भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

६८ .शिवदृष्टिः [ आ०-३ किमर्थं गुरुशास्त्रादि चेत्थं१ तदवस्थितेः२ । देवस्य३ शास्त्राद्बोधेत किं प्रयोजनमेव च ॥ ७३ ॥ किमर्थं४ भवतारब्धं शास्त्रं बोधाय कस्य वा । तथा भेदरूपतया शिवस्यैवावस्थितेर्हेतोर्मोक्षाभावात् किमर्थं गुरुशास्त्रानुष्ठानादिकम्५ । नहि देवस्य नित्यप्रबुद्धस्य शास्त्रेणोद्बोधनं सप्रयोजनम् । आस्तामन्यानि शास्त्राणि, त्वमेव शिवैक्यवादी वा किमर्थं शास्त्रमारब्धवान् कस्य बोधाय ॥ ७३ ॥ स एवेत्थं स्वेच्छयास्ते तत्कर्तृत्वेन बोध्यतः ॥ ७४ ॥ स एव बुद्धरूपत्वे तथा भवति तत्क्षणम् । स एव संप्रजायेत तदनुष्ठानतत्परः ॥ ७५ ॥ फलं वा तदनुष्ठाने स एव हि तदा भवेत् । देव एवानेन प्रकारेण स्वेच्छया निष्प्रयोजनमास्ते । तदेव दर्शयति— तदस्मदादिशास्त्रकर्तृत्वेन तथा बोध्यतो बोध्यं शिष्यरूपमासाद्यास्ते । तथा तस्मिन्नेव काले प्रबुद्धरूपत्वे वा स्थितो भवति । तथा शास्त्रा- नुष्ठानपरः संपद्यते । तथार्थकामादिफलरूपत्वेनापि स एव स्वकाले भवति ॥ ७५ ॥ वादित्वप्रतिवादित्वे कस्माच्चेतस्य तत्स्थितेः ॥ ७६ ॥ व्यवहाराय वा सर्वं व्यवहारो न वस्तुगः । स्वरूपं वस्तुगं विद्धि व्यवहारो न जातुचित् ॥ ७७ ॥ तदीश्वरो व्यवस्थानाद्वस्त्वभासरूपतः । ३ तथेति भेदरूपतयापि तस्य शिवभट्टारकस्य । ४ दीव्यति क्रीड- तीति देवः, हर्षानुसारी स्पन्दः क्रीडा । तथा सदा द्योतमानोऽपि देवः । ५ अपूर्वबोधनार्थं हि शास्त्रप्रवृत्तिः, तथा च सप्रयोजनता । ६ अन्येषां हि द्वैतकथनाज्ज्ञानार्थमस्तु तत्र प्रवृत्तिः, भवतां तु तदभावान्न युक्तेत्याह किमर्थमिति । ७ न च भवतां तत्प्रकटीकरणार्थमपि तत्र प्रवृत्तिः, तथा च स्वतन्त्रस्य देवस्य स्वातन्त्र्य हानिः स्यात् ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६६ तवैक्ये दर्शनभेदाभावात् वादित्वं प्रतिवादित्वं च कुतः, यदुक्तं ‘विवादिहननाय’ इति, तदेतदपि तस्यैव तथा स्थितेः । लोकव्यवहाराय वा सर्वं शास्त्रवादिप्रतिवाद्यादि । लोकव्यवहारश्च तद्भेदाख्यातिमयो न वस्तुगतः । यत्पुनः स्वरूपेण प्रकाशते तच्छिवरूपवस्तुवात्मकमेव, व्यवहारस्तु न कदाचित् वास्तवोऽपि तु भ्रम एव, अवस्त्वपि ईश्वरात्मैवा- वस्त्वभासरूपेण तस्यावस्थानात् । अत एव ईश्वरप्रत्यभिज्ञोक्तनीत्या तदवस्त्वपि प्रकाशमानं चिद्रूपमेव, केवलं बाह्ये१ प्रकाशनाभावादवस्तु उच्यते ॥ ७७ ॥ तदाह— सर्वमेकेन रूपेण यद्विचायं तथाग्रतः ॥ ७८ ॥ सर्वं वस्तु अवस्तु च शिवरूपं यतस्तथाग्रे विचारणीयमेव ॥ ७८ ॥ धर्माधर्मैश्च२ संबन्धस्तथा तच्छिवसंस्थितेः । तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः३ ॥ ७९ ॥ तयोः फलेन न्यूनतया४ वा विपरीतेन फलेनाफलेन योगः । अथवा फलेनायोगोऽथवापि अधर्मस्याफलेनानिष्टेन फलेन योगः, तेन हेतुना युक्तता न्याय्या शिवस्य तथा स्थितेर्हेतोः, सर्वथा यद्यत्प्रतिभासते तच्चिद्रूपशिवात्मकमेव ॥ ७६ ॥ निमित्तसमवायादिवैचित्र्यात्तद्विचित्रता । कारणस्यैकरूपत्वे न दोषस्त्रितयात्मता ॥ ८० ॥ न राजाज्ञा समादिष्टा स्वयं वा स निमित्तकम् । समवायि तदिच्छैव तद्योगः सहकारणम् ॥ ८१ ॥ तस्यैव वा त्रिरूपत्वं व्यपदेशात्तथाविधम् । १ बाह्य इत्यनेन बाह्य एव तस्य भ्रमतवमवस्तुत्वं वास्तु स्वरूपे न भ्रमतवं नाप्यवस्तुत्वमित्यर्थः । २ यच्चोक्तं— ‘धर्माधर्मौ न संबद्वौ शिवस्य न तयोः कृतिः । ततश्च शिवमद्वैतं बाध्येताकृतार्थता ॥’ इति, तच्च परिहरति धर्मैत्यादिना । अत्रापि पूर्वोक्तं सर्वं व्यवहारादिक- मनुसर्तव्यम् । ४ ‘अभावे स्वल्पभावे’ इति नञर्थमाश्रित्य विवृणोति न्यूनतया वा विपरीतेति ।

शिवस्यैवैकस्य कारणत्वे निमित्तसमवाय्यसमवायित्ववैचित्र्येण तस्य विचित्रता त्रितयात्मताख्या न दोष उक्तन्यायेन, यतो राजाज्ञा न समा तुल्योपदिष्टा, अपि तु राजाज्ञारूपसाम्येऽप्यन्यथा भेदः। तद्वत् तन्तुरूपेण संयोगरूपेण च स निमित्तमप्यास्ते। अथ वा स्वयं स ताव- न्निमित्तकारणं, तदिच्छा समवायिकारणं, घटादिवस्तुनः सत्तेच्छान्वयात् स एव चावयवसंयोगः सहकार्यसमवायिकारणमित्यर्थः। अथवा तस्यै- कत्वेऽपि त्रित्वं यथोक्तप्रकारं व्यपदेशात् व्यवहारात् सर्वभेदव्यवहारस्या- भेदाख्यातिरूपत्वम् ।। ८१ ।। न¹ पृथिव्यादिके तस्मिन्² कल्पना संप्रवर्तते ।। ८२ । तथात्वेनैव³ क्लृप्तत्वात्तदेतत्कल्पना⁴ भवेत् । तदेव⁵ तत्कल्पितं किं सत्ये नामास्तु⁶ कल्पना ।। ८३ ।। न च पृथिव्यादिरूपतया प्रतीयमाने भावजाते शिवरूपिता कल्पिता भवति⁷, वस्तुस्थित्यैव⁸ पृथिव्यादिरूपेण९ वा शिवतत्त्वस्यैव क्लृप्तत्वात्१०। अतद्रूपं¹¹ तद्रूपं यदावसीयते यथा मनोराज्यादि, तदा १ यदुक्तं 'पृथिव्यादिकल्पनया कल्पनावान्' इति । यदि मायापरमाण्वादिकारणभावेन तत्तत्कर्तृत्वमस्याभ्युपेयते, तदा भिन्नवस्तुसद्भावात्केन विकल्पतास्य भण्यते। यदि तु तदभावेन कल्पना तर्हि भिन्नवस्तुशून्यत्वेन विकल्प एव, तच्च शून्यप्रायं तदात्मकत्वे शिवतत्त्वमपि शून्यप्रायमेव संबोभवीतीति पूर्वाशयः, तदेतत्समर्थयति नेत्यादिना। २ तस्मिन् शिवतत्त्वे । ३ तस्यैव तत्तद्वैचित्र्येणापि व्यवहारे स्थितत्वात् । ४ अप्रतीयमाने प्रतीयमानत्वम् । ५ शिवतत्त्वनेव पृथिव्यादि कल्पितम् । ६ नामेति परतोषार्थमनुमतिः । ७ यतः-- 'स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥' इति प्रत्यभिज्ञोक्तनीत्या यतस्तत्तद्विभिन्नाभासभावराश्यभावेऽपि सर्वमस्त्येव ततश्च कस्यातद्रूपस्य तद्रूपाभासनं नाम नवमाभासनं कल्पना कल्पितं भवेदिति भावः। ८ परमार्थनयेन । ९ व्यवहारदृशा । १० स्वयं संपन्नत्वात् । ११ पूर्वमनतद्रूपमधुना तद्रूपम् । ननु क्वान्यत्र कल्पितत्वं नामेत्यत आहात- द्रूपमिति, मनोराज्यादावपि संविद एव तत्तदाभासाभासनसामर्थ्यमिति,

