भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

श्लोकः २५८ ] । प्रथमाह्निकम् । २६८ इत्याह – एष इत्यादि । अतात्त्विकः इति अवास्तवः । बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि तत्तद्देहादिभावम् आभासयति इति भावः ॥२५६॥ तदाह बोधो हि बोधरूपत्वा- दन्तर्नानाकृतीः स्थिताः । बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥२५७॥ बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष- णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः – तत्तद्भावजातं, द्राक् – अनन्यापेक्षितया निर्विलम्बन- मेव, सामान्यविशेषरूपत्वेन, बहिः – विच्छेदेन, अव- भासयत्येव इति वाक्यार्थः ॥२५७॥ तत्र सामान्यस्य किं नाम बहिरवभासनम् ? इत्याह स्रक्ष्यमाणाविशेषांशा- कांक्षायोग्यस्य कस्यचित् । पं० ११ क० पु० निरवलम्बमेवेति पाठः । पं० १४ क० पु० बहिरवभानमिति पाठः ।

२७० श्रीतन्त्रालोकः । धर्मस्य सृष्टिः सामान्य- सृष्टिः सा संशयात्मिका ॥२५८॥ स्रक्ष्यमाणाः - स्वालक्षण्येन उल्लासयिष्यमाणा, ये विशेषांशाः, तत्र 'निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।' इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा - औन्मुख्यं, तत्र योग्यस्य - तदौन्मुख्याभावेऽपि सर्व- गतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित् नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः सामान्या सृष्टिः, सा एव च अनुद्घाटितात्म- प्रथारूपत्वात् 'संशयः' इति - विशेषाकांक्षानुगुण- सामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥२५८॥ एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥२५९॥ पं० १६ क० पु० निर्णये मातृरुचिते इति पाठः ।

श्लोकः २६० ] प्रथमाह्निकम् । २७१ यदा पुनर्निश्चयोपयोगिनां सर्वविशेषाणां सृष्ट- त्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् - विशेषविषया सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथा- रूपत्वात् 'स्थाणुरेवायम्' इति प्रत्ययात्मा निश्चयः स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम् इत्युक्तं 'मातुरुचितः' इति । प्रमाता हि यावदेव 'ज्ञातं मया' इति परितुष्येत्, तावदेव निश्चितं भवति इति भावः, अन्यथा पुनः स कदाचिदपि न भवेत् - प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह 'नान्यथा कल्पकोटिभिः' इति ॥ २५६ ॥ न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्ल- क्षणादिरूपत्वमपि इत्याह तस्याथ वस्तुनः स्वात्म- वीर्याक्रमणापाटवात् । उन्मुद्रणां तयाकृत्या लक्षणोत्तरनिर्णयाः ॥२६०॥ पं० ५ क० पु० प्रमात्रिच्छयैव निर्बन्ध इति पाठः । पं० ९ क० ग० पु० मात्रिच्छायामेव विश्रान्तेरिति पाठः । पं० ११ ख० पु० निश्चयमात्रत्वमिति पाठः । पं० १६ क० पु० निर्णयमिति पाठः ।

२७२ श्रीतन्त्रालोकः । तस्य – विशेषात्मनो वस्तुनो, यत् स्वात्मनो वीर्यं – तदितरपरावृत्तत्वं, तस्य आक्रमणं – स्वात्मना विष- यीकरणं, तत्र पाटवं – नैराकांक्ष्यात्तीव्रत्वं, ततो यत् तेनैव आकारेण उन्मुद्रणं – प्रतिनियतस्वस्वरूपावि- ष्करणं, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात् 'लक्षणम्' इति 'उत्तरम्' इति 'निर्णय' इति चोच्यते । तत्र – असाधारणस्तत्त्वावबोधको धर्मो लक्षणं, तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरं, तत्त्वावबोधो निर्णयः ॥२६०॥ ननु तत्त्वावबोधसारत्वस्य अविशेषात्, परीक्षापि लक्षणेनैव निर्णयवत् कथं न संगृहीता ? इत्याशङ्क्याह निर्णीततावद्धर्मांश- पृष्ठपातितया पुनः । भूयो भूयः समुद्देश- लक्षणात्मपरीक्षणम् ॥२६१॥ पं० १ क० पु० स्वात्मवीर्यमिति समस्तपाठः । पं० ५ क० पु० तदुद्घाटिताऽप्रथममयत्वेति पाठः । पं० ११ क० पु० नियतवत्कथमिति पाठः । पं० १२ ख० पु० निर्णीतं तावदिति पाठः ।

