भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

२२ सिद्धान्तरहस्यम् । एवं प्रतिज्ञाय तद्विषयं निरूपयन्ति ब्रह्मसम्बन्धकरणादिति । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः मताः ॥ २ ॥ दोषनिवृत्त्युपायालाभेन हि चिन्ता सा तु न कर्तव्या, कुतः, हि यस्माद्देहजीवयो- रुभयोः सम्बन्धिनां सर्वेषां ब्रह्मणः श्रीपुरुषोत्तमस्य सम्बन्धकरणात्सर्वस्वसमर्पणेन तदी- यत्वसम्पादनात्सर्वदोषनिवृत्तिर्भविष्यतीति शेषः । तथा च प्रथमं शरणं प्रविश्य सर्व- समर्पणं कारणीयम्, अनन्तरं सेवाङ्गीकर्तव्या इति सूचितम् । तथा सति सेवाभ्यासेन समर्पणानुसन्धानेन च क्रमशः सर्वत्र स्वाध्यासनिवृत्त्या भगवत्सम्बन्धस्फुरणेन च सर्वदो- षनिवृत्तिर्भविष्यतीति भावः । कथमध्यासनिवृत्तिः, किम्प्रकारकं च तत्र तत्र भगवत्सम्ब- न्धभानम्, एतज्ज्ञापनाय दोषान् गणयन्ति दोषाः पञ्चविधा मता इति। मताः सर्वशा- स्त्रेष्वित्यर्थः । अग्रे च पञ्चविधत्वे प्रमाणमेव लोकवेदनिरूपिता इति कथयन्ति । दोषा हि अविद्याजन्याः । सा च पञ्चपर्वात्मिका तत्संख्याका एवोक्ताः । यद्यपि ते बहवः, परन्तु तेष्वेवान्तर्भूता इति । अत एवाग्रे प्रत्येकं बहुवचनमुच्यते ॥ २ ॥ सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ तथा हि सहजा इति । नात्र क्रमो विवक्षितः । सहजा इति प्राणाध्यासजा उक्ताः । जातमात्रस्यैव प्राणपोषणप्रवृत्तेः प्राणाध्यासस्य सहजत्वम् । देशोत्था इति देहाध्यासजाः । तद्गतामेव तत्तद्देशगमने दोषसम्भवात् । कालोत्था इति स्वरूपविस्मृतिजन्याः । कालेनैव तत्सम्भवात् । संयोगजा इत्यन्तःकरणाध्यासजन्याः, तत्रैवेतरसंयोगे भगवद्बहिर्मुख्यस्वधर्म- भगवद्धर्मज्ञानसम्भवात् । स्पर्शजा इति मात्रास्पर्शजन्याः । तथा चेन्द्रियाध्यासजा उक्ताः । ते ब्रह्मसम्बन्धेन निवर्तिष्यन्त इत्यङ्गीकारे प्रतिबन्धकत्वेन न मन्तव्याः कथञ्चनापि । तत्प्रकारश्च एकादश्यादिपदसमभिव्याहारात्तात्पर्यGeneric: तात्पर्य निरूपणेनोक्तः । अत एव ब्रह्मसम्बन्ध- करणे पूर्वं स्वरूपस्मृतिस्ततो देहादीनां तद्धर्माणां तत्सम्बन्धिनां च भगवति तत्समर्पणेन तदीयत्वेन स्थितिरेव सम्पाद्यते । निर्दुष्टपदार्थसम्बन्धे निर्दोषताभिप्रायेण । लोकवेद- निरूपिता इति सर्वत्र प्रमाणकथनम् ॥ ३ ॥ यद्येवं प्रमेयबलमाश्रित्य दोषनिवृत्तेर्नाङ्गीकारः, तदा कालत्रयेपि न दोषनिवृत्ति- रित्याहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन ॥ असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ अन्यथेति प्रमाणबलेन । अन्यत्स्पष्टम् । एवं भगवत्सम्बन्धिनामेव निर्दुष्टत्वम्, तद्व्य- तिरिक्तानां तु सदोषत्वमेवेति निरूपितम् । अतो ब्रह्मसम्बन्धानन्तरं पुनस्तदतिरिक्त-

श्रीगोकुलोत्सवकृतविवृतिसमेतम् । २३ संसर्गे कुञ्जरशौचमिव सर्वं भवतीति तदनन्तरं तन्निषेधमाहुः असमर्पितेति । यतो ह्यसमर्पितानां न दोषनिवृत्तिर्ब्रह्मसम्बन्धाभावात्तस्माद्धेतोस्तेषां तत्सम्बन्धिपदार्थानां वर्जनमाचरेत्, संसर्गं न कुर्यादित्यर्थः । नन्वत्र सर्वथा भगवदीयतत्सम्बन्धिपदार्थातिरिक्त- संसर्गो निवार्यते । आत्मना सहैव समर्पितानामपि दारादीनां आनुकूल्ये न संसर्गदोषः, प्रातिकूल्ये तु ‘गृहं त्यजे’दित्यपि निरूपितं निबन्धे । तथा सति लौकिकेऽपत्यसम्बन्धादौ वैदिकेऽकरणप्रत्यवायजनकवर्णाश्रमविहितयाग- ऋत्विग्वरणदानप्रतिग्रहादिषु असमर्पितात्मनां प्रत्युत गृहाद्यासक्तानां शुष्ककर्मजडानां संसर्गे का गतिरिति चेत्तत्राहुः । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ निवेदिभिरिति । निवेदिभिरिति सहार्थे तृतीया । समर्प्यैवेत्येवकारोऽन्ययोगव्यव- च्छेदकः । तथा सति समर्प्यैव करणात् सर्वस्वं समर्प्यैव समर्पणानन्तरमेव तदुत्तरक्षणस्या- सुरत्वात्तत्प्रवेशव्यतिरेकेणैव तत्क्षणमारभ्यैव निवेदिभिः समर्पितसर्वस्वैर्भगवदीयैः सह सर्व- लौकिकमपत्यसम्बन्धादिकं वैदिकं यागादि कुर्यात्, न तु तादृशकर्मजडैरित्यर्थः । एतेन समर्प- णोत्तरक्षणस्यासुरत्वात्तत्प्रवेशात्प्रागारभ्यैव नित्यं भगवदीयं सङ्गमेव कुर्यात् । अन्यथा तदै- वासूरप्रवेशः स्यादिति सूचितम् । एतदेव नवरत्नविवरणे स्फुटीकृतं प्रभुचरणैः । ‘निवेदनं तु स्मर्तव्य’मित्यत्र । अत एव श्रीमदाचार्यवंश्यानां नान्यमार्गीयप्रतिग्रहाङ्गीकारः । एतेन समर्पणक्षणमारभ्य भगवदीयैरेवापत्यसम्बन्धः, तादृशानामेव यागादौ वरणं दानप्रतिग्रहौ चेति भगवदीयधर्म इति निरूपितम् । किञ्च । भगवदिच्छां विना भक्तस्य न किञ्चित्कर्मकरण- मिति नवरत्ने भक्तिहंसे च निरूपितमित्यनायासतादृशसामग्रीसम्पत्तिरेव भगवदिच्छासूचि- केति तावत्तयैव साक्षिवत्पश्यतो न कोपि दोषप्रसङ्गावसरगन्धोपीति भावः । तदुक्तं ‘साक्षिणो भवताखिला’ इति नवरत्ने । इदमपि कर्माग्रहित्वानुरोधादुक्तम् । वस्तुतस्त्वस्मि- न्मार्गे इतरसंमेलननिषेधात्सा शङ्कैव नेत्यलम् । कुर्यादित्यत्र तु कर्तृपदं स्पष्टम् । एतद्ग्रन्थस्य शरणागतं प्रति शिक्षारूपत्वेन शिष्यस्य जागरूकत्वात् । इयं निवेदिनो मर्यादास्तीत्याहुः स्थितिरिति । ननु भगवदीयस्य सर्वथान्यसंसर्गनिषेधाद्वर्णाश्रमविषयककार्यमानेषु च तादृशानामतिदुर्लभत्वात्तथाग्रहस्य च भगवति महाभारप्रदत्वेनास्वधर्मत्वात्तत्तत्कार्यमात्राणां चावश्यकत्वात्तत्तन्निर्वाहार्थमस्तु स्वमात्रसमर्पणम्, किं दारादीनां साहित्येनेति चेत्, तत्राहुः । न मतमिति । सामिसमर्पणं भुक्तसमर्पणं च देवदेवस्य न मतम् । सामिसमर्पणतुल्यत्वज्ञापनाय समस्तं पदम् । एतेन सामिभुक्तदोषपरिहारार्थमेव स्वसमर्पणे दारादीनां साहित्यम् । तेषां साक्षात्सेवाधिकारस्तु पृथक्समर्पणेनैव भविष्यतीति सूचितम् । एतदेवोक्तं नवरत्नविवरणे । ‘कस्यचिद्विशेषोऽङ्गीकारश्चेत्, सा पुष्टि’रिति । पुष्टिर्नाम च साक्षात्सेवाधिकाररूपोऽनुग्रहः ।

२४ सिद्धान्तरहस्यम् । एवं सति सर्वं समर्प्य कार्यमात्रे भगवदिच्छैव नियामिकेति निश्चित्य नान्यसंसर्गं कुर्यादिति वाक्यादेतद्द्वारस्य प्रभुनैवाङ्गीकृतत्वादेतदपेक्षया सामिभुक्तसमर्पणस्य जघन्यतरप्रतीतेश्च । ननु भुक्तसमर्पणनिषेधे पूर्वं दारादिभिरुपभुक्तस्य देहादेरपि समर्पणमनुपपन्नमिति चेत् । न । आकस्मिकनिजदोषस्फूर्त्या पश्चात्तापपर्याकुलस्यापराधप्रतीकारमपश्यतः शरणान्तरमलभमा- नस्य समस्तसाधनपरित्यागपूर्वकं महापुरुषद्वारा भगवदेकशरणं प्रविष्टस्य भगवदिच्छया च महापुरुषेण करुणया तदेकशरणं प्रवेश्य कृतात्मनिवेदिनो दीनवत्सलेन भगवता स्वभक्त- पक्षपातेन कृपयाङ्गीकृतस्य ब्रह्मसम्बन्धमात्रेण वस्तुस्वभावान्निर्दग्धनिखिलकल्मषस्य वह्नि- सम्बन्धेन सुवर्णस्येव निर्दुष्टत्वात् । तथा चोक्तं गीतायां ‘सर्वधर्मान्परित्यज्ये’ति । श्रीभागवतेपि ‘स्वयं समुत्तीर्ये’ति । न चैवं जडत्वसामान्यात्करुणास्पदत्वादिधर्मासम्भवा- द्देहादेरपि कथमङ्गीकार इति वाच्यम् । चेतनाध्यस्तत्वात्तस्य । अत एव शवशरीरस्य शर- णागमनं न वा करुणास्पदत्वादि सम्भवति । किञ्च । जीवोद्धारार्थं हि कृपया श्रीमदाचार्येभ्य एतन्मार्गमादिष्टवान् भगवान् । तथा च जीवस्य यत्र यत्र स्वाध्यासेन संग्राह्यत्वबुद्धिः, तत्र तत्र प्रभुसमर्पणे कृते स्वसम्बन्धसम्पादनेन तदध्यासनिवृत्तिं विधाय तमुद्धरति । भुक्तशेषे तु जीवस्यैव हेयत्वबुद्धेः कुतस्तदा देवदेवसमर्पणावकाशः । निषेधवाक्यं तु प्रमादतस्तथा- करणेऽवधानप्रतिपादकं सामिसमर्पणस्य च तत्तुल्यताप्रतिपादकमिति ध्येयम् । अपरञ्च । साधनदशायां हि दासधर्मस्वरूपनिरूपणमेतत् । वस्तुतस्तु केवलं पुष्टिमार्गे भावाधीनो भगवान्, यथा भावे तदप्यङ्गीकरोति । यथा वनभोजनलीलायां ‘सर्वे मिथो दर्शयन्त’ इति । यथा वा फलप्रकरणे ‘खैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धव’ इत्यत्र ‘तत्रोपविष्टो भगवान्’ इत्यत्रः श्रीमदाचार्यैः प्रपञ्चितमिति सर्वमनवद्यम् । एतेन सामिसमर्प- णस्य बलवद्दोषवत्त्वं निरूपितम् । अनन्यत्वभङ्गप्रसङ्गेन भगवदनङ्गीकारेण तथाभावप्रति- बन्धकत्वात् । अत एवाभ्यर्हितत्वेन पूर्वनिपातः । तथा चात्मना सह स्वसम्बन्धिसर्वमेव समर्पणीयम्, न त्वात्ममात्रम् । ततश्च भगवदीयैरेव सर्वव्यवहारकत्वम् न त्वन्यैरिति सिद्धम् । एवमेव ह्यग्रेपि यावज्जीवं भगवत्प्राप्तेषु तत्तल्लौकिकवैदिकनिमित्तेष्वपि निर्मितानां पदार्थानां ‘उच्छिष्टभोजिनो दासा’ इति दासधर्मत्वाद्भगवते समर्पणं विधाय पश्चात्तदुपयोगं कुर्यादित्यर्थः । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् । तस्मादिति । अयं भावः । सामिसमर्पणानङ्गीकारादात्मना सह सर्वस्वं भगवते सम- र्पितमनन्तरं च तत्तत्कार्ये प्राप्ते तत्तद्द्रव्यादिना तत्तत्सामग्रीं सम्पाद्यादौ भगवत एव समर्पयेत् । तद्द्रव्यनिर्मितपदार्थानां तद्योग्यत्वात् । ततश्च तत्र विनियोगे जाते तद्दत्तमहाप्रसादत्वेन

