भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

१०८ शिवदृष्टिः [ आ०-३ एकाधिष्ठानतो वापि तेषामपि न दूषणम् ॥ ९७ ॥ आन्तरे कृमिचैतन्ये चित्रता स्वामिभृत्यवत् । तावदेकचित्स्वरूपशिवप्रसरणेन वा ॥ ९८ ॥ पातञ्जलादीश्वरेण¹ न साम्यमविभेदतः । इह तद्ब्रह्म विज्ञेयं तस्मात्सर्वं स्थितं शिवः ॥ ९९ ॥ अथवा तेषामणुभेदवादिनां नानाचित्त्वं न दूषणम्, यत एकचिद्रूप- शिवाधिष्ठिता नानात्मान एकस्यैव निजमायाप्रथनादिति यथा शिवाद्ध्वय- दर्शने । अस्माभिः सविस्तरमिदमपि ईश्वरप्रत्यभिज्ञायामेव समर्थितम् । अभेदाख्यातिश्च² तारतम्येन भिद्यते पुर्यष्टकभोगोद्रेकात् । चित्रता क्रिम्या- दिचैतन्ये स्वामिभृत्यरूपशक्ताशक्तचैतन्यद्वयात्मकत्वात् । अथवा³ तावत्परि- माणमनेकक्रिम्यादिपर्यन्तमेकचित्स्वरूपस्य शिवस्य यत्प्रसरणं, तेन । अत्र पक्षे पुर्यष्टकाधरोकारेण चितेरुद्रेकात् शिवाद्भिभेदस्तस्यैव तथारूपत्वात् । अत एव मायाशक्तिवशात् तथैकत्वाप्रथनादनेकत्वम्, वस्तुतस्त्वभेद इति । पातञ्जलेन पुरुषविशेषेणेश्वरेण, तथा वैशेषिकादिस्थितेन न साम्यं तत्र भेदाभ्युपगमात्, इह त्वभेदः । तद्वदीश्वरदर्शने न ज्ञेयम् । अतः सर्वमेव भावजातं शिवात्मकं स्थितं तथाभावे सर्वदूषण- परिहारादिति ॥ ६६ ॥ इति श्रीशिवदृष्टिवृत्तौ श्रीमदुत्पलदेवपादनिर्मितायां तृतीयमाह्निकम् ॥ १ ननु च यदि चितेरुद्रेकात्तत्तच्छक्तिमद्व्यपदेशस्तर्हि पातञ्जलमतं, तैर्हि ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति लक्षणं कृतमित्येतदपि शङ्कित्वा समर्थयति पातञ्जलादीति । २ ननु चास्तु सर्वथा शिवैक्यं, तथापि किंकृतोऽयं विचित्रताभेदः यतः कोऽपि बहुशक्तियुक्तः, कोऽपि न्यूनशक्तियुक्त इत्यत आहाभेदाख्यातिरिति । ३ ननु च यदि पुर्यष्टकभोगोद्रेकाच्चित्रता, तर्हि तदधीनत्वात्तस्यापि स्वातन्त्र्यं, कृतं परेश- स्वातन्त्र्येणेत्याशङ्क्य पक्षान्तरेण कथयति अथवाति ।

अथ चतुर्थमाह्निकम् परोद्भावनीयदूषणशङ्कानिराकरणे¹ कृते सर्वशिवत्वमिदानीं² स्वरूपेणोपपादयितुमाह³-- १ उद्भावनीयः प्रकटनीयः। २ सर्वं च तच्छिवत्वम्। ३ युक्त्या संपादयितुम्। यदुक्तं-- 'आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः। अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः॥' इति यद्यपि सर्वथा मुख्यतो निष्पाद्यं, तथापि परवादिकुतर्कपांसुपातधूसरो- भावेन मा तावत् कश्चिद्व्यामुह्येदिति परवादिकुतर्कपांसुरेव तावत् सुतर्क- सुगन्धशीतलामृतेन प्रहतः। तथाहि सर्वत्रैवात्र वादिनां विप्रतिपत्तिः। आदौ तावच्छान्तब्रह्मवादिनां सर्वभागेष्वत्र विरोधः। यदि ब्रह्मणः स्व- स्वभावभूतं स्वसत्तात्मकं स्वप्रकाशत्वं नाम प्रत्यवमर्शनं, तच्च तैर्विकल्प- पक्षे निक्षिप्तम्। विश्वप्रक्रियां प्रति मायाशक्तिप्रस्रवात्स्वातन्त्र्यमप्यपह्नुत- मेव। तथा च तस्य मायामयत्वेन कुत्सितत्वात् कथं तत्रात्मत्वमित्य- पीष्टमेव तेषां नेतिनेतिवाक्यैः सर्वस्य निराकरणात्। तस्य विश्वस्य कुत्सितत्वकथनात्कथमस्य तत्रानिरुद्धेच्छत्वं, ज्ञानकाले च बुद्धिवृत्त्यात्मनो ज्ञानस्याश्रयणात्कथं प्रसरज्ज्ञानत्वम्। क्रिया च प्राणस्पन्दात्मिकैवेति कथं तत्र स्यादिति। सर्वथापह्नव एव शून्यवादिनाम्। पातञ्जलवैशेषिकादिमते यद्यपि ईश्वरतत्त्वमुपगतं, तथापि भेदवादत्वादात्मैवेति कथं सिद्ध्येत्। सांख्यादौ पुरुषस्य निष्क्रियत्वे कथं क्रियाशक्त्युपगमः। बौद्धादीनां क्षणिकत्वात्कथं विभुत्वनित्यत्वे। शब्दब्रह्मवादे स्वातन्त्र्यापगमादविद्याश्रय- णात्कथमनिरुद्धेच्छत्वं सिद्धयतीति सर्वथा तद्वादभङ्गे शिवाद्द्वयवादे स्थिते यथा तत्सिद्धमेव प्रतीतिगोचरतामेति, तथा कथनीयमित्याह परोद्भाव- नीयेति।

११० शिवदृष्टिः [ आ०-४ अथेदानों¹ प्रवक्तव्यं यथा सर्वं शिवात्मकम् । नाशक्तो विद्यते कश्चिच्छक्तं वस्त्वेव तेऽपि नो ॥ १ ॥ इष्यन्ते बहवः शक्ता सर्वस्वातन्त्र्यमापतेत् । दूषणनिराकरणादनन्तरं विधिमुखेनैव² संप्रति तद्वक्तव्यमस्माभिः तथा सर्वं शिवात्मकं सिद्धयति तदुच्यते । अशक्तश्चार्थक्रियायां विद्यते च,- इत्येतावन्नास्ति प्रख्योपाख्याकरणेन³ तावद्व्यभिचारात् । शक्तं⁴ चेत्, तद्वस्त्वेव परमार्थसदेव शिवरूपमिति । तथाहि क्रियाकरणशक्तिः कर्तृता चिद्रूपता शिवरूपत्वमपि चिद्रूपस्येच्छारहितस्य⁵ कर्तृत्वायोगात् । घटपटा- दिकं⁶ करणशक्तं चेत्, तत् स्वतन्त्रं चिद्रूपं शिवरूपमेवेति । बहवश्च⁷ घटा- दयः प्रत्येकं शक्ता नेष्यन्ते, सर्वेषां तथा स्वातन्त्र्यं प्रसज्यते⁸ । ततश्च १ अस्याचार्यस्य सर्वथा प्रनीतौ विशिष्टत्वात्सर्वथा यदत्राह्निके प्रतिपादनीयं, तद्बीजाक्षरमाहाथेति । तथाहि— 'अकारः शिव इत्युक्तस्त्यकारः शक्तिरुच्यते ।' इति रहस्यनयेनात्र सर्वशिवत्वं मुख्यतः प्रतिपादनीयं, तत्रापि तत्सर्वशिवत्वं शक्त्यैव समर्थनीयमित्यकारथकाराभ्यां शिवशक्तिव्यपदेशोऽत्र कृतः । तथेदानीमित्यप्येतादृगभिप्रायार्थमेव सूचितं, तत्तु विस्तरभयान्नेह विविच्यते । २ ननु परवादनिरकरणेनैव सर्वं गत्यन्तराभावाच्छिवात्मकं सिद्धयतीति किं पुनरुक्त्या, तत्राह विधिमुखेनेति । पूर्वं तु सर्वनिराकरणेनैव समर्थितमपि निषेधमुखेनैव साधितमित्यर्थः । ३ विद्यते यदि, तर्ह्यर्थक्रिया- यामशक्त इति किमेतत्, यत्र यत्र हि सत्त्वं, तत्र तत्र शक्तत्वमर्थक्रिया- कारित्वमित्यर्थः । तदेवाह—प्रख्येति प्रख्या सत्त्वमिति । ४ शक्तत्वाभ्यु- पगमे च किमित्यत आह शक्तमिति । ५ इच्छारहितं चिद्रूपं न किंचित्कस्य स्वरूपाभ्युपगमरूपत्वादितीच्छासहितं चिद्रूपं शिवरूपं कर्तृत्वम् । ६ अत्रापि पूर्ववन्न्यायः यतो घटपटादिकं करणशक्तं, ततश्च चिद्रूपं चिद्रूपस्येच्छा- रहितस्य कर्तृत्वायोगादिच्छासहितं स्वतन्त्रं शिवरूपमेवेत्यर्थः । अत्र जडत्व- मेषामाशङ्क्य न्यायमाह बहव इति । ७ ननु जडचेतनव्यवस्थायां मेतत्सिद्ध्यति, एषां हि पराधीनत्वमेव स्फुटं भाति, एषां स्वतन्त्रचिद्रूपत्वेऽ- नन्याधीनत्वात्, सर्वे स्वात्मनि स्वतन्त्रा इति किमस्याधीनमिरत व्यवस्था नश्येदित्यत आह बहवश्चेति । ८ यदि च प्रत्येकं घटादौ स्वातन्त्र्यं स्वयमभि- ष्यते एकप्रमात्रनधीनत्वाद्विद्रुन्नभिन्न एवाभिसंधिः सर्वत्र प्रसज्यते, तथा