श्लोक २६३ ] प्रथमाह्निकम् । २७३ निर्णीतो - निर्णयविषयीकृतः, तावान् - नियत- लक्षणलक्ष्यो, योऽसौ धर्मांशः - तद्विषयतया पौनः- पुन्येन यः समुद्देशः, यच्च लक्षणं - साधारणासाधा- रणधर्मनिरूपणं, तदात्मकं, पुनः परितः - सर्वतो निःशेषप्रतिपन्नप्रतिनेपेण ईक्षणं - परीक्षा इति वाक्यार्थः ॥२६१॥ एतच्च उद्देशादित्रयं सर्वत्रैवास्ति इत्याह दृष्टानुमानौपम्याप्त- वचनादिषु सर्वतः । उद्देशलक्षणावेक्षा- त्रितयं प्राणिनां स्फुरेत् ॥२६२॥ एतदेव क्रमेण दर्शयति निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः । परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥२६३॥ पं० २ क० पु० लक्षणलक्ष्यो योशो धर्मेति पाठः । पं० ५ क० पु० प्रतिनेपेण लक्षणमिति पाठः । पं० ६ क० पु० सर्वश इति पाठः । पं० १४ क० पु० विकल्पे प्रीणितं स्फुरेदिति पाठः । ३५

२७४ । श्रीतन्त्रालोकः । नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति । लक्ष्यं व्याप्त्यादिविज्ञान- जालं त्वत्र परीक्षाम् ॥२६४॥ उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः । इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६५॥ स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥२६६॥ उद्देशः इति – आलोचनमात्रस्य अनुद्घाटितात्म- प्रथारूपत्वात् । लक्षणम् इति – नीलमिति विकल्पेन निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् । विकल्पा- नाम् इति – अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव पं० ६ क० पु० गोतुल्ये गवयाभिध इति पाठः । पं० १० ख० पु० यजेतेस्य स्वलक्षणमिति पाठः ।

श्लोक १६६ ] प्रथमाह्निकम् । २७५ च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् । उद्देशः इति – नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घा- टितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यमिति – साध्य- धर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्या- प्तिः– अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयो- रविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् । अयमिति – पुरोवर्त्तिनः पिण्डमात्रस्य अनुद्घाटिता- त्मत्वेन प्रथनात् । प्राच्यः इति – प्रथमो धर्मिविशेषान- वच्छिन्नः इति यावत् । गोतुल्योऽयम् इति – प्रमा- णदशायां, गवयशब्दवाच्योऽयम् इति – फलदशायां च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये, तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्म- प्रथारूपत्वात् लक्षणत्वम् । शेषः इति – सास्नादिम- द्वाहदोहादिकारी इत्यादिः परामर्शः । ईदृक् इति – स्वःकामः इत्येव । अस्य इति – स्वःकामस्य । लक्ष- पं० १ क० पु० इत्येषा परीक्षोद्देश इति पाठः । पं० ५ क० ख० साध्यवर्तिसाधनेति पाठः । पं० ६ ख० पु० इत्यस्य परीक्षात्वमिति पाठः । पं० ११ क० पु० विशेषावच्छेदभावित्वादिति पाठः । पं० १३ ख० पु० सास्नादिमत्वमाह दोहाधिकारीति पाठः ।

२७६ श्रीमत्तन्त्रालोकः । णाम् इति-अधिकारानुबन्धस्य विषयानुबन्धमन्त- रेणानिर्णयात् । शेषवर्तिनी इति 'शेषः परार्थत्वात् ।' इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्य- ता इत्यर्थः । परीक्षात्वं चात्र-उद्दिष्टलक्षितस्वर्ग- कामाधिकारनिस्तुषीकरणत्वात् ॥ २६३ ॥ २६४ ॥ २६५ ॥ २६६ ॥ ननु स्त्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः 'उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमु- चितं-तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानु- वादपुरःसरं प्रतिक्षिपति । विकल्पस्रक्ष्यमाणान्य- रुचितांशसहिष्णुनः । वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥ पं० २ क० पु० शेषवर्तिनेति शेष इति पाठः । पं० ६ क० पु० निस्तुषीकरणवदिति पाठः । पं० १० क० पु० तदानीन्तनस्येति पाठः । पं० १४ क० पु० सहिष्णव इति पाठः ।

