तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
२ प्रपाठके ११ अनुवाकः। २४७
नेव प्रायु॑ङ्क्त॒ भूर्भुव॒: स्वरित्या॑है॒तद्वै वाचः॑ स॒त्यं यद्वे॒व वाचः॑ स॒त्यं यदे॒तत् प्रायु॑ङ्क्त^(७) ^(८)अथ॑ सावि॒त्रीं गा॑य॒त्रीं त्रि॒रन्वा॑ह प॒च्छोऽर्ध॑र्च॒शोऽन॑वानग्ँ स॑वि॒ता श्रियः॑ प्रस-
इति। इत्याङ्गिरसमन्त्रेण प्रशस्तत्वात् प्रणवस्य वेदत्रयप्रतिनिधित्वं युक्तं ॥
तेन प्रणवेन प्रारभ्य पश्चात् पठनीयान् मन्त्रान् दर्शयति। ^(७)“त्रीणेव ० तत् प्रायुङ्क्त”^(७) इति। ‘भूर्भुवः स्वः’ इति यद्व्याहृतित्रयं, तल्लोकत्रयात्मकब्रह्मप्रतिपादकं, तत् ‘आह’ पठेत्। तेन त्रीनेव वेदान् प्रयुक्तवान् भवति। व्याहृतीनां वेदत्रयसारत्वेन प्रोक्तत्वात्*। एतच्च छन्दोगा अधीयते, स एतां त्रयीं विद्यां अभ्यतपत् एतस्यास्तप्यमानाया रसान्प्रावृहत्† भूरित्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्य इति वेदत्रयसारत्वेन वाचःसम्बन्धि सत्यस्वरूपमित्युच्यते। अतस्तत् सत्यमेव प्रयुक्तवान् भवति ॥
व्याहृतित्रयादूर्ध्वं पठनीयं दर्शयति। ^(८)“अथ सावित्रीं ० प्रतिपद्यते”^(८) इति। इति ‘अथ’ व्याहृत्यनन्तरं, ‘सावित्रीं’ सवितृदेवताकां, गायत्रीच्छन्दस्कां तत्सवितुरित्यादिकामृचं च त्रिः पठेत्। तत्रायं प्रकारः, प्रथमं ‘पादशः’ पादे पादे
* प्रजापतिनोक्तत्वात् इति तै० पाठः
† रसान् प्राप्तवान् इति तै० पाठः ।
२४८ तैत्तिरीये आरण्यके
वि॒ता श्रिय॑मे॒वाप्नोत्यथो॑ प्र॒ज्ञाते॑यैव प्रति॑पदा॒ च्छन्दाँ॑- सि॒ प्रति॑पद्यते^(८) ॥ ११ ॥
विरम्य, पठेत् । ततः ‘अर्धर्चशः’ एकैकस्मिन्नर्द्धे विरम्य, पठेत् । ततः ‘अनवानं’ विरामरहितं यथा भवति, तथा पठेत् । तस्यामृचि प्रतिपाद्यो यः ‘सविता’, सोऽयं ‘श्रियः’, ‘प्रेरकः’, अतो ब्रह्मयज्ञानुष्ठायी ‘श्रियं प्राप्नोति’, एव। एवमेकस्मिन्न- हनि विधानमुक्तं ‘अथो’ अनन्तरं, तदा दिवसेषु प्रज्ञातयैव ‘प्रतिपदा’ पूर्वस्मिन् दिवसे किञ्चित् पठित्वा परेद्युरनुष्ठाना- यायमुपक्रम इति या प्रतिपत् प्रज्ञाता यः प्रारम्भप्रदेशो बुद्धौ स्थापितः तयैव प्रतिपदा प्रारम्भप्रदेशेन, ‘छन्दांसि’ वेदावयवान्, परेद्युः ‘प्रतिपद्यते’ प्रारभते । पूर्वेद्युर्यावद्व्यवसितं तत एवारभ्योत्तरेद्युरधीयीत न तु विप्रयुक्तं कञ्चिद्वेदभागं ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
२ प्रपाठके १२ अनुवाकः । २४६
अथ द्वादशोऽनुवाकः ।
(१)ग्रा॒मे मन॑सा स्वा॒ध्या॒यमधी॑यीत॒ दिवा॒ नक्तं॑ वा(१)
(२)इति॑ ह॒ स्माह॒ शौच॑ आ॒ह्नेयः॑(२) (३)उ॒तार॑ण्येऽब॒लं
अथ द्वादशोऽनुवाकः ।
यत् पूर्वमुक्तं प्राच्यां दिशि ग्रामाद्बहिरित्यादि । तत्राशक्तस्यानुकल्पं विधत्ते । (१)“ग्रामे मनसा • नक्तं वा”(१) इति । यदा बहिर्गन्तुमशक्तः ‘ग्रामे’, अधीते तदा ‘मनसा’, एव ‘अधीयीत’, उदित आदित्ये प्रारब्धुमशक्तश्चेत् ‘दिवा नक्तं अधीयीत’ ॥
कस्यचिन्महर्षेर्मते मुख्य एवायं पक्षोऽपीति दर्शयितुमेतमृषिमुदाहरति । (२)“इति ह स्माह • आह्नेयः”(२) इति । शुचिनामकस्य महर्षेः पुत्रः ‘शौचः’, इति । अह्निसंज्ञिताया मातुः पुत्रः ‘आह्नेयः’, महर्षिः ‘इति ह स्माह’ ग्रामे मनसेत्यादिकमपि मुख्यपक्षमेवेत्याह ॥
