विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( १५२ ) देवस्य चालुक्यविभूषणस्य भार्या यशोरञ्जितदिङ्मुखेन । तेनावदातद्युतिना रराज साम्राज्यलक्ष्मीरिव विक्रमेण ॥२॥ अन्वयः चालुक्यविभूषणस्य देवस्य भार्या यशोरञ्जितदिङ्मुखेन अवदातद्युतिना तेन साम्राज्यलक्ष्मीः विक्रमेण इव रराज । व्याख्या चालुक्यस्य चालुक्यवंशस्य विभूषणमलङ्काररूपस्तस्य देवस्य राज्ञ आहव- मल्लदेवस्य भार्या जाया ‘भार्या जायाऽथ पुं भूम्नि दाराः स्युात् कुटुम्बिनी’ इत्यमरः । यशसा कीर्त्या रञ्जितानि प्रसादितानि दिशामशानां मुखान्यग्रभागा येन स तेनाऽ- वदाता सिता द्युतिः कान्तिर्यस्य तेन धवलकान्तिना ‘अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः’ । इत्यमरः । तेन राजकुमारेण विक्रमेण साम्राज्यस्य सार्वभौमत्वस्य लक्ष्मीः धीविक्रमेण शौर्येणेव रराज शोभिताऽभूत् । अत्रोपमालङ्कारः । भाषा जिस प्रकार साम्राज्य की लक्ष्मी (विक्रम) पराक्रम से शोभित होती है उसी प्रकार चालुक्यवंश के भूषण राजा आहवमल्लदेव की रानी सब दिशाओं के अग्र भागों को अपने यश से उज्ज्वल करने वाले गौर वर्ण अपने पुत्र विक्रम से शोभित हुई । अथ बाललीलां वर्णयति कविः- आलम्ब्य हारं करपल्लवेन पयोधरं पातुमसो प्रवृत्तः । भोगेष्वबाह्या गुणिनो ममेति स्वभावमात्मीयमिवाव्यधत्त ॥३॥ अन्वयः असौ हारं करपल्लवेन आलम्ब्य पयोधरं पातुं प्रवृत्तः ( सन् ) मम भोगेषु गुणिनः अबाद्याः इति आत्मीयं स्वभावम् अव्यधत्त इव । व्याख्या असौ बालो स्वमातुर्हारं मुक्ताहारं करपल्लवेन हस्तपल्लवेनाऽऽलम्ब्य विधृत्य पयोधरं स्तनं पातुं स्तनगतदुग्धपानं कर्तुं प्रवृत्तो लग्नस्सन् मम भोगेषु भोग्य-
( १५३ ) वस्तुपु गुणिनो गुणवन्त पुरुषा हारादय श्लिष्टगुणपदार्थसूत्रसंशयिता अतस्तेऽपि गुणिनोऽवाह्या अन्तरङ्गा मया सह गुणवन्तोऽपि भोग्यवस्तुपु सुखमनुभवन्त्वित्या- त्मीयं स्वभावं स्वकीयां प्रकृतिमन्ययतैवेव फलितवानिव । नाऽहं स्वोपभोग्य- वस्तुपु गुणिनो विहायोपभोगे प्रवृत्तो भविष्यामीति सूचयन्निव गुणिनं मुक्ताहारं करेण धृत्वा स्तनपानरुपोपभोगे प्रवृत्त इति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा यह बालक अपनी माता के मोती के हार को अर्थात् गुणी को अपने कोमल- पत्ते के ऐसे सुकुमार हाथ से पकड़ कर स्तनपान करता हुआ मानो अपने स्वभाव को प्रकट करता था कि उसके उपभोगो में गुणीलोग कभी भी छूट नही सकते अर्थात् वह गुणियों को अपने उपभोगो में सदैव साथ रक्खेगा । (गुण शब्द का अर्थ डोरा होने से डोरे में परोया मोती का हार भी गुणी कहा जा सकता है ।) मातृस्तनोत्सङ्ग-विलासहार-प्रभा प्रविश्येव विनिःसरन्ती । तस्यानिमित्तस्मितचन्द्रिकाभू-न्नरेन्द्रनेत्रोत्सववैजयन्ती ॥४॥ अन्वयः तस्य मातृस्तनोत्सङ्गविलासहारप्रभा प्रविश्य विनिःसरन्ती इव अनि- मित्तस्मितचन्द्रिका नरेन्द्रनेत्रोत्सववैजयन्ती अभूत् । व्याख्या तस्य बालकस्य मातुः स्तनौ कुचौ मातृस्तनौ तयोरुत्सङ्गे मध्ये विलासहारो विलासार्थं धृतो मुक्ताहारस्तस्य प्रभा कान्तिर्मार्गं प्रविश्याऽभ्यन्तरं गत्वा पुनः विनिस्सरन्तीय बहिरागतेव नास्ति निमित्तं कारणं यस्मिंस्तत् स्मितमेवेद्धास एव चन्द्रिका ज्योत्स्ना 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । चन्द्रप्रकाश इत्यर्थः । नरेन्द्रस्य राज्ञो नेत्रोत्सवस्य नयनानन्दस्य 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । वैजयन्ती वितापरित्री पताका तत्स्वरूपाऽभूत् । श्वेतवर्णा मुक्ताहारकान्तिरेव बालं प्रविश्य बालकस्याऽकारणवेक्षारूपचन्द्रिका- रूपेण बहिरागता नृपस्य नयनानन्दकरी बभूवेत्यर्थः । अत्रोत्प्रेक्षालङ्कारः । भाषा उस बालक की माता के कुचो के मध्य में विलसित मोती के हार की सफेद