श्रीहरिरायकृतविवृतिसमेतम् । २५ तदुपभुक्तवासोलङ्कारादिभिर्भगवदिच्छाप्राप्तत्वात्तत्तत्कार्यं विधेयम् । न तु स्वातन्त्र्येणानर्प- यित्वेति हृदयम्। तथा साक्षादलौकिकरसात्मकत्वेन प्रभूपभुक्तत्वेन तद्दत्तमहाप्रसादत्वेनैव तत्पदार्थैस्तावन्मात्रका सेवोपयोगित्वाद्देहादिवृत्तिरपि कर्तव्या । न तु भोगत्वेन । 'उच्छिष्ट- भोजिनो दासा' इति दासधर्मत्वात् । अन्यथा मार्गस्थितेरुच्छेदादन्यमार्गप्रवेशात्तत्र च भगवन्नैवेद्यग्रहणे दोषश्रवणाद्दोषभागभवतीत्याहुः दत्तेति । इदं वचनं भिन्नमार्गपरं सम्मतम् । दत्तं पुनः स्वोपभोगाय न ग्राह्यम्, तथा हरेः सम्बन्धि किमपि न ग्राह्यमिति यद्वाक्यं तद्भ- क्तिमार्गातिरिक्तमार्गपरमित्यर्थः । भगवति निवेदनाभावान्निवेदितपदार्थानां भगवदुपभोगे जाते महाप्रसादस्यात्मशोधकत्वेनावश्यं ग्राह्यत्वप्रतिपादनाच्च । उपसंहरन्ति सेवकानामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥ गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ९ ॥ समर्प्यैव समर्पणोत्तरक्षणमारभ्य सेवकानां दासानां यथा लोके व्यवहारः प्रसिद्धो वर्तते, तथैव व्यवहारो विधेयः । स च स्वकायदेहादिपर्यन्तपदार्थेषु स्वाम्यधीनत्वभावनया तस्मिन्नेव यथासम्भवं सर्वं विनियुज्य उच्छिष्टमात्रं भुञ्जतः सेवापरतया स्थितिः । एवं सेवतो लोकेपि दासस्य देहावसाने उत्तमत्वं सिध्यति । नारदस्येव । तथा ब्रह्मसम्बन्ध- करणमारभ्य भगवति सर्वं विनियुज्य सेवतो देहादिषु भगवदीयत्वभावनया सर्वत्र भगव- दावेशाद्ब्रह्मता सिध्यति । ततश्च गङ्गात्वमिति । यथा गङ्गायां निविष्टानां जलानां गङ्गात्वमेव, न तु तद्गतकरतोयादिविलम्बनादिपूर्वदोषनिरूपणमपि । तद्वदस्यापि । यद्यपि कामादयो दोषरूपाः, तथापि भगवदीयस्य भगवत्येव कामः, तत्प्रतिपक्षेषु क्रोधः, एवं यथायथं भगवत्सम्बन्धे ब्रह्मतैव सेत्स्यतीति व्यर्थैव दोषनिवृत्तिप्रतीक्षेति हृदयम् । श्रीमदाचार्यपादाम्बुजमधुमाध्वीवशादहम् । प्रालपं साधुभिर्भाव्यं विशोध्यं साध्वसाधु वा ॥ १ ॥ इति श्रीसिद्धान्तरहस्यविवृतिः समाप्ता । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीहरिरायोदिता सिद्धान्तरहस्यविवृतिः । अथ श्रीवल्लभाचार्यचरणाविष्टचेतसा । कारिकाभिः स्वसिद्धान्तरहस्यार्थो विविच्यते ॥ १ ॥ स्वरूपेण समुद्धारस्तथा भक्त्यापि चैव हि । व्यवस्था तत्र मन्तव्यावतारानवतारतः ॥ २ ॥ अवतारे त्रिधा रूपमवतीर्णं तथा रसः । पूर्वस्तथा मूलरूपं तत्पारोक्ष्यं हि सर्वथा ॥ ३ ॥ सि. र. ४

२६ सिद्धान्तरहस्यम् । वैकुण्ठगमनान्नित्यमेवस्थानस्थितेरपि । लीलावशिष्टरूपेण हृदयैकप्रवेशतः ॥ ४ ॥ इदानीन्तनजीवानामुद्धृतिस्तु कथं भवेत् । विचार्य कृपया कृष्णो भक्त्याविष्करणोद्यतः ॥ ५ ॥ पुष्टिप्रवाहमर्यादाभेदैः सो त्रिविधा मता । मध्या श्रुतिपुराणेषु सर्वत्र विनिरूपिता ॥ ६ ॥ द्वयोर्निरूपणार्थं हि श्रीभागवतसम्भवः । व्यासावतारोपि हरेरेतदर्थक एव हि ॥ ७ ॥ तत्र मार्यादिकी भक्तिः श्रीभागवतमार्गतः । तदुक्तसाधनैरेव सिद्धा भवति सर्वथा ॥ ८ ॥ पुष्टिस्त्वनुग्रहात्मा हि साधनैर्न भवेदिति । ज्ञापयित्वा भागवते दानाय जगतीतले ॥ ९ ॥ भक्तिभावात्मकं स्वास्यं स्वयमाविश्चकार हि । तत्सम्बन्धेन सर्वेषां मूर्तिमद्भक्तियोगतः ॥ १० ॥ भविता भावसम्बन्धस्ततः पुष्टिः फलिष्यति । विना द्वारं हि जीवानां तत्सम्बन्धोपि दुर्लभः ॥ ११ ॥ स्वरूपाज्ञानतः पूर्वं तदर्थं भगवान्हरिः । मार्गं प्रकाशयन्नाविर्भूतः कालेपि तादृशे ॥ १२ ॥ फलमाचार्यसम्बन्धात्तत्सम्बन्धो हि मार्गतः । अदेयदानदक्षश्चेत्यतो नाम विराजते ॥ १३ ॥ मार्गेण प्रथमं पुष्टिः सम्बन्धवरणात्मिका । मध्ये वेदोक्तमर्यादायुतभक्तिस्थितौ स्थितिः ॥ १४ ॥ अपाषण्डित्वसिद्धयर्थं भगवत्तोषणाय च । फलपुष्टेर्योग्यतायै फलं कृष्णेन नान्यथा ॥ १५ ॥ निःसाधनत्वभङ्गः स्याद्यदि स्यात्साधनैः फलम् । एतादृङ्मार्गबोधाय प्राकट्ये तादृशो मतः ॥ १६ ॥ कालो हरेः कृपापूर्णनिःसाधनफलात्मनः । श्रावणः पुष्टिमार्गीयश्चातुर्मास्यगतत्वतः ॥ १७ ॥ विष्णुसम्बन्धिसम्बन्धात्सम्बन्धरूपयापको मतः । बोध्यते तेन पुष्टिर्हि प्रथमं वरणात्मिका ॥ १८ ॥ मर्यादाबोधनार्थाय पक्षः प्रोक्तोऽमलस्तथा । भक्तिमार्गीयमर्यादाबोधिकैकादशी मता ॥ १९ ॥ प्राकट्यकालः पूर्णस्य हरेः प्रोक्ता महानिशा । निःसाधनजनोद्धृत्यै फलदानाय भूतले ॥ २० ॥ फलसामयिकी पुष्टिस्तेनात्र विनिरूपिता । एवंविधे हरिः काले प्रादुर्भूय निजेच्छया ॥ २१ ॥ ब्रह्मसम्बन्धमारभ्य सर्वं मार्गं स्वयं जगौ । न भक्तैर्नावतारेण न स्वमप्रेरकेण च ॥ २२ ॥ न पूर्वरसरूपेण मूलरूपेण वै हरिः । उक्तवानिति बोधाय साक्षात्पदमिहोदितम् ॥ २३ ॥ सर्वलीलाविशिष्टत्वबोधाय भगवत्पदम् । साभिप्रायत्वबोधाय कथने प्रपदं मतम् ॥ २४ ॥ यदुक्तं हरिणा तद्धि प्रत्यक्षरमिहोच्यते । ब्रह्मसम्बन्धकरणादित्यादि भगवद्वचः ॥ २५ ॥ आदौ सम्बन्धकरणं कन्ययेव स्वयम्बरे । स्वस्य सर्वपदार्थानां मनसा तेन योजनम् ॥ २६ ॥ सम्बन्धवत्या दूत्येव गुरुणा तत्कृतिर्भवेत् । सम्बन्धश्चापि निर्दोषस्तथा सर्वसमः स्मृतः ॥ २७ ॥ वन्हेरेवेति बोधाय प्रोक्तं ब्रह्मपदं पुनः । 'निर्दोषं हि समं ब्रह्मे'त्यत्रोक्तं तत्तथाविधम् ॥ २८ ॥ स्यात्प्रयुक्ते कृष्णपदे विषमैत्वं गुणाहितिः । सम्बन्धे तादृशापेक्षा नास्ति दोषनिवारणात् ॥ २९ ॥ दोषमात्रनिवृत्त्यर्थं ब्रह्मसम्बन्ध उच्यते । गुणाधायकसम्बन्धः फलसामयिको मतः ॥ ३० ॥ तस्मिन्वाच्ये कृष्णपदं वाच्यं कृष्णः फलात्मकः । तत्सम्बन्धे स्वतःसिद्धे फलसंसिद्धिसंभवात् ॥ अपरा कृष्णसेवादिप्रकृतिर्वैयर्थ्यमाप्नुयात् । अतः साधनसम्बन्धो विवाह इव लौकिके ॥ ३२ ॥ तेन निर्दुष्टतासिद्धिविंधिनेव रतौ पुनः । ईदृक्सम्बन्धबोधाय प्रोक्तं ब्रह्मपदं पुरा ॥ ३३ ॥ विषमश्च हरिः कृष्णो न यायात्समतां यतः । हेतुसम्बन्धसम्बन्धात्कृष्णः साधनतां गतः ॥ ३४ ॥ १. नित्यलीलास्थानेति पाठः । २. सापि त्रिधेति पाठः । ३. विषयत्वम् । ४. हेतोरक्षरस्य सम्बन्धो यस्य कृष्णस्य तस्य सम्बन्धात् ।