नियमान्तरेष्वशक्तस्यानुकल्पान् विधत्ते । (३)“उतारण्ये • स्वाध्यायमधीते” (३) इति । ग्रामे मनसाध्ययनमुक्तं* ‘अरण्ये’, अपि ‘अबलः’ अशक्तश्चेत्, मनसाधीयीत† । तमेवाबलं प्रति उत वाच इति पक्षान्तरमुच्यते । उच्चैरध्येतुमशक्तः केवलेन मनसा यदा निद्रालस्यचिन्तादिकं भवति तदानीं ‘वाचा’
* मनसा स्वाध्यायमुक्तमिति तै० पाठः ।
† अशक्तश्चेद्ग्रामेधीयीतेति तै० पाठः ।
2 H
२५० तैत्तिरीये आरण्यके
उत॒ वाचो॑त ति॒ष्ठन्नुत॒ व्रज॒न्नुतासी॑न॒ उत॒ शया॑नोऽधी- यी॒तैव स्वा॒ध्यायं तप॑स्वी पु॒ण्यो भ॑वति॒ य ए॒वं वि॒द्वा- न्स्वा॒ध्यायमधी॒ते॑ ⁽³⁾ ⁽⁴⁾नमो॒ ब्रह्म॑णे॒ नमो॑ अ॒स्त्व॒ग्नये॒ नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॒ वाचे नमो॑ वा॒- चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि⁽⁴⁾ ॥ १२ ॥
जिह्वास्पन्दनमात्रेण,'अधीयीत' । दर्भेष्वासीन इति* यदुक्तं त- च्चासनानिर्वन्धे शक्तिरहितस्य उत व्रजन्नित्यादयः पक्षाः। आलस्य परिहारायेतस्ततः शनैः 'व्रजन्', वा क्वचिदेव तिष्ठन्वा नियम- मन्तरेण स्वेच्छयैवापविश्य वा 'शयानः', वा स्वशक्त्यनुसारेण 'स्वाध्यायमधीयीतैव' । न त्वङ्गलोपानुसारेण प्रधानस्य लोपो न्याय्यः, तादृशस्वाध्याययुक्तोऽपि 'तपस्वी भवति', अध्ययनफलं प्राप्नोति, 'पुण्यः' पङ्क्तिपावनश्च, 'भवति' ॥
एतस्य ब्रह्मयज्ञस्याङ्गभूतं कञ्चिन् मन्त्रं प्रदर्शयति । ⁽⁴⁾ 'नमो ब्रह्मणे ० बृहते करोमि'⁽⁴⁾ इति । ब्रह्मशब्देन वेदः प्रजापतिर्वाोच्यते । वाक्शब्देन सरस्वती, 'वाचस्पतिः', बृह- स्पतिः । प्रशस्तत्वात् 'विष्णुः', 'बृहत्' । अस्य मन्त्रस्य विनियोग उपरिष्टाद्भविष्यति† ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके द्वितीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
* प्रागासीन इति तै० F च पाठ ।
† विनियोगमुपरिष्टाद्वक्ष्यति इति तै० पाठः ।
२ प्रपाठके १३ अनुवाकः । २५१
अथ त्रयोदशोऽनुवाकः ।
(१)मध्यन्दि॑ने प्र॒बल॒मधी॑यीतासौ खलु॒ वा ए॒ष आ॑दि॒त्यो यद्ब्राह्म॑ण॒स्तस्मा॒त्तर्हि॒ तेजि॑ष्ठं तप॒ति॒ तदे॒षाभ्य॑क्ता^(१) । (२)चि॒त्रं दे॒वाना॒मुद॑गादनी॑कं चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ सूर्य॑
अथ त्रयोदशोऽनुवाकः ।
तत्रैव ब्रह्मयज्ञे कञ्चिदन्यं विशेषं विधत्ते । ^(१)“मध्यन्दिने ० तदेषाभ्युक्ता”^(१) इति । मध्यन्दिनकाले 'प्रबलं' उच्चतरं यथा भवति तथा, 'अधीयीत' । योयं ब्रह्मयज्ञानुष्ठाता ब्राह्मणोऽस्ति सः 'एषः', 'असौ' दिवि दृश्यमानः,* 'आदित्यः', एव तत्प्राप्तियोग्यत्वात्, यस्मादादित्यरूपः 'ब्राह्मणः', 'मध्यन्दिने प्रबलमधीयीत', 'तस्मात्', तदात्मक आदित्योपि 'तर्हि' मध्यन्दिने काले, 'तेजिष्ठं' अतिशयेन तीक्ष्णं यथा भवति, तथा 'तपति' । 'तत्' एतदादित्यमाहात्म्यं प्रति, काचित् ऋक् 'अभ्युक्ता'† ॥
तामेतामृचं दर्शयति । ^(२)“चित्रं देवानामुदगादनीकं ० जगतस्तस्थुषश्चेति”^(२)इति । 'देवानां' दीप्यमानानां रश्मीनाम्, 'अनीकं' समूहं नानारूपमादित्यमण्डलं, 'चित्रं' कालभेदेना-
* दिवि विद्यमान इति तै० पाठः ।
† काचित् ऋगप्युदीरिता इति तै० पाठः ।
2 H 2
२५२ तैत्तिरीये आरण्यके
आ॒त्मा जग॑तः स्त॒स्थुष॑श्चेति॑⁽²⁾ ⁽²⁾स वा ए॒ष य॒ज्ञः स॒द्यः प्रता॑यते स॒द्यः सन्ति॑ष्ठते॒ तस्य॒ प्राक्सा॒यम॑वभृ॒थः⁽³⁾ ⁽⁴⁾नमो॒ ब्रह्म॑ण॒ इति॑ परिधानीयां॑ त्रि॒रन्वाह॑⁽⁴⁾ ⁽⁵⁾अ॒प