( १५४ ) कान्ति, मानो उस बालक के भीतर प्रविष्ट होकर उसके स्वाभाविक मुसकान रूप सफेद चन्द्रिका के रूप में फिर बाहर निकलती हुई राजा के नेत्रों के आनन्दोत्सव को सूचित करने वाली पताका थी। अर्थात् राजा को बालक के अकारण स्वाभाविक स्मित से अत्यन्त हर्ष होता था। मुष्टिप्रविष्टारुणरत्नदीप-प्रभालता तस्य समुल्लसन्ती । विपक्षकण्ठक्षतजानुलिप्ता कृपाणलेखा सहजेव रेजे ॥५॥ अन्वयः तस्य मुष्टिप्रविष्टारुणरत्नदीपप्रभालता समुल्लसन्ती सती विपक्षकण्ठ- क्षतजानुलिप्ता सहजा कृपाणलेखा इव रेजे। व्याख्या तस्य बालकस्य मुष्ट्यो. प्रविष्टा प्राप्ता यारुणा रक्तवर्णा रत्नदीपाना प्रभारूपिणी लता कान्तिवल्ली सा समुल्लसन्ती सुशोभिता सती विपक्षाणां शत्रूणां कण्ठारुतेषा क्षतजं रुधिरं तेनाऽनुलिप्ताऽनुरञ्जिता सहजा सहैवोत्पन्ना स्वाभाविकी जन्मसिद्धा कृपाणलेखेव खड्गलेखेव रेजे समलङ्कृताऽऽसीत् । बालकमुष्टि- प्रविष्टरत्नदीपरक्तवर्णकान्ति शत्रुक्ण्ठरुधिरानुलिप्तसहजकृपाणलेखेव शुशुभे इति भाव । भाषा उस बालक की मुट्ठी मे प्रवृष्ट रत्नदीप की लाल रग की कान्ति, शत्रुओ के कटे हुए गलो के खून से रानी, जन्म सिद्ध, साथ ही में उत्पन्न तलवार की धार के ऐसी शोभित होती थी। त्यक्त्वोपविष्टान्न्यदसौ कुमारः समुत्थितानां सविधे जगाम । आगामि तेनाधिकमुन्नतात्मा नीचेषु वैमुख्यमिवाचचक्षे ॥६॥ अन्वयः यन् असौ उन्नतात्मा कुमारः उपविष्टान् त्यक्त्वा समुत्थितानां सविधे जगाम तेन नीचेषु आगामि अधिकं वैमुख्यम् आचचक्षे इव।
( १५५ ) व्याख्या यद्यस्मात्कारणादसौ स उन्नतोऽभ्युदयोन्मुख आत्मा यस्य स, कुमारो राजपुत्र उपविष्टान् भूमावासीनान् पुरुषान् त्यक्त्वा विहाय तदुत्सङ्गं परित्यज्येत्यर्थः । समुत्थितानामूर्ध्वस्थानां पुरुषाणां सविधे तदङ्केषु जगाम स्वेच्छया गतवान् तेन कारणेन नीचेषु नीचजनेष्वागामि भविष्यदधिकमतद्रूपं वैमुख्यं विरुद्धदिशि गतं मुखं यस्य स तस्य भावो वैमुख्यं नीचप्रतिकूलत्वमचाचक्षत इव जनादेवाऽसूचयदि- वेत्यर्थः । अत्रोत्प्रेक्षालङ्कारः । भाषा चूंकि यह उन्नत आत्मा वाला बालक बैठे हुए मनुष्यों की गोदों को छोड़ कर खड़े भये हुए मनुष्यों की गोदों में जाता था इससे मानो उसने प्रकट कर दिया कि यह भविष्य में नीचे या नीच मनुष्यों से अधिक विमुख रहेगा । धात्रेयिकाया स्मितपूर्वकं य-द्दत्त हुङ्कारमसौ कुमारः । अपूरयत्तेन नृपस्य कर्णौ पेयूषगण्डूषपरम्पराभिः ॥७॥ अन्वयः यत् असौ कुमारः धात्रेयिकायाः स्मितपूर्वकं हुङ्कारम् अदत्त तेन पेयूष- गण्डूषपरम्पराभिः नृपस्य कर्णौ अपूरयत् । व्याख्या यद्यस्मात्कारणादसौ पूर्वोक्तः कुमारो राजपुत्रो धात्रेयिकाया उपमातुः स्मितपूर्वकं सस्मितं हुङ्कारशब्दं बालस्वाभाविकशब्दमदत्त दत्तवान् तेन कारणेन पेयूषस्याऽमृतस्य गण्डूषं मुखप्रकृतिः 'गण्डूषो मुखपूर्तौ स्यादल्पहस्ताम्बु- सावपि । प्रसृत्या प्रमितेऽपिह्यात्' इति हेमः । तेषां परम्पराभि सन्ततप्रयो- गैर्नृपस्य राज्ञः कर्णौ श्रोत्रेऽपूरयत् संपूरितवान् । उपमात्रे हुङ्कारदानहृष्टबाल- लीलया राजाऽन्तरङ्गपरिपूर्य्यमानो बभूवेति भावः । स्वभावोक्तिरलङ्कारः । भाषा यह बालक अपनी दाई के पुचकारने पर मुस्कुराते हुए हुँकारी भरता था इससे वह राजा के दोनों कानों को अमृत के गण्डूष की परम्परा से भर देता था । अर्थात् उन हुंकारियों को सुन कर राजा को परम आनन्द होता था ।
( १५६ ) यदुत्थितः सोऽङ्गुलिसंग्रहेण यत्किञ्चिदव्यक्तमवोचतापि । अभीक्ष्णमक्ष्णोः श्रवसोश्च तेन क्ष्मापतेः संवननं बभूव ॥८॥ अन्वयः यत् सः अङ्गुलिसंग्रहेण उत्थितः अपि यत् किञ्चित् अव्यक्तम् अवोचत तेन क्ष्मापतेः अक्ष्णोः श्रवसोः च अभीक्ष्ण संवनन बभूव । व्याख्या यद्यस्मात्कारणात् स बालकोऽन्येषा जनानामङ्गुलिसंग्रहेणाऽङ्गुलिं धृत्वोत्थित समुत्थान कृतवान् 'अङ्गुल्य करशाखास्स्यु' इत्यमर । अपि चान्यच्च यत्किञ्चिदव्यक्तमस्पष्टमवोचत सञ्जगाद तेन कारणेन क्ष्माया पति स्वामी तस्याऽवनिभर्तु 'क्षितिक्षान्त्यो क्षमा युक्ते क्षम शक्ते हिते त्रिषु।' 'धव प्रिय पतिर्भर्ता' इत्यमर । अक्ष्णोर्नयनयो 'लोचन नयन नेत्र मीक्षण चक्षुर्दिशिनौ' इत्यमर । श्रवसोश्च कर्णयोश्च 'कर्णशब्दग्रहौ श्रोत्र श्रुति स्त्री श्रवण श्रय' इत्यमर । अभीक्ष्ण पुन पुन 'मुहु पुन पुन शश्वदभीक्ष्णमसकृत्समा' इत्यमर । संवनन वशीकरण 'वशाक्रिया संवनन' इत्यमर । अभूत् बभूव । तस्य बालस्यो- ऽङ्गुलिं संगृह्योत्थान दृष्ट्वा यत्किञ्चिदस्पष्ट संभाषणञ्च श्रुत्वा राजा वशीकरण- मन्त्राभिभूत इव जात । सर्व कार्यजातं त्यक्त्वा तदवलोकनश्रवणयोर्मग्न इति भाव । भाषा चूंकि यह बालक दूसरो की अगुली पकड कर उठने लगा और साफ २ समझ में न आने वाले शब्दो को बोलन लगा इससे राजा की आँखो न कानो का बार २ वशीकरण होता था । अर्थात राजा सब कामो को छोड इस बालक की लीला देखने में ही परम मुदित होता था । क्रमेण सम्पादितचूलकर्मा चालुक्यभूपालधुरन्धरस्य । विनोदलीलाकुसुमोद्यानां स नन्दनो नन्दनतामवाप ॥६॥ अन्वयः क्रमेण सम्पादितचूलकर्मा सः नन्दनः चालुक्यभूपालधुरन्धरस्य विनोदलीलाकुसुमोद्याना नन्दनताम् अवाप ।
( १५७ ) व्याख्या क्रमेण जातकर्मादिसंस्कारानन्तरं सम्पादितं निष्पादितं चूलकर्म चूडाकर्म- संस्कारो यस्य सः सम्पादितचूलकर्मा स नन्दयतीति नन्दनः सर्वजनानन्ददाता पुत्रश्चालुक्यवंशीया ये भूपाला नरेश्वरास्तेषां धुरन्धरस्याऽग्रगण्यस्याऽऽहवमल्ल- देवस्य विनोदलीला मनस आनन्दविहारलीला एव कुसुमानि पुष्पाणि 'स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः। तेषामुच्चयास्तसमूहाः 'समुदाय- स्तमुच्चयः समवायश्चयो गणः' इत्यमरः। तेषां नन्दनतामिन्द्रस्य नन्दनवदना- मककाननस्वरूपतामवाप प्राप्तवान्। यथा नन्दनवने पुष्पोच्चयानामियत्ता नास्ति तथैवास्य राज्ञो मनसि विनोदलीलानामप्याधिक्यं बभूवेति भावः। पुत्रे नन्दनवनत्वारोपे विनोदलीलासु कुसुमत्वारोपस्य कारणत्वात्परम्परितं रूपकम्। 'नियतारोपणोपायः स्यादारोपः परस्य यः। तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा॥' भाषा धीरे २ जातकमादि सस्कारों के अनन्तर चौलकर्म संस्कार होने के बाद वह राजपुत्र, चालुक्य वंशीय राजाओं में श्रेष्ठ आहवमल्लदेव राजा के मानसिक आनन्द विहार लीला रूपी पुष्पसंचयों का इन्द्र का नन्दनवन ही हो गया। अर्थात् जिस प्रकार नन्दन वन में अगणित पुष्प समुदाय होते हैं वैसे इस राजा के मन में इस बालक को देख कर अपरिमित आनन्द विहार लीलाओं का प्रादुर्भाव हुआ। उत्सङ्कमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः। निजाङ्गतः संगलितैः परागैश्चक्रे मनःकार्म्मणचूर्णयोगम् ॥१०॥ अन्वयः पांसुलीलापरिधूसराङ्गः सः नरेश्वरस्य उत्सङ्गम् आरुह्य निजाङ्गतः संगलितैः परागैः मनःकार्म्मणचूर्णयोगं चक्रे। व्याख्या पांसुषु धूलिषु 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः। लीला क्रीडा तया परिधूसराणीषदपाण्डून्यङ्गानि यस्य सः 'हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः' इत्यमरः। धूलिक्रीडनेन धूलिधूसरिताङ्गः स बालकः
( १५८ ) नराणामीश्वरस्तस्य मानवेस्वरस्य रीते उत्सङ्गमङ्कमारुह्य स्थित्वा निजाङ्गतः स्वीयावयवेभ्यः संगलितैरधःपतितैः परागैर्धूलिभिर्जनेश्वरस्य मनसो हृदयस्य कामणं धूलोपदिद्वारा यत्क्रिया 'मूलकर्म तु कामंणम्' इत्यमरः । तत्कृते यच्चूर्णनोषधिक्षूणं तस्य योगं योजनां चक्रे विहितवान् । कुमाराङ्गगलितै- धूलिभिर्नृपस्य प्रेमपूरितं हृदयं वशीकृतमिवे संजातमिति भावः । अत्र निदर्शनालङ्कारः । भाषा मिट्टी में खेलने से धूल से भरे शरीर वाला अतएव कुछ सफेद वर्ण का दिखलाई पड़ने वाला वह बालक, राजा की गोद में बैठ कर अपने शरीर से झडी हुई धूलि से मानो राजा के मन को वशीकरण करने का औषधिक्षूर्ण प्रयोग करता था । राज्ञां प्रणामाञ्जलिसम्पुटेषु किमप्यवज्ञामुकुलीकृताक्षः । तस्यैकहस्ताम्बुरुहप्रणामे कृतार्थमात्मानममंस्त देवः ॥११॥ अन्वयः राज्ञां प्रणामाञ्जलिसम्पुटेषु किमपि अवज्ञामुकुलीकृताक्षः देवः तस्य एकहस्ताम्बुरुहप्रणामे आत्मानं कृतार्थम् अमंस्त । व्याख्या राज्ञां सामन्तभूपानां प्रणामार्थं विहितमञ्जलिसम्पुटं तेषु सत्सु, द्वाभ्यां युताभ्यां कराभ्यां सर्वै राजभिर्नमस्कारे कृते सतीति भावः । किमप्यनिर्वचनीय- प्रकारेण हेत्वर्थेत्यर्थः । अवज्ञयोपेक्षया 'रीडावमाननावज्ञायहेलननसूतकणम्' इत्यमरः । मुकुलीकृते 'अमुकुलो मुकुलः कृतः इति मुकुलीकृतः' 'अभूततद्भावेचि्वः । कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । ईषद्सङ्कुचितेऽक्षिणी यस्य स देवो राजाऽऽहवमल्लदेवस्तस्य बालकस्यैकहस्ताम्बुरुहेमैककरकमलं समुत्थाप्य कृतः प्रणामस्तस्मिन् सति आत्मानं स्वं कृतार्थं कृतकृत्यं सफलजन्मवन्तमित्यर्थः । अमंस्त मेने । नृपवृन्दाञ्जलिभिः प्रणामे कृतेऽप्यवहेलनयाऽऽहवमल्लदेवस्य दृष्टिस्तेषामुपरि सङ्कुचितेवाऽऽसीत् । परन्तु बालककृतैकहस्तप्रणामे तु स प्रसन्नतया कृतकृत्यो बभूव ।
