भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.३.९) १५७ अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तद् बृहद्द्रायेत् । तेन साम्नैनं यजमानं श्रियै संपत्तिसिद्धये यज्ञस्य समाप्तिं प्रापितवान्भवति । अत्र विनियोगसंग्रहः- वाजः सप्तभिरन्नस्य होमो देवयुजस्त्रयात् । अभिषिञ्चेत्स्वामिनं तं दश मन्त्रा इहोदिताः ॥ इति । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे तृतीयाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ तृतीयाध्याये नवमोऽनुवाकः । दशमेऽन्नहोम उक्तः । एकादश उज्जतिमंत्रा उच्यन्ते । कल्पः-“अथ यजमानमन्वास्थायाज्जितीर्वाचयत्यग्निरेकाक्षरेण वाचमुजयदिति सप्तदश” इति । पाठस्तु- अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्यक्ष॑रेण प्रा॒ण॒पा॒नावुद॑जयतां विष्णू॒स्त्र्यक्ष॑रेण॒ त्रीँल्लो॒कानुद॑जय॒त्सोम॑श्चतु॒रक्ष॑रेण॒ चतु॑ष्पदः प॒शूनुद॑जयत्पू॒षा पञ्चाक्ष॑रेण प॒ङ्क्तिमुद॑जयद्धा॒ता षडक्ष॑रेण षड्ऋ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दाँ२ शक्करी॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण गा॒य॒त्रीमुद॑जयन्मि॒त्रो नवाक्ष॑रेण त्रि॒वृत्ँ२स्तो॒ममुद॑जय॒द्वरु॑णो दशाक्ष॑रेण वि॒राज॒मुद॑जय॒दिन्द्र॑ एकादशाक्ष॑रेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण जग॑ती॒मुद॑जय॒न्वस॑वस्त्रयोदशाक्ष॑रेण त्रयोद॒शँ२स्तो॒ममुद॑जय- न्रु॒द्राश्च॑तुर्दशाक्ष॑रेण चतुर्द॒शँ२स्तो॒ममुद॑जय॒न्नादि॒त्याः प॑ञ्चदशाक्ष॑रेण पञ्चद॒शँ२स्तो॒मममुद॑जय॒न्नादि॑तिः षोड॑शाक्षरेण षोड॒शँ२ स्तो॒ममुद॑जयत्प्र॒जाप॑तिः सप्तदशाक्ष॑रेण सप्तद॒शँ२स्तो॒ममुद॑जयत्, इति । आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकेकाक्षरवृद्ध्या तत्तन्मन्त्रं पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन् । अथवा विध्यन्तर एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वाऽग्निबीजं (?) तेनैकाक्षरेण मन्त्रेणाग्ने र्वाग्जयः । द्व्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः प्राणापानोजयः । एवमन्येऽपित्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः । त्रयोदशस्तोमादावपि तिसृणामृचाममावृत्तिशेषेण तत्तत्संख्या द्रष्टव्या । एंत दुज्जितिविधिस्तु ता वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः . पूर्वमेवास्माभिर्व्याख्यातः सोऽयमत्रोत्कर्षणीयः । अत्र विनियोगसंग्रहः- अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदम् । यजमानं रथेष्ठेषु धावत्स्वध्वर्युरादरात् ॥ इति । ।।

१५८ (१.३.९) तैत्तिरीयब्राह्मणम् इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये नवमोऽनुवाक ॥ ९ ॥ एकादश उज्जितिमन्त्रा उक्ताः । द्वादशेऽतिग्राह्यमन्त्रा उच्यन्ते । कल्पः-आग्रयणं गृहीत्वा॑ पञ्चैन्द्रानतिग्राह्यान्गृह्णात्युपयामगृहीतोऽसि नृषदं त्वा द्रुष दमित्येताभिः पञ्चभिरिति । तत्र प्रथममन्त्रपाठस्तु - उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रुष॒दं भु॑वन्‌स॒दमिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒व ते॒ योनि॒रिन्द्रा॑य त्वा, इति । हे प्रथमातिग्राह्या त्वमुपयामेन पृथिव्यात्मकेन पात्रेण गृहीतोऽसि । इयं वोपयाम इति पूर्वमुदाहृतम् । मनुष्येषु वनस्पतिषु स्वामित्वेनावस्थितीन्द्राय प्रियं त्वां गृह्णामि एष खरप्रदेशस्ते स्थानं तस्मादिन्द्राय त्वाऽत्र सादयामि । एष इत्यादिः सादनमन्त्रः । नृषदमित्यादिपदाभिप्रायमाह- नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒ष॒दमित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते । भुव॑न्‌स॒दमित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुवं॑ नमे॒वैतेनं॑ गच्छति, (१) इति । नॄन्नरः- तेषु सीदतीति नृषत्तं नृषदम् एतेन यजुष्पाठेन प्रधानां मध्ये सूयते स्वामित्वेनाभिषिच्यते । यदा लोके वसीयान्धनाढ्योभवति तदा तं पुरुषं स्वामित्वेन कृत्स्नं भुवनमगनन्प्राप्तवानिति जना आहुः । अथ द्वितीयग्रहणमन्त्र- उपयामगृहीतोऽस्यप्सुषदं॑ त्वा घृत॒सदं॑ व्यो॑म॒सदमिन्द्रा॑य॒ जुष्ट॑ गृ॒ह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा, इति । पूर्ववद्व्याख्येयम् । एतदेवाभिप्रेत्य तथैव व्याचष्टे- अ॒प्सुषदं॑ त्वा घृत॒सद॒मित्या॑ह अ॒पामे॒वैनं॑ घृतस्य॑ सूयते । व्यो॑म॒सद॒मित्या॑ह । य॒दा वै अपामेवैतेनं घृतस्य सूयत व्योमसदमित्याह । य॒दा वै वसीया॒न्भवति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैतेनं॑ गच्छति । इति ।

