भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

श्लोकः ५८ ] प्रथमाह्निकम् । ९७ च भवति । न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्, स हि अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाश- रूपत्वान्न प्रकाशाद्भिन्नो, नापीदन्ताविमृश्यः - अहं- प्रत्यवमर्शमयत्वात्, स च यदि प्रमाणप्रमेयः स्यात् तत्रापि प्रमितिक्रियायां प्रमात्रा अपरेण भाव्यं, तत्रा- प्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमा- णस्य प्रवृत्तौ काचिदुपपत्तिः । यस्तु भावनोपदेशादौ 'सकृद्विभातोऽयमात्मा प्रमाता' इत्यादिरिदन्तया व्यवहारः स न वास्तवः - तत्र तस्य साक्षादप्रतीतेः, अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते इत्यास्ताम्, एतद्धि पदे पदे वितनिष्यते । प्रमाणानुपयोग- स्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न पुन- र्वितानितः ॥ ५८ ॥ न केवलमत्र युक्तिरेवास्ति यावदागमोऽपि इत्याह कामिके तत एवोक्तं हेतुवादविवर्जितम् । पं० ३ ख० पु० अहंविमर्शमयत्वादिति पाठः । पं० ५ ख० पु० प्रमात्रन्तरेणेति पाठः । पं० ८ ख० पु० प्रमेत्यादिरिति पाठः । १३

९८ श्रीतन्त्रालोकः । तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥५६॥ परस्य तदपेक्षत्वा- त्स्वतन्त्रोऽयमतः स्थितः । ततः इति तत्र प्रमाणानामुपपत्त्युपयोगयोर- भावात्, हेतोः अनुमानस्य वादेन विवर्जितम् । अत एवाह-तस्य इत्यादि, परस्य प्रमाणादेः, अतः इति परानपेक्षत्वलक्षणाद्धेतोः ॥५६॥ एवमस्य परानपेक्षत्वायथा न प्रमाणान्यवच्छे- दकानि, तथा प्रमेयाण्यपि इत्याह अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥६०॥ नियता नेति स विभु- र्नित्यो विश्वाकृतिः शिवः । वशिनः स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः । पं० ८ क० पु० परानपेक्षणाद्धेतोरिति पाठः । पं० ६ क० पु० यथा प्रमाणाद्यवच्छेदेति पाठः ।

श्लोकः ६२ ] प्रथमाह्निकम् । ९९ अत्रापीति परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि देशकालाकारैर्भेदाभेदविकल्पोपहतत्वादवच्छेदाधा- नमशक्यम् इत्युक्तं - नियता न इति । अत एव च स एवंविधः इत्याह - विभुर्नित्यो विश्वाकृतिः इति । विभुः इति देशावच्छेदशून्यत्वात् । नित्य इति अतीतादिकालावच्छेदविगलनात् । विश्वाकृतिः इति चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ॥६०॥ एतदेव प्रपञ्चयति विभुत्वात्सर्वगो नित्य- भावादाद्यन्तवर्जितः॥६१॥ विश्वाकृतित्वाच्चिदाचि- त्तद्वैचित्र्यावभासकः ॥ अत एवास्यागमेषु नानारूपत्वमुच्यते इत्याह ततोऽस्य बहुरूपत्व- मुक्तं दीक्षोत्तरादिके ॥६२॥ तदेवाह पं० १ ख० पु० पेक्ष्यस्येति प्रकाशेति पाठः । पं० ५ क० पु० नित्य इति कलावच्छेदेति पाठः ।

१०० श्रीतन्त्रालोकः । भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च । बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥६३॥ भुवनं तत्तद्भुवनाधिष्ठेयं भोगाधाररूपम् । विग्रह- शब्देन उपचाराद्विग्रहिणो लक्ष्यन्ते । तेषां च रुद्र-क्षेत्रज्ञादिनानारूपत्वेऽपि तत्तत्सिद्धिदानसाम- र्थ्यादिह रुद्रादीनि कारणान्येव । ज्योतिः बिन्दुः 'कदम्बगोलकाकारः स्फुरत्तारकसंनिभः ।' इत्यादिनास्य ज्योतीरूपत्वेनाभिधानात् । खं शून्यं - शक्ति-व्यापिनी-समनालक्षणम् । शब्दो ना- दात्मा । मन्त्रः अकारोकार-मकारात्मा । अस्य विशेषणं-बिन्दुनादादिसंभिन्नः इति । यदुक्तं 'बिन्दुनादस्तथा व्योम मन्त्रो भुवनविग्रहौ । षड्वस्त्वात्मा शिवो ध्येयः फलभेदेन साधकैः ॥' इति । तथा पं० ६ ख० पु० तारकप्रभ इति पाठः । पं० १४ ख० पु० भुवनविग्रहे इति पाठः ।

श्लोकः ६४ ] प्रथमाह्निकम् । १०१ ‘उन्मना तु परो भावः स्थूलस्तस्यापरो मतः । पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम् ॥ शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च ।’ इति । तथा ‘व्योम-विग्रह-बिन्दूर्णा-भुवनाध्वविभेदतः । लक्ष्यभेदः स्मृतः षोढा.................... ॥’ इत्यादि ॥६३॥ अत्र च ‘यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः । सिद्धिभाक्.................... ॥’ इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भ- वति इत्याह यो यदात्मकतानिष्ठ- स्तद्भावं स प्रपद्यते । व्योमादिशब्दविज्ञानात्- परो मोक्षो न संशयः ॥६४॥ यः साधको, यस्य भुवनादेः, आत्मकतायां तद्रूपताया, निष्ठितः, स तद्भावं-तत्तद्भुवना- दिरूपत्वेन नियतां सिद्धिमेति इत्यर्थः । तदुक्तं


पं० २ ख० पु० व्योमात्मा च पुनः शून्यं संस्पर्शमिति पाठः । पं० ५ ख० पु० भुवनेष्वनिभेदत इति पाठः ।

१०२ श्रीतन्त्रालोकः । 'भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् । भुवनेशत्वमाप्नोति....................॥' इत्युपक्रम्य 'ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत् । पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात् ॥ मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् । पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः ॥ ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् । तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत् ॥ शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत् । समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥' इति । एषां च षण्णामपि शिवात्मकत्वात् ६....................'शिवं ध्यात्वा तु तन्मयः ।' इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवा- त्मकस्वस्वरूपलाभो भवेत् इत्याह व्योमादिशब्द- विज्ञानात् इत्यादि । व्योमादीनाम् एषां षण्णां शब्दानां शब्दनं शब्दः – परो विमर्शः, तदात्मकतया पं० ८ क० पु० ज्योतिर्ध्यानाच्चेति पाठः । पं० ९ क० पु० अधिको भवेदिति पाठः । पं० १० क० पु० सर्वगतो भवेदिति पाठः । पं० १४ क० पु० शिवैकानुप्रवेश इति इयानेव पाठः । पं० १७ क० पु० शब्दः परविमर्शोति समस्तः पाठः ।

श्लोकः ६५ ] प्रथमाह्निकम् । १०३ यत् विज्ञानम् - अनुभवः, तस्मात् परो - विमर्शैक- सारशिवैकात्म्यापत्तिलक्षणो , मोक्षो निःसंशयं भवेत् इति वाक्यार्थः । व्योमादिषट्क इति पाठे तु व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानात् इति व्याख्येयम् । न च अत्र भुवनादीनां क्रमो विवक्षितः इतीह व्योमादि इति प्रयुक्तम् ॥६४॥ ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षड्विधत्व- मेवोक्तम् इत्याशङ्क्याह विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । अनवच्छिन्नतारूढा- ववच्छेदलयेऽस्य च ॥६५॥ उपलक्षणम् एव भवति, अनेनैव निखिल- विश्वसंग्रहसिद्धेः । न केवलमेतद्विश्वाकारताया- मेवास्योपलक्षणं यावदन्यत्रापि इत्याह - अनवच्छि- पं० ४ क० पु० अनवच्छिन्नादिति ज्ञानशब्दविहीनः पाठः । पं० १३ ख० पु० उपलक्षणमिव इति पाठः । पं० १४ क० पु० एवोपलक्षणं यावदत्रापीति पाठः ।

१०४ श्रीतन्त्रालोकः । न्नतारूढौ इत्यादि । अवच्छेदलये इति अवच्छे- दानां संकोचाधायिनां भुवनादीनां लये विश्वो- त्तीर्णतायाम् इत्यर्थः । विश्वमयत्वेऽप्यस्य स्वस्व- रूपान्न प्रच्यावः इत्याशयः । नन्वेवमुभयथापि अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत् इत्याशङ्क्योक्तम् अनवच्छिन्नतारूढाविति । अस्य हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नताया- मेव प्ररोहो भवेत्, एक एव हि स्वतन्त्रो बोध- स्तथा तथा प्रस्फुरेत् इति ॥६५॥ ननु कथमेकदैव एकस्य विश्वमयत्वेऽपि विश्वो- त्तीर्णत्वं संगच्छते इत्याशङ्काशान्त्यर्थमागमं संवा- दयति उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः । जलदर्पणावत्तेन सर्वं व्याप्तं चराचरम् ॥६६॥ दर्पणाद्यन्तःप्रतिबिम्बितं घटादि यथा दर्पण- पं० १७ क० पु० दर्पणान्तः इति आदिशब्दहीनः ख० पु० दर्पणव्यतिरेकेणेति च पाठः ।

श्लोकः ६६ ] प्रथमाह्निकम् । १०५ दिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्त- मेव, अन्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं स्यात्, तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्ग- मात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्ताय- मानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्य- थानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम्, अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि तन्मयः इत्युभयथापि न कश्चिद्दोषः । अत एवो- क्तं - सर्वाकृतिर्निराकृतिरिति । सर्वाकृतिः विश्व- मयः , निराकृतिः विश्वोत्तीर्णः । आवृत्त्या तत्त्वे- ऽपि तदुत्तीर्णः - इति च । तदेवमयमेक एव प्रका- शात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव परमार्थतः ॥६६॥ ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया पं० १ ख० पु० दर्पणानतिरिक्तमिति पाठः । पं० ३ क० पु० तथा प्रकाशात्मना इत्येव शब्दहीनः पाठः । पं० ४ ग० पु० इदं जगत् स्वेच्छयेति पाठः । पं० ५ क० पु० अवसितमिति पाठः । पं० ६ क० पु० स्वरूपानतिरिक्तत्वेनैवेति पाठः । पं० १३ क० पु० परमार्थ इति पाठः । १४

प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् ।

१०६ श्रीतन्त्रालोकः । प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् । यत्पुनर्विभुत्वादि धर्मजातं तस्योक्तं, तदपेक्षया धर्म- धर्मिणोधर्माणां च परस्परं भेदस्य अनपह्नव- नीयत्वाद् योऽयं भेद उल्लसितः स कथं वार्यते येन एक एवेश्वरः इत्यद्वयवादनिर्वाहः स्यात् इत्याशङ्क्याह न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते । न च विभुताद्योऽयं अस्य स्वरूपातिरिक्तस्तद- तिशायकः कश्चित् धर्मः अपि तु स्वरूपमेवैतत् । विभुत्वं हि व्यापकत्वमुच्यते, तच्च स्वव्यतिरिक्ते व्याप्ये सति स्यात्, न च परं प्रकाशमपेक्ष्य दिगादि किंचित्संभवेत् इति किं नाम व्याप्नुयात् । नित्य- त्वमपि नास्य धर्मः- तस्य कालत्रयानुगामिरूपत्वात्, अस्य चाकालकलितत्वात्। यदभिप्रायेणैव 'सकृद्वि- भातोऽयमात्मा' इत्याद्युक्तम् । एवं विश्वाकृतित्व- पं० ३ ख० पु० परस्परस्य भेदस्येति पाठः । पं० ५ क० पु० निर्वाह इत्याशङ्क्येति पाठः । पं० ६ ख० पु० अतिरिक्ताधिशायक इति पाठः । पं० १३ क० पु० नित्यत्वमस्य नापि धर्मः तत्र कालत्रयानुगामित्वादस्येति पाठः ।

प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य

श्लोकः ६७ ] प्रथमाह्निकम् । १०७ मपि । नहि एतदपेक्षया विश्वं नाम किंचिदस्ति, यदाकारत्वमप्यस्य स्यात् । एवं चैषां परप्रकाशा- पेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्ति इत्युक्तं - न चान्योन्यं विभिद्यते इति ॥ ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः इत्यादिधर्मभेद उक्तः इत्याशङ्क्याह एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥६७॥ तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः । अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादि- धर्मजातमाक्षिपेत् । अत्रायमर्थः - अयं हि नाम प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य परस्य वा प्रकाशने परं नापेक्षते इति । अत एवास्य १ तात्त्विक इत्यर्थः । पं० २ क० पु० कारत्वमस्य इति अपिशब्दहीनः पाठः । पं० १० क० पु० अञ्जसो विधिरिति पाठः । पं० १२ क० पु० सर्वविभुत्वादिधर्मेति पाठः । पं० १३ क० पु० अहं हि नाम प्रकाशस्य विमर्श इति पाठः ।

१०८ श्रीतन्त्रालोकः । स्वातन्त्र्यरूपं तत्तद्देशकालाद्यवभाससहस्रोल्लासनसा- मर्थ्यं स्यात्, येनास्य स्वसमुल्लासितोऽपि संकुचितः प्रमातृवर्गः स्वापेक्षया व्यापकत्वनित्यत्वादि व्यव- हरेत्, वस्तुतः पुनरप्यहंप्रत्यवमर्शाख्या स्वातन्त्र्यश- क्तिरेवास्यास्ति येन 'स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः।' (प्र० १ अ० ५ आ० १३ श्लो०) इत्याद्युक्तम् । अत एवाह तेन इत्यादि ॥ ६७॥ ननु सर्वत्रैवास्य इच्छाद्यनन्तशक्तियोगित्वमुक्त- मिति तत्कथमिहैकयैव स्वातन्त्र्याख्यया शक्त्या योग उच्यते ? इत्याशङ्क्याह बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥६८॥ स्वातन्त्र्यशक्तिरेव हि तत्तदेषणीयाद्युपाधिवशान्ना- नात्वेन व्यवह्रियते इति तच्छक्तियोगितैवास्या- नन्तशक्तित्वम् । यदुक्तम् पं० १ ख० पु० कालाद्याभासेनेति पाठः । पं० १३ क० पु० तत्तदीषणाद्युपाधीति पाठः ।

श्लोकः ६९ ] प्रथमाह्निकम् । १०९ 'या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ॥ एकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ।' इत्याद्युपक्रम्य 'एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् । अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी ।' इति ॥६८॥ ननु एवमपीश्वराद्वयवादो न निर्व्यूढस्तदति- रिक्तायाः स्वातन्त्र्यशक्तेरप्यभिधानात् इत्याशं- क्याह शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् । तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥६९॥ यतो भावस्य यस्य कस्यचन सतः पदार्थस्य स्वमेव रूपं फलभेदात् भेदारोपेण शक्तिः इति पं० ३ क० पु० सैकापि सत्यनन्तत्वमिति पाठः । पं० ५ क० पु० अनेकतामिति पाठः । पं० ६ क० पु० इवैश्वरी इति पाठः । पं० १५ क० पु० भावस्य कस्यचन इति यस्येति पदविहीनः पाठः ।

११० श्रीतन्त्रालोकः । प्रमातृभिः परिकल्प्यते, न त्वसौ वस्तुतः पदार्थान्तरं किंचित्, अतः शक्तिशक्तिमत्परिकल्पनेऽपि क्रिय- माणे, स एव अद्वयमयो विभुः- न काचिद- द्वयखण्डना इति यावत् । तदुक्तं 'फलभेदादारोपितभेदः पदार्थात्मा शक्तिः' इति ॥६६॥ नन्वेवमस्तु, यन्न शक्तिशक्तिमतोर्भेद इति, शक्ती- नां पुनः परस्परं भेद एव भवति इति पुनः स दोषस्तदवस्थ एव इत्याशङ्क्याह मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् । को भेदो वस्तुतो वह्ने- र्दग्धृपक्तृत्वयोरिव ॥७०॥ यथा वह्नेः दाह-पाकादिफलभेदाद् दाहिका पाचिका च शक्तिर्भेदेन कल्पितापि, वस्तुतः शक्ति- पं० १ ख० पु० परिकल्पते इति, क० पु० पदान्तरमिति च पाठः । पं० ५ क० पु० फलाभेदारोपितभेद इति पाठः । पं० ८ क० पु० एव भवति शक्तीनां पुनरिति पाठः ।

श्लोकः ७१ ] प्रथमाह्निकम् । १११ मेदैकस्वभावत्वान्न परस्परस्य स्वरूपं भेत्तुमलम् । पृथक्सिद्धं हि वस्तु वस्त्वन्तरं भिनत्ति, नहि शक्तेः शक्तिमद्व्यतिरेकेण पृथक्सिद्धिरेवास्ति इति किं केन भेद्यं, वह्नेरेव हि दाह्यादिसमर्थं स्वरूपं तथा परिक- ल्पितम् । एवं परमेश्वरस्य परिकल्पितेऽपि शक्ती- नामानन्त्ये न कश्चिद्भेदः इति न कदाचिदीश्वरा- द्वयवादक्षतिः ॥७०॥ ननु एवं-परिकल्पितोऽपि शक्तीनां भेदो भासत एव इति कथं तदपह्नवः इत्याशंक्याह न चासौ परमार्थेन न किंचिद्भासनादृते । नह्यस्ति किंचित्तच्छक्ति- तद्भेद्दोऽपि वास्तवः ॥७१॥ भानमन्तरेण अन्यत्किंचिन्नास्ति इत्यसौ भेदो- ऽपि भासमानत्वाद्वस्तुतो न न किंचित्, अपि तु

पं० २ ख० पु० भिनत्ति न शक्तिः शक्तिमदित्यादिः पाठः । पं० ६ क० पु० किंचिद्भेद इति पाठः । पं० ८ क० पु० भेद एव भासत इति पाठः । पं० ९ क० पु० कथमपह्नव इति तत्पदहीनः पाठः । पं० १४ क० पु० अन्तरेण यत्किंचिन्नास्ति इति पाठः ।

११२ श्रीतन्त्रालोकः। परमार्थसन्नेव इति शक्तीनां तद्वतश्च भेदोऽपि पार- मार्थिक एव इति वाक्यार्थः । एवं भेदस्य भानै- कस्वभावत्वान्न ततोऽतिरेकः इति नाद्वयवादक्षतिः, नापि शक्तीनां, तद्वतश्च भेदेन स्थितस्य व्यवहार- स्यापह्नवः इति सर्वं सुस्थम् ॥७१॥ ननु परमेश्वरस्य स्वातन्त्र्याख्या शक्तिरेकैवास्ति इत्युक्तम्, इच्छादयस्तु किं तद्विस्फूर्जितमात्रम्, उत स्वतन्त्राणि शक्त्यन्तराणि ? इत्याशङ्क्याह स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् । शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥७२॥ यत् नाम हि अवान्तरशक्तिवैचित्र्यं वह्न्यादेः वस्तुनः-स्वस्याः शक्तेः इति व्यपदेशप्रवृत्तिनि- मित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्य- लक्षणायाः शक्तेः उद्रेको दाहपाकादिविशेषरूप- पं० ४ ख० पु० व्यवहारस्यानपह्नव इति पाठः । पं० ११ क० पु० देवीयं भात्यपीति पाठः ।