( १५६ ) भाषा अन्य सामन्त राजाओ से दोनो हाथ जोड़कर प्रणाम किये जाने पर भी अवहेलना से अपनी आंखो को कुछ सकुचित बना लेने वाला राजा आहवमल्लदेव, उस बालक के एकही हाथ से प्रणाम किए जाने पर अपने को कृतकृत्य समझता था। प्रतिक्षणं कुन्तलपार्थिवस्य वितन्वतस्तन्मुखचुम्बनानि । तदीयद्रन्तच्छदजन्मनेव रागेण चेतः परिपूर्णमासीत् ॥१२॥ अन्वयः प्रतिक्षणं तन्मुखचुम्बनानि वितन्वतः कुन्तलपार्थिवस्य चेतः तदीयद्रन्त- च्छदजन्मना रागेण इव परिपूर्णम् आसीत् । व्याख्या प्रतिक्षण निरन्तरं तस्य बालस्य मुखस्याऽऽननस्य चुम्बनानि वितन्वतो विदधतः कुन्तलस्य कुन्तलदेशस्य पार्थिवो राजा तस्य चेतो मानसं दन्तरुचाच्छाद्यन्ते तिरोधीयन्तेऽनेनेति दन्तच्छदोऽधरः 'ओष्ठाधरौ तु रदनच्छदौ 'दशनवाससी' इत्यमरः। तस्माज्जन्म यस्य स तेन बालाधरस्थितेन रागेणेवाऽऽरुणवर्णेनेव मानेतर्षेण प्रेम्णा परिपूर्णं पूरितं बभूव । भाषा क्षण क्षण में उस बालक के मुख को चूमने में प्रवृत्त उस कुन्तलदेश के राजा का हृदय मानो उस बालक के अधरोष्ठ से उत्पन्न होने वाले राग (लालिमा) से लाल हो गया था या राग (प्रेम) से भर गया था । मुखेन्दुसञ्चारकृताभिलाष-कुरङ्गभीत्यर्थमिवार्पितेन । कण्ठावसक्तेन स राजसूनूराजत व्याघ्रनखाङ्कुरेण ॥१३॥ अन्वयः सः राजसूनुः मुखेन्दुसञ्चारकृताभिलाषकुरङ्गभीत्यर्थम् इव अर्पितेन कण्ठावसक्तेन व्याघ्रनखाङ्कुरेण अराजत ।
( १६२ ) अन्वयः प्राप्तोदयः परिवर्द्धमानः बालचन्द्रः सः पादनखैः शीतरश्मेः बालैः अपत्यैः सहखेलनाय अभ्यर्थमानः इव चकासे । व्याख्या प्राप्त उदय उत्पत्तिरोन्नत्यं वा येन सः परिवर्द्धमानो वृद्धिं प्राप्नुवन् बालश्चन्द्र इवेति बालचन्द्रः कुमारो नवीनचन्द्रो वा सः पादनखैरर्द्धचन्द्राकारैः इवेतैश्च प्रतिबिम्बितचन्द्रैर्वा शीतो रश्मिः किरणो. यस्य सः 'किरणोस्त्रमयूखांशु गभस्ति- घृणिरश्मयः' इत्यमरः । शीतरश्मिस्तस्य शीतरश्मेश्चन्द्रस्य बालैर्बालरूपैरपत्यैः पुत्रैः सहखेलनाय सहक्रीडनायाऽभ्यर्थ्यमानः प्रार्थ्यमान इव चकासे विदियुते । पादनखानामुपरि चन्द्रशिशुत्वोत्प्रेक्षा । राजकुमारस्य बालचन्द्रेण सहाभेदाद्रूप- कालङ्कारः । अयं बालचन्द्रः शीतरश्मेर्बालैः क्रीडार्थं प्रार्थित इवाऽभूत् इति बालस्वभावौचित्यं व्यज्यते । भाषा उदित भया हुआ और बढ़ता हुआ, बालचन्द्र के समान वह कुमार, पाव के नखों के स्वच्छ तथा अर्धचन्द्राकार होने से या पाव के स्वच्छ नखों में प्रतिबिम्बित चन्द्र होने से मानो चन्द्रमा के छोटे २ बच्चों से साथ खेलने के लिये पाव पडकर प्रार्थना किये गये के ऐसा शोभित हो रहा था। अर्थात् पाव के नखों के मिष से चन्द्र के बालक पाव पडकर उसके साथ खेलने की प्रार्थना करते थे । परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्वासु नरेन्द्रसूनुः । पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७॥ अन्वयः नरेन्द्रसूनुः क्रमेण सर्वासु लिपिषु परां प्रतिष्ठां जगाम । अत्र तथा- विधानां पुण्यात्मनां गुरवो निमित्तमात्रं भवन्ति । व्याख्या नरेन्द्रस्य मनुष्येन्द्रस्य सूनुः पुत्रः क्रमेण शनैः शनैः सर्वास्यखिलासु लिपि- ष्वक्षरविन्यासेषु 'लिपिरक्षरविन्यासे लिपिर्लिबिफमे स्त्रियां' इत्यमरः । परामु- त्कृष्ट प्रतिष्ठां काष्ठामुत्कर्षमित्यर्थः 'काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः ।
( १६३ ) जगाम प्राप । अत्र संसारे तथाविधानां नृपकुमारसदृशानामलौकिकानां पुण्या- त्मनां सुकृतिनां गुरव उपदेशका निमित्तमात्रं कारणमात्रं भवन्ति । पुण्यैरेव सर्वा विद्या अनायासेन ते प्राप्नुवन्ति गुरवस्तु निमित्तमात्रं भवन्तीति भावः । अर्थान्तरन्यासोऽलङ्कारः । भाषा वह राजपुत्र धीरे २ समग्र वर्णमालाओ को अच्छी तरह से जान गया । इस संसार में ऐसे पुण्यात्माओ के शिक्षकगण केवल निमित्त के लिये ही होते हैं । अभ्यासहेतोः क्षिपतः पृषत्कान् नरेन्द्रसूनोः सकलासु दिक्षु । प्रहारभीतेव परिभ्रमन्ती पार्थस्य कीर्तिर्विरलीबभूव ॥१८॥ अन्वयः अभ्यासहेतोः सकलासु दिक्षु पृषत्कान् क्षिपतः नरेन्द्रसूनोः प्रहारभीता इव परिभ्रमन्ती पार्थस्य कीर्तिः विरलीबभूव । व्याख्या अभ्यासहेतोर्वाणविक्षेपणाभ्यासदाढर्याय सकलासु समग्रासु दिक्षु काष्ठासु 'दिशस्तु ककुभ काष्ठा आशाश्चहरितश्च ताः' इत्यमरः । चतुर्दिक्ष्वित्यर्थः । पृषत्कान् बाणान् 'पृषत्कबाणविशिखा अजिह्मगखगाशुगाः' इत्यमरः । क्षिपतः मुञ्चतो नरेन्द्रसूनो राजपुत्रस्य प्रहारात्प्रहरणाद्भीतेव भययुक्तेव परिभ्रमन्ती- स्ततस्तश्चलन्ती पार्थस्याऽर्जुनस्य कीर्तिर्बाणसन्धानयशो विरलीबभूव निबिडेतरा बभूव न्यूनीबभूवेत्यर्थः । राजकुमारस्याऽभ्याससमय एव बाणसन्धानकौशलम- र्जुनादप्यधिकमासीदिति भावः । भाषा अभ्यास करने के लिये सब दिशाओं में बाणों को चलाने वाले उस राजपुत्र के बाणों के प्रहार के भय से मानो डरी हुई, चारों ओर भागने वाली (अर्जुन के पक्ष में) चारों ओर फैली हुई अर्जुन की बाण चलाने की कीर्ति सङ्कुचित हो गई । अर्थात् अभ्यास काल में ही वह राजपुत्र बाण चलाने की कला में अर्जुन से भी कुशल था ।