अ. ०–३ ] उत्पलदेवकृतवृत्त्योपेता १०१ तत्कल्पना कल्प्यमानं भवेत् । यावता १ साक्षाच्छिव एव सर्वमिति वस्तु- स्थित्या पृथिव्यादि शिव एव, शिवत्वेन किं२ कल्पितं भवति न भवत्ये- वेत्यर्थः । अथ सत्यतस्तस्मिन्नेव३ कल्पनेति कथ्यते तद्वस्तु, अतस्तत्र कल्पनेति नामकृतिः४ ॥ ८३ ॥ तदेवोदाहरति— कटकेऽस्ति५ सुवर्णत्वं कुण्डले कल्पनास्ति किम् । चित्रवह्नावशोकादौ कल्पना राजते क्वचित् ॥ ८४ ॥ क्लृप्तकल्पनयोर्भेदं ये न जानन्ति नौमि तान् । कटके किं सुवर्णत्वं सत्यं कुण्डले तु कल्पितं, नैवेत्यर्थः । चित्रगते वह्नौ, अशोकपुष्पादौ रक्ते वह्निकल्पना शोभते क्वचिदवसरे७ पृथिव्यादि- रूपेण६ शिवः क्लृप्तः संपन्नः स्वयं स्थित इत्यर्थः । कल्पितं पुनः स्वयं स तथा केवलमिष्यते तेन रूपेणेति क्लृप्तस्य स्वयंकॢप्तेस्तथा संपत्तेः, कल्पनायाश्च स्वयमतथाभूतस्य तथा संभावनामात्ररूपाया ये शब्दार्थत्वे न भेदरूढास्ते वन्द्या इत्युपहासः ॥ ८४ ॥ शिवतत्त्वे८ सानुभवे पश्यन्त्या९ न समानता ॥ ८५ ॥ तत्रापि यदि कल्पितत्वं नास्ति तथाप्येतादृङ्नये तत्र कल्पितत्वं वादि- वादसमर्थनार्थमुपगतम् । १ एकान्तनिश्चयेन । २ यदि हि पृथिव्यादि पूर्वं न समभविष्यत्तदतद्रूपत्वात्तद्रूपावभासे मनोराज्यादिवद्वस्तुशून्यतया कल्पित- मेवाभविष्यत्, न तु पूर्वं नास्तीति संभावनाप्यस्तीति पूर्वमपि तद्रूपत्वाद- धुनापि तद्रूपत्वं कल्पितं न भवेदित्यर्थः । ३ तस्मिन्नेव शिवतत्त्वे । ४ परमार्थतो नात्र भेद इत्यर्थः । ५ कटक इव सुवर्णत्वं तदन्तः स्थितं विश्वं, कुण्डल इव पृथ्व्यादिरूपतया स्थितम् । ६ अयं भावः,—असत्ये सत्यसंभावना क्वचिदवसरे शोभते, किं पुनर्वक्तव्यं तद्रूप एव सत्ये संभावनेति । ७ ननु किं यथाऽशोकादावसत्ये सत्यवह्निसंभावना, तथात्रापि यदि, सिद्धमस्मदिष्टमित्यत आह पृथिव्यादीति । ८ ननु चास्तु पृथिव्यादिकल्पनायामपि तस्याविकल्पता तद्रूपतावभासनाभावात्, पूर्वमपि तस्य तद्रूपत्वेनैव स्थितत्वात् । अथेदानों तदेव पूर्वभावि शिवतत्त्वं समर्थ- नीयं येनाधरमपि तस्य सिद्ध्यति तत्र चाहंपरामर्शो नाम वाग्रूपत्वाद्वि- कल्प एवेति कथं तत्राविकल्पत्वमित्याशङ्क्याह शिवतत्त्व इति । तथा यत्पुनः पूर्वपक्षे प्रत्यवस्थितं 'शिवतत्त्वे सानुभवे पश्यन्ती तुल्यता तदा ।' इति, तदपि समर्थयति शिवतत्त्व इत्यादिना । ९ अत्र पश्यन्त्येति कारणे कार्योपचार इति दृष्टा पश्यन्तीदूषणेरित्यर्थः ।

१०२ शिवदृष्टिः [ आ०-३ यतो गान्धिकसौगन्ध्यवत्पश्यन्नविकल्पकः । शिवतत्त्वे¹ चिदात्मनि विश्वनिर्भरे विश्वानुभवरूपे पश्यन्त्या पूर्वोक्तदूषणया² न समानता । यतो यथा गा³न्धिकोऽनन्तगन्धद्रव्यसौगन्ध्य- मियत्तया अनवधारयन्नक्रमेण सर्वमवधारयन्नास्ते, तथा विश्वान् भावान् देशकालक्रमशून्यान्⁴ वाच्यवाचकात्मनः पश्यन्नविकल्पः शिवो भवति, अहमित्येव⁵ पूर्णाहंभावेनैषां प्रकाशनात् । अहंपरामर्शवानप्यविकल्पको १ 'यान्युक्तानि पुराप्यभूनि विविधैर्भेदैर्भवैश्चान्वितं रूपं भाति परप्रकाशिनिविडं देवः स एकः शिवः ।' इति नीत्या यदनुस्यूतं महासामान्यनीत्या तच्छिवतत्त्वम् । उक्तं च भाषासूत्रेषु, 'यद्विश्वं तत्तस्याभ्यन्तरता' इति । २ पूर्वोक्तदूषणयेति । किमसावनुभवति ? किमात्मानमुत परात्मानं ? किमनुभूतमुताननुभूतं ? किं क्रमिकमुताक्रमिकमित्यादि ? । ३ अत्र गान्धिक इति दृष्टान्तकथनं तत्तदनन्तवस्तुगन्धस्याक्रमावबोधनार्थं तेन च विकल्पताहानिः फलं तस्य वस्तुद्वयसापेक्षत्वात् । ४ देशकालक्रमशून्यानिति, भेदस्याभाससदसत्त्वरूपत्वात् क्रमस्य च भेदाश्रयत्वात् तच्चाभाससदसत्त्वं प्रभोः प्राभवी शक्तिः, तदना- भासे कथमत्र देशकालयॊग इत्यर्थः । क्रमस्वरूपपर्यालोचनया तदवभासकारी महेश्वर एव कालशक्तिमुपकल्पत इत्यर्थः । उक्तं चेश्वरप्रत्यभिज्ञायां— 'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥' तथा— 'सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः । घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥' इति । ५ प्रकाशस्य ह्यात्मन्यहमिति परामर्शः परावाग्रूपत्वात्स्वभाव- भूतोऽतश्च न विकल्पः । स हि प्रतियोगिनिषेधपूर्वो, न चात्र प्रतियोगी नाम कश्चिदस्ति । तथाहि प्रकाशाद्धि प्रतियोग्यन्योऽप्रकाशसंज्ञः स स्वयम- सिद्धः कस्य प्रतियोगित्वम् । अनाभासने प्रकाशेतरत्वाभावात् । अवभासे तु तथापि कः प्रतियोगी नाम, तथा च तस्यानवभासने व्यपोहनीया- भावात्कथं विकल्पत्वम् । तदुक्तमीश्वरप्रत्यभिज्ञायाम्--

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०३ यथा, तथा ईश्वरप्रत्यभिज्ञातोऽवधार्यम्। गान्धिकस्यान्यस्य¹ च तुल्ये गन्धानामित्यत्यानुभवे गान्धिकस्य गन्धामोदवत्तया अन्यस्यैव तु तच्छून्य- स्यैव। अनेन विश्वनिर्भरता समर्थिता, तावन्मात्रेऽयं² दृष्टान्तः ॥ ८५ ॥ सत्यानि³ स्वात्मरूपाणि पश्यतो न समानता ॥ ८६ ॥ पश्यन्त्याथो⁴ शिभावस्था क्रियाफलसमाप्तिः । क्रियाया वाथ प्रारम्भे कल्पनीया प्रशान्तता ॥ ८७ ॥ अस्तु सापि न भेदाय यथा तत्प्रविनिश्चितम् । सादाख्येश्वरदशयोरपि न पश्यन्त्या समानता, सर्वमहमित्येव- मात्माविभेदेनात्मविश्रान्तानि सत्यान्येव वस्तूनि तथा पश्यति प्रमाता। पश्यन्त्यां तु सुषुप्तावस्थायामिव भिन्नान्येव संसारदशोचितानि बीज- भावेनास्ते, सुषुप्तोत्तीर्णेऽपि पश्यन्त्या अविद्यामयान्येव तद्दर्शने इति 'अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः । नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः । प्रकाशस्येव नान्यस्य भेदिनस्तवभासनम् ॥' इति । १ ननु सर्वेषामेवानन्तगन्धावभासोऽक्रममेवास्ति किमर्थं गान्धिक- स्येति व्यपदेश इत्यत आह गान्धिकस्येति, अन्येषां हि अनन्तावभासेऽपि क्रमेण ग्रहणमस्य सममेवेति भावः । गन्धामोदरहितस्य । २ तावन्मात्र इति, ‘स यदास्ते' इत्यादिना लक्षितलक्षणायामित्यर्थः । ननु चास्त्वेवमत्र हि न किंचन अस्माकं दूषणमदूषणं वा महासामान्यतयास्य भवद्भिरुपगतत्वात् । या पुनः सदाशिवेश्वरदशा, तत्र कथमन्वभवतीत्यत आह सत्यानीत्यादि । ३ परावस्थायां हि स्वभावभूतत्वात्सर्वस्य न तत्रानुभवाद्यसंभावना- संभावनादिशङ्कापीदन्ताभासाभावात् सदाशिवादाविदन्ताभासस्य भास- यिष्यमाणत्वात्कथं तत्रानुभव इति तत्र पश्यन्तीसाम्यमायातीत्याशङ्क्याह सत्यानीत्यादि । ४ ननु चास्तु पश्यन्त्यामहमित्यात्माभेदेन सत्यान्येव वस्तूनि, अहमित्यत्र 'ज्ञानक्रिये सादाख्यम्' इति नीत्या ज्ञानरूपत्वात्सदा- शिवस्य, क्रियारूपत्वाच्चेश्वरस्य तयोरेव विशेषत्वेऽनुभवतीति युज्यते, विशेषस्य तु सामान्यपूर्वभावित्वात्पूर्वावस्था निरनुभवा सिद्धयतीत्यत आहाथो इति ।

१०४ शिवदृष्टिः [ आ०-३ शेषः । अथ ज्ञानक्रियाप्रारम्भपर्यवसानयोः प्रशान्तता नाम शिवावस्था कल्पनीया, सा चेच्छादिशक्तिशून्यरूपा निरनुभवा जडरूपेत्युच्यते । तन्न, यतोऽस्तु सा दशा, न तु तदापि सर्वशक्तिविरहो येन शिवतत्त्वात् भेदाय सा स्यात्, किंतु सर्वावस्थासु सुसूक्ष्मतया इच्छादिशक्तियोग इति प्रथमाह्निक एव निश्चितम् ॥ ८७ ॥ न च वास्त्यन्तरालेऽत्र सा दशा याहि केवला ॥ ८८ ॥ प्राक्क्रियाफलनिष्पत्तेः समनन्तरमेव यत् । प्रसर्पत्यपरेच्छैव पुनरन्या तथाविधा ॥ ८९ ॥ न कदाचन तस्यास्ति कैवल्यं शक्तिशून्यकम् । नास्त्यपिवान्तराले द्वितीयक्रियाप्रारम्भात् प्राक् अत्र सा दशा, या शान्तता शक्तिशून्यता लक्षणा स्यात् । यत् यस्मात् क्रियाफलसंपत्तेः समनन्तरमेव प्रसरति अपरेच्छैव सुस्फुटपरसंवित्क्रियार्था, न तु तदा शून्यता । पुनरपि तत्क्रियाफलसमवाप्तौ तदनन्तरमेवान्या तथाविधेच्छैव प्रवर्तते । किं बहुना, उभयथा न कदाचन चिद्रूपस्यान्तराललक्षणं कैवल्यं शक्तिशून्यकं नाम रूपमस्ति ॥ तथाहि— यत्रात्मानुभवनिष्ठा तत्रेच्छा च न किं भवेत् ॥ ९० ॥ अथानुभवनं नास्ति जडा सा न प्रसज्यते । यत्रात्मानुभवस्य अनिष्ठा विरत्यभावः, तत्रानुभवनक्रियार्थं किमि- च्छाक्रिया नास्ति, नहि अनुबुभूषां विनानुभवः स्यात् । अथात्मनोऽनुभवनं नास्ति न प्रकाशत इत्यर्थः, सावस्था जडा न प्रसज्यते, प्रसज्येतैव । काक्वा योजनीयम् । आत्मनो ह्यहमिति परामर्शोऽनुभवः, सैव चाजडता जड- वैलक्षण्यदायिनी ईश्वरप्रत्यभिज्ञोक्तनीत्या ॥ १ इत्थमत्र ज्ञानक्रियाप्रारम्भपर्यवसानयोः शान्ततायामपि सूक्ष्मतया तादृगनुभवशालिनामेवेच्छादिशक्तिसंभवः सन्नप्याभाति । अथेदानों सर्वेषा- मेव स्फुटं तथेच्छादिशक्तियोगस्तथा न्यायमप्याश्रित्य ब्रूते न चेति । तत्र नदीपूरभेदेन भूताया वृष्टेर्यथानुमानं, तथेहापि कार्येण कारणानुमानमित्याह प्रसर्पतीति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०५ उपलादेर्जडत्वेऽपि¹ शिवत्वं ते कथं स्थितम् ॥ ९१ ॥ यथा न तत्र जडता तथाग्रे प्रविचार्यते । अथ जडत्वेऽप्युपलादेः शिवत्वोपगमात् जडतासञ्जनम्² । कोऽयं दोषः, नत्वयं दोष एव³ । यथा नोपलादेर्जडता, तथाग्रे समीप एक प्रकर्षेण विचार्यते⁴-इत्ययमेकः पूर्वोक्तप्रकारो⁵ वितत्य कथितः ॥ सफलायां समाप्तायां क्रियायां समनन्तरम् ॥ ९२ ॥ क्रियान्तरेच्छासंभूतिस्तन्निमित्तमनन्तता । यतोऽस्ति शिवशक्तीनां ताश्च नित्यमवस्थिताः ॥ ९३ ॥ सरन्त्येव स्वभावेन तत्सरत्प्रकृतिः शिवः । अथवा स्थूलायां क्रियायां सफलायां समाप्तायां, तदनन्तरमेव सफले क्रियान्तरे इच्छासंभवो यावदपर्यवसानं, तत्र निमित्तभूता अनन्तता यतोऽस्ति, शिवशक्तीनाम्। शिवशक्तयश्च नित्यमवस्थिताः सरन्त्येव स्वभावतः। ताश्च शक्तयः प्रसरन्त्यो यतः, तत् सरन्ती प्रकृतिर्यस्य स तथाभूतः शिवः तथा- भूतलक्षणत्वात्तस्य । यथोक्तम्- 'अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः ।' ( स्प० ४।५ ) इति । इति द्वितीयः⁶ प्रकारो वितत्योक्तः ॥ अथवाह- ईश्वरस्य⁷ स्वतन्त्रस्य केनेच्छा वा विकल्प्यते ॥ ९४ ॥ १ ननु चाहमित्यविकल्पकं पश्यन्निति किमुच्यते, यतः सर्वमेवो- पलादिकं जडमेव, तत्र जडत्वादेवाप्रकाशता, अप्रकाशे तु कथमह- मित्यविकल्पमेव परामर्शः संभवति । न केवलमियदेव । तस्यापि शिवत्वे शिवोऽपि तथा जड एव प्रसज्येत । भेदे तूपलादिकं जडमस्तु चेतनं वास्तु, न काचन भवदभ्युपगतशिवत्वहानिरित्यत आहोपलादेरिति । अत्र शिवत्वं ते कथं स्थितमित्येव साध्यं, न तु जडे शिवत्वं कथमिति । तस्य तूपला- देर्भवतामपि जडत्वमेवोपगतमिति । २ शिवतत्त्वस्य । ३ एवकारेणा- श्रोषलादेरा जडतासंभावना निरस्ता, तेन शिवत्वे जडता दूरापास्तैव सिद्धा। ४ अर्थलभ्यत्वादत्र शिवत्वं पुनर्न समर्थितमिति बोध्यम् । ५ तावन्मात्र- स्थितावित्यर्थः । ६ परापराख्यशक्तिप्रसर इत्यर्थः । ७ यदुक्तं दूषणोद्युक्त- बुद्धिभिः परमार्थान्वेषणकुण्ठैः पूर्वपक्षिभिः विशिष्टेच्छावशादभीष्टेयज्जग-

१०६ शिवदृष्टिः [ आ०-३ विभवामोदबाहुल्यस्याथवोक्ता निमित्तता । केन वास्येच्छा१ विकल्प्यते स्यात् न स्याद्वेति । स्वातन्त्र्यं तावद- वश्यंभावि ईश्वरत्वादेव, तन्मयं विश्वं तथाविधमेव२, -इत्येतावत् ताव- त्स्थितम् । अथवा स्वातन्त्र्येऽपि विश्वात्मताप्रसरणरूपस्वविभवास्वादोऽपरि- समाप्तो यस्यास्ति स्वभावविशेषस्तस्य प्रागुक्तैव सर्वदा विश्वरूपताप्रसरणे निमित्ततेत्येवमभिनवेच्छोदये निमित्तं नास्तीति दूषणम्३ ।। विश्वतुच्छत्ववाक्यानां४ वैराग्याद्यर्थवादिनाम् ।। ९५ ।। तात्पर्य्येण न दोषोऽस्ति नानाचित्त्वं न कल्पते । विश्वमसत्यं बुद्बुदोपममिति शिवोक्तैरपि वाक्यैर्न विरोधः, यत एषां५ वैराग्यनिरात्मतादिप्रयोजनाभिधानवतामेकशिवात्मता समर्थनपरत्वेन न दोषोऽस्ति । न च सर्वशिवत्वे नानाचित्त्वप्रसङ्गः ।। ल्लक्षणकार्यसंपत्त्या हेतुभूतया इच्छाकारणविरतौ पुनः स्थितिप्रलयादौ पटादिविज्ञाने वा इच्छान्तरोद्गमे को हेतुः, यत्प्रेरितस्य शिवस्य पूर्व- स्वभावानिवृत्तावपूर्वस्वभावान्तरे चेच्छा नवनवा प्रवर्तेत इति, तदपि तेषामनादरपूर्वं समर्थयति ईश्वरस्येति । अयं भावः—यदि हि स्वतन्त्र- ईश्वरः परिमितेनैवेच्छादिना व्यवतिष्ठेत, तर्हि त्वस्य स्वातन्त्र्यमेव नश्येत् । स्वतन्त्रो हि सदापरिमितस्वरूपो नवनवोदयः । यदि च केवलमिच्छास्य पूर्वभाविन्येवास्थास्यत्, तर्ह्यस्य परिमितत्वेन शून्यतैवागतेत्यर्थः । १ अस्य- स्वतन्त्रस्य । २ कुत्र पुनः पूर्वस्वभावतादिनिवृत्तावपूर्वस्वभावान्तरोदयादि इत्यर्थः । ३ काक्वा न दूषणमित्यर्थः । ४ यत्पुनरुक्तं— 'विश्वस्यासत्यरूपत्वं यैर्वाक्यैर्वर्णितं क्वचित् । शिवोक्तैस्तैर्विरोधः स्यात्सर्वसत्यत्ववादिनः ॥' इति, तदपि समर्थयति विश्वेति । ५ शिवोक्तवाक्यानाम् । यतोऽसत्यत्वं सत्यमेवोक्तं, तच्चानवबोधाद्विधुरीकृतमलपुबुद्धिभिः, तच्चासत्यत्वं कश्चि- द्भागव्याप्त्या भागे रज्येतेति भागशो व्याप्तिरसत्येति वैराग्योत्पादनार्थं तत्रासत्यत्वम् । तथा येऽत्र स्वभाव एव वस्तुनो वस्तुतेति, तद्वादिनिरा- सार्थमेषां नैरात्म्यं दर्शितमित्यर्थः ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०७ तथाहि— एकस्मिन्नेव¹ देहे तु विभेदात्परमाणुगात्² ॥ ९६ ॥ एकत्वाच्छिद्वरूपस्य दोषोऽयं भेदवादिनाम् । एकस्मिन्नेव देहे यावन्तः परमाणवस्तावन्तः शिवा इत्येवं परमाणु- गादपि विभेदाद्विभेदः स्यादित्यानन्त्यप्रतिपादनमित्येषोऽपि न दोषः, ये बहवः परमाणवादिपदार्थास्त एकशिवरूपा इति कथं बहुत्वम् । न हि शिवो घटादिरूपः, अपि तु घटादिः शिवरूपः । ततश्चिद्रूपस्य देशकालस्वभाव- भेदाभावान्न भेदः । एतदीश्वरप्रत्यभिज्ञायां प्रदर्शितम् । यैः³ पुनरणुभेदवादो गृहीतस्तेषां चाणूनां स्वभावान्छिद्वता । सा च मलावृता । ततस्तेषामत्रोक्त- ज्ञानवशाद्यदि शिवत्वव्यक्तिस्ततो भिन्नाः शिवाः । ते च देहस्थास्तन्मयत्वे चाणूनां देहपरमाणव एव किमिति शिवाणवो न भवन्तीति भिन्नपरमाणुवादो न चित्तत्त्वस्य, ततस्तेषामेवायं दोषः ॥ १ अत्रैके—'यद्यत्किंचन प्रतिभाति, तत्तत्सर्वं शिवः' इति विलोमव्याप्तिं विदधते । तथाहि यद्यदिति अनेकं नानाविधं भिन्नं भिन्नमर्थजातं, तत्तत्सर्वं शिव एवेति यद्यपि शिवाद्धयमेव, तथापि तेषां बहुत्वानिङ्गत्वान्द्बहूनि भिन्नानि शिवान्यपि संभवन्तीति तत् दूषयति एकस्मिन्निति । २ विभेदात्परमाणुगादित्यत्र द्विधा गतिः । न्यायबाहुल्यं चान्यत्र । अत्र तावदेके ब्रुवन्ति—यथा प्रतीयतेऽयं बाह्यो निराकारेण साकारेण वा ज्ञानेन नैकानेकरूपतया सावयवः, तथा अयुक्तः एकत्वानेकत्वयोः परस्परपरिहारेणावस्थानादेकाश्रयत्वायोगात् । तस्मा- न्निरवयव एक एवावयवी बाह्यो देवदत्तप्रतीतिविषयः, अवयवास्तु पृथ- क्प्रतीत्या हस्तः पाद इति पृथग्भूताः प्रतीयन्ते, न त्वेकत्वानेकत्वयोरनेका- श्रयतेति अवयववादिन आहुः । ३ अत्राहुरपरे—तदेतदयुक्तं हस्ते चलति चलतो देवदत्तस्य, पादादिषु वा चलत्सु चलतश्चलत्वाचलत्वलक्षणविरुद्ध- धर्मयोगः स्यादेकस्य । न चैतद्युक्तं तावन्मात्रलक्षणत्वादनेकत्वस्य । प्रत्यवयवं च सर्वात्मना युगपत्समवेतेऽनेकत्वं स्यात् एकावयवापाये च नाशः स्यात् । अवयवान्तरावस्थानादनष्टस्यापि पर्यायेणैकावयवापायाविनाशिनः सर्वावयवापायेऽपि अविनाशः स्यात्, तस्मात्परमाणव एव निरवयवाः संचिता इति परमाणुसंचयवादिनः ।