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १११ भिन्नाभिसन्धितया¹ नवमिदमस्तु पुराणमथास्तु²–इत्येकस्य नवपुराणभाव- विरोधप्रसङ्गः । न चैवं दृश्यते³ ॥ अथैकस्याधिका शक्तिर्न्यूनशक्तिनिबन्धिनी⁴ ॥ २ ॥ स्वकार्यविषये सर्वः शक्त⁵ एव निबन्धनम् । शक्तस्य⁶ शक्यते कर्तुमेवं चेन्नान्यशक्तता⁷ ॥ ३ ॥ अथैकस्याधिका शक्तिर्यस्मादन्यशक्तिमसौ निबध्नाति नियमयति, ततश्च तस्य न्यूना । स्वकार्ये विषयभूते तु सर्वः शक्त एव । निबन्धनं नियमनं हि शक्तस्यैव, न तु तैलदानशक्तिः सिकतासु शक्यक्रिया । तदेदं⁸ यदि सर्वशक्तित्वमिष्यते, ततो नान्येषां घटादीनां प्रत्येकं शक्तता स्वतन्त्रता ॥ ३ ॥ च घटोत्पत्तौ नवं स्वकीयमेव स्वातन्त्र्यं किं किं वा निर्मातृकृतं पुराणमित्ये- कस्यैकत्र निश्चयाभावादुभयमापतति । तच्चानिष्टम् । तत एतत्सिद्धं तस्यैव शक्तिमतः शक्तिस्वरूपं सर्वं पदार्थजातं शक्तमेव न तु तस्य स्वकीयं लेशमात्रेणापीत्यद्वयमेव फलितम् । १ अनुसन्धानेन । २ प्रमातृसंबद्धम् । ३ प्रत्यक्षविरुद्धत्वात् । ४ निरोधिनी । ५ स्वशक्तिक इव । ६ अत्र हेतुमाह शक्तस्येति । ७ ननु किमिदमुच्यते भिन्नाभिसन्धितया नवपुराणभाव- प्रसङ्ग इति । पुराणा हि शक्तिरोत्कर्ष्यभागिनी तत्कृतत्वादस्य घटादे- रर्थजातस्य घटादेः शक्तिः पुनस्तत्कृतत्वादेव हेतोर्न्यूनेत्यतः स्वयं शक्तापि न्यूनत्वात्तस्य नियमस्येति न नवपुराणभावप्रसङ्गः । एकत्र सिद्धं च सर्वत्र शक्तत्वं प्रत्येकमेवान्यथा शक्तत्वाभावे कस्य निबन्धनत्वम् । यथोक्तं— ‘प्रेर्योऽपि स भवेद्यस्य शक्तता नाम विद्यते ।’ तदेतदस्मदभीष्टमेवेत्याह एवं चेदिति । ८ तदेवं घटपटादीनां शक्तिमतः शक्तिरूपत्वात् स्वकार्यविषये शक्तत्वेऽपि स्वयं तदधीनत्वं प्रसङ्ग- निराकरणार्थं समर्थितम् । अथेदानीं येऽपि स्वयं जडेभ्यश्चेतना इति लोकप्रसिद्धास्तेऽपि चेत्यंस्वरूपका इति कैमुतिकन्यायाश्रयणेन मा घटादीनां वार्ता इत्याह नृपादीति । अयमर्थः—यथा सेवकस्य नृपादौ सेविते स्वकार्यं- फलता कार्यापेक्षया भवति तदधीनत्वात्, तथा शक्तस्यापि प्राणिनः स्वकर्मफलता पराधीनैवेति सर्वथैक्येऽपि शक्तिमदेकत्वमेव सर्वत्र समर्थितम् ।

११२ शिवदृष्टिः [ आ०-४ तथाहि— नृपादिसाधनापेक्षा स्वकर्मफलता भवेत् । सर्वः शक्तोऽपि सापेक्ष ईश्वन्मोहसाम्ययोः ॥ ४ ॥ तस्मादनेकभावाभिः १ शक्तिभिस्तदभेदतः । एक एव स्थितः शक्तः शिव एव तथा तथा ॥ ५ ॥ सेवितनृपादिसाधनकार्यापेक्षैव स्वकर्मफलता स्यात् । स्वानि भोग्यानि कर्मफलानि यस्य तस्य भावः । यतः सर्वः स्वयं शक्तोऽपि सापेक्ष एव व्याप्रियते । यथा २ द्वैतदर्शनेऽपीश्वरो मोहं मायातत्त्वम- पेक्ष्य सर्गे प्रवर्तते, कर्मसाम्यं ३ चापेक्ष्य अनुग्रहे, न चाशक्तोऽनीश्वरः । तस्मादनेकघटपटस्वभावाभिः शक्तिभिस्तच्छक्त्यभेदतः शक्तिमत्ता- लक्षणत्वात् शिवत्वस्य एक एव शिवः स्थितः तेन तेन प्रकारेणा- नेकभक्तघटपटादिपदार्थात्मकत्वात्तस्य । घटचितस्तावन्मात्ररूपायाः स्वातन्त्र्ये पटचित्ता सह अनुसन्धानं न स्यात् । तस्मादेकमेव चित्तत्त्वमनन्त- बिम्बरूपमिति ॥ ५ ॥ तथा यत्र सदित्येवं प्रतीतिस्तदसत्कथम् । यत्सत्तत्परमार्थो हि परमार्थस्ततः शिवः ॥ ६ ॥ सर्वभावेषु चिद्व्यक्तेः स्थितैव परमार्थता । शक्तं वस्त्वेवेत्युक्तं, वस्तु च सदुच्यते । यच्च सत्, तन्नासदिति स एव परमार्थः । यस्माच्च परमार्थस्ततः सत्त्वात्परमार्थत्वाच्छिवः । ननु १ ननु चायातं तर्हि भेदवादिनामिव द्वैतमयत्वं विशिष्टत्वात्तन्मते- ईश्वरस्येत्याशङ्कयाह तद्विशेषार्थं तस्मादिति । २ ननु शक्तत्वे कथं सापेक्षत्वं, सापेक्षत्वे शक्तत्वमेव न संभवतीत्यत्र शक्तत्वे सापेक्षत्वं दृष्टान्त- कथनेन द्रढयति यथेति । ३ कर्मसाम्यमिति, इत्थं हि तत्प्रक्रिया— विरुद्धयोः कर्मणोः समबलयोरन्योन्यप्रतिबन्धे कर्मसाम्यं, ततश्चेश्वरानुग्रहः भोगोन्मुखयोरेव कर्मणोरन्योन्यप्रतिबन्धः, जात्यायुष्प्रदस्य कर्मणः प्रतिबन्धे तदेव देहपातप्रसङ्गः, भोगस्यैव संसारविक्षेपदायित्वात्तद्रूपस्य प्रतिबन्धेऽ- नुग्रहो नान्यस्येति ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११३ कथं परमार्थमात्रत्वेन शिवः, जडोऽपि कथं न परमार्थः १ ? तन्न । जडस्य सत्तैव कथं चिद्व्यक्तिं विना सिद्धा । स्फुरद्रूपता हि सत्ता । स्फुरद्रूपता च प्रकाशमानता । ततश्च जडता तावन्नास्ति । प्रकाशमानता हि प्रकाशाभेदः। प्रकाशश्चानपह्नवनीयः सर्वप्रतिष्ठारूपः परमार्थः । सर्वेषां च घटादीनां प्रकाशरूपतया विशेषाभावादेकप्रकाशात्मता, तत एवैकशिवत्वम् । एत- दीश्वरप्रत्यभिज्ञायां २ विस्तारितम् ।। मिथ्याज्ञानविकल्प्यानां सत्त्वं चिद्व्यक्तिशक्तता ॥ ७ ॥ विद्यते तत्तदत्रापि शिवत्वं केन वार्यते । इति चेदेषु सत्यत्वं स्थितमेव चिदुद्गमात् ॥ ८ ॥ तथा शिवोदयादेव भेदो मिथ्यादिकः कथम् । व्यवहाराय ३ सत्यत्वं न च वा व्यवहारगम् ॥ ९ ॥ मिथ्याज्ञानविकल्पनीयानां ४ रजतसर्पादीनां घटादीनामिव चिद्व्यक्तिशक्तिता प्रकाशमानता नाम विद्यते, तदेव सत्त्वं परमार्थत्व- मतोऽपि तच्छिवत्वम् । अनिवार्यं च एतदिष्यत एव एषु सत्यत्वं चिदभि- १ अयं भावः- यदि घटादिर्जडरूपस्तर्हि तस्याप्रकाशनात्कथं परमार्थमात्रत्वमपीति कथं जडरूपत्वेन प्रथनम् । अथ प्रकाशत इति प्रकाशमानतास्य स्फुरद्रूपता ततश्च जडत्वेनास्य केन व्यपदिश्यत इति । २ तत्र तु-- 'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी । परेशशक्त्यात्मैव भासते न त्विदन्तया ।।' ३ ननु किमिदमुच्यते,- तथा यत्र सदित्येवं प्रतीतिस्तत्कथमसत् । यत्सत्तत्परमार्थो हि परमार्थ.........॥ इत्यादि, केवलं सन्मात्रत्वेऽतिप्रसङ्गः । न हि रजतादावर्थक्रिया लेशमात्रेणाप्यस्तीत्यर्थक्रियाकारित्वं सत्त्वमिति तत्र तत्र निर्णीतं, रजतादौ च मिथ्याज्ञाने काचनाप्यर्थक्रिया नास्ति । यदि च चिद्व्यक्तिशक्तताया एव घटादाविव तत्रापि प्रतिश्रूयेत तर्हि कोऽयं सम्यक्त्वमिथ्यात्वनयो लोकप्रसिद्ध इति तदेतत्समर्थयति व्यवहारायेति । ४ यथा जडस्य कथं सत्तैव चिद्- व्यक्तिं विना सिद्धा, चिद्व्यक्तौ च सत्तायां स्फुरद्रूपतायां प्रकाशमानतायां सिद्धायां प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न जडता नाम काचनास्ति, ८

११४ शिवदृष्टिः [ आ०-४ व्यक्तेः, तेन तेन रूपेण शिवस्य प्रसरोऽयं यतः । घटज्ञानरजतज्ञान- योश्च द्वयोरपि सत्यत्वे सम्यग्मिथ्यात्वभेदस्तर्हि कथम् । व्यवहाराय व्यवहारप्रयोजनोऽसौ । न च अप्ररूढत्वात्१ व्यवहारसत्यत्वं वा सत्यत्वं भवति ॥ ६ ॥ तथा२ च देशे क्वचन राजाज्ञा जायते यथा । व्यवहारोऽस्तु दीनारैरेतैरव्यवहारगैः ॥ १० ॥ प्रवर्तते तथाभूतैरन्यत्रापि तथान्यथा । राजाज्ञया कूटदीनारैरपि व्यवहारोऽस्त्येव । तथान्यत्रापि इच्छा- मात्रात् यथासंकेतं वस्तु अनपेक्ष्यैव कालव्यवस्थारम्भादिव्यवहारः ॥ व्यवहारस्य३ सत्यत्वे सर्वत्रासत्यतैव ते ॥ ११ ॥ सत्यत्वे तस्य हानिः स्यात्पक्षेऽभ्युपगते किल । यदि पुनरप्ररूढस्य व्यवहारस्यासत्यस्यापि सत्यतेष्यते, तदेवं- जातीयतया सर्वमिदं जगत्सत्यं स्यात् असत्यतापरमार्थं व्यवहार- वदित्यर्थः । तस्य जगतः परमार्थतः सत्यत्वे सत्ययं दोषो व्यवहारसदृश- सत्यतात्मकः स्यात्तव । एवं च सर्वसत्यतावादपक्षेऽभ्युदिते शास्त्रोदिते हानिः स्यात् ॥ तस्यापि४ किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥ १२ ॥ व्यवहारतयैवास्ति सत्यत्वं न निबन्धनात् । तथा मिथ्याज्ञानविकल्पानां सत्तैव चिद्व्यक्ति विना न सिद्धा, चिद्व्यक्तौ च स्फुरत्तारूपायां सत्यां तेषामपि प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न मिथ्यात्वं नाम किंचन संभवति । १ निश्चयेनादृढत्वात् । २ अत्र दृष्टान्त- माह तथा चेति, यदि च व्यवहारसत्यत्वेन सत्यत्वं तर्हि व्यवहारसत्यत्वे व्यवहारगैरेव दीनारैः सर्वथा व्यवहारः स्यात् अव्यवहारगैस्तु कथं, तेषाम- सत्यत्वात् । तथा च तेषामपि कदाचित्सत्यत्वे कथं व्यवहारगं सत्यत्वम- सत्यत्वं वेति न व्यवहारगेन सत्येनासत्येन वार्थक्रियाकारित्वमित्यर्थः । ३ अत्रातिप्रसङ्गमाह व्यवहारस्येत्यादिना । ४ ननु व्यवहारासत्यत्वं यदि चिद्व्यक्तिं विना सेत्स्यति तदा तदसत्यमेवास्तु यतस्तदपि चिद्व्यक्तिं विना न सिद्ध्यतीति कथमसत्यत्वं तत्र, यदि च चिद्व्यक्तिस्तत्र नास्ति तर्हि कथमसत्यत्वमित्याशङ्क्याह तस्यापीति ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११५ तस्यापि व्यवहारस्य किं चिदुद्गमात् शिवावाप्तिः शिवरूपते- ष्यते अनायासागतस्य शिवतेत्यर्थः । एवं चेत् कथमस्य व्यवहारस्याप्य- सत्यतोक्ता, सत्य एवायमेवं सति स्यादित्यर्थः । सत्यं, किं तु व्यव- हारतयैवाध्यस्य व्यवहारस्य सत्यत्वं, न तु निबन्धनात् निबन्धनत्वा- त्प्ररूढत्वादित्यर्थः ॥ विकल्पादेः¹ सनुत्पत्तिः सत एव प्रजायते ॥ १३ ॥ नाभाष्य व्यवहारार्थमेवं वास्त्विति निश्चितम् । तथैवास्तु शिवावस्था केनासौ विनिवारिता ॥ १४ ॥ न विकल्पादेः² स्वतन्त्रात् रजतादिज्ञानाच्च निबद्धत्वेन सत एवार्थस्योत्पत्तिः संपद्यते । किं तर्हि, तथाभाष्य संकेत्य व्यवहारार्थमेवं कूटदीनारैः क्रयोऽस्तु, अद्यारभ्य कालगणनायामयं संवत्सरः संवत्सरा- रम्भो वास्त्विति । निश्चितं निश्चयः । अथवा एवं वस्त्वपि सत्यमपि कालादीति निश्चितव्यवहारार्थम् । तस्य च तथैवास्तु शिवत्वेनावस्थितिः, केन विनिवारिता चिदुद्गमात् शिवत्वलक्षणयोगात् । विकल्पस्य व्यव- हारस्य सत्यत्वासत्यत्वपक्षभेदे प्राक् निमित्तमुक्तं यत्प्रकाशमानस्य सत्यत्वे, सत्यत्वमेव । चिद्भेदाख्यातिमयत्वादसत्यत्वमिति³ एवं च सर्वत्रैव न विस्मरणीयम् ॥ मिथ्यात्वं⁴ क्रियते कस्य किं काले यन्न तद्भवेत् । काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥ १५ ॥ १ अथेदानीं यतौ न कथंचनापि व्यवहारेण कस्यापि सत्यत्व- मस्ति, ततो यथा विकल्पादौ सत एव नोत्पत्तिः । अथ चासतोऽपि प्रकाशबलेन व्यवस्थितत्वासत्त्वमभ्युपेयते तथैव संकेत्यादिव्यवहारार्थमेव कूटदीनारैर्व्यवहारेऽपि प्रकाशबलेन व्यवस्थापितत्वात् सत्त्वं, यथैव वस्तुतत्त्वमनपेक्ष्यापि कालादिकल्पनाव्यवहारस्तत्तत्प्रमातृकल्पितस्तथा यद्यस्ति तथास्तु इत्याह विकल्पादेरिति । २ यथा विकल्पादेः स्वतन्त्रा- ज्ञानाद्रजतादिज्ञानाच्चासतोऽप्यर्थस्य सत्यत्वमेवाभ्युपगतं तथासत्य- स्यापि कूटदीनारादिव्यवहारस्य कालादिव्यवहारस्य च स्थितत्वात्कथं न सत्यतेति । ३ चिद्भेदाख्यातिमयत्वेन न कथञ्चनापि सत्यत्व- मित्यर्थः । ४ तदेवं व्यवहारसत्यत्वेन न कथंचन सम्यक्त्वमिथ्यात्व-

११६ शिवदृष्टिः [ आ०-४ अकाले जननं किंचिद्बाध्यते वा जनिक्रिया । कृत्वा कार्यं क्रिया याता गतायां किं प्रबाध्यते ॥ १६ । बाधके च प्रमाणे सति नेदं रजतं नेदं रजतं शुक्तिका,-इति निषेधनिष्ठतया प्रतीतौ¹ मिथ्यात्वं स्यात् । तेन² बाधकेन प्रमाणेन मिथ्यात्वं कार्यम् । तत्कस्य क्रियते, तत्र किं यस्मिन् काले तद्रजतता भवेत् । स काल एव न भवतीति मिथ्यात्वमित्यभ्युपगमः । तन्न । नैव हि अकाले कालाभावे कस्यचिज्जननं नाम किंचित्कालरहितायाः क्रियाया अयोगा- दित्यर्थः । जनिक्रिया वा यदि बाध्यते, तन्न । रजतादिकार्यं कृत्वा क्रिया समाप्ता । तस्या असत्याः को बाधार्थः स्वयमेव तस्या अभावात् । इदानीं³ च बाधविषयस्याभावात्को बाधः ॥ १६ ॥ अथानुभवगा⁴ बाधा नानुभूतोऽन्यथा भवेत् । अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥ १७ ॥ तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः । सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥ १८ ॥ निश्चयः, किंतु परमार्थसत्यत्वेनैव सर्वो व्यवहारः सम्यक्त्वमिथ्यात्वरूप ऽति साधयति मिथ्यात्वमित्यादिपूर्णवाक्यार्थसमन्वयः । अत्र वादिन आहुः विकल्पबलादेवैतत्सिद्ध्यतीति न 'तथैवास्तु शिवावस्था केनासौ विनि- वारिता' इति । तथाहि समस्तान्तर्बहिर्व्यवहारव्यापकसत्यासत्यप्रविभाग- निश्चयनिबन्धनभूतोऽस्ति ह्ययं बाधव्यवहार इति तदेतदनुपपन्नमित्याह मिथ्यात्वमिति । १ प्रतीतौ--रजतज्ञाने । २ तेनेति, अयं भावः--किमिद- मुवतं तथा तथा सम्यङ्मिथ्यात्वाभ्यां चिदभिव्यक्तेः शिवोदयात्सर्वोऽयं चित्रप्रसरमय इति । बाधकेन प्रमाणेन मिथ्यात्वस्य मिथ्याकल्पितत्वात्, ततश्च व्यवहारसत्यत्वमेव सत्यत्वमिति न सर्वत्र सर्वथा तथात्वमिति नैतत्सिद्धमित्याह तत्कस्येति । करयेति सामान्येन निर्दिष्टं विशेषेण विकल्प- यति तत्रेत्यादि । ३ शुक्तिकाज्ञाने । ४ तदेदं कार्याभावे बाधदूषणमुक्त्वा कारणत्वेऽपि बाधव्यवहारस्य दूषणमाह अथानुभवेति, तत्रादौ तावत् कार्यकारणयोर्मध्यमवलम्ब्य पृच्छति यदीति । तथाहि विषयापहारो हि बाध इति ते विदुः । सोऽपि न कथंचनाप्युपपन्न इत्याह तन्नेति प्रतिभा-

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११७ अथ यदि रजतानुभवगता बाधा इष्यते । तन्न । न हि अनुभूतो विषयोऽननुभूतो युक्तः । अथ रजतद्विचन्द्रादिज्ञानकारणमिन्द्रियम१- निन्द्रियमिति बाध्यते । तन्न । न हि बाधकेनेन्द्रियस्यान्ध्यमभावः कर्तुं शक्यं, तद्रजतादिज्ञानकाले यादृगिन्द्रियं तस्य तदानीं घटादीनामुपलब्धेः । अथ कालान्तरे२ यदा बाधकोत्पत्तिः, तदा तस्यानवस्थानाद्बाधः । तत्का- लान्तरस्थितेर्बाधोपगमे तदानीन्तनसम्यग्ज्ञानैरपि मिथ्याज्ञानानां समत्वं नाम बाधः प्राप्नोति । न चैवं युक्तं, वर्तमानकालभाविनां घटादिज्ञानानां सम्यक्त्वेन संभवात् । अथेन्द्रियविषयादीनां संबन्धे बाधः । तन्न । संबन्ध- बाधे हि कथं ज्ञानजननम् । तस्माद्यावत्संभवं विकल्पने सर्वथा रजतादि- प्रतीतौ न किंचिन्निषेद्धुं शक्यते--इति न कश्चिद्बाधार्थः । शुक्तिका३ रजतं न भवतीति च न बाधः । न हि रजतत्वेन शुक्तिका प्रतिपन्ना इति वा प्रतीतेः, शुक्तिदेशावष्टम्भेन४ इत्यपि न किंचित् सर्वस्यैव प्रकाश- तत्त्वेन विषयस्य तस्य परिहर्तुमशक्यत्वादित्यर्थः । नहि बाधकं ज्ञानमित्थ- मुत्तिष्ठति यत्प्रतिभातं तन्न प्रतिभातमितीति भावः । १ न तावदिन्द्रिय- मेवंविधबोधविधायि भवितुमर्हति सर्वदा तदुत्पादप्रसङ्गादिति भावः । अत्राहुरन्ये दोषकलुषितमत्रेन्द्रियमिति । तदप्ययुक्तम् । दुष्टं कारणं स्वकार्य- करण एव कुण्ठितशक्ति जातमिति तदेव मा जीजनत्, विपरीतकार्यकरणस्य किं वर्तते, न दुष्टानि शालिबीजानि यवाङ्कुरकरणकौशलमवलम्बेरन् तस्मात्कारणाभावादपि न बाधः । २ कालान्तरे बाधकोत्पत्तिः शुक्तिज्ञानं, शुक्तिज्ञाने सति रजतज्ञानस्यानवस्थितत्वं बाधः तदयुक्तमित्याह तत्कालेति । यदि हि तदानवस्थितत्वमेव बाधः, तर्हि तदानीन्तनानां सम्यग्ज्ञानानामपि शुक्तिकाज्ञानकालेऽनवस्थितत्वात्तेषामपि बाधप्रसङ्ग इत्यर्थः । ३ आचार्य- धर्मकीर्तिमतिमाह शुक्तिकेति, यथा शुद्धं भूतलं घटाभावः तन्निबन्धनत्वाद्- घटाभावव्यवहारस्य, ततः शुद्धभूतलज्ञानमेव यथा घटाभावज्ञानं तथैव शुक्तिकाज्ञानगतयथार्थप्रकाशनलक्षणप्रामाण्यसंवेदनमेव शुक्तिज्ञानस्वसंवे- दनानतिरिक्तं यत् प्रकाशेत तदेवोच्यते, शुक्तिविपरीतरजतज्ञानगता- यथार्थस्वभावाप्रामाण्यसंवेदनं स एव बाध इत्यर्थः । अत्रोत्तरमाह नहि रजतत्वेति । अयं भावः यदि शुक्तिका रजतत्वेन प्रतिपन्नेति तदा भवेत्प्र- तीतिरियं तदभावेऽतिप्रसङ्ग इत्यर्थः । ४ अथेदानीं सर्वथा शुक्तिरजतादौ प्रतीत्यनुदयात्तदाधारकल्पनया बाधमाह । अयं भावः--

११८ शिवदृष्टिः [ आ०-४ मानस्य स्वरूपदेशत्वात् । सर्वथा यथा यत् प्रतिभातं, तथैव तत्, नान्यथा कर्तुं शक्यते इति सत्यमेव न किञ्चिन्मिथ्यात्वम् । एतच्च ईश्वरप्रत्य१- भिज्ञानोऽवसेयम् ॥ १८ ॥ व्यवहारस्य बाधा चेद्व्यवहारे यथेष्टता । क्वचित्सत्यसुवर्णस्य प्रत्यन्ते व्यवहारिता ॥ १९ ॥ कूटकार्षापणादौ वा व्यवहारोऽपि दृश्यते । तावता व्यवहारो वा यदाह्लादमात्रकम् ॥ २० ॥ अर्थक्रियासमर्थत्वमेतदेवास्य वास्तवम् । व्यवहारोऽपि यदि बाध्यते रजतव्यवहारो न कर्तव्य इति । तदपि न व्यवहारस्येष्टस्य प्रवृत्तेः । न तद्वशेन सत्यासत्यविभागः । तथाहि प्रत्यन्तदेशे क्वचित् सत्यसुवर्णस्य तथा व्यवहारो, यादृगयसः । कूटकार्षा- पणादिना च राज्ञ इष्टत्वात् दृश्यते व्यवहारः । अथवा यदाह्लादमात्रकं, तावतैव व्यवहारः । एतदेव चाह्लादकारित्वमर्थस्य अर्थक्रियाकारित्वे स्वसंवेदनसिद्धत्वेन, भ्रान्तत्वाद्वास्तवस्वप्नजलस्य पानाद्यर्थक्रिया भ्रान्तापि स्यात्, तृणिनवृत्त्या तु तृप्तिः स्वसंवेदनसिद्धा न विसंवदति । सापि चाह्लादिका अर्थक्रिया कूटादेः स्वप्नजलादेर्वा स्यात्, तदपि सत्यं व्यवहार्यं चेति व्यवहारेऽपि न बाधस्थितिः ॥ नह्यालम्बनता युक्ता संनिधाननिबन्धना । तदेवालम्बनं बुद्धेर्यदस्यामवभासते ॥ अन्यदालम्बनमन्यद्भातीति भणितिर्न वा ॥ इति । १ तदत्रैत्थं संक्षेपः-- 'स्वरूपमेव खल्वेतद्गृह्णात्यात्मानमात्मना । बहिर्निरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ स्वरूपं सतताभासं तेन तेनात्मना बहिः । तद्वहत्यर्थशून्यं वै लोकयात्रामिहेदृशीम् ॥' इति ।

आ०-४] उत्पलदेवकृतवृत्त्योपेता ११६ अथ१ चेद्देशबाधो वा तद्देशे रजतं नहि ॥ २१ ॥ यत्र काले सरजतो देशोऽभूतस गतस्तदा । कालान्तरेण देशोऽसौ का बाधा भिन्नकालयोः ॥ २२ ॥ अथान्यदेशं रजतमन्यदेशमुपलब्धमिति यदि वा देशबाधः। तन्न । यस्मिन्२ काले स रजताश्रयो देशोऽभूत्, स कालो बाध्यरजतज्ञानकाले नास्तीति बाधकज्ञानेन बाधः क्रियते। न चैवं रजतदेशयोर्द्वयोर्भिन्नकालत्वात् । तथाहि शुक्तिकारजतकालेऽन्यदेशरजतकालो गतः। ततश्च कालभेदेन देशभेदस्याविरोधात् का बाधा ॥ २२ ॥ ज्ञानान्तरेण ज्ञानं तद्विरोधादथ बाध्यते । न बाधो भिन्नकालत्वात्प्राक्तनस्याप्यभावतः ॥ २३ ॥ अथ तस्मिन्नेव वस्तुनि रजतज्ञानं शुक्तिकाज्ञानं चेति विरोधात् शुक्तिकाज्ञानेन रजतज्ञानस्य बाधो निवृत्तिः क्रियते। तन्न। एकवस्तुनि युगपदन्यथात्वमयुक्तम्३। क्रमेण तु क्षीरदध्नोर्न विरोधः प्राक्तनस्य दृष्टस्य स्वरसतो दर्शननिवृत्त्या निवृत्तेः, नाभावतः ॥ २३ ॥ सहानवस्थितिर्नास्ति विरोधः प्राग्विनाशतः । अन्योन्यपरिहारो वा ज्ञानाज्ञानात्मकः स्थितः ॥ २४ ॥ सहानवस्थितिरपि विरोधो नास्ति। न हि ज्ञानं क्षणिकत्वेन प्राग्विनष्टमन्येन निवर्तनीयमुष्णेन शीतमिव विरुद्धं भवति रजत- १ अथेदानों यतः कार्येण कारणेन च न कथंचन बाधः सिद्ध्यति, ततोऽबाध एव। अयं भावः—तदन्यदेशकालं यद्यप्यस्ति तथापीहासन्निहि- तस्य सतापि तेन किं विशिष्यते। २ इदमत्र तात्पर्यं—तौ तत्र देशकालौ किं सन्तौ प्रतिभासेते किमुतासन्तौ? यदि च सन्तावित्यभिमन्यसे तदा तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात्, असन्तौ तुभावपि रजतवन्नालम्बनं भवितुमर्हत इति। ३ युगपदन्यथात्वमयुक्तं, नहि शुक्तिज्ञानेन रजतज्ञानं बाध्यते स्वस्मिन्विषये आत्मनि च स्वरूपे द्वयोर्ज्ञानयोर्निष्ठितयोर्विश्रान्तयोरन्योन्यं विरोधस्याभावात्। अथ परस्परपरिहार एव विरुद्धयोर्युगपद्द्वयोः, तर्हि सर्वेषां ज्ञानानां विरोधाद्वाध्यबाधकभावस्य निष्ठाैव न लभ्येति सुतरां सत्येतरविभागस्य विलोप आयातः।

१२० शिवदृष्टिः [ आ०-४ शुक्तिज्ञानयोः । न च अन्योन्यपरिहारात्मको विरोधो ज्ञानाज्ञानात्मकयो भावाभावयोः १.... ॥ २४ ॥ अज्ञानत्वे परिज्ञाते तदा स्यात्स्वविरोधिता । अज्ञानत्वे स्वभावेन विरोधः केन वार्यते ॥ २५ ॥ नेवमत्र स्वभावत्वे विरोधो बाधनात्मकः । स विवेकदृशा ज्ञेयो न स्वभावेन कुत्रचित् ॥ २६ ॥ तथा सर्वविकल्पानां सत्यरूपत्वदर्शनात् । गरुडादिशरीरेषु विषभूतापहारतः ॥ २७ ॥ प्रतिष्ठादेवकर्मादिध्यानादिफलयोगतः । सत्येऽपि न फलं दृष्टं क्वचिदज्ञानिसेवितात् ॥ २८ ॥ तस्मादवस्थितं सर्वं सत्त्वं चिद्व्यक्तियोगिता । यत्र यत्र तत्र तत्र सत्यत्वं विश्वरूपता ॥ २९ ॥ व्यतिरेके न युज्यते विज्ञानं हि घटादिषु । मूर्तामूर्तधर्मयोगो घटस्तस्य न गोचरः ॥ ३० ॥ अमूर्ता न च वाणूनामन्तरेव प्रवेशिता । प्रतिपत्तुः कथं वेत्ति घटोऽयं प्रविभेदतः ॥ ३१ ॥२ मूर्तामूर्तादिभिर्धर्मैर्योगो यस्य घटादेः स, तस्य विज्ञानस्य घटात्मनो व्यतिरिक्तः सन् न गोचरो भवितुमर्हति । तदुक्तमीश्वरप्रत्यभिज्ञायां— ‘प्रागिवार्थोऽप्रकाशः स्यात्............’(१।५।२) इत्यादिना । न च वा घटादयः परमाणुरूपत्वे अमूर्ताः । असर्व- गतद्रव्यपरिमाणं देशयोग्यता वापि हि मूर्तिः । ततस्तेषामणूनां बोध- मयस्य शिवरूपस्य प्रतिपत्तु रन्तरेव प्रवेशित्वमभेद इत्यर्थः । अन्यथा स प्रतिपत्ता प्रविभेदात्कारणात् कथं घटोऽयमिति वेत्ति न कथंचित् जानीयादित्यर्थः ॥ ३१ ॥ १ अत्र भावाभावयोरित्यस्माद्याख्यप्रतीकादारभ्य शेषभागस्य व्याख्या त्रुटितास्ति । २ अत्रापि उपरिलिखितश्लोकसप्तकस्य व्याख्याया- स्त्रुटिर्वर्तते ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२१ विनैकत्वं१ च न भवेत्कारकत्वं कदाचन । शशशृङ्गादिके नापि स्याद्विभक्त्या समन्वयः ॥ ३२ ॥ सर्वथा२भावशब्दस्य नास्त्यभावात्मकं क्वचित् । घटादेश्च यदेतत्स्वकार्यकरणं भवद्भिरिष्यते, तच्छिदेकरूपत्वं विना न स्यात् । जडस्य निरभिसंधेः करणाद्योगादित्येतदपि ईश्वरप्रत्यभिज्ञाया- मेवोक्तम् । तस्मात् यदर्थक्रियाकारित्वात्सत्, तत्सर्वं शिवरूपम् । यदप्य- त्यन्तासत्त्वेनाभिमतं३ शशशृङ्गादि तत्रार्थे वर्तमानस्य सर्वथैवाभाव४- वाचित्वेन मतस्य शब्दस्य विभक्त्या योगो न स्यात् । शशशृङ्गं ज्ञायतेऽ- भिधीयते चेति कारकाश्रितत्वाद्विभक्तीनामसत्त्वच कारकत्वायोगात् क्रियानिमित्तत्वात्कारकस्य । तस्मात् तत्रापि भक्तियोगेन कारकत्वे सति सत्तैव शिवताख्या । वस्तुतश्च५ घटोऽर्थक्रियामुदकाहरणादिकां करोति इति योऽयमवबोधः, स एव तथास्वरूपो न तु ततः पृथग्भूतो घटादिस्तथाकारी सिद्धयतीति प्रत्यभिज्ञायामेव 'हिमालयो६ नामास्ति' इति विचारे दर्शितम् । अभावोऽपि ज्ञायमानो बोधात्मैव तदात्मकत्वाच्च विश्वरूप एव । तस्मान्नास्त्यभावात्मकमशिवरूपं क्वचिदपि विश्वमध्ये ॥ १ तत्तद्विभिन्नसंवित्स्रोतसामेकसंमिश्रीकरणात्मकमेकप्रमातृत्वं विना संविन्निष्ठा विषयव्यवस्थितय इति हि तावदागमेषु भण्यते, तद्विन्नभिन्न- पदार्थानुस्यूतैकाभासात्मकाक्रमसंविद्विश्रान्तिं विना न कथंचनाप्युपपद्यते- यदुक्तमीश्वरप्रत्यभिज्ञायां-- 'तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि । प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥ देशकालक्रमजुषामर्थानां स्वसमापिनाम् । सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ॥' इति । २ अभावत्वेन मतस्य । ३ त्रिकालासत्त्वेन । ४ तेनात्र न सर्वथा- भाववत्त्वमित्यर्थः, अपि तु व्यवहारानुपयोग इत्यर्थः । ५ ननु च शशशृङ्गं ज्ञायतेऽभिधीयते इति कथं क्रियायोगोऽत्र प्रातिपदिकमात्रे हि विधिरयम् । नहि कर्मादिकारकयोगोऽत्र संभवतीति, व्यवहारश्च कर्मादिकारकाधीन एवेति कथं क्रियानिमित्तत्वमित्याशङ्क्य व्यवहारे च यद्रूपावरूपाणां कार- काणां बीजभूतं तत्त्वं तत्समर्थयति येन भावाभावरूपं सर्वं समानमेवाध्व- वसीयत इत्याह वस्तुतश्चेति । ६ अत्र हि क्रियास्वरूपं साध्यमित्यर्थः ।

१२२ शिवदृष्टिः [ आ०-४ इतोऽपि१ सर्वशिवता सत उत्पत्तियोगतः ॥ ३३ ॥ स एवास्ते पुरा२ तादृक्शक्तिरूपस्वरूपकः । स३एव कार्यरूपेण भगवानवकल्पते ॥ ३४ ॥ इतोऽपि हेतोः सर्वशिवता यस्मादुत्पत्तिमद्भावजातं सदेवोत्पद्यते तत्स्वभावस्य कार्यात्मनः प्रागपि विरुद्धासत्तासंस्पर्शायोगात् । तदेव च प्रागपि सदङ्कुररूपं स्यात्, यदि सत्तासत्तत्त्वोऽङ्कुरः शक्तिरूपः पूर्वमास्ते पुनरङ्कुरात्मककार्यरूपेण भवति ॥ ३४ ॥ सत्कार्यं४ नोपपन्नं चेत्सतः किं करणेन यत् । अभिव्यक्तिरथास्यात्र क्रियते सापि किं सती ॥ ३५ ॥ १ तदेवं परमेश्वरस्य विश्वशक्तिमयत्वेऽपि स्थूलैक्षया सूक्ष्मसमीक्षया महासामान्यनयेन विश्वस्य तन्मयत्वे सिद्धेऽपीति न किंचनाप्यत्र प्रक्षेप्यत्वा- पकर्षणीयाभावात्साधनस्य प्रयोजनम् । अथ च व्यवहारमात्रं साध्य- मित्यानुषङ्गिकप्रयोजने वाद्यन्तरविमतिनिराकरणरूपेण मुख्यप्रयोजने च तत्स्वरूपसत्तात्मकं चिन्निवृत्तिशक्तिद्वयं सर्वाक्षेपकत्वेनाधिकरणसिद्धान्त- नीत्या समर्थितमेव । तत्र चिच्छक्तिस्फारोन्मेषस्वभावज्ञानशक्त्या तावदद्वय- वादः समर्थितः । अथेदानीं तत्स्वातन्त्र्यस्फारोन्मेषस्वभावक्रियाशक्त्यापि तदद्वयं समर्थयितुं कर्तृकर्मभावोन्मोलनार्थं सत्कार्यवादमाश्रित्य तावद्ब्रूत इतो- ऽपीत्यादि । २ ननु यदसत्तदसद्युक्तेतिनयेनास्तु तावत्सत् एवोत्पत्तियोगः । परंत्वियद्वक्तव्यं कथं ते तत्रावस्थाः, कार्यावस्थायाः प्राक् कर्तृवस्थायाम- पीत्यत आह पुरेत्यादि । ३ ननु चास्तु सत एवोत्पत्तिः कारणावस्थायामपि तस्य तादृगवस्थानाभिमननात् । इयत्तु विचिन्त्यं सतोऽप्यसत एवोत्पत्तिरिति । तथाहि यथा घटोत्पत्तौ यावत्स्वरूपेणावतिष्ठते तावन्न कार्योत्पत्तिः । तत्र तु कार्यं सदस्त्वसद्वा नास्त्यत्र विमतिः, मृदादीनां स्वरूपनाशे सति घटोत्पत्तिः संभाव्यते नान्यथा तथा विश्वरूपकार्योत्पत्तौ तस्य विप्रलोप आयात इत्यसत्कार्यवादसिद्धि रन्यथापि सिद्धयतीति किमत्र शरणमित्यत आह स एवेत्यादि । अथ भावः-यदि कार्यकारणभावः स्यात्तदा भवेदङ्क- वद्युक्तेः संभवः, इह कर्तृकर्मभावः, स तु यथाज्ञाततत्तच्छास्त्रार्थान्तर्गर्भीकृत- समस्तशास्त्रसन्दर्भः वहिर्भावेऽपि स्वरूपेणावतिष्ठते तथेहापीत्यर्थः । ४ अथेदानीं सत्कार्यवादं कर्तृकर्मभावेन सम्यगाकलय्य स्वयूथ्यानां सम्य- ग्वबोधार्थं प्रतिवादिविमतिनिरासकथनपूर्वं प्रतिवाद्याक्षेपेण युक्तिसमर्थनेन