तैत्तिरीयब्राह्मणम् (१.३.९) १५९ अ॒प्सिव्त्यादिपाठेन तत्स्वामित्वेनाभिषेकः धनाद्यस्य व्योमगामित्वं नामगजाश्वारोहणम् । अथ तृतीयग्रहणमन्त्रः- उपयामगृ॑हीतोऽसि पृ॑थिविषदं॑' “त्वा॒न्तरि॑क्षसदं नाक॒सद्मिन्द्रायजुष्टं॑' गृह्णाम्येष ते॒ योनि॒रिन्द्राय त्वा, इति। पूर्ववद्व्या चष्टे- पृ॒थि॒विषदं॑ त्वा॒न्तरि॑क्षस॒दमित्या॑ह । ए॒षा मे॒वैतेन॑ लो॒कानाँ॑॑ सूयते । तस्मा॑द्वाजपेयया॒जी न कंच॒न प्रत्यव॑रोहति । अ॒पीव॑ हि दे॒वता॑ना॒ सूय॑ते । ना॒क॒सद्मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नार्कं॑ मग॒न्निति॒ वै तमा॑हुः । नार्क॑मे॒वैतेन॑ गच्छति, इति । तस्मादयं वाजपेययागनाग्न्यादिदेवतानामपि मध्येऽभिषिक्तं इव भवति । अग्नेस्त्वां साम्राज्येनाभिषिञ्चामीत्यादिमन्त्रेष्वग्नीनां यत्तत्साम्राज्यं तेन निमित्तेनाभिषेकस्योक्तत्वान्न प्रत्यवरोहति । अपि तस्माद्देवतानां मध्येऽभिषिक्तत्वादेववंदेव कमपि मनुष्यं प्रति गजादिवाहनान्नाव॑रोहति नाव॑रोहेदिति विधिः । अत एवाऽऽपस्तम्ब आह-“यावज्जीवं न कंचन प्रत्यवरोहेद् बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत् ” इति । अथ चतुर्थग्रहणमन्त्रः ये ग्रहा॑: पञ्चजनीना॒ येषां॑ ति॒स्रः प॑रम॒जाः । दैव्य॑: को॒शः । समु॑ब्जितः । तेषां॑ विशिप्रिया॒णामिष॒मूर्जँ॑॑ सम॑ग्रभीमेष ते॒ योनि॒रिन्द्राय त्वा इति । ' येऽतिग्राह्यरूपा ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो देवमनुष्यासुररक्षोगन्धर्वेभ्यो निषादपञ्चमेभ्यो वर्णेभ्यो वा हिताः। येमामत्तिग्राह्याणां तिस्र आग्नेयेन्द्रसौर्याख्यातिग्राह्यरूपाः । परमजाः प्रकृतयः । किंच येषां प्रभावेन (ण) दैव्योदिवि भवः कोशो मेघः समुब्जितः सम्यङ्न्युब्जीकृतः . वर्षाभिमुखःकृत इत्यर्थः । विविधानि शिप्राणि हनुस्थानीयानि पात्राग्राणि तैरुपैता विशि प्रियास्तादृशानां तेषामतिग्राह्याणां पूरणायेषमन्नसदृशमूर्जं बलप्रदं सोमरसं समग्रभीं सम्यग्गृह्णामि । पञ्चजनीनशब्दाभिप्रायं दर्शयति-

१६० (१.३.१०) तैत्तिरीयब्राह्मणम् ये ग्रहाः पञ्चजनीना॒ इत्या॑ह । प॒ञ्च॒जनाना॑मे॒वैतेन॑ सूयते, इति । एतेन मन्त्रपाठेन निषादपञ्चमानां वर्णानां स्वामित्वेनाभिषिच्यते । अथ पञ्चमग्रहणमन्त्रः- अपाꣳरस॒मुद्वय॑स॒ꣳसूर्य॑रश्मिꣳसमाभृ॑तम्। अपाꣳरस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्तम॒मेष ते योनिरिन्द्राय॑ त्वा, इति । हेऽतिग्राह्यावो युष्मत्कं मध्य उत्तमं चरमं ग्रहंतं तथाविधं गृह्णामि । किं विधम् । अपां रसम् । उदकस्यैव सोमरसत्वेन परिणामात् । उद्भूतं वयोऽन्नं जीवनं वा यस्य तमुद्वयसम् । सोमरसो ह्यन्नभूतो जीवनहेतुश्च । अपाम सोमममृताअभूमेत्युक्तत्वा । सूर्य (र्यो?) रश्मिः परिपाकहेतुर्यस्य सं सूर्यरश्मिम् । वृष्टिक्किन्ना ओषधय आतपेन पच्यन्तऽन्यथा वृष्ट्याधिक्येनपूयेयुः समाभृतं गायत्र्या द्युलोकात्सम्यगानीतम् । किंचापां रसः सोमवल्लिरूपेणपरिणतस्तस्यापि योरसः सारस्तादृशमुदकरसम् । स्वामित्वं तेजोयुक्तत्वंच भागद्वयपाठेन भवतीति दर्शयति- अपाꣳरस॒मुद्वय॑स॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य॒ सूय॑ते । सूर्य॑रश्मिꣳसमाभृ॑त॒मि त्या॑ह सशु॒क्रत्वा॑य (२), इति । ग॒च्छ॒ति॒ सूय॑ते॒ नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके तृतीयाध्याये नवमोऽनुवाकः॥ ९ ॥ अथ दशमोऽनुवाकः । अथ दशमे पिण्डपितृयज्ञ उच्यते तत्राऽदौ कालविशेषं विधत्ते- इन्द्रो॑ वृ॒त्रꣳह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमा वा॒स्यां॑ प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वेद्युरा॒गच्छ॑न् । पि॒तृन्य॒ज्ञोऽच्छ॑त्। तं दे॒वाःपुनर॑याचन्त । तमे॑भ्यो॒ न पुन॑रददुः । ते॑ऽब्रुवन्वरं॑ वृ॑णामहै । अथ॑ वः पुनर्दास्यामः । अ॒स्मभ्य॑मे॒व पूर्वेद्युः क्रि॑याता॒ इति (१) । तमे॑भ्यः॒ पुन॑रददुः । तस्मा॑त्पि॒तृभ्यः॑

तैत्तिरीयब्राह्मणम् ( १.३.१० ) १६१ पूर्वेद्युः क्रि॑यते । यत्पि॒तृभ्यः॑ पूर्वेद्युः क॒रोति॑ । पि॒तृभ्य॑ एव॒ तद्य॒ज्ञं निष्क्री॑य॒ यज॑मानः प्रत॑नुते, इति । इन्द्रः पुरा युद्धेवृत्रं हत्वा तदीयानसुरांश्च पराभूतान्कृत्वापश्चादमावास्या यागादिनं प्रतिस्वगृहे समागच्छत् । शुक्लप्रतिपदि ह्यमावास्यायागः क्रियते । ततः सर्वेद्युः पितर आगतास्तैः पितृभिः । सह यज्ञोऽपि गतः । तं पितृभियज्ञवस्थितं यज्ञं देवाः स्वार्थमयाचन्त पूर्वमस्मदीयोयज्ञइदानीं भवत्समीपमागतः पुनरस्मभ्यमेव यज्ञो दातव्य इति । ततः पितरस्तमदत्त्वा तद्दानार्थमुत्कोचमपेक्षितवन्तः । पूर्वेद्युदर्शदिनेऽस्मदर्थं कर्म कर्तव्यम् । ततः प्रतिपद्यनुष्ठेयं दर्शपूर्णमासाख्यं यज्ञं दास्याम इति प्रत्यजानन् । ततो देवैस्तथेत्यङ्गीकृतेतं यज्ञं दत्तवन्तःतस्मात्पित्रर्थं कर्म पूर्वेद्युः पूर्वदिने कुर्यात् । तथा कृते तेन मूल्येन यज्ञं पितृभ्यो निष्क्रीय यजमानस्तमनुष्ठातुं प्रवर्तते । कालं विधाय होममन्त्रंविधत्ते- सोमा॑य पितृपी॑ताय॒ स्वधा॒ नम॒ इत्या॑ह। पि॒तुरे॒वाधि॑ सो॑मपी॒थमव॑रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहेष सो॑मपी॒थ इति॑ । इ॒न्द्रियं॒ वै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे । तेनै॑न्द्रि॒येण॑ द्वि॒तीयां॑ जा॒याम॒भ्य॑श्नुते (२); इति । पितृभिः पीतोऽमृतत्वेन परिणतो यःसोमस्तस्मै सोमायेदं स्वधा दत्तम् । नमस्कारोऽपिकृत इत्यमुं मन्त्रं होमकाले ब्रूयात् । अनेन होमेन स्वकीयस्य पितुरध्युपरि यत्सोमपानं पूर्वं वृत्तं तत्स्वयं प्राप्नोति पितुः संबन्धि गृहक्षेत्रादिकं यथा होममन्तरेण प्राप्नोति तद्वत्तदीयं सोमपानमपि प्राप्नोतीति चेन्मैवम् । गृहादिवदसमर्पितत्वात् । प्रमीयमाणःपिता पुत्रमाहूयेदं गृहमिदं क्षेत्रं तवेति यथा ब्रूते तथा सोमपानमिदं तवेति न हस्ते समर्पयति । तस्माद्धोमेनैव सोमपानफलं संपादनीयम् । न चैतत्प्रयाससाध्यं सोमपानं मा भूदेवेति शङ्कनीयम् । सोमपानस्येन्द्रियवृद्धिरूपत्वेनावश्यं प्रापणीयत्वात् । पूर्वं स्वस्मि- न्विद्यमानेनेन्द्रियेणैकां जायां भोक्तुं समर्थः । पितृप्रसादलब्धेन त्विन्द्रियेण द्वितीयामपि भोक्तुं समर्थो भवति । एतद्भेदनं प्रशंसति-

१६२ (१.३.१०) तैत्तिरीयब्राह्मणम् ए॒तद्वै ब्राह्म॑णं पुरा वाज॑श्रव॒सा वि॒दाम्ब॑क्रन् । तस्मा॒त्ते द्वे द्वे॑ जा॒ये अ॒भ्या॑क्षत । य ए॒वं वेद॑ । अ॒भि द्वि॒तीयां जा॒याम॑श्नुते, इति । वाजोऽन्नं तद्दाननिमित्तं श्रवःकीर्तिर्यस्य महर्षेरसौ वाजश्रवास्तस्य पुत्रा वाजश्रवसाः। ते च पुरा "सोमाय पितृपीताय" इति मन्त्रस्य व्याख्यानरूपमेतद् ब्राह्मणं विदितवन्तः। तस्माद्वेदनात्ते महर्षयःप्रत्येकं जायाद्वयमभिप्राप्तवन्तः । तस्मादन्योऽपि विदित्वा द्वितीयां जायां प्राप्नोति । अथ द्वितीयहोममन्त्रं विधत्ते- अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वधा॒ नम॒ इत्या॑ह । य ए॒व पि॒तॄणा॑म॒ग्निः। तं प्री॑णाति, इति । कव्यं पित्र्यं हविर्वहतीति कव्यवाहनः। तस्य च पितृसंबन्धोऽन्यत्राप्याम्नातः-“त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनःपितॄणा ँ सहरक्षा असुराणाम्" इति । तस्मादेतन्मन्त्रहोमेन तं पित्र्यमग्निं परितोषयति । शाखान्तरगतन-“यमायाङ्गिरस्वते पितृमतेस्वधा नमः"इतिमन्त्रे- णैकामाहुतिमभिप्रेत्य त्रित्वं विदधाति- ति॒स्र आहु॑तीर्जुहोति, इति । तथा च सूत्रकारेण स्पष्टमुक्तम्-“सोमाय पितृपीताय स्वधा नम इति प्रथमां दक्षिणाग्नौ जुहोति यमायाङ्गिरस्वते पितृमतेस्वधानम इति द्वितीया यज्ञये कव्यवाहनाय स्वधा नम इति तृतीयाम् ” इति । यदुक्तं सूत्रकारेण-“सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्न बर्हिषिदक्षिणांपवर्गान्पिण्डान्ददाति" ' तदिदं विधत्त- त्रिर्निद॑धाति, इति । तदेतदाहुतित्रयं पिण्डत्रयं च मिलित्वाप्रशंसति- षट् संप॑द्यन्ते (३) । षड् वा ऋ॒तव॑ः। ऋ॒तूने॒व प्री॑णाति, इति ।

तैत्तिरीयब्राह्मणम् (१.३.१०) १६३ यदुक्तं सूत्रकारेण-“मेक्षणमुपस्तीर्य तेनावदायाभिघार्यं” इति तस्य मेक्षणस्याग्नौ प्रहरणं विधत्त- तूष्णीं मे॑क्ष॒णमाद॑धाति । अस्ति॒ वा॒ ३ हिं॒ षष्ठ॒ ऋ॒तुर्न॒ वा, इति । मेक्षणशब्देन प्रादेशमात्रा समिदुच्यते । हविरवदानसाधनं मेक्षणं मन्त्रमन्तरेणाग्नौ प्रक्षिपेत् । शास्त्रेषुषष्ठ ऋतुरस्तीत्येकःपक्षः । “षड् वा ऋतवः” इति श्रुतेः । नास्तीत्यपरः पक्षः । “पञ्चर्तवो हेमन्तशिशिरयोः समासेन” इति श्रुत्यन्तरात् । अतस्तूष्णीं समिदाधाने पक्षद्वयमप्यनुश्रुतं भवति । तत्र समिधाः प्रक्षिप्तत्वादस्तित्वपक्षोऽङ्गीकृतः। मन्त्रराहित्या- दभावपक्षोऽङ्गीकृतः। आहुतित्रयं पिण्डत्रयं च प्रकारान्तरेण प्रशंसति- दे॒वान्वै पि॒तृन्प्री॒तान् । म॒नुष्या॑: पि॒तरो॑ऽनु प्रपि॑पते । ति॒स्र आहुती॑र्जुहोति । त्रिर्निद॑धाति । षट् संप॑द्यन्ते । षड् वा ऋ॒तव॑:(४) ऋ॒तव॑:खलु॒ वै दे॒वा: पि॒तर॑: । ऋ॒तूने॒व दे॒वान्पि॒तृन्प्री॑णाति । तान्प्री॒तान् । म॒नुष्या॑: पि॒तरो॑ऽनु प्रपि॑पते, इति । द्विविधा हि पितरो देवत्मका मनुष्यात्मकाश्च । पितृलोकस्वामिनो देवात्मकाः । मृताः सन्तो भोगांस्तल्लोकं प्राप्ता मनुष्यात्मकाः । तत्र देवात्मकेषु पितृषु प्रीतेषु ताननु मनुष्यात्मकाः पितरः प्रपिपते प्रीता भवन्तीति युक्तम् । तदर्थमादौ तिस्र आहुतयः पश्चात्पिण्डत्रयम् । किंचोभयमेलनेनषट् संपत्त्या तत्संख्याका ऋतवः संपद्यन्ते । ऋत्वभिमानिनश्च देवाः पितरः। ततश्च संख्यामात्रेण देवपितृषु प्रीतेषु पश्चान्मनुष्यपितरः प्रीता भवन्ति । विधत्ते- स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर्भव॑ति । स॒कृद्दे॒व हि पि॒तर॑:, इति । पिण्डनामधस्ताद्यद्बर्हिरास्तीर्यते तदेकप्रयत्नेनैवावच्छेदनीयम् । न तु लवनकाले दात्रस्य पुनः पुनर्व्यापारः । एकेनैव दृढेन व्यापारेण यावद- वच्छिन्नं तावदेवाऽऽनेतव्यम् । यस्मात्पितरः सकृन्मरणेनैव पितृत्वं प्राप्नु- वन्ति । न तु तत्प्राप्तये पुनः पुनर्म्रियन्ते ।

१६४ (१.३.१०) तैत्तिरीयब्राह्मणम् पिण्डदानस्य त्रित्वं प्रशंसति- त्रिर्निद॑धाति । तृ॒तीये॑ वा इ॒तो लो॒के पि॒तर॑: । ताने॒व प्री॑णाति, इति । इतो भूलोकादारभ्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति । विधत्ते- परा॒ङाव॑र्तते (५) । ह्रीका॑ हि पि॒तर॑:, इति । दक्षिणाभिमुखः पिण्डं दत्वा पिण्डनिरीक्षणं परित्यज्य पराङ्मुखो भवेत् । पितॄणां लज्जाशीलत्वात् । लोकेऽपि हि भुञ्जानाः प्रभवो नान्यैर्वीक्ष्यन्ते । विधत्ते- ओष्मणो॑ व्या॒वृत्त॒ उपा॑स्ते । ऊ॒ष्मभा॑गा हि पि॒तर॑: इति । औष्ण्यवशात्पिण्डेषु योऽयमूष्मा निर्गच्छति तस्य यावदुपरमोऽव्यावृत्तस्तदुपरमपर्यन्तं तथैव स्थित्वा सेवेत । पितॄणामूष्मभागित्वेन तच्छान्तिपर्यन्तं तद्भोजनकालत्वात् । अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽघ्राणं विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या३ं न प्राश्या३मिति॑ । यत्प्राश्नी॒यात् । ज॒न्यमन्न॑मद्यात् । प्रमायु॑कः स्यात् । यन्न प्राश्नी॒यात् । अह॑वि स्यात् । (६) पि॒तृभ्य॒ आवृ॑श्च्येत । अव॑घ्रेयमे॒व । तन्नेव॒ प्राशि॑तं॒ नवाप्रा॑शितम्, इति । विचारार्था प्लुतिः । प्राशनपक्षे बीजभक्षणवददनी- यस्याभावात्क्षुधितो यजमानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविः शेषस्य भक्षणदर्शनादिदं हविरेव न स्यात् । अतोऽयं पितृभ्यो विच्छिद्येत । अतो दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रेदेव । तदवघ्रातं प्राशितमिव न भवति । निगरणाभावात् । अप्राशितमिव न भवति । तदीयगन्धस्यान्तः प्रवेशात् ।

तैत्तिरीयब्राह्मणम् (१.३.१०) १६५ यदुक्तं सूत्रकारेण-“वाससो दशां छित्त्वा निदधाति ” इति। तदेत द्विधत्ते- धीरं॑ वा॒ वै पि॒तरः॒ प्रय॑न्तो॒ हर॑न्ति। वी॒रं वा॑ ददति। दशां॑ छि॒नत्ति॑। ह॒रण॑भागा॒ हि पि॒तरः॑। पि॒तॄने॒व निर॑वदयते, इति। पिण्डरूपमन्नं भुक्त्वा यदा पितरः स्वस्थाने प्रयान्ति तदानीमस्य वीरं पुत्रं विद्यमानमपहरन्ति वाऽविद्यमानं ददति वा। पक्षद्वयमपि संभाव्यते। वैकल्ये पुत्रं मारयन्ति। साकल्ये पुत्रं प्रयच्छन्ति अत्र वैकल्यस्य दुष्परिहरत्वात्पुत्र प्रत्याम्नायत्वेन वस्त्राग्रमीषत्सूत्रं छित्वा पिण्डेषु निदध्यात् । यस्मादपहरणमेव पितरो भजन्ते तस्मात्पितृन्निःशेषभागदानेन विसर्जयेति। तत्रैवं कंचिद्विशेषं विधत्ते- उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत। पि॒तॄणा ँह्येतर्हि॒ नेदी॑यः (७), इति। पञ्चाशत्संवत्सरपरिमितं पूर्वमायुरावशिष्टं तूत्तरम्। तस्मिन्वयसि वस्त्रदशा न च्छत्तव्याः किंतु स्वकीयं लोम च्छित्त्वा तव निदध्यात्। यस्मादयमासन्नमरणत्वात्पितॄणामांम समीपवर्ती तस्मात्तस्मिन्वयस्येत- दुचितम्। विधत्ते- नम॑स्करोति। नम॒स्कारो॒ हि पि॑तॄणा॒म्, इति। अत्यन्तं प्रिय इति शेषः। तत्र मन्त्रं विनियुङ्क्ते- नमो॑ वः पितरो॒ रसा॑य। नमो॑ वः पितरः॒ शुष्मा॑य। नमो॑ वः पितरो जी॒वाय॑। नमो॑ वः पितरः स्व॒धायै॑। नमो वः पितरो म॒न्यवे॑। नमो॑ वः पितरो घो॒राय॑। पि॒तरो॒नमो॑ वः। य ए॒तस्मि॑ ँल्लो॒के स्थ (८)। युष्मा ँस्तेऽनु॑। यैऽस्मि ँ ल्लो॒के। मां तेऽनु॑। य ए॒तस्मि॑ ँ ल्लो॒के स्थ। यूयं तेषां॒

१६६ (१.३.१०) तैत्तिरीयब्राह्मणम् वसि॑ष्ठा भूयास्त । ये॑ऽस्मिँल्लोक । अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठः समा॒नानां॑ भवति । य ए॒वं वि॒द्वान्पि॒तृभ्य॑: करो॒ति, इति । हे पितरो वो युष्माकं यो रसो युष्माभिर्भुज्यमानः क्षीरादिस्तस्मै नमोऽस्तु । एवं सर्वत्र योज्यम् । शुष्मशब्दो बलवाची । जीवो देहाध्यक्षः । तदीया स्त्री । पितरो हि स्वधायां प्रीतिं कुर्वन्ति । मन्युः कोपः । घोरो । स्वधामारणादिव्यापारः । हे पितरो यूयमेतस्मिँल्लोके स्थितास्तेभ्यो युष्मभ्यं नमः । ये तु युष्मत्तोऽन्ये परकीयपितरोऽस्मिँल्लोके वर्तन्ते ते सर्वे युष्माननुवर्तन्ताम् । ये तु मनुष्या अस्मिँल्लोके वर्तन्ते ते सर्वे मामनुवर्तन्ताम् । ये यूयं परकीयेः पितृभिः सहास्मिंल्लोके स्थितास्ते यूयं तेषां परकीयपितॄणां वसिष्ठा अतिशयेन निवारहेतवो भूयास्त । ये तु मनुष्या अस्मिँल्लोके वर्तन्ते तेषां सर्वेषामहं युष्मत्प्रसादादतिशयेन निवासहेतुर्भूयासम् । इत्येतं नव्यं नमस्कुर्वन्पठेत् । यः पुमानेवं नमस्कारमन्त्रं विद्वान्पित्रर्थंपिण्डदानं करोति स एष समानानां मनुष्याणामतिशयेन निवासहेतुर्भवति । पिण्डपितृयज्ञं प्रशंसति- ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः (९) । दे॒वानां॒ वा इतरे॑ य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के चरति, इति । द्विविधानां पितॄणां मध्ये ये मनुष्याः पितरस्तेषामेव पिण्डपितृयज्ञः । ये तु देवास्तेषां दर्शपूर्णमासादिका इतरं यज्ञाः । तस्मादेतेन पिण्ड- पितृयज्ञेनैषपुरुषः पितृलोके चरति । अथ “प्रजापते न त्वदेतानि” इति मन्त्रेण गार्हपत्यदेशं प्रत्यागमनं विधत्ते- यः पि॒तृभ्य॑: करो॒ति॑ । स ई॑श्व॒रः प्रमेतो॑: । प्रा॒जा॒प॒त्यर्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व सह॒ पुन॒रैति॑ । न प्रमा॑यु॒को भवति, इति । यः पुमान्पित्रर्थमुक्तं कर्म करोति स पितृप्रियत्वात्सहसा मर्तुं सुसमर्थो भवति । तत्परिहाराय प्राजापत्यमन्त्रेण गार्हपत्यदेशं पुनरागच्छेत् । प्रजापतेर्यज्ञस्रष्टृत्वेन यज्ञरूपत्वाद्यज्ञेनैव सह पुनरागतो भवति । अतो न म्रियते ।

तैत्तिरीयब्राह्मणम् (१.३.१०) १६७ एतदेव समन्त्रकं पुनरागमनं प्रशंसति- पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्यः॑ क॒रोति॑ । स 'ईश्व॑र आर्तिमार्तो॑ः । प्र॒जाप॑ति॒रत्वा वै॒नं तत् उन्नै॑तुम॒र्हतीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैनं॑ तत् उन्न॑यति । नाऽऽर्तिमा'र्च्छति॒ यज॑मानः (१०), इति । इत्य॑श्नुते पद्यन्ते पद्यन्ते षड्वा ऋतवौ॑ । वर्त॑ते॒ऽर्हवि स्यान्ने॒दीय॑ः स्थ य॒ज्ञो यज॑मानश्चरति यत्पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये दशमोऽनुवाकः ॥ १० ॥ दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथादर्शौ दे॒वा वै यदु॒न्त्यैर्गर्हैर्ब्र॑ह्मवा॒दिनो॒ नानि॑ष्टोमो न सवि॒त्रं दे॒वस्या॒हं ता॒प्य ँ स॒प्तार्नहो॑मान्नुषद्ं त्वेन्द्रो॑ वृत्र ँ ह॒त्वा दर्श॑ । दे॒वा॒सु॒रा वाऽऽज्यैवै॒नं तस्मा॑द्वाजपेयया॒जी दे॒वस्या॒हं वाज॑स्याव रुद्ध्या इन्द्रि॒यमे॒वास्मिन्हलीका॑ हि पि॒तरः॑ प॒ञ्चष॒ष्टिः । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयोऽध्यायः ॥ ३ ॥ पितृभ्यः करोतीति यदस्त्येतेन यजमानः पितृलोक एव संचरति । अतः यजमानो मनुष्यलोक निःस्पृहत्वादत्र पीडां प्राप्तुं प्रभवति । तमेनं प्रजापतिरेव तत आर्तेरुद्धर्तुमर्हतीत्येवमभिज्ञा आहुः । अतः प्राजापत्यमन्त्रेणाऽऽगच्छन्तं प्रजापतिरुद्धरति । सोऽप्यार्तिं न प्राप्नोति । अत्र मीमांसा । चतुर्थध्यायस्य चतुर्थपादे चिन्तितम्- क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः । अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ (इति) । इदमाम्नायते-“अमावास्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ति" इति । तत्रामावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गमिति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् । कर्मणि त्वयं शब्दो लाक्षणिकः । न च वाक्येन क्रत्वङ्गत्वाभावेऽपि

१६८ (१.४.१) तैत्तिरीयब्राह्मणम् प्रकरणेन तद्वदिति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मादयं पुरुषार्थः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः ।। १० ।। वेदार्थस्य प्रकाशन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयः प्रपाठकः समाप्तः ।। ३ ।। (मूलक्रमेण-अष्ट. १ अध्या. ३ अनु. १० (२६) । (भाष्यक्रमेण- कां. १ प्रपा. ३ अनु. १० (२६) । अथ प्रथमकाण्डे चतुर्थप्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः । यस्यनिःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। तृतीये वाजपेयो यः स प्राधान्येन वर्णितः । पुनराधेयकं पिण्डपितृयज्ञश्च वर्णितः ।। सोमादिब्राह्मणे पूर्वं यन्नोक्तं तच्चतुर्थके । प्रवक्ष्यते ग्रहाश्चास्मिन्ननुवाके समीरिताः ।। तत्राऽऽदौ ग्रहाणां ग्रहणं विधत्ते- उ॒भये॑ वा ए॒ते प्र॒जाप॑तेरध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मेऽन्य इ॒मेऽन्य इति॑ । स दे॒वान् ५ शूर्न॑करोत् । तान॒भ्य॑पुणोत् । तान्प॒वित्रे॑णापुनात् । तान्पु॒रस्ता॑त्प॒वित्रे॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् (१) । दे॒वता॑ व ए॒ता यज॑मानस्य गृ॒हे गृ॒ह्यन्तै॑ । यद्ग्रहा॑: । वि॒दुरैनं॑ दे॒वाः । यस्यै॒वं वि॒दुष ए॒ते ग्रहा॑ गृ॒ह्यन्तै॑, इति॑ ।

तैत्तिरीयब्राह्मणम् (१.४.१) १६९ देवा असुराश्चेत्येते द्विविधा अपत्याविशेषाः प्रजापतेः सकाशादधिकत्वेन सृज्यन्त । सृष्टानां च तेषामतिबहुत्वेन संकीर्णत्वादिमेऽन्ये पृथग्भूता देवा इमे चान्ये पृथग्भूता असुरा इति प्रजापतिस्तद्विभागं न ज्ञातवान् । अतो विभागज्ञानाय देवान्सर्वानंशूनकरोत् । सोमलतावयवरूपाणि शरीराणि देवानां कृतवान् तानि लताशरीराणि स्वचिह्नत्वेन धृत्वा देवाव्यावृत्तत्वेन प्रजापतिना विज्ञाताः । तांश्च लतादेहानभिषुत्य दशापवित्रारूप्येण वस्त्रखण्डेन ऋजीषं यथा न संकीर्येत तथा रसं शोधयित्वा पवित्रस्य परस्तादूर्ध्वमवस्थि- तस्याधोभागे विविधमिन्द्रावायावादिदेवार्थं गृहीतवान् । त च रसा ग्रहा अभवन् । तस्माद्गृह्णन्त इति व्युत्पत्त्या रसानां ग्रहत्वं संपन्नम् । य एते ग्रहास्ता ता देवता भूत्वा ता एव यजमानस्य गृहे हविर्धाने गृह्यन्ते । अत एते ग्रहा ग्रहीतव्या इत्यर्थः । एवं महिमानं जानतो यस्य यजमानस्य ग्रहा एते गृह्यन्ते तमेनं यजमानं देवा विदुः । सम्यगनुष्ठितवानित्येवं देवलोके प्रसिद्धि गच्छतीत्यर्थः । सौमिकमन्त्रव्याख्यानरूपे षष्ठकाण्डे ऐन्द्रवायवादिग्रहविशेषा एव विहिता न तु ग्रहसामान्यम् । इह तु तद्विधीयत इत्ययमनुवाकस्तत्काण्डशेषः । ग्रहग्रहणं विधायोपांशु ग्रहस्य होमं विधत्ते- ए॒षा वै सोम॑स्याऽऽहु॑तिः। यदु॑पा॒ ॅ शुः॑। सोमे॑न दे॒वा ॅ स्त॒र्पयाणीति॑ खलु॒ वै सोमे॑न यजते। यदु॑पा॒ ॅ शुं जु॒होति॑। सोमे॑नै॒व तद्दे॒वा ॅ स्त॑र्पयति, इति। “वाचस्पतये पवस्व वाजिन्” इत्यनुवाकेन सिद्धो योऽयमुपांशुग्रह एषैव सोमस्य समन्ताद् धुतिः । अत्र हि पात्रस्थः सर्वोऽपि सोमो हूयते । न तु ग्रहान्तरवत्कियानप्यवशिष्यते । यजमानोऽपि सोमेन देवांस्तृप्तान्करोमीत्यभिप्रेत्य सोमयागे प्रवृत्तः तस्मादुपांशु जुहुयात् । तेन सम्पूर्णसोमेनैव देवांस्तर्पयति । अथेतरग्रहहोमं विधत्ते- यद॒ग्रग्राहा॑ञ्जु॒होति॑ (२)। दे॒वा एव तद्दे॒वान्ग॑च्छन्ति, इति। तेन ग्रहहोमेन लताशरीरधारिणो देवा एव दिव्यविग्रहधारिण इन्द्रावायावादिदेवानागच्छन्ति । ऊर्ध्वपात्रस्थाः सोमरसात्मका ये चमसास्तेषां होमं विधायानूर्ध्वं चतुरस्रपात्रस्थिताः सोमरसात्मका ये चमसास्तेषां होमं विधत्ते-

१७० (१.४.१) तैत्तिरीयब्राह्मणम् य॒ज्ञेमृ॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति, इति । ग्रहैरेव देवानां तुष्टत्वादद्यजमानस्य स्वर्गार्थत्वेनानुरूपश्चमसहोमः । अतः स्तनेवानुरूपेण यजमानः स्वर्गं लोकं प्राप्नोतीति । प्रश्नोत्तराभ्यां रसग्रहणाधाररूपाणि पात्राणि विधत्ते- किंन्वै॑तद॒ऽ आ॑सी॒दित्या॑हुः । यत्पात्रा॒णीति॑ । इ॒यं वा ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्य॑ सन् । तैर्दे॒वा न व्या॒वृ॑तमगच्छन् । त ए॒तानि॑ दारुम॒याणि॒ पात्रा॑ण्यपश्यन् । तान्य॑कुर्वत (३) । तैर्वै ते व्या॒वृ॑तमगच्छन् । यद्दा॑रुम॒याणि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृ॑तमे॒व तैर्यज॑मानो गच्छति, इति । यज्ञशालायां दृश्यमानानि पात्राणीति यत्तदेतत्पात्रनिष्पत्तेः पुरा किं नुं नाम वस्त्वांसीदित्येवं पात्रोपादानभूतवस्तुप्रश्नः । एतानि पात्राणि मृन्मयान्येव दृष्टानि तस्मात्पात्रोत्पत्तेः पूर्वं तदुपादानं भूमरासीदित्यत्तरम् । मनुष्यर्थपाकशालायामपि मृन्मयपात्राणां विद्यमानत्वात्तैः पात्रैर्देवा मनुष्येभ्यो व्यावृतिं न प्राप्ता इति पुनः प्रश्नवादिनां वचनम् । ते देवा क्वचिदवस्थितान्येव दारुमयाणि पात्राणि दृष्ट्वा स्वार्थं स्वीकृत्य तैर्दारुमयैर्मनुष्येभ्यो व्यावृतिं प्राप्ता इत्युत्तरवादिनां वचनम् । तस्माद्दारुमयाणि पात्राणि कर्तव्यानि । तैर्यजमान इतरेभ्यो व्यावृतिं प्राप्नोति । . तत्र देवार्थानि दारुमयाणि पात्राणि · यानि सन्ति यानि चान्यद्द्रव्यसंग्रहार्थानि मृन्मयानि तदुभयं प्रशंसति- यानि॑ दारुम॒याणि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यन्ति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति, इति । अथ प्रश्नोत्तराभ्यां स्थालीं मृन्मयानां दारुमयाणां ग्रहणहोम योर्व्यवस्थां विधत्त ब्रह्म॒वादि॑नो वदन्ति । काश्च॒तस्रः॑ स्था॒लीर्वी॑य॒व्याः॑ सोम॑ग्रह॒णीरि॑ति । दे॒वा वै पृश्नि॑मदुहन् (४) । तस्या ए॒ते

प्रथमोऽनुवाकः ।। १ ।।

तैत्तिरीयब्राह्मणम् (१.४.१) १७१

स्तना॑ आसन् ।। इ॒यं वै पृश्नि॑: । तामा॑दि॒त्या आदि॑त्यस्था॒ल्या च॑तुष्पदः प॒शून॑दुहन् । यदा॑दित्यस्थाली भव॑ति । चतु॑ष्पद एव॒ तया॑ प॒शू न्यज॑मान इ॒मां दु॑हे । तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् । यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॑ यज॑मान इ॒मां दु॑हे । तां विश्वे॑ दे॒वा आ॑ग्रयणस्था॒ल्योर्ज॑मदुहन् । यदा॑ग्रयणस्थाली भव॑ति । ऊर्ज॑मेव॒ तया॑ यज॑मान इ॒मां दु॑हे । तां म॒नुष्या॑ ध्रुवस्था॒ल्यायु॑रदुहन् । यद् ध्रुवस्था॒ली भव॑ति । आयु॑रेव तया॑ यज॑मान इ॒मां दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्येन॑ जु॒होति॑ । तस्मा॑द॒न्येन॑ पा॒त्रेण॑ प॒शून्दुहन्ति॑ । अ॒न्येन॑ प्रति॑गृह्णन्ति । अथो॑ व्यावृत॑मे॒व तद्यज॑मानो गच्छति (५), इति । गृ॒ह्यत्वं॑ ग्रहा॑ञ्जुहो॒त्यकु॑र्वतादुहन्नाग्रयणस्थाली भव॑ति॒ । नव॑ च ।। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये प्रथमोऽनुवाकः ।। १ ।। वायुः स्वामी येषां दारुमयाणां पात्रविशेषाणां ते वायव्याः । यद्यप्येकै कस्य पात्रस्यैकैको देवस्तथाऽपि वायुना वरस्य वृत्तत्वाद्व्रायव्यशब्देनैव तेषां व्यवहारः । तथ चैन्द्रवायवग्रहब्राह्मणे समाम्नायते-“ते वायुमब्रुवन्निमं नः स्वदयेति । सोमऽब्रवीद्वरं वृणै मद्देववत्यान्येव वः पात्राण्युच्यन्ता इति । तस्मान्नानादेवत्यानि सन्ति वाव्याक्युच्यन्ते” इति । ते च वायव्याः पात्रविशेषाः सोमग्रहणार्था ऐन्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णातीत्यादिश्रवणात् । तद्वन्मृण्मयस्थाल्योऽपि चतस्रः सोमग्रहणय इत्येवमत्र प्रसिद्धिः । ताश्च स्थाल्यः किं विधा इति प्रश्नः । तस्योत्तरमुच्यते । पुरा कदाचिद्भूमिः । पृश्निः श्वेतगोरूपाऽभूत् । भूविकारभूता आदित्यस्थाल्युक्थ्यस्थाल्याग्रयणस्थाली ध्रुवस्थालीत्येते चत्वारः स्थालीविशेषास्तस्या गोः स्तना आसन् । तांश्च स्तानाना दित्यादयो दुग्ध्वा पश्वादिफलानि प्राप्तवन्तः एवं यजमानोऽपि तानि प्राप्तुं स्थालीचतुष्टयं कुर्यात् । कृत्वा च मृन्मयस्थाल्यां तत्तद्देवतासंबन्धिन्यां तत्तद्देवार्थं सोमरसं गृह्णीयात् । तं च सोमरसं होमकाले दारुमये वायव्यपात्रेऽवनीय तेन पात्रेण जुहुयात् । यस्मादेवं तस्माल्लोकेऽपि

१७२ (१.४.२) तैत्तिरीयब्राह्मणम् दोहपात्रमन्यत्क्षीरग्रहणपात्रं चान्यत् । अपि चैवंकुर्वाणो यजमान इतरेभ्यो व्यावॄत्तिं प्राप्नोति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके प्रथमोऽनुवाकः । अथ चतुर्थप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाके सोमविशेषे ग्रहविधिरुक्तः । द्वितीयानुवाके सौत्रामणिशेषामन्त्रा उच्यन्ते । तत्राऽऽश्विनसारस्वतेन्द्रग्रहेषु त्रिष्वपि साधारणं याज्यानुवाक्यायुगलम् । तथा च सौत्रामणिब्राह्मणमेवामाम्नातम्

  • "युवंँ सुराममश्विनेति सर्वदेवत्ये याज्यनुवाक्ये भवतः" इति । तत्र पुरोनुवाक्यामाह- यु॒व् ँसु॒रा॑ममश्विना॑ । नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॒भस्पती॑ । इन्द्रं॒ कर्म॑स्वावतम्, इति । हेऽश्विनौ नमुचावासुरे नमुचिनामके कस्मिंश्चिदसुरे सचा संबद्धं सुरां सुरया संपादितमिमं पात्रस्थं द्रव्यशेषं विपिपाना विशेषेण पिबन्तौ शुभस्पती शोभनस्य कर्मणः पालकौ युवां कर्मस्वेतंश्चिन्द्रमावतं सहपानेन पालयतम् । याज्यामाह- पु॒त्रमि॑व पि॒तरा॑वु॒भा । इन्द्रा॑वतं॒ कर्म॑णा द् ँशना॑भिः । यत्सु॒रा॒मं व्यपि॑बः॒ शची॑भिः । सर॑स्वती त्वा म॒घव॑न्नभीष्णात्, इति । हेऽश्विनौ युवामुभौ यथा लोके पितरौ पुत्रं पालयतस्तद्वद्यजमानमनेन कर्मणा रक्षतम् । दंसनाशब्दः कर्मवाची । शचीशब्द शक्तिवाची । ह इन्द्र यद्यस्मात्कारणात्मकर्म विशेषेण याभिः शक्तिभिः सह त्वं सुरया संपादितमिमं रसविशेषं विशेषेण पीतवांस्तस्माद्यजमानं रक्षेति शेषः । हे मघवन्नियं सरस्वती त्वामभीष्णाद्विषज्यतु । पानेन परितोषयत्वित्यर्थः । अथ मन्त्रद्वयेन सुराया अनुमन्त्रणम् । तथा च सूत्रकारः-"हुतां हूयमानां वा यजमानोऽनुमन्त्रयते" इति । तत्र प्रथमं मन्त्रमाह-

तैत्तिरीयब्राह्मणम् (१.४.२) १७३ अहा॒व्यग्ने॑ ह॒विरा॒स्ये॑ त । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोम॑: (१)। वा॒ज॒सनिं॑ ँ र॒यिम॒स्मे सु॒वीर॑म् । प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म्, इति । हेऽग्ने ते तवाऽऽस्ये मुखेऽहावीदं द्रव्यं हुतम् । यथा स्रुचि जुह्वादौ घृतं निहितं यथा वा चमू चमसेषु सोमो निहितस्तद्वत्तस्मादस्मे अस्मासु सुवीरं शोभनकर्मशूरं पुत्रं धेहि संपादय । कीदृशम् । वाजसनिमन्नदातारं रयिं धनवन्तं प्रशस्तं विद्यादिगुणयुक्तं यशसं यशस्विनं बृहन्तं महान्तं सर्वकार्यसमर्थम् । अथ द्वितीयं मन्त्रमाह- यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षण॑: । व॒शामे॒षा अ॑वसृ॒ष्टास॒ आहु॑ता: । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑' । हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये॑, इति । यस्मिन्नग्नावश्वादय आहुता अश्वासः । अश्वमेधयागे अश्वा हुताः । ऐन्द्रमृषभमित्यादिषु विहितेषु कर्मसु ऋषभा हुताः । ऐन्द्रमुक्षाणमित्यादिषूक्षाणो हुताः । सेचनसमर्था उक्षाणः पुंगवगात्रा ऋषभाः। मैत्रावरुणीं वशामालभेतत्यादिषु विहितेषु वशा हुताः । सारस्वतं मेषमित्यादिषु मेषा हुता । ते च सर्वेऽवसृष्टासो यजमानेन समर्पिताः . तादृशायाग्नये हृदाऽन्त:करणेन चारुं मतिं कर्मानुष्ठानविषयत्वेन समीचीना बुद्धिं जनयाह संपादयामि । कीदृशायाग्नये ।- कीलालपेऽन्नरसपायिने । सोमयागस्थितानि पृष्ठानि यस्यासौ सोमपृष्ठस्तस्मै वेधसे विधात्रे । नाना॒ हि वां॑ दे॒वहि॑तं ँ॒ सदो॑ मि॒तम् । मा स ँ॑ सृ॑क्षाथां प॒र॒मे व्यो॑मन् । सुरा॒ त्वम॑सि॒ शुष्मि॒णी सोम॑ ए॒षः । मा मा॑ हि ँ॑ सी॒: स्वां योनि॑मावि॒शन् (२)। यदत्र॑ शि॒ष्ट ँ॑ रसि॑नः सु॒तस्य॑ । यदिन्द्रो॒ अपि॑बच्छची॒भिः । अ॒हं तद॑स्य॒ मन॑सा॒ शिवे॑न । सोमं॒ राजा॑नमि॒ह भ॑क्षयामि । कल्पः-“ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारं नाना हि वां देवहित ँसदों मितं मा सँसृक्षाथां परमे व्योमन्सुरा त्वमसि सुष्मिणी सोम एष मा मा हिँसीः स्वां योनिमाविशन्यदत्र शिष्ट ँरसिनः सुतस्य

१७४ (१.४.२) तैत्तिरीयब्राह्मणम् यदिन्द्रा॑ अ॒ग्नि॒र॒र्चिर्भि॑रहं तदस्य मनसा शिवेन सोमँ राजानमिह भक्षयामीति वा स्वयं पिबेत्" इति । अत्र सुरोच्छेषस्य ब्रह्मणे पातारं किंचिन्मूल्यदानेन परिक्रीणीयात् । नाना हि वामिति मन्त्रेण यदिन्द्रेति मन्त्रेण वा स्वयं पिबेदित्यर्थः । हे सोमग्रहसुराग्रहौ वां युवयोः सदों निवासस्थानं नाना मितं पृथगेव संपादितम् । अतः परमेव्योमन्प्रकृष्टे आकाशे भक्षणस्थाने मा संसृक्षाथां परस्परसंसृष्टौ मा भूताम् । हे पात्रस्थद्रव्य त्वं शुष्मिणी बलवती सुराऽसि । एष खलु सोमः सुप्रसिद्धविभवस्त्वं स्वां योनिं स्वकीयस्थानमुदररूपमाविशन्मामिह मा हिंसीः । अत्र पात्रे रसिनो रसवतः सुतस्याभिषुतस्य यच्छिष्टमस्ति यच्चेन्द्रः अचीर्भिः स्वशक्तिभिः सहापिबत्तत्रास्य पात्रस्थद्रव्यस्यैकदेशं सोमं राजानमहं शिवेन भक्तियुक्तेन मनसेह कर्मणि भक्षयामि । द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम् । अ॒हं दे॒वाना॑मुत मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒ꣳ समे॑ति । अ॒न्त॒रा पूर्व॒मपरं॑ च के॒तुम् । कल्पः-“द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनं समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकवपायामवनयेत् " इति पितॄणामस्मत्पूर्वपुरुषाणां द्वे सृती अशृणवं द्वौ मार्गाविति शास्त्रमुखेनाहं श्रुतवानस्मि । तयोर्मध्ये देवानामेको मार्गो येन गत्वा ब्रह्म लोके देवा भूत्वा न पुरावर्तन्ते । उतापि च मर्त्या येन गत्वा स्वर्गमनु भूय पुनरावर्तन्ते ताभ्यामुभाभ्यां मार्गाभ्यामिदं विश्वं भुवनं शास्त्रार्थनुष्ठानपरं सर्वप्राणिजातं समेति सम्यग्गच्छति । पूर्वं केतुं चिह्नं पृथिवीमपरं केतुं दिवं चान्तरा द्यावापृथिव्योर्मध्ये द्वे सृती वर्तेते इत्यर्थः । यस्तै॑ देव वरुण गाय॒त्रछ॑न्दाः पाश॑ः । तं त॑ ए॒तेनाव॑जये, इति । कल्पः-“यस्ते देव वरुण गायत्रीच्छन्दाः, पाशस्तं त एतेनावयजे स्वाहेत्याश्विनपात्रमभृथे प्रविध्यन्ति" इति । हे वरुणदेवतेत्वदीयः पाशों गायत्र्याख्येण च्छन्दसा युक्तों यो विद्यते तं पासमेतेन पात्रेण विनाशयामि । कल्पः-“एतेनैव त्रिष्टुप्छन्दा इति सारस्वतस्य जगतीछन्दा इत्येन्द्रस्य' इति । एतेन देवेति मन्त्रेण त्रिष्टुप्छन्दा इतिविशेषयुक्तेन सारस्वतस्य पात्रं प्रविध्यन्ति । एवमुत्तरत्रापि । पाठस्तु-

द्वितीयोऽनुवाकः ॥ २ ॥

तैत्तिरीयब्राह्मणम् (१.४.२) १७५ यस्तै॑ दे॒व॒ वरु॑ण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे । यस्तै॑ दे॒व॒ वरु॑ण॒ जग॑ती छन्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे, इति । समाप्ताः सौत्रामणिशेषा मन्त्राः । अथ सोमशेषः कश्चिद्विधिः । यदुक्तं सूत्रकारेण-“राज्ञो राजभव्यस्य वाऽनूबन्ध्यायाः पशुपुरोडाशमष्टाै देव सुवाँहवींष्यनु निर्वपति” इति । तदिदं विधत्ते- सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन््राज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सुवामे॒तानि॑ ह॒वी ँ षि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाँ॒ सवाः॑ । त ए॒वास्मै॑ स॒वा न्प्रर्य॑च्छन्ति। स ए॒नं॒ पुन॑: सुवन्ते रा॒ज्या॑य दे॒व॒सू राजा॑ भवति, इति । सोमं॑ आवि॒शन्त्य॑जे रा॒ज्यायै॒कं च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ यः पूर्वं राजा राजत्वयोग्यो वा भूत्वा सोमेन यजत एतस्य राज्यं सोम देव गृह्णाति । अतस्तन्निवारणाय हविर्निर्वप । सुवन्ते प्रेरयन्ति राज्यार्थायमिति सुवां देवाश्च ते सुवश्च देवसत्राऽग्न्यादयस्तत्संबन्धीनि हवींष्यग्नये गृहपतये पुरोडाशमष्टाकपालमित्यनुवाकोक्तानि यावन्त ऐश्वर्यविशेषास्तस्मिन्ननुवाके श्रूयन्ते-“अग्निरेवैनं गृहपतीनाँ सुवते सोमो वनस्पतीनाम् ” इत्यादिना । एतावन्त एव गृहपतित्वाद्योऽपेक्षिता देवानां संबन्धिन ऐश्वर्यविशेषाः ततस्तैर्हविर्भिस्तुष्टास्त एवाग्न्यादयो देवा अस्मै यजमानाय तान्गृहपतित्वाद्यैश्वर्यविशेषान्प्रयच्छन्तीति ते देवा एनं यजमानं पुनरपि राज्याय प्रेरयन्ति । असावपि देवैः प्रेरितो राजा भवति । अत्र विनियोग संग्रहः- युवं सुरामं याज्यनुवाक्ये सौत्रामणौ गते । अहाव्यस्मिन्निति द्वाभ्यां तत्र होमानुमन्त्रणम् ॥ नानेति वा यदत्रेति वा मन्त्राद्भक्षयेद्धविः । द्वे स्रुतीति च वल्मीकवपायां वा क्षिपेद्धि तत् ॥ यस्ते देवाश्विनादीनि विध्यन्त्यवभृथे त्रिभिः । अनुवाके द्वितीयेऽस्मिन्दश मन्त्रा उदाहृताः ।। (इति) । ।

१७६ (१.४.३) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ चतुर्थप्रपाठके तृतीयोऽनुवाकः । द्वितीये सौत्रामणिमन्त्रा उक्ताः । तृतीयचतुर्थयोरग्निहोत्रविषयं प्रायश्चित्तमुच्यते । तत्राप्यस्मिन्ननुवाके दोहविषयं प्रायश्चित्तम् । तत्र कंचिन्मन्त्रं पठति- उद॑स्थाद्दे॒व्यदि॑तिर्वि॒श्वरू॑पी । आयु॑र्य॒ज्ञप॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च, इति । येयमग्निहोत्रहविर्दोहनार्था धेनुः सेयं देवी देवतारूपोदस्थादुत्तिष्ठतु । कीदृशी । देव्यदितिर्भूमिरूपा विश्वरूपी कृष्णशुक्लादिनानारूपयुक्ता सेयं यज्ञपताव्वायुः संपादयतु । किं कुर्वती । इन्द्रमित्रावरुणेभ्यो हविर्भागं संपादयन्ती । तमेतं मन्त्रं विनियुङ्क्ते- इ॒यं वा अ॑ग्निहो॒त्री । इ॒यं वा ए॒तस्य॒ निषी॑दति । यस्या॑ग्निहो॒त्री नि॒षीद॑ति । तामुत़्था॑पयेत् । उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यं वै दे॒व्यदि॑तिः (१) । इ॒मामे॒वास्मा॒ उत्था॑पयति, इति । यस्याग्निहोत्रहविर्दोहनाय प्रवृत्तस्याग्निहोत्री धेनुरुपविशति, एतस्य पुरुषस्यास्याग्निहोत्री भूमिरूपेति कृत्वा भूमिदेवतैव दोहं प्रतिबध्नन्ती निषीदति । तस्मादुदस्थादिति मन्त्रेण तामुत्थापयेत् मन्त्रगतस्यादि- तिशब्दस्य भूमिवाचित्वाद्भूमिमेवोत्थापयति । मन्त्रस्य द्वितीयपादतात्पर्यं दर्शयति- आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति, इति । उत्तरार्धस्य यथार्थतां दर्शयति- इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒- य॒जुरे॒वैतत्, इति ।