भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥२३७॥

द्वि० खं० अ० ८५

नमस्करधूपदीपान्न सम्पदा ॥ ३ ॥ एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ॥ पीतवासास्ततो भूत्वा मत्स्यकुल्माषसूकरैः ॥ ४ ॥ सुराक्रसरसंयुक्तैः स्नानेनोक्ताशामुखस्थितः ॥ बलिं निर्व्वर्तये द्वाग्जाञ्जु हुत्वा ततः क्षितौ ॥ ५ ॥ ततोद्यादशनिः पुष्पैर्मूलैः पक्षीभिरेव च ॥ सुवर्णगर्भं च मणिं विद्वांश्शिरसि धारयेत् ॥ ६ ॥ कुर्व्वेतत्सर्व्वं कर्म कृषिं बहुफलां लभेत् ॥ दक्षिणा चात्र दातव्या मूलानि च फलानि च ॥७॥ पीतानि चैव वस्त्राणि कनकं रजतं तथा ॥ भोजनं चात्र दातव्यं ब्राह्मणानामभीप्सितम् ॥ ८ ॥ अलंध्यम्यूलमिदं हि कुर्व्वन्स्नानं सदा भार्गव वंशमुख्य ॥ कृषिं समान्नोति सदैव विद्वानभ्यर्थितं नात्र विचारमस्ति ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्या- ने मूलस्नानवर्णनो नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥ राम उवाच ॥ धर्ममार्गमहं त्वत्तः श्रोतुमिच्छामि मे वद ॥ त्वं हि वेत्थ महाभाग सर्वं धर्मानशेषतः ॥ १ ॥ पुष्कर उवाच ॥ षोडशर्तुं निशाः स्त्रीणामाद्यास्तिस्रस्तु गर्हिताः ॥ ब्रजेद्युग्मासु पुत्रार्थी ततः परिमितै श्रितैः ॥ २ ॥ अयुग्मासु तथा राम दुहितार्थी स्त्रियं ब्रजेत् ॥ विकृष्टयुग्मासुत ये प्रशस्ताः प्रियदर्शनाः ॥ ३ ॥ दीर्घायुषो धर्मपरा भवन्तीह धनान्विताः ॥ गर्भास्य दृष्टाधाने गर्भाधानिकमुच्यते ॥ ४ ॥ पुरा तु स्पर्शनं कार्यं सेवनं तु विचक्षणैः ॥ षष्ठेऽष्टमे वा सीमन्तकर्मस्वेतेषु च त्रिषु ॥ ५ ॥ पुन्नामधेयं नक्षत्रं पुत्रकामस्य शस्यते ॥ आदित्यपुष्यहस्ताश्वित्रिसौम्यमृदुलाः सर्वेष्ववाः ॥ ६ ॥ पुन्नामधेया निर्द्दिष्टाः स्वातिश्चैवात्र सप्तमम् ॥ अङ्गारकदिनं वर्ज्यं तिथिं रिक्तां च वर्जयेत् ॥ ७ ॥ अचिद्वन्नाभ्यां कर्त्तव्यं जातकर्म विचक्षणैः ॥ आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ॥ ८ ॥ अथवा भार्गवश्रेष्ठ दिने द्वादशलक्षणे ॥ मृदुध्रुवेषु ऋक्षेषु नामकर्म विधीयते ॥ ९॥ तत्राप्यङ्गारकदिनं तिथिं रिक्तां च वर्जयेत् ॥ नामधेयं तु वर्णानां कर्तव्यं तु समाक्षरम् ॥१०॥ माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलोन्वितम् ॥ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्॥ ११॥ शर्म वर्म धनाद्यं तु दासांतं चानुपूर्वशः ॥ नामधेयं तु कर्तव्यं स्वकुलाख्यागमेन वा ॥ १२ ॥ स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ॥ नाम कार्यं महाभाग न कार्यं विषमाक्षरम् ॥ १३ ॥ बालं तु कृतनामानं पूजयितस्य गदाभृतः ॥ निवेद्येन्महाभाग तव पुत्रोऽयमित्युत ॥ १४ ॥ शिष्यः प्रेष्यश्च दासश्च संविभाज्यश्च केशवः ॥ नित्यं सन्ति विभागेन कुभेन मधुसूदनः ॥ १५ ॥ ततस्तु पूजनं कार्यं ब्राह्मणानां यथाविधि ॥ भोजयेद्ब्राह्मणांश्चान परमात्नं सदक्षिणम् ॥ १६ ॥ चूडाकर्म ततः कार्यं शुभेषुच यथाकुलम् ॥ नक्षत्राण्यत्र शस्यन्ते मृदुक्षिप्रचराणि च ॥ १७ ॥ तिथिं विवर्जयेद्रिक्तां सूर्य्यार्काकिदिनान्यपि ॥ तत्रापि वासुदेवस्य पूजां कृत्वा विशेषतः ॥ १८ ॥ गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनयनम् ॥

॥२३७॥

गर्भादेकादशे राज्ञः गर्भाच्च द्वादशे विशः ॥ १९ ॥ चूडाकर्मणि यः प्रोक्तः कालः सोऽत्रापि शस्यते ॥ नक्षत्राणां यथोक्तानां मुहूर्तानां शुभप्रदाः ॥ २० ॥ षोडशाब्दे हि विप्रस्य राजन्यस्य द्विविंशतौः ॥ विंशतैश्र्च चतुष्के तु वैश्यस्य परिकीर्तितम् ॥ २१ ॥ सावित्री नातिवर्तेत अत ऊर्ध्वं निवर्तते ॥ विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ॥ २२ ॥ सावित्रीपतिता ब्रात्या व्रात्यस्तोमेक्रमादृते ॥ मुञ्जरथ्य बिल्वजानां च क्रमान्मौञ्जः प्रकीर्तितः ॥ २३ ॥ मार्जारव्याघ्रचर्माणि वस्त्राणि व्रतचारिणाम् ॥ पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः॥२४॥ कंवर्दशललाटांस्तुल्याः प्रोक्ताः क्रमेण तु ॥ अश्वत्थः सर्व्वतः सर्वे नाभिमुष्कास्तथैव च ॥ २५ ॥ वासोपवीतकार्पासक्षौमोर्णानां यथाक्रमम् ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ॥ २६॥ प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् ॥ पूजयेदन्नमद्याद्देवं च तत्र देवं विशेषतः ॥ २७ ॥ दृप्तौ केशं व्रतंश्च सर्वविन्नंबरं प्रभुम् ॥ यथोक्तेषु च ऋक्षेषु त्रैविद्यं कारयेद्गुरुः ॥ २८ ॥ नैवाधिकारो वेदे स्याद्विना त्रैविद्यकेन तु ॥ स्त्रीणां संस्कार मत्रोक्तं सकृत्कार्यं विजानता ॥ २९ ॥ क्षेत्रसंस्कारमेतद्धि सकृदेव विधीयते ॥ संस्काराणि पिता कुर्यान्नम्वलम्बान्वनात्मनः ॥ मेखला बन्ध नाद्यानि कार्याणि गुरुणा तथा ॥३०॥ सर्वाणि कार्याणि हि लौकिकेश्र्चौ स्वकल्पमालोक्य भृगुप्रधान ॥ सर्वेषु पूजा च तथा विधैया तस्याप्रमत्तस्य जनार्दनस्य॥३१॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने संस्कारवर्णनो नाम पञ्चाशीतितमोऽध्यायः॥८५॥

पुष्कर उवाच ॥ उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥ आचारमभिकार्यं च सन्ध्योपासनमेव च ॥ १ ॥ प्रयुतः कृत्यमुत्थाय स्नातौ हुत हुताशनः ॥ भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम् ॥२॥ पुरोस्तु वामं चरणं वामहस्तेन संस्पृशन् ॥ दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन् ॥ ३ ॥ अनुज्ञातरतु गुरुणा ततोऽध्ययनमाचरेत् ॥ कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमभान्तः ॥ ४ ॥ ब्रह्मयज्ञाने प्रारम्भे प्रणवं चैव कीर्तियेत् ॥ अनध्यायोध्वयनं वर्जयत्तु प्रयत्नतः ॥ ५ ॥ भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥ गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥ ६ ॥ आयुष्यं प्राङ्मुखो भुङ्के यशस्यं दक्षिणामुखः ॥ श्रियः प्रत्यङ्मुखो भुङ्के ऋतं भुङ्के ह्युदङ्मुखः ॥ ७ ॥ हितं प्रियं गुरोः कुर्यात्त्रस्त्यहंकारवर्जितः ॥ अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ॥ ८ ॥ अभिवाद्य गुरुं पश्चादहोरवचनंकृद्वेत् ॥ प्रद्युम्नो साञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ॥ ९ ॥ हिंसां परापवादं च अश्लीलं च विशेषतः ॥ मेखलामजिनं दण्डं धारयन्प्रयतः सदा ॥ १० ॥ विनष्टानप्सु निक्षिप्य तथान्यान्धारेयत्पुनः ॥ आदित्ती नोदकं कुर्यादावतस्य समापनात् ॥ ११ ॥ समाप्ते तु व्रतं कुर्याद्रान्नेण शुद्ध्यति ॥

द्वि० खं०
अ० ८९

वि० ध०

अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥ १२ ॥ एवं व्रतं तु कुर्वीत वेदस्वीकरणं द्विजः ॥ गुरवे दक्षिणां दत्त्वा स्नायाच्च तदनन्तरम् ॥१३॥
आशरीरविमोक्षाद्वा वसेद्गुरुकुले सदा ॥ नैष्ठिको ब्रह्मचारी च वायुभूतः स्मृतिम्र्मान् ॥१४॥ तत्पदं समवाप्नोति यत्र गत्वा न शोचति ॥ स्नाने चैव
सगोदाने कालः पूर्वो विधीयते ॥ पूजनं वासुदेवस्य सर्व्वं च विधीयते ॥ १५॥ संपूज्य देवं गुरवे च दत्त्वा धनं यथावत्परिपूर्णविद्यः ॥ गृहाश्रमी
स्याद्द्विधिवन्नृसिंह पुत्राय लोकद्वितयं प्रदिष्टम् ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने ब्रह्मचर्य्य
वर्णनो नाम पडशीतितमोऽध्यायः ॥ ८६ ॥ पुष्कर उवाच ॥ विप्रश्चतस्रो विन्देत भार्य्यास्तिस्रस्तु भूमिपः ॥ द्वे च वैश्यस्तथा कामं भार्य्यमेकामपि
चान्त्यजः ॥ १ ॥ ब्राह्मणी क्षत्रिया वैश्या शूदी विप्रस्य कीर्तिताः ॥ क्रमेण कामसक्तस्य विवाहाः परिकीर्त्तिताः ॥२॥ विवाहमुक्तान्प्राकृत्वा नरकं
प्रतिपद्यते ॥ धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ॥३॥ असवर्णा तु या नारी रत्यर्थं सा प्रकीर्त्तिता ॥ आधानं तस्य धर्मार्थं न प्रशंसन्ति
साधवः ॥ ४ ॥ पाणिग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ॥ वैश्या प्रतोदमादद्याद्दशां च्वान्त्यजा तथा॥५॥ उत्सृष्ट्वेदंन्येड्डन्त्येत्तद्विद्वानं परिकीर्त्ति
तम् ॥ सकृत्कन्या प्रदातव्या हरंस्तां चौण्डभाक् ॥ ६ ॥ न कन्याविक्रयं कार्यं कदाचिदपि केनचित् ॥ केशविक्रयिणो यान्ति नरकानेक
विंशतिंन॥७॥ अपत्यविक्रयत्तात्य निष्कृतिर्न विधीयते ॥ कन्याप्रजीविनश्चैवोपजीवति यः पुमान् ॥ ८ ॥ न तच्छुल्कं समुद्दिष्टमन्वांशंयं
हि तत्स्मृतम् ॥ कन्यादानं शचीयाणो विवाहोऽथ चतुर्विधिका ॥ ९ ॥ विवाहमेतत्कथितं राम कर्मचतुष्टयम् ॥ दत्तामपि हरेत्कन्यां
वरश्चेदोषभागभवेत् ॥ १० ॥ नष्टे मृते प्रब्रजिते क्लीबेऽथ पतितेऽपतौ ॥ पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ ११ ॥
मृते तु देवरं देया तदभावे यदृच्छया ॥ पूर्वान्नियमयामंध्रं वायव्यं चौतरात्रवम् ॥ १२ ॥ रोहिणी चेति वरुणं भगणः शस्यते सदा ॥
नैकगोत्रां च वरयेन्नैकार्षापणीं च भार्गव ॥ १३ ॥ पितृतः सप्तमादूर्ध्वं पञ्चमात्तथा ॥ वरयेल्लक्षणोपेतां सदा लोकहृद्येच्छया ॥ १४ ॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥ १५ ॥ आहुः प्रदानं ब्राह्मेण कुलशीलयुताय तु ॥ तजः
पुनात्युभयतः पुरुषानकविंशतिम् ॥१६॥ दैवश्च ऋत्विजे दानं स तु यज्ञः प्रकीर्त्तितः ॥ तजः पुनाति धर्मज्ञ स्वकुले पुरुषत्रयान्॥ १७॥ शुल्केन
चासुरं विद्यात्सु तु धर्माद्वते मतः ॥ परस्परेंच्छया राम कन्यकावरयोस्तथा ॥ १८ ॥ गान्धर्वो नाम निर्दिष्टः स तु मन्मथलक्षणः ॥ राक्षसो युद्धह
रणात्पैशाचः कन्यकाछलात् ॥ १९॥ प्राजापत्यस्तथा बाह्यः समवर्णेपु पूज्यते ॥ दैवस्तु ब्राह्मणस्यैव नैव चान्यस्य कस्यचित् ॥ २० ॥