श्रीहरिरायकृतविवृतिसमेतम् । २७ ब्रह्मेति प्रोच्यते सर्वसमत्वाददोषनिर्वृत्तेः । व्यापकत्वं च सम्बन्धे तेनैव विनिरूपितम् ॥३५॥ करणोक्त्या न मुख्योत्र भावित्वान्मानसी कृतिः । युक्तः प्रथमसम्बन्धो भावात्मा भावरूपिणा ॥ अग्रिमोपि तथोभूतः सर्वथा नात्र संशयः । विशेषः परमेतावान् प्रथमो मानसो मतः ॥३७॥ सर्वेन्द्रियैस्तथा चान्तःकरणैरात्मनापि हि । साक्षात्स्वरूपसम्बन्धो द्वितीय इति निश्चयः ॥३८॥ परं तत्रेन्द्रियादीनां कृत्यादीनां च सर्वथा । भावात्मकत्वं मन्तव्यं तादृग्रूपानुभूतितः ॥३९॥ अप्राकृतत्वं चैतद्धि बोध्यं स्यादिन्द्रियात्मनाम् । मानसे पूर्वसम्बन्धे या कृतिस्तनुवित्तजा ॥४० सा हि साधनतां प्राप्ता प्राकृतेन्द्रियदेहजा । तथोक्तमस्मदाचार्यैस्तत्सिद्ध्यै तनुवित्तजा॥४१॥ एतादृशस्य योगस्य सकृत्करणमात्रतः । अयोग्यानां च योग्यानां सर्वेषामधिकारिणाम्॥४२॥ स्त्रीशूद्रद्विजबन्धूनां ब्राह्मणादेरपि स्वतः । ज्ञानाज्ञानविभेदेन हीनमध्‍याधिकारिणाम् ॥४३॥ श्रीकृष्णसात्कृतासूनामुत्तमाधिकृतावपि । भवति ब्रह्मसम्बन्धः समत्वात्सकलान्प्रति ॥ ४४ ॥ पुरुषोत्तमरूपत्वान्न चिन्ता तदनुग्रहे । न वा समागतां कन्यां त्यजेत्पुरुषकेसरी ॥ ४५ ॥ न च सामर्थ्यसहितः कुर्यात्कांचिद्विचारणाम् । बलादङ्गीकृतिकृतिर्न गृह्णीयात्समर्पितम् ॥४६॥ अतो न चिन्तालेशोपि विधेयः स्वीकृतौ हरेः । एतदेवास्रदाचार्यैर्नवरत्ने निरूपितम्॥४७॥ तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे । अयमेवात्र संस्कारो मन्तव्यः कृष्णसेवने॥४८॥ उपदेशस्तु सावित्र्या यथा वैदिककर्मणि । तापक्लेशगुणाधानं शुद्धिश्च समर्पणात् ॥ ४९॥ यथा हि संस्कृतः शुद्धः कर्ममार्गेभिधीयते । भक्तिमार्गे तथा तापक्लेशैः शुद्धो निरूप्यते॥५०॥ शुद्धो यत्कुरुते कर्म तत्सर्वं सफलं यथा । तथात्र तापक्लेशार्तकृता सेवापि मानसी ॥ ५१॥ संस्कारत्वे तु सम्बन्धो देहमात्रं विशोधयेत् । गायत्रीवन्न वै जीवमित्याशङ्कयात्र चोदितम्॥५२॥ सर्वशोधकतासिद्धयै पदं यद्देहजीवयोः । जीवशुद्धिरविधातः संसाराद्विस्मृतेर्हरेः ॥ ५३ ॥ अशुद्धिस्तदभावात्मा ब्रह्मसम्बन्धतस्तु सा । भवति ब्रह्मसम्बन्धे ह्यहन्ताममतागतिः ॥५४॥ तापक्लेशै च भगवत्स्मृतिः सार्वदिकी मता । अतः शुद्धो हि योग्यस्तु भगवद्भजने मतः॥५५॥ निवृत्तिरत्र दोषाणामेकदैव विवक्षिता । अतः सर्वपदं प्रोक्तं दोषाणां विनिवर्तने ॥ ५६ ॥ दोषत्वेनैव दोषाणां संग्रहस्तु निरूपितः । न प्रत्येकमपारत्वात्ते शक्यन्त उदीरितुम् ॥५७॥ बुद्धिसौकर्यसिद्धयर्थं तत्पञ्चविधतोदिता । दुष्यन्ति यैस्तु देहाद्या जीवाः कृष्णोपयोगतः ॥५८॥ निवर्तन्ते सर्वथैव ते दोषाः परिकीर्तिताः । निवृत्तिस्तु द्विधा दूरीकृतेः शुद्धिकृतेरपि ॥५९॥ आद्या तु वस्त्रमालिन्यनिवृत्तिरिव शोधकैः । द्वितीया मृण्मयस्येव पाकेनेव च शुद्धता॥६०॥ सदोषाङ्गीकृतेस्तस्यास्तद्गतौ व्यर्थता भवेत् । अतोत्र विनिवृत्तिस्तु द्वितीयैव हि युज्यते॥६१॥ एतदेव हि गङ्गात्वमित्यत्राग्रे निरूपितम् । हिशब्दः सर्वदोषाणां निवृत्तौ युक्तिबोधकः॥६२॥ कोटिसूर्याभिरूपस्य सम्बन्धाद्दोषवारणे । निश्चयार्थोपि बोद्धव्यः सत्यसङ्कल्पवाक्यतः॥६३॥ अविद्यारूपतस्तेषां संख्या चोक्ता तथाविधा । स्मृता इति पदोक्तौ च प्रसिद्धिरपि बोधिता॥६४॥ सर्वश्रुतिपुराणेषु लोके वेदेपि चैव हि । तेषु पञ्चविधत्वोक्त्या तत्रैवान्यनिवेशनम् ॥ ६५ ॥ देहेन सह जायन्ते जीवेनापि तथा पुनः । ते हि शूद्रत्वसंसारित्वादयः सहजा मताः॥६६॥ १ सम्बन्धः । २ न मुक्तः । ३ प्रतिमासम्बन्धः ।

२८ सिद्धान्तरहस्यम् । नन्वासुरत्वं सहजं कथं न हि निवर्तते । ब्रह्मसम्बन्धतः सर्वदोषदाहकतोपि हि ॥ ६७ ॥ इति चेत्सत्यमेवास्ति परं सम्बन्धसम्भवः । दुर्लभस्तेषु तद्दोषाद्भक्तिमार्गाप्रवेशतः ॥ ६८ ॥ यथा कथञ्चित्सम्बन्धे तन्निवृत्तिरपीष्यते । अत एवावतारे तु सम्बन्धात्तत्कृतार्थता ॥ ६९ ॥ परं रूपेण करणं न भक्त्येति विनिश्चयः । इदानीं भक्तिमात्रेण ह्युद्धारो भगवन्मतः ॥७०॥ तदा क्रोधादिभावेपि नेदानीं तद्धि साधनम् । भक्तिसाधनसत्त्वेन तेषां भक्तिविरोधतः॥७१॥ सन्तो न कुर्युस्तत्सङ्गमिति सङ्गोपि दुर्लभः । तस्मादनवतारे तु नासुराणां फलं भवेत्॥७२॥ अङ्गवङ्गादिगमनजनिता दैशिका मताः । यथा परीक्षितः कालस्थानदानात्तथा पुनः ॥७३॥ कालावेशेन ये जातास्ते दोषाः कालिकाः स्मृताः। यथा लोके राजसेवा योग्या नैव कुरूपिणः॥ चातुर्यंरहिता मूर्खा दुःशीलाः स्तेयकारिणः । कुरूपित्वादयो दोषा अतस्ते लौकिकाः स्मृताः॥ वेदोक्तविध्यकरणात्प्रतिषिद्धकरणादपि । वैदिकास्ते समाख्याता आज्ञाभङ्गो यतो हरेः॥७६॥ सान्निध्यादेव दोषाणामेकोक्तिर्देशकालयोः । निषिद्धकृतिजन्यानां तेषां लोकेपि सम्भवात्॥७७ अपकीर्त्या लौकिकेषु साङ्कर्याद्वेदवर्तिनाम् । अतस्तथैव ग्रन्थेऽस्मिन्नेकोक्तिर्लोकवेदयोः ॥७८॥ अतो लोकेषु संख्याया नाधिक्यमिह शङ्कितम् । सम्यग् योगो हि संयोगः कामलोभादयश्चसः ॥ नैरन्तर्येण संवासशयनासनभोजनैः । म्लेच्छशूद्रादिसंयोगस्तज्जाः संयोजगाः स्मृताः ॥८०॥ स्पर्शजाः स्पर्शमात्रेण प्रायश्चित्तं विधीयते । यत्र चाण्डालपतितादीनां ते तादृशा मताः ॥८१॥ एवं पञ्चविधा दोषा विज्ञेया भगवत्परैः । उक्ता अनुक्ता सर्वेपि चकारेण समुच्चिताः ॥८२॥ स्वानुभूतेः परप्रोक्तात्प्रतीता अपि सर्वथा । सेवायां बाधकत्वेन न मन्तव्या विशेषतः ॥८३॥ कथञ्चनेति पदतः सूचितोर्थो निरूपितः । तव्यप्रत्यययोगेनामननं सर्वथोच्यते ॥ ८४ ॥ अन्यथा स्यादविश्वासात्समस्तं फलमन्यथा । ननु दोषनिवृत्त्यर्थं प्रायश्चित्तादिकं कथम् ॥८५॥ अन्यत्र विहितं चात्र तदेव न किमुच्यते । किमर्थं ब्रह्मसम्बन्ध इति चेत्तत्र चोच्यते ॥८६॥ विना तु ब्रह्मसम्बन्धं प्रायश्चित्तादिभिः पुनः । युगपत्सर्वदोषाणां न निवृत्तिर्भवेदिति ॥८७॥ ब्रह्मसम्बन्धकरणं सर्वदोषनिवर्तकम् । तदभावे कथं सद्यः सेवायामधिकारिता ॥ ८८ ॥ अत एवाग्रिमे पद्ये प्रोक्तं सर्वपदं पुनः । अन्यथा सर्वदोषाणामित्यत्रोक्तार्थसूचकम् ॥ ८९ ॥ एवं हि ब्रह्मसम्बन्धः संस्कारोत्र निरूपितः । तदुत्तरं तस्य सर्वसमर्पणमिहोच्यते ॥ ९० ॥ यस्मात्कृतो हि सम्बन्धो विनियोगाय सर्वथा । खासम्बन्धि यतः कृष्णो न गृह्णातीति निश्चयः ॥ एतदेवोक्तमाचार्यैर्वेणुगीतनिरूपणे । स्वभोगानन्तरं भोग्यो भगवान्भवतीति हि ॥ ९२ ॥ तत्रापि ब्रह्मसम्बन्धो वेणुना शब्दरूपिणा । ब्रह्मणा येन संसिद्धं देहादिविनियोजनम् ॥९३॥ तस्मात्सम्बन्धसहितो वर्जयेदस मर्पितम् । समर्पणं तु संसिद्ध्येत्सम्बन्धादेव सर्वथा ॥ ९४॥ स्वसम्बन्धि यतः सर्वं गृह्णात्येवेति निश्चयः । समर्थं भक्त्युपहृतमतस्तु हरिणोदितम् ॥९५॥ गीतायां भक्तिमार्गीयप्रभुणातिदयालुना । वस्तूनामिति यत्प्रोक्तं बहुत्वं तस्य चाशयः ॥९६॥ सर्वांशेनैव तत्यागो नैकांशेनेति बुध्यताम् । यथा गायत्र्योपदेशः संस्कारोत्तरमुच्यते ॥९७॥ श्रुतिस्मृत्युदिताचारस्तदभावे फलं न हि । आचरेदित्यनेनात्र ब्रह्मसम्बन्धतः परम् ॥ ९८॥ १ दोषेषु ।

समर्पणं तथाचारो ह्यसमर्पितवर्जनम् । तदभावेऽङ्गहीना तु सेवा नैव फलेदिह ॥ ९९ ॥ ननु सर्वं समर्प्य चेद्वैदिकं लौकिकं तथा । न कुर्यात्कृष्णकार्याय सम्बन्धो विहितो यतः ॥ न चान्यविनियोगोपि ह्युचितश्च निवेदिनाम् । इति चेदुच्यते सर्वं कुर्यादेव यथोदितम् ॥ मर्यादामध्येपातेन पुष्टिमार्गनिरूपणात् । निवेदो वर्तते तेषां पदार्थानां पुराकृतः ॥१०२॥ तेनैव सकलं कुर्यात्समर्प्यैव हरौ परे । देहनिर्वाहवत्कृष्णप्रसादेनेति निश्चयः ॥ १०३ ॥ स्वयं कुर्यान्न विश्वासं पुत्रादीनामपि क्वचित् । एवं प्रकारिकैवैषा स्थितिः पुष्टिफलावधि ॥ मर्यादापीयमेवेह स्थित्यर्थमवगम्यताम् । नन्वेतदुचितं नैव यत्समर्पितयोजनम् ॥ १०५ ॥ लौकिके वैदिके नीचप्रेतपित्रादियोगिनि । अतोऽसमर्पितेनैव तत्कार्यमिति चेन्न हि ॥१०६॥ युज्यते शेषभावात्स्या निखिलं तज्जुगुप्सितम् । अर्धभुक्तं देवदेवोपयोगाय भवेच्च तु ॥ १०७॥ न चोचितं सेवकानां स्वामिन्येवंविधापर्णम् । एवं समर्पणासिद्धौ सम्बन्धो विफलो भवेत् ॥ अतो निषिद्धं कृष्णस्य सामिसुक्तसमर्पणम् । ननु कृत्वारिखलं कर्म लौकिकं वैदिकं तथा ॥ कृष्णार्पणैकबुद्ध्या वा पश्चात्कृष्णे समर्पयेत् । तदा न प्राप्यते दोषः कश्चित्तादृक्समर्पणे ॥ इति चेद्देवदेवो हि यस्मात्कृष्णो न केवलः । अतः सेवकशेषो हि सामिसुक्तं हरेः स्मृतम् ॥ कृष्णार्पणैकमत्या वा कृत्वा कृष्णसमर्पणम् । तत्रापि स्यादन्यशेषो मतिमात्रेण चार्पणात् ॥ सर्वथा नार्पितं कृष्णे तन्न गृह्णाति केशवः । यतः सम्बन्धवैयर्थ्यमत आदौ समर्पणम् ॥ तत्रापि सर्ववस्तूनां सर्वकार्ये तथैव च । लौकिके वैदिके वापि ह्युत्तमेऽनुत्तमेपि च ॥११४॥ पश्चाद्विधेयं सर्वं हि तदा सार्थकता भवेत् । उच्छिष्टदाने सर्वेषां माहात्म्यं चापि सिध्यति ॥ नन्वेवं लौकिकार्थं हि वैदिकार्थं तथा पुनः । समर्पितपदार्थानां ग्रहणे दोषसम्भवः ॥११६॥ दत्तापहाररूपो हि धर्ममार्गनिरूपितः । भगवच्छास्त्रसिद्धोपि नैवेद्यग्रहणात्मकः ॥ ११७ ॥ 'अपि दीपावलोकं म' इत्यादिप्रभुणोदितः । इति चेन्न यतो मार्गो भिन्नोयं पुष्टिनामकः ॥ मार्गभेदान्न दोषोत्र कर्मपूजादिरूपितः । यथाश्रमविभेदेन निषेधानां विधेरपि ॥ ११९ ॥ भिन्नतात्र तथा मार्गभेदेनापि विबुध्यताम् । न वा निवेदनं दानं येन दोषो ग्रहे भवेत् ॥ वाक्यं पूजाप्रकरणात्तद्दोषविनिरूपकम् । नन्वेवं सर्ववस्तूनां समर्प्य विनियोजनम् ॥१२१॥ प्राप्येत कामचारेण दोषाभावाच्च रक्षणम् । तथा च प्रभुवस्तूनां वृथैव विनियोगतः ॥१२२॥ अन्यत्र तेन भविता सम्बन्धदृढताङ्कतिः । न स्वसम्बन्धिवस्तूनां नाशनं कुरुते वृथा ॥ लोकेपि दृढसम्बन्धयुतः स्वाम्यर्थरक्षकः । अतः प्रोक्तं यथा लोके सेवकानां प्रकर्षतः ॥ लौकिको वैदिकश्चैव व्यवहारो हि सिध्यति । तथा सर्वं समर्प्यैव पुनः कार्यं निवेदिभिः ॥ पदार्थैस्तेन सम्बन्धे सिद्धे भाववतां दृढे । ततः सम्बन्धतः सिध्येन्निर्दोषसमता पुनः ॥ सेवायां सर्ववस्तूनां सर्वेषामधिकारिणाम् । अतस्तदुपयोगेन फलं सिद्धं न संशयः ॥१२७॥ सर्वांशकृतसम्बन्धो यतः फलमिहोच्यते । ननु दोषनिवृत्तिः का मलस्येव हि नाशनम् ॥ अथवा परिपाकेन दोषतागमनं यथा । मृण्मयेपि घटे पाकादामतैव निवर्तते ॥ १२९ ॥ न मृन्मयत्वमेवं हि तन्निवृत्तिरिहोच्यते । इति संशयतः प्राह प्रसुर्गङ्गात्वमेव हि ॥१३०॥ १ क्षतिः । २ देवव्रतो जनः ।

३० सिद्धान्तरहस्यम् । दोषाणां तत्प्रविष्टानां जलानामिव सर्वथा । तत्प्रवेशे पुनस्तेषां गुणदोषादिवर्णना ॥१३१॥ गङ्गात्वेनैव कर्तव्या न पानीयप्रयोगतः। शूद्रत्वादिकथात्रापि वैष्णवत्वेन बुध्यताम् ॥१३२॥ उपदिश्य जनोद्धारं पुष्टिमार्गेण सर्वथा । निजासँरूपाचार्येभ्यो दयार्द्वेभ्यो दयानिधिः ॥ कृपया प्रकटीभूय साक्षाच्छ्रीगोकुलेश्वरः । लीलाविशिष्टरूपस्तद्धृदयं प्राविशद्धरिः ॥१३४॥ इति श्रीवल्लभाचार्यदासदासेन रूपितः । तद्वाक्यगूढवाक्यार्थस्तेन तुष्यन्तु ते मयि ॥१३५॥ इति श्रीहरिदासोदिताः सिद्धान्तरहस्यविवृतिकारिकाः समाप्ताः ।

श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीविट्ठलेश्वरविरचितविवृतिसमेतम् । श्रीहरिः । श्रीमदाचार्याः स्वप्रकटितशुद्धपुष्टिमार्गानभिज्ञान् स्वमार्गीयसिद्धान्तजि- ज्ञासून् स्वसेवकान् प्रति कृपया पुरुषोत्तमसिद्धान्तं निरूपयन्ति श्रावणस्यामले पक्ष इति श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ अर्धरात्रे साक्षादव्यवधानेन भगवता श्रीमद्भिरिधारिणा यत्प्रोक्तं तदक्षरश इति प्रत्यक्षरेण सप्तप्रकारेण निरूप्यते । सप्तप्रकारानाह । श्लोकार्थः, अर्धश्लोकार्थः, पदार्थः, प्रकरणाथैः, वाक्यार्थः, वेदार्थः, अक्षरार्थः । एतैः सप्तप्रकारैः साक्षादन्तरालरहितं मनो- वाक्शरीरैः सकलांशेन भगवता पूर्णपुरुषोत्तमेन प्रोक्तं प्रकर्षेण निश्चयं कृत्वोक्तम् । उक्तं तत् कस्मिन्नवसरे ? 'श्रावणस्यामले पक्षे एकादश्यां महानिशि' इत्येतस्मिन्नवसरे प्रोक्तम् । श्रावणे यदुक्तं तत्कथं, तत्र हेतुमाहुः । श्रावणस्तु दक्षिणायनं चातुर्मास्यं च । तस्मान्निषिद्धमासे यदुक्तं तस्यायमाशयः । पुरुषोत्तमविषये सर्वदा विधिरेव, न तु निषेधः । उक्तं च 'स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमहं नित्यं व्रजामि शरणं हरिम्' । तथा चोक्तं दशमस्कन्धे जन्मप्रकरणे 'अथ सर्वगुणोपेतः कालः परमशोभन' इति । एतावता भगवत्प्रवृत्तिर्यदा भवति, तदा सर्वे उत्तमयोगा भवन्तीत्युक्तम् । शुक्ल- पक्षस्य हेतुमाह । शुक्लपक्षस्तु पूर्वजानां रात्रिः, तत्र कर्ममार्गानधिकार इति । उक्तं च एका- दशस्कन्धे 'न रोधयति मां योगो न सांख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा । व्रतानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमा' इति । एकादश्या हेतुमाह । एकादशी शिवतिथिः, शिवस्तु भक्तप्रधानः । उक्तं च चतुर्थस्कन्धे । 'अथ भागवता १ निजाख्यरूपानार्यान् दयार्द्रानिति पाठः ।

श्रीविठ्ठलेश्वरकृतविवृतिसमेतम् । ३१ यूयं प्रियाः स्थ भगवान् यथा, न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ।' तस्मा- च्छिवतिथिरुक्ता । महानिशीथस्यायमाशयः । यत् शृङ्गाररसलीलाभजनमुक्तम् । उक्तं च चतुर्थस्कन्धे 'संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीला- कथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्ये'ति ॥ १ ॥ ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधा मताः ॥ २ ॥ ब्रह्मसम्बन्धकरणादिति । इदानीं श्रीमदाचार्यैः श्रीगिरिधरं प्रति प्रश्नः कृतः । यत् हे सुन्दरीकान्त, भवता आज्ञा दत्ता, यज्जीवानां मदीयभजनमार्गं निरूपय । तत्र ते जीवाः सकलदोषनिधानम्, भगवान् सकलगुणनिधानम् । भगवान् पूर्णपुरुषोत्तमः । जीवस्त्वपूर्णः पुरुषाधमः । तर्हि भगवद्भजनं कर्तुं कथं योग्यो भवति । तथा च श्रुतिः 'देवो भूत्वा देवान् यजेते'ति । तदा श्रीमद्गिरिधारिणोक्तम्-यद्ब्रह्मसम्बन्धकरणात् सर्व- दोषनिवृत्तिः । भगवद्भजनं कर्तुमुद्युक्तो यो जीवः स तत्कालं शुद्धो भवति । तस्य शुद्ध- जीवस्य मया सह सम्बन्धः कार्यः। अथवा । ब्रह्मणा मया सह सम्बन्धः कार्यः। तत्सम्बन्ध- प्रकारा दशमस्कन्धे उक्ताः 'कामं क्रोधं भयं स्नेह'मिति श्लोके । तेषु षट्सु कामसंबन्ध उत्तमः । कामसम्बन्धात् सकलदोषनिवृत्तिः । तत्र तत्संबन्धेन यथा कस्यचिद्राज्ञो दुःकुला स्त्री कामसंबन्धेन भजन्ती राजतुल्या स्यात्, तथा अनन्यत्वेन जीवो मां भजन् शुद्धः स्यात् । कामसंबन्ध इति किम् । साध्व्या आचारः । अथ च स्वैरिणीवत् नित्यनूतन- भावेन भजनमिति । उक्तं च दशमस्कन्धे 'मयि निर्बद्धहृदयाः साधवः समदर्शिनः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'ति । एतेनानन्यत्वेन व्यभिचारिण्या भाव- मादाय भजनं विधेयमिति कामसम्बन्धः । तथा चोक्तं सप्तमस्कन्धे 'नन्वद्धा मयि कुर्वन्ति कुशलाः स्वात्मदर्शनाः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा' । पुनराचार्यैः पृष्टम्, यत् पतिभावभजने वर्णाश्रमाणां मध्ये कोऽधिकारी । तदा श्रीमद्गिरिधारिणोक्तम्, जीवमात्रस्य भगवद्भजनेऽधिकारः । उक्तं च सप्तमस्कन्धे 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वे'ति । सर्वेषां देहजीवयोरिति । अस्यायमर्थः । यथा देहस्य जीवसंबन्धात् सर्वदोषनिवृत्तिस्तथा ब्रह्मसंबन्धकरणादिति । यथा जीवमन्तरेण देहः अपूर्णः, तत्स- म्बन्धेन सकलगुणपूर्णः, तथा ब्रह्मसम्बन्धादिति । यथा जीवो देहदुःखेनार्तुरो भवति, तथाहं भक्तदुःखेनार्तुरो भवामीत्यर्थः । अथवा । देहजीवयोरिति । भगवद्भजनेन तस्य हीनजा- तिरोगादयो दोषाः, तथा हिंसादिपातकानि व्रजन्तीत्यर्थः । उक्तं च तृतीयस्कन्धे 'श्वपा- दमूलं भजतः प्रियस्ये'ति । पुनः श्रीमदाचार्यैः पृष्टम्, दोषा गता इति कथं ज्ञायते । तदा श्रीमद्गिरिधारिणोक्तम्, सर्वदोषनिवृत्तिर्हीतिशब्देन । निश्चयो यदा उत्पद्यते, तदा सर्वे दोषा गता इति ज्ञातव्यम् । उक्तं च भारते 'वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।

३२ सिद्धान्तरहस्यम् । सर्वपापविशुद्धात्मा पाति ब्रह्म सनातनम् ।' पुनः श्रीमदाचार्यैः पृष्टम्, दोषाः कति सन्ति । तदा श्रीमद्गिरिधारिणोक्तं दोषाः पञ्चविधा मता इति । तत्रापि द्वात्रिंशद्भेदाः सन्ति । के ते दोषाः तान् प्रभुर्वदति सहजा देशकालोत्था इति । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ सहजा द्वादश । देशोत्थाः सप्त । त्रयः कालोत्थाः । संयोगजाः सप्त । स्पर्शजा- स्त्रयः । एवं द्वात्रिंशद्भेदा वेदपुराणादियुक्ताः । सहजा द्वादश । तत्र एकादश इन्द्रियाणां कुमार्गप्रवृत्तिरूपाः । एको देहस्य हीनजातिलक्षणः । देशस्य सप्त । उषरभूमिः, गर्दभ- क्षेत्रम्, दुर्जनवासः, हीनजलदेशः, जलान्तर्गतदेशः, स्वचक्रभीतिदेशः, परचक्रभीतिदेशः । त्रयः कालदोषाः प्रातरादयः । एते त्रयो दोषरूपाः । भगवद्भजने न गुणरूपाः । संयो- गजाः सप्त, सहभोजनशयनासनगानमैथुनभाषणनिवासादयः । मानसवाचिककायिकास्त्रयः स्पर्शजाः । एवं द्वात्रिंशत्प्रकारका दोषाः । एते प्रत्यहं भगवद्भजने क्रियमाणे सति नोत्प- द्यन्ते । उक्तं च द्वितीयस्कन्धे 'यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ।' दशमस्कन्धे 'तावद्रा- गादयः स्तेनास्तावत्कारागृहं गृहम् ।' न मन्तव्याः कथञ्चन । भगवत्सम्बन्धे संपन्ने एते दोषाः किं करिष्यन्तीत्यर्थः । प्रयत्ने क्रियमाणे चेदुत्पद्यन्ते, तर्हि हरिमेव शरणं गच्छेत् । शरणगमनाद्धरिः रक्षेत्येव । प्रत्यहं करोति चेत्, तदा पतितो भवेत् ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ पुनः श्रीमदाचार्यैः पृष्टम्, अनन्यत्वेन पतिभावं विना प्रकारान्तरेण जीवस्य दोषाः कथञ्चिदपि न गच्छन्तीति, तत् किमन्ये मार्गाः सर्वे मिथ्याभूता इति । तदा श्रीमत्प्रभु- णोक्तम्-अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चनेति । अन्यथा करणे भगवत्संबन्धो न भवेत्, तदा कथमपि किञ्चिदपि सर्वदोषाणां निवृत्तिर्न स्यादित्यसमर्पितवस्तुवर्जनं कुर्यादित्यर्थः । प्रकारान्तरेण साधननिष्ठेन किञ्चिद्दोषनिवृत्तिः, न तु सकलदोषनिवृत्तिः । यथा राज्ञः स्त्री सकलदोषरहिता भवति, तत्सम्बन्धिनोपि भवन्ति, परन्तु तत्संबन्धिनां सकलदोषा ( न ) ? गच्छन्ति । तथा भक्त्या भवति............गच्छन्ति । .............त्वेन गच्छन्ति । उक्तं च गीतायां 'अपि चेत् सुदुराचार' इति श्लोके । एतेन पतिभावभजनेन सर्वदोषनिवृत्तिः, न तु भावान्तरभजनेनेति श्रुत्वा पुनः श्रीमदाचार्यैः पृष्टम्, अनन्यत्वोत्पत्तेः किं साधनम्, तदा श्रीमद्गिरिधारिणोक्तम्, असमर्पितवस्तुवर्जनं कार्यम् । एतेनान्यदेवसमर्पितस्य असमर्पितस्य च वस्तुनो वर्जने क्रियमाणे भक्तिभाव उत्पद्यते । पुनः श्रीमदाचार्यैः पृष्टम्, असमर्पितान्यदेवसमर्पितवस्तुवर्जनं करोतीत्यावेशः

कथमुत्पद्यते । यद्यसमर्पितमश्नाति, तर्हि असुरावेशो भवति । अथ च भगवदनिवेदित- निवेदनात् सकलकर्ममिथ्यात्वम् । उक्तं च द्वितीयस्कन्धे 'तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नम' इति । तस्मात् सर्वकार्याणि भगवति निवेद्य कार्याणीति । एवमावेशः कथमुत्पद्यते, तस्य किं कथं कर्तव्यमिति पृष्टे, श्रीमद्गिरिधारिणोक्तम्—निवेदिभिः समर्प्यैव सर्वं कार्यमिति स्थितिः । ये निवेदिनो धर्मिणो भक्तास्तेषां सङ्गतिः कार्या । तया सर्वे शुद्धा भवन्ति, मद्भक्तियोग्याश्च भवन्ति । एवं सत्सङ्ग एव प्राप्तेर्मूलम् । उक्तं च द्वितीयस्कन्धे 'किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्का यवनाः खसादयः, येऽन्ये च पापा यदुपाश्रया- श्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः' । पुनः श्रीमदाचार्यैः पृष्टम्—यत्कर्ममार्गे एवमुच्यते, अर्धं समर्प्यते, समर्पितं तदन्यस्मै दीयते, असमर्पितं च भुज्यते, तत्कथम् ? तदा श्रीमद्गिरिधारिणोक्तम्—देवदेवस्य पुरुषो- त्तमस्य मम साम्यर्थमुक्तं समर्पणं न मतम् । उक्तं च गीतायां 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति' 'अम्बरीष नवं वस्त्रं फलमन्नाद्यमौषधम् । अनिवेद्य हरेर्भुञ्जन् सप्त जन्मानि नारकी । विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभिश्चापि तद्देयं तदानन्त्याय कल्पते । पितृशेषं तु यो दद्यात् हरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति क्लेशभाजिनः । श्रीशं समर्प्य सर्वस्वं पुनर्ग्राह्यं समर्प्य च । भोक्तव्यमेव सकलं दासो नैव च दोषभाक्' । श्रीभागवतेऽपि 'त्वयोपभुक्त- स्रग्गन्धे'ति । एतैः श्लोकैरेवमुक्तम्, यद् अन्यस्मै दत्तं न ग्राह्यम्, परन्तु दासत्व- नितयोर्यद् दत्तं भवति, तद् गृह्यते, तथा दीयते, तत्र न दूषणम् ॥ ४ ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ तदा पुनः श्रीमदाचार्यैः पृष्टम्—यदा किञ्चित् कार्यं क्रियते, तदा त्वां कथं सम- र्प्यते । तदा श्रीमद्गिरिधारिणोक्तम्—तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणमिति । यस्मात् सर्वांशेनासमर्पणं यस्मै भगवदमतम्, तस्मात् सर्वस्मिन्नपि कर्तव्यत्वेन प्राप्ते कार्यमात्रे आदौ प्रथमत एव उत्सवं कृत्वा सर्ववस्तूनां पदार्थानां मनोवाक्कर्मभिः समर्पणं कुर्यादित्येवंविधो भक्तिमार्गोऽस्ति । उक्तं च तृतीयस्कन्धे 'देवानां गुणलिङ्गानामानु- श्राविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्ति- स्सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा' । एतेन हरये सर्वं कार्यं नित्यं समर्पणीयं च । तेन सर्वं कर्मवागात्यादिकं भक्तिर्भवतीत्यर्थः । पुनः श्रीमदाचार्यैः पृष्टम्—दत्तापहारवचनं यत्, तत् किञ्चिद्विषयम् । 'अपि दीपाव- लोकं मे नोपयुञ्ज्यान्निवेदित'मिति । तदा श्रीमद्गिरिधारिणोक्तम् । निवेदितस्वीकारे दत्तापहा- रवचनं 'यत् हरे'रिति मत्परत्वेन न ग्राह्यम्, किन्तु भिन्नमार्गपरं ज्ञेयम् । भक्तिमार्गाद्भिना ये सि. र. ५