( १६० ) व्याख्या स राजपुत्रो मुखेन्दायमानचन्द्रे सचाराय गमनाय कृतोऽभिलाषो येन स कुरङ्गो लाञ्छनमृगस्तस्य भीत्यर्थं भयोत्पादनायेवार्ऽपतेन धारितेन कण्ठावसक्तेन कण्ठ- लग्नेन व्याघ्रनख एवाङ्कुर स्तेनाऽराजत शुशुभे । बालमुखेन्दौ लाञ्छनमृगस्य गमनवारणाय व्याघ्रनखा कण्ठे समारोपिता । व्याघ्रनखेन तत्र व्याघ्रसत्ता- मनुमाय मृगस्तत्र न गच्छति । अतएव बालस्य मुखचन्द्रो निष्कलङ्क इति भावः । बालकस्याऽरिष्ट निवारणार्थं तस्य गले व्याघ्रनखार्पण भारते प्रसिद्धम् । फलोत्प्रेक्षाऽलङ्कारः । तेन मुखस्य निष्कलङ्कचन्द्ररूपत्व व्यज्यते । भाषा वह राज पुत्र, मुखरूपी चन्द्र में आने की अभिलाषा रखने वाले लाञ्छन मृग को डराने के लिए मानों गले में पहिने हुए व्याघ्रनखाङ्कुर से शोभित हो रहा था अर्थात् व्याघ्र के भय से मृग वहाँ नहीं जा सकता अत एव उसका मुख रूपी चन्द्र निष्कलङ्क था । (लडको के गले में व्याघ्रनख पहनाने की प्रथा भारत में चिरकाल से चली आई है ।) क्रीडन्समुत्सारितवारनारी—मञ्जीरनादागतराजहंसः । एकः क्षितेः पालयिता भविष्यन् स राजहंसासहनत्वमूचे ॥१४॥ अन्वयः क्रीडन्समुत्सारितवारनारीमञ्जीरनादागतराजहंसः सः एकः क्षितेः भवि- ष्यन् पालयिता राजहंसासहनत्वम् ऊचे । व्याख्या क्रीडन् बालोचितक्रीडाविलास कुर्वन् समुत्सारिता निवारिता वारनारीणो वाराङ्गनानां 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः । मञ्जीरनादेन नूपुरशब्देनाऽऽगता राजहंसा मरालश्रेष्ठा 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिता' इत्यमरः । येन स एवम्भूतः स बालक एक एवैकाक्येव क्षिते सम्पूर्ण- पृथिव्या भविष्यन् भावी पालयिता रक्षिता राजहंसानां श्रेष्ठनृपाणामसहनत्वं तेषां महत्त्वसहनाशक्तत्वमूचे निवेदितवान् । श्लिष्टोत्प्रेक्षालङ्कारः ।
( १६१ ) भाषा खेलते हुए, वेश्याओं के पैंजेव के शब्दों को सुनकर आए हुए राजहंस पक्षियों को भगा देने वाले उस बालक ने, सम्पूर्ण पृथ्वी का एक छत्र राजा हो कर भविष्य में अन्य श्रेष्ठ राजहंसा अर्थात् राजाओं के महत्त्व की असहनशीलता का परिचय दिया। स पीडयन्नायसपञ्जरस्थान् क्रीडापरः केसरिणां किशोरान् । समाददे भाविरिपुद्विपेन्द्र-युद्धोपयोगीव तदीय शौर्यम् ॥१५॥ अन्वयः क्रीडापरः सः आयसपञ्जरस्थान् केसरिणां किशोरान् पीडयन् भाविरि- पुद्विपेन्द्रयुद्धोपयोगि तदीयौर्य समाददे इव । व्याख्या क्रीडापरो बालक्रीडासक्त स आयसपञ्जरस्थान् लौहनिर्मितपिञ्जरस्थितान् लोहोऽस्त्री शस्त्रक तीक्ष्ण पिण्ड कालायसावसी' इत्यमर । केसरिणा सिंहाना किशोरान् शिशून् पीडयन् बाधमानो भाविषु भविष्यत्सु रिपव एव द्विपेन्द्रास्तेषा शत्रुगजेन्द्राणा युद्धेषु नर्मयेषु 'युद्धमायोजन जन्य प्रधन प्रविदारणम्' इत्यमर' । उपयोगि कार्यसाधकं विजयकारीतिभाव । तदीयं सिंहशिशुसम्बन्धि शौर्य पराक्रमं समाददे इव गृहीतवानिव । सिंहोऽनायासेन स्वशौर्येण गजं हन्ति तदीय शौर्येणायमपि भविष्यत् काले रिपुगजेन्द्रं हनिष्यतीति भाव । रूपकसह- कृतोत्प्रेक्षालङ्कार । भाषा खेलकूद में लगे हुए उस बालक ने लोहे के पिंजरे में के शेर के बच्चों को तंग कर भावी शत्रुरूपी गजेन्द्रों के युद्ध में उपयोगी उनके शौर्य को मानो ले लिया । सिंह ही का शौर्य गजेन्द्रा के मारने में समर्थ होता है । इसलिये इसने शत्रुरूपी गजेन्द्रों को मारने के लिय मानो इनसे शौर्य छीन लिया । प्राप्तोदयः पादनखैश्चकासे स बालचन्द्रः परिवर्द्धमानः । अभ्यर्थमानः सहखेलनाय बालैरपत्यैरिव शीतरश्मेः ॥१६॥ ”