रुणशुक्लादिवर्णोपेतत्वात् चित्रं, तादृशं मण्डलम् ‘उदगात्’ पूर्वस्यां दिश्युदयं प्राप्नोत्, तच्च मण्डलम्न्धकारनिवारणोप- युक्तत्वात्* मित्रादीनां चक्षुस्थानीयं । तदर्थमेव लोकत्रयम् ‘आप्राः’ रश्मिभिरापूर्य वर्त्तते, तन्मण्डलवर्त्ती सूर्य्यरूपः पर- मात्मा ‘जगतः’ जङ्गमस्य, ‘तस्थुषः’ स्थावरस्य, ‘आत्मा’ जीवरूपेण शरीरेष्ववस्थितः । ‘इति’ अनेन मन्त्रेण, आदित्यमाहात्म्य- मवगन्तव्यं ॥
ब्रह्मयज्ञस्य इतरयज्ञवैलक्षण्यं दर्शयति । ⁽²⁾“स वा एषः० प्राक्सायमवभृथः”⁽³⁾ इति । अयं ब्रह्मयज्ञः यस्मिन्नहनि प्रारभ्यानुष्ठीयते तस्मिन्नेवाहनि समाप्यते नतु यज्ञान्तरवदित- रदिनेष्वनुगच्छति तस्मात् ‘प्राक्’ प्रातःकाले, प्रारब्धस्य तस्य यज्ञस्य ‘सायं’, ‘अवभृथः’ समाप्तिः ॥
समाप्तिकाले मन्त्रविशेषं विधत्ते । ⁽⁴⁾“नमो ब्रह्मणे ० त्रिरन्वाह”⁽⁴⁾ इति । परिधीयते समाप्यते यया सेयमृक् ‘परि-
* निवारणेनोपकारित्वात् इति तै० पाठः ।
२ प्रपाठके १४ अनुवाकः। २५३
उ॒प॒स्पृश्य॑ गृ॒हाने॑ति॒ ततो॒ यत्किञ्च॒ ददा॑ति॒ सा द॑क्षिणा॑^(५) ॥ १३ ॥
अथ चतुर्दशोऽनुवाकः।
^(१)तस्य॑ वा ए॒तस्य॑ य॒ज्ञस्य॑ मे॒घो ह॑वि॒र्धानं॑ वि॒द्युद॒ग्नि-
र्वर्ष॒ꣳ ह॒विस्त॑नयि॒त्नुर्वष॑ट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सोऽनु॑-
धानीया', सा चात्र पूर्वानुवाके आम्नाता, ॐ नमो ब्रह्मणे इत्येषा, तां 'त्रिः', पठेत् ॥
तत्पाठादूर्ध्वं कर्त्तव्यतां दर्शयति । ^(५)“अप उपस्पृश्य ० सा दक्षिणा”^(५) इति । सेयं 'दक्षिणा', गृह एव नचारण्य इत्यर्थः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ चतुर्दशोऽनुवाकः।
ग्रहणाध्ययने यान्यनध्यायकारणानि* तानि ब्रह्मयज्ञाध्ययने स्वाध्यायं न निवारयन्तीति वक्तुन्तेषामनध्यायकारणानां यज्ञाङ्गतामुपचरति । ^(१)“तस्य वा एतस्य ० स्विष्टकृत्”^(१)
* अनध्ययनकारणानि इति तै० पाठः ।
२५४ तैत्तिरीये आरण्यके
वषट्का॒रो वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्विष्ट॒कृत्^(१) ^(२)य ए॒वं वि॒द्वान्मे॒घे व॑र्षति वि॒द्योत॑माने स्तनय॑त्यवस्फू॒र्जति॑ पव॑माने वा॒याव॑मावा॒स्या॑याꣳ स्वाध्याय॒मधी॑ते* तप॑ एव तत् तप्यते॒ तपो॒ हि स्वा॒ध्याय॒ इति^(२) ^(३)उ॒त्तमं॒ नाकꣳ
इति । अनध्यायहेतूनापस्तम्बो दर्शयति । विद्युत् स्तनयितु- वृष्टिश्चापत्तौ यत्र सन्निपतेयुस्त्र्यहमन्ध्याय इति । सोय- मकालमेघो ग्रहणाध्ययने निषिद्धोऽपि ब्रह्मयज्ञाध्ययने स्वी- कार्य एव । यथा सोमयागे ‘हविर्धानं’, न यागविरोधि तथा तत्र ‘मेघः’, अपि । एवं विद्युदादौ द्रष्टव्यं । † अकाले महानु- त्पातरूपो ‘वायुः’ । ‘आत्मा’ यजमानस्थानीयः । स्पष्टमन्यत् ॥
अनध्यायहेतूनां‡ वर्जनीयत्वं निवार्य उपादेयत्वं दर्शयति । (२) “य एवं ॰ स्वाध्याय इति” (२) इति । मेघादयो विरोधिनो न भवन्तीति ‘यो विद्वान्’, सोयं सत्स्वपि मेघादिनिमित्तेषु ‘स्वाध्यायमधीयीत’, तदा ‘तपः’, तप्तं भवति । यस्मादयं ब्रह्मयज्ञः ‘स्वाध्यायः’ कृच्छ्रचान्द्रायणादिवत्तपोरूपः, तस्मान्न सन्त्यनध्या- याः । नहि चान्द्रायणादिकं मेघादिषु वर्ज्यते ॥
कदाचिदप्यवर्जनेनानुष्ठितस्य ब्रह्मयज्ञस्य फलं दर्शयति । (३) “उत्तमं ॰ सायुज्यं गच्छति” (३) इति । अनेन ब्रह्मयज्ञेन