श्लोक २६८ ] प्रथमाह्निकम्। २७७ तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता । विकल्पेन – तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्ट- त्वात्, तदपेक्षया स्रक्ष्यमाणाः – लक्षणात् उल्लस- यिष्यमाणा, अत एव अन्ये – ये सामान्यव्यतिरिक्ताः प्रमातुः संतोषादायकत्वाच्च, रुचिता – इष्टाः, ये अंशा – विशेषाः, तान् – अर्थात् व्याप्यत्वेन सहते तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः, तथात्वेन – स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेष- सहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः – अभिधानं, तत्र यावतः आकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता तावत्, तदैव – उद्देशावसरे, संविच्चिनुते – अनुसंधत्ते इत्यर्थः ॥२६७॥ तत्र हेतुः यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥२६८॥ हि-शब्दो वाक्यालङ्कारे ॥२६८॥ पं० ३ क० पु० विकल्पे तत्प्रधानेति पाठः ।

२७८ श्रीतन्त्रालोकः । ननु उद्घातितात्मप्रथारूपत्वे सति लक्षणस्य सामान्यविशेषयोर्द्वयोरपि प्रथनात् किं लक्ष्यं ? किं वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः* स्यात् इत्याशंक्याह स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहतिः । अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥२६६॥ इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित् लक्षणं - व्यवहरणबीजमिति । तत्र सृज्यमानस्य विशेषांशस्य विधेयतया लक्षणत्वं वाच्यं, संह्रिय- माणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्य- त्वम् इत्यस्त्येव विवेकः ॥२६६॥ ननु 'भूयो भूयः समुद्देशलक्षणात्म परीक्षणम् ।' *यदि च पूर्वमनुल्लिखितविशेषा सामान्यस्थितिः पश्चाद्विशेषोदयः तदा सामान्य- विशेषयोर्वैविक्त्येन प्रथनाल्लक्ष्यलक्षणभावो व्यवस्थित एव, यदा तु पूर्वमपि सामा- न्यावस्थायां विशेषावस्थितिस्तदा परस्परमत्र नियमाभाव इति 'एकत्र द्वियोगः संकरा- ख्यदोषदूषितः संभवेदिति भावः ।' पं० १० क० ग० पु० लक्षणव्यवहरणबीजं सा इति पाठः ।

श्लोक २७१ ] प्रथमाह्निकम् । २७६ इत्युक्तं, तत्र च विरामनिमित्ताभावात् परीक्षाया अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगर्भां प्रतिक्षिपति तत्तृष्टपातिभूयोंश- सृष्टिसंहारविभ्रमाः । परीक्षा कथ्यते मातृ- रुचिता कल्पितावधिः ॥२७०॥ ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्ती-मध्यमा- वैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव विजृम्भते इत्युक्तं, तत्कथमिह उद्देशाद्यात्मना स्वसिद्धान्ताप्रसिद्धं क्रमान्तरमासूत्रितम् ? इत्याशं- क्याह प्राक्पश्यन्त्यथ मध्यान्त्या वैखरी चेति ता इमाः । परा परापरा देवी चरमा त्वपरात्मिका ॥२७१॥ पं० ७ क० पु० कल्पितो विधिरिति पाठः । पं० ३ क० पु० चमत्कारमात्रविमर्शोति पाठः । पं० १६ क० पु० त्वपरा मता इति पाठः ।

