तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.५.११) २६१ एवं चतुष्टोमत्वं स्तोमानां ज्योतिष्टोमत्वं चाभिधायोपाऽऽख्यायिकामुखेन सवनीयपुरोडाशान्प्रपञ्चयति- सो॑ऽब्रवीत् । स॒प्तद॒शेन॒ ह्रिय॑माणो॒ व्य॑लेशिषि । भि॒षज्य॑तमेति॑ । तम॒श्विनौ॑ धा॒ना भि॑रभिषज्य॒ताम् । पू॒षा क॑र॒म्भेण॑ भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या, इति॑ । पूर्वस्मिन्ननुवाके तस्य सप्तदशेन ह्रियमाणस्य तेजो हरोऽपतदित्यादित्यस्य तेजोहानिराम्नाता । स आदित्यो देवान्प्रत्येवमब्रवीत् । सप्तदशस्तोमेन ह्रियमाणोऽहं तेजोवियोगादलेशिषि, अल्पोऽभूवंस्तस्मान्मां भिषज्यत । एवमादित्येन प्रार्थिता देवा अश्विपूषादयः स्वस्वपरिचितेनौषधेन चिकित्सांमकुर्वन् । धाना भृष्टयवाः । करम्भो यवपिष्टमाज्यसंयुक्तम् । परिवापो लाजाः। पयस्याऽऽमिक्षा । अथ प्रश्नोत्तराभ्यां धानादीनां चतुर्णां द्रव्याणां हविषामिन्द्रदेवताकत्वं दर्शयति- तदा॑हुः (२) । यद॒श्विभ्यां॑ धा॒नाः । पू॒ष्णः क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोः पय॒स्याऽर्थ॑ । कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मे॒व य॑जन्तीति॑ । ए॒ता ह्यै॑नं दे॒वता॑ इति॑ ब्रूयात् । ए॒तैर्हविर्भि॑रभि॒षज्य॒ ँ स्स्तस्मा॒दिति॑, इति॑ । पूर्वोक्तरीत्या धानादीन्यश्विन्यादिदेवसंबन्धीनि द्रव्याणि । तथा सति होमकालेऽश्विन्यादिदेवताः परित्यज्य कस्मात्कारणादेतेषां हविषामिन्द्रदेवस्वामित्वं कृत्वा यजमाना यजन्तीत्येवं वेदवादिनः पप्रच्छ । अत्राभिज्ञ उत्तरमेवं ब्रूयात् । यस्मादेताः सर्वा देवता एनमिन्द्रमुपजीवन्तीति शेषः । तस्मादिन्द्रस्यैव धानादिहविः स्वामित्वं युक्तम्। एतैरैवेन्द्रस्वामिकैर्हविभिरश्विपूषादिदेवा आदित्यस्य चिकित्सां कृतवन्तः । अत एव सूत्रकार इन्द्रविषयमेव प्रैषमन्त्रमुदाजहार- सर्वेषां पुरोडाशानां जुह्वां देवतानि समवद्यत्युपभात सौविष्टकृतानि प्रातः प्रातः सवस्येन्द्राय पुरोडाशानामनुब्रूहि" इति । धानादिहविश्चतुष्टयं प्रशस्य पञ्चमं पुरोडाशाख्यं हविः प्रशंसति- तं वस॑वो॒ऽष्टाक॑पालेन प्रातः सव॒नेऽभि॑षज्यन् । रु॒द्रा
२६२ (१.५.११) तैत्तिरीयब्राह्मणम् एका॑दशकपालेन॒ माध्यं॑दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृती॑यसव॒ने (३), इति । तमादित्यम् । न चात्रेन्द्रस्य स्तोतव्यत्वे सति भेषज्येना- ऽऽदित्यस्तुतिस्युक्तेति वाच्यम् । इन्द्रस्यैव मूर्त्यन्तरं स्वीकृत्याऽऽदित्यरूपेणावस्थितत्वात् । अथवाऽदितेः पुत्र इति व्युत्पत्त्याऽऽदित्यशब्देनेन्द्र एव विवक्षित इति गमयितव्यम् । अत्रोक्तार्थवादानुसारेण सवनत्रये विलक्षणपुरोडाश- प्राप्तावन्वयव्यतिरेकाभ्यां तद्वारयति- स यद॒ष्टाक॑पालाना॒न्प्रातः सव॑ने कु॒र्यात् । एका॑दशकपालानान्माध्यं॑दिने सव॑ने । द्वाद॑शकपाला ँ स्तृती॑यसवने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रातः सव॑ने कुर्यात् । एका॑दशकपालानान्माध्यं॑दिने सव॑ने । एका॑दशकपाला ँ स्तृती॑यसवने । य॒ज्ञस्य॑ सलोम॒त्वाय॑, इति अत्र पुरोडाशार्थानि यानि कपालानि तेषां वैलक्षण्यं यज्ञस्य विलोमत्वमैकविध्यत्वं सलोमत्वं तदिदं पक्षद्वयं सूत्रकार आह-“अष्टौ पुरोडाशकपालान्येकादश माध्यंदिने द्वादश तृतीयसवने सवनेन्द्रानैकादशकपालाननुसवनमेके समामनन्ति” इति । पूर्ववदत्रापि प्रश्नोत्तराभ्यां पुरोडाशानामिन्द्रदेवताकत्वं दर्शयति- तदा॑हुः । यद्वसूं॑नां॒ प्रातः सव॑नम् । रु॒द्राणां॒ माध्यं॑दिनँ सव॑नम् । विश्वे॑षां दे॒वानां॑ तृती॑यसव॒नम् । अथ॒ कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मेव य॑जन्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॑ इति॑ ब्रूयात् । ए॒तैर्ह्यवि॒र्भि॑रभिषज्य॒ ँस्तस्मा॒दिति॑ (४), इति । एका॑वि ँश आहुस्तृती॑यसव॒ने प्रा॒तः सव॑नं पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये एकादशोऽनुवाकः ॥ ११ ॥ धानादिवाक्यात्पुरोडाशवाक्यं व्याख्येयम् । यद्यपि न धानादयः पुरोडाशास्तथाऽपि पुरोडाशसाहचर्याच्छत्रिन्यायेन पुरोडाश इति व्यवहारः । यथैकस्मिन्नैव च्छत्रिणि सत्यापि च्छत्रिणो गच्छन्तीति सर्वेषु च्छत्रित्वव्यवहारस्तद्वत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