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२३ क्रियते ह्यसती वाथ सत्याः १ किं नोपलब्धता । व्यक्त्य २ भावादानन्त्यमसत्या ३ हानिसंभवः ॥ ३६ ॥ स्वयमेवाश्रिते ४ पक्षे तद्वद्वा वस्त्वसद्भवेत् । अथ यदि सद्रूपं कार्यं नोपपन्नं सतः ५ करणं विफलं यस्मात् । अथ ६ सतः स्वरूपं न क्रियते अपि तु तस्याभिव्यक्तिस्तदपि न युक्तं, यतः सापि किं सती क्रियेत अथा सती ? तत्र सती चेदभिव्यक्तिस्तत् किं क्रियते किमिति कार्यस्य नोपलब्धता । अथ सत्त्वेऽपि अभिव्यक्तेरभिव्यक्त्यभावात् कार्यं नोपलब्धम्, तदभिव्यक्तेरपि अभिव्यक्तिः ७ क्रियते इति तत्रापि पूर्वोक्ता- त्पातादानन्त्यमनवस्था, ततश्च ८ प्रकृतकार्यदर्शनानिवृत्तिः । अथासती ३ क्रियतेऽभिव्यक्तिस्तदसत्याः करणे स्वयमाश्रितपक्षहानिप्रसङ्गः १० । अनवस्था- परिहारार्थं वा अभिव्यक्तावसत्करणाश्रयणेऽभिव्यक्तिवत् ११ वस्त्वपि अङ्कुरादिकमसदेव सत्कार्यमस्तु किमर्धजरतीयेन ॥ ३६ ॥ नैवं यस्मात्तां १२ विहाय सर्वत्रान्यत्र सत्क्रिया ॥ ३७ ॥


स्वमतं साधयति सत्कार्यमित्यादिना । १ अभिव्यक्त्याः । २ व्यक्तेः सत्या अपि अव्यक्तभावादसत्यत्वमिति । ३ अतोऽभिव्यक्तेः पूर्वं सद्वा अस्त्वसद्वा, तत्र न फुटमस्य कार्यत्वं, व्यक्तौ हि कार्यत्वं, तस्यां चासत्यां सत्कार्य- वादोऽनुपपन्न इत्यर्थः । ४ यदुक्तं तदभिव्यक्तेरप्यभिव्यक्तिरिति तु न स्वयं त्वभिव्यक्तिः सत्यैवेति । ५ अनुपपन्नतामेव दर्शयति । ६ यतो विफलतादोषप्रसङ्गः । ७ इत्यभिव्यक्तिरुपलब्धतां करोति । ८ ननु कार्य- सिद्ध्यर्थमस्त्वनवस्था, नेत्याह ततश्चेति । 'एवमप्यनवस्था स्याद्या मूलक्षतिकारिणी ।' इत्युक्तम् । ९ कार्यं तु सदेव । १० एकत्र सदन्यत्रासदिति हानिः, सा च न सर्वथा भाव एवेत्यर्थः । ११ ननु च-- 'वस्तुनिर्णयशून्याभिर्बोधिताभिः परस्परम् । अभिमानैकसाराभिर्जिह्री मस्तर्कबुद्धिभिः ॥' इति न्यायाश्रयेण स्वानुभवदृढप्रमाणरक्षिते सत्कार्यत्वे सिद्धे तर्कदोष- माश्रयतो न कदाचनापि दोधूयमानस्यावलम्बः स्यादिति प्रौढोक्त्याभि- व्यक्तावस्त्वसत्कार्यत्वमित्यत आहाभिव्यक्तिवदिति । १२ तामभिव्यक्तिम् ।

१२४ शिवदृष्टिः [ आ०-४ इत्यभ्युपगमोऽस्माकं नैकेनान्यत्र¹ तुल्यता । कल्प्या² वैशेषिकाणां हि कर्तृत्वेश्वरे स्थिता ॥ ३८ ॥ तद्वन्न किं पृथिव्यादेर्बौद्धे³ ज्ञानमवस्थितम् । स्वान्यप्रकाशकं नान्यत्तद्वदन्यत्र किं भवेत् ॥ ३९ ॥ बाह्यं रूपादि जल्पन्ति प्रमाणं चोदनैव ते । नियमाद्धर्मविषये तस्मान्नैकेन तुल्यता ॥ ४० ॥ बहूनां कल्पनीयान्न⁴ च वा व्यतिरेकतः । व्यक्तिः स्थिता पदार्थानां घटो व्यक्तोऽभिधीयते ॥ ४१ ॥ तस्मात्स एव व्यक्तात्मा न व्यक्तेर्व्यतिरिक्कता । त्वदुक्तमेव न युक्तं यस्मात् तामभिव्यक्तिं वर्जयित्वा अन्यत्सदेव कार्यमित्यस्माकं तावदभ्युपगमः । न हि सर्वत्र दर्शने सर्वैरेवार्थैस्तुल्यैर्भाव्यम् । तथाहि वैशेषिकेषु ईश्वर एव विश्वकर्ता, न तु पृथिव्यादि द्रव्यम् । बौद्ध- दर्शने ज्ञानमेव स्वपरप्रकाशकं, न रूपादि । ते जैमिनीया जल्पन्ति चोदनैव नियमेन धर्मविषये प्रमाणं- ‘चोदनालक्षणोऽर्थो धर्मः’ (मी० १।१।२) इति, न तु प्रत्यक्षादिकम् । तस्मात् बहूनामेकलक्षणानां प्रमाणानां प्रमेयाणां वा नैकेन भिन्नलक्षणाभिमतेनान्यस्यापि तुल्यतापादनदोष उद्भावनीयः । तेन सर्वेषामर्थानां सतामेव कार्यता । तथाप्यभिव्यक्तिरसत्यैव कार्या, यथा धर्मे न चोदनावदन्यान्यपि प्रमाणानि, यथा न ईश्वरद्रव्यवत् पृथिव्यादि- द्रव्यमपि विश्वकारणम् । उपपत्तिरपि च अत्रास्ति, नाभ्युपगममात्रम् । तथाभिव्यक्तिस्तावन्नार्थाद्व्यतिरेकेण स्थिता तथानुपलम्भात् । अभेदेनैव च व्यवहारः । तथा हि घटो व्यक्तोऽभिधीयते व्यक्तचभेदेन । तस्मात् पदार्थ एव व्यक्तात्मा । स च सन् क्रियते, न तु व्यक्तेर्व्यतिरिक्ताया असत्याः करणम् ॥ ४१ ॥ १ एकत्र यदसाधारणं लक्षणं, तदन्यत्र कल्प्यमानमनवस्थादोषदूषितं स्यात् । २ तथात्वेऽतिप्रसङ्गमाह । ३ बुद्धमते । ४ उपपत्तिरप्यत्रास्तीत्याह न चेति ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२५ दीपेन १ क्रियते व्यक्तिर्घटादेः सत एव वा ॥ ४२ ॥ यथा सतः क्रिया व्यक्ति २ र्व्यक्तेः सत्त्वे तथा कृतिः । एकेनापरतुल्यत्वान्न च वाऽसत उद्भवः ॥ ४३ ॥ किमाश्रित्य प्रवर्तन्ते तदभावस्वरूपतः । नैवैतदपूर्वम् । प्रदीपेन हि घटादेः सत एवाभिव्यक्तिः क्रियते इति पदार्थ एव क्रियते । ततश्च यथा सतो घटादेर्व्यक्तिसंज्ञा क्रिया तथा व्यक्तेरपि पदार्थरूपायाः सत्या एव प्रदीपादिना कृतिः, बीजादिना वा अङ्कुररूपाया इति सर्वत्र तुल्यः सत्कार्यवादः । यतः पदार्थेन सता कार्येण व्यक्तेरपि तदभिन्नायास्तुल्यत्वम् । व्यक्तिश्च प्रकाशमानता प्रकाशात्मता, अङ्कुरादेरनादिनिधनस्य ४ सत एव चित्प्रकाशस्य तेन तेन आत्मना १ तदेवं-- ‘.........न च वा व्यतिरेकत । व्यक्तिः स्थिता पदार्थानां......... ॥’ इत्युक्तम् । अथेदानीमनयोः सामानाधिकरण्यमेव साधयति दीपेनेति । ननु च यदि सन्नैव, तर्हि तस्याभिव्यक्तिर्नाम किम् । अथाभिव्यक्त्या स्वरूप- लाभस्तर्ह्यभिव्यक्तिरेवास्तु, कृतं सत्कार्यवादेनेत्यत आह दीपेनेति । २ तेन नात्र सत्त्वव्यक्त्योर्भिन्नमधिकरणं समानस्वरूपत्वात् । ३ इत्थं युक्त्या सत्कार्यवादं प्रसाध्येदानीमनुभवेनापि स्वमतेन साधयति न च वेत्यादि । ४ ननु च यदि सदैव कारणे कार्यं, तर्हि केयं व्यक्तिर्नामेत्यत आह व्यक्तिश्चेति । यतोऽत्र सर्वतत्त्वभुवनकलापदार्थतत्तदवान्तरभेदानुगतं महासामान्यरूपं यत्तदेवानादिनिधनं शिवत्वं नाम चित्स्वरूपत्वं, तत्र कार्यरूपतयावस्थानं न किंचित् कारणरूपतयैवावस्थानात् । परंतु यदा तत्रैव विशेषानुगमेनापरसामान्यमिव कल्पितं रूपं तत्कार्यमित्युच्यते, ततश्च कथं कुत्रासत्कार्यत्वमिति सूक्ष्मोऽयं नय इत्याह अनादिनिधनस्येति, तेन तेनेत्यादि च । अनयोर्वास्तवभेदमेव कथयितुमीश्वरप्रत्यभिज्ञायामपि- ‘या चैषा प्रतिभा तत्तत्पदार्थक्रमरूपिता । अक्रमान्तश्चिद्रूपः प्रमाता स महेश्वरः ॥’ ( १।७।१ ) इत्युक्तम् ।