१०८ शिवदृष्टिः [ आ०-३ एकाधिष्ठानतो वापि तेषामपि न दूषणम् ॥ ९७ ॥ आन्तरे कृमिचैतन्ये चित्रता स्वामिभृत्यवत् । तावदेकचित्स्वरूपशिवप्रसरणेन वा ॥ ९८ ॥ पातञ्जलादीश्वरेण¹ न साम्यमविभेदतः । इह तद्ब्रह्म विज्ञेयं तस्मात्सर्वं स्थितं शिवः ॥ ९९ ॥ अथवा तेषामणुभेदवादिनां नानाचित्त्वं न दूषणम्, यत एकचिद्रूप- शिवाधिष्ठिता नानात्मान एकस्यैव निजमायाप्रथनादिति यथा शिवाद्ध्वय- दर्शने । अस्माभिः सविस्तरमिदमपि ईश्वरप्रत्यभिज्ञायामेव समर्थितम् । अभेदाख्यातिश्च² तारतम्येन भिद्यते पुर्यष्टकभोगोद्रेकात् । चित्रता क्रिम्या- दिचैतन्ये स्वामिभृत्यरूपशक्ताशक्तचैतन्यद्वयात्मकत्वात् । अथवा³ तावत्परि- माणमनेकक्रिम्यादिपर्यन्तमेकचित्स्वरूपस्य शिवस्य यत्प्रसरणं, तेन । अत्र पक्षे पुर्यष्टकाधरोकारेण चितेरुद्रेकात् शिवाद्भिभेदस्तस्यैव तथारूपत्वात् । अत एव मायाशक्तिवशात् तथैकत्वाप्रथनादनेकत्वम्, वस्तुतस्त्वभेद इति । पातञ्जलेन पुरुषविशेषेणेश्वरेण, तथा वैशेषिकादिस्थितेन न साम्यं तत्र भेदाभ्युपगमात्, इह त्वभेदः । तद्वदीश्वरदर्शने न ज्ञेयम् । अतः सर्वमेव भावजातं शिवात्मकं स्थितं तथाभावे सर्वदूषण- परिहारादिति ॥ ६६ ॥ इति श्रीशिवदृष्टिवृत्तौ श्रीमदुत्पलदेवपादनिर्मितायां तृतीयमाह्निकम् ॥ १ ननु च यदि चितेरुद्रेकात्तत्तच्छक्तिमद्व्यपदेशस्तर्हि पातञ्जलमतं, तैर्हि ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति लक्षणं कृतमित्येतदपि शङ्कित्वा समर्थयति पातञ्जलादीति । २ ननु चास्तु सर्वथा शिवैक्यं, तथापि किंकृतोऽयं विचित्रताभेदः यतः कोऽपि बहुशक्तियुक्तः, कोऽपि न्यूनशक्तियुक्त इत्यत आहाभेदाख्यातिरिति । ३ ननु च यदि पुर्यष्टकभोगोद्रेकाच्चित्रता, तर्हि तदधीनत्वात्तस्यापि स्वातन्त्र्यं, कृतं परेश- स्वातन्त्र्येणेत्याशङ्क्य पक्षान्तरेण कथयति अथवाति ।

अथ चतुर्थमाह्निकम् परोद्भावनीयदूषणशङ्कानिराकरणे¹ कृते सर्वशिवत्वमिदानीं² स्वरूपेणोपपादयितुमाह³-- १ उद्भावनीयः प्रकटनीयः। २ सर्वं च तच्छिवत्वम्। ३ युक्त्या संपादयितुम्। यदुक्तं-- 'आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः। अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः॥' इति यद्यपि सर्वथा मुख्यतो निष्पाद्यं, तथापि परवादिकुतर्कपांसुपातधूसरो- भावेन मा तावत् कश्चिद्व्यामुह्येदिति परवादिकुतर्कपांसुरेव तावत् सुतर्क- सुगन्धशीतलामृतेन प्रहतः। तथाहि सर्वत्रैवात्र वादिनां विप्रतिपत्तिः। आदौ तावच्छान्तब्रह्मवादिनां सर्वभागेष्वत्र विरोधः। यदि ब्रह्मणः स्व- स्वभावभूतं स्वसत्तात्मकं स्वप्रकाशत्वं नाम प्रत्यवमर्शनं, तच्च तैर्विकल्प- पक्षे निक्षिप्तम्। विश्वप्रक्रियां प्रति मायाशक्तिप्रस्रवात्स्वातन्त्र्यमप्यपह्नुत- मेव। तथा च तस्य मायामयत्वेन कुत्सितत्वात् कथं तत्रात्मत्वमित्य- पीष्टमेव तेषां नेतिनेतिवाक्यैः सर्वस्य निराकरणात्। तस्य विश्वस्य कुत्सितत्वकथनात्कथमस्य तत्रानिरुद्धेच्छत्वं, ज्ञानकाले च बुद्धिवृत्त्यात्मनो ज्ञानस्याश्रयणात्कथं प्रसरज्ज्ञानत्वम्। क्रिया च प्राणस्पन्दात्मिकैवेति कथं तत्र स्यादिति। सर्वथापह्नव एव शून्यवादिनाम्। पातञ्जलवैशेषिकादिमते यद्यपि ईश्वरतत्त्वमुपगतं, तथापि भेदवादत्वादात्मैवेति कथं सिद्ध्येत्। सांख्यादौ पुरुषस्य निष्क्रियत्वे कथं क्रियाशक्त्युपगमः। बौद्धादीनां क्षणिकत्वात्कथं विभुत्वनित्यत्वे। शब्दब्रह्मवादे स्वातन्त्र्यापगमादविद्याश्रय- णात्कथमनिरुद्धेच्छत्वं सिद्धयतीति सर्वथा तद्वादभङ्गे शिवाद्द्वयवादे स्थिते यथा तत्सिद्धमेव प्रतीतिगोचरतामेति, तथा कथनीयमित्याह परोद्भाव- नीयेति।

११० शिवदृष्टिः [ आ०-४ अथेदानों¹ प्रवक्तव्यं यथा सर्वं शिवात्मकम् । नाशक्तो विद्यते कश्चिच्छक्तं वस्त्वेव तेऽपि नो ॥ १ ॥ इष्यन्ते बहवः शक्ता सर्वस्वातन्त्र्यमापतेत् । दूषणनिराकरणादनन्तरं विधिमुखेनैव² संप्रति तद्वक्तव्यमस्माभिः तथा सर्वं शिवात्मकं सिद्धयति तदुच्यते । अशक्तश्चार्थक्रियायां विद्यते च,- इत्येतावन्नास्ति प्रख्योपाख्याकरणेन³ तावद्व्यभिचारात् । शक्तं⁴ चेत्, तद्वस्त्वेव परमार्थसदेव शिवरूपमिति । तथाहि क्रियाकरणशक्तिः कर्तृता चिद्रूपता शिवरूपत्वमपि चिद्रूपस्येच्छारहितस्य⁵ कर्तृत्वायोगात् । घटपटा- दिकं⁶ करणशक्तं चेत्, तत् स्वतन्त्रं चिद्रूपं शिवरूपमेवेति । बहवश्च⁷ घटा- दयः प्रत्येकं शक्ता नेष्यन्ते, सर्वेषां तथा स्वातन्त्र्यं प्रसज्यते⁸ । ततश्च १ अस्याचार्यस्य सर्वथा प्रनीतौ विशिष्टत्वात्सर्वथा यदत्राह्निके प्रतिपादनीयं, तद्बीजाक्षरमाहाथेति । तथाहि— 'अकारः शिव इत्युक्तस्त्यकारः शक्तिरुच्यते ।' इति रहस्यनयेनात्र सर्वशिवत्वं मुख्यतः प्रतिपादनीयं, तत्रापि तत्सर्वशिवत्वं शक्त्यैव समर्थनीयमित्यकारथकाराभ्यां शिवशक्तिव्यपदेशोऽत्र कृतः । तथेदानीमित्यप्येतादृगभिप्रायार्थमेव सूचितं, तत्तु विस्तरभयान्नेह विविच्यते । २ ननु परवादनिरकरणेनैव सर्वं गत्यन्तराभावाच्छिवात्मकं सिद्धयतीति किं पुनरुक्त्या, तत्राह विधिमुखेनेति । पूर्वं तु सर्वनिराकरणेनैव समर्थितमपि निषेधमुखेनैव साधितमित्यर्थः । ३ विद्यते यदि, तर्ह्यर्थक्रिया- यामशक्त इति किमेतत्, यत्र यत्र हि सत्त्वं, तत्र तत्र शक्तत्वमर्थक्रिया- कारित्वमित्यर्थः । तदेवाह—प्रख्येति प्रख्या सत्त्वमिति । ४ शक्तत्वाभ्यु- पगमे च किमित्यत आह शक्तमिति । ५ इच्छारहितं चिद्रूपं न किंचित्कस्य स्वरूपाभ्युपगमरूपत्वादितीच्छासहितं चिद्रूपं शिवरूपं कर्तृत्वम् । ६ अत्रापि पूर्ववन्न्यायः यतो घटपटादिकं करणशक्तं, ततश्च चिद्रूपं चिद्रूपस्येच्छा- रहितस्य कर्तृत्वायोगादिच्छासहितं स्वतन्त्रं शिवरूपमेवेत्यर्थः । अत्र जडत्व- मेषामाशङ्क्य न्यायमाह बहव इति । ७ ननु जडचेतनव्यवस्थायां मेतत्सिद्ध्यति, एषां हि पराधीनत्वमेव स्फुटं भाति, एषां स्वतन्त्रचिद्रूपत्वेऽ- नन्याधीनत्वात्, सर्वे स्वात्मनि स्वतन्त्रा इति किमस्याधीनमिरत व्यवस्था नश्येदित्यत आह बहवश्चेति । ८ यदि च प्रत्येकं घटादौ स्वातन्त्र्यं स्वयमभि- ष्यते एकप्रमात्रनधीनत्वाद्विद्रुन्नभिन्न एवाभिसंधिः सर्वत्र प्रसज्यते, तथा

