विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( : २६० : व्याख्या अथ किञ्चित्स्वास्थ्यप्राप्त्यनन्तरं स विक्रमाङ्कदेवः संस्थितस्य मृतस्य 'परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः' इत्यमर । पितुर्जन्मकस्य क्रिया तर्पणादि- कविधिं शास्त्रविधानमनतिक्रम्य वर्तत इति यथाविधि शास्त्रमर्यादानुकूलं विधाय कृत्वाऽग्रजस्य ज्येष्ठभ्रातुरवलोकने दर्शने उत्कण्ठ्योत्कटेच्छया प्रेरितो नियोजितस्तन् पुरोऽग्रे कल्याणपुरममार्गऽचलत् प्रतस्थे । भाषा कुछ स्वस्थ होने के अनन्तर, अपने मृत पिता की शास्त्रानुसार तर्पणादि क्रियाकर्म कर वह विक्रमाङ्कदेव, अपने बड़े भाई सोमदेव से मिलने की उत्कण्ठा से प्रेरित होकर कल्याणपुर के मार्ग पर आगे बढा । कियद्भिरपि सोऽध्वानमुल्लङ्घ्य दिवसैस्ततः । निःशब्दसैन्यसंघात-सहितः प्राविशत्पुरीम् ॥८६॥ अन्वयः ततः निःशब्दसैन्यसंघातसहितः सः कियद्भिः अपि दिवसैः अध्वानम् उल्लङ्घ्य पुरीं प्राविशत् । व्याख्या ततः कल्याणनगरं प्रति प्रस्थानानन्तरं निःशब्दाः (कु लेन) स्वनमकुर्वाणाः सैन्याः सैनिकास्तेषां सघातस्सङ्घस्तेन सहितो युक्तः स विक्रमाङ्कदेवः कियद्भिरपि कतिपयैरेव दिवसैर्दिनेरध्वानं पन्थानमुल्लङ्घ्य समतिक्रम्य पुरीं कल्याणनगरं प्राविशत् प्रविष्टः । भाषा इसके अनन्तर शब्द रहित अर्थात् बाजे गाजे से रहित, सेना समूह के सहित कुछ ही दिनों में रास्ता पार कर वह कल्याणपुर में प्रविष्ट हुआ । सरोजिनीव हंसेन नयनेव नरेन्द्रता । कविना सुखगोष्ठीव चन्द्रेणेव विभावरी ॥६०॥
२६१ :) लक्ष्मीरिव प्रदानेन कवित्वेनेव वाग्मिता । मेने तेनापवित्रेव पित्रा विरहिता पुरी ॥६१॥ अन्वयः तेन पित्रा विरहिता पुरी, हंसेन विरहिता सरोजिनी इव, नयेन विरहिता नरेन्द्रता इव, कविना विरहिता सुरसगोष्ठी इव, चन्द्रेण विरहिता विभावरी इव, प्रदानेन विरहिता लक्ष्मीः इव, कवित्वेन विरहिता वाग्मिता इव अपवित्रा मेने । व्याख्या तेन विक्रमाङ्कदेवेन पित्राऽऽहवमल्लदेवेन विरहिता वियुक्ता पुरी कल्याणपुरी हंसेन मरालेन विरहिता शून्या सरोजिनीव कमलिनीव, नयेन नीत्या विरहिता विहीना नरेन्द्रतेव राज्यलक्ष्मीरिव राजकर्मवेत्यर्थः । कविना सहृदयेन पण्डितेन विरहिता रिक्ता सुखस्याऽऽनन्दस्य रसस्य लक्षणया तदनुभवस्य तदनुभवकर्तुर्गोष्ठीव सभेव, चन्द्रेणेन्दुना विरहिता हीना विभावरीव रात्रिरिव कवित्वेन कविकर्म- णाऽलौकिकचमत्काराधायककाव्येनेत्यर्थः । विरहिता विना वाग्मितेव वाक्प्रावी- ण्यमिवाऽपवित्राऽमेध्याऽरमणीयेत्यर्थः । मेने बुद्धा । मालोपमा-विनोक्त्यो- रङ्गाङ्गितयोः सङ्करः । भाषा उसने पिता से रहित उस कल्याणपुर को, हंस से रहित कमलिनी, नीति से रहित राज्यकार्य, कवि से रहित रस भरी बातों से रसास्वाद देने वाली सभा, चन्द्रमा से रहित रात, दान से रहित सम्पत्ति और उत्तम काव्य रचना से रहित वाक्पटुता के समान, अपवित्र अर्थात् अरमणीय समझा । युगुलकम्—युग्मकम् १ । अग्रे समागतेनाथ मानितः सोऽग्रजन्मना । सह तेनैव सक्लेशं विवेश नृपमन्दिरम् ॥६२॥ अन्वयः अथ अग्रे समागतेन अग्रजन्मना मानितः सः तेन एव सह नृपमन्दिरं तं विवेश । १ युग्मकलक्षण ४२ श्लोकटिप्पण्या द्रष्टव्यम् ।
( २६२ ) व्याख्या अथ पुरीदर्शनानन्तरमग्रे पुरः समागतेन सभाजनार्थं समुपस्थितेनाऽग्रजन्मना ज्येष्ठभ्रात्रा सोमदेवेन मानितस्समादृतस्स विक्रमाङ्कदेवस्तेनैव सोमदेवेनैव सह नृपमन्दिरं राजसदनं क्लेशेन दुःखेन सहितं सबलेशं सदुःखं शोकमनुभवन्नित्यर्थः । विवेश प्रविष्टः । भाषा कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुख से गया । अन्योन्यकण्ठाश्लेषेण पीडितस्येव निर्ययुः । बाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥६३॥ अन्वयः तत्र तयोः अन्योन्यकण्ठाश्लेषेण पीडितस्य इव बाष्पाम्भसः अति- मांसलाः धाराः चिरं निर्ययुः । व्याख्या तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा- श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्पीडितस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ- श्रुजलं तस्योऽतिमांसला अतिबलयत्य अतिविशाला इत्यर्थः । 'बल्यान्मां- सलोत्सलः' इत्यमरः । धाराः प्रवाहाश्चिर बहुकालपर्यन्त निर्ययुर्निस्स्रुताः । तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानो दबने से आंसुओं की विशाल धाराएँ चिरकाल तक निकलती रहीं । क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्नेहवृत्तिभिः । केऽपि कैतवबाह्याभिरत्यवाह्यन्त वासराः ॥६४॥ अन्वयः — क्रमात् अदुःखाभ्यां ताभ्यां कैतवबाह्याभिः अन्योन्यस्नेहवृत्तिभिः के अपि वासराः अत्यवाह्यन्त ।