( १६४ ) लावण्यलुब्धाभिरलब्धमेव भूपालकन्यामधुपाङ्गनाभिः । कवित्ववक्तृत्वफला चुचुम्ब सरस्वती तस्य मुखारविन्दम् ॥१९॥ अन्वयः कवित्ववक्तृत्वफला सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग- नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब । व्याख्या कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता, यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चानायासेनेव प्रतिफलतीति भावः । लावण्ये कुमारस्य सौन्दर्ये लुब्धाभिस्तत्साक्षात्काङ्क्षिणीभिर्भूपालानां राज्ञां कन्या राजकुमार्य एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धमप्राप्तं तस्य कुमारस्य मुखमेवारविन्दं कमलं 'वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्' इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृत्तान्ते नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गनात्वा- भेदारोपान्मुखे चारविन्दत्वाभेदारोपाद्रूपकालङ्कारः । तेन चाऽस्य विलक्षणं कवित्वं वाग्मित्वञ्च व्यज्यते । भाषा उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने चूमलिया । अर्थात् सरस्वती ने उसके मुख में वास कर लिया । अतएव वह कुमार बाल्यकाल में ही कविता बनाने में और युक्तिपूर्ण बातें करने में अत्यन्त निपुण हो गया । तं बालचन्द्रं परिपूर्यमाण-मालोक्य लावण्यकलाकलापैः । कुमुद्वतीनामिव कामिनीनां निशासु निद्रा विमुखीबभूव ॥२०॥ अन्वयः निशासु लावण्यकलाकलापैः परिपूर्यमाणं तं बालचन्द्रम् आलोक्य कुमुद्वतीनाम् इव कामिनीनां निद्रा विमुखीबभूव ।
( १६५ ) व्याख्या निशासु रात्रिषु लावण्यस्य सौन्दर्यस्य कलास्तासा कलापाः समूहास्तैः परि- पूर्यमाण तं यत्नः कुमारः चन्द्र इव शशीव नूतनचन्द्रो वा तं समालोक्य दृष्ट्वा कुमुद्वतीनामिव कुमुदिनीनामिव कामिनीनामङ्गनाना निद्रा विमुखोबभूवापससार गतेत्यर्थः । यथा निशासु नवीनचन्द्रं विलोक्य कुमुदिनी विकसिता भवति स्वकुङ्- मलत्वरूपनिद्रा जहाति तथैव कामिन्योऽपि तमद्भुतसौन्दर्ययुक्तं कुमारं निरीक्ष्य कामज्वरपीडिताः सत्यो रात्रौ निद्रा न लभन्तय इति भावः । अत्र कुमुद्वती कामिन्योर्द्वयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः । भाषा रात्रियों में जिस प्रकार कलासमूहों से क्रमशः परिपूर्ण होने वाले नूतन चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को देखकर सुन्दरियां काम ज्वर से पीड़ित हो जाती है अतएव रात्रियों में उनकी निद्रा दूर हो जाती है । धैर्येण तस्मिन्नवधीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् । आबद्धमुग्धभ्रुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥२१॥ अन्वयः धैर्येण अवधीर्य याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धभ्रुकुटीच्छ- टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः । व्याख्या धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणाऽवधीर्य कामिनीस्तिरस्कृत्य याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेनोत्सुकानामुद्वेलितमानसानामाबद्धाः सङ्कुचिता अत एव मुग्धा सुन्दर्यो या भ्रुकुटयस्तासा च्छटा शोभा यासां तासां नगराङ्गनानां नागरिकसुन्दरीणां नयनान्येव नेत्राण्येवोत्पलानि इन्दीवराणि तानि सकोप कोपेन सहित यथा स्यात्तथाऽनादर दृष्ट्या समुद्भूतेन क्रोधेन पेतुः न्यपतन् । कामवेगेनोत्सुकानामङ्गनानां धीरतयाऽवधीरणात्तस्मिन् ताः कुपिताः सञ्जाता इति भावः।
( १६६ ) भाषा स्वाभाविक धीरता से सुन्दरियों के आकर्षण में न पड कर उनकी अवहेलना करने वाले उस राजपुत्र पर, कामवेग से चलायमान मन वाली सङ्कुचित अतएव सुन्दर भौंवा की शोभा से युक्त नागरिक सुन्दरियों के नेत्र कमल, क्रोध से पडते थे । अर्थात् अपनी अवहेलना देखकर नागरिक सुन्दरियाँ भौंवें चढाकर क्रोध से उसे देखती थीं । लावण्यलक्ष्मीकुलधाम्नि तत्र विवर्द्धमाने शनकैः कुमारे । कासामजायन्त न कामिनीनां निद्रादरिद्राणि विलोचनानि १ ॥२२॥ अन्वयः तत्र लावण्यलक्ष्मीकुलधाम्नि कुमारे शनकैः विवर्द्धमाने सति कासां कामिनीनां विलोचनानि निद्रादरिद्राणि न अजायन्त । व्याख्या तत्र कल्याणपुरे लावण्यस्य सौन्दर्यस्य या लक्ष्मी श्रीस्तस्याः कुलधाम कुलगृहं तस्मिन् 'धाम तेजो गृहे भगो' इत्यमरः । सौन्दर्यशोभाकुलगृहे तस्मिन् कुमारे राजपुत्रे शनकैः शनैः शनैर्विवर्द्धमाने सति वर्द्धिते सति कासां कामिनीना- मङ्गनानां विलोचनानि नयनानि निद्रादरिद्राणि निद्रारहितानि नाजायन्त न जातानि अपितु सर्वाः कामिन्यो रात्रौ तस्य स्मरणान्निद्रां न लेभिरे । तस्याद्भुत- सौन्दर्यश्रियमवलोक्य सर्वा अपि कामिन्यः कामपरवशाः सत्यो रात्रौ निद्रां न लेभिर इति भावः । भाषा सौन्दर्य की शोभा के कुलगृह स्वरूप उस राजपुत्र के धीरे २ बडे होने पर उस कल्याण पुर म कौन ऐसी युवतियाँ थीं जिन्हें निद्रा का दारिद्र्य न हुआ । अर्थात् अलौकिक सौन्दर्य से सुशोभित उस राजपुत्र को देख कर सब युवतियाँ काम पीडित हो निद्रा से वञ्चित हो गईं । १ अयमेव भाव प्रकारान्तरेणास्य रागस्य विवक्षितत्वे श्लोके प्रदर्शित ।
( १६७ ) तेजस्विनामुन्नतिमुन्नतात्मा सेहे न बालोऽपि नरेन्द्रसूनुः । देवोऽपि भास्वाञ्छरणेच्छयेव समाश्रितो विष्णुपदं रराज' ॥२३॥ अन्वयः उन्नतात्मा बालः अपि नरेन्द्रसूनुः तेजस्विनाम् उन्नतिं न सेहे । भास्वान् देवः अपि शरणेच्छया इव विष्णुपदं समाश्रितः रराज । व्याख्या उन्नत उन्नतिप्रवन आत्मा यस्य स बालोऽपि स्वल्पवयस्कोऽपि नरेन्द्रसूनू राजपुत्रस्तेजस्विनां तेजसा जाज्वल्यमानानामुन्नतिमभ्युदयं न सेहे न सोढुं शशाफ । यतो भास्वान् सूर्यो देवोऽपि विबुधोऽपि 'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः' इत्यमरः । शरणेच्छयेव स्वरक्षा याचमान इव विष्णुपदं विष्णोर्भगवतः पदं चरणं विष्णुपदमाकाश वा 'वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी' इत्यमरः । समाश्रित प्राप्तो रराज शुशुभे । तस्य बाल्यकालादेव तेजस्पुन्न- त्यसहनस्वभावात्सूर्यो देवोऽपि भीत्या विष्णुपदङ्गत इव शुशुभे इति भावः । अत्र हेतूत्प्रेक्षा । भाषा उन्नतात्मा वह राजपुत्र, बालक होते हुए भी, तेजस्वियो के अभ्युदय को नहीं सहन कर सकता था । इसीलिये मानो, सूर्य, देव होते हुए भी, इससे अपनी रक्षा करने के लिये भगवान् विष्णु की शरण में गया या आकाश में शोभित हुआ । उच्चैः स्थितं तस्य किरीटरत्नं तेजोधनानामुपरि स्थितस्य । क्षमामिव प्रार्थयितुं लुलोठ संक्रान्तिमङ्ग्या मणिपादपीठे ॥२४॥ अन्वयः तेजोधनानाम् उपरिस्थितस्य तस्य उच्चैः स्थितं किरीटरत्नं मणिपादपीठे संक्रान्तिभङ्ग्या क्षमां प्रार्थयितुम् इव लुलोठ । १ किमपेक्ष्य फलं पयोधरान् ध्वनत प्रार्थयते मृगाधिप । प्रकृति. खलु सा महीयसः सहते नान्यसमुन्नति यया ॥ इत्युक्ते । भारवि (किरातार्जुनीये २ सर्गे २१ श्लोक )
( १६८ ) व्याख्या तेज एव दीप्तिरेव धनं येषा ते तेजोधनास्तेषां तेजस्विनामुपरि सर्वोत्कर्षेण स्थितस्य विद्यमानस्य तस्य राजसूनोरूर्ध्वः शिरसि स्थितं विराजमानं किरीट- रत्नं मुकुटरत्नं मणिभो रत्नादिभिर्निर्मिते पादपीठे पादाधारपीठे सक्रान्तिभङ्ग्ग्या प्रतिबिम्बव्याजेन क्षमां प्रार्थयितुमिव याचितुमिव लुठोठ पपात । अत्रोत्प्रेक्षा- लङ्कारः । भाषा सब तेजस्वियो में श्रेष्ठ इस राजपुत्र के, मस्तक पर का मुकुटमणि, रत्न जडित पाव रखने की चौकी पर पडी अपनी परछाई के मिष से (उस तेजस्वी के भी ऊपर बैठने के अपराध से) मानो क्षमा याचना करने के लिये उसके पैरो पडता था । अत्रान्तरेऽभूज्जयसिंहनामा पुत्रस्तृतीयोऽपि नराधिपस्य । स्वप्नेऽपि संवादयशोदरिद्रश्चन्द्रार्द्धचूडस्य न हि प्रसादः ॥२५॥ अन्वयः अत्र अन्तरे नराधिपस्य जयसिंहनामा तृतीयः अपि पुत्रः अभूत्। हि चन्द्रार्द्धचूडस्य प्रसादः स्वप्ने अपि संवादयशोदरिद्रः न (भवति) । व्याख्या अत्रान्तरेऽस्मिन्नवकाशे 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्य- मरः । नराधिपस्याऽऽहवमल्लदेवराजस्य जयसिंहनामा जयसिंहनामकस्तृती- योऽपि पुत्रः सूनुरभूदजायत । हि यस्मात्कारणात् चन्द्रार्द्धश्चूड़ायां शिरसि यस्य तस्य शिवस्य प्रसादोऽनुग्रहः स्वप्नेऽपि कथमपीतिभावः । संवादस्य स्वानुकूल- फलदानरूपस्य वचनस्य यशस्तेन दरिद्रो रहितो न, भवतीत्यर्थः । शिवप्रसादप्राप्तिप्रयोजकवचनस्य सदैव सत्यत्वमिति कुतस्तद्वचनस्य मिथ्या- भाव प्रसङ्ग इति भावः । अत्र पूर्वार्द्धोक्तस्य द्वितीयार्द्धोक्तेनाऽर्थेन समर्थना- दर्थान्तरन्यासालङ्कारः । "सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यञ्च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणाऽर्थान्तरन्यासोऽष्टधा ततः ।" इति लक्षणात् ।