* स्वाध्यायमधीयीतेति तै० पाठः ।
† “र्वातः” ग्रामग्रहादिदाहकः, इति तै० F च अधिकः पाठः ।
‡ अथ अनध्ययनहेतुना इति तै० पाठः ।
२ प्रपाठके १४ अनुवाकः । २५५
रोह॑त्युत्त॒मः समा॑नानां॒ भव॑ति॒ याव॑न्तरँ ह॒ वा इ॒मां वि॒त्तस्य॑ पू॒र्णां दद॒त् स्वर्गं॑ लो॒कं जय॑ति॒ ताव॑न्तं लो॒कं ज॑यति॒ भूया॑ꣳसं चा॒क्ष्यं॑ चाप॑ पुनर्मृ॒त्युञ्ज॑यति॒ ब्रह्म॑णः सायु॑ज्यं गच्छति⁽³⁾ ॥ १४ ॥
मरणादूर्ध्वं 'उत्तमं' स्वर्गम्, 'आरोहति', जीवनवेलायां पङ्क्तिपावनत्वात् 'समानानां', मध्ये 'उत्तमो भवति' । उत्तमः स्वर्ग एव प्रपञ्च्यते । वित्तेन 'पूर्णां', पृथिवीं ब्राह्मणेभ्यः 'द- दत्', पुरुषः 'यावन्तं', 'स्वर्गं', अनेकभोगोपेतं प्राप्नोति, 'तावन्तं', असौ प्राप्नोति । ततो 'भूयाꣳसं' अधिकमपि, प्राप्नोति 'अ- क्ष्यं' पुनरावृत्तिरहितञ्च, 'लोकं', प्राप्नोति । तत्प्राप्तेरूर्ध्वं 'पुनः', 'मृत्यु', न प्राप्नोति । किन्तु परब्रह्मणः 'सायुज्यं' मोक्षं, 'गच्छति' ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥
२५६ तैत्तिरीये आरण्यके
अथ पञ्चदशोऽनुवाकः ।
(१)तस्य॑ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वावे॑नध्या॒यौ यदा॒त्माऽशुचि॒र्यद्देशः॑ । (२)समृ॑द्धिर्देव॒तानि॑ । (३)य ए॒वं वि॒द्वान् म॑हारा॒त्र उप॒स्युदि॑ते व्रजँ॒स्तिष्ठ॒न्नासी॑नः॒ शया॑नोऽर॒ण्ये ग्रा॒मे वा॒ याव॑त्तर॒ꣳ॒ स्वा॒ध्या॒यमधी॑ते सर्वँ॑
अथ पञ्चदशोऽनुवाकः ।
ग्रहणस्वाध्याये यानि कारणान्यनध्यायस्य तान्यत्रापोद्य कारणान्तरमनध्यायस्य दर्शयति । (१)“तस्य ० यद्देशः” (१) इति । उक्तस्य ब्रह्मयज्ञस्य ‘द्वावनध्यायौ’, विद्येते ‘आत्मा’ ब्रह्मयज्ञस्य कर्त्ता, स्वयं ‘अशुचिः’, यदा भवति तदानीमेकोऽनध्यायः । ‘देशः’, वा मूत्रपुरीषादिभिः ‘अशुचिः’, भवति, स द्वितीयोऽनध्यायः । न तु कश्चित् तृतीयोऽनध्यायहेतुरस्ति ॥
अथ तस्य यज्ञस्य सुलभत्वं दर्शयति । (२)“समृद्धिर्देवतानि” (२) इति । ‘समृद्धिः’ सामग्री, सा च यज्ञान्तरेषु द्रव्यार्जनादिना सम्पाद्यते । इह तु ‘देवतानि,’ एव सामग्री, न तु बाह्यसाधनं किञ्चिदपेक्षितमस्ति ॥
ब्रह्मयज्ञेन तुष्टेषु दैवतेषु फलं भवत्येव तस्मादेवं भूते कालादिवैकल्यशङ्कां* परित्यज्य यज्ञानुष्ठाने फलसिद्धिं दर्शयति । (३)“य एवं ० एषाभ्युक्ता”(१) इति । अस्य यज्ञनिमित्तद्वयव्यति-
* तस्मादङ्गभूतकालादिश्शङ्कामिति तै० पाठः ।
२ प्रपाठके १५ अनुवाकः । २५७
लो॒कान् जय॑ति॒ सर्वाँन् लो॒कान॑नृ॒णोऽनु॒सञ्च॑रति॒ तदे॒- षाभ्यु॑क्ता^{(३)}। ^{(४)}अनृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिँ२ स्तृ॒- तीये॑ लो॒के अनृ॒णा स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒या-
रेकेणानध्यायकारणं नास्ति, सामग्री च न प्रयाससम्पाद्या विद्यते इति ‘एवं’, ‘विद्वान्’, पुमान् कालविषये आसना- दिनियमविषये देशविषये च अङ्गाजाड्यं परित्यज्य ‘याव- त्तरसं’ यावद्बलं यथाशक्ति, ‘स्वाध्यायं’, अधीयानः स्वापे- क्षितान् ‘सर्वान् लोकान्’, प्राप्नोति, तत्र तत्र लोके पुरु- षान्तरवदृणयुक्तो न भवति । किन्तु ‘अनृणः’, एव ‘अनु- सञ्चरति’, ‘तत्’ तस्मिन्ननृणस्यानुसञ्चारे, काचिदृक् च ‘उक्ता’, विद्यते ॥
तामेतामृचं दर्शयति । ^{(४)}“अनृणा • आचीयेमेति”^{(४)} इति। ‘अस्मिन्’ भूलोके, ‘परस्मिन्’ अन्तरिक्षे च, ‘तृतीये’ द्युलोके च, ब्रह्मयज्ञबलात्* ‘अनृणा स्याम’ । ऋणेऽपाकृते सति ‘देव- यानाः’ पन्थानः उत्तरमार्गविशेषाः, ‘पितृयाणाः’ पन्थानः दक्षिणमार्गविशेषाः, ऋणाभावेन प्रतिबन्धाभावात् ‘सर्वान्’, अपि मार्गान् सर्वतः प्राप्नुयाम । ऋषीणामृणं ब्रह्मयज्ञेनापो- द्यत इति तावत् सर्वेषां सम्मतं । देवपितृकार्ययोरसमर्थस्य तदुभयविषयमनृणमनेनैवापोद्यते । अत एव स्मर्यते । जप्येनैव तु संसिद्धेद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्
* फलात् इति तै० पाठः ।
2 1
२५८ तैत्तिरीये आरण्यके
णा॒: सर्वा॑न् प॒थो अ॑नृ॒णा अ॒क्षीय॒मेति॑॥^(४)। ^(५)अ॒ग्निं वै जा॒तं पा॒प्मा जग्राह॒ तं दे॒वा आहु॑तिभिः पा॒प्मान॒मपा॑- घ्नन्नाहुती॒नां य॒ज्ञेन॑ य॒ज्ञस्य॑ दक्षि॑णाभि॒र्दक्षि॑णानां
मैत्रे ब्राह्मण* उच्यत इति। ततः सर्वान् पथो अनृणा अक्षी- येमेत्येतदुपपन्नं ॥
तदेतदनृणत्वं सम्भावयितुं पापस्पर्शराहित्येन स्वाध्यायं प्र- शंसति। ^(५)“अग्निं वै ॰ तदेषाभ्युक्ता”^(५) इति। योयं ‘अग्निः’, सृष्ट्यावुत्पन्नः तमुत्पन्नमात्रमेव सर्वः ‘पाप्मा’, ‘जग्राह’, अग्नि- र्हि पापिनां पापशोधनाय समुत्पन्नः । अत एव स्मृतिकाराः भाण्डादीनां पुनःपाकेन शुद्धिं ब्रुवते । यथा लोकेऽत्यन्तम- लिनं वस्त्रं अल्पजलेन यदा प्रक्षाल्यते तदानीं वस्त्रमालिन्यं सर्वं जले प्रविशति, तथा शोधनीयवस्तुगतः पाप्मा शोध- केऽग्नौ† प्रविष्टः ‘तं’ अग्निगतं पापं, ‘देवा आहुतिभिः’, वि- नाशितवन्तः । तदाहुतिगतं पापं कृत्स्नं ‘यज्ञेन’, यज्ञगतञ्च पापं ‘दक्षिणाभिः’, दक्षिणागतञ्च पापं प्रतिग्रहीत्रा ‘ब्राह्मणेन’, ब्राह्मणगतञ्च पापं तत्तन्मन्त्रगतैर्गायत्रादिछन्दोभिः, छन्दो- गतञ्च पापं स्वकीयशाखारूपेण ‘स्वाध्यायेन’ । न चास्य स्वाध्यायगतस्य पाप्मनो निवर्त्तकान्तरमन्वेष्टव्यं । तस्मात् ‘अप- हतपाप्मा स्वाध्यायः,’ न खलु कश्चिदपि पाप्मा स्वाध्यायं स्प्रष्टु-
* मन्त्रब्राह्मण इति तै० पाठः।
† शोधनेऽग्नौ इति तै० पाठः।
२ प्रपाठके १५ अनुवाकः। २५६
ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भिश्छन्द॑सः॒ स्वाध्या॑येना- प॑हतपाप्मा स्वाध्या॒यो दे॑वप॒वित्रं॒ वा ए॒तत् तं योऽनूत्- सृ॒जत्यभा॑गो वा॒चि भ॑वत्यभा॒गो नाके॒ तदे॒षाभ्यु॑क्ता^(५)। ^(६)यस्तित्या॑ज सखिवि॒द॒ᳵ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑
मोष्टे* यस्मात् 'एतत्' स्वाध्यायस्वरूपं, देवानामपि शोधकं। देवा हि पूर्वस्मिन् जन्मनि मनुष्या भूत्वा स्वाध्यायमधीत्य तद- र्थञ्चानुष्ठाय शुद्धाः सन्तो देवत्वं प्राप्ताः। 'तं' ईदृशं स्वाध्यायं, 'योऽनुत्सृजति' यः पुरुषः प्रारभ्य पश्चात् त्यजति, स पुमान् 'अभागो वाचि भवति' वाङ्मात्रनिष्पाद्यत्वेनाप्रयाससिद्धं स्वा- ध्यायाध्ययनं तथाविधायां प्रयासरहितायां महाफलहेतुभू- तायां वाच्यपि भाग्यं तस्य परित्यक्तुर्नास्ति, महाप्रयासनि- ष्पाद्ये ज्योतिष्टोमादिसाध्ये स्वर्गे भागं नास्तीति किमु वक्तव्यं। यो हि पाणिलब्धञ्चिन्तामणिमग्निमध्ये प्रक्षिपति स भाग्यहीन इत्यस्मिन्नर्थे न कोपि विप्रतिपद्यते। 'तत्' तस्मिन्, चिन्ताम- णिपरित्यागसदृशोऽयं स्वाध्यायपरित्याग इत्यस्मिन्नर्थे, काचि- दृक् 'अभ्युक्ता'॥
तामेतामृचं दर्शयति। ^(१)“यस्तित्याज ० पन्थामि- ति”^(१) इति। 'यः' पुमान्, वेदस्य वाङ्मात्रनिष्पाद्यमध्ययनं करोति तं पुमांसं वेदः समस्तपापक्षयद्वारेण मोक्षपर्यन्तो-
* द्रष्टुमोष्ट इति तै० पाठः।
212
२६० तैत्तिरीये आरण्यके
भागो॒ अस्ति॑ । यदीं॑ शृ॒णोत्यलकं॑ शृणोति॒ नहि
त्तमगतिप्रदानेन* प्रियं ‘सखायं’, इवातिस्नेहेन पाल- यति, तस्मादध्येतारं सखायं वेत्तीति ‘सखिवित्’ स्वाध्यायः, स्वयञ्च ‘तस्य’ पुरुषस्य, सखा अत्यन्तस्नेहेन कदाचिदप्यनपा- यात्। नहि निरन्तराध्यायिनं स्वाध्यायः कदाचिदपि परि- त्यजति, किन्तु दिने दिनेऽतिशयेन तस्याधीनो भवति†। तादृशं ‘सखिविदं’, अपि ‘सखायं’, ‘यस्तित्याज’ परित्यक्तवान्, ‘तस्य’ परित्यक्तुः, ‘वाच्यपि’, ‘भागो नास्ति’ आयासरहिते महाफले पाठेऽपि भाग्यं नास्ति, किमु वक्तव्यं महाप्रयाससा- ध्येऽनुष्ठाने‡ तत्फले वा। ‘यदीं’ यद्यपि, स्वाध्यायत्यागी कदा- चिद्विद्वत्सभायामुपविश्य बहूनि शास्त्राणि ‘शृणोति’, तदानीं ‘अलकं’ अलीकमनृतमेव, ‘शृणोति’, पुरुषार्थपर्यवसानाभा- वात्। नहि काव्यनाटकालङ्कारादिश्रवणेन वृथायुःक्षयम- न्तरेण कञ्चित् पुरुषार्थं पश्यामः। अत एव वाजसनेयिनः समामनन्ति। नानुध्यायाद्बहूञ्छब्दान् वाचो विम्लापनं हि तदिति। वेदव्यतिरिक्तस्य शब्दजालस्य कण्ठशोषमात्रपर्यवसा- यित्वमेव§ उपपाद्यते। यस्मादयं वेदत्यागी ‘सुकृतस्य पन्थां’ पु- ण्यानुष्ठानमार्गं, न जानाति तस्मात् कण्ठशोषमात्रपर्यवसानं।
* मोक्षपर्यन्तोत्तरोत्तरगतिप्रदानेनेति तै० पाठः!
† दिने दिने व्यतिशयो भवति इति तै० पाठः।
‡ महाप्रयाससाध्ये स्वर्गे इति तै० पाठः।
§ कण्ठशोषमात्रपर्यवसानत्वमेव इति तै० पाठः।
२ प्रपाठके १५ अनुवाकः। २६१
प्र॒वेदा॑ सु॒कृत॒स्य पन्था॒मिति॑⁽१⁾। ⁽७⁾तस्मा॑त् स्वाध्यायोऽध्ये॑त-
द्विविधं हि पुरुषेणार्थ्यते ऐहिकजीवनमामुष्मिकौ च भोगमोक्षौ। तत्र जीवनस्य कार्य्यादेरपि कृषिवाणिज्यादिकमेव महत् साधनं, आमुष्मिकमार्गन्तु वेदमन्तरेण सर्वतो न जानाति, अतः शास्त्रान्तराणि शृण्वतः कण्ठशोष एव परिशिष्यते। न केवलं सुकृतज्ञानमात्राभावः, प्रत्युत दुरितञ्च महत् सम्पद्यते। अत एव मनुना स्मर्य्यते। योऽनधीत्य द्विजो वेदानन्यत्र कुरुते मतिं। स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वय इति ॥
इत्थं स्वाध्यायपरित्यागे बाधं दर्शयित्वा तदनुष्ठाने श्रेयो दर्शयति। ⁽७⁾“तस्मात् ॰ तदेषाभ्युक्ता”⁽७⁾ इति। यस्मात् स्वाध्यायव्यतिरेकेण सुकृतमार्गो न ज्ञायते ‘तस्मात्’, ‘स्वाध्यायोऽध्येतव्यः’, इति ग्रहणाध्ययनं ब्रह्माध्ययनञ्च* कर्त्तव्यं। एतदुभयं परमपुरुषार्थत्वेन साधनमिति उपनिषदि पुरुषोपनिषदि बहनामृषीणां मतभेदोपन्यासप्रसङ्गेन विस्पष्टमाम्नातं। स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः, तद्धितपस्तद्धितपः इति। सत्यवदनमेव परमपुरुषार्थसाधनमिति राथीतरस्य मतं। कृच्छ्रचान्द्रायणादिरूपं तप एव तत्साधनमिति पौरिशिष्टेर्मतं। मौद्गल्यस्त्वन्तररहस्यदर्शी रहस्यार्थत्वात् तदेतदुभयमुवाच। तत्र ग्रहणार्थमध्ययनं† गृहीतस्य वेदस्य
* इत्यध्ययनं ब्रह्मयज्ञाध्ययनञ्चेति तै० पाठः।
† स्वाध्यायो ग्रहणार्थमध्ययनं इति तै० पाठः
| २६२ | तैत्तिरीये आरण्यके |
|---|
व्यौ॒ यं यं॒ क्रतु॑मधी॒ते तेनं॑ तेनास्ये॒ष्टं भ॑वत्य॒ग्नेर्वा॒योरा॑-
प्रकर्षेण प्रतिदिनं ब्रह्मयज्ञरूपेण वचनं प्रवचनं । उभे एवोत्तमे पुरुषार्थसाधने सत्यादीनामत्रार्थसिद्धत्वात् । यो हि निरन्तरं स्वाध्यायं पठति तस्यानृतवदने कः प्रसङ्गः । तपोऽप्यत्रार्थसिद्धं निषिद्धविषयप्रवणानामिन्द्रियाणां* बलक्षयद्वारेणोद्धतत्वं वारयितुं कृच्छ्रचान्द्रायणादिना शरीरशोषरूपं तपः क्रियते । स्वाध्यायपरस्य तु विषयमात्रचिन्तैव नास्ति कुतो दुष्टविषयेषु प्रवृत्तिः । तच्चिन्तापूर्वकत्वं प्रवृत्तेर्भगवतोक्तं । ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यतीति । विषयध्याननिवृत्त्यर्थमेव चित्तवृत्तिनिरोधरूपं योगं वक्तुं कृत्स्नं योगशास्त्रं प्रवृत्तं । सा च खविषयध्याननिवृत्तिः स्वाध्यायनिरतस्याप्रयासेनेव सिद्धा । तत्र किमनेन योगशास्त्रेण कृच्छ्रचान्द्रायणादिना तपसा वा । अत एवाभिज्ञा आहुः । अर्के चेन्मधु† विन्देत किमर्थं पर्वतं व्रजेत् । दृष्टस्यार्थस्य संसिद्धौ‡ को विद्वान् यत्नमाचरेत् इति । एतत् सर्वमभिप्रेत्य मौद्गल्यस्तद्धि तपस्तद्धि तप इति प्रसिद्धवाचकेन हिशब्देन वीप्सया च स्वाध्यायप्रवचनयोरत्यादरं दर्शयति । न च स्वा-
* निषिद्धविषयद्रव्याणामिति तै० पाठः ।
† अत्र चेन्मधु इति तै० पाठः । ‡ संसिद्धेरिति तै० पाठः ।
२ प्रपाठके १५ अनुवाकः। २६३
दि॒त्यस्य॑ सायुज्यं गच्छ॒ति तदे॒षाभ्यु॑क्ता^(७)। ^(८)ये अ॒र्वा- ङ्ङुत वा॑ पुरा॒णे वेदं॑ वि॒द्वांस॑म॒भितो॑ वद॒न्त्यादि॒त्यमे॒व ते प॑रि॒वद॑न्ति॒ सर्व्वे॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च ह॒ꣳ॒स-
ध्यायपाठमात्रेण योगानुष्ठानाभावात्* न पुरुषार्थ इति शङ्क- नीयं । अयमध्येता अग्निष्टोमवाजपेयराजसूयाश्वमेधादीनां मध्ये 'यं यं' क्रतुभागं 'अधीते', तस्याध्येतुः पुरुषस्य 'तेन तेन' क्रतुना, 'इष्टं भवति', । त्रिविधो हि यागः । कायिको वाचिको मानसिकश्चेति, तत्राध्येतुर्वाचिकस्य निष्पत्तौ नास्त्येव विवादः । यद्यध्येतार्थमपि जानाति तदाध्ययनकाले तदनुस- न्धानात् मानसोऽपि निष्पद्यते । कायिकस्य नास्ति† मास्तु नाम द्रव्यार्जनरहितस्याधिकाराभावात् । यस्य त्वधिकारः कायिकमप्यसौ करोति इतरस्य तु वाचिकेनैव तत् फलं लभ्यते । तस्मादयमध्येताग्न्यादीनां सायुज्यं गच्छति । 'तत्' तस्मिन् वेदविदो माहात्म्ये, काचिदृक् 'अभ्युक्ता' ॥
तामेतामृचं दर्शयति । ^(८)“ये अर्वाङ्ङुत वा ० हꣳसमिति”^(८) इति । 'अर्वाङ्' अर्वाञ्चं, इदानींतनमनुष्यं अध्येतृरूपं, 'उत वा पुराणे' अथवा पुरातनं व्यासवशिष्ठादिरूपं, 'वेदं विद्वांसं' पाठादर्थाच्च वेदतत्त्वाभिज्ञं महात्मानं, 'ये' मूर्खाः, 'अभितो वदन्ति' तत्र तत्र निन्दन्ति, 'ते' मूर्खाः, 'सर्वे', अपि 'आदित्य-
* यच्चानुष्ठानाभावात् इति तै० पाठः ।
† कायिकस्येन्नास्ति इति तै० पाठः ।
२६४ तैत्तिरीये आरण्यके
मि॒ति^(८)। ^(९)याव॑ती॒र्वै दे॒वता॒स्ताः सर्वा॑ वेद॒विदि॒ ब्रा- ह्म॒णे व॑सन्ति॒ तस्मा॑द्ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वे दि॑वे॒ नम॑स्कुर्यान्नाश्ली॒लं की॑र्त्तयेदे॒ता ए॒व दे॒वताः प्रीणाति^(९) ॥ ॥ १५ ॥
मेव', निन्दन्ति । ततो 'द्वितीयमग्निं', निन्दन्ति ततः 'तृतीयं', 'हंसं' गमनशीलं, 'वायुं,' निन्दन्ति । अस्य वेदविदोऽग्निवा- खादित्यसायुज्ययोग्यत्वादेतस्मिन्नेव निन्दा । तेषां निन्दा इत्य- नेनैव मन्त्रेणादित्यादिरूपलक्षणं वेदविन्माहात्म्यं दर्शितं ॥
अस्य मन्त्रस्य तात्पर्य्यं दर्शयति । ^(९)"यावतीः ० प्रीणाति" ^(९) इति । अग्निरवमो देवतानां विष्णुः परम इत्युक्तत्वादग्नि- प्रभृतयो विष्णुपर्य्यन्ता यावत्यो देवताः सन्ति ताः सर्वाः पाठ- तोऽर्थतश्च वेदविदि 'ब्राह्मणे वसन्ति' एकैकस्मिन् मन्त्रे एको देवः प्रतिपाद्यते । ते च मन्त्राः सर्वेऽध्येतुर्वाचि अध्येतुर्मनसि च वर्त्तन्ते अतो वेदविदां ब्राह्मणानां सर्वदेवतात्मकत्वात् तेभ्यः प्रतिदिनं 'नमस्कुर्यात्', 'अश्लीलं' तदीयमशुभं किमपि* विद्य- मानमविद्यमानं वा न कीर्त्तयेत् । एतेन वेदविदः ब्राह्मणस्य सत्कारेण सर्वा अध्येता 'देवताः' परितोषयति ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥
* किञ्चिदपि इति तै० पाठः ।
२ प्रपाठके १६ अनुवाकः । २६५
अथ षोडशोऽनुवाकः ।
(१)रिच्य॑त इ॒व वा ए॒ष प्रेव॑ रिच्यते॒ यो या॒जय॑ति प्रति॑ वा गृह्णाति॑ याज॒यित्वा प्रति॑गृह्य॒ वान॑श्नन्त्रिः स्वाध्या॒यं वे॒दमधी॑यीत^(१) । (२)त्रि॒रात्रं॒ वा सावित्रीं गा-
अथ षोडशोऽनुवाकः ।
अथ कस्यचिदयाज्यस्य याजने तथा कस्यचिदयोग्यस्य पुरुषस्य द्रव्यप्रतिग्रहे च प्रायश्चित्तत्वेन स्वाध्यायं विधत्ते । (१)“रिच्यत इव० वेदमधीयीत”^(१) इति । ‘यः’ पुमान्, स्वयमपद्रहितोऽपि द्रव्यलोभादयाज्यं ‘याजयति’, निषिद्धं द्रव्यं ‘वा प्रतिगृह्णाति’, स पुमानिह लोके ‘रिच्यत इव’ कीर्त्तिशून्य इव भवति, अहो दुरात्मायमेवन्धनिकोऽपि सन् द्रव्यलोभादन्यायं करोतीति सर्वे जनास्तं निन्दन्ति तदिदमिह लोके रिक्तत्वं । तथा ‘प्रेव रिच्यते’ परलोकेऽपि प्रकर्षेण रिक्त इव भवति, पुण्यलोकाभाव एव रिक्तत्वं, याजनप्रतिग्रहयोर्जीविकारूपेण शास्त्रेऽभ्युपगतत्वात्, निषिद्धयाजनप्रतिग्रहविषयमिदं द्रष्टव्यं । अतो द्रव्यलोभात् ‘याजयित्वा प्रतिगृह्य वा’, ‘अनश्नन्’ भोजनरहितः, ‘स्वाध्यायं’ त्रिवारं स्वशाखाध्ययनरूपं वेदं, जपेत्* ॥
तत्राशक्तस्य पक्षान्तरमाह । (२)“त्रिरात्रं वा ० रेचयति
* अधायंतेति तै० पाठः ।
२ K
| १६६ | तैत्तिरीये आरण्यके |
|---|
य॒चीमन्वाति॑रेचयति॒^(१) । ^(२)वरो॒ दक्षि॑णावरे॑णै॒व वर॑ᳵ
स्पृणो॒त्यात्मा॒ हि वर॑:^(२) ॥ १६ ॥
(१) इति । पूर्वोक्तप्रकारेण रिक्तं स्वमात्मानं अरिक्तं करोति अपकीर्त्तिं पुण्यचयञ्च निवर्त्तयेदित्यर्थः* ॥
पक्षद्वयेऽपि दक्षिणां विधत्ते । (२)“वरो दक्षिणा • स्पृणोत्यात्मा हि वरः”^(२) इति । गौर्वै वर इति सूत्रकारेणोक्तत्वात् गौरैवा† ‘दक्षिणावरेण’, श्रेष्ठेन गोद्रव्येण, ‘वरं’ श्रेष्ठं ब्राह्मणं, ‘स्पृणाति’ प्रीणयति, यस्मात् ‘वरः’ गौरात्मैव, तस्मात् स्वेन समानत्वात् तया दक्षिणया स्वात्मानमेव दत्तवानिति कृत्वा तत्पापनिवृत्तिर्युक्ता ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥
* गायत्रीच्छन्दस्कां सवितृदेवताकां तत्सवितुर्वरेण्यमित्येतां ऋचं भोजनरहितो दिनत्रयं ‘रेचयति’, पूर्वोक्तप्रकारेणावर्त्तयेदित्यर्थः । इति तै० पाठः ।
† गौरवेति तै० पाठः।