श्लोक ७३ ] प्रथमाह्निकम् । ११३ शक्त्यन्तरात्मतयोच्छलनं तस्य जनकम् अवभासकं, तदपि तादात्म्यात् एवं-विधस्वशक्त्येकरूपत्वाद्य- थोक्तरूपा स्वैव शक्तिः इति संबन्धः । समर्थो हि वह्निः सर्वं दाह्यादिकार्यजातं कुर्यात् इत्यभिप्रायः । एवं परमेश्वरस्यापि इच्छाद्यवान्तरशक्तिरूपतयाव- भासमानापि शक्तिर्देवी तत्तद्भेदोल्लासेऽपि परप्रकाशा- भिन्नस्वभावत्वात् द्योतमानावभासा स्वातन्त्र्याख्यैव इति युक्तमुक्तम्-‘एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ।' इति । एवमेकैवास्य स्वातन्त्र्याख्या शक्ति- स्तथा तथा सृष्टेन भेदेन भायात् इति सिद्धम् ॥७२॥ न केवलं शक्तिरेवास्यैवंकल्पितेन भेदेनावभासते यावत्स्वयमपीत्याह शिवश्चालुप्तविभव- स्तथा सृष्टोऽवभासते । पं० ५ क० पु० रूपतयावभासनापीति पाठः । पं० ६ क० पु० शक्तिस्तथा सृष्टेनेति द्वितीयतथापदहीनः पाठः । पं० १० ग० पु० भेदेन भातीति इति पाठः । पं० ११ ख० पु० न केवलमस्य शक्तिरेवंकल्पितेनेति पाठः । १५

११४ श्रीतन्त्रालोकः । स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥७३॥ शिवश्च स्वा संकुचिता संवित् लक्षणां यस्या- सौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता स एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरः तस्मिन् भावनोपदेशादौ स्वस्वातन्त्र्यात् तथा भाव्य- मानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापा- दित इव अवभासते, न चैवमप्यसौ प्रमात्रैकरूप- त्वात् तथा भवति इत्युक्तम् – अलुप्तविभव इति, अपरिहृतप्रमातृभावः इत्यर्थः । तदुक्तं ‘स्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु । प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥’ (ई० प्र० १-५-१६) इति ॥७३॥ एतदेवोपसंहरति तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा । पं० ४ क० ग० पु० परिनिष्ठितप्रभावः प्रमाता इति पाठः । पं० ६ ग० पु० अविलुप्तविभव इति अपरित्यजितप्रमातृभाव इति पाठः । पं० ११ ‘स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।’ इत्येवं विधः पाठो मूलग्रन्थेऽस्ति ।

श्लोक ७४ ] प्रथमाह्निकम् । ११५ शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥७४॥ तस्मात् उभयोरपि शिवशक्त्योस्तथा सृष्टेन भेदेन अवभासनोपपत्तेर्हेतोरपि शिवः प्रकाशमात्रै- करूपत्वात् अनंशोऽपि येन भुवनाद्यन्यतमांश- लक्षणेन मुखेन भावनादौ भासते तत् मुखं ‘....................शैवी मुखमिहोच्यते ।’ इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव, नहि एतदवगमादौ उपायान्तरमस्ति उपपद्यते वा । अतश्च शक्तिशक्तिमतोरुपायोपेयभावात्मा क्रमः सम्यगेव स्फुटः न कश्चिदत्र संशयः इत्यर्थः ॥७४॥ अतश्च अनयोरसावुपायोपेयभावस्तत्र तत्र आग- मेषु उद्घोष्यते इत्याह

पं० ४ क० पु० प्रकाशमात्ररूपत्वात् इति पाठः । पं० ६ ख० पु० उपायान्तरमप्युपपद्यते इति पाठः । पं० १३ ख० पु० अत एव चानयोरिति पाठः ।

११६ श्रीतन्त्रालोकः । श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥७५॥ अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् । तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् इति वाक्यशेषः । एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयति अनुभाव इत्या- दिना । तत्र गरुडेन 'शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः । प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किंचन ॥' इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किंचित् इति पृष्टे, भगवता 'माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः । मायाधर्मैः शिवः शून्यः..................॥' इत्यादिना 'अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् । अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट् ॥' पं० १८ ख० पु० अनुभवेन किम् इत्येवंविधः पाठः ।