( १६९ ) भाषा इसी बीच में आहवमल्लदेव राजा को जयसिंह नामक तृतीय पुत्र भी हुआ । क्योंकि भगवान् शङ्कर की कृपा, स्वप्न में भी, वचनानुकूल फलप्रदान के यश से वञ्चित नहीं हो सकती । सर्वासु विद्यासु किमप्यकुण्ठ-मुत्कण्ठमानं समरोत्सवेभ्यः । श्रीविक्रमादित्यमथावलोक्य स चिन्तयामास नृपः कदाचित् ॥२६॥ अन्वयः अथ कदाचित् सः नृपः श्रीविक्रमादित्यं सर्वासु विद्यासु अकुण्ठं समरोत्सवेभ्यः किमपि उत्कण्ठमानम् अवलोक्य चिन्तयामास । व्याख्या अथाऽनन्तर कदाचित् कस्मिंश्चित्समये सः प्रसिद्धो नृपो भूपतिराहवमल्लदेवः श्रीविक्रमादित्यं तन्नामकं स्वसुतं सर्वासु सकलासु विद्यासु शस्त्रशास्त्रप्रविद्याष्वकुण्ठ- ममन्दं निपुणमित्यर्थः 'कुण्ठो मन्दः क्रियासु यः' इत्यमरः । समरोत्सवेभ्यो युद्धकार्येभ्यः किमपि अनिर्वचनीयतयोत्कण्ठमानं समुत्सुकमवलोक्य दृष्ट्वा चिन्तया- मास विचारयामास । भाषा कुछ काल के अनन्तर, समग्र शस्त्र और शास्त्र विद्याओं में निपुण अपने मध्यम पुत्र श्री विक्रमादित्य को संग्राम महोत्सवों के लिए विशेष लालायित देखकर राजा आहवमल्लदेव सोचने लगे । अलङ्करोत्यद्भुतसाहसाङ्कः सिंहासनं चेदयमेकवीरः । एतस्य सिंहीमिव राजलक्ष्मीमङ्कस्थितांकः क्षमतेऽभियोक्तुम् ॥२७॥ अन्वयः अयम् अद्भुतसाहसाङ्कः एकवीरः सिंहासनम् अलङ्करोति चेत् (तर्हि) एतस्य अङ्कस्थितां सिंहीम् इव राजलक्ष्मीम् अभियोक्तुं कः क्षमते ।
( १७० ) व्याख्या अयमद्भुतमाश्चर्यविलम्बि साहसं विक्रमोऽङ्को चिह्नं यस्य स 'कलङ्काङ्कौ लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । एकवीरोऽद्वितीयशूरो विक्रमाङ्कदेवः सिंहासनं राज्यसिंहासनमलङ्करोति विभूषयति चेद्यदि तर्हि एतस्य राजकुमारस्याऽङ्कस्थितामुत्सङ्गे स्थितां भ्राजमानां सिंहिमिव मृगेन्द्राङ्गना- मिवाऽपरिभवनीयामप एवाऽजेया राजलक्ष्मीं नृपश्रियंमभियोक्तुमाक्रमितुं हठात् गृहीतुमित्यर्थः । कः को वा क्षमते प्रभवति न कोपीत्यर्थः । भाषा यदि अद्भुतसाहस के लक्षणों से युक्त यह अद्वितीय वीर विक्रमाङ्कदेव राजसिंहासन (राजगद्दी) को सुशोभित करेगा तो इसकी गोद में रहने वाली सिंहिनी के समान राजलक्ष्मी को कौन छेड़ सकेगा ! अर्थात् सिंहिनी के समान प्रबल इसकी राजलक्ष्मी से कौन छेड़ छाड़ करेगा अर्थात् उसको छीनने का प्रयत्न करेगा । करोमि तावद्युवराजमेन-मत्यक्तसाम्राज्यभरस्तनूजम् । तटद्वयी संश्रयणाद्दधातु धुनीव साधारणतां नृपश्रीः ॥२८॥ अन्वय अत्यक्तसाम्राज्यभरः (अहं) एनं तनूजं तावत् युवराजं करोमि । नृपश्रीः धुनी इव तटद्वयीसंश्रयणात् साधारणतां दधातु । व्याख्या न त्यक्तः परित्यक्तः साम्राज्यस्य सम्पूर्णराज्यस्य भरो भारो येन स एवम्भूतोऽहमेनं विक्रमाङ्कदेवनामकं तनूजं, तथा शरीरात् जायत इति सूनूस्तं तनूजं पुत्रं तावत् युवराजं करोमि राज्यकार्यभारग्रहणे नियुक्तं विदधामि । नृपश्रीः राजलक्ष्मीः धुनीव नदीव 'अथ नदी सरित् । तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी' इत्यमरः तटयोर्द्वयी तटद्वयी तस्याः संश्रयणादाश्रयणात् साधारण- तामुभयावलम्बिरूपात् सामान्यस्वरूपं दधातु । विक्षोभं न गच्छत्विति भावः । भाषा में अपने साम्राज्य का भार न छोड़ते हुए इस विक्रमाङ्कदेव को सम्प्रति युवराज पद पर नियुक्त कर देता हूँ । ऐसा कर देने से दोनो तटों के आश्रय
( १७१ ) से स्वाभाविक रूप से बहने वाली नदी के समान हम दोनों के आश्रय में रहने वाली राजलक्ष्मी समान रूप से चलती रहेगी । एवं विनिश्चित्य कृतप्रयत्न-मूचे कदाचित्पितरं प्रणम्य । सरस्वतीनपुरसिञ्जितानां सहोदरेण ध्वनिना कुमारः ॥२६॥ अन्वयः कुमारः कदाचित् एवं विनिश्चित्य कृतप्रयत्नं पितरं प्रणम्य सरस्वतीनू- पुरसिञ्जितानां सहोदरेण ध्वनिना ऊचे । व्याख्या कुमारो विक्रमाङ्कदेवः कदाचित् कस्मिंश्चित्काले एवं पूर्वोक्तप्रकारेण विनिश्चित्य निश्चय विधाय कृतः समारब्धः प्रयत्न उद्योगो येन तं पितर जनक- माहवमल्लदेव प्रणम्य नमस्कृत्य सरस्वत्या वाग्देव्या नूपुराणां मञ्जीराणां ‘पादाङ्गदं तुलाकोटि मंजोरो नूपुरोऽस्त्रियाम्’ इत्यमरः । सिञ्जितानां स्वनानां सहोदरेण सदृशेन मधुरेणेत्यर्थः ध्वनिना शब्देन वचसा वा ऊचे जगाद । सुमधुर-कर्णप्रियशब्देन स्वपितर जगादेति भावः । भाषा किसी समय राज कुमार ने, पूर्वोक्त निश्चय कर तदनुरूप कार्य करने में प्रवृत्त अपने पिता आहवमल्लदेव को, सरस्वती के पैंजेन की ध्वनि के सदृश सुमधुर और कर्णप्रिय शब्दो में कहा । आज्ञा शिरश्चुम्बति पार्थिवानां त्यागपभोगेषु वशे स्थिता श्रीः । तव प्रमादात्सुलभं समस्त-मास्तामयं मे युवराजभावः ॥३०॥ अन्वयः आज्ञा पार्थिवानां शिरः चुम्बति, श्रीः त्यागपभोगेषु वशे स्थिता, तव प्रसादात् समस्तं सुलभम् । मे युवराजभावः आस्ताम् । व्याख्या आज्ञा मदीयादेशः पार्थिवाना राज्ञा शिरः शीर्षं चुम्बति समाक्रामति । सर्वे राजानो ममाज्ञापालनं कुर्वन्तीति भावः । श्रीर्धनादिसमृद्धिस्त्यागेषु दानेषु-