमभ्यर्च्य वै ततः । तादर्थ्येन तु सन्तर्प्य पूर्णान्तं चाग्निमध्यगम् ॥ १८ ॥

४९६ सात्वतसंहिता अपनी बुद्धि से आह्लाद, आनन्द लक्षण वाले, चित् शक्ति विग्रह से युक्त परब्रह्म को उसके हृदय में स्थापित करे । अपना समस्त अधिकार प्रदान करे । अपने में सञ्चित शुभ, शुद्ध, दिव्यागम तथा आराधना का आधारभूत अक्षसूत्र, किङ्किणी, स्रुक् स्रुवा, योगपट्ट, शङ्ख, चक्र, कमण्डल, अर्घ्यपात्र सहित चमस, कुश समूह, विस्तृत कृष्णाजिन, दो पादुका, पादपीठ, छत्र, आसन, दर्पण, मयूर पिच्छ का व्यजन, शुक्लवर्ण का चामर, भगवद् ध्वज, आश्रमानुसार दण्ड, दो काषायवर्ण के दो क्षौमवस्त्रादि एकत्र कर अपने आसन से उठकर शिष्य को प्रदान करे । फिर स्नानार्थ जल स्थापित करे । तदनन्तर शुचि स्थान में देवाधिदेव की पूजा करे । उन देवाधिदेव की तृप्ति के लिये तर्पण करे तथा अग्नि के मध्य में पूर्णाहुति करे ॥ १३-१८ ॥ क्षान्त्वा पूर्वोक्तविधिना सकुण्डान्मण्डलान्तरात् । अर्घ्यपात्रसमूहाच्च बलिदानं समाचरेत् ॥ १९ ॥ सोदकेन च भूतानामोदनेनास्त्रमुच्चरन् । बलिमण्डलकं कृत्वा यागागाराच्च बाह्यतः ॥ २० ॥ अथ कुण्डान्मण्डलादर्घ्यादिपात्रसमूहाच्च मन्त्रोपसंहारं बलिदानक्रमं चाह— क्षान्त्वेति चतुर्भिः । भूतानां = कुमुदादीनामित्यर्थः । बलिमण्डलकं = बलिदानार्थं गोमयोपलिप्तं स्थानमित्यर्थः ॥ १९-२० ॥ फिर कुण्ड से, मण्डल से, अर्घ्यपात्र समूह से मन्त्रोपसंहार कर साधक को इस प्रकार बलिदान करना चाहिए । यज्ञगृह से बाहर अस्त्र मन्त्र का उच्चारण करते हुए उदक सहित ओदन से भूतों के लिये बलिमण्डल (गोमयोपलिप्त स्थान) का निर्माण करे ॥ १९-२० ॥ कृत्वान्तर्बलिदानं तु प्रदाक्षिण्येन वै पुरा । अथ ऊर्ध्वं इदं चोक्त्वा शेषं तन्मण्डले बहिः ॥ २१ ॥ नमोऽस्त्वच्युतभूतेभ्यः सर्वेभ्यः सर्वदैव हि । सदिक्पतिभ्यः सास्त्रेभ्यः शान्तिर्नोऽस्त्वस्य वै शिशोः ॥ २२ ॥ अथ विष्वक्सेनार्चनं तत्सन्तर्पणं तद्विसर्जनं तन्निवेदितपरित्यागं चाह— पूजाद्यमिति सार्धद्वाभ्याम् ॥ २१-२५ ॥ तदनन्तर उस मण्डल के भीतर बलिदान करे एवं प्रदक्षिणा करे । इसके बाद मण्डल के बाहर ‘नमोऽस्त्वच्युत...’ आदि श्लोक से बलि प्रदान करे । बलिमन्त्र का अर्थ—सभी दिक्पतियों के साथ अस्त्र धारण किये हुए अच्युतभूतों को सर्वदा हमारा नमस्कार हो, हमारी शान्ति हो तथा हमारे इस शिष्य को शान्ति प्राप्त हो ॥ २१-२२ ॥