३२६ शिवदृष्टिः [ आ०-४ अवस्थानमित्यभिव्यक्तिवादिना सत्कार्यवाद उक्तो भवति । यदि१ चासतः कार्यस्योत्पत्तिस्तदा कारकाणि किमाश्रित्य किमुद्दिश्य प्रवर्त्तन्ते व्याप्रीयन्ते, कार्यकारणभावस्य२ क्रियाकारक संबन्धमानत्वेन ईश्वरप्रत्यभिज्ञायां प्रवर्त्तनं पाकाद्यारम्भे रूपमिव चोदितम् । अथवा३ किमुद्दिश्य प्रवर्त्तन्ते कस्मिन्विषये तेषां सामर्थ्यं, विषयाभावे सामर्थ्यस्यानुपपत्तेर्विषयसापेक्ष रूपत्वात् तस्य४, विषयस्य च कार्यस्य तदानीमभावस्वरूपत्वात्५ ॥ ४३ ॥ घटान्तरं६ पूर्वदृष्टमाकलय्याथ चेष्टनम् ॥ ४४ ॥ अन्येनान्यस्य कलनासम्भवादतिचित्रता । अथ कारकाणां चेष्टनं व्यापारः सामर्थ्यं वा पूर्वोत्पन्नदृष्टाङ्कुर- कलनेन, तद्युक्तं७ बीजादीनामचेतनत्वेनाकलन भावात् । यत्रापि सचेतनं १ ननु चास्तु महासामान्यकल्पमनादिनिधनं शिवतत्त्वं नाम तथापि सत्यां मृदि घटो वह्न्याभासे धूमाभास इति यथा तथा बीजे सति अङ्कुरो जायते इत्येवं लोके कार्यकारणभावस्य दृष्टत्वात्कथं चिद्रूपस्य तत्र कारणता येन नासत उत्पत्तिरित्यत आह यदि चेति । २ अयं भावः--यदि च चिदनुसन्धानं विनापीदं पूर्वस्य सामर्थ्यं परस्य सत्तेत्यादि सिद्ध्यति, तदा भवेद्भवदुक्तेरवसरोऽसतः कार्योत्पादे । तत्तु न कथंचनापि स्वात्ममात्र- निष्ठानां परत्र विषयेऽनभिज्ञातमात्रालेशानामनुसंधानरहितानां जडाना- मुपपद्यते । एकानुसन्धानविषया हीयं सर्वापि कार्यकारणभावव्यवहार- सरणिरित्येतत्संक्षिप्याह कार्यकारणभावस्येत्यादि । ३ अर्थान्तरमाह अथेवेति । ४ तस्य सामर्थ्यस्य । ५ तदानीं व्यक्तेः प्राक् । ६ ननु किमिद- मुच्यते विषयस्य तदानीमसत्त्वात्कस्मिन्विषये तेषां सामर्थ्यमिति । यदि चेयन्मात्रमेवात्र साध्यं यत्पूर्वमपि सापेक्षत्वमिति, तदा सिद्धमेतत्, यतः पूर्वोत्पन्नमप्यङ्कुराद्यस्ति तत्सापेक्षत्वेन सर्वं सिद्ध्यतीत्याशङ्क्याह घटा- न्तरमित्यादि । ७ इदमत्र तात्पर्यम्--इदं हि वक्तव्यं किं कुम्भकारोऽपि घटकर्ता देहादिरूपः, उतस्वित्तद्व्यतिरिक्तः कश्चन चेतनोऽपि । यदि च देहादिर्जडरूपः, तदत्र वक्तव्यं बीजादिभ्योऽचेतनेभ्यः कोऽस्य विशेषः तेषामपि जडपक्षीकृतत्वादाकलनासंभवात् । अथ तद्व्यतिरिक्तश्चेतन- स्तथापि किमित्याह यत्रापि सचेतनमिति, किमायातमिति । नहि तस्य तत्कारणं संपन्नं येन सापेक्षत्वमपि तु अन्तः कुम्भकारसंविदि स्फुरन्नेव बहिर्निर्गच्छतीति ।

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता १२७ कुम्भकारादि कारणं, तत्रापि पूर्वं घटान्तरं यदि आकलितं स्यात्तदा कर्तव्यस्य घटान्तरस्य किमायातं येन तत्क्रियते, तदर्थस्य अतिचित्रता अनुपपद्यमानस्यापि भावादित्युपहासः ॥ ४४ ॥ अंकुरो१ जायत इति न भवेत्कारकात्मता ॥ ४५ ॥ असत्त्वे कारकाणां हि समूहो न भवेत्तदा । कर्माख्यस्य ह्यसत्यत्वात्तत्संबंधोऽसता कथम् ॥ ४६ ॥ तस्मात्स२ एव भगवान्स्वयमेव प्रकल्पते । तथा तथाभावरूपैः सन्नेव परमेश्वरः ॥ ४७ ॥ अङ्कुरो जायते बीजभूमावित्यत्रासतोऽङ्कुरस्य कारणता कर्तृता न स्यात्, घटं वा करोति कुम्भकारः इत्यसता कर्मणा कारकान्तराणां कर्तुर्वा कः संबन्धः, तत्कथं समूहः कारकाणां, ततः क्रिया नोत्पद्येत । तस्मा- च्चिद्रूपः परमेश्वरस्तथाभावस्वरूपैः स्वयमेव प्रकल्पते भवति । स च नित्यमेव सन्निति कथमसत्कार्यताशङ्का ॥ ४७ ॥ स्वयं३ च न प्रजायेत केनाप्येन प्रजन्यते । व्यतिरिक्तेन कर्त्राद्या यदि स्युस्ते तदात्मकाः ॥ ४८ ॥ तत्तस्य जन्मिता युक्ता व्यतिरिक्तैः कथं भवेत् । १ अथ च अनेककारकसाध्यं हि कार्यं, ततश्चैकस्याभावेऽपि किं सर्वेऽपि असत्कल्पाः स्युः, तथाहि अङ्कुरो जायते कर्मणोऽ- भावेऽपि कारणमस्त्येव, तथा घटं करोति कुंभकार इत्यत्र कर्तृकरणकर्मा- धिकरणाद्यनेककारकसन्वये कर्माभावमात्रे किं न सिद्धिरमीषामिति पूर्वपक्षमाशये कृत्वा कर्मण एवानेककारकसन्वयं दर्शयति । कर्मणि सति सर्वमेवैतत्सिद्धयति, नान्यथेत्याशयेन कर्तृकर्मणोः सामानाधिकरण्य- दर्शनार्थमङ्कुर इत्यादि । २ यतो न कथंचनापि जडस्य कारणता येनासतोऽपि कार्यस्योत्पत्तिः स्यात्तदेतद्यत्नसिद्धमित्याह तस्मादिति । ३ असत्त्वाच्च स्वयं यदि न जायते इति यदि भवद्भिः कथ्यते, न हि स्वयमसन् शशशृङ्गा- दिरन्येन जनयितुं शक्त इत्यर्थसंक्षेपः । ननु चैतदेव कारणस्य कार्याद्वैशिष्ट्यं यदन्यजननं, तदभावे कथं कारणमिति व्यपदिश्यत इत्याशङ्क्याह स्वयं चेत्यादि ।