२८० श्रीतन्त्रालोकः । ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्य- न्त्यादिरूपत्वम्, इति किमिदम् ? इत्याशंक्याह ❊इच्छादि शक्तित्रितय- मिदमेव निगद्यते । पूर्वेण संबन्धः । एतत्प्राणित एवायं व्यवहारः प्रतायते ॥२७२॥ सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः सं- विद्भित्तावेव अवभासते इति भावः । तदुक्तं 'इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ । समलो विमलो वापि व्यवहारोऽनुभूयते ॥' इति ॥२७२॥ न केवलमेषाम् एवं-रूपत्वं, यावत् 'परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः । संबन्धः षड्विधस्तन्त्रे....................॥' इत्यादिना उक्तस्य संबन्धस्यापि, इत्याह ❊ तदियानत्रार्थः - य एव पशुप्रमातृभी रुद्देशादित्रयरूपतया विकल्पत्वेन व्यवहारो निर्दिष्टः स एवात्र इच्छादिरूपतया विमल एव उपादेयत्वेन कथितः । पं० १० क० पु० इत्यमित्यर्थभिन्नेति, ख० पु० इत्थमत्यन्तभिन्नार्थेति पाठः । पं० १४ क० पु० मिश्रस्त्वमिश्रक इति पाठः ।

श्लोक २७४ ] प्रथमाह्निकम् । २८१ एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । परसंबन्धरूपत्व- मभिसंबन्धपञ्चके ॥२७३॥ एते समनन्तरोक्ततत्त्वे ये प्रश्नोत्तरे ते आत्मा स्वरूपं यस्य तस्य भावस्तत्त्वं, तस्मिन्सति इत्यर्थः । प्रष्टृतद्वक्तोरेव संबन्धो भवति इति भावः । संबन्ध- पञ्चके इति महदादिके । षष्ठो हि परः संबन्धः सर्वेषामेव एषाम् अनुप्राणकत्वेन अनुवर्तते, इति पृथगिह नोक्तः ॥ २७३ ॥ एतच्च स्वोपज्ञमस्माभिर्नोक्तम्, इत्याह यथोक्तं रत्नमालायां सर्वः परकलात्मकः । महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥ रत्नमालायाम् इति — श्रीकुलरत्नमालायाम्, उक्तम् इति अर्थतो, न तु शब्दतः । तत्र पं० १५ क० पु० मिश्रोऽन्योर्थस्तु पञ्चमेति पाठः । ३६

२८२ श्रीतन्त्रालोकः । 'अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् । तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते ॥ अदृष्टविग्रहश्चैव स शान्त इति गीयते । तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ॥' इत्यादिना पारमेश्वरी परा शक्तिरेव तत्तत्संबन्धात्मना प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकला- त्मकत्वमुक्तम् । अत एव च एतदेव 'सृष्टिमार्गानुसारेण आयातश्चावनीतले । कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ॥' इत्यनेन उपसंहृतम् । मिश्रॊ - दिव्यादिव्यः । अन्यो- ऽन्यः इति - दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्यो- ऽपि अदिव्यः इति । दिव्य-दिव्यादिव्य-अदिव्यात्मना त्रिधैव हि संभवति विकल्पः । अत एवायमत्र इतरे- तरशब्देन उक्तः । तदुक्तं 'महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः । इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ॥' इति । एतच्च संबन्धपञ्चकं शिवात् सदाशिवस्य, पं० १ क० पु० आमृष्टमिति पाठः । पं० ६ क० पु० महदाद्यैः संबन्धस्य इति, पराकलात्मकत्वमिति च पाठः । पं० १० क० पु० इत्यत्रोपसंहतमिति पाठः ।

श्लोक २७४ ] प्रथमाह्निकम् । २८३ तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमा- रादीनां, तेभ्योऽपि सनत्कुमारादीनामृषीणां, तेभ्यो- ऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् । यदुक्तं तत्रैव 'शिवस्य परिपूर्णस्य परस्यामिततेजसः । तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा ॥ सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः । अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः ॥ प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः । तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह ॥ द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः । ऋषीणां च समासेन नन्दिना प्रतिपादितम् ॥ चतुर्थस्तु भगवता दिव्यादिव्यः प्रकीर्तितः । व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ॥ शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः । इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥' इति ॥२७४॥ परकलात्मत्वमेव व्याचष्टे भिन्नयोः प्रष्टृतद्वक्त्रो- श्चैकात्म्यं यत्स उच्यते । पं० ६ क० पु० सतत्त्वं तेनेति पाठः । पं० १० क० पु० देवात्तमप्येवमिति पाठः । पं० १२ क० पु० चतुर्थस्तद्भगवतेति पाठः ।

२८४ श्रीतन्त्रालोकः । प्रष्टा यथा सदाशिवो, वक्ता यथा शिवः, तच्छ- ब्देन प्रश्नक्रियापरामर्शः, तयोर्भिन्नत्वेऽपि तावत्यर्थे संविदाढ्यैकात्म्यात् संबन्धः - तस्य भेदाभेदरूप- त्वात्, ऐकात्म्यभावे यदा भेदगन्धस्यापि विगल- नात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः संबन्धः ॥ तदाह संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥२७५॥ परता हि पूर्णैकात्म्यप्रथालक्षणा । पूर्णे हि सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि संबन्धेषु अस्ति इति युक्तमुक्तं 'सर्वः परकलात्मकः' इति । तदुक्तं 'संबन्धः परमेशानि सर्वः परकलामयः । महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ॥' इति ॥२७५॥ संबन्धान्तरेष्वपि एतदेवातिदिशति पं० ४ क० पु० ऐकात्म्यं च यदेति पाठः । पं० ५ क० पु० सर्वसर्वात्मतालक्षणा पूर्णापूर्णता स्यादिति पाठः ।

श्लोकः २७८ ] प्रथमाह्निकम् । २८५ अनेनैव नयेन स्या- त्सम्बन्धान्तरमप्यलम् । शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥२७६॥ एतदेव संकलयति इत्थं संविदियं देवी स्वभावादेव सर्वदा । उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥२७७॥ इत्थम्-उक्तेन प्रकारेण, सर्वदा संविदेव इयं भग- वती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना शास्त्रेण स्वरूपिणी-शास्त्रात्मना संविदेव अवभा- सते इत्यर्थः ॥२७७॥ तत्र उद्देशस्वरूपमेव तावदाह तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् । पं० १ क० पु० अनेनैव त्रयेणेति पाठः । पं० ११ घ० पु० स्वातन्त्र्यात् आदेशादीति पाठः ।

२८६ श्रीतन्त्रालोकः । विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥२७८॥ शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः । चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥ कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती । दीक्षोपक्रमणां दीक्षा सामयी पौत्रिके विधौ ॥२८०॥ प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः । तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥२८१॥ अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् । लिङ्गार्चा बहुभित्पर्व- पवित्रादि निमित्तजम् ॥२८२॥ पं० ३ क० पु० शाक्तोपायोऽप्यणूपाय इति पाठः ।

श्लोक २८४ ] प्रथमाह्निकम् । २८७ रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥२८३॥ आयातिकथनं शास्त्रो- पादेयत्वनिरूपणम् । सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसं- ज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः इत्यन्यत्र उक्तः। तत्र पूर्वजमुद्देशमाह-विज्ञानभित् इत्यादिना निरूपणम् इत्यन्तम्, विज्ञानानि शाम्भ- वादीनि भिद्यन्ते यत्र इति । गतोपायः इत्यनुपायः । पौत्रिके विधौ इति पौत्रिकं विधिमाश्रित्य । दीक्षा इति पूर्वेण संबन्धः । प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके विधौ इति योज्यम् । यद्वक्ष्यति 'तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ ।' इति ॥२७८-२८३॥ पं० १ क० पु० रहस्यशौचमन्त्रौघ इति, ख० पु० रहस्यचर्चेति च पाठः । पं० ३ क० पु० एकीकारः स्वरूपेण प्रबोधः शास्त्रेति पाठः । पं० ६ क० पु० पादेयत्वे न्यरूपयत् इति पाठः । पं० ७ क० पु० आयातिकीर्तनमिति पाठः ।

आह्निकानां समभ्यस्येत्

२८८ श्रीतन्त्रालोकः । किमेवमियता ग्रन्थेन उपनिबद्धेन ? इत्याशङ्क्याह इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥२८४॥ आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् । सप्तत्रिंशत्सु संपूर्णा- बोधो यद्भैरवो भवेत् ॥२८५॥ किं चित्रमणावोऽप्यस्य दृशा भैरवतामियुः । इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥२८६॥ विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् । द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥२८७॥ विश्वचित्प्रतिबिम्बत्वं परामर्शोदयक्रमः । मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥२८८॥