विंशः परिच्छेदः ४९७ विष्वक्सेनार्चन विधानम् पूजाद्यमुपसंहृत्य दत्तशिष्टेन पूर्ववत्। वृत्तमण्डलमध्ये तु सितपद्मोदरे ततः ॥ २३ ॥ दत्तशिष्टैर्यजेद् देवं सर्वदेवगुरुं प्रभुम्। तर्पयित्वाऽग्निमध्ये तु कुर्यात् तस्य विसर्जनम् ॥ २४ ॥ तदीयमथ निक्षिप्य क्ष्मावटे वा जलान्तरे। इसके बाद विष्वक्सेन की अर्चना करे और उनका सन्तर्पण, विसर्जन तथा तन्निवेदित अन्न का परित्याग इस प्रकार करे—सामग्री द्वारा वृत्तमण्डल के मध्य में श्वेत कमल पर पूजावशिष्ट सामग्री द्वारा प्रभु सर्वदेव गुरु विष्वक्सेन का पूजन करे । अग्नि के मध्य में सन्तर्पण करे । उनका विसर्जन करे । उनकी पूजा की समस्त सामग्री पृथ्वी में गड्ढा खोद कर डाल देवे अथवा जल में प्रक्षिप्त करे ॥ २३-२५ ॥ सुधापानप्रदानप्रकारकथनम् यागावनौ च तच्चक्रं द्वादशारं विचिन्त्य च ॥ २५ ॥ न्यस्यात्मन्यर्घ्यपुष्पाद्यैः समभ्यर्च्य तदन्तरे। करकं वारिसम्पूर्णमादाय विनिवेश्य च ॥ २६ ॥ सुधापानप्रदानप्रकारमाह—यागावनौ च तच्चक्रमित्यारभ्य कृत्वा फलसमन्वित- मित्यन्तम् ॥ २५-३३ ॥ फिर यज्ञ भूमि में द्वादशार चक्र का निर्माण करे । अपने देह में अङ्गन्यास करे । अर्घ्यपुष्पादि से उस चक्र की पूजा करे और वारिपूर्ण करके कमण्डल वहाँ स्थापित करे ॥ २५-२६ ॥ तत्रेष्ट्वा वीर्यमन्त्रेण मध्ये मन्त्रास्त्रमुत्तमम्। मध्वम्बुपयसा पूर्णमपरं शुभलक्षणम् ॥ २७ ॥ तदग्रतोऽर्घ्यकलशं तन्मध्येऽस्त्रं च चक्रगम्। तमभ्यर्च्य यथान्यायं कृत्वाऽष्टशतमन्त्रितम् ॥ २८ ॥ वषट्पदनिरुद्धेन मूलमन्त्रेण तं पुनः। दद्यात् तदन्तः शार्णेन प्राग्वत् पीयूषधारिणा ॥ २९ ॥ वहाँ वीर्यमन्त्र से पूजा करे । तदनन्तर मन्त्रास्त्र से युक्त दो कलश स्थापित करे । प्रथम कलश में मधु, जल और दूध स्थापित करे । दूसरा कलश शुभ लक्षणों युक्त कर स्थापित करे । उसके आगे अर्घ्य कलश जिसमें चक्र स्थित है, उसमें अस्त्र मन्त्र स्थापित करे । फिर उसे १०८ बार मन्त्र से अभिमन्त्रित कर

४९८ सात्वतसंहिता विधिवत् पूजा करे । तदनन्तर मूल मन्त्र में वषट् लगा कर उसके भीतर पीयूष की धारा देवे ॥ २७-२९ ॥ निर्निद्रीकरणं कुर्यात् सर्वेषां मन्त्रवारिणा । तदम्बुधारादानेन ध्यानोच्चारयुतेन च ॥ ३० ॥ संविभज्याथ वैतेषां मन्त्रपानं सुधामयम् । सुधाद्यस्त्रवरं पश्चात् समन्त्रं चक्रगं न्यसेत् ॥ ३१ ॥ फिर मन्त्र से जल छिड़क कर वहाँ के समस्त लोगों को विनिद्रित करे, फिर ध्यान एवं मन्त्र का उच्चारण करते हुए उसके चारों ओर जलधारा देवे । तदनन्तर सभी को वह सुधामय मन्त्रपान करावे । पश्चात् चक्र में रहने वाले समन्त्र सुधादि अस्त्र वर का न्यास करे ॥ ३०-३१ ॥ आदाय तं तोयकुम्भमस्त्रमन्त्रमुदीरयन् । भ्रामयेत् पूर्ववद्धारामथ मध्ये निधाय तम् ॥ ३२ ॥ सम्पूर्णमुदकेनैव कृत्वा फलसमन्वितम् । इसके बाद अस्त्र मन्त्र पढ़ते हुए उस जल कलश को लेकर चक्र के चारों ओर उसके जल से धारा देवे । फिर उसे मध्य में स्थापित कर फल समन्वित उदक धारा देकर उसे सम्पूर्ण करे ॥ ३२-३३॑ ॥ गुरुयागकथनम् गुरुयागमतः कुर्याच्छिष्यः प्रयतमानसः ॥ ३३ ॥ भगवद्यागवद् भक्त्या कर्मणा मनसा गिरा । यागोपयुक्तं सम्भारं तस्मै सर्वं निवेद्य च ॥ ३४ ॥ सशिरः पाणियुग्मं तु कृत्वा वै च तदङ्घ्रिगम् । क्षान्तव्यः सुप्रयत्नेन श्रद्धापूतेन चेतसा ॥ ३५ ॥ गुरुपूजनमाह—गुरुयागमिति सार्धद्वाभ्याम् । गुर्वर्चनमन्त्रस्तु लक्ष्मीतन्त्रोक्तो ग्राह्यः— अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये । दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः ॥ (४१।६४) इति । अस्मिन्नवसरे पादतीर्थपरिग्रहश्चोक्तो जयाख्ये— प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजे ॥ तेनात्मानं तु संसिच्य पिबेदञ्जलिना ततः । (१८।८४-८५) इति ॥ ३३-३५ ॥