३४ सिद्धान्तरहस्यम् । मार्गास्तत्परत्वेन ज्ञेयम् । अन्ये सर्वेऽपि प्रकाराः पुरुषोत्तमविषये न भवन्ति, किन्तु मायावादि- सिद्धान्ते भवन्ति । उक्तं च सप्तमस्कन्धे ‘नैषां मतिस्तावदुरुक्रमांघ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत्’ । पुनः श्रीमदाचार्यैः पृष्टम् । मायावादः कस्मिन् विषये प्रवर्तते । तदा श्रीमद्गिरिधारिणोक्तम्-महल्लीलारसमन्तरेण सर्वं मायावाद उच्यते । उक्तं च पुराणान्तरे । ‘जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरसुरांस्तानहो बुधा’ इति । मायावादस्वरूपमाह । वेदोक्तकर्माणि मन्यन्ते, निराकारस्वरूपं भजन्ते, द्वेषेण मोक्षं मन्यन्ते, सर्वदेवान् मां च समं मन्यन्ते, सर्वमेकीकृत्य जानन्ति, प्रपञ्चमसत्यं मन्यन्त इति मायावादः । न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । न ग्राह्यमिति निवेद्य न ग्राह्यमिति यद्वचनं तत् मद्भजनाद्भिन्नमार्गपरं ज्ञेयम् । उक्तं च गीतायां ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मामेवाक्ष्यमव्ययम्’ । पुनः श्रीमदाचार्यैः पृष्टम् । सकलसिद्धान्तस्य फलमेकीकृत्य वक्तव्यम् । तदा श्रीमद्गिरिधारिणोक्तम्-लोके यथा सेवकस्य व्यवहारः प्रसिद्धोऽस्ति, तथा भजनं विधे- यम् । उक्तं च गीतायां ‘मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति’ । एवं प्रथममन्यसे- वकवद्भजनं विधेयम् । पश्चात् पतिव्रताधर्म आयाति । पुनः श्रीमदाचार्यैः पृष्टम् । सेव- कस्य व्यवहारः कथमस्ति । तदा श्रीमत्प्रभुणोक्तम्-तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता तत इति । यथा लोके सेवकव्यवहारः, तथा समर्प्य कार्याणि कर्तव्यानि । एवं क्रियमाणे मदाश्रयेण ब्रह्मस्वरूपो भवति । शुद्धो भवतीत्यर्थः । यथा राज्ञः प्रथमं कश्चिज्जातीयः सेवक आगत्य तिष्ठति । राजसेवकान् मिलित्वा स्वसेवां ज्ञापयति, अहमद्य प्रभृति भवदीयोऽस्मि, तथा भक्तौ नामग्रहणम् । पश्चाद्राजा आज्ञां ददाति, तदनन्तरं पृष्ट्वा पृष्ट्वा राजकार्याणि करोति, पश्चाद्राजा पृच्छति, प्रसन्नो भवति, तदा तं स्वसदृशं करोति, तथाहमपि भक्तं शुद्धं करोमि । उक्तं च प्रथमस्कन्धे ‘अतो वै कवयो नित्यं भगवत्यखिलात्मनि । कुर्वन्त्यहैतुकीं भक्तिं ययात्मा सुप्रसीदति । श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मस्तन्नामग्रहणादिभिः ।’ एतेन मद्भजनेन मत्सदृशो भवतीति सूचितम् । तत्र दृष्टान्तः । गङ्गात्वं सर्वदोषाणामिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८½ ॥ यथा शुद्धमशुद्धं वा जलं गङ्गान्तः पतितं सत् गङ्गातुल्यं भवति । परन्तु गङ्गामध्ये

श्रीपुरुषोत्तमकृतविवृतिसमेतम् । ३५ भिन्नं तिष्ठति । शौचादिकं कुर्वन्ति जनाः, तदा गङ्गा अशुद्धं जलं ददाति, मलनिवार- णार्थं निर्मलं जलं ददाति, पापक्षयार्थं गङ्गोदकं ददाति; एवं मत्सेवका मां भजन्तो मत्सदृशा भवन्ति । परन्तु सेवायां दासत्वेन स्थेयम् । यथा गङ्गायामपवित्रजलं किञ्चि- द्भिन्नं भवति, तदा गङ्गोदकं न स्यात्, तथा अन्यदेवाश्रितो भवति, स शुद्धो न स्यात् । उक्तं च षष्ठस्कन्धे ‘यावदन्याश्रयस्तावद्भगवानपि तं जनम् । आलोकेयेन्न कृपया ह्यनन्य- जनवत्सलः’ । गीतायां च ‘सर्वधर्मान् परित्यज्ये’ति । ननु सर्वधर्मेण सहैव निवर्त्यानां दोषाणां कथमेवं निवृत्तिः, तत्राहुस्तत इति । ततो ब्रह्मणि परं स्थितानामपि दोषाणां गङ्गात्वं गङ्गातुल्यत्वमित्यर्थः । यथा गङ्गातिरिक्तापवित्रजलानां गङ्गाप्रवाहान्तःपातित्वे सम्पन्ने गङ्गात्वमेव, तेषां न भवः, पृथग्भावः । गङ्गात्वे सम्पन्ने पूर्वकालीनगुणदोषादिवर्णना यथा जलानां न निरूप्या भवति, तद्वदेवात्रापि भगवत्सम्बन्धे जाते ते पञ्चविधदोषाणां स्थितानामप्यदोषत्वमित्यर्थः । एवशब्दोऽवधारणे । हि शब्दोऽयुक्तं युक्तमेवेति । इति श्रीश्रीमद्विट्ठलेश्वरविरचितं सिद्धान्तरहस्यविवरणं समाप्तम् । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीपुरुषोत्तमकृतविवरणसमेतम् । श्रीकृष्णदेवमुखपद्ममरन्दपूर्णवाक्यानुवादविनिवारितजीवदोषम् । आचार्यवर्यचरणौ हृदये निधाय नत्वा वचस्तदुदितं विवृणोति दासः ॥१॥ अथ श्रीमदाचार्यचरणा भगवदाज्ञया तदभिप्रेतं भक्तिमार्गं प्रकटीकरिष्यन्तो 'यो वै भूमा तत्सुखम्' 'कृषिर्भूवाचकः शब्द' इत्यादिश्रुतिभिर्निरवध्यानन्दरूपस्य भगवतः कृष्णस्य 'स वा अयमात्माऽपहतपाप्मा' इत्यादिश्रुत्या 'निर्दोषपूर्णगुणविग्रह' इति पञ्चरात्रस्मृत्या च निर्दोषत्वात्, 'मुक्तोपसृप्य' सूत्रे च निर्दोषैरेव सेव्य इत्यपि सिद्धत्वादि- दानीन्तनानां युगदोषेण सुतरां दुष्टत्वात्कृतसेवारूपाया भक्तेर्भगवतानङ्गीकारे तत्फला- भावादुपदिष्टोऽपि भक्तिमार्गः कथं फलिष्यतीति चिन्तां यदा कृतवन्तः, तदा तच्चिन्ता- निवृत्त्यर्थमाविर्भूतेन भगवता कृपया साक्षाद्यदुक्तं तदत्र कृपया स्वीयान् ज्ञापयितुं प्राकट्य- कालोक्तिपूर्वकमुपनिबध्नन्तस्तदुक्तं प्रतिजानते श्रावणस्येत्यादि । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ अत्र मासपक्षतिथिसमयानामुल्लेखो विवक्षितसाधनस्य साधकगताधिभौतिकादि-

३६ सिद्धान्तरहस्यम् । त्रिविधदोषनिवृत्तिसामर्थ्यसूचनार्थः । श्रवणक्षं हि वैष्णवम्, तत्सम्बन्धेन प्रसिद्धो मासः श्रावणो, 'यः कश्चिद्वैष्णवो लोक' इति न्यायेन साधकजनपावनः । पूर्वः पक्षोप्यमलत्वा- त्प्रत्यहमधिकाधिकतमोहर इति मासपक्षौ बाह्यभौतिकदोषनिवर्तकौ । एकादशी चोपवासेने- कादशेन्द्रियदोषहारिका गुणाधायिका चेत्याध्यात्मिकदोषहरा । महानिशा च भक्तरक्षार्थ- माविर्भूतस्य भगवतः प्रादुर्भावकालत्वादाधिदैविकदोषहरेति । एतादृशे काले प्रादुर्भूय यत्साधनमुपदिष्टं तत्साधकनिष्ठत्रिविधदोषनिवर्तकमिति बोधितम् । इदमत्रोच्यमानं सर्वं भगवद्वाक्यान्याकलय्य श्रीमदाचार्यैः पद्येषु तदर्थसङ्ग्रहरूप- मुक्तमिति सर्वे प्राञ्च आहुः । अत्र मम त्वन्यदपि प्रतिभाति । तथाहि । एकादशस्कन्धे समर्पणं स्थलचतुष्टये निरूपितम् । तत्र पूर्वं योगेश्वरवाक्येषु कविना 'ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि ता'निति लक्षयित्वा, 'यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिहे'ति तन्माहात्म्यं चोक्त्वा, 'कायेन वाचा' इति श्लोके सर्वक्रियाणां भगवदर्थे समर्पणमुक्तम् । ततोन्यानपि भक्तिपूर्वकगुरु- भगवद्भजनादीनप्युक्त्वा, 'भक्तिः परेशानुभवो विरक्ति'रिति द्वाभ्यां भक्तिप्रभृतीनि चत्वारि फलान्युक्तानि । ततः प्रबुद्धेन तत्र 'भागवतान्धर्मान् शिक्षे'दित्युपक्रम्य, 'सर्वतो मनसो सङ्ग'मित्यादिना तान् वदता 'इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदन'मित्याद्युक्त्वा, ततो भक्त्या मायात shape(तरणरूपं) तच्छिक्षा- फलमुक्तम् । एकादशाध्याये च 'भक्तिस्त्वय्युपयुज्येत कीदृशी सद्गिरादृते'त्युद्धवप्रश्ने, 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मित्याद्यष्टभिर्भगवता सर्वलाभोपहरणं दास्येनात्मनिवेदन- मिति भक्तिमध्ये गणितम्; फलं तु तत्र नोक्तम् । तेन तत्र प्रश्नवाक्योक्तो भगवदुपयोग एव फलम् । ऊनविंशे तु महद्विसृग्यभक्तिप्रश्न उद्धवेन कृते 'भक्तियोगः पुरैवोक्त' इत्युक्त्वा, तत्परमकारणं कथयिष्यामीति प्रतिज्ञाय, 'श्रद्धामृतकथायां म' इत्यादिभिश्चतु- र्भिस्तद्वदता, 'एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिना'मित्यनेनाधिकारतयात्मनिवेदनमुक्त्वा 'मयि संजायते भक्तिः कोन्योर्थोस्यावशिष्यत' इति फलमुक्तम् । अतोत्र निरूप्यमाणं ब्रह्मसम्बन्धात्मकं समर्पणं तत्फलं तत्प्राशस्त्यं तदावश्यकत्वं च यदस्ति, तत्तेषामेव वाक्यानामनुवाद इति शङ्कानिरासार्थं कालविशेषे पृथगाविर्भूय भगवतोक्तमिति बोधनाय तादृशत्तकालानुवाद इति च । तथा वाक्यानि तु श्लोकरूपाण्यपि भगवत एव । अक्षरश उच्यत इति कथनात् । तेन वाक्यकथनस्यैवेयं प्रतिज्ञेति च । ( ननु यदि तदानीन्तनवाक्यकथनस्यैवेयं प्रतिज्ञा, तदा समर्पणगद्यमपि कुतो नोक्तमिति चेत् । उच्यते । तद्धि पञ्चाक्षरमन्त्रविवरकत्वादतिगोप्यम्, अतो नोक्तम् । शास्त्रे ह्यतिगोप्या

१ तदनुवाद इति पाठः। २ ( ) चिह्नान्तर्गतं श्रीपुरुषोत्तमैः पश्चालिखितमिति प्राचीनपुस्तकेषु प्रायः तद्दर्शनाभावात् प्रतिभाति ।

मन्त्रादय उद्रियन्त एव, न तु प्रकाशतया कथ्यन्ते । यथा स्पर्शेषु यत् षोडशमेकविंशमि- त्यादि । तन्मन्त्रविवरकत्वं चैतस्यैव ज्ञेयम् । तत्र हि मन्त्रस्थोत्तमपुरुषान्तक्रियापदसूचि- तस्य कर्तुः स्वरूपम्, तस्य सपरिकरस्य भगवदीयत्वम्, तस्यैव भगवद्वियुक्तत्वादिवोध- नात् मन्त्रस्थषष्ठ्युक्तभगवत्स्वामिकत्वसंबन्धशालित्वं च विवृतम्, भगवत्पदविशेषित- कृष्णपदेन च निरङ्कुशजगदीश्वरत्वादिवोधनादवतारं व्यावर्ण्य मन्त्रस्थं कृष्णपदं विवृतम्, तादर्थ्यचतुर्थ्या समर्पणफलं च बोधितमिति तथेति तदनुक्तिः । किञ्च, समर्पणं नव- विधभक्तावात्मनिवेदनत्वेन प्रसिद्धमिति न तत्र कोपि सन्देह इत्यतोपि तथा । तस्य दोषनिवर्तकत्वं तु षष्ठस्कन्धे 'यथा कृष्णापिंतप्राणस्तत्पुरुषनिषेवये'त्यनेन भगवदीयसङ्गा- दुक्तम् । किञ्च, 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा' इत्यत्र सर्वाशुभनिवारकत्वेन सिद्धस्य दुःसहभगवद्विरहतापस्य तदानीमभावात् सेवाङ्गीकारसम्पादिका दोषनिवृत्तिः कथं स्यादिति शङ्कानिवृत्त्यर्थं हि ब्रह्मसम्बन्धकरणपदेन तत्पूर्वोक्तं सर्वमनूद्य ततः सर्वदोषनिवृत्तिरत्रा- भिधित्सिता । एकादशोनविंशाध्याये भगवतात्मनिवेदनस्य भक्तिमार्गीयधर्माधिकारत्व- बोधनेन एतस्यैवार्थस्य सूचनात् । अतो यद्गुरूढं तदेव व्युत्पाद्यम्, न तु निःसंदिग्धं सुबोधं वा । अतोपि तदनुक्तिरिति जानीहि । ननु वाक्यकथनप्रतिज्ञापेक्षया तदर्थकथन- प्रतिज्ञैव साधीयसी, एतदुपपादनानपेक्षत्वादिति चेद्, गद्यं मन्त्रविवरणरूपम्, तस्यार्थस्य सुतरां गोप्यत्वम् । अतोर्थप्रतिज्ञायामपि सर्वेषां वाक्यानामर्थे क्रियमाणेऽपि वाक्यार्थप्रति- ज्ञातत्वात् गद्यार्थः कुतो नोक्त इति शङ्का उदियात्, तदा गद्यस्यापि अर्थोवश्यं कर्तव्य- त्वेनायाति, तदा वाक्यार्थयोः प्रतिज्ञायामविशेषः । तेनार्थप्रतिज्ञापेक्षया श्रीमुखवाक्यप्र- तिज्ञा गरीयसीति सैव कृता । गद्यार्थः कुतो नोक्त इति शङ्कायास्तदाप्युदयात् । उदितायां तस्यां तत्राप्युपपादनस्यावश्यकत्वमिति पक्षद्वयेपि विशेषाभावात् । यत् पुनः प्राचीनैरत्र किमपि नोक्तम्, तत्रैतद्गोप्यत्वमेव बीजम्। मया तु यदिदमुक्तम्, तद्बहिर्मुखमुखध्वंसार्थमेवेति न तद्विरोधो दोषाय । यद्यपि मदुक्तौ मार्गरहस्यप्रकाशनापराध आयाति, तथापि प्रकाश- नस्यान्त्यैरेव कृतत्वेन तदर्थसन्देहवारणस्यैव मत्कृतितया स्वोत्कर्षप्रकाशनार्थत्वाभावाद् भगवान् श्रीमदाचार्यचरणाश्च मदपराधं क्षमन्त्विति विज्ञापयामीतिदिक् ।) न च प्रबुद्धोक्त- दारसुतगृहप्राणनिवेदनस्य कव्युक्तकायादिधर्मसमर्पणस्यैकादशाध्यायोक्तस्य दास्येनात्मनिवे- दनस्य च गद्ये प्रत्यभिज्ञायमानत्वात्समर्पणगद्यस्य तदनुवादत्वं शक्यम् । अर्थतः शब्दतो वा पुरोवादसादृश्यस्यानुवादत्वतन्त्रस्यात्रानुपलम्भात् । तदुक्तफलस्यात्राकथनाच्च । किन्तु सेवाकरणोपदेशात्पूर्वं ब्रह्मसंबन्धकरणेनोनविंशोक्तसेवाधिकारत्वस्यात्र स्फुटत्वादात्मनिवेदन- पूर्वकं क्रियमाणसेवाफलत्वेनोक्ताया महद्धिसंग्रयंभक्तेरत्र सहस्रपरीत्यादिनाधिकारिविशे- षणेन फलतया सूचनात्प्रबुद्धायुक्तार्थसंग्रहेप्यन्तःकरणासेहपराणामधिकानां निवेशने- नोनविंशोक्ताधिकारिविशेषणसूचितसंस्कारस्वरूपनिश्चायकेऽस्मिन् गद्ये योगेश्वराद्युक्तातिरि- क्तमेवेदं समर्पणं बोध्यते । न चान्तःकरणाद्यन्तकथनस्याधिक्यात् समर्प्यत्वांशे अप्रामाण्यं

शङ्क्यम् । अम्बरीषमभिप्रेत्य 'ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम्, हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' इति नवमस्कन्धे दुर्वाससं प्रति भगवद्वाक्ये तेषामपि बोधनात् । न चास्मिन् वाक्ये हित्वेति पदाद्गारादित्याग एव बोध्यते, नतु समर्पणमिति तदंशे कथमस्य प्रामाण्यमिति शङ्क्यम् । अम्बरीषस्य तदानीं राज्यदशासद्भावेन परमहंस- वद्बहिस्त्यागस्याभावादान्तर एव स वाच्यः । राजा च 'करौ हरेर्मन्दिरमार्जनादिष्वि'त्यादि- वाक्यान्महाराजोपचारेण स्वयं सेवां करोतीति भगवद्धर्मं जानन् रक्षकत्वेन भगवन्तमनु- सन्दधानस्तानि कथं न समर्पयेदित्यर्थत एव प्राप्तत्वात् । वस्तुतस्तु राजा मर्यादापुष्टावङ्गी- कृतो, न केवलपुष्टौ, न वा पुष्टिमर्यादायाम्, अतस्तस्य महद्विसृग्यभक्त्यर्थित्वाभावात्तत्र तदकथनेप्यदोषः । तस्य तदर्थित्वाभावे च 'केवलेन हि भावेने'ति सन्दर्भे तदनुल्लेख एव गमकः । श्रीकृष्णावतारात् प्राक् तस्य मार्गस्याप्राकट्यादिति । तेन यदस्मिन् गद्ये उच्यते, तन्न कस्याप्यनुवादः, किन्तु कर्मणः कल्पसूत्रवदिदमात्मनिवेदनप्रकारनिश्चायकम्, अतो नात्रानुवादशङ्कालेश इति दिक् । न च भवत्वेवम्, तथाप्यत्र पूर्वोक्तवाक्यार्थ- सङ्ग्राहकत्वं तु स्फुटम् । तथा सति तत्र पुरुषाणां जिज्ञासूनामेवाधिकारदर्शनादत्र पुमांस एवाधिकुर्युः, नतु स्त्रियोपीति शङ्क्यम् । 'को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजे- त्सर्वतो मृत्युरुपास्यममरोत्तमैः । सर्वेधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप । देवोसुरो मनुष्यो वे'त्यादिवाक्यैरिन्द्रियवत्त्वेनैव सर्वेषां नवविधायामपि भक्तौ सामान्येनाधिकारसिद्धौ भक्ति- विशेषभूत आत्मनिवेदने स्त्रीणां नाधिकार इति वक्तुमशक्यत्वात्, निषेधाभावात्, प्रत्युत सप्त- मस्कन्धे 'तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोधधे' इति दैत्यवालकान् प्रति प्रह्लादवाक्ये कयाधुमुद्दिश्य नारदेन नवविधभक्त्युपदेशस्य बोधनेन तस्यां तस्यापि प्रक्तेश्च । भगवताष्येका- दशे सम्वादं समापयता 'साधवे शुचये ब्रूयाद् भक्तिः स्याच्छूद्रयोषिता'मिति शूद्रयोषिद्भ्यो भक्तिसद्भावे पूर्वोक्तसर्वकथनस्याङ्गतत्वात् । कथनस्य च यथाधिकारं करणैकप्रयोजनत्वात् । 'विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोन्त्यजाः । रजस्तमः प्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ । बहवो मत्पदं प्राप्ता' इति तासामपि सत्सङ्गफलस्यापि बोधनाच्च । न च भवतु स्त्रीणामप्यात्म- निवेदनेधिकारः, तथापि स्त्रीव्यक्तिकवीतरागबालानां निवेदने कार्यमाणे तेषां दाराद्यभावात्तत्र तत्पदाकथनं पत्यायूहश्च प्राप्नोति, अन्यथा तेषामसमर्पितत्वे तत्सङ्गादोषः स्यात्, अतः स तत्र कुतो न क्रियत इति शङ्क्यम् । सृष्टिन्यायाद्धर्मनिबन्धनाया गौण्या दारपदात्पत्युः सुतपदात् पित्रोश्चोपलक्षणे तेषां समर्पितत्वसिद्धेः पूर्वोक्तदोषासंसर्गे तत्रप्रयोजनाभावात् । सृष्टिन्यायस्तु पूर्वतन्त्रे प्रथमाध्यायस्योपान्त्ये । तत्र हि 'सृष्टिरूपं दधाती'तिवाक्यं सृष्टिस्सञ्ज्ञकानामिष्टकाना- मुपधानं विधत्ते । तत्र काः सृष्टय इत्याकाङ्क्षायाम् 'तद्वानासामुपधानो मन्त्र' इति पाणिनि- सूत्राद्यदुपधाने सृष्टिवान् मन्त्रस्ताः सृष्टय इति सिध्यति । मन्त्रास्तु 'ब्रह्मासृज्यत, भूतान्य- सृज्यन्त' इत्यादयः पश्चात्पठ्यन्ते । प्रथममन्त्रे सृजतिर्न प्रयुक्तः, किन्तु दधाति प्रयुक्तः, १. निश्चायकमिति बोध्यमिति पाठः । २ ४-४-१२५ सूत्रपाठे ।

श्रीपुरुषोत्तमकृतविवरणसमेतम् । ३९ एकया स्तुवत प्रजा अधीयन्तेति तत्पाठात् । तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजति धातुप्रयोगाङ्गमग्रूपं सादृश्यमस्तीति सृष्टिशब्दः । स सृष्टिसङ्गं बोधयतीति । ननु भवत्वेवम्, तथापि देहाद्यात्मान्तान् समर्पयामीत्यनुक्त्वा, यदत्रैवमुक्तम्, तत्र किं बीजमिति चेत् । उच्यते । विधेयांशनिष्कर्षणैवेष्यध्यासाभावाय तत्स्वरूपस्फुटीकरणं चेति जानीहि । अत्र ह्यात्मनिवेदने सर्वसाहित्यं विधेयमिति देहादीननूद्यात्मसाहित्यमवयुत्या निरूप्यते । देहादयोऽहमित्यध्यासविषयास्तद्धर्मा अहं ममेत्युभयाध्यासविषया दारादयः केवलममता- विषया इति । आत्मना सहेति सहपदप्रयोगस्तु पितरि निमन्त्रिते पुत्रः पित्रा सहागत इत्यत्रेव प्राधान्यं न विहन्ति । तस्माद्वये बोध्यमानं समर्पणमूनविंशोक्ताधिकारस्वरूपस्यैव बोधकम्, नतु कस्याप्यनुवादः, वाक्यार्थस्यापूर्वत्वादिति । प्रकृतमनुसरामः ॥ १ ॥ एवं प्रतिज्ञाय वाक्यान्याहुर्ब्रह्मसम्बन्धेत्यादि । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धो नाम सर्वस्मिन् भगवत्स्वामिकत्वरूपः सम्बन्धः, तस्य करणं नाम भगवता आचार्यान् प्रति गद्येनोक्तो य आत्मसमर्पणप्रकारः, तद्रीत्या भगवति स्वात्मसहितस्वीयसर्वपदार्थानां भगवति तथात्वविज्ञापनम् । ‘स वै नैव रेम’ इति श्रुतेः, ‘क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु’रित्या- दिवाक्याच्च, वस्तुतः सर्वस्य भगवदीयत्वेऽपि ‘स वै नैवे’त्यादिश्रुत्या रमणार्थं द्वितीय- निर्माणादिश्रावणेनापादिता या तत्तत्पदार्थे जीवस्य स्वत्वस्वीयत्वाभिमतिः तत्परि- त्यागेन तेषु भगवदीयत्वस्य विज्ञापनमिति यावत् । तस्मात्सर्वेषां समर्पितात्मनां देहजीवयोः स्थूललिङ्गशरीरयोः । सर्वदोषनिवृत्तिः । हि निश्चयेन । (यतो भगवतैव गीतायां ‘यत् करोषि यदश्नासी’त्यादिना सर्वकर्मार्पणं कर्तव्यत्वेनोपदिश्य, ‘शुभाशुभ- फलैरेवं मोक्ष्यसे कर्मबन्धनै’रिति तत्फलमुक्तम् । एकादशे च ‘यानास्थाय नरो राज’न्नित्यनेन प्रमादाद्यभावरूपं भगवद्धर्मास्थितिफलमुक्तम् । ) युक्तं चैतत् । वस्तुतः सर्वस्य ब्रह्मरूपत्वात्तत्र भगवदीयत्वेऽनुसंहिते तदुपदेहभूतप्राकृतगुणजन्यदोषस्य निवृत्तिर्भवतीति । तथा च जीवादिदोषवशात्कृतसेवाङ्गीकारविषयिणी चिन्ता न कार्येत्यर्थः । अत्र सर्वेषामित्यनेन ‘देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय’मिति सप्तमस्कन्धीयप्रह्लादवाक्योक्ताः सर्वेऽपि भजना- धिकारिणः सङ्गृहीताः । जीवपदेन च शरीरविशिष्टश्चेतनः, नतु केवलः, तस्मिन् स्वतो दोषाभावस्यासङ्गश्रुत्या शारीरब्राह्मणे सिद्धत्वात् । देहपदस्य पृथगुक्तिस्तु स्थूलशरीरदोषाणा- मभीक्ष्णमनुभूयमानतया दोषाकरत्वबोधनार्था । यद्वा । जीवपदेनाविद्यासम्बन्धवांश्चेतनः । देहपदेन देहद्वयमिति बोध्यम् । ननु ब्रह्मसम्बन्धकरणमात्राच्चेत्सर्वेषां देहजीवगतसर्वदोष- १. ( ) इदमपि श्रीपुरुषोत्तमानां पाठान्तरम् ।

निवृत्तिः, तदा निर्दुष्टत्वात् प्रतिबन्धकाभावेन तदानीमेव सेवया मुख्यफलप्राप्तिः, गद्ये तादर्थ्येनैव समर्पणस्योक्तत्वात्, तस्य दानहेतुकत्वाद्भगवदिच्छाधीनत्वात्, तदभावेपि सायुज्यप्राप्तिस्तु स्यादेव । तत्र प्रतिबन्धकस्याभावात् सेवायाश्च पूर्वं कृतत्वात्, प्रमाण- सिद्धायास्तस्या नैष्फल्यस्य वक्तुमशक्यत्वात् । तथा सति विवक्षितस्य पुष्टिमर्यादाभक्तिमार्ग- स्यैवोच्छेदः, उपदेशकस्याभावात् । किञ्च, उक्तरीत्या ब्रह्मसम्बन्धकरणोत्तरमपि दोषाणां प्रत्यक्षतोऽनुभूयमानत्वात्तद्विरोधोपीति कथं तन्निवृत्त्यवगतिरित्याकाङ्क्षायां दोषनिवृत्तिस्वरूपं वक्तुं पूर्वं दोषान् गणयंस्तन्निवृत्तिस्वरूपं सपादश्लोकेन भगवानाहेत्याहुर्दोषा इत्यादि । अत्र जीवस्य सहजा दोषा अविद्यासम्बन्धतत्कृताभिमानप्राणधारणप्रयत्नाः । लिङ्गदेहस्य सहजाः कामक्रोधादयः क्षुधादयश्च । स्थूलदेहस्य सहजास्तु मातापितृमलानुषङ्गात्मत्वं रोगादयश्च । देशकालोत्थादयस्तु देहयोरेव, न जीवस्य । ते तद्द्वारा जीव उपचर्यन्ते । तत्र देशोत्था मगधमरुसिन्धुप्रभृतिदेशेषूत्पत्त्या तत्र गमनादिना च जाताः । कालोत्थाः कलिप्रभवा दुर्मुहूर्तप्रभवा अवस्थादिकृताश्च । उत्थशब्दो द्वन्दान्ते श्रूयमाणः प्रत्येकमभि- सम्बध्यते । तेनात्र दोषद्वयम् । एतान् भक्तिमार्गीयेभ्यो दोषेभ्यो व्यावर्तयितुं विशिषन्ति लोकवेदनिरूपिता इति । इदं च विशेषणं देहलीदीपवत् पूर्वापरयोः सम्बध्यत इति पञ्चस्वपि तदन्वयः। उचितं चैतत् । ‘गुणदोषभिदा दृष्टिर्निगमात्ते न हि स्वत’ इत्येकादशस्क- न्ध उद्धववाक्ये गुणदोषयोः श्रुतिमूलकत्वस्य कथनात् लोकस्यापि दूरतस्तदुपजीवकत्वा- दिति । संयोगजाः । बुद्धिपूर्वकं कामेन च सम्यग्ज्ञानोयोगजन्याः । स्पर्शजा अबुद्धिपूर्वकम- कामतश्च जाताः । ते कथञ्चन केनापि श्रौतेन वा स्मार्तेन वा लौकिकेन वा प्रकारेण न मन्तव्याः सेवाप्रतिबन्धकतया न विचारणीयाः । ब्रह्मसम्बन्धकरणोत्तरं देहेन्द्रियप्राणा- न्तःकरणजीवेषु तद्धर्मेषु च भगवदीयत्वेऽनुसंहिते तत्स्वामित्वेन तत्प्रेरकत्वेन च भगवत एवानुसन्धानात्तेषां स्वसम्बन्धित्वनिवृत्तिरिति तेषां स्वरूपतः सत्त्वेपि पारक्यवत् तं प्रत्यकिञ्चि- त्करत्वात्तेषां सेवाप्रतिबन्धकत्वनिवृत्तिरेव निवृत्तित्वेनाभिप्रेता, नतु स्वरूपतो निवृत्तिरत्रा- भिप्रेता । तथा च स्वरूपतः सत्त्वान्न तदानीमेव सायुज्यादिप्राप्तिः, न वा प्रत्यक्षविरोधः । प्रतिबन्धसामर्थ्यस्य निवृत्तत्वाच्च सेवाङ्गीकार इति न काचिदनुपपत्तिरित्यर्थः । नन्वेवंविधाया दोषनिवृत्तेः प्रायश्चित्तादिनापि संभवाद्ब्रह्मसम्बन्धतः को विशेष इत्यत आहुरन्यथेत्यादि । अन्यथा एतदतिहाय सर्वदोषाणां निवृत्तिः कथञ्चन केनापि कर्मज्ञानभक्तिरूपेण साधनेन न, दोषहेतूनां कर्मदेशकालानां विद्यमानत्वात्तैः संयोगस्पर्शाभ्यां तदुत्पत्तिनैयत्यात् । कृते तु ब्रह्मसम्बन्धे दूष्येषु जीवदेहादिषु भगवदीयत्वानुसन्धानात्तेषु स्वसम्बन्धनिवृत्ते- र्दोषाणामकिञ्चित्करत्वमितीदमेव स्वतन्त्रं दोषनिवृत्तिसाधनम्, नान्यदित्यर्थः । अत्रेदं बोध्यम् । एकादशस्कन्धे ‘योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म च भक्तिश्चे’तिवाक्ये भगवता त्रीणि जीवानां श्रेयःसाधनान्युक्तानि । श्रेयश्च १. नैर्बल्यमिति पाठः ।

दुःखाभावः सुखं चेति । चतुर्थस्कन्धे ‘श्रेयस्त्वं कतमद्राजन्कर्मणात्मन ईहसे । दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यत’ इति नारदेनोक्तम् । तत्र पूर्वं दुःखाभावो मृग्यः । बुद्धेस्तत्रैव प्रथमप्रवृत्तेः । दुःखं च पूर्वोक्तेभ्य एव दोषेभ्यः । दोषाणां च निवृत्तिर्न प्रायश्चित्तकर्मणा आत्यन्तिकी । तदुत्तरमपि पुनः पापे मनःप्रवृत्तिदर्शनात् । 'कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शन’मिति षष्ठे शुकवाक्याच्च । न च तर्हि ज्ञानात्तन्निवृत्तिरस्तु । ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरु- तेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथे’ति गीतायां भगवद्वाक्याच्चेति शङ्क्यम् । ‘नाश्रतः पथ्यमेवान्नं व्याधयोऽभिभवन्त्युत । एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते । तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन च । देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्यघं महदपि वेणुगुल्ममिवानल’ इति त्रिषु प्रथमे पथ्याशनदृष्टान्तेन शनैर्नानासाधनतः क्षेमशब्दोदितज्ञानोत्पत्तिमुक्त्वा, द्वितीये तत्सहकारीणि नवसाधनान्युक्त्वा, तृतीये पापनाशकथनात् । श्रीधरीये तप ऐकाग्र्यम् । ‘मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तप’ इति स्मृतेः । ब्रह्मचर्यं च ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव चे’त्यष्टाङ्गमैथुनाद्विपरीतम् । शमो मनोनिग्रहः । दमो बाह्येन्द्रियनिग्रहः । त्यागो दानम् । सत्यं सत्यभाषणम् । शौचं देहाशुद्धिनिवारक आचारः । यमोऽहिंसादिः । नियमो जपादिरिति तेषां विवरणात् । एवं बहुकालतो दोषनिवृत्तिरिति सहकार्याभाव इदानीं ज्ञानस्योत्पत्तेरेव दुर्घटत्वात्कथञ्चित् भवनेपि सहकारिसंपत्तेर्दुर्लभत्वाच्च । अतः परं भक्तितो दोषनिवृत्तिरवशिष्यते । ‘केचित्केवलया भक्त्या वासुदेव- परायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः । न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया । सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः । प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निःपुनन्ति राजेन्द्र सुराभाण्डमिवापगाः । सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेपि पश्यन्ति हि चीर्णनिष्कृता’ इति वाक्यैस्तस्या अपि पापनिवारकत्वेनोक्तत्वात् । सा तु ब्रह्मसम्बन्धकरणादेव सिध्यति, न तु तदतिहाय । तथा हि । अत्र प्रथमे ‘केचि’- दितिपेदन तादृशाधिकारिणां दुर्लभत्वं सूचितम् । ‘केवलये’तिपदेन सहकारिनिरपेक्षत्व- बोधनाद्भक्तेर्ज्ञानापेक्षया प्राबल्यं च बोधितम् । ‘कार्त्स्न्य’पदेन नीहारभास्करदृष्टान्तेन च निरन्वयपापध्वंसजनकत्वम् । प्रौढे भास्करे नीहारस्य तथा नाशात् । द्वितीये ‘कृष्णा- र्पितप्राण’ इत्यधिकारिविशेषणेन तस्य कृतब्रह्मसम्बन्धत्वस्य बोधनात् । उचितं चैतत् । अपहतपाप्मनः स्वस्वामित्वेऽनुसंहिते दोषनिवृत्तेर्युक्तत्वादिति । परमयं विशेषः । तथा हि । तत्र तृतीयान्तेन ‘तत्पूरुषनिषेवये’तिपदेन सर्वदा भगवद्भक्तसङ्गत्वं च सूचितम् । तृतीये मार्गोत्कर्षबोधनार्थं भगवद्भक्तस्वरूपबोधनेन दाम्भिकादिसंसर्गत्यागः सूचितः । सि. र. ६