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १११ भिन्नाभिसन्धितया¹ नवमिदमस्तु पुराणमथास्तु²–इत्येकस्य नवपुराणभाव- विरोधप्रसङ्गः । न चैवं दृश्यते³ ॥ अथैकस्याधिका शक्तिर्न्यूनशक्तिनिबन्धिनी⁴ ॥ २ ॥ स्वकार्यविषये सर्वः शक्त⁵ एव निबन्धनम् । शक्तस्य⁶ शक्यते कर्तुमेवं चेन्नान्यशक्तता⁷ ॥ ३ ॥ अथैकस्याधिका शक्तिर्यस्मादन्यशक्तिमसौ निबध्नाति नियमयति, ततश्च तस्य न्यूना । स्वकार्ये विषयभूते तु सर्वः शक्त एव । निबन्धनं नियमनं हि शक्तस्यैव, न तु तैलदानशक्तिः सिकतासु शक्यक्रिया । तदेदं⁸ यदि सर्वशक्तित्वमिष्यते, ततो नान्येषां घटादीनां प्रत्येकं शक्तता स्वतन्त्रता ॥ ३ ॥ च घटोत्पत्तौ नवं स्वकीयमेव स्वातन्त्र्यं किं किं वा निर्मातृकृतं पुराणमित्ये- कस्यैकत्र निश्चयाभावादुभयमापतति । तच्चानिष्टम् । तत एतत्सिद्धं तस्यैव शक्तिमतः शक्तिस्वरूपं सर्वं पदार्थजातं शक्तमेव न तु तस्य स्वकीयं लेशमात्रेणापीत्यद्वयमेव फलितम् । १ अनुसन्धानेन । २ प्रमातृसंबद्धम् । ३ प्रत्यक्षविरुद्धत्वात् । ४ निरोधिनी । ५ स्वशक्तिक इव । ६ अत्र हेतुमाह शक्तस्येति । ७ ननु किमिदमुच्यते भिन्नाभिसन्धितया नवपुराणभाव- प्रसङ्ग इति । पुराणा हि शक्तिरोत्कर्ष्यभागिनी तत्कृतत्वादस्य घटादे- रर्थजातस्य घटादेः शक्तिः पुनस्तत्कृतत्वादेव हेतोर्न्यूनेत्यतः स्वयं शक्तापि न्यूनत्वात्तस्य नियमस्येति न नवपुराणभावप्रसङ्गः । एकत्र सिद्धं च सर्वत्र शक्तत्वं प्रत्येकमेवान्यथा शक्तत्वाभावे कस्य निबन्धनत्वम् । यथोक्तं— ‘प्रेर्योऽपि स भवेद्यस्य शक्तता नाम विद्यते ।’ तदेतदस्मदभीष्टमेवेत्याह एवं चेदिति । ८ तदेवं घटपटादीनां शक्तिमतः शक्तिरूपत्वात् स्वकार्यविषये शक्तत्वेऽपि स्वयं तदधीनत्वं प्रसङ्ग- निराकरणार्थं समर्थितम् । अथेदानीं येऽपि स्वयं जडेभ्यश्चेतना इति लोकप्रसिद्धास्तेऽपि चेत्यंस्वरूपका इति कैमुतिकन्यायाश्रयणेन मा घटादीनां वार्ता इत्याह नृपादीति । अयमर्थः—यथा सेवकस्य नृपादौ सेविते स्वकार्यं- फलता कार्यापेक्षया भवति तदधीनत्वात्, तथा शक्तस्यापि प्राणिनः स्वकर्मफलता पराधीनैवेति सर्वथैक्येऽपि शक्तिमदेकत्वमेव सर्वत्र समर्थितम् ।

११२ शिवदृष्टिः [ आ०-४ तथाहि— नृपादिसाधनापेक्षा स्वकर्मफलता भवेत् । सर्वः शक्तोऽपि सापेक्ष ईश्वन्मोहसाम्ययोः ॥ ४ ॥ तस्मादनेकभावाभिः १ शक्तिभिस्तदभेदतः । एक एव स्थितः शक्तः शिव एव तथा तथा ॥ ५ ॥ सेवितनृपादिसाधनकार्यापेक्षैव स्वकर्मफलता स्यात् । स्वानि भोग्यानि कर्मफलानि यस्य तस्य भावः । यतः सर्वः स्वयं शक्तोऽपि सापेक्ष एव व्याप्रियते । यथा २ द्वैतदर्शनेऽपीश्वरो मोहं मायातत्त्वम- पेक्ष्य सर्गे प्रवर्तते, कर्मसाम्यं ३ चापेक्ष्य अनुग्रहे, न चाशक्तोऽनीश्वरः । तस्मादनेकघटपटस्वभावाभिः शक्तिभिस्तच्छक्त्यभेदतः शक्तिमत्ता- लक्षणत्वात् शिवत्वस्य एक एव शिवः स्थितः तेन तेन प्रकारेणा- नेकभक्तघटपटादिपदार्थात्मकत्वात्तस्य । घटचितस्तावन्मात्ररूपायाः स्वातन्त्र्ये पटचित्ता सह अनुसन्धानं न स्यात् । तस्मादेकमेव चित्तत्त्वमनन्त- बिम्बरूपमिति ॥ ५ ॥ तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥ ६ ॥ सर्वभावेषु चिद्व्यक्तेः स्थितैव परमार्थता । शक्तं वस्त्वेवेत्युक्तं, वस्तु च सदुच्यते । यच्च सत्, तन्नासदिति स एव परमार्थः । यस्माच्च परमार्थस्ततः सत्त्वात्परमार्थत्वाच्छिवः । ननु १ ननु चायातं तर्हि भेदवादिनामिव द्वैतमयत्वं विशिष्टत्वात्तन्मते- ईश्वरस्येत्याशङ्कयाह तद्विशेषार्थं तस्मादिति । २ ननु शक्तत्वे कथं सापेक्षत्वं, सापेक्षत्वे शक्तत्वमेव न संभवतीत्यत्र शक्तत्वे सापेक्षत्वं दृष्टान्त- कथनेन द्रढयति यथेति । ३ कर्मसाम्यमिति, इत्थं हि तत्प्रक्रिया— विरुद्धयोः कर्मणोः समबलयोरन्योन्यप्रतिबन्धे कर्मसाम्यं, ततश्चेश्वरानुग्रहः भोगोन्मुखयोरेव कर्मणोरन्योन्यप्रतिबन्धः, जात्यायुष्प्रदस्य कर्मणः प्रतिबन्धे तदेव देहपातप्रसङ्गः, भोगस्यैव संसारविक्षेपदायित्वात्तद्रूपस्य प्रतिबन्धेऽ- नुग्रहो नान्यस्येति ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११३ कथं परमार्थमात्रत्वेन शिवः, जडोऽपि कथं न परमार्थः १ ? तन्न । जडस्य सत्तैव कथं चिद्व्यक्तिं विना सिद्धा । स्फुरद्रूपता हि सत्ता । स्फुरद्रूपता च प्रकाशमानता । ततश्च जडता तावन्नास्ति । प्रकाशमानता हि प्रकाशाभेदः। प्रकाशश्चानपह्नवनीयः सर्वप्रतिष्ठारूपः परमार्थः । सर्वेषां च घटादीनां प्रकाशरूपतया विशेषाभावादेकप्रकाशात्मता, तत एवैकशिवत्वम् । एत- दीश्वरप्रत्यभिज्ञायां २ विस्तारितम् ।। मिथ्याज्ञानविकल्प्यानां सत्त्वं चिद्व्यक्तिशक्तता ॥ ७ ॥ विद्यते तत्तदत्रापि शिवत्वं केन वार्यते । इति चेदेषु सत्यत्वं स्थितमेव चिदुद्गमात् ॥ ८ ॥ तथा शिवोदयादेव भेदो मिथ्यादिकः कथम् । व्यवहाराय ३ सत्यत्वं न च वा व्यवहारगम् ॥ ९ ॥ मिथ्याज्ञानविकल्पनीयानां ४ रजतसर्पादीनां घटादीनामिव चिद्व्यक्तिशक्तिता प्रकाशमानता नाम विद्यते, तदेव सत्त्वं परमार्थत्व- मतोऽपि तच्छिवत्वम् । अनिवार्यं च एतदिष्यत एव एषु सत्यत्वं चिदभि- १ अयं भावः- यदि घटादिर्जडरूपस्तर्हि तस्याप्रकाशनात्कथं परमार्थमात्रत्वमपीति कथं जडरूपत्वेन प्रथनम् । अथ प्रकाशत इति प्रकाशमानतास्य स्फुरद्रूपता ततश्च जडत्वेनास्य केन व्यपदिश्यत इति । २ तत्र तु-- 'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी । परेशशक्त्यात्मैव भासते न त्विदन्तया ।।' ३ ननु किमिदमुच्यते,- तथा यत्र सदित्येवं प्रतीतिस्तत्कथमसत् । यत्सत्तत्परमार्थो हि परमार्थ.........॥ इत्यादि, केवलं सन्मात्रत्वेऽतिप्रसङ्गः । न हि रजतादावर्थक्रिया लेशमात्रेणाप्यस्तीत्यर्थक्रियाकारित्वं सत्त्वमिति तत्र तत्र निर्णीतं, रजतादौ च मिथ्याज्ञाने काचनाप्यर्थक्रिया नास्ति । यदि च चिद्व्यक्तिशक्तताया एव घटादाविव तत्रापि प्रतिश्रूयेत तर्हि कोऽयं सम्यक्त्वमिथ्यात्वनयो लोकप्रसिद्ध इति तदेतत्समर्थयति व्यवहारायेति । ४ यथा जडस्य कथं सत्तैव चिद्- व्यक्तिं विना सिद्धा, चिद्व्यक्तौ च सत्तायां स्फुरद्रूपतायां प्रकाशमानतायां सिद्धायां प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न जडता नाम काचनास्ति, ८

११४ शिवदृष्टिः [ आ०-४ व्यक्तेः, तेन तेन रूपेण शिवस्य प्रसरोऽयं यतः । घटज्ञानरजतज्ञान- योश्च द्वयोरपि सत्यत्वे सम्यग्मिथ्यात्वभेदस्तर्हि कथम् । व्यवहाराय व्यवहारप्रयोजनोऽसौ । न च अप्ररूढत्वात्१ व्यवहारसत्यत्वं वा सत्यत्वं भवति ॥ ६ ॥ तथा२ च देशे क्वचन राजाज्ञा जायते यथा । व्यवहारोऽस्तु दीनारैरेतैरव्यवहारगैः ॥ १० ॥ प्रवर्तते तथाभूतैरन्यत्रापि तथान्यथा । राजाज्ञया कूटदीनारैरपि व्यवहारोऽस्त्येव । तथान्यत्रापि इच्छा- मात्रात् यथासंकेतं वस्तु अनपेक्ष्यैव कालव्यवस्थारम्भादिव्यवहारः ॥ व्यवहारस्य३ सत्यत्वे सर्वत्रासत्यतैव ते ॥ ११ ॥ सत्यत्वे तस्य हानिः स्यात्पक्षेऽभ्युपगते किल । यदि पुनरप्ररूढस्य व्यवहारस्यासत्यस्यापि सत्यतेष्यते, तदेवं- जातीयतया सर्वमिदं जगत्सत्यं स्यात् असत्यतापरमार्थं व्यवहार- वदित्यर्थः । तस्य जगतः परमार्थतः सत्यत्वे सत्ययं दोषो व्यवहारसदृश- सत्यतात्मकः स्यात्तव । एवं च सर्वसत्यतावादपक्षेऽभ्युदिते शास्त्रोदिते हानिः स्यात् ॥ तस्यापि४ किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥ १२ ॥ व्यवहारतयैवास्ति सत्यत्वं न निबन्धनात् । तथा मिथ्याज्ञानविकल्पानां सत्तैव चिद्व्यक्ति विना न सिद्धा, चिद्व्यक्तौ च स्फुरत्तारूपायां सत्यां तेषामपि प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न मिथ्यात्वं नाम किंचन संभवति । १ निश्चयेनादृढत्वात् । २ अत्र दृष्टान्त- माह तथा चेति, यदि च व्यवहारसत्यत्वेन सत्यत्वं तर्हि व्यवहारसत्यत्वे व्यवहारगैरेव दीनारैः सर्वथा व्यवहारः स्यात् अव्यवहारगैस्तु कथं, तेषाम- सत्यत्वात् । तथा च तेषामपि कदाचित्सत्यत्वे कथं व्यवहारगं सत्यत्वम- सत्यत्वं वेति न व्यवहारगेन सत्येनासत्येन वार्थक्रियाकारित्वमित्यर्थः । ३ अत्रातिप्रसङ्गमाह व्यवहारस्येत्यादिना । ४ ननु व्यवहारासत्यत्वं यदि चिद्व्यक्तिं विना सेत्स्यति तदा तदसत्यमेवास्तु यतस्तदपि चिद्व्यक्तिं विना न सिद्ध्यतीति कथमसत्यत्वं तत्र, यदि च चिद्व्यक्तिस्तत्र नास्ति तर्हि कथमसत्यत्वमित्याशङ्क्याह तस्यापीति ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११५ तस्यापि व्यवहारस्य किं चिदुद्गमात् शिवावाप्तिः शिवरूपते- ष्यते अनायासागतस्य शिवतेत्यर्थः । एवं चेत् कथमस्य व्यवहारस्याप्य- सत्यतोक्ता, सत्य एवायमेवं सति स्यादित्यर्थः । सत्यं, किं तु व्यव- हारतयैवाध्यस्य व्यवहारस्य सत्यत्वं, न तु निबन्धनात् निबन्धनत्वा- त्प्ररूढत्वादित्यर्थः ॥ विकल्पादेः¹ सनुत्पत्तिः सत एव प्रजायते ॥ १३ ॥ नाभाष्य व्यवहारार्थमेवं वास्त्विति निश्चितम् । तथैवास्तु शिवावस्था केनासौ विनिवारिता ॥ १४ ॥ न विकल्पादेः² स्वतन्त्रात् रजतादिज्ञानाच्च निबद्धत्वेन सत एवार्थस्योत्पत्तिः संपद्यते । किं तर्हि, तथाभाष्य संकेत्य व्यवहारार्थमेवं कूटदीनारैः क्रयोऽस्तु, अद्यारभ्य कालगणनायामयं संवत्सरः संवत्सरा- रम्भो वास्त्विति । निश्चितं निश्चयः । अथवा एवं वस्त्वपि सत्यमपि कालादीति निश्चितव्यवहारार्थम् । तस्य च तथैवास्तु शिवत्वेनावस्थितिः, केन विनिवारिता चिदुद्गमात् शिवत्वलक्षणयोगात् । विकल्पस्य व्यव- हारस्य सत्यत्वासत्यत्वपक्षभेदे प्राक् निमित्तमुक्तं यत्प्रकाशमानस्य सत्यत्वे, सत्यत्वमेव । चिद्भेदाख्यातिमयत्वादसत्यत्वमिति³ एवं च सर्वत्रैव न विस्मरणीयम् ॥ मिथ्यात्वं⁴ क्रियते कस्य किं काले यन्न तद्भवेत् । काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥ १५ ॥ १ अथेदानीं यतौ न कथंचनापि व्यवहारेण कस्यापि सत्यत्व- मस्ति, ततो यथा विकल्पादौ सत एव नोत्पत्तिः । अथ चासतोऽपि प्रकाशबलेन व्यवस्थितत्वासत्त्वमभ्युपेयते तथैव संकेत्यादिव्यवहारार्थमेव कूटदीनारैर्व्यवहारेऽपि प्रकाशबलेन व्यवस्थापितत्वात् सत्त्वं, यथैव वस्तुतत्त्वमनपेक्ष्यापि कालादिकल्पनाव्यवहारस्तत्तत्प्रमातृकल्पितस्तथा यद्यस्ति तथास्तु इत्याह विकल्पादेरिति । २ यथा विकल्पादेः स्वतन्त्रा- ज्ञानाद्रजतादिज्ञानाच्चासतोऽप्यर्थस्य सत्यत्वमेवाभ्युपगतं तथासत्य- स्यापि कूटदीनारादिव्यवहारस्य कालादिव्यवहारस्य च स्थितत्वात्कथं न सत्यतेति । ३ चिद्भेदाख्यातिमयत्वेन न कथञ्चनापि सत्यत्व- मित्यर्थः । ४ तदेवं व्यवहारसत्यत्वेन न कथंचन सम्यक्त्वमिथ्यात्व-

११६ शिवदृष्टिः [ आ०-४ अकाले जननं किंचिद्बाध्यते वा जनिक्रिया । कृत्वा कार्यं क्रिया याता गतायां किं प्रबाध्यते ॥ १६ । बाधके च प्रमाणे सति नेदं रजतं नेदं रजतं शुक्तिका,-इति निषेधनिष्ठतया प्रतीतौ¹ मिथ्यात्वं स्यात् । तेन² बाधकेन प्रमाणेन मिथ्यात्वं कार्यम् । तत्कस्य क्रियते, तत्र किं यस्मिन् काले तद्रजतता भवेत् । स काल एव न भवतीति मिथ्यात्वमित्यभ्युपगमः । तन्न । नैव हि अकाले कालाभावे कस्यचिज्जननं नाम किंचित्कालरहितायाः क्रियाया अयोगा- दित्यर्थः । जनिक्रिया वा यदि बाध्यते, तन्न । रजतादिकार्यं कृत्वा क्रिया समाप्ता । तस्या असत्याः को बाधार्थः स्वयमेव तस्या अभावात् । इदानीं³ च बाधविषयस्याभावात्को बाधः ॥ १६ ॥ अथानुभवगा⁴ बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥ १७ ॥ तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥ १८ ॥ निश्चयः, किंतु परमार्थसत्यत्वेनैव सर्वो व्यवहारः सम्यक्त्वमिथ्यात्वरूप ऽति साधयति मिथ्यात्वमित्यादिपूर्णवाक्यार्थसमन्वयः । अत्र वादिन आहुः विकल्पबलादेवैतत्सिद्ध्यतीति न 'तथैवास्तु शिवावस्था केनासौ विनि- वारिता' इति । तथाहि समस्तान्तर्बहिर्व्यवहारव्यापकसत्यासत्यप्रविभाग- निश्चयनिबन्धनभूतोऽस्ति ह्ययं बाधव्यवहार इति तदेतदनुपपन्नमित्याह मिथ्यात्वमिति । १ प्रतीतौ--रजतज्ञाने । २ तेनेति, अयं भावः--किमिद- मुवतं तथा तथा सम्यङ्मिथ्यात्वाभ्यां चिदभिव्यक्तेः शिवोदयात्सर्वोऽयं चित्रप्रसरमय इति । बाधकेन प्रमाणेन मिथ्यात्वस्य मिथ्याकल्पितत्वात्, ततश्च व्यवहारसत्यत्वमेव सत्यत्वमिति न सर्वत्र सर्वथा तथात्वमिति नैतत्सिद्धमित्याह तत्कस्येति । करयेति सामान्येन निर्दिष्टं विशेषेण विकल्प- यति तत्रेत्यादि । ३ शुक्तिकाज्ञाने । ४ तदेदं कार्याभावे बाधदूषणमुक्त्वा कारणत्वेऽपि बाधव्यवहारस्य दूषणमाह अथानुभवेति, तत्रादौ तावत् कार्यकारणयोर्मध्यमवलम्ब्य पृच्छति यदीति । तथाहि विषयापहारो हि बाध इति ते विदुः । सोऽपि न कथंचनाप्युपपन्न इत्याह तन्नेति प्रतिभा-

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११७ अथ यदि रजतानुभवगता बाधा इष्यते । तन्न । न हि अनुभूतो विषयोऽननुभूतो युक्तः । अथ रजतद्विचन्द्रादिज्ञानकारणमिन्द्रियम१- निन्द्रियमिति बाध्यते । तन्न । न हि बाधकेनेन्द्रियस्यान्ध्यमभावः कर्तुं शक्यं, तद्रजतादिज्ञानकाले यादृगिन्द्रियं तस्य तदानीं घटादीनामुपलब्धेः । अथ कालान्तरे२ यदा बाधकोत्पत्तिः, तदा तस्यानवस्थानाद्बाधः । तत्का- लान्तरस्थितेर्बाधोपगमे तदानीन्तनसम्यग्ज्ञानैरपि मिथ्याज्ञानानां समत्वं नाम बाधः प्राप्नोति । न चैवं युक्तं, वर्तमानकालभाविनां घटादिज्ञानानां सम्यक्त्वेन संभवात् । अथेन्द्रियविषयादीनां संबन्धे बाधः । तन्न । संबन्ध- बाधे हि कथं ज्ञानजननम् । तस्माद्यावत्संभवं विकल्पने सर्वथा रजतादि- प्रतीतौ न किंचिन्निषेद्धुं शक्यते--इति न कश्चिद्बाधार्थः । शुक्तिका३ रजतं न भवतीति च न बाधः । न हि रजतत्वेन शुक्तिका प्रतिपन्ना इति वा प्रतीतेः, शुक्तिदेशावष्टम्भेन४ इत्यपि न किंचित् सर्वस्यैव प्रकाश- तत्त्वेन विषयस्य तस्य परिहर्तुमशक्यत्वादित्यर्थः । नहि बाधकं ज्ञानमित्थ- मुत्तिष्ठति यत्प्रतिभातं तन्न प्रतिभातमितीति भावः । १ न तावदिन्द्रिय- मेवंविधबोधविधायि भवितुमर्हति सर्वदा तदुत्पादप्रसङ्गादिति भावः । अत्राहुरन्ये दोषकलुषितमत्रेन्द्रियमिति । तदप्ययुक्तम् । दुष्टं कारणं स्वकार्य- करण एव कुण्ठितशक्ति जातमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्तते, न दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलमवलम्बेरन् तस्मात्कारणाभावादपि न बाधः । २ कालान्तरे बाधकोत्पत्तिः शुक्तिज्ञानं, शुक्तिज्ञाने सति रजतज्ञानस्यानवस्थितत्वं बाधः तदयुक्तमित्याह तत्कालेति । यदि हि तदानवस्थितत्वमेव बाधः, तर्हि तदानीन्तनानां सम्यग्ज्ञानानामपि शुक्तिकाज्ञानकालेऽनवस्थितत्वात्तेषामपि बाधप्रसङ्ग इत्यर्थः । ३ आचार्य- धर्मकीर्तिमतिमाह शुक्तिकेति, यथा शुद्धं भूतलं घटाभावः तन्निबन्धनत्वाद्- घटाभावव्यवहारस्य, ततः शुद्धभूतलज्ञानमेव यथा घटाभावज्ञानं तथैव शुक्तिकाज्ञानगतयथार्थप्रकाशनलक्षणप्रामाण्यसंवेदनमेव शुक्तिज्ञानस्वसंवे- दनानतिरिक्तं यत् प्रकाशेत तदेवोच्यते, शुक्तिविपरीतरजतज्ञानगता- यथार्थस्वभावाप्रामाण्यसंवेदनं स एव बाध इत्यर्थः । अत्रोत्तरमाह नहि रजतत्वेति । अयं भावः यदि शुक्तिका रजतत्वेन प्रतिपन्नेति तदा भवेत्प्र- तीतिरियं तदभावेऽतिप्रसङ्ग इत्यर्थः । ४ अथेदानीं सर्वथा शुक्तिरजतादौ प्रतीत्यनुदयात्तदाधारकल्पनया बाधमाह । अयं भावः--