( २६३ ) व्याख्या क्रमात् क्रमशॊ नास्ति दुःखं ययोस्तौ ताभ्यां दुःखरहिताभ्यां ताभ्यां सोमदेवविक्रमाङ्कदेवाभ्यां कैतवेन कपटेन 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । बाह्या बहिर्भूतास्ताभिर्निष्कपटाभिरन्योन्यस्य परस्परस्य स्नेहवृत्तिभिः प्रेमार्द्रव्यवहारैः केऽपि कियन्तोऽपि वासरा दिवसा अत्यवाह्यन्त यापिताः । भाषा धीरे धीरे दुःख से मुक्त दोनों भाइयों ने परस्पर कपट रहित, प्रेम भरे व्यवहारों में कुछ दिन बिताये । ज्येष्ठं गुणैर्गरिष्ठोऽपि पितुस्तुल्यममंस्त सः । महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥६५॥ अन्वयः सः गुणैः गरिष्ठः अपि ज्येष्ठं पितुः तुल्यम् अमंस्त । महात्मनाम् अमार्गेण प्रवृत्तयः न भवन्ति । व्याख्या स विक्रमाङ्कदेवो गुणैश्शौर्यदयादाक्षिण्यादिनृपोचितगुणैर्गरिष्ठोऽपि गुरुतमोऽपि श्रेष्ठोऽपीतिभावः । ज्येष्ठमग्रजं सोमदेवं पितुराहवमल्लदेवस्य तुल्यं सम्मानेन समानममंस्त विज्ञातवान् । यतो महात्मनां मनस्विनां महानुभावानाममार्गेणाऽ नुचिताध्मना प्रवृत्तयोऽध्यवसाया न भवन्ति । 'ज्येष्ठो भ्राता पितुः सम' इति- स्मरणात् । अत्रार्थान्तरन्यासालङ्कारः । भाषा शौर्यादिगुणों में श्रेष्ठ होने पर भी विक्रमाङ्कदेव अपने बड़े भाई सोमदेव को पिता आहवमल्लदेव के समान ही आदरपूर्वक मानता था । बड़े लोगों के व्यवहार अनुचित तरीके से नहीं होते । स दिग्बलममालोच्य वस्तुजातमुपार्जितम् । तस्मै समर्पयामास नास्ति लोभो यशस्विनाम् ॥६६॥
( २६४ ) अन्वयः सः दिग्वलयम् आलोढ्य उपार्जितं वस्तुजातं तस्मै समर्पयामास। यशस्विनां लोभः न अस्ति। व्याख्या स विक्रमाङ्कदेवो दिग्वलयं दिङ्मण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु- जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ। यशस्विनां कीर्तिमत्तां लोभस्सम्पत्तिलोभो नास्ति न भवति। अत्रार्थान्तरन्यासालङ्कारः। भाषा विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजें अपने बड़े भाई सोमदेव को दे दीं। यशस्वी लोगों में लोभ नहीं होता। जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः। एषा भगवती केन भज्यते भवितव्यता ॥६७॥ अन्वयः ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः। एषा भगवती भवितव्यता केन भज्यते। व्याख्या ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिर्दिवसैः कस्मि- श्चित्काले गते सतीत्यर्थः। सोमेश्वरः सोमदेवः पापे पापयुक्तकर्मणि रत आसक्तो जातो बभूव। एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण भज्यते विनाश्यते दूरीक्रियते इत्यर्थः। भाषा इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया। भगवती भवितव्यता को कौन टाल सकता है। मदिरेव नरेन्द्रश्रीस्तस्याभून्मदकारणम्। न विवेद परिक्षुब्धं यदशेषं यशोंऽशुकम् ॥६८॥
( २६५ ) अन्वयः तस्य नरेन्द्रश्रीः मदिरा इव मदकारणम् अभूत् । यत् (सः) परि- भ्रष्टम् अशेषं यशोंऽशुकं न विवेद । व्याख्या तस्य सोमदेवस्य नरेन्द्रश्री राजलक्ष्मीर्मदिरेव मद्यमिव मदकारणमविवेक- हेतुरभूत् । यद्यस्मात्कारणात् स सोमदेव परिभ्रष्ट गलितमशेषमखिल यशः कीर्तिरेवांशुक वस्त्र न विवेद न ज्ञातवान् । यथा कश्चिन्मद्योन्मत्तो मदान्धत्वात् स्वशरीरात् गलित वस्त्र न जानाति तथैवाऽय सोमदेवोऽविवेकित्वादखिल यशो विनष्टमिति न जानाति स्मेति भाव । भाषा सोमदेव की राजश्री ही मदिरा के समान उसे मदोन्मत्त बनाने में कारण हुई । इससे उसने पूर्णतया नष्ट होने हुए यश रूपी वस्त्र को नहीं जाना । अर्थात् जिस प्रकार किसी शराबी का शरीर पर का पूरा कपड़ा गिर जाता है तो भी उसे वह नशे में नहीं जान पाता । उसी प्रकार राजलक्ष्मी के मद में चूर अविवेकी सोमदेव को सम्पूर्ण कीर्ति नष्ट हो जाने का पता ही नहीं चला । बाधिर्यमिव मङ्गल्य-तूर्यध्वनिभिरागतः । ईषदप्येष नाश्रौषीद् वचनानि महात्मनाम् ॥४६॥ अन्वयः एषः मङ्गल्यतूर्यध्वनिभिः बाधिर्यम् आगतः इव महात्मनां वचनानि ईषद् अपि न अश्रौषीत् । व्याख्या एष सोमदेवो मङ्गलस्य माङ्गलिक तूर्यं वाद्यविशेष तस्य ध्वनिभिर्नादैर्बाधिर्यं बधिरतामागत प्राप्त इव महात्मनां कुलवृद्धाना महानुभावानां वचनानि सद्वाक्यान्येषदपि मनागपि नाश्रौषीत् नाशृणोत्कणितवान् । राजलक्ष्म्या मदोन्मत्तो माङ्गलिकवाद्यविशेषनादेन बधिरतामिवाऽऽपन्न सोमदेव श्रोत्रेन्द्रियाभावात् महानुभावै समुपदिष्टानि वाक्यानि नाशृणोदिति भाव । उत्प्रेक्षालङ्कारः ।
( २६६ ) भाषा वह सोमदेव माङ्गलिक वाद्यविशेषो के शब्दो से मानो बहिरा होकर कुल- वृद्ध महानुभावो के सदुपदेशो को बिलकुल नही सुनता था ।- कुर्वन्नङ्गेषु वैक्लव्यमाविष्कृतमदज्वरः । स निनाय श्रियं राजा राजयक्ष्मेव संक्षयम् ॥१००॥ अन्वयः आविष्कृतमदज्वरः सः राजा राजयक्ष्मा इव अङ्गेषु वैक्लव्यं कुर्वन् श्रियं संक्षयं निनाय । व्याख्या आविष्कृतः प्रकटीकृतो मदः ज्वर इव मदज्वरो येन स राजा नृपस्सोमदेवो राजयक्ष्मेव क्षयरोग इवाऽङ्गेष्ववयवेषु विक्लवः स्वाङ्गाण्येव धारयितुमशक्तो विह्वलस्तस्य भावो वैक्लव्यं विह्वलत्वं कुर्वन् राजपक्षेऽमात्याद्यङ्गेषु वैक्लव्यं राज्ञ्क सम्बन्धराहित्यं वैमनस्यमित्यर्थः कुर्वन् सम्पादयन् श्रियं राजलक्ष्मीं, राजयक्ष्मापक्षे शोभां संक्षयं विनाशं निनाय नयति स्म । यथा क्षयरोगः पूर्वं ज्वरं समुत्पाद्य शोषिणोऽवयवेषु विक्लबता जनयित्वा तस्य शरीरशोभा नाशयति तथैव मदाप्लुतः सोमदेवोऽमात्यादिराज्याङ्गेषु वैमनस्यरूप वैक्लव्यं जनयित्वा राजलक्ष्मीं नाशयति स्मेति भावः । अत्रोपमालङ्कारः । भाषा अभिमान के समान ज्वर को प्रकट करने वाले क्षयरोग के समान सोमदेव राजा ने (राजयक्ष्मा के पक्ष में) शारीरिक अवयवो में विकलता उत्पन्न कर (राजा के पक्ष में) अमात्य आदि राज्य के अङ्गो में वैमनस्य उत्पन्न कर, शोभा को (पक्ष में) राजलक्ष्मी को नष्ट कर दिया । अर्थात् जिस प्रकार क्षय रोग पहिले ज्वर प्रकट कर शरीर के अङ्ग प्रत्यङ्ग को विह्वल कर शरीर की शोभा को नष्ट कर देता है उसी प्रकार राजा ने मद प्रकट कर मन्त्री आदि राज्य के अङ्गो में वैमनस्य उत्पन्न कर राजलक्ष्मी को नष्ट कर दिया । अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा । जीवत्येव धवे तस्मिन् विधवेव व्यराजत ॥१०१॥
( २६७ ) अन्वयः अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा तस्मिन् धवे जीवति एव विधवा इव व्यराजत । व्याख्या अपास्तः परित्यक्तो निरस्तो वा कुन्तलानां कर्णाटदेशानां केशानां वोल्लास- स्तत्समुन्नतिः प्रसाधनं वा यया सा वैराग्यं विरक्ततां दधती धारयन्ती धरा पृथ्वी तस्मिन् सोमदेवे धवे पत्यौ जीवत्येव विद्यमानेऽपि विगतो भूतो धवः पतिर्यस्याः सा विधवा सेवं मृतपतिकानार्यिवेव व्यराजत विभाति स्म। कर्णाटदेशरूप- केशानामप्रसाधनादर्थात् कर्णाटदेशस्याऽवनतेः पृथ्वी सत्यपि कर्णाटदेशाधिपे सोमदेवे विधवेव स्थितेति भावः । विधवेव केशप्रसाधनं न करोतीति दिक् । भाषा अपने कर्णाट देश रूपी केशों का शृङ्गार न करने वाली अर्थात् सोमदेव के पापाचरण से कर्णाटदेश की अवनति होने से, विरक्त पृथ्वी सोमदेवरूपी पति के जीवित रहने पर भी विधवा स्त्री के समान दिखाई देती थी । क्योंकि भारत- वर्ष में पहिले काल में सधवा स्त्रियाँ ही केशों का शृङ्गार करती थीं । चक्रुः स्तम्बेरमाः पृष्ठे तदारोहणदूषिते । अभ्युक्षणमिवोदस्त-हस्तशीकरवारिभिः ॥१०२॥ अन्वयः स्तम्बेरमाः तदारोहणदूषिते पृष्ठे उदस्तवस्तशीकरवारिभिः अभ्युक्षणम् इव चक्रुः । व्याख्या स्तम्बेरमा इभाः 'इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः' इत्यमरः । तस्य पापस्य सोमदेवस्याऽरोहणेन तन्निषद्या गतेन दूषिते कलुषीकृते पृष्ठे, उदस्तान्तूर्ध्वं क्षिप्तानि हस्तेन शुण्डादण्डेन शीकरवारीणि जलकणान्युदकानि 'शीकरोऽम्बुकणाः स्मृताः इत्यमरः । तैरुदस्तहस्तशीकरवारिभिरभ्युक्षणं सिञ्चनमिव चक्रुः । अपवित्रस्थानं जलेनाभ्युक्ष्य पवित्रीक्रियते तथैव हस्तिनः पापसोमदेवस्थित्याऽ- पवित्रे पृष्ठे शीकराणि प्रक्षिप्य तत्पवित्रीचक्रुरिति भावः । उत्प्रेक्षालङ्कारः ।
( २६८ ) भाषा हाथी, पापी सोमदेव के बैठने से अपवित्र अपनी पीठ को, ऊपर उछाले हुए अपने सूँड के जलकणों के पानी से मानों पानी छिड़क कर पवित्र करते थे । फालैर्दिव्यमिवागृह्णन् मण्डल भ्रमणोद्यताः । अयोग्यतां साधयितुं तस्य सेनातुरङ्गमाः ॥१०३॥ अन्वयः तस्य अयोग्यतां साधयितुं मण्डल भ्रमणोद्यताः सेनातुरङ्गमाः फालै दिव्यम् इव अगृह्णन् । व्याख्या तस्य सोमदेवस्याऽयोग्यता राजपदानर्हत्वं साधयितुं प्रमाणीकर्तुं मण्डलेन मण्डलाकारेण भ्रमणं परिभ्रमणं तस्मिन्नुद्यतास्तत्परा मण्डले शुचिदेशे यद्भ्रमणं गमनं तत्रोद्यता लग्ना वा सेनाया वाहिन्यास्तुरङ्गमा अश्वाः फालैः स्फालैरुर्ध्वमुत्प्लुत्य गमनैर्दिव्यं शपथमिवाऽगृह्णन् । यथा केचन मनुष्याः कमपि विषयं प्रमाणीकर्तुं पवित्रमण्डले गत्वोत्थाय शपथग्रहणं कुर्वन्ति । तथैव तैरश्वैर्मण्डलाकारभ्रमणव्याजेन पवित्रमण्डलमाश्रित्योत्फालैश्चोर्ध्वमुत्थाय सोमदेवस्याऽयोग्यतां साधयितुं शपथग्रहणमिव कृतम् । अथवा यथा केचि- न्मनुष्याः प्रायश्चित्तग्रहणाय पवित्रमण्डलाह्वयस्थानेषु धावित्वा उत्फालं कुर्वन्त स्तेन च स्वस्य निष्पापतां प्रमाणयन्ति, तथैव मण्डलाकार-क्रीडा-भ्रमणव्याजेन, उत्फालैश्चाश्वाः सोमदेवसंसर्गजन्यपापादात्मानं पापरहितं साधयितुं दिव्यमिवाऽ- कुर्वन्निति भावः । भाषा उस सोमदेव की अयोग्यता सिद्ध करने के लिये उसकी सेना के घोडे मण्डलाकार (गोल) घूमते हुए या प्रायश्चित्त भूमि में घूमते हुए अपनी उछलने की क्रीडा से या प्रायश्चित्त के लिये लम्बी छलाग मारने से मानो दिव्य का ग्रहण करने लगे । अथवा जिस प्रकार कोई मनुष्य खड़ा होकर शपथ ग्रहण करता है उसी प्रकार ये घोड़े गोल घूमते २ बीच २ में उछल कर मानो राजा सोमदेव की अयोग्यता की कसम खा रहे थे ।
( २६९ ) स जातु जातुषीं मेने मन्ये नरपतिश्रियम् । एतद्विलयभीत्येव क्षात्रं तेजो यदत्यजत् ॥१०४॥ अन्वयः सः नरपतिश्रियं जातु जातुषीं मेने (इति अहम्) मन्ये । यत् एतद्विल- यभीत्या इव (सः) क्षात्रं तेजः अत्यजत् । व्याख्या सः सोमदेवो नरपते राज्ञः श्रियं लक्ष्मीं नरपतिश्रियं राजलक्ष्मीं जातु कदाचित् जतुषो लाक्षाया विकारो जातुषी तां जातुषीं लाक्षामयीं मेने विज्ञात- वानित्यहं मन्ये कल्पयामि । यद्यस्मात्कारणादेतस्या लाक्षामयलक्ष्म्या विलयो द्रवीभूतत्वं तस्माद्भीतिस्तया लाक्षामयलक्ष्म्या द्रवीभूतत्वात्तस्या विलयो माऽभूदिति भीत्येव सः सोमदेव क्षात्रं क्षत्रियसम्बन्धि तेजः प्रताप-मत्यजत् तत्याज । उष्णत्वादिति यावत् ।, क्षात्रतेजोहीनस्सञ्जात इति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा मैं समझता हूँ कि सोमदेव ने राजलक्ष्मी को लाख की बनी समझ लिया था । इसी कारण से क्षात्र तेज की गर्मी से कहीं वह पिघल कर नष्ट न हो इस हेतु से उसने क्षात्र तेज को ही छोड़ दिया था। ज्ञातास्वादः स्वयं लक्ष्म्याः पिशाच्या इव चुम्बनात् । रुधिरं कण्ठरन्ध्रेभ्यः सर्वेषामाचकाङ्क्ष सः ॥१०५॥ अन्वयः पिशाच्याः इव लक्ष्म्याः चुम्बनात् स्वयं ज्ञातास्वादः सः सर्वेषां कण्ठ- रन्ध्रेभ्यः रुधिरम् आचकाङ्क्ष । व्याख्या पिशाच्या राक्षस्या इव लक्ष्म्याः श्रियश्चुम्बनात् मुखचुम्बनात् पिशाच्या दधि- रक्तानुरक्तवातस्याः चुम्बनात् स्वयं सोमदेवो ज्ञातोऽनुभूतो रुधिरस्याऽऽस्वादः स्वादुत्वं येन सोऽनुभूतशोणितास्वाद सः सोमदेव सर्वेषां जनानां कण्ठरन्ध्रेभ्यो
( २७० ) गलच्छिद्रेभ्यो रुधिरं रक्तमाचकाङ्क्ष पातुमैच्छत्। प्रजानां महत्कष्टप्रदोभूत्या तासां गलरक्तमपि पातुमैच्छदिति भावः। काव्यलिङ्गमलङ्कारः। भाषा पिशाची के सदृश राजलक्ष्मी का मुख चुम्बन करने से पिशाची के मुख में लगे हुए रक्त के स्वाद का स्वयं अनुभव कर वह राजा प्रजाओ के गले घोंट कर उनका खून पीने की इच्छा करने लगा। अर्थात् कर आदि लगा कर प्रजाओं को अत्यधिक कष्ट देने लगा। उद्धूतचामरोद्दाम—समीरासङ्गिनेव सः। रजसा पूर्यमाणोऽभून्मार्गं द्रष्टुमनीश्वरः ॥१०६॥ अन्वयः उद्धूतचामरोद्दामसमीरासङ्गिना रजसा इव पूर्यमाणः सः मार्गं द्रष्टुम् अनीश्वरः अभूत्। व्याख्या उद्धूतं वेगेन चालितञ्चामरं प्रकीर्णकं 'चामरं तु प्रकीर्णकम्' इत्यमरः। तस्योद्दाम उत्कटः समीरः पवनस्तस्याऽसङ्गः सम्बन्धोऽस्त्यस्येति तत्तेन वेगसंचा- लितप्रकीर्णकजनितोत्कटपवनसम्बन्धेनेव तत्सम्बन्धादायतेनेव रजसा धूल्या रजो- गुणेन वा पूर्यमाणो पूरितनेत्रोऽत्यन्तं संपुष्टो वा स सोमदेवो मार्गं पन्थानं विवेकयुक्तकार्यं वा द्रष्टुमवलोकयितुं विचारयितुं वाऽनीश्वरोऽभूदसमर्थ इत्येत्यर्थः। अभूत् बभूव। भाषा जोर से डुलाए जाने वाले चंवरो से जोर से बहने वाले वायु के सम्बन्ध से उड़ी हुई धूर (आँखो में पड़ जाने से) पक्ष में चंवर डुलाये जाने के राजकीय ऐश्वर्य के सम्बन्ध से उत्पन्न रजोगुण के कारण से वह राजा सन्मार्ग का अवलोकन करने में असमर्थ हो गया। तेजोनिधीनां रत्नानां संभारं धारयन्नपि। बभूव दैवोपहतस्तमःस्तोमैस्तिरोहितः ॥१०७॥
( २७१ ) अन्वयः दैवोपहत (सः) तेजोनिधीनां रत्नाना संभार धारयन् अपि तमस्तोमैः तिरोहितः बभूव । व्याख्या दैवेन विधिना 'दैव दिष्टं भागधेय भाग्य स्त्री नियतिर्विधि ' इत्यमर' । भाग्येनोपह्तो निरस्तो दुर्भोग्यकवलित इत्यर्थ । स सोमदेवस्तेजसां प्रभाणां निधय आकरास्तेषां प्रभाकराणा रत्नाना मणीना सम्भार समूहो धारयन् बहन्नपि तमसामन्धकाराणामज्ञानाना स्तोमैस्समूहैस्तिरोहित प्रच्छन्नो बभूवाऽभूत् ॥ रत्नरूपस्य प्रकाशकारणस्य विद्यमानत्वेऽपि प्रकाशाभावस्य तमसो वर्णनाद्विशे- षोक्तिरलङ्कार । 'विशेषोक्तिरखण्डेषु कारणेषु फलावच' । भाषा दुर्भाग्य से कवलित वह राजा तेजस्वी, व प्रकाश देने वाले रत्नसमूहो को धारण करते हुए भी अन्धकार स (अज्ञान से) आवृत हो गया । उपरि प्रतिबन्धेन ध्यात्वेव नमतोऽखिलान् । अधोगमनमेवासौ विह्वलो बहुमन्यत ॥१०८॥ अन्वयः असौ उपरि प्रतिबन्ध्वेन विह्वलः ( सन् ) अखिलान् नमतः ध्यात्वा इव अधोगमनम् एव बहु अमन्यत । व्याख्या असौ सोमदेव उपरि ऊर्ध्वं प्रतिबन्धेन प्रतिरोधेन गन्तुमक्षमत्वेनाऽखिलान् सर्व्वान् जनान् नमतॊ नति कुर्व्वतोऽधोगच्छतो वा ध्यात्वेव विचार्य्यंवाऽधोगमनमथ पतनमेव बहु नितातोपयोग्ग्यमन्यत धितातवान् । दैवहतंस्य तस्योन्नतिकरण- मसम्भवमिति स्वपुरत सर्व्वान् जनान् प्रणतान् दृष्ट्या सोऽप्यधःपतनमेवोप- योगीति निर्धारितवानिति भाव । उत्प्रेक्षालङ्कार । भाषा यह राजा उन्नति के मार्ग पर आरुढ न हो सकने के कारण घबडा कर सब लोगो को नीचे झुक कर नमस्कार करते हुए देख कर मानो वह नीचे झुकने को अर्थात् अधः पतन को ही उपयोगी समझने लगा ।
( २७२ ) पिशाच इव सर्वेषां छलान्वेषणतत्परः। नासौ किमपि कर्तव्यं विवेद मदमूर्च्छया ॥१०६॥ अन्वयः असौ पिशाचः इव सर्वेषां छलान्वेषणतत्परः (सन्) मदमूर्च्छया किम् अपि कर्तव्यं न विवेद । व्याख्या असौ सोमदेवः पिशाच इव राक्षस इव सर्वेषां जनानां छलस्य कपटव्यवहार- स्यान्वेषणे संपादने तत्परः परायणस्सन् मदेन राजमदेन या मूर्च्छा विवेकाविवेक- शून्यत्वं तया किमपि किञ्चिदपि कर्तव्यं राज्यभारवहनकर्त्तव्यं न विवेद न जानाति स्म । यथा पिशाचः सर्वान् जनान् दुःखयितुं तत्परो भवति तथैवाऽयं राजाऽपि मदेन सर्वाः प्रजाः कपटव्यवहारेण पीडयन् स्वकर्तव्यं न पालयति स्मेति भावः । उपमालङ्कारः । भाषा वह राजा सोमदेव राजमद की बेहोशी में विवेक शून्य हो कर राक्षस के समान सब को कष्ट देने में तत्पर अर्थात् सबके साथ कपट व्यवहार करने में तत्पर होने से अपने कर्तव्य पथ से च्युत हो गया । न्यरज्यत समस्तोऽपि लोभैकवसतेर्जनः । त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥११०॥ अन्वयः समस्तः अपि जनः लोभैकवसतेः (तस्मात्) न्यरज्यत । हि भूपानां त्यागः विश्वसंवननौषधं नाम (अस्ति) व्याख्या समस्तोऽखिलोऽपि जनः प्रजाजनः लोभस्याऽपरग्रहस्यैका वसतिः स्थानं तस्मादत्यन्तलोभसंतप्तात् सोमदेवात् व्यरज्यत विरक्तो जातः स्नेहसाहित्यं संप्राप्त इति भावः । हि यस्मात्कारणात् भूपानां नृपाणां त्यागो लोभरहितदानादिकं विश्वस्य संसारस्य संवननस्य वशीकरणस्य 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । औषधं भेषजं नामाऽस्ति । अर्थान्तरन्यासालङ्कारः ।
( २७१ ) भाषा अत्यन्त लोभी उस राजा सोमदेव से सब प्रजा विरक्त हो गई अर्थात् उससे ई स्नेह नहीं रखता था । क्योंकि राजाओं में, लोभ रहित दानादि क्रिया संसार के समस्त प्राणियों को अपने वश में करलेने का प्रधान औषन है । अकार्येऽपि कुमारस्य तात्पर्यमसनोदसौ । किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥ अन्वयः असौ अकार्ये अपि कुमारस्य तात्पर्यम् अतनोत् । लक्ष्मीसुखमुग्धानां रात्मनाम् असम्भाव्यं किम् । अथवा असौ कुमारस्य अपि अकार्ये तात्पर्यम् अतनोत् । शेषं पूर्ववत् । व्याख्या असौ सोमदेवोऽकार्येऽपि प्रजापीडनरूपदुराचारेवि कुमारस्य विक्रमाङ्कदेवस्य त्पर्यमिच्छामतनोत् प्रकटीचकार । यत्प्रजापीडनं भवति तद्विक्रमाङ्कदेवे- ष्टमेव भवतीति प्रकटीचकारेति भावः । अथवा असौ सोमदेवः कुमारस्याऽपि क्रमाङ्कदेवस्याऽप्यकार्ये मारणे तात्पर्यमिच्छामतनोदकरोत् । अथवा—असौ मदेवः कुमारस्य विक्रमाङ्कदेवस्य तात्पर्यं सद्विचारमप्यकार्येऽसद्विचारेऽतनोत् तवान् परिणतवानित्यर्थः । विक्रमाङ्कदेवस्य सत्परामर्श दोषं निक्षिप्य तं निकरं स्वविरुद्धञ्च गृहीतवानित्यर्थः । यस्मात् लक्ष्म्याः सम्पत्त्याः सुखेनऽऽनन्देन ग्धानां मूढानामज्ञासिनां दुरात्मनां दुष्टस्वभावानां पापरतानामित्यर्थः । त्मानामसम्भाव्यमकरणीयं किम् न किमपीत्यर्थः । अत्रार्थान्तरन्यासो नामा- ङ्कारः पूर्वार्द्धस्योत्तरार्द्धेन समर्थनात् । भाषा राजा सोमदेव अपने किये हुए प्रजापीडनादि बुरे कार्यों में कुमार वक्रमाङ्कदेव की भी सम्मति है ऐसा प्रकट करने लगा । अथवा राजा ोामदेव कुमार विक्रमाङ्कदेव को मारडालने की भी इच्छा करने लगा । अथवा राजा सोमदेव कुमार विक्रमाङ्कदेव की अच्छी सलाह को भी बुरी
( २७४ ) समझने लगा । क्योकि लक्ष्मी के सुख से मूढता को प्राप्त दुष्ट पापियो के लिय क्या अकर्त्तव्य है अर्थात् वे सब प्रकार के अन्याय के कार्य कर सकते हैं । भ्रामयन्नङ्कुशं दर्पात् द्विपेन्द्रमधिरुह्य सः । अख्यातिबीजवापाय चखानेव नभस्थलीम् ॥११२॥ अन्वयः सः द्विपेन्द्रम् अधिरुह्य दर्पात् ऽंकुशं भ्रामयन् अख्यातिबीजवापाय इव नभस्थलीं चखान । व्याख्या स सोमदेवो द्वाभ्यां मुखतुण्डाभ्यां पिबन्तीति द्विपास्तेषामिन्द्र श्रेष्ठं गजेन्द्र- मधिरुह्य समारुह्य दर्पादहङ्काराइङ्कुशं सृणि 'अङ्कुशोऽस्त्री सृणि स्त्रियाम्' इत्यमर । गजनियन्त्रणकारकं शस्त्रं भ्रामयन् संचालयन्नख्यातेर्दुर्यशसो बीजानां वापायेव रोपणायेव नभस्थलीं गगनस्थलीं चखान निखातवान् । हस्तिपका- दङ्कुशं गृहीत्वा दर्पेणाऽभ्रमिषं भ्रामयतस्तस्याऽपकीर्तिर्लोकहास्यञ्च जातम् । तत्कार्यं नभस्थल्यामख्यातिबीजरोपणायेव नभस्थलीकर्षणरूपमिति कविरुत्प्रेक्षते अर्थात् न केवलं पृथ्व्यां किन्तु नभस्थल्यामपि तस्याऽयश प्रसृतमिति भावः । अत्रोत्प्रेक्षालङ्कार । भाषा उत्तम गज पर सवार होकर, अभिमान से अङ्कुश को आकाश में चारो ओर फेरने वाले सोमदेव ने मानो अपयश के बीज को बोने के लिये आकाश रूपी खेत को जोता । अर्थात् इस लोक में ही नही किन्तु ऊर्ध्व लोक में भी उसका अपयश फैल गया । प्रणयप्रवणैवासीत् तस्य श्रीः सपरिग्रहा । परं नाङ्गीकरोति स्म विक्रमाङ्कः कलङ्किनीम् ॥११३॥ अन्वयः सपरिग्रहा श्रीः तस्य प्रणयप्रवणा एव आसीत् परं विक्रमाङ्कः कलङ्किनीं न अङ्गीकरोति स्म।
. ( २७५ ) व्याख्या सपरिग्रहा सपरिच्छदा श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य प्रणयेन प्रेम्णा प्रवणोन्मुखा प्रणयप्रवणा प्रीतितत्परैवाऽऽसीत् । परं किन्तु विक्रमाङ्को विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां नाङ्गीकरोति स्म न स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेवं राजा- सने स्थापयितुमैच्छन् । परं सः सोमदेवसंसर्गादपवित्रं राजासनं न स्वीचकारेति भावः । भाषा यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास उसके प्रेम में तत्पर होकर आ रही थी । अर्थात् मन्त्री लोग सोमदेव को राज- गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु उसने उस गद्दी को सोमदेव के संसर्ग से कलङ्कित समझ स्वीकार नहीं किया । बहुना किं प्रलापेन तथा राज्यं चकार सः । यथेन्दुमित्रे चालुक्य-गोत्रे प्राप कलङ्कताम् ॥११४॥ अन्वयः बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्य- गोत्रे (सः) कलङ्कतां प्राप । व्याख्या बहुना प्रलापेनाऽतिसंजल्पनेन किं किं प्रयोजनं न किमपीत्यर्थः । स सोमदेव- स्तथा तादृशं राज्यं राजकार्यं चकार कृतवान् यथा येनेन्दुमित्रे चन्द्रसदृशधवले चालुक्यगोत्रे चालुक्यनृपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः । अनेनैव धवले चालुक्यवंशे कलङ्कः स्थापित इति भावः । भाषा अधिक कहने से क्या लाभ ? सोमदेव राजा ने ऐसा राज्य किया जिससे चन्द्रमा के सदृश निर्मल चालुक्य वंश में यह कलङ्क हो गया । न शशाक निराकर्तुमग्रजस्य दुराग्रहम् । राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥
( २७६ ) अन्वयः (सः) अग्रजस्य दुराग्रहं निराकर्तुं न शशाक । राज्यग्रहगृहीतानां मन्त्रः कः भेषजं च किम् (अस्ति) । व्याख्या स विक्रमाङ्कदेवोऽग्रजस्य ज्येष्ठभ्रातुर्दुराग्रहं दुराचारं प्रजापीडनरूपं निराकर्तुं दूरीकर्तुं न शशाक न समर्थो बभूव । राज्यमेव ग्रहो दुष्टग्रहः पिशाचा- दिर्वा तेन गृहीतानामाक्रान्तानामाविष्टानां वा नृपाणां मन्त्रो ग्रहपिशाचादिदूरी- करणमन्त्रविशेषः को, न कोऽपीत्यर्थः । भेषजमौषधं च किम् न किमपीत्यर्थः । राजमदेनाऽऽविष्टानां नृपाणां कृते न कोऽप्युपाय इति भावः । भाषा कुमार विक्रमाङ्कदेव अपने बडे भाई के दुराचार को न रोक सका । राज्य रूपी क्रूर ग्रह से या पिशाचादि से गृहीत या आविष्ट राजाओ के लिये न कोई मन्त्र है न दवा है । अचिन्तयच्च किं कार्यं विपर्यस्तधियामुना । अकीर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥११६॥ अन्वयः विपर्यस्तधिया अमुना किं कार्यम् अत्र अकीर्तिसंविभागस्य पात्रतां गमिष्यामि (इति) च अचिन्तयत् । व्याख्या विपर्यस्ता विपरीता धीर्बुद्धिर्यस्य तेन विपर्यस्तधिया 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मति.' इत्यमरः । विपरीतबुद्धियुक्तेनाऽमुना सोमदेवेन किं कार्यं मम किं प्रयोजनम् न किमपीत्यर्थः । अत्राऽस्मिन् स्थानेऽकीर्तेर्दुर्यशसः संविभागस्यां- शस्य पात्रतां भाजनत्वं गमिष्यामि प्राप्स्यामि इति चाऽचिन्तयद्विचारितवान् । सोमदेवेन पापरतेन सहाऽवस्थितो तेन सहाऽहमपि दुर्यशसोंऽशस्याऽऽश्रयो भविष्यामीति च विचारयामासेति भावः ।
( २७७ ) भाषा विपरीत अर्थात् निर्विवेक बुद्धिवाले सोमदेव से मुझे क्या करना है और यहाँ रहने से मैं भी दुर्याश के कुछ अंश का भागी हो जाऊँगा, ऐसा विक्रमाङ्कदेव ने विचार किया । 'त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः । तदितः साधयाम्येष दक्षिणाम्बुधिसम्मुखः ॥११७॥ अन्वयः ( यत् सत्पुरुषाः) उत्पथगामिनः गुरोः त्यागम् एव प्रशंसन्ति । तत् एषः ( अहम् ) दक्षिणाम्बुधिसम्मुखः सन् इतः साधयामि । व्याख्या यद्यस्मात्कारणात् ( सत्पुरुषा ) उत्पथ कुमार्गं गच्छतीत्युत्पथगामी तस्योत्पथ- गामिन कुमार्गस्थितस्य गुरो पूज्यस्य ज्येष्ठस्य त्याग सर्वथैवाऽसहयोगमेव प्रशंसन्ति समाद्रियन्ते । तत्तस्मात्कारणादेषोऽह विक्रमाङ्कदेवो दक्षिणाम्बुधेर्द- क्षिणसमुद्रस्य सम्मुख उन्मुखस्सन्नितोऽस्मात्स्थानात् साधयामि गच्छामि । भाषा बड़ा के कुमार्गगामी होने पर उनका त्याग करना ही सज्जन लोग ठीक समझते हैं । इसलिये मैं यहाँ से दक्षिण समुद्र की ओर चला जाऊँगा । मया निपीड्यमानास्ते निविडं द्रविडादयः । आर्यं विपर्यस्तमपि प्रभवन्ति न बाधितुम् ॥११८॥ अन्वयः मया निबिडं निपीड्यमानाः ते द्रविडादयः विपर्यस्तम् अपि आर्यं बाधितुं न प्रभवन्ति । १ गुरोरप्यवलिप्तस्य कार्याकार्यमजानन । उत्पथप्रतिपन्नस्य परित्यागः विधीयते ॥ इत्युक्ते ।
( २७८ ) व्याख्या मया विक्रमाङ्कदेवेन निबिडमत्पन्तं निपीड्यमानास्संबाध्यमानाः पराजिता इत्यर्थः । ते द्रविडादयो द्रविड़देशनृपतिप्रभृतयो विपर्यस्तमत्याचारिणमप्याश्चर्यं ज्येष्ठभ्रातरं सोमदेवं बाधितुं पीडयितुं विजेतुमित्यर्थः । न प्रभवन्ति न समर्था भविष्यन्ति । दुराचारिण्यपि भ्रातरि सहजस्नेहात्तस्त दुराचारेण सम्भाविता- क्रमणकारिषु स्वयमाक्रमणं कृत्वा भ्रातूरक्षणाद्विक्रभाङ्कदेवस्य महापुरुषत्वं व्यज्यते । दुराचारिणां राज्ञां पराजयोऽपि ध्वन्यते । भाषा दक्षिण समुद्र की ओर जाकर द्रविड देश के राजा आदि को खूब पीसूंगा अर्थात् हराऊंगा जिससे कुमार्ग में प्रवृत्त भी मेरे बड़े भाई को वे तग न कर सकेंगे अर्थात् परास्त न कर सकेंगे। इति स मनसा निश्चित्यार्थं चुलुक्यशिखामणिः श्रवणसरणिं, भिन्दन्भेरीरवेण विनिर्ययौ । अपि च कुपितः क्ष्माभृत्सेनागजेषु निजेषुभिः कतिषु विदधे धैर्यध्वंसं न साहसलाञ्छनः ॥११६॥ अन्वयः -चुलुक्यशिखामणिः सः इति अर्थं मनसा निश्चित्य भेरीरवेण श्रवण- सरणिं भिन्दन् विनिर्ययौ । अपि च साहसलाञ्छनः कुपितः (सन्) निजेषुभिः कतिषु क्ष्माभृत्सेनागजेषु धैर्यध्वंसं न विदधे । व्याख्या चुलुक्यस्य चालुक्यवंशस्य शिखामणिश्चूडारत्नं स विक्रमाङ्कदेव इति पूर्वोक्त- प्रकारेणार्थं सर्वं वस्तुजातं मनसा हृदयेन निश्चित्य निर्धार्य भेर्या दुन्दुभे रवेण नादेन ‘भेरी स्त्री दुन्दुभिः पुमान्’ इत्यमरः । श्रवणयोः कर्णयोः सरणिं रन्ध्रं भिन्दन् विदारयन् विनिर्ययौ विनिजंगाम । अपि चाऽन्यच्च साहसमेवोत्साह एव लाञ्छनं चिह्नं यस्य सः साहसलाञ्छन उत्साहप्रती कुपितस्सन् क्रुद्धस्सन् निजेषुभिस्स्वकीयबाणैः कतिषु कियत्सु क्ष्माभृतः नृपस्य सोमदेवस्य सेनाया वाहिन्या गजा हस्तिनस्तेषु धैर्यस्य धीरताया ध्वंसं विनाशं न विदधे न कृतवान् ।
( २७९ ) किन्तु सर्वेषां नृपसेनागजानां धैर्यनाशं चक्रे। हरिणीच्छन्दः। 'रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात्। भाषा चालुक्य वंश के शिरोभूषण विक्रमाङ्कदेव ने मन में ऐसा निश्चय कर दुन्दुभी के निनाद से कान के पडदो को फाड़ते हुए, प्रस्थान कर दिया। साथ ही साथ साहसव्रती उसने क्रुद्ध होकर अपने बाणो से राजा की सेना के जितने ही हाथियो का धैर्य भग्न नही किया अर्थात् राजा सोमदेव की सेना के सब हाथियो को बाण मार कर भगा दिया। प्रत्यक्ता मधुनेव काननमही मौर्वीव चापोज्झिता शुक्तिर्मौक्तिकवर्जितेव कविता माधुर्यहीनेव च। तेनैकेन निराकृता न शुशुभे चालुक्यराज्यस्थितिः सामर्थ्यं शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः ॥१२०॥ अन्वयः एकेन तेन निराकृता चालुक्यराज्यस्थितिः मधुना प्रत्यक्ता काननमही इव, चापोज्झिता मौर्वी इव, मौक्तिकवर्जिता शुक्तिः इव, माधुर्यहीना कविता इव च न शुशुभे। शुभजन्मनां सामर्थ्यं कथयितुं कस्य वाग्विस्तरः (अस्ति)। व्याख्या एकेन तेन केवलमेकेनैव तेन विक्रमाङ्कदेवेन निराकृता परित्यक्ता चालुक्यस्य चालुक्यराजवंशस्य राज्यस्थिति राज्यदशा राज्यमर्यादा वा मधुना वसन्तेन चैत्रेण वा 'स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः। प्रत्यक्ता प्रकर्षण त्यक्ता काननस्याऽ- रण्यस्य 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। मही भूमिरिव, चापेन धनुषोज्झिता दूरीकृता मौर्वी इवेव, "मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। मौक्तिकैर्मुक्ताभिर्वर्जिता रहिता शुक्तिरिव मुक्तास्फोट इव 'मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः। माधुर्येण माधुर्यगुणेन हीना विरहिता कविता काव्यमिव, च न शुशुभे न शोभिता बभूव। शुभं माङ्गलिकं जन्म जनुर्येषां ते शुभजन्मानस्तेषां 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव' इत्यमरः। सामर्थ्यं शक्तिं कथयितुं