॥२३८॥

गान्धर्वराक्षसौ श्रेष्ठौ क्षत्रियस्यैव भार्गव ॥ पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम ॥ २१ ॥ वैवाहिकैर्ऋक्षैः कुर्यात् कुम्भकारमृदा शचीम् ॥ सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना ॥ २२ ॥ तां नयेत्सरसस्तीरं नदीतीरमथापि वा ॥ सर्वभूषणसम्पन्ना सर्वास्त्वित्थंविवाहाः स्त्रियः ॥ २३ ॥ कौसुंभरक्तवसनाः सर्वाः स्युः शास्त्रपाणयः ॥ माल्यानुलेपनैर्गन्धैर्धूपैःपुष्पैस्तथैव च ॥ २४ ॥ कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्च शक्तितः ॥ ततः प्रपूज्य ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम् ॥ २५ ॥ संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम् ॥ वाद्यगीतेन महता द्विजवाचनकेन च ॥ २६ ॥ गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिन्दिताम् ॥ त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा ॥ २७ ॥ वन्दिनीगोदाहसमये तत्र कालं निबोध मे ॥ प्रसूते केशवे राम न तु कार्यं कथञ्चन ॥ २८ ॥ न पौषे न तथा चैत्रे न चार्ककुजवासरे ॥ कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्रस्य भार्गव ॥ २९॥ तथा रिक्तातिथौ नैव न विष्टौ करणे तथा ॥ न शुक्रोऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ ॥३०॥ शशांकेऽन्यग्रहाक्षैव विवाहो न प्रश- स्यते ॥ अर्कर्क्षाद्भौमयुक्ते वै व्यतीपातहते तथा ॥३१॥ दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते ॥ तथा शिशिरांश्वास्ते सैंहिकेययुते तथा ॥३२॥ वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम ॥ सौम्यं पित्र्यं च वायव्यं सावित्रं रोहिणं तथा ॥३३॥ उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च ॥ मुहूर्त्तांश्च तथैतेषां शुभा अभिजिता सह ॥३४॥ मातृव्याख्यास्तथा लग्ने मातृव्याख्यास्तथांशकः ॥ अमावास्यास्य लग्नेऽपि मातृव्याख्यांशको हितः ॥३५॥ तृतीये च तथा षष्ठे दशमेकादशाष्टमे ॥ अर्कार्कभोमतनयाः प्रशस्ता न कुजोत्तमः ॥ ३६ ॥ सतान्त्याष्टमयोज्ञेषु शेषाः शस्ता ग्रहोत्तमाः ॥ तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ॥ ३७ संकल्पविधिना कार्यो विवाहस्तदनन्तरम् ॥ वैवाहिकैर्ऋक्षैः कर्तव्यास्त्वथैव च चतुर्थिके ॥ ॥ ३८ ॥ न दातव्या महात्मना चतुरोद्वाहस्तथैकगाः ॥ अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम् ॥ ३९ ॥ पर्ववर्ज्यं सदा गच्छेदृतीणां वा सं- स्मरन्भवम् ॥ सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम ॥४०॥ परस्परातिक्रमणं दंपत्योः परिवर्जयेत् ॥ निष्कासनं तथा राम न कार्यमर्थिविद्- नम् ॥४१॥ अप्रजा रोगिणी मूढा तथा च कलहप्रिया ॥ कन्याप्रजा तथा या च या चैवाप्रियवादिनी ॥ ४२ ॥ एताः खल्विह विवक्तव्या गृहकार्यप- राङ्मुखीः ॥ अधिविन्ना विशेषेण पालनीया सुतं भवेत् ॥४३॥ धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत् ॥ धर्मार्थी समौ राम दम्पत्योरुभ- यात्मकौ ॥ ४४॥ पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य ॥ धर्मार्थकामान्सततं द्विजेन्द्र तांश्चेत्समन्यानानया स्वान् ॥ ४५ ॥


१ 'तिथावपि तथारिक्ते' इति ख० ।

वि० ध०
दि० ख०
अ० ८८
॥२३१॥

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्तशीतितमोऽध्यायः ॥ ८७ ॥ पुष्कर उवाच ॥
निद्रां जह्याद् गृही राम नित्यमेवाशूगोदये ॥ वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम् ॥ १ ॥ स्नानं समाचरेत्प्रातः सर्वकल्मषनाशनम् ॥
वेगोत्सर्गं न कुर्वीत फालकृष्टे तथा शुचौ ॥ २ ॥ गोष्ठे न चार्थो न तटे द्रुमच्छायासु शाद्वले ॥ पथि भस्मनि तोये च नग्नेन न च
गोपथे ॥ ३ ॥ नान्यर्कोनांगनातोयेषु प्रतिवाते तथैव च ॥ न वेगतो न कार्येण वेगोत्सर्गं समाचरेत् ॥ ४ ॥ उदङ्मुखस्तु
सन्ध्यासु दिवा च भृगुनन्दन ॥ दक्षिणामिमुखो रात्रौ नाकाशे तु कथञ्चन ॥ ५ ॥ कर्णस्थब्रह्मसूत्रस्तु बद्धाच्छादितमस्तकः ॥
अभ्युद्धृताभिरिद्भिस्तु शौचं संमाचरेत्त ॥ ६ ॥ कृतशौचः शुचौ देशे प्राङ्मुखः सुसमाहितः ॥ उदङ्मुखस्त्व धर्मज्ञ तथान्तर्जलोदरेव
च ॥ ७ ॥ उपस्पृशेच्च धर्मज्ञ शुद्धपादकरः सदा ॥ एकहस्तापितेनाऽथ फेणबुद्बुदिना तथा ॥ ८ ॥ अविपक्वेन तोयेन नतु नोपस्पृशेद्वुधः ॥
अङ्गुष्ठस्य भवेद्देवं ब्राह्ममङ्गुलिमूलके ॥ ९ ॥ पैत्रं तर्जनिमूले स्यात्कनिष्ठान्याश्च मातुलम् ॥ ब्राह्मेण त्रिः पिबेदापः प्रमृज्यात्तु ततो मुखम् ॥ १० ॥
वायुद्भिः संस्पृशेत्पश्चाश्यूर्ध्वान नाभिमथ च ॥ उपस्पृश्य ततः पश्चादक्षयेद्दन्तधावनम् ॥ ११ ॥ भुक्त्वा च निर्लेपद्रुमं नित्यमेव समाहितः ॥
उदङ्मुखः प्राङ्मुखो वा न गाम्याशायराद्यमुखः ॥ १२॥ मांसंमक्ष भक्षयेच्च नोर्धशुष्कं न पिच्छलम्॥ सुशिरं मधुरं चाम्लं वित्वचं पत्रसंयुतम्॥ १३॥
समपर्वमथात्स्यूलं कुब्जंकीटविनाशितम् ॥ शाल्मल्व्यश्वत्थमथ्यत्नां धवकिंशुकयोरपि ॥ १४॥ कोविदारशमीपीलुश्लेष्मातकविभीतकान् ॥ वर्जयेद्
न्तकाष्ठेषु गुग्गुलं कुसुकं तथा ॥ १५॥ वटासनार्कखदिरात्कवीरांश्च भक्षयेत् ॥ जात्यश्वबिल्वबदरं मूलं च कुकुमस्य च ॥ १६॥ अरिमंदं प्रियङ्गुं च
कण्टकिन्याश्च भार्गव ॥ प्रक्षाल्य भक्षयेत्पूर्वं प्रक्षाल्यैव च संत्यजेत् ॥ १७॥ पतितेऽमिदग्धुधवं शस्तं शान्ताशान्तिमुखे दिनम् ॥ सौभाग्यकामो वर्जयेत्
भक्षयेन्नाकुकं सुप्सयतः ॥ १८॥ मुखभागेन धर्मज्ञ वाग्यतश्चैव भक्षयेत् ॥ मलशौचं ततः कृत्वा सम्यक् स्नानमथाचरेत् ॥ १९ ॥ न स्नातनमात्र्य
रेद्बुध्वा नाविज्ञाते जलाशये ॥ नातुरो नाशुचैनेरानाक्रान्ते नभस्तले ॥ २०॥ अप्रशस्ते निशि स्नानं राहोरन्यत्र दर्शनात् ॥ परांभसि तथैवाल्पे
नासिरस्कः कथञ्चन ॥ २१ ॥ नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥ क्रियास्नानं तथा षष्ठं पोडा स्नानं प्रकीर्तितम् ॥ २२ ॥ स्नाति रात्रौ
शयानस्य स्रवन्ति पुरुषस्य चा॥तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्॥२३॥प्रातःस्नायी सदा राम नर्कं न च पश्यति ॥ यः करोति सदा
राम स्नानं तु सवनद्वयम् ॥ २४ ॥ स तु स्वर्गमवाप्नोपि त्रिदशैरपि पूज्यते ॥ तथा त्रिषवणस्नायी स्वर्गलोके महीयते ॥ २५ ॥ मानुष्यं

॥२३१॥

प्राप्य भवति रूपयौवनसंयुक्तः ॥ धनधान्यवति स्फीते कुले चैव प्रसूयते ॥ २६॥ रूपौदार्यगुणोपेताः प्रियश्लाघ्यात्यनिन्दिताः ॥ धर्मे मतिश्वास्य भवेद्यशसा च विराजते ॥ २७ ॥ तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव ॥ स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय ॥२८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करेणोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः ॥ ८८॥ पुष्कर उवाच॥ माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत् ॥ नान्यत्र धारयेन्मालो बहिर्गन्ध्यं न धारयेत् ॥ १॥ यच्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव ॥ कण्टकियोऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत् ॥२॥ कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे ॥ चन्दनेनानुलेपेन कुङ्कुमागुरुभिस्तथा ॥३॥ कर्पूरेण तथाङ्गालि शुभेन च प्रियङ्गुना ॥ वस्त्रं नान्यधृतं धार्यं न रक्तं मलिने तथा ॥४॥ जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः ॥ उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत् ॥ ५ ॥ हीनेन्द्रिरीकांश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ व्यालैर्दन्तावहैश्च न ब्रजेच्च कदाचन ॥ ६ ॥ स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ नैकः प्रपद्येद्ध्वानं नाद्यान्मार्कसहायवान् ॥ ७ ॥ न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति ॥ न चातिविपमे वाते सन्ध्वयोश्च तथा द्विज ॥ ८ ॥ नासन्निरूहितपाने वा न वेगान्न च सन्ततम् ॥ सातपश्छत्रदात्राणः सोष्णीषश्च तथा चरेत् ॥ ९ ॥ चतुष्पथं न सः कुर्याद्दिव्यान्तांश्च वनस्पतीन् ॥ मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम् ॥ १० ॥ अमङ्गल्यानि वामानि कर्तव्यानि विजानता ॥ वस्त्रस्य भूमिपालस्य स्नातकस्याथ चक्रिणः ॥ ११॥ भारक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः ॥ व्यालयुद्धं न चेक्षेत विना विषममास्थितः ॥१२॥ न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि ॥ तिरस्कृतं तु वस्त्रेण न क्रुद्धस्य गुरोर्मुखम् ॥ १३॥ न स्त्रीं स्रवन्ती नोदक्यां न नग्नां नान्यसङ्ग ताम् ॥ न पत्नीं भोजनस्वप्नस्नानासक्तां विसूपणाम् ॥ १४ ॥ नाञ्जयन्तीं स्वके नेत्रे नरश्लीलं किञ्चिदेव तु ॥ नानास्थानं न पश्येच्च न पश्येच्च महानसम् ॥ १५॥ जलाशयस्तटस्थांश्च न पश्येत्तु कदाचन ॥ हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ १६ ॥ व्यालैर्दन्तावैश्च न ब्रजेत् कदाचन ॥ स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ १७ ॥ चतुष्पथस्तुपादाङ्गारशन्त्यवेश्मवाटवीस्तथा ॥ १८ ॥ कार्पासास्थि तथा भस्म नाक्रमेदश्व कुस्तितम् ॥ अन्तःपुरं ऋतुगृहं परदूतगृहं तथा ॥ १९ ॥ नरोहेद्विषमां नावं न वृक्षं न च पर्वतम् ॥ न लोहेन न काष्ठेन नाश्मना च फलद्रुमात् ॥ २० ॥ न पातयेत् कुर्वीत सर्वत्र च कुतूहलम् ॥ अर्धायतनशालेषु सर्वत्र स्यात्कुतूहली ॥ २१॥ दण्डेन करपातैर्वा न कुर्यान्मधु वादनम् ॥ तृणच्छेदं न कुर्वीत न च लोष्टामिम्मर्दनम् ॥ २२ ॥ नखानां भक्षणं चैव दन्तानां कट्टनं तथा ॥ छेदनं च

वि० ध० ॥ २४०॥

द्वि०खं० अ० ८९

नखैर्लेखां वृथा चेष्टां विवर्जयेत् ॥ २३ ॥ मुखाद्वादनं चैव ह्यधोऽधश्चैवं तथा वृथा ॥ अवगुंठन्य शिरो रात्रौ न शयीत कदाचन ॥ ॥ २४ ॥ पर्यटेन्न तथा रात्रौ विना राम प्रदीपिकाम् ॥ नाद्वारेण पशुगृहं नाद्वारेण रिपोर्गृहम् ॥ २५ ॥ प्रविशेन च तिष्ठेच्च निद्रितं न च बोधयेत् ॥ नाक्षिपेत्परवाक्यं तु न च रक्तं विरोगयेत् ॥ २६ ॥ कथाभङ्गं न कुर्वीत न च वासोविपर्ययम् ॥ नोर्ध्वजातुश्चिरं तिष्ठेत्पतन्तीं न लघयेत् ॥ २७॥ परक्षेत्रे चरन्तीं गां पाययन्तीं च वत्सकम् ॥ नाचक्षीत तथाप्यन्यस्य शक्रचापं न दर्श येत् ॥ २८ ॥ भद्रं भद्रमिति ब्रूयान्नानिष्टं वर्त्तयेत्क्वचित् ॥ पालाशमासनं वर्ज्यं पादपीठं च पादुके ॥ २९ ॥ सुरापं गुरुभूपानां ब्राह्मणानां विशेष तः ॥ नाक्रमेच्च तथा छायां श्वपचस्य च भार्गव ॥ ३० ॥ द्विजोयोश्च दम्पत्योर्भूयोर्ध्रूयमानयोः ॥ अग्निब्राह्मणयोश्चैव द्विजभूपालयो स्तथा ॥ ३१ ॥ शिष्योपाध्याययोश्चैव न च मध्ये न पूजयोः ॥ तैले जले तथा वक्रामादर्शं च मलान्विते ॥ ३२ ॥ न पश्येन्न तथा पश्ये दुपक्तं दिवाकरम् ॥ नोच्छिष्टस्तारकाङ्गाहुः स्तुतिनाशं हुताशनम् ॥ ३३ ॥ न तिष्ठेत्पतिव्रतां च तथा च प्रतिभास्करम् ॥ न संहताभ्यां पाणि भ्यां कण्डूयेदात्मनः शिरः ॥ ३४ ॥ रोहनं च तथा नग्नः कुर्यात्तोयावगाहनम् ॥ निष्कारणं नदीपारं बाहुभ्यां न तरेत्तथा ॥ ३५ ॥ न प्रशस्तेऽङ्गी तोये नदीमत्यां कथंचन ॥ न गिरौ पर्वतं राम न राज्ञः पुरतो नृपम् ॥ ३६॥ असंतये पितृदेवं नदीपारं न च व्रजेत् ॥ भोजनं वर्जयेन्नावि दीवनं च तथाम्भसि ॥ ३७॥ नैवाप्सु प्रक्षिपेद्विष्ठान्नमेध्यं रुधिरं विषम् ॥ समालये नाचरेत्स्नानं न दिवासा विकारणाम् ॥३८॥ आत्मनश्च तथा राम नैव तपनयेत्सलजम् ॥ स्नातः शिरो नावधुनन्नीग्भ्योस्तोयमुद्धरेत् ॥ ३९ ॥ तद्दिने चाङ्गुलितांगं तथा स्नानं विवर्जयेत् ॥ शिरःस्नातश्च तैलेन स्पृशे दङ्गं न किञ्चन ॥ ४० ॥ वाससा वामभागस्य रजसा पूर्ववाससा ॥ संमार्जनं रजोवर्ध्यः खराश्वाष्ट्रैस्तथैव च ॥ ४१ ॥ मेध्यानि च तथा राम गोगजाश्वजजांसि च ॥ नाधः कुर्वीत दहनं न च पादौ प्रतापयेत् ॥ ४२ ॥ दृर्शनं मार्जयेत्पादौ न च कांस्ये प्रधापयेत् ॥ गोगजाश्वानपुच्छेषु खरस्य च विशेषतः ॥ ४३ ॥ गृह्णन्नुदकं तस्माद्विद्रुपो हस्तस्त्यजेत् ॥ अकस्मात्स्पृश्यतास्तास्ताः स्वजोगंस्पर्शनं तथा ॥ ४४ ॥ हीनं वा न वहेद्दाम श्रुतरूपधनादिभिः ॥ हीनेनं च वसेत्सार्धं न देशे वैधवर्जिते ॥ ४५ ॥ न भूपालविहीने च न संवत्सराद्वर्जिते ॥ दुष्टकूपान्विते राम तथा च बहुनायके ॥ ४६ ॥ हीनायके बालपतौ शूद्रराज्ये तथैव च ॥ म्लेच्छवेषो न कर्तव्यो म्लेच्छभाषा तथैव च ॥ ४७ ॥ चण्डालैः पतितै म्लेच्छैर्भाषणं न कदाचन ॥ नकारं कायतः कृत्वा कीर्तयेत्केशवं विभुम् ॥ ४८ ॥ नासंवृतमुखः कुर्याद्धासं जृम्भां तथा क्षुतम् ॥

॥२४०॥

गोपयेज्जन्मनक्षत्रमृणसारं गृहे मलम् ॥ ४९ ॥ प्रभोरप्यवमानं स्वं तस्य दुश्चरितं च यत् ॥ नानुकूल्यं तथा कार्यान्मोध्याणां सुखेषुस्ना ॥ ५० ॥ युक्त्या च कामसेवी स्याच्छास्त्रमत्तः सुखी भवेत् ॥ वेगरोधं न कर्तव्यमन्यत्र क्रोधवेगतः ॥ ५१ ॥ नोपेक्षितव्यो व्याधिः स्याद्विदूरेण्योऽपि भार्गव ॥ ज्ञात्वा भुक्ता च धर्मज्ञ मृत्तिकामः सुरार्चने ॥ ५२ ॥ मलानानां संस्पर्शे मलानां चैव भार्गव ॥ वाससञ्च पर्यायोने रथ्याचंक्रमणे तथा ॥ ५३ ॥ आचमेच्च तथा राम तथा स्वप्नोत्थितो नरः ॥ न हुंकुर्याच्छ्वं पूज्यं विभृयान्त्रिधारिणीम् ॥५४॥ न मुक्त्वामं प्रायस्यत्रीञ्चिसेवां विवर्जयेत् ॥ पादेन नाक्रमेत्पादं न कण्डूयेन्न शोचयेत् ॥५५॥ नास्ति वर्जयेच्छ्वधूमं च गिरं चारूशीलसंयुताम् ॥ प्रत्यक्षं वा परोक्षं वा कस्यचिन्नाप्रियं वदेत् ॥ ५६ ॥ वेदशास्त्रनरेन्द्रर्षिद्विनिन्दां विवर्जयेत् ॥ नास्ति क्यमन्तं चैव चेतसो दूषणं तथा ॥ ५७ ॥ स्त्रीणामीर्ष्या न कर्तव्या विश्वासं तासु वर्जयेत् ॥ लाडितास्ताडिताः कार्या देहे स्वे स्त्रीकुमारिकाः ॥ ॥ ५८ ॥ सर्वेषामेव धर्माणां कर्तव्यं श्रवणं तथा ॥ नमस्कारं च देवानां सर्वेषामेव कारयेत् ॥ ५९ ॥ सर्वेषां चरितं राम धर्मतो न विकुत्सयेत् ॥ न चाचरेच्च धर्मज्ञ ते हि तेजोपहाहताः ॥६०॥ धर्मस्यार्थस्य कामस्य पीडा वर्ज्या परस्परम् ॥ देवस्य वयसश्चैव शिल्पस्य स्वकुलस्य च ॥ ६१॥ आचरेत्सदृशं वेषं व्यवसायानुरूपतः ॥ स्नात एवासु विभृयात्सोष्णीषे धौतवाससी ॥ ६२ ॥ अनुलियेत्तथांगानि सितं माल्यं च धारयेत् ॥ नासंस्कृतं च विभृयात्काञ्चनं पुरुषोत्तम ॥६३॥ निराशनस्य सुप्तस्य शयानस्य तथैव च ॥ तथा भुक्तवतो राम स्नातस्य भाषितस्य च ॥६४॥ यात्राद्युद्द्योतसूक्तस्यापि श्मश्रुकर्म विवर्जयेत् ॥ वैष्णवं वारुणं त्वाष्ट्रं सावित्रं वासवं तथा ॥ ६५ ॥ वायव्यमश्विन्दूकं पौष्णं शाक्रमाश्विनमेव च ॥ मैत्रादित्ये तथा पुष्यः शंवचऋणं भवेत् ॥ ६६ ॥ नक्षत्राणामथेतेषां मुहूर्तेश्च हितप्रदाः॥ अर्कर्किभोमवाराश्च रिक्ताश्च तिथयस्तथा ॥ ६७ ॥ प्रतिपच्च तथा षष्ठी वर्जयेत्क्षौरकर्मणि ॥ वर्जयेज्जन्मनक्षत्रं नानुकूलं तथैव च ॥ ६८ ॥ जन्मनाक्षत्रगे सौम्ये शिरःस्नानेन यत्नतः ॥ पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ॥ ६९ ॥ श्राद्धं कुर्यात्प्रयत्नेन वह्निब्राह्मणपूजनम् ॥ वाहनायुधच्छत्राद्यं पूजनीयं प्रयत्नतः ॥ ७० ॥ सुराणामर्चनं कार्यं केशवस्था विशेषतः ॥ समं स्वलंकृतस्तिष्ठेच्छुस्नातश्च मानवः ॥ ७१ ॥ निर्मलानि च कार्याणि दन्तक्षालनानि च ॥ अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम् ॥ ७२ ॥ शिरोऽभ्यङ्गं न कुर्वीत पर्वसन्ध्यौ तथैव च ॥ तथैवामलकस्नानं सप्तमीषु विवर्जयेत् ॥७३॥ विना तु सततं स्नानं न स्नायादष्टमीषु च ॥ अमावास्यां सुरादिंषु नववस्त्रं न धारयेत् ॥ ७४ ॥ न च भौमदिने राम तैलाभ्यक्तेषु चाप्यथ ॥

४१

सावित्रं रौहिणं मैत्रामादित्यं तिष्यमाश्विनम् ॥ ७५ ॥ उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम् ॥ इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दि-
शेत् ॥ ७६ ॥ नक्षत्राणामथैतेषां मुहूर्त्तश्च हितप्रदः ॥ परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत् ॥ ७७ ॥ केशग्रहणमङ्गानां शिरस्येतां तथैव च ॥
दूरादावसथान्मूत्रं पुरीषं च समुत्सृजेत् ॥ ७८ ॥ पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत् ॥ सर्वमेतन्त्यजेत्प्राज्ञो येन स्याद्धर्मसंज्ञम् ॥ ७९ ॥
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत् ॥ तथैकमनसा कार्यं देवतानां च पूजनम् ॥ ८० ॥ वह्निसंपूजनं चैव न चास्नानेन भार्गव ॥ माल्या-
नुलेपनादीनि न प्रद्यात्तु कस्यचित् ॥ ८१ ॥ अन्ये च देवताविप्रगुरूणां भृगुनन्दन ॥ कोविदारगणार्शाकं चतुर्थी पिप्पली तथा ॥ ८२ ॥
वर्ज्जयेन्मांसं सुकार्थी सर्वमेव तु ॥ राजद्विष्टं न कर्त्तव्यं विरोधं च महाजनैः ॥८३॥ शुष्कैर्वैरं विवादं च प्रयत्नेन विवर्जयेत् ॥ न वसेच्च तथा
वासं वास्तुविद्याविगर्हितम् ॥८४॥ आगाराणाञ्चाधुवातां च परोच्छिष्टां तथैव च ॥ उपराञ्चैव वल्मीकान्मृदं शौचे विवर्जयेत् ॥८५॥ येनेन्द्रियवशो
प्रीति तेन सार्द्धमरिन्दम ॥ न कुर्यादर्थसंबन्धं दारसंबर्शनं तथा ॥८६॥ आत्माभिभवनं निन्दां परस्य च विवर्जयेत् ॥ दृढभक्तो भवेन्नित्यं कृतज्ञश्च
विशेषतः ॥८७॥इन्द्रियाणां जये योगमतिष्ठेच्च सदा नरः ॥ इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात् ॥८८॥ अभिभाला तु धर्मज्ञो योगेक्षं-
मार्थमीश्वरम् ॥ गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः ॥८९॥ अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ॥ कुळान्यकुलतां यान्ति
स्वाध्यायस्य विवर्जनात् ॥ ९० ॥ यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः ॥ ऋचमेकां च योऽध्येति समौ स्यातां न चाधिकः ॥ स्वाध्या-
याडनन्तं स्नातः कृतजप्यः समाहितः ॥ ९१॥ संपूज्यं देववत्कुर्यात्तस्यान्येषांमयत्नस्य जनार्दनस्य ॥ संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रम्
वाप्नुवन्ति ॥ ९२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गर्गं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोऽध्यायः ॥ ८९ ॥
पुष्कर उवाच॥स्वाचान्तः प्रयततः स्नातः प्रविशेद्वेवतागृहम् ॥ नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः ॥ १॥आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनि-
वेद्येत् ॥ हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः ॥ २ ॥ शन्न आप इत्यनेन देयं सौदामनं भवेत् ॥ इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः ॥
॥ ३॥ रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने ॥ युवा सुवास इति च मन्त्रो वासस ईरितः ॥ ४ ॥ पुष्पे पुष्पवतीत्येव धूपं धूरसि चाप्यथ ॥
तेजोऽसि शुक्रमसि दीपं दद्याद्विचक्षणः ॥ ५ ॥ दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत् ॥ हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने ॥ ६ ॥
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ॥ चामरव्यजने मात्रां छत्रं यानासने तथा ॥७॥ यत्किञ्चिद्देवमादिः स्यात्त्वावित्वेण निवेदयेत् ॥ पौरुषं

च जयेत्सर्वं तदेव जुहुयात्तथा ॥ ८ ॥ अर्चाभावे तथा वेद्यां स्थले पूर्णघटे तथा ॥ नदीतीरेऽथ कमले केशवं पूजयेन्नरः ॥ ९ ॥ सर्वाशुभानां परिघातकारि संपूजनं देववरस्य विष्णोः ॥ कृत्वा नृवान्किञ्चनप्रप्नुमर्याति यन्नैक्यतां याति पितामहस्य ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने देवकर्माध्यायो नाम नवतितमोऽध्यायः ॥ ९० ॥ पुष्कर उवाच ॥ नक्तं गृहीतमुदकं देवकर्मणि वर्जयेत् ॥ चन्द्- नागहृत्कर्पूरं मृगदर्पं तथैव च ॥ १ ॥ जातीफलं तथा दद्यादनुलेपस्य कारणात् ॥ अतोऽन्यं नैव दातव्यं किञ्चिद्देवानुलेपनम् ॥ २ ॥ दारिद्र्यं पद्म- कः कुर्याद्वासस्थं रक्तचन्दनम् ॥ उशीरंश्च तु विंश्रेशं मन्ये कुर्यादुपद्रवम् ॥ ३ ॥ न वस्त्रं मलिनं देयं नीलं रक्तं तु यद्भवेत् ॥ तौ दत्त्वा देव- देवाय शोकमाप्नोत्यसंशयम् ॥ ४ ॥ कृत्रिमं तु न दातव्यं त्वन्यदेवगृहोद्भवम् ॥ द्विज ॥ प्रतिरूपकृतं दत्त्वा क्षिप्रं पृष्ट्वा वियुज्यते ॥ ५ ॥ पुष्पं कण्टकिकं संजातं तथा गन्धविवर्जितम् ॥ उग्रगन्धं न दातव्यं त्वन्यदेवगृहोद्भवम् ॥ ६ ॥ श्मशानचेत्यद्रुमजं भूमावशानिपातितम् ॥ कलिका न तु दातव्या देवदेवस्य चक्रिणः ॥ ७ ॥ शुक्लान्ववर्णं कुसुमं न देयं च तथा भवेत् ॥ सुगन्धि शुक्लं देयं स्याज्जातं कण्टकिते द्रुमौ ॥ ८ ॥ दत्वा कण्टकसंभूतं कुसुमं परिभूयते ॥ शुक्लान्ववर्णं दातव्यं कुसुमं कुंकुमस्य यत् ॥ ९ ॥ पद्मोत्पले च घर्मेग्न तथा वै पीतयूथिकाम् ॥ तथा च वन्यकं दद्याच्छ्वेतकं तकिर्जं च यत् ॥ १० ॥ रक्ताशोकस्य कुसुममसतीकुसुमं तथा ॥ वृक्षाणुवंदिविद्विश्च शुक्लं रक्तिकृतं च यत् ॥ ११ ॥ ताद्रूक्तमपि दातव्यं बिल्वपत्रं तथैव च ॥ दूर्वाग्रं च तथा पत्रं भृङ्गिराजस्य तु ॥ १२ ॥ पत्राणि च सुगन्धीनि तथा देयानि चक्रिणः ॥ मध्योऽन्यवर्णो यस्य स्याच्छुक्लस्य कुसुमस्य च ॥ १३ ॥ पुष्पं शुक्लं तु तद्विद्यान्मनोज्ञं केशवप्रियम् ॥ बन्धुजीवकपुष्पाणि रक्तान्द्यपि च दापयेत् ॥ १४ ॥ अनुक्तरक्तकुसुमं दानाद्भोभाग्यमाप्नुयात् ॥ सुगन्धि दत्त्वा नाप्नोति शुभं वा यदि वाशुभम् ॥ १५ ॥ मृगदर्पं विना किञ्चिद्देयं चेज्जौवस संभवम् ॥ देवदेवस्य दातव्यं दीपे मज्जानमेव वा ॥ १६ ॥ नीलां रक्तां दशां दीपे प्रयत्नेन विवर्जयेत् ॥ अन्या च दीपमात्रं तु तथा वर्जं प्रयत्नतः ॥ १७ ॥ कृष्णागरु स्तथा देवधूपं देवस्य यत्नतः ॥ अभक्षं चाप्यहद्यं च नैवेद्यं न निवेदयेत् ॥ १८ ॥ केशकीटाद्यपन्नं च नरांशविहितं च यत् ॥ मूषिकालांगलो- पेतमवधूतत्वमक्षतम् ॥ १९ ॥ न भक्ष्यमन्नमक्षारं माहिषं क्षीरमेव च ॥ वराहमत्स्यमांसं च मांसं पञ्चनखस्य च ॥ दुरामोदौ तथा वर्ज्यो देवकर्मणि पंडितैः ॥ २० ॥ निवेश्य चित्तं पुरुषोत्तमस्य भक्तिं समास्थाय तथा विशुद्धाम् ॥ करोति श्रद्धां सततं यथोक्तां स याति लोकं मधुसूदनस्य ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुष्पादिदेयादेयकथननममैकनवतितमोऽध्यायः ॥ ९१ ॥ पुष्कर उवाच ॥

वि० ध० ॥२४२॥

द्वि० खं० अ० ९२

ततोऽग्निशरणं गत्वा स्मार्ताऽग्नौ विधिपूर्वकम् ॥ वैश्वदेवं तु कर्तव्यं हुतोत्सृष्टं तु लौकिके ॥ १ ॥ यत्र क्वचन वा राम दीप्यमानेऽथ चोदके ॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिस्तरेत् ॥ २ ॥ सर्वारम्भप्रामुख्युदङ् जुहुयात्प्रयतस्ततः ॥ वासुदेवाय देवाय प्रभवे नाध्ययेन च ॥ ३ ॥ अग्नये
चैव सोमाय मित्राय वरुणाय च ॥ इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥ ४ ॥ विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये तथा ॥ अनुमत्यै
तथा राम धन्वन्तरिण एव च ॥ ५ ॥ वास्तोष्पतये तथा देव्यै ततः स्विष्टकृतेऽग्नये ॥ चतुर्थ्यन्तेन नत्वा च हुत्वेतेभ्यो बलिं हरेत् ॥ ६ ॥ मरु-
त्क्षेपोक्तसावित्रिभिः पूर्वाणाभिभतः परम् ॥ अम्बानामांसि धर्मज्ञ दुर्गा नामानि चोच्चयेत् ॥ ७ ॥ निवन्तीं च पनिकां च प्रभवन्तीं तथैव च ॥ मेध-
वन्तीं च नामानि सर्वेषामेव भार्गवा ॥८॥ आग्नेयाद्या क्रमेणाय ततः सूक्तियु निक्षिपेत् ॥ निर्दित्यै चसुभागेय च सुभङ्गल्यै च भार्गव ॥ ९॥ भद्रंकल्यै
ततो दत्त्वा स्तूणायै च तथा श्रियै ॥ हिरण्यकेश्र्व्यै च तथा वनस्पतय एव च ॥१०॥ धर्माधर्माभ्यां च द्वारे गृहमध्ये ध्रुवाय च ॥ मृत्यवे च बहिर्-
द्याद्दारुणायोदकाश्रये ॥ ११ ॥ भूतेभ्यश्च बहिर्द्यादच्छरेण धनदाय च ॥ इन्द्राद्येन्दुरुपेण्यो दद्यात्पूर्वेण मानवः ॥ १२ ॥ यमाय तत्पुरुषेभ्यो
द्याद्दक्षिणतस्ततः ॥ वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्ततः ॥ १३ ॥ सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरम् ॥ ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये
द्यात्तथैव च ॥ १४ ॥ आकाएं च तथैवोर्ध्वं स्थण्डिले च तथा क्षितौ ॥ दिवाचरेभ्यश्च दिवा रात्रौ रात्रिवराय च ॥ १५ ॥
बलिं वहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहम् ॥ पिण्डनिर्वापणं कार्यं सायं प्रातंस्तु कारयेत् ॥ १६ ॥ पित्रे तु प्रथमं पिण्डं तन्पित्रे तत्पनं-
न्तरम् ॥ ततो दद्याच्च तत्पित्रे मात्रे च तदनन्तरम् ॥ १७ ॥ पितृमात्रे ततो दद्याच्छूद्भवै तदनन्तरम् ॥ दक्षिणाग्रेषु दर्भेषु बलिंस्तु
विशेषतः ॥ १८ ॥ यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ निवेद्यैतच्च तत्सर्वं शुभं पात्रं विशेषतः ॥ १९ ॥ पुष्पैर्धूपेन दीपेन पूजयं-
स्तस्ततं पितॄन् ॥ नामगोत्रे सदा वाच्ये पिण्डनिर्वापणे तथा ॥ २० ॥ पिण्डं दद्याच्च काकानां तत्र मन्त्रमिमं पठेत् ॥ ऐन्द्रा वरुणावायव्या याम्या
वै नैर्ऋतास्तथा ॥ २१ ॥ ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ॥ ततः पिण्डं शुनां दद्यान्मन्त्रं तत्र निबोध मे ॥ वैवस्वतकुले जातौ
द्वौ श्यामशबलौ शूनौ ॥ ताभ्यां पिण्डं प्रदास्यामि पथि रक्षन्तु मां सदा ॥ २३ ॥ ततो ग्रासं गवां दद्यादन्न मन्त्रं निबोध मे ॥ सौरभेय्यः सर्व-
हिताः पवित्राः पापनाशिनीः ॥२४॥ प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥ ततः स्वस्त्ययनं कार्यं भिक्षा देया च भिक्षवे ॥२५॥ दत्वा तु

॥२४२॥


^१ आर्षत्वात्साधुः ।

संस्कृतां भिक्षां गोदानफलमाप्नुयात् ॥ बालः सुवासिनी वृद्धा गर्भिण्या तुरकन्यकाः ॥२६॥ भृत्याँश्च भोजयेद्द्वाम पूजयित्वा तथातिथीन् ॥ नैकग्रा मीणमतिथिं विद्याद्ब्राह्मणं तथा ॥२७॥ अतिथिं भोजयेत्पूर्वं ततो भृत्याँश्च पूजयेत् ॥ राजन्यमथवा वैश्यं शूद्रं वा द्विजसत्तम ॥२८॥ वैश्वदेवे च संप्राप्तं भृत्यैः सह च भोजयेत्॥ वयोभ्यश्च तथा दद्याच्चाण्डालेभ्यस्तथा भुवि ॥२९॥ साधारणं तत्सर्वेषां शेषकं गृहिणां गृहे ॥ वैश्वदेवे च संप्राप्ते न कथंचिदवमानयेत् ॥३०॥ आदाय सुकृतं याति भग्नाशश्चातिथिर्गतः ॥ अध्वना यस्तु भग्नोय ब्राह्मणाय तथा दिवा ॥ ३१॥ सकृत्तु भोजनं दद्यात्तेन स्वर्गे महीयते ॥ देवा ब्राह्मणरूपेण चरन्ति पृथिवीमिमाम् ॥ ३२ ॥ तस्मात्संप्राप्तमतिथिं प्रयत्नेन तु पूजयेत् ॥ अतिथिं पूजयेद्योवै दशगोदंफलं लभेत॥ ३३॥ पादशौचं ततो दत्त्वा प्रातायातिथये गृहे ॥ गोदानफलमाप्नोति दत्त्वा चैव तथासनम् ॥३४॥ प्रतिश्रयप्रदानेन नाकपृष्ठे महीयते ॥ तालवृन्तानिलं कृत्वा तथा प्राताय मानवः ॥३६॥ गोदानफलमाप्नोति वायुलोकं स गच्छति ॥ तालव्यजनहस्तस्तु कृत्वा तदभिचारणम्॥३६॥ अतिथिर्भोजने प्राप्ते गोदानफलमाप्नुयात् ॥ शीताहतातिथिं प्राप्य काष्ठान्नप्रज्वालयेन्नरः ॥ ३७ ॥ प्रतापनेयमहान्भाग दर्शधेनुफलं लभेत ॥ ३९ ॥ ग्निदीप्तिमाप्नोति प्रकाशंच परं तथा ॥ ३८ ॥ तृष्णार्तायोदकं दत्त्वा पाने गोदानमाप्नुयात् ॥ श्रान्तसंवाहनं कृत्वा धेनुदानफलं लभेत ॥ ३९ ॥ रोगिणः परिचर्यां च कृत्वा दशगुणं लभेत ॥ पादाभ्यंगं नरः कृत्वा प्रातायातिथये गृहे ॥४०॥ गोदानफलमाप्नोति नागलोकं च गच्छति॥ प्रतिश्रयं तथा दीनं दत्त्वा चातिथये नरः॥४१॥ धेनुदानफलं प्राप्य सूर्यलोके महीयते ॥ चक्षुर्मांश्च प्रकाशंश्च विशेषैश्च जायते ॥४२॥ शयनीयप्रदानेन वस्तुदानफलं लभेत ॥ दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात्॥४३॥शौचोदकप्रदानेन गोदानफलमाप्नोति ॥ मृत्प्रदानेन धर्मज्ञ विरोघो नाभिजाय यते॥४४॥दत्त्वावलेपनं मालां परां लक्ष्मीमुपासते ॥ तथौषधिप्रदानेन विरोगस्त्वभिजायते ॥ ४५ ॥ स्नानाभ्यङ्गप्रदानेन रूपवानभिजायते ॥ तथा स्नानीयदानेन गन्धर्वैः सह मोदते ॥ ४६ ॥ स्नानौदकप्रदानेन वारुणं लोकमाप्नुयात् ॥ उपानहः प्रदानेन विमानमघिरोहति ॥ ४७ ॥ तथा छत्रप्रदानेन गाणपत्यमवाप्नुयात् ॥ वस्त्रप्रदानाद्भवति रूपवान्शुभगास्तथा ॥ ४८ ॥ अश्वमेधमवाप्नोति तथा भूमिप्रदो नरः ॥ यानदः स्वर्गमाप्नोति पौण्डरीकपंदं तथा ॥४९॥ वारिधानींस्तथा दत्त्वा पूर्णाः शीतेन वारिणा ॥ सर्वां सभक्षाः प्राप्नोति गोलोके मानुषोत्तम ॥ ५० ॥ अत्र पेर्वारुकंयुक्तैः शर्कराघृतसंयुतैः ॥ सक्तुभिलवणोपेतैर्वृतैर्हितसंयुतैः ॥ ५१॥ तर्पयित्वातिथिं सम्यग्वारिधान्यैश्च गोरसैः ॥ गोलोकं चिरमाप्नोति नात्र कार्या विचारणा ॥ ५२ ॥ वृत्तिमाप्नोति च तथा पुत्रपौत्राभिजायते ॥ किमिच्छकेन संयोज्य चाक्षयंफलं लभेत ॥ ५३ ॥ तांबूलस्य

द्वि० खं० अ० ९२

वि० ध० ॥२४३॥

प्रदानेन गन्धर्वैः सह मोदते ॥ गतिमासावृतं कृत्वा स्वर्गलोके महीयते ॥ ५४ ॥ इतिहासमनाश्राव्य गोदानफलमाप्नुयात् ॥ गोप्रदानेन वित्तेन तोषयित्वा तथातिथिम् ॥ ५५ ॥ महत्फलमवाप्नोति गन्धर्वैः सह मोदते ॥ अनुब्रज्यातिथिं राम गोदानफलमाप्नुयात् ॥ ५६ ॥ तस्मात्सर्वप्रय- त्नेन पूजयेदतिथिं सदा ॥ राजन्यो विप्रदेवत्या नार्यश्च पतिदेवताः ॥ गृहस्थोऽथितिदेवत्यस्तस्मातं पूजयेत्सदा ॥५७॥ सततमिह नरो यः पूजनं चातिथीनां तृणजलमृदुवाक्यैः सारशक्त्या विदध्यात् ॥ सुरसदसि स पूज्यो देवतानां तथा स्याद्भवति च नरलोके जायमानः समृद्धः ॥ ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये वैश्वदेवकथनन्नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥ छ ॥ पुष्कर उवाच ॥ चन्द्रस्य यदि वा भानोर्गस्मिंरहनि भार्गव ॥ ग्रहणं तु भवेत्तन्न पूर्वं भोजनक्रिया ॥ १ ॥ नाचेत्समर्हे तस्मिंस्तैर्वास्त्वसुपा- गते ॥ यावत्स्यादुदयं तस्य नाश्नीयात्तावदेव तु ॥२॥ गोब्राह्मणक्षोपरागे न चाश्नीयात्तथान्ततः ॥ न राज्ञो विप्लवेऽनीत्यासुराणां चापिपूर्व तथा ॥ ॥ ३ ॥ न हुत्वा न च दत्त्वा च नाशोचे न च गर्हितम् ॥ नापथ्यं न च बालानां तथा भागैव पश्यताम् ॥ ४ ॥ प्रार्थितं बालकानां च दा- तव्यं स्यात्प्रयत्नतः ॥ बालानां प्रार्थितं दत्त्वा नाकलोके महीयते ॥ ५ ॥ बालका लालनीयाश्च धर्मकामैः सदा नरैः ॥ तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ॥ ६ ॥ तेषां क्रीडनकं दत्त्वा मोदते नन्दने चिरम् ॥ आह्नादं यान्ति सततं अस्मिन्सङ्घश्च तैर्बालकाः ॥ ७ ॥ सौभाग्यं मह- दाप्नोति यत्रयत्राभिजायते ॥ तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥८॥ अभुञ्जत्सु बालेषु न चाश्नीयात्कथञ्चन ॥ यो न दद्यान्न चाश्नी- यात्कदाचिदपि तन्मयम् ॥ ९ ॥ य एको मिष्टमश्नाति न ततोऽन्योऽस्ति पातकी ॥ नैकवासास्त्वथाश्नीयाद्भिन्नेभाण्डे न मानवः ॥ १० ॥ भि- न्नासनोपविष्टश्च शयनीयगतस्तथा ॥ अनार्द्रपाणिपादान्तस्तथा चैवार्द्रमस्तकः ॥ ११ ॥ नोत्सङ्गे भक्षयेद्द्रव्यान्न पाणौ लवणं तथा ॥ सकृ- द्दानं पृथक्पानं मांसेन पयसा निशि ॥ १२ ॥ दन्तच्छेदमनुष्णं च सतक्तु सुवर्जयेत् ॥ दधि रात्रौ न चाश्नीयाज्जलमञ्जलिना पिवेतू ॥ ॥ १३ ॥ सर्वं तैलसमृद्धं च नाद्यादस्तमिते रवौ ॥ वर्जनीया दिवा धानाः कोविदारः सदैव तु ॥ १४ ॥ दिवा धानाः सर्वं हन्ति रात्रौ च दधि सक्तुषु ॥ अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया ॥ १५ ॥ निःशेषकृत्तथा राम न स्यादन्यत्र मक्षिकात् ॥ क्षीरस्य राम सक्तूनां पथ्यसस्यो- दकस्य च ॥ १६ ॥ शेषं तु कार्यमन्यत्र न तु निःशेषकृद्भवेत् ॥ क्षुधाय दद्यान्नोच्छिष्टं नोच्छिष्टश्च घृतं स्पृशेत् ॥ १७ ॥ मूर्धानं न स्पृशेद्धाम् न स्पृशेच्च हुताशनम् ॥ नाङ्कुत्त्वा च कर्तव्या सुमनास्तन्मनास्तथा ॥ १८ ॥ भुञ्जीत प्रयतो भूत्वा दिशश्चानवलोकयन् ॥ वामहस्तेन पानीयं

॥२४३॥

पीतोच्छिष्टं तथैव च ॥ १९ ॥ न पिबेन्न तथाश्नीयात्कृत्वा पर्युत्सितकं नरः ॥ पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ॥ २० ॥ आचम्य तु ततः कार्यं दन्तकाष्ठस्य भक्षणम् ॥ भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलधारणम् ॥२१॥ श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः ॥ शास्त्रावेक्षा च कर्तव्या ततः सम्यग्भृगूत्तम ॥ २२ ॥ शास्त्रान्ववेक्षणं कृत्वा कृत्वा चक्रमणं ततः ॥ उपास्य पश्चिमां सन्ध्यां तिष्ठेत्प्रयतमानसः ॥ २३ ॥ पूर्वां सन्ध्यां जपेत्तिष्ठेदुपविष्टश्च पश्चिमाम् ॥ अर्कस्योदयनात्तावद्यावत्स्याद्भास्करदर्शनम् ॥ २४ ॥ पूर्वा सन्ध्यां जपेत्स्नातः पश्चिमां सति भास्क- रे ॥ उपविष्टो जपेत्तावद्यावत्तारकदर्शनम् ॥ २५ ॥ सम्पूजनं देववरस्य कृत्वा ततश्च कुर्यात्खलु वैश्वदेवम् ॥ भुक्त्वा ततोऽन्नं लघु यच्च हृद्यं ततः स्वपेद्दर्शितवंशशुक्ल्यम् ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने भोजनविधिविधानं त्रिनवतितमोऽध्यायः ॥९३॥ पुष्कर उवाच ॥ आग्न्यालये श्मशाने वानेकवृक्षे चतुष्पथे ॥ महादेवगृहे वापि मातृवेश्मनि वा स्वपेत् ॥ १ ॥ न यक्षनागायतनै स्कन्दस्यायतने तथा ॥ कूलच्छायासु च तथा शर्करालोष्टपांसुषु ॥ २॥ प्रस्वपेच्च तथा दर्भे विना दीक्षां व्रतं न च ॥ धान्यगोदेवविप्राणां गुरूणां च तथोपरि ॥ ३ ॥ न चापि मित्रविषये नाशुचौ नाशुचिस्तथा ॥ नार्द्रपादश्च नग्नश्च नोत्तरापरमस्तकः ॥४॥ नाकाशे सर्वतः शून्ये न च चैत्यद्रुमे तथा ॥ न गच्छेदूर्विणीं नारीं न गच्छेत्सितमूर्धजाम् ॥५॥ रजस्वलां रोगवतीं नायोनों न बुभुक्षितः ॥ नाऽभ्यक्तो न तथाम्यक्तां न च पर्वणि भार्गव ॥ शुक्रमो- क्षमथाकाशे तिर्यग्योनौ च वर्जयेत् ॥६॥ एवं सदा यः कुरुते नृवीर सम्यग्यथोक्तं सुमनास्तरस्वी ॥ तस्याशु पापं विलयं प्रयाति श्रियं च मुख्यां लभते सुखं च ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आचारकथनानन्नाम चतुर्नवतितमोऽध्यायः ॥९४॥ पुष्कर उवाच ॥ वैवाहिकेऽग्नौ कुर्वीत कर्म स्मातं सदा गृही ॥ दायकालहते वापि पितृमरणकालिके ॥ १ ॥ मातुर्वा शृण्वथ श्रौतं वैतानिका- ग्निषु ॥ २ ॥ देवतानां पितॄणां च ऋषीणां च तथा नरः ॥ २ ॥ ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ॥ देवानामनृणो जन्तुर्यज्ञैर्भवति मानद ॥ ३ ॥ स्वल्पवित्तश्च पूजाभिरुपवासैर्व्रतैस्तथा ॥ श्राद्धेन पूजया चैव पितॄणामनृणो भवेत् ॥ ४ ॥ ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥ हुतं चैवाहुतं चैव निर्वप्यं प्रहुतं तथा ॥ ५ ॥ प्राशितं च महाभाग पञ्चयज्ञान्न हापयेत् ॥ हुतमग्नौ विजानीयादहुतं बलिकर्म यत् ॥६ ॥ पिण्डनिर्वपणं राम निर्वप्यं परिकीर्तितम् ॥ प्रहुतं च यथायक्षं पितृयज्ञं तथैव च ॥ ७ ॥ प्राशनं च तथा प्रोक्तं यद्भुक्तं तदनन्तरम् ॥ पञ्चयज्ञान्सदा कुर्याद् गृही पापापनुत्तये ॥ ८ ॥ देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ॥ मानुष्यमृषियज्ञं च कुर्यान्नित्यमतन्द्रितः ॥ ९ ॥

वि० ध० ॥२४४॥ द्वि० खं० अ० १६ ॥२४४॥

देवयज्ञं हुतं विद्याद्भूतयज्ञं बलिक्रिया ॥ पितृयज्ञं तथा पिण्डेन्ब्रह्मयज्ञं च भार्गव ॥ १० ॥ स्वाध्यायसेवा विज्ञेया तथै- वातिथिपूजनम् ॥ मनुष्ययज्ञो विज्ञेयः पञ्चयज्ञांस्त हापयेत् ॥ ११ ॥ विष्णुं यजेत्तथा देवं हविर्यज्ञैश्च सत्तभिः ॥ अग्न्याधानं महाभाग तथैवाग्निहोत्रक्रिया ॥ १२ ॥ दर्शं च पौर्णमासं च चातुर्मास्यं तथैव च ॥ द्विराग्रहायणेष्टिश्च पाके च यवचान्ययोः ॥ १३॥ विरूढा पशुबन्धश्च तथा सौत्रामणिद्विजः ॥ सप्तभिः सोमसंस्थाभिर्यजेद्देवं सनातनम् ॥ १४ ॥ अग्निष्टोमं महाभाग चात्यग्निष्टोममेव च ॥ उक्थं च पावनीं चैव प्रतिरात्रं तथैव च ॥ १५ ॥ वाजपेयञ्च धर्मज्ञ आतोर्यामं तथैव च ॥ अन्यैश्च विविधैर्यज्ञैः पौण्डरीकादिभिस्तथा ॥ १६ ॥ गोसवेनाश्वमेधेन राजसूयेन वा पुनः ॥ तथा पुरुषमेधेन सर्वमेधेन भार्गव ॥ १७ ॥ अन्यैश्च विविधैर्यज्ञैर्नामकल्पितैस्तथा ॥ यजनं देवदेवस्य वासुदेवस्य कारयेत् ॥ १८ ॥ यज्ञो विष्णुर्महातेजा यजमानः स एव हि ॥ त एव यज्ञपात्राणि यज्ञद्रव्याणि यानि च ॥ १९ ॥ तं यजेत्सततं राम सर्वदेवमयं हरिम् ॥ सत्येन चै वर्जयेच्च प्रत्यहं मुनिपुङ्गव ॥ २० ॥ पशुप्रत्ययनं कुर्यान्नात्मोप्तिकमेव च ॥ ईष्टे वैषा नरो कुर्यात्तथा स्वल्पधनो नरः ॥ २१ ॥ अत्यल्पत्वे धने सोमं पिवेद्द्रार्गवसत्तम ॥ आयुः प्रजन्यशो मेधां धनमन्नमृणं तथा ॥ २२ ॥ हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यततये ॥ २३ ॥ अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणा ॥ २४ ॥ अनाहिताग्निर्भवति ब्राह्मणो विमवेसति॥ सर्वदेवमयो विष्णुःप्रत्यहं तस्य पूजनम् ॥ २५ ॥ प्रतिमायामपि तथा कर्तव्यं भृगुसत्तम ॥ विष्णुमर्वाभि जानन्ति सर्वयज्ञेषु वै द्विजाः ॥ २६ ॥ पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम्॥ तत्तद्वनिकायेषु तथैव स्वयमेव वा ॥ २७ ॥ पूजा कार्या वह्निविद्वौ श्रद्धया भृगुनन्दन ॥ न तत्फलदं दक्षिणेयैर्यजेतेह कदाचन ॥ २८ ॥ विष्णुं र्द्वनिकायत्थं यथाश्रद्धमीरितम् ॥ तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः ॥ २९ ॥ संपूज्य देवं परमान्नगन्धैर्धूपैः सुगन्धैश्च फलैश्च मुख्यैः ॥ तस्मादवाप्नोति स सर्वयज्ञांस्तस्मात्प्रपूज्यः सततं महात्मा ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने गृहस्थधर्म वर्णननाम पञ्चनवत्तितमोऽध्यायः ॥ ९५ ॥ राम उवाच ॥ कर्माणि श्रोतुमिच्छामि काम्यानि गृहिणामहम् ॥ तवतः समस्तधर्मज्ञ यादृगाण नृणांत्मन ॥ १ ॥ पुष्कर उवाच ॥ कृतोपवासो याग्यज्ञं सोपवासस्य भार्गव ॥ पुरोधाः शपनं कुर्यात्कृत्तिकासु यथाविधि ॥२॥ अकालमूलैः फलै श्चेन्मयैरथ काञ्चनैः ॥ उज्ज्वलैर्लक्षणैः पूर्णस्तथा तीथर्योदकैः शुभैः ॥ ३ ॥ अभिमन्त्र्याशिरोध्पाणां न्यग्रोधाश्वथयोरपि ॥ पत्रपूर्णस्तथा

युक्तिस्तिलैः कृष्णैर्द्विजोत्तम ॥ ४ ॥ वह्निं कुमारं शशिनं खड्गं वरुणमेव च ॥ पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ॥ ५ ॥ पीतरक्तैस्तथा वर्णैघृतदीप्तैस्तथैव च ॥ दशा गव्येन लाजामिरिमन्थेन चाप्यथ ॥ ६ ॥ कुसम्भैरोहिणीकामिश्च अपूपैश्च पृथग्विधैः ॥ देवतानां यथोक्तानां प्रियङ्गु जुहुयात्ततः ॥ ७ ॥ चन्दनश्च मयुराणां लोमानि मनुजोत्तम ॥ अग्रिमन्व्यगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम् ॥ ८ ॥ धारये दक्षिणां दद्याच्छक्त्या कनकमेव च ॥ श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ॥ ९ ॥ कर्मैतत्सततं कृत्वा वह्नायधानमथाप्नुयात् ॥ कर्मतद्वक्तुं रिपुनाशकारि सर्वाङ्गिकर्मप्रसमृद्धिदं च ॥ धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ राम उवाच ॥ अग्न्य्याधानमथाप्नोति शत्रुनाशमथापि वा ॥ स्वेच्छया कर्मणा केन सदा याद्योग्यताम्परम् ॥ १ ॥ शत्रुनाशकरं कर्म कथयस्व.ततः परम् ॥ तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥ २ ॥ पुष्कर उवाच ॥ कृत्तोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु ॥ पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना ॥३॥ रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ॥ घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥४॥ निवेद्नीयं देवाय तथा सर्वं निवेदयेत् ॥ हुतव्यं सुसमिद्धेऽग्नौ तथैवान्नं शुभं हविः ॥ आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा ॥५ ॥ कर्मैतद्युक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि ॥ कृत्वैतदभ्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥ राम उवाच ॥ कर्माणि त्वं समाचक्ष्व स्नानान्यन्यानि देवज ॥ केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात् ॥ १॥ पुष्कर उवाच ॥ पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत् ॥ सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः ॥ २ ॥ अका मबुलाः कलशाः कार्याः सर्वेषु भार्गव ॥ पूजा चन्द्रमसः कार्या वरुणस्य तथैव च ॥ ३ ॥ नक्षत्रदेवतानां च नक्षत्रस्य तथैव च ॥ सर्वगन्ध्याप्रमेयस्य वासुदेवस्य चाप्यथा ॥४॥येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः ॥ कार्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत् ॥ मन्त्र चेत्स्नानकलशं मन्त्रेणानेन भार्गव ॥५ ॥ मन्त्रः-“आपः सोमाद्याः संबभूवुः पवित्राभिः पावनः सोमसूर्यस्थिता वायुना नष्टदोषाश्च यौ नित्य मच्छेद्यस्ते सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्निवृष्टिर्मह्यं भूयासं सर्वशिरः ॥ साऽश्रुस्वाहेति सूर्यः संस्थित।वायुनामाष्टदोषा ॥” कर्मतदुक्तं रिपु नाशकारि साधारणं स्नानमिदं पवित्रम् ॥ अतः परं ते कथयामि राम स्नानानि कार्यानि सुखप्रदानि ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे

वि० ध०
॥२४५॥

द्वि० खं०
अ० ९९
॥२४५॥


द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतिमितोऽध्यायः ॥ ९८ ॥ पुष्कर उवाच ॥ कृत्तिकास्नानमुक्तं ते वह्निकर्मप्रसाधनम् ॥ तथाग्निनाशनं मुख्यं वह्नुचाद्येयप्रदं तथा ॥ १॥ रोहिणीषु तथा स्नानं प्रोक्तं पुत्रप्रदं तव ॥ ब्रह्मवर्चसकामस्य स्नानं सौम्यमिदं शृणु ॥ २ ॥ पूर्णमोद्भवैः पत्रैः कृत्वा राम घटत्रयम् ॥ पूर्णचन्द्राङ्कितैः शुक्तैः सूत्रमाल्यैरलङ्कृतम् ॥ ३ ॥ तेन संस्नापितः पश्चात्क्षौमवासा यथाविधि ॥ देवतापूजनं कृत्वा घृतं हुत्वा हुताशने ॥ ४ ॥ ओङ्कारपूतं सोमाय क्षीरं हुत्वा तथा जले ॥ निवेदनीयं सोमाय तथा पितृभ्यस्त्रयम् ॥ ५ ॥ मृगशृङ्गेण धूपं च तथा दद्यादनन्तरम् ॥ सोमेन च मणिर्धार्यो जातरूपपरिष्कृतः ॥ ६ ॥ दक्षिणा चात्र दातव्या शुभ्रधेनुः पयस्विनी ॥ कृत्वा तृप्तित्वमाप्नोति ब्रह्मवर्चससुत्तमम् ॥ ७ ॥ घृताश्रमम्बुपूर्णेन स्नातः कुम्बेन मानवः ॥ पट्टिशांलङ्कृतेनाथ रक्तचन्दनवारिणा ॥ ८ ॥ रुद्राय मांसं रुचिरं तथा च मधु पायसम् ॥ कृष्णानि वासांसि तथा धूपं गुग्गुलम्वेव च ॥ ९॥ दूत्यादृष्टेन च तथा होमो मन्त्रैर्विधीयते ॥ कृष्णानि वासांसि तथा दातव्या दक्षिणा भवेत् ॥ १० ॥ मेषाश्वनखलोमानि गर्दभस्य विशेषतः ॥ आयसी तु मणौ कृत्वा द्वारि शस्त्रांनिधापयेत् ॥ ११ ॥ आद्रास्नानमिदं राम सर्वशत्रुविनाशनम् ॥ सर्वगन्धैः फलैर्बीजैः पूर्णं कृत्वा घटत्रयम् ॥ १२ ॥ स्नापनेन तैनं कर्तव्यमादित्यैस्तदनन्तरम् ॥ नवनीतं च कुल्माषं मत्स्यांश्चैव स्वरांस्तथा ॥ १३ ॥ निवेदयेच्चैव तथा मत्स्यानि सुरभीणि च ॥ घृताक्षताभ्यां धूपेन होमश्चैव विधीयते ॥ १४ ॥ तद्दिने तु नदीं यत्र योगे गच्छतु तां मृदा ॥ सुवर्णरूप्यपञ्चञ्च धारणीयास्तथा मणिः ॥ १५ ॥ दक्षिणा चात्र दातव्या राम धेनुः पयस्विनी ॥ स्नातः पुनर्बसावेव ज्ञातिश्रैष्ठ्यमवाप्नुयात् ॥ १६ ॥ पुन्नाम्ना सुमहाभाग यदीच्छेति तदाप्नुयात् ॥ गौरसर्षपकल्केन रामोत्सादितविग्रहः ॥१७॥ गव्याज्यपूर्णकुम्बेन स्नातः स्नास्तत्तथौषधैः ॥ अह्नात्सम्बरसंवीतः पायसं विनिवेदयेत् ॥ १८ ॥ शुक्लानि चैव माल्यानि वासांस्युपहतानि च ॥ होमश्च पायसेनात्र धूपं गन्धैश्च दापयेत् ॥ १९ ॥ मणिः शिरसि धार्यश्च दण्डेाथ ब्रह्मचारिणः ॥ सुवर्णगर्भे पुष्पेण स्नानं पुष्टिकरे भवेत् ॥२०॥ दक्षिणा चात्र दातव्या घृतं कनकसंयुतम् ॥ षड्ध्वजां नीलसूत्रेण नीलपुष्पैश्च वेष्टिताम् ॥ २१ ॥ सर्पपान्वेष्वेष्टयाम नागपुष्पेण शूरिणा ॥ वल्मीकानां सहस्तस्य तथैवाग्रमृदा द्विजः ॥२२॥तैः स्नातः सर्वनागेभ्यो मधुलाजां निवेदयेत्॥गन्धोदकं तथा धानाः षट्‌कृत्वाथ पुनःपुनः॥२३॥ क्षीरेण होमः कर्त्तव्यो धूपः सर्वत्वचा तथा ॥ सर्पत्वङ् नागपुष्पं च सुवर्णं च मणिर्भवेत् ॥ २४ ॥ दक्षिणा चात्र दातव्या शयनीयं मनोहरम् ॥ स्नानं सार्पेण ते प्रोक्तं भोग्यं सिद्धिकरं भवेत् ॥२५॥ श्रीमद् वा महाभाग कथितं कामतस्तव ॥ पुष्यवैरितिलैः कृष्णैर्घटषट्कं तु पूरयेत् ॥२६॥

वेष्टयेत्कृष्णमाल्यैश्च तेन स्नातोऽहताम्बरः ॥ दक्षिणाग्रेषु दर्भेषु सप्तपिण्डानुपाहरेत् ॥ २७ ॥ सुभास्वरो बर्हिषदो ह्यग्निष्वात्तांस्तथैव च ॥ क्रव्याद् औपहूताश्च आज्यपाश्च सुकालिनः ॥ २८ ॥ पितरः कथितास्तेषां पिण्डं दद्यात्क्रमेण च ॥ धूपं ब्रीहिर्यवैर्द्यात्तिलैर्होमं तु कारयेत् ॥ २९ ॥ दातव्या दक्षिणा चात्र तिलानांरजतमेव च ॥ वचा च कोरकं चैव त्रिवृतं धारयेन्मणिम् ॥ ३० ॥ पितृप्रसादं प्राप्नोति कर्मसिद्धिंमथापि च ॥ मघास्नानमिदं कृत्वा नित्यमेव समाहितः ॥ ३१ ॥ माक्षिकं च मधूकं च तथैव मधुयष्टिकाम् ॥ कृत्वा कुम्भद्वयं पूर्णं मघासु स्नापयेन्न- रम् ॥ ३२ ॥ शालिपिष्टं ततः स्नातो घृतेन मधुना युतम् ॥ गन्धमाल्यं बहुविधं बहुकृत्वा भगाय तु ॥ ३३ ॥ निवेद्यित्वा देयानि चित्रां- सानि चाप्यथ ॥ घृतेन धूपो दातव्यो होमः कार्यः प्रियङ्गुना ॥ ३४ ॥ दक्षिणा चात्र दातव्या चित्रवस्त्रांसि चाप्यथ ॥ पारावतस्य पक्षाणि चक्र- वाकस्य मानद ॥ ३५ ॥ त्रिवृतानि तथा कृत्वा मणिं शिरसि धारयेत् ॥ सौभाग्यं महदाप्नोति स्वालैव भगदैवते ॥ ३६ ॥ तिलमाक्षिकरुपेण स्नातः कुम्भद्वयेन तु ॥ अर्यम्णे पायसं दद्यात्पितरस्ते च वाससी ॥ ३७ ॥ धूपे शतावरी देया होमः कार्यस्तथाक्षतैः ॥ तेजोवन्ती प्रियङ्गुश्च त्रिवृतं धारयेन्मणिम् ॥ ३८ ॥ दक्षिणा चात्र दातव्या तथा रक्ते च वाससी ॥ उत्तराफल्गुनीस्नानं सर्वार्थप्रसिद्धिदम् ॥ ३९ ॥ वीर्यस्य वर्धनं चापि कर्तव्यमनुसुव्रता ॥ गजकामस्य ते स्नानं हस्ते पूर्व मयोदितम् ॥ ४० ॥ परसैन्यजयार्थाय स्नानं तदपि शस्यते ॥ मञ्जिष्ठां च समङ्गां च मिसिकान्तां च भार्गव ॥ ४१ ॥ कनकं रजतं चैव पूर्णकुम्भे विनिक्षिपेत् ॥ तेनाभिषिक्तश्चित्राणि माल्यवासांस्यनन्तरम् ॥ ४२ ॥ त्वाष्ट्रे निवे- द्येद्वक्तव्या होमं क्षीरेण कारयेत् ॥ दक्षिणा चात्र दातव्या चित्रवस्त्राणि मानद ॥ ४३ ॥ सर्वगन्धैस्तथा धूपं बलिं चित्रं तथैव च ॥ पृथक्प्रतिप्रसूतानां पुष्पाणां कनकैरवृतम् ॥ ४४ ॥ अष्ट्यादशनां च तथा मणि शिरसि धारयेत् ॥ एवं स्नातस्तु चित्रासु सौभाग्यं महदश्नुते ॥ ४५ ॥ सर्वभूतैषु चाधिवयं यदिच्छेति तदाप्नुयात ॥ रुक्ममश्वत्थपत्रं च खड्गशृङ्गं तथैव च ॥ ४६ ॥ पूर्णकुम्भे विनिक्षिप्य स्नातः शीधुसुरासवम् ॥ वायव्ये प्रयतो दद्यात्क्षीरं सपिलं दधि ॥ ४७ ॥ गन्धं धूपं तथा दद्याद्धोमं कार्य तथा घृतम् ॥ दक्षिणा चात्र दातव्या वासांसि विविधानि च ॥ ४८ ॥ द्वयश्वश्यामहरितहंसपक्षैः पयोऽन्वितम् ॥ धारयेच्च मणिं विद्वान्स्वातावेवं समाचरेत् ॥ ॥ ४९ ॥ वाणिज्ये सम्यगाप्नोति सिद्धिं च महतीं नरः ॥ विशाखासु तथा स्नानं कार्यं कुम्भद्वयेन तु ॥ ५० ॥ कृत्तिकासु महाभाग ततः शाकं


१ व्यञ्जनमिति पाठान्तरम् ।

निवेदयेत् ॥ इन्द्राग्निभ्यां च वासांसि पीतरक्तानि चाप्यथ ॥ ५१ ॥ माल्यानि च महाभाग धूपं च घृतगुग्गुलम् ॥ होमार्थं च घृतं कुर्याद्दक्षिणा कनकं तथा ॥ ५२ ॥ गणाधिपत्यमाप्नोति कृत्वैवं नात्र संशयः ॥ सहस्रवीर्यं चानन्तां मधूकं च तथा मिशिम् ॥ ५३ ॥ पूर्णकुम्भत्रये कृत्वा कृतस्वस्तिकक्षणे ॥ अहताम्बरसंवीतः सर्वगन्धफलाक्षतैः ॥ ५४ ॥ मधुना च बलिं दद्यान्मन्त्राय च महात्मने ॥ वृश्चिकेन तथा धूपं गृहेहोमं च मानद ॥ ५५ ॥ पुरद्वारं कटाहाश्वं चूडाकाष्ठं सकाञ्चनम् ॥ धारयेद्दक्षिणं दद्यात्तया च कनकं द्विज ॥ ५६ ॥ एवं मैत्रे सदा स्नातः सर्वभूतैः समाप्ययात् ॥ मंत्रों मनुजशार्दूल पुरं वा कुरुते वशे ॥ ५७ ॥ तडगगणितीकूलनदीनदसमुद्भवैः ॥ तोयैः पूर्णं घटान्कृत्वा सर्वबीजसमन्वितान् ॥ ५८ ॥ सर्वरत्नोदधौपूर्णान्क्षीक्षारं तैः समाचरेत् ॥ क्षोमवासास्तु रत्नानि माल्यानि च फलानि च ॥ ५९ ॥ रत्नानि दद्याच्छक्राय प्राङ्मुखः सुसमाहितः ॥ धूपं दद्याच्च शीर्षेण विशाखानभिमन्त्रयेत् ॥ ६० ॥ छत्रं च दक्षिणा देया ज्येष्ठार्यां भृशुनन्दन ॥ स्नानमेव सदा कृत्वा राज्यमाप्नोत्यकण्टकम् ॥ ६१ ॥ कृषिकामस्य मूलेन स्नानमुक्तं मया पुरा ॥ तथा वाणिज्यकामस्य प्रागपाढासु भार्गव ॥ ६२ ॥ अथोत्तरासु पाढासु कुर्याद्दष्टचतुष्टयम् ॥ पुष्पबीजफलोपेतं तेन स्नातस्तु मानवः ॥ ६३ ॥ क्षौमवासाः सुरां चैव पायसं च निवेदयेत् ॥ शुद्धमित्रं च धर्मज्ञ माल्यावासांसि चेच्छया ॥ ६४ ॥ होमे च पायसं कुर्याद्रूपे गोऽभ्रुमेव च ॥ धान्यं पुष्पमथौबिल्वं मणिंधार्यः सकाञ्चनैः ॥ ६५ ॥ दक्षिणा चात्र दातव्या सुवर्णं रौप्यमेव च ॥ राजश्रेष्ठत्वमाप्नोति विवादेषु जयं तथा ॥ ६६ ॥ बिल्वं च तगरं चैव चन्दनं मधुपिष्टिकाम् ॥ त्रिपटुं च मधूकं च त्रिषु कुम्भेषु निक्षिपेत् ॥ ६७ ॥ संपादाद्दतं तोयं तन्मृदं च मृगत्तम ॥ तेन स्नातस्ततः स्नानं कुर्यात्सर्वोषधीद्विज ॥ ६८ ॥ कुल्त्थांश्र्वं मशाल्यन्नं मुख्यानि च फलानि च ॥ बलिं च विष्णवे दद्यान्सूर्यधूपं तथैव च ॥ ६९ ॥ राजच्छत्रस्य दण्डाग्रात्काष्ठं शक्रध्वजातथा ॥ सिंहद्रुममणिञ्चात्र शिरसि स्मृतः ॥ ७० ॥ दक्षिणा चात्र दातव्या धेनुः कांस्योपदोहिनी ॥ एवं तु श्रवणस्नायी राज्यमाप्नोत्यकण्टकम् ॥ ७१ ॥ अन्यद्देशाधिपत्यं वा राज्यमाप्नोति भार्गव ॥ अतिमुक्तकपत्राणि बिल्वस्य च तथा लिपेत् ॥ ७२ ॥ कुम्भेषु पञ्चसु ततः स्नानं तैस्तु समाचरेत् ॥ वास्तुभ्यस्तु बलिं दद्यात्सुवर्णं मारुतिके ततः ॥ ७३ ॥ धूपं वायसपक्षैस्तु होमः कार्यो घृतेन तु ॥ ब्रह्मचारिशिलोपाकपक्षं तथैव च ॥ ७४ ॥ काकमाचीं रुक्मयुतां मणिं शिरसि धारयेत् ॥ दक्षिणा चात्र दातव्या धेनु


१ आमिषम्' पाठान्तरम् ।

कांस्योपदोहिनी ॥ ७५ ॥ धनं प्राप्नोति सुमहद्दिवां वापि कन्यकाम् ॥ एवं स्नातो धनिष्ठासु नित्यमेव भृगूत्तम ॥ ७६ ॥ आरोग्यकारकं
स्नानं पूर्वमुक्तं तु वारुणम् ॥ रत्नोदकेन स्नातस्तु नरः कुम्भद्वयेन तु ॥ ७७ ॥ अजैकपादाय बलिं छागं दद्याच्च पायसम् ॥ शुक्लानि चैव
माल्यानि फलानि विविधानि च ॥ ७८ ॥ खड्गाङ्क्ष तथा धूपं होमं च पयसा तथा ॥ व्याघ्रदंष्ट्रा तथा लोमनखं कनकमेव च ॥ ७९ ॥ मणि
र्धार्यो भवेद्राम छागो देया च दक्षिणा ॥ अजैकपादे स्नातस्तु नित्यमेव समाहितः ॥ ८० ॥ उद्धरेत्तु निधिं राम शत्रून्वा विजयेद्ध्रुवम् ॥
आहिर्बुध्न्यं तथा स्नानं गोदुग्धं पुरा तव ॥ ८१॥ चन्दनं च हरिद्रा च दर्भमूलं तथैव च। कृत्वा कुम्भे नरः स्नायात्कृत्वा पिष्टेन कन्यकाम्॥
॥ ८२ ॥ स्नानालङ्कारवाक्षाल्यान्पुष्पे दद्याद्वलिं ततः ॥ मधुलजास्तथैवात्र धूपं दद्याद्घृतेन च ॥८३॥ होमं घृतेन कर्तव्यं दक्षिणा कनकं भवेत् ॥
ब्राह्मीं सुवर्चलां होमं होमगन्धों मणिर्भवेत् ॥ ८४ ॥ एवं पौष्णे सदा स्नातो यः सदा युज्यते नरः ॥ आश्विने सुप्रदं स्नानं पूर्वमुक्तं मया तव ॥
॥ ८५ ॥ वैजयन्तीं बलां चैव समङ्गां च भृगूत्तम ॥ इन्द्रहस्तां मधूकं च कुर्याद्राम घटत्रये ॥ ८६ ॥ तेन स्नातो
यमायाथ प्रपद्यात्तिलतण्डुलम् ॥ माल्यानि चैव चित्राणि पीतानि वसनानि च ॥ ८७ ॥ उभ्रशृङ्गं धूपार्थे होमार्थं च तथा तिलम् ॥
दक्षिणा चात्र दातव्या तिलं कनकमेव च ॥ ८८ ॥ दर्भमूलैर्मणिः कार्यः कनकेन च वेष्टितः ॥ एवं स्नातो नरो राम्यै दीर्घं जीवितमाप्नु
यात् ॥ ८९ ॥ स्नानानि मुख्यानि तवोदितानि कार्याणि पापप्रशमाय राम ॥ एतानि कार्याणि सदा द्विजेन्द्र धरणीतलेनाथ विचक्ष
णेन ॥ ९० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नक्षत्रस्नानकथनन्नाम नवनवतितमोऽध्यायः ॥ ९९ ॥ पुष्कर
उवाच ॥ उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते ॥ सूर्ये मध्यमपुत्राग्रे नरेन्द्रो ॥ सर्वबीजैस्तथा रत्नैः फलैः पुष्पैस्तथो
षधैः ॥ स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयम्भुवः ॥ २ ॥ धूपं च दद्याद्धर्मज्ञ कुशमूलैर्धृ...तैः ॥ होमं घृताक्तैः कुर्याद्यात्कनकमेव च ॥ ३ ॥
क्रियमाणे स्रुवे चूर्णं तथा चैव रणे द्विजः ॥ सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत् ॥ ४ ॥ स्नानं तु राज्यकामस्य
प्रोक्तमेतन्मया तव ॥ ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम् ॥ ५ ॥ ग्राह्यं तव स्नानमिदं प्रदिष्टं सर्वाघविनाशाय शुगप्रथायन ॥
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम् ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने
अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः ॥ १०० ॥ राम उवाच ॥ स्नानमन्यत्समाचक्ष्व भगवन्पुष्टिकारणम् ॥ येन नित्यंकृतेनेह पुरुषः
४२