तैत्तिरीयब्राह्मणम् [१.५.१२] २६३ अथ पञ्चमप्रपाठके द्वादशोऽनुवाकः एकादशे सवनीयपुरोडाशः प्रपञ्चिताः । अथ द्वादशे सप्त च्छन्दांसि प्रपञ्च्यन्ते । तत्राऽऽदौ श्रायन्तीयवारवन्तीयनामनिरुक्तिद्वारा प्रशंसति- तस्या॒ वाचो॑ऽवपा॒दाद॑बिभयुः। तमे॒तेषु॑ स॒प्तसु॒ च्छन्द॑:- स्वश्रयन् । यदश्र॑यन् तच्छा॑य॒न्तीय॑स्य श्रायन्ती॒यत्वम्॑ । यदवा॑रयन् । यद्वा॑र॒वन्ती॑यस्य वारवन्ती॒यत्वम्॑ । इति । योऽयमादित्य आकाशमार्गे संचरति सोऽयमृधस्तात्पतिष्यतीत्येवं तस्याऽऽदित्यस्याधोदेशविषयात्पाताद्भीता देवास्तत्पातपरिहाराय तमादित्यमेतेषु गायत्र्यादिषु सप्तसु च्छन्दःसु स्थापितवन्तः। यस्माद्देवाश्छन्दांस्याश्रितवन्तस्तस्मात्तेषु च्छन्दःसु गीयमानस्य सामविशेषस्य श्रायन्तीयं नाम संपन्नम् । यस्माच्छन्दः स्वाहित्यं स्थापयित्वा तस्याधः पातं निवारितवन्तस्तस्मात्तेषु च्छन्दःसु गातव्यस्य सामविशेषस्य वारवन्तीयं नाम संपन्नम् । स्तोत्रकर्मसाधनानां श्रायन्तीयादिसाम्नामाधारत्वाच्छन्दांसि प्रशस्तानीत्यर्थः । तेषु च्छन्दःसु बृहतीं विशेषेण प्रशंसति- तस्या॒ वाच॑ ए॒वाव॑पा॒दाद॑बिभयुः। तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ च्छन्दाँ॑स्युपा॑दधुः । तेषा॑मत्ति त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन् (१) । स बृ॒ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षरा॑भ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व, इति । च्छन्दः स्वाहित्यं स्थापयित्वाऽपि तेषां च्छन्दसां न्यूनाधिकभावेन कार्यक्षमत्वाभावमाशङ्कमाना देवाः पुनरादित्यपाताद्भीताः सन्तस्तेष्वेव च्छन्दःसु कार्यक्षममेकं छन्दोऽन्विच्छन्तस्तानि सप्तापि च्छन्दांस्यादित्यसमीपे स्थापितवन्तः । चत्वार्युष्णिग- नुष्टुप्पङ्क्तिबृहत्येतान्युत्तराणि येषां गायत्रीत्रिष्टुब्जगतीत्येषां प्रसिद्धानां मुख्यच्छन्दसां तानि मुख्यच्छन्दांसि चतुरुत्तराणि तानि च मिलित्वा सप्तसंख्याकानि तेषां सप्तानां मध्ये त्रीणि पङ्क्तित्रिष्टुब्जगतीत्येतान्यत्यरिच्यन्त । यदा बृहतीं कृत्वा गानं क्रियते तदानीमेतेष्वक्षराण्यधिकानि भवेयुः । तर्थी त्रीणि गायत्र्युष्णिगनुष्टुबित्येतानि नोद्भवन्नोद्भूतानि बृहतीं पूरयितुं न
२६४ (१.५.१२) तैत्तिरीयब्राह्मणम् समर्थानि । कैश्चिदक्षरैर्न्यूनत्वात् । स च न्यूनाधिकभावः श्रुत्यैव दर्शयिष्यते । तदानीं स आदित्यस्तानि षडपि च्छन्दांसि परित्यज्य बृहतीमेवस्वकार्यक्षमियमित्थेवं स्पृष्टवान् । सा च बृहती स्वकार्येषु षट् त्रिंशदक्षरेषु द्वे एवाक्षरे अहोरात्ररूपतामापाद्य ताभ्यामादित्यस्योपकरोति । तावताऽधः प॑तिभीतिर्निवृत्ता । अथ प्रश्नोत्तराभ्यां बृहतीमहिमानं दर्शयति- तदा॑हुः । क॒तमा सा दे॒वाक्ष॑रा बृह॒ती । यस्यां॑ तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्य॑ः । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्या॑ः । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती (२) । यस्यां॑ तत्प्र॒त्यति॑ष्ठ॒दिति॑, इति । बृहती द्विविधा-शब्दात्मिका देवतात्मिका चेति । तस्या अवयवभूतान्यक्षराणि च द्विविधानि- शब्दात्मकानि देवतात्मकानि च । न क्षरत्येभिर्द्विविधैरवयवैरिति व्युत्पत्या द्विविधा अप्यवयवा अक्षरशब्दवाच्याः । तत्र शब्दात्मकाक्षरावयवाः “पुनानः सोम” इत्यादिश्वृक्षु प्रसिद्धः । देवतारूपाक्षरावयवैर्युक्ता देवतारूपा या बृहती तस्यामादित्यमण्डलं प्रतिष्ठितम् । सा च बृहती तदवयवाश्च कीदृशीति पप्रच्छुः । तत्राभिज्ञ उत्तरं ब्रूते । पौर्णमास्यः कृष्णाष्टम्योऽमावास्याश्च संवत्सरगताः सर्वा मिलित्वा देवतारूपा अक्षरावयवाः । तत्संघारूपेयं बृहती देवताऽऽदित्यमण्डलस्याऽऽधारभूता । तया धारितमादित्यमण्डलमधो न पततीति स्तोत्रगानकाले भावनार्थमिदं देवतारूपं निरूप्यते । अथ देवतारूपाणां छन्दसां संवादमुखेन सर्वेषां प्रशस्तं बृहतीरूपत्वं संपादयति- यानि॑ च॒ च्छन्दा ँ'स्यत्यरि॑च्यन्त । यानि॑ च॒ नोद भ॑वन् । तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद् बृह॒ती । मामे॒व भू॒त्वा । मामुप॒स ँ' श्र॑ यतेति॑ । च॒तुर्भि॑रक्षरै॑रनु॒ष्टुब्बृ॑ह॒तीं नोद॑भवत् । च॒तुर्भि॑रक्षरैः प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑
तैत्तिरीयब्राह्मणम् (१.५.१२) २६५ च॒त्वार्य॑क्ष॒राण्यप॑च्छि॒द्याऽऽद॑धात् (३) । ते बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति । यानि पङ्क्त्यादीनि बृहत्या अधिकाक्षराणि यानि चानुष्टुबादीनि बृहतीं पूरयितुं न पर्याप्तानि तानि द्विविधान्यपि स्वमनस्येवममन्यन्त । वयं निर्वीर्याणि बृहतीकार्यं संपादयितुमसमर्थान्यतो हीनान्यधामानीति । तेषां खेदं दृष्ट्वा तत्परिहारोपायं सा बृहती देवताऽ ब्रवीत् । ह छन्दांसि यूयं मामेव भूत्वा प्राप्य मदीयामेवाक्षरसंख्यां धृत्वेत्यर्थः । ततो मामुपेत्य सम्यक्सेवध्वमिति । तत्रानुष्टुभो द्वात्रिंशदक्षरत्वाद् बृहत्याः षट्- त्रिंशदक्षरत्वाच्चतुर्भिरक्षरैरियमनुष्टुब्धृहतीं पूरयितुं न समर्था । पङ्क्तेः पञ्चभिः पादैरुपेतत्वादेकैकस्य पादस्याष्टाक्षरत्वे सति चत्वारिंशदक्षरा पङ्क्तिः संपद्यते । चतुर्भिरक्षरैः पङ्क्तिर्बृहत्या अधिका । तस्यां पङ्क्तौ विद्यमानान्येतानि चत्वार्यधिकाक्षराण्यपच्छिद्येयं बृहती न्यूनायामनुष्टुभि स्थापितवती । ततस्ते पङ्क्त्यनुष्टुभौ बृहत्यावेव भूत्वा तां बृहतीमुपेत्य सम्यगसेवेताम् । एकस्य न्यूनाधिकयुग्मस्य बृहतीत्वं संपादितम् । अथान्ययोर्युग्म्योरपि तत्संपादयति- अ॒ष्टाभि॑र॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीं नोद॑भवत् । अ॒ष्टाभि॑र॒क्षरै॑- स्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षरा॑ण्य प॑च्छि॒द्याऽऽद॑धात् । ते बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम् । द्वाद॑शभि॑र॒क्षरै॒र्गाय॒त्री बृ॒ह॒तीनाद॑भवत् । द्वाद॑शभि॑र॒क्षरै॒र्जग॑ती बृ॒ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा॑ण्यप॒च्छिद्या॑ऽऽदधात् (४) । ते बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति । उष्णिगष्टाविंशत्यक्षरा प्रसिद्धमन्यत् । अथानुसंधानार्थं रथरूपकं परिकल्पयति- सो॑ऽब्रवीत्प्र॒जाप॑तिः । छन्दा॑ ँ सि॒ रथो॑ मे भवत॒ । यु॒ष्माभि॑र॒हमे॒तमध्वान॒मनु॑संच॒राणीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिच् च॑ त्रि॒ष्टुप् च॑ प्र॒ष्टी॑ । अनु॒ष्टुप् च॑ प॒ङ्क्तिश्च॒ धुर्यौ॑ । बृ॒ह॒त्यै॑वोद्धिर॑भवत् । स ए॒तं
२६६ (१.५.१२) तैत्तिरीयब्राह्मणम् छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒सम॑चरत् । ए॒त ँह॒ वै छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒संच॑रति । येनै॑ष ए॒तत्संचर॑ति । य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वं वैद॑ (५), इति । अभवन्वाव सा देवाक्षरा बृ॒ह्त्य॑दधा॒द्द्वाद॑शा॒क्षरा॑ण्य- पृ॒च्छ॒द्यो॑द॒धादा॒स्थाय॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये द्वादशोऽनुवाकः ॥ १२ ॥ अग्नेः कृत्तिका यत्पुण्यं देवस्य॑ सवि॒तुर्ब्रह्मवादिनः कत्य॒तमेव दे॒वा वा आ॑यु॑ष॒ इन्द्रो॑ दधीचो दे॒वासु॑राः स प्र॒जाप॑तिः स स॑मु॒द्रो ये॑ वै च॒त्वार॒स्तस्या॑ वा॒चो द्वाद॑श । अग्नेः कृत्तिका॑ देवगृहा वा ऋ॒तम॑व॒र्ध्यामैव ति॒स्रः परा॑ची॒र्यवै च॒त्वारो॒ नव॑पञ्चाशत् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमोऽध्यायः ॥ ५ ॥ स प्रजापतिरादित्यरूपेणाऽऽकाशमार्गे गन्तुमेवमुवाच । हे छन्दांसि गायत्र्यादीनि यूयं मदर्थं रथाकारं प्राप्नुत । रथाकारैर्युष्माभिरहमेत- माकाशाध्वानमनुदिनं संचराणीति । ततस्तस्य प्रजापतेर्गमनार्थं गायत्रीजगत्यौ पक्षौ रथस्य चक्रे अभवताम् । उष्णिक्त्रिष्टुभौ प्रष्ट्यावीषारूपे दीर्घकाष्ठे अभवताम् । अनुष्टुप्पङ्क्त्यौ धुरि योजनीयावश्वावभवताम् । बृह्त्येबोद्धिरूर्ध्वस्थापनीय पीठसमानोप- वेशनफलकरूपाऽभूत् । स प्रजापतिस्तादृशं रथमारुह्यानुदिनमेतन्मार्गं संचरति । यः पुमानेवं रथमनुसंदधानः सोमेन यजते यश्चैनं रथमेवं ध्यायति स एष उभयविधोऽपि पुरुषो येनाध्वनैष प्रजापतिरेतद् दृश्यमानं स्थानं संचरति तमेतमेवाध्वानं छन्दोरथामरूढोऽनुदिनं संचरति। अत्रैवं विद्वाञ्त्सोमेन यजत इति वाक्य एवं शब्देन देवासुरा इत्याद्यनुवाक- चतुष्टयोक्तः साङ्गः सोमयागाकारः परामृश्यते । अतोऽयं सोमयागस्य प्रयोगविधिर्द्रष्टव्यः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ अथास्य प्रपाठकस्य़ानुवाकार्थः संगृह्यते- नक्षत्राख्येष्टकाः मन्त्राः पञ्चमाद्ये समीरिताः ।
ब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥
तैत्तिरीयब्राह्मणम् (१५.१२) २६७ नक्षत्रद्वारकः पुण्यः काल उक्तो द्वितीयेके ॥ हेयाहेयावहर्भागौ तृतीये समुदीरितौ । तुर्ये पात्रोक्तिरन्यस्मिन्मन्त्रा वपनगाः श्रुताः ॥ षष्ठे तद्ब्राह्मणं मन्त्रा इष्टकार्था द्वयोः श्रुताः॥ चतुर्षु नवमाद्येषु साङ्गः सोम उदीरितः ॥ औपानुवाक्यरूपः स्यात्पञ्चमोऽयं प्रपाठकः । ब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥ अष्टमे संहितायां तु समन्त्रा विधयः श्रुताः। विधिव्याख्यानरूपत्वादनुब्राह्मणमुच्यते ॥ प्रतिप्रपाठकं तत्रानुवाका दश वर्णिताः । षष्ठस्याऽऽद्येऽनुमत्याद्या इष्टयोऽथ द्वितीयेके ॥ वरुणस्य प्रघासाः स्युस्तुर्ये शेषस्तु पञ्चमे ॥ साकमेधास्तु षष्ठे स्युस्तच्छेषः सप्तमे भवेत् । अष्टमे पितृयज्ञः स्यात्तच्छेषो नवमे स्मृतः ॥ दशमे त्र्यम्बकाणि स्युरिति षष्ठः समापितः । सप्तमाद्ये शुनासीरीयेन्द्रतुर्ये उभे तथा ॥ पञ्चाध्मीयमपामार्गहोमाश्चत्वार ईरिताः ॥ द्वितीये देविकादीनि तृतीये रत्निनां हविः ॥ तुर्ये हविर्देवसुवां पञ्चमे तु जलाहृतिः । षष्ठे स्याजलसंस्कारो दिग्विजयध्यानमुत्तरे ॥ अभिषेकोऽष्टमे प्रोक्तो रथारोहणमुत्तरे । दशमे सेव्यते सर्वैः सप्तमोऽयं प्रपाठकः ॥ अष्टमाद्ये हवींषि स्युः संसृपां दशपेयकः । द्वितीये वेष्टयोऽ यस्मिंश्चतुर्थे प्रयुजां हविः ॥ सौत्रामणिर्द्वयोः प्रोक्तः पवित्रा हस्तु सप्तमे । अभिषेच्योऽप्यष्टमे तु विशेषः साममन्त्रयोः ॥ शेषोऽभिषेकगेऽन्यस्मिन्दशमे तु द्विरात्रकः । क्षत्रस्य धृतिरित्येवमष्टमोऽयं प्रपाठकः । अक्षरार्थः संहितायां तन्मन्त्रविधिभिः सह ।
२६८ (१.६.१) तैत्तिरीयब्राह्मणम् व्याख्यातोऽवेक्ष्यतां तत्र काण्डोऽत्र समापितः ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे पञ्चमषष्ठसप्तमाष्टमप्रपाठकाः समाप्ताः ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ इति श्रीराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कराज- ज्ञापालकेन माधवामात्येन विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डः समाप्तः॥ १ ॥ (मूलक्रमेण-अष्ट.-१ अध्या. ५ अनु. १२ (४८) । (भाष्यक्रमेण- का. १ प्रपा. ८ अनु. ४२ (६८) । अथ प्रथमाष्टके षष्ठः प्रपाठकः । तत्र प्रथमोऽनुवाकः । अनु॑मत्यै पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । ये प्र॒त्यञ्च॑: शम्या॑या अ॒वशीर्य॑न्ते । तन्नैऋ॑तमेक॑कपालम् । इ॒यं वा अनु॑मतिः। इ॒यं निर्ऋ॑तिः । नैऋ॑ते॒न पूर्वे॑ण॒ प्रच॑रति। पा॒प्मान॑मे॒व निर्ऋ॑तिं पू॒र्वां निरव॑दयते । एक॑कपालो भव॑ति । एक॑धैव निर्ऋ॑तिं॒ निरव॑दयते । यदहु॑त्वा॒ गार्ह॑पत्य ईयुः (१)। रुद्रो भू॒त्वाऽग्नि॒रनूत्थाय॑ । अ॒ध्व॒र्युं च॒ यज॑मानं च ह॑न्यात् । वी॒हि स्वाहाऽऽहु॑तिं जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैन॑ ँ शमयति । नार्ति॒मार्छ॒त्यध्व॒र्युर्न यज॑मानः। एकोल्मु॒कं न॑यन्ति । तद्धि निर्ऋ॑त्यै भा॒ग॒धेय॑म् । इ॒मां दिशं॑ नयति । ए॒षा वै निर्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दिशि॒ निर्ऋ॑तिं निरव॑दयते (२) स्वकृ॑त इरि॑णे जुहोति प्र॒दरे॒ वा॑ । ए॒तद्वै निर्ऋ॑त्या आ॒यत॑नम् । स्व ए॒वाऽऽयत॑ने॒ निर्ऋ॑तिं
तैत्तिरीयब्राह्मणम् (१.६.१) २६९ नि॒रव॑दयते । ए॒ष ते॑ निर्ऋ॑ते भा॒ग इत्या॑ह । निर्दि॑श- त्ये॒वैना॑म् । भू॒तै ह॒विष्म॑त्यसीत्या॑ह । भूमि॑मे॒वोपाव॑र्तते । ञ्चेमम॒ हँस॒ इत्या॑ह । अ ँह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गुष्ठाभ्यां॑ जुहोति(३)। अ॒न्तत॑ एव निर्ऋतिं॒ निर॑वदयते । कृ॒ष्णं वास॑: कृ॒ष्णतू॑षं दक्षि॑णा । ए॒तद्वै निर्ऋ॑त्यै रू॒पम् । रूपेणै॒व निर्ऋ॑तिं निर॑वदयते । अप्र॑तीक्षम॒ार्यन्ति॑ । निर्ऋत्या अ॒न्तर्हि॑त्यै स्वाहा॒ नमो॒ य इदं च॒कारेति॑ पुन॒रेत्य॑ गार्हपत्ये जुहोति । आहुत्या॑यैव नम॒स्यन्तो॒ गार्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॑ प्र॒चर॑ति । इ॒यं वा अनु॑मतिः (४) इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुं कुरु॑ते । आ॒दि॒त्यं च॒रुं निर्व॑पति । उ॒भयी॑ष्वे॒व प्र॒जास्वा॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । व॒रो दक्षि॑णा । व॒रो हि राज्यं॑ ँ समृद्ध्यै॑ । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पति । अ॒ग्निः सर्वा॑ दे॒वता॑: । (५) । विष्णु॑र्य॒ज्ञः । दे॒वता॑श्चैव य॒ज्ञं चाव॑रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ऽऽग्ने॒यः। यद्वा॑म॒नः । तेन॑ वै॒ष्ण॒वः समृद्धयै । अग्नीषोमीयमेका॑दशकपालं॒ निर्व॑पति । अग्नीषोमा॑भ्यां वा इन्द्रो॑ वृ॒त्रमह॑न्निति । यद॑ग्नीषोमी॒यमेका॑दशकपालं निर्व॑पति (६) । वार्त्र॑घ्नमे॒व विजि॑त्यै॒ हिर॑ण्यं दक्षि॑णा समृद्ध्यै॑ । इन्द्रो॑ वृ॒त्र ँह॒त्वा । दे॒वता॑भिश्चेन्द्रि॑येण च व्या॑र्ध्यत । स ए॒तमै॑न्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तं निर॑वपत् । तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यं चावा॑रुन्धे । यदै॑न्द्राग्नमेका॑दशकपालं॒ निर्व॑पति । दे॒वता॑श्चैव तेनै॑न्द्रि॒य च॒ यज॑मानोऽव॑रुन्धे । ऋ॒ष॒भो॒.वही दक्षि॑णा (७) । यद्व॒ही तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः । तेनै॑न्द्रः. समृद्धयै आ॒ग्ने॒यम॑ष्टाक॑पालं॒ निर्व॑पति । ऐ॒न्द्रं दधि॑ । यदा॑ऽऽग्ने॒यो
भव॑ति । अ॒ग्निर्वै य॒ज्ञमु॒खम् । य॒ज्ञमु॒खमे॒वर्धि॑ पु॒रस्ता॑द्धत्ते । यदै॒न्द्रं दधि॑ (८) । इ॒न्द्रि॒यमे॒वाव॑रुन्थे । ऋषभो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः। तेनै॒न्द्रः समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माशन॑न् । ताः परा॑भवन् । आ॒ग्र॒य॒णं भव॑ति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय (९) दे॒वा वा ओष॑धीषू॒र्जिम॑युः । ता इन्द्रा॒ग्नी उदै॑जयताम् । तावे॒तमै॑न्द्रा॒ग्नं द्वाद॑शकपालं निर॑वृणाताम् । यदै॑न्द्रा॒ग्नो भव॑त्यू॒र्जित्यै॑ । द्वाद॑शकपालो भव॑ति । द्वाद॑श॒ मासा॑: संवत्स॒रः । सं॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रुर्भव॑ति । वै॒श्व॒दे॒वं वा अन्न॑म् । अन्न॑ मे॒वास्मै॑ स्वदयति (१०) । प्र॑थ॒मजो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्य ँश्या॑मा॒कं च॒रुं निर्व॑पति । सोमो॒ वा अ॑कृष्ट॒प॒च्यस्य॒ राजा॑ । अ॒कृष्ट॑प॒च्यमे॒वास्मै॑ स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्य ँहि दे॒वत॑या॒ वास॑: समृ॑द्ध्यै । सर॑स्वत्यै च॒रुं निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑रुन्धे । मि॒थु॒नौ गा॒वौ दक्षि॑णा॒ समृ॑द्ध्यै । ए॒ति॒ वा ए॒ष य॒ज्ञमु॒खाद्योऽर्द्धा॑: । योऽग्नेर्देव॑ता॒या एति॑ । अ॒ष्टावे॒ तानि॑ ह॒वी ँ षि॑ भव॒न्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः॑ । तेनै॒व य॒ज्ञमु॒खाद्योऽर्द्धा॒ द्या अ॒ग्नेर्देव॑ता यैर्नैति॑ (११), [इति १] ईयु॒र्निर्व॑दयते॒ऽङ्गुष्ठाभ्यां॑ जु॒होत्यनु॑मतिर्दे॒वता॑ निर्वप॑ति वही दक्षि॑णा यदै॒न्द्रं दध्य॑प रामावाय स्वदय॑ति गा॒वौ दक्षि॑णा समृ॑द्ध्यै षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथ षष्ठप्रपाठके द्वितीयोऽनुवाकः । वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा असृ॑जत । ताः सृ॒ष्टा न
तैत्तिरीयब्राह्मणम् (१.६.२) २७१
प्राजा॑यन्त । सोऽग्नि॒रक॑मयत । अह॒मि॒माः प्र॒ज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यं च॑ प्र॒जा भु॒नक्ति॒ यं च॒ न । तावु॒भौ शौचतः प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निम॒पर्य॑सृजत् । ता अ॒ग्निरध्यै॑त् (१) सोमो॒ रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षाऽपो॑षयत् । ते वा ए॒ते त्रिः सं॑वथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वाः पु॒ष्टिपतयः । सं॒व॒थ्स॒रो वै प्र॒जाप॑तिः । सं॒व॒थ्स॒रेणै॒वास्मै॑ प्र॒जाः प्राज॑नयत् । ताः प्र॒जा जा॒ता म॒रुतो॑ऽघ्नन् । अ॒स्मानपि॑ न प्रायु॑क्ष॒तेति॑ (२) स ए॒तं प्र॒जाप॑तिमरुत ँस॒प्तक॑पालमपश्यत् । तं निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत । यन्मा॑रु॒तो नि॑रू (रु) प्यते॑ । य॒ज्ञस्य॒ क्लृप्त्यै॑ । प्र॒जाना॒मघा॑ताय स॒प्तक॑पालो भवति । स॒प्त ग॒णा वै म॒रुतः॑ । ग॒णश ए॒वास्मै॒ विशं॑ कल्पयति । स प्र॒जाप॑तिरशोचत् (३) । याः पूर्वाः॑ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अव॑धिषुः । क॒थमप॑राः सृ॒जेयेति॑ । तस्य॒ शुष्म॑आ॒ण्डं भू॒तं निर॑वर्तत । तद् व्युद॑हरत् । तद॑पोषयत् । तत्प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒तद्रूपम् । यदा॒मिक्षा॑ । यद् व्युद्धर॑ति (४) । प्र॒जा एव तद्यज॑मानः पोषयति । वै॒श्व॒दे॒व्या॑मि॒क्षा भ॑वति । वै॒श्व दे॒व्यौ वै प्र॒जाः । प्र॒जा ए॒वास्मै॑ प्र॒जनय॑ति । वा॒जिन॒मान॑यति । प्र॒जास्वे॒व प्र॒जाता॑सु रेतो॑ दधाति । द्यावा॑पृथि॒व्य॑ एक॑कपालो भवति । प्र॒जा एव प्र॒जाता॑ द्यावा॑पृथि॒वीभ्या॑मु॒भयतः॒ परि॑गृह्णाति । दे॒वा॒सु॒राः संय॑त्ता आसन् । सो॑ऽग्नि॒रब्र॑वीत् (५) । मामग्रे॑ऽब्र॑वीत् । मया॒ मु॒खेनासु॑राञ्जेष्यथेति॑ । मां द्वि॒तीय॒मिति॒ सोमो॑ऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मा तृ॒तीय॒मिति॑ सवि॒ता । मया॒
२७२ (१.६.३) तैत्तिरीयब्राह्मणम् प्रसू॑ता जे॒ष्यथेति॑ । मां च॑तु॒र्थी॒मिति॑ सर॑स्वती । इ॒न्द्रियं॑ वो॒ऽहं धा॑स्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया॑ प्रति॑ष्ठया जे॒ष्यथेति॑ । (६) । तेऽग्निना॒ मुखे॑नासु॑रानजयन् । सोमे॑न॒ राज्ञा॑ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् । पू॒षा प्रति॑ष्ठाऽऽसी॑त् । ततो॒ व दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीꣳषि॑ नि॒रुष्य॑न्ते विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति । प॒शवो॒ वा उत्त॑रवे॒दिः । अजा॑ता इव॒ ह्येतर्हि॑ प॒शव॑: (७) । ऐ॒दित्य॑शो॒चद्यु॒द्धर॑त्यब्रवीत्याप्र॒त्ष्ठया॑ जे॒ष्यथेत्येतर्हि॑ प॒शव॑: । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ षष्ठप्रपाठके तृतीयोऽनुवाकः । त्रि॒वृद्ब॒र्हिर्भव॑ति । मा॒ता पि॒ता पु॒त्रः । त॒देव तन्मि॑थु॒नम् । उल्बं॒ गर्भो॑ जरायु॑ । त॒देव तन्मि॑थु॒नम् । त्रे॒धा ब॒र्हिः संन॑द्धं भ॑वति । त्र्य॑ इ॒मे लो॒काः । ए॒ष्वेव लो॒केषु॒ प्रति॑तिष्ठति एक॑धा पु॒नः संन॑द्धं भवति । एक॑ इव॒ ह्य॑यं लो॒कः (१) । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवौ॑ भवन्ति । प्र॒थ॒म॒जा॒मे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा समृ॑द्ध्यै । पृष॒दाज्यं॑ गृ॑ह्णाति । प॒शवो॒ वै पृ॑ष॒दाज्यम्॑ । प॒शूने॒वाव॑रुन्धे । प॒ञ्च॒गृही॑तं भव॑ति । पा॒ङ्क्ता हि प॒शव॑:। ब॒हुरूपं॑ भव॑ति (२) । ब॒हु॒रूपा॒ हि प॒शव॑: समृ॑द्ध्यै । अ॒ग्निं म॑न्थन्ति । अ॒ग्नि॒मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यद॒ग्निं म॒न्थन्ति॑ । अ॒ग्नि॒मुखा॑ ए॒व तत्प्र॒जा यज॑मानः सृजते । नव॑ प्र॒जाया॑ (याजा) ईज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ हवीꣳ॑ षि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ (३)। त्रि ꣳ॑शत्संप॑द्यन्ते । त्रि ꣳ॑ शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्य॑म् । यदेक॑कपा॒ल॒ आज्य॑मानय॑ति । यज॑मानमे॒व तेज॑सा॒ समर्ध॑यति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्य॑म् (४) । यदेक॑कपा॒ल॒ आज्य॑मानय॑ति । यज॑मानमे॒व प॒शुभिः॒ समर्ध॑यति । यदल्प॑मान॒येत् । अल्पा॑ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन् । यद्ब॒ह्वाना॒येत् । ब॒ह्व॑ एनं प॒शवो भु॒ञ्जन्त॒ उप॑तिष्ठेरन् । ब॒ह्नानीयाऽऽविः पृ॒ष्ठं कु॑र्यात् । ब॒ह्व॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत् । (५) । यज॑मानस्याव॒द्येत् । उद्वा माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व होत॑व्यः । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वाऽभिजु॑होति । यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयित्वा । तेज॑सा॒ समर्ध॑यति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः (६) यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गाल्लो॒का द्यज॑मान॒मर्व॑विध्येत् । स्रुचा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ समर्ष्ट्यै॑ । यत्प्राङ्पद्ये॑त । दे॒व॒लो॒कम॑भिजयेत् । यद्दक्षिणा पि॑तृलो॒कम् । यत्प्रत्यक् (७) । रक्षा ँ 'सि य॒ज्ञ ँ ह॑न्युः । यदुदङ् । म॒नु॒ष्य॒लो॒कम॑भिजयेत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपालं॒ वै प्रति॑तिष्ठन्तं॒ द्यावा॑पृथि॒वी अनुप्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून्य॒ज्ञः । य॒ज्ञं यज॑मानः । यज॑मानं प्र॒जाः । तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ । (८) वा॒जिनौ॑ यज॑ति । अ॒ग्निर्वा॒युः सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तर्प॑यति । अथो॒ खल्वा॑हुः । छन्दाँ॑ सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तर्प॑यंति । ऋ॒क्तगा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॑ ।
२७४ (१.६.४) तैत्तिरीयब्राह्मणम् तयो॑: परि॒धय॒ आधा॑नम् । वा॒जिनं॑ भाग॒धेय॑म् । (९) । यदप्र॑हृत्य परि॒धीञ्जु॑हुयात् । अ॒न्तराधानाभ्यां॒ द्या संप्र॒यच्छे॑त् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व द्या संप्र॑य॑च्छति । ब॒र्हिषि॑ वि॒षि॒ञ्चन्वा॒जिन॒मान॑यति । प्र॒जा वै ब॒र्हिः । रेतो॒ वाजिन॑म् । प्र॒जास्वे॒व रेतो दधाति । स॒मु॒पहूय॑ भक्षयन्ति । ए॒तत्सो॑मपी॒था ह्ये॑त । अथो आ॒त्मन्ने॒व रेतो दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वा॒जिन॑म् । यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति (१०) । लोको ब॑हुरूपं॒ भ॑वत्याज्य॑भागौ पशव॒ आज्य॑मव॒द्येदा॑हवनी॒यः प्र॒त्यक्त स्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒तं च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ षष्ठप्रपाठके चतुर्थोऽनुवाकः । प्र॒जाप॑तिः सवि॒ता भू॒त्वा प्र॒जा अंमृ(सृ). जत । ता एन॑मर्त्यमन्यन्त । ता अ॑स्मादपा॑क्रामन् । ता व॑रुणो भू॒त्वा प्र॒जा वरु॑णे नाग्राहयत् । ताः प्र॒जा वरु॑णगृहीताः । प्र॒जाप॑तिं पुनरुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स ए॒तान्प्र॒जाप॑तिर्व॑रुणप्रघा॒सान॑पश्यत् । तां निर॑वपत् । तैर्वै स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्तै॑ (१)। प्र॒जाना॒मव॑रुंणग्राहाय । तासां॒ दक्षि॑णो बा॒हुर्न्य॑क्र आसी॑त् । स॒व्यः प्रसृ॑तः । स ए॒तां द्वि॒तीयां दक्षि॑णतो वेदि॒मुद॑हन् । ततो॒ वै स प्र॒जानां॒ दक्षि॑णबा॒हुं प्रासा॑रयत् । यद्द्वि॒तीयां दक्षि॑ण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व तद्यज॑मानो॒ दक्षि॑णं बा॒हुं प्रसा॑रयति । तस्मा॑च्चातुर्मास्यया॒ज्य॑मु॒ष्मिँल्लो॒क उ॑भयाबा॒हुः। य॒ज्ञाभि॑जित॒ ँह्य॑स्य । पृ॒थुमा॑त्राद्वेदी असं॑भिन्ने भवतः ।
तैत्तिरीयब्राह्मणम् (१.६.४) २७५
(२) । तस्मा॑त्पृथुमा॒त्रं व्य॑ ᳵ सौ॑ । उ॒त्तर॑स्यां वेद्या॑मुत्त॒रवे॑दिमुप॑वपति । प॒शवो॒ वा उ॑त्त॒रवे॑दिः । प॒शूने॒वाव॑रुन्धे । अथो॑ य॒ज्ञपु॑रुषोऽन॑न्तरित्यै । ए॒तद्ब्राह्म॑णान्येव पञ्च॑ ह॒वी ᳵ षि॑ । अथै॒ष ऐ॑न्द्रा॒ग्नो भव॑ति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् । यदि॑न्द्रा॒ग्नी । यदै॑न्द्रा॒ग्नो भव॑ति । (३) । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒ बलं॒ वा ए॒तौ दे॒वाना॑म् । यदि॑न्द्रा॒ग्नी । यदै॑न्द्रा॒ग्नो भव॑ति । ओजो॒ बल॑मे॒वाव॑रुन्धे । मा॒रु॒त्या॑मि॒क्षा भव॑ति । वा॒रु॒ण्या॑मि॒क्षा॑ । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑ (४) । श॒मीप॒र्णान्युप॑वपति । घा॒समे॒वाभ्या॒मपि॑यच्छति । प्र॒जाप॑तिमन्ना॒द्यं नोप॑नमत् । स ए॒तेन॑ श॒तेध्मै॑न ह॒विषा॒ऽ न्नाद्य॒मवा॑रुन्ध । यत्प॑रःश॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति । अ॒न्ना॒द्यस्याव॑रुद्ध्यै । सौ॒म्यानि॒ वै करी॑राणि । सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति । यत्करी॑राणि॒ भव॑न्ति । सौ॒म्ययै॒वाऽऽहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे । का॒य एक॑कपालो भव॑ति । प्र॒जानां॒ क्ऌप्त्या॑य॑ । प्र॒ति॒पूरु॑षं क॑र॒म्भपा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । एक॑मतिरि॒क्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति (५) । नि॒रु॒प्यन्तै॑ भव॒तो भव॑ति मेध्य॒त्वाय॑ रुन्धे॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
अथ षष्ठप्रपाठके पञ्चमोऽनुवाकः । उत्त॑रस्यां॒ वेद्या॑मन्यानि॑ ह॒वीꣳषि॒ सादयति । दक्षि॑णायां मा॒रु॒तीम् । अप॑धुरमे॒वैनां॑ युनक्ति । अथो॒ ओज॑ ए॒वाऽऽसा॒मव॑हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशो॑ऽन्यतोऽपक्र॒मिणी॑: । मा॒रु॒त्या पू॒र्वया॑ प्रचरति । अनृ॑तमे॒वाव॑यजते । वा॒रु॒ण्योत्त॑रया । अन्त॑त ए॒वं वरु॑णमव॑यजते । यदे॒वाध्व॒र्युः क॒रोति॑ (१) । तत्प्रति॑प्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ । तत्पापी॑यान्करोति । पत्नीं॑ वाचयति । मेध्या॑मे॒वैनां॑ करोति । अथो॒ तर्प॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रꣳसन्तं॒ न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिꣳरु॑न्ध्यात् । असा॒ मे जा॒र इति॑ निर्दि॑शेत् । निर्दि॑श्यै॒वैनं॑ वरु॒णपा॒शेन॑ ग्राहयति (२) । प्र॒घा॒स्यान्ह॑वामह॒ इति॒ पत्नी॑मुदा॒र्नय॑ति । अहू॑तै॒वैना॑म् । यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वी॑र्यो॒ यज॑मानः स्यात् । यज॑मानोऽन्वा॑ह । आ॒त्मनैव वी॒र्यं॑ धत्ते । उ॒भौ या॒ज्याꣳसवी॑र्यत्वाय॑ । यद्ग्रा॒मे यदर॑ण्य इत्या॑ह । य॒थो॒दित॑मे॒व वरु॑णमव॑यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीय॑: (३) । [भ्रातृ॑व्यदे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानं वरु॒णपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व वरु॑णपा॒शेन॑ ग्राहयति । शूर्पेण॑ जु॒होति॑ । अन्य॑मेव वरु॑णमव॑यजते । शी॒र्षन्नधि॑नि॒धाय॑ जु॒होति॑ । शीर्ष॑त ए॒व वरु॑णमव॑यजते । प्र॒त्यङ्ति॒ष्ठञ्जु॑होति (४)।] प्र॒त्यङ्ङे॒व वरु॑णपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णं निर॑वदाय॑ । अनृ॑णा गृ॒हानु॒- प्रप्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीतं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा गृ॒हीत॒स्याति॒रिच्य॑ते । तुषां॑श्च निष्का॒सꣳश्च॑ । तुषै॑श्च निष्का॒सेन॑
तैत्तिरीयब्राह्मणम् (१.६.६) २७७ चाव॑भृथमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑णमव॑जयते । अ॒पोऽव॑भृथमवै॑ति (५)। अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑णमव॑जयते । प्रतियुतो वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्षमाय॑न्ति । वरु॑णस्यान्तर्हि॑त्यै । एधो॑ऽस्येधीषीमहीत्या॑ह । स॒मिधै॒वाग्निं नम॑स्यन्त । उपा॒र्यन्ति॑ । तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वाऽऽत्मन्ध॑त्ते (६) । क॒रोति॑ ग्राहयत्याहवनी॒यस्तिष्ठ॑ञ्जुहोत्यपो॑ऽवभृथमवै॑ति धत्ते । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठप्रपाठके षष्ठोऽनुवाकः । दे॒वासु॑राः सं॒यत्ता॑ आसन् । सोऽग्नि॒रब्र॑वीत् । ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत । अथासु॑रा॒नभि॑भविष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । सोऽग्नि॒रनी॑कवान्त्स्वेन॑ भा॒ग॒धेये॑न प्री॒तः । च॒तुर्धाऽनी॑कान्यजनयत् । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः(१), यद॒ग्नयेऽनी॑कवते पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । अ॒ग्निमे॒वानी॑कवन्त॒ꣳ स्वेन॑ भा॒ग॒धेये॑न प्रीणाति । सोऽग्नि॒रनी॑कवान्त्स्वेन॑ भा॒ग॒धेये॑न प्री॒तः । च॒तुर्धाऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्योऽग्नि॒रनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒क ँ सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । ते सु॑राः परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपा॑श्रयन् (२) । ते दे॒वा म॒रुद्भ्य॑: सांत॒पने॑भ्यश्च॒रुं निर॑वपन् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभय॑तः॒ समर्त्तृपन् । यन्म॒रुद्भ्य॑: । सांत॒पने॑भ्यश्च॒रुं निर्व॑पति ।
२७८ (१.६.७) तैत्तिरीयब्राह्मणम् द्यावा॑पृथि॒वीभ्या॑मे॒व । तदु॑भय॒तो यज॑मानो भ्रातृ॑व्या॒त्संत॑पति । म॒ध्यंदि॒ने निर्व॑पति । तर्हि॒ हितेऽक्षि॑ष्ठं तप॑ति । । च॒रुर्भव॑ति । सर्व॑त ए॒वैना॒न्संत॑पति । ते दे॒वाः । श्वो॑वि॒जयि॑नः सन्तः॑ । सर्वा॑सां दु॒ग्धे गृ॑हमे॒धीयं॑ च॒रुं निर॑वपन् (३) । आशि॑ता ए॒वाद्योप॑वसाम। कस्य॒ वा हेदम् । कस्य॑ वा॒ श्वोभ॑वि॒तेति॑ । स शृतोऽ॑भवत् । तस्याहु॑तस्य॒ नाश्न॑न् । न हि दे॒वा अहु॑तस्या॒श्नन्ति॑ । तैऽब्रुवन् । कस्मा॑ इ॒म ँ हौष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन् । तं म॒रुद्भ्यो॑ गृहमे॒धिभ्योऽ॑जुहवुः (४) । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यस्यै॒वं वि॒दुषो म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना॑ । पराऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पा॒क्त्रा क्रि॒यते॑ । प॒शव्यं॑ तत् । पा॒क्त्रा वा ए॒तत्क्रि॑यते । यन्नेध्मा ब॒र्हिर्भव॑ति । न सा॑मिधे॒नीरन्वाह॑ (५) न प्रया॒जा इ॒ज्यन्ते॑ । नानू॑या॒जाः । य ए॒वं वेद॑ । प॒शुमान्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्त॑रैति । म॒रुतो॑ गृहमे॒धिनौ॑ यजति । भा॒ग॒धेये॑नै॒वैना॒न्त्सम॑र्धयति । अ॒ग्नि ँ स्विष्टकृ॑तं यजति प्रति॑ष्ठित्यै । इडा॑न्तो भवति । प॒शवो॒ वा इडा॑। प॒शुष्वे॒वोपरि॑ष्टात्प्रतिति॑ष्ठति (६) । असुरा अभ्रयन्गृहमेधीयं चरुं निर॑वपन्नजुहवुरन्वाहेडोन्तो भवति द्वे च॑ । इति कृष्णयजुर्वेदीय तैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ षष्ठप्रपाठके सप्तमोऽनुवाकः । यत्पत्नी॑ गृहमे॒धीय॑स्या॒श्नीयात् । गृ॒ह॒मेध्यै॑व स्या॑त् । वि र्तव॑स्य य॒ज्ञ ऋ॑ध्येत् । यन्नाश्नीयात् । अगृ॑हमेधी स्यात्
तैत्तिरीयब्राह्मणम् (१.६.७) २७९ नास्य॑ य॒ज्ञो व्य॑र्द्ध्येत । प्र॒ति॒वे॒शं प॑चेयुः । तस्या॑श्नीयात् । गृ॒ह॒मे॒ध्येयैव भ॑वति । नास्य॑ य॒ज्ञो व्य॑र्द्ध्यते (१) । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑व॒त्सान॑वासयन् । तेभ्योऽसु॑राः क्षुधं॒ प्रा॒हि॑ण्वन् । सा दे॒वेषु॑ लो॒कमवि॑त्त्वा । असु॑रा॒न्पुन॑रगच्छन् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते (२) । अनु॑व॒त्सान्वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः क्षुधं॒ प्रहि॑णोति । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सं न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॑ निहि॑तभाग उपाव॑र्ति॒तेति॑ । तानिन्द्रो॑ निहि॑तभाग उपाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्कां॒सं निर्द॑ध्यात् । इन्द्र॑ ए॒वैनं॑ निहि॑तभाग उपाव॑र्तते । गार्ह॑पत्ये जुहोति (३) । भा॒ग॒धेये॑नै॒वैनँ॑ समर्धयति । ऋषभमाह्व॑यति । व॒षट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यं यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रँ ह॒त्वा । परां॑ प॒रावर्त॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सो॑ऽब्रवीत् । क इ॒दं वे॑दि॒ष्यतीति॑ । तेऽब्रुवन्म॒रुतो॒ वरं॑ वृणामहै (४) । अथ॑ व॒यं वै॑दाम । अ॒स्मभ्य॑मे॒व प्रथ॑म ँ ह॒विर्निर्व॑प्यता॒ इति॑ । त एन॒ममध्य॑क्रीडन् । तत्क्री॒डिनां॑ क्री॒डित्वम् । यन्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ प्रथ॒म ँ ह॒विर्निर्व॑प्यते । विजि॑त्यै । सा॒क ँ सूर्येणोद्यता निर्व॑पति । ए॒तस्मि॒न्वै लो॒के इन्द्रो॑ वृ॒त्रम॑ह॒न्सम्मृ॑द्धयै । ए॒तद्ब्राह्म॑णान्ये॒व पञ्च॑ ह॒वी ँषि॑ ए॒तद्ब्राह्म॑ण ऐन्द्रा॒ग्नः । अथै॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धारं॑ वा ए॒तमिन्द्र॑ उ॒द॑हरत । वृ॒त्र ँ ह॒त्वा । अ॒न्यासु॑ दे॒वता॑स्वधि॑ । यदे॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धार॑मे॒व तं यज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण
२८० (१.६.८) तैत्तिरीयब्राह्मणम् एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मानो॒ऽवरुन्धे (५) । ऋ॒ध्यते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ षष्ठप्रपाठकेऽष्टमोऽनुवाकः । वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः प्रत्य॑स्थापयत् । त्र्य॑म्बकैरु॒द्रं नि॒र्वा॑दयत । पि॒तृय॒ज्ञेन॑ सुव॒र्गं लो॒कम॑गमयत् । यद्वै॑श्वदे॒वेन॒ यज॑ते । प्र॒जा एव तद्यज॑मानः सृज॑ते । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धैः प्रति॑ष्ठापयति । त्र्य॑म्बकैरु॒द्रं निरव॑दयते (१) । पि॒तृय॒ज्ञेन॑ सुव॒र्गं लो॒कं ग॑मयति । द॒क्षि॒णतः प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तॄणा॒म् । अना॑दृत्य॒ तत् । उत्त॑रत ए॒वोप॑वी॒य॒ निर्व॑पेत् । उ॒भये॑ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । अथो॒ यदे॒व दक्षि॑णा॒र्धेऽधि॑श्रय॑ति । तेन॒ दक्षि॑णा वृ॒त् । सोमा॑य पि॒तृम॑ते पु॒रोडाश ँ॒ षट्क॑पालं॒ निर्व॑पति । सं॒व॒त्स॒रो वै सोम॑: पि॒तृमा॑न् (२) सं॒व॒त्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ ब॒र्हिषद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरौ॑ ब॒र्हिषद॑: । मासा॑ने॒व प्री॑णाति । यस्मि॑न्वा ऋ॒तौ पुरु॑षः प्र॒मीय॑ते । सो॑ऽस्या॒मुष्मिं॑ल्लो॒के भ॑वति । ब॒हुरू॑पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अर्ध॑मा॒सा वै पि॒तरौ॑ऽग्निष्वा॒त्ताः (३) । अर्ध॑मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदे॒व॒त्यं॑ दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णा॒म् । उ॒प॒र्यधो॑ दे॒वाना॑म् । अर्ध॑: