विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वेष्टयेत्कृष्णमाल्यैश्च तेन स्नातोऽहताम्बरः ॥ दक्षिणाग्रेषु दर्भेषु सप्तपिण्डानुपाहरेत् ॥ २७ ॥ सुभास्वरो बर्हिषदो ह्यग्निष्वात्तांस्तथैव च ॥ क्रव्याद् औपहूताश्च आज्यपाश्च सुकालिनः ॥ २८ ॥ पितरः कथितास्तेषां पिण्डं दद्यात्क्रमेण च ॥ धूपं ब्रीहिर्यवैर्द्यात्तिलैर्होमं तु कारयेत् ॥ २९ ॥ दातव्या दक्षिणा चात्र तिलानांरजतमेव च ॥ वचा च कोरकं चैव त्रिवृतं धारयेन्मणिम् ॥ ३० ॥ पितृप्रसादं प्राप्नोति कर्मसिद्धिंमथापि च ॥ मघास्नानमिदं कृत्वा नित्यमेव समाहितः ॥ ३१ ॥ माक्षिकं च मधूकं च तथैव मधुयष्टिकाम् ॥ कृत्वा कुम्भद्वयं पूर्णं मघासु स्नापयेन्न- रम् ॥ ३२ ॥ शालिपिष्टं ततः स्नातो घृतेन मधुना युतम् ॥ गन्धमाल्यं बहुविधं बहुकृत्वा भगाय तु ॥ ३३ ॥ निवेद्यित्वा देयानि चित्रां- सानि चाप्यथ ॥ घृतेन धूपो दातव्यो होमः कार्यः प्रियङ्गुना ॥ ३४ ॥ दक्षिणा चात्र दातव्या चित्रवस्त्रांसि चाप्यथ ॥ पारावतस्य पक्षाणि चक्र- वाकस्य मानद ॥ ३५ ॥ त्रिवृतानि तथा कृत्वा मणिं शिरसि धारयेत् ॥ सौभाग्यं महदाप्नोति स्वालैव भगदैवते ॥ ३६ ॥ तिलमाक्षिकरुपेण स्नातः कुम्भद्वयेन तु ॥ अर्यम्णे पायसं दद्यात्पितरस्ते च वाससी ॥ ३७ ॥ धूपे शतावरी देया होमः कार्यस्तथाक्षतैः ॥ तेजोवन्ती प्रियङ्गुश्च त्रिवृतं धारयेन्मणिम् ॥ ३८ ॥ दक्षिणा चात्र दातव्या तथा रक्ते च वाससी ॥ उत्तराफल्गुनीस्नानं सर्वार्थप्रसिद्धिदम् ॥ ३९ ॥ वीर्यस्य वर्धनं चापि कर्तव्यमनुसुव्रता ॥ गजकामस्य ते स्नानं हस्ते पूर्व मयोदितम् ॥ ४० ॥ परसैन्यजयार्थाय स्नानं तदपि शस्यते ॥ मञ्जिष्ठां च समङ्गां च मिसिकान्तां च भार्गव ॥ ४१ ॥ कनकं रजतं चैव पूर्णकुम्भे विनिक्षिपेत् ॥ तेनाभिषिक्तश्चित्राणि माल्यवासांस्यनन्तरम् ॥ ४२ ॥ त्वाष्ट्रे निवे- द्येद्वक्तव्या होमं क्षीरेण कारयेत् ॥ दक्षिणा चात्र दातव्या चित्रवस्त्राणि मानद ॥ ४३ ॥ सर्वगन्धैस्तथा धूपं बलिं चित्रं तथैव च ॥ पृथक्प्रतिप्रसूतानां पुष्पाणां कनकैरवृतम् ॥ ४४ ॥ अष्ट्यादशनां च तथा मणि शिरसि धारयेत् ॥ एवं स्नातस्तु चित्रासु सौभाग्यं महदश्नुते ॥ ४५ ॥ सर्वभूतैषु चाधिवयं यदिच्छेति तदाप्नुयात ॥ रुक्ममश्वत्थपत्रं च खड्गशृङ्गं तथैव च ॥ ४६ ॥ पूर्णकुम्भे विनिक्षिप्य स्नातः शीधुसुरासवम् ॥ वायव्ये प्रयतो दद्यात्क्षीरं सपिलं दधि ॥ ४७ ॥ गन्धं धूपं तथा दद्याद्धोमं कार्य तथा घृतम् ॥ दक्षिणा चात्र दातव्या वासांसि विविधानि च ॥ ४८ ॥ द्वयश्वश्यामहरितहंसपक्षैः पयोऽन्वितम् ॥ धारयेच्च मणिं विद्वान्स्वातावेवं समाचरेत् ॥ ॥ ४९ ॥ वाणिज्ये सम्यगाप्नोति सिद्धिं च महतीं नरः ॥ विशाखासु तथा स्नानं कार्यं कुम्भद्वयेन तु ॥ ५० ॥ कृत्तिकासु महाभाग ततः शाकं
१ व्यञ्जनमिति पाठान्तरम् ।
निवेदयेत् ॥ इन्द्राग्निभ्यां च वासांसि पीतरक्तानि चाप्यथ ॥ ५१ ॥ माल्यानि च महाभाग धूपं च घृतगुग्गुलम् ॥ होमार्थं च घृतं कुर्याद्दक्षिणा कनकं तथा ॥ ५२ ॥ गणाधिपत्यमाप्नोति कृत्वैवं नात्र संशयः ॥ सहस्रवीर्यं चानन्तां मधूकं च तथा मिशिम् ॥ ५३ ॥ पूर्णकुम्भत्रये कृत्वा कृतस्वस्तिकक्षणे ॥ अहताम्बरसंवीतः सर्वगन्धफलाक्षतैः ॥ ५४ ॥ मधुना च बलिं दद्यान्मन्त्राय च महात्मने ॥ वृश्चिकेन तथा धूपं गृहेहोमं च मानद ॥ ५५ ॥ पुरद्वारं कटाहाश्वं चूडाकाष्ठं सकाञ्चनम् ॥ धारयेद्दक्षिणं दद्यात्तया च कनकं द्विज ॥ ५६ ॥ एवं मैत्रे सदा स्नातः सर्वभूतैः समाप्ययात् ॥ मंत्रों मनुजशार्दूल पुरं वा कुरुते वशे ॥ ५७ ॥ तडगगणितीकूलनदीनदसमुद्भवैः ॥ तोयैः पूर्णं घटान्कृत्वा सर्वबीजसमन्वितान् ॥ ५८ ॥ सर्वरत्नोदधौपूर्णान्क्षीक्षारं तैः समाचरेत् ॥ क्षोमवासास्तु रत्नानि माल्यानि च फलानि च ॥ ५९ ॥ रत्नानि दद्याच्छक्राय प्राङ्मुखः सुसमाहितः ॥ धूपं दद्याच्च शीर्षेण विशाखानभिमन्त्रयेत् ॥ ६० ॥ छत्रं च दक्षिणा देया ज्येष्ठार्यां भृशुनन्दन ॥ स्नानमेव सदा कृत्वा राज्यमाप्नोत्यकण्टकम् ॥ ६१ ॥ कृषिकामस्य मूलेन स्नानमुक्तं मया पुरा ॥ तथा वाणिज्यकामस्य प्रागपाढासु भार्गव ॥ ६२ ॥ अथोत्तरासु पाढासु कुर्याद्दष्टचतुष्टयम् ॥ पुष्पबीजफलोपेतं तेन स्नातस्तु मानवः ॥ ६३ ॥ क्षौमवासाः सुरां चैव पायसं च निवेदयेत् ॥ शुद्धमित्रं च धर्मज्ञ माल्यावासांसि चेच्छया ॥ ६४ ॥ होमे च पायसं कुर्याद्रूपे गोऽभ्रुमेव च ॥ धान्यं पुष्पमथौबिल्वं मणिंधार्यः सकाञ्चनैः ॥ ६५ ॥ दक्षिणा चात्र दातव्या सुवर्णं रौप्यमेव च ॥ राजश्रेष्ठत्वमाप्नोति विवादेषु जयं तथा ॥ ६६ ॥ बिल्वं च तगरं चैव चन्दनं मधुपिष्टिकाम् ॥ त्रिपटुं च मधूकं च त्रिषु कुम्भेषु निक्षिपेत् ॥ ६७ ॥ संपादाद्दतं तोयं तन्मृदं च मृगत्तम ॥ तेन स्नातस्ततः स्नानं कुर्यात्सर्वोषधीद्विज ॥ ६८ ॥ कुल्त्थांश्र्वं मशाल्यन्नं मुख्यानि च फलानि च ॥ बलिं च विष्णवे दद्यान्सूर्यधूपं तथैव च ॥ ६९ ॥ राजच्छत्रस्य दण्डाग्रात्काष्ठं शक्रध्वजातथा ॥ सिंहद्रुममणिञ्चात्र शिरसि स्मृतः ॥ ७० ॥ दक्षिणा चात्र दातव्या धेनुः कांस्योपदोहिनी ॥ एवं तु श्रवणस्नायी राज्यमाप्नोत्यकण्टकम् ॥ ७१ ॥ अन्यद्देशाधिपत्यं वा राज्यमाप्नोति भार्गव ॥ अतिमुक्तकपत्राणि बिल्वस्य च तथा लिपेत् ॥ ७२ ॥ कुम्भेषु पञ्चसु ततः स्नानं तैस्तु समाचरेत् ॥ वास्तुभ्यस्तु बलिं दद्यात्सुवर्णं मारुतिके ततः ॥ ७३ ॥ धूपं वायसपक्षैस्तु होमः कार्यो घृतेन तु ॥ ब्रह्मचारिशिलोपाकपक्षं तथैव च ॥ ७४ ॥ काकमाचीं रुक्मयुतां मणिं शिरसि धारयेत् ॥ दक्षिणा चात्र दातव्या धेनु
१ आमिषम्' पाठान्तरम् ।
कांस्योपदोहिनी ॥ ७५ ॥ धनं प्राप्नोति सुमहद्दिवां वापि कन्यकाम् ॥ एवं स्नातो धनिष्ठासु नित्यमेव भृगूत्तम ॥ ७६ ॥ आरोग्यकारकं
स्नानं पूर्वमुक्तं तु वारुणम् ॥ रत्नोदकेन स्नातस्तु नरः कुम्भद्वयेन तु ॥ ७७ ॥ अजैकपादाय बलिं छागं दद्याच्च पायसम् ॥ शुक्लानि चैव
माल्यानि फलानि विविधानि च ॥ ७८ ॥ खड्गाङ्क्ष तथा धूपं होमं च पयसा तथा ॥ व्याघ्रदंष्ट्रा तथा लोमनखं कनकमेव च ॥ ७९ ॥ मणि
र्धार्यो भवेद्राम छागो देया च दक्षिणा ॥ अजैकपादे स्नातस्तु नित्यमेव समाहितः ॥ ८० ॥ उद्धरेत्तु निधिं राम शत्रून्वा विजयेद्ध्रुवम् ॥
आहिर्बुध्न्यं तथा स्नानं गोदुग्धं पुरा तव ॥ ८१॥ चन्दनं च हरिद्रा च दर्भमूलं तथैव च। कृत्वा कुम्भे नरः स्नायात्कृत्वा पिष्टेन कन्यकाम्॥
॥ ८२ ॥ स्नानालङ्कारवाक्षाल्यान्पुष्पे दद्याद्वलिं ततः ॥ मधुलजास्तथैवात्र धूपं दद्याद्घृतेन च ॥८३॥ होमं घृतेन कर्तव्यं दक्षिणा कनकं भवेत् ॥
ब्राह्मीं सुवर्चलां होमं होमगन्धों मणिर्भवेत् ॥ ८४ ॥ एवं पौष्णे सदा स्नातो यः सदा युज्यते नरः ॥ आश्विने सुप्रदं स्नानं पूर्वमुक्तं मया तव ॥
॥ ८५ ॥ वैजयन्तीं बलां चैव समङ्गां च भृगूत्तम ॥ इन्द्रहस्तां मधूकं च कुर्याद्राम घटत्रये ॥ ८६ ॥ तेन स्नातो
यमायाथ प्रपद्यात्तिलतण्डुलम् ॥ माल्यानि चैव चित्राणि पीतानि वसनानि च ॥ ८७ ॥ उभ्रशृङ्गं धूपार्थे होमार्थं च तथा तिलम् ॥
दक्षिणा चात्र दातव्या तिलं कनकमेव च ॥ ८८ ॥ दर्भमूलैर्मणिः कार्यः कनकेन च वेष्टितः ॥ एवं स्नातो नरो राम्यै दीर्घं जीवितमाप्नु
यात् ॥ ८९ ॥ स्नानानि मुख्यानि तवोदितानि कार्याणि पापप्रशमाय राम ॥ एतानि कार्याणि सदा द्विजेन्द्र धरणीतलेनाथ विचक्ष
णेन ॥ ९० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नक्षत्रस्नानकथनन्नाम नवनवतितमोऽध्यायः ॥ ९९ ॥ पुष्कर
उवाच ॥ उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते ॥ सूर्ये मध्यमपुत्राग्रे नरेन्द्रो ॥ सर्वबीजैस्तथा रत्नैः फलैः पुष्पैस्तथो
षधैः ॥ स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयम्भुवः ॥ २ ॥ धूपं च दद्याद्धर्मज्ञ कुशमूलैर्धृ...तैः ॥ होमं घृताक्तैः कुर्याद्यात्कनकमेव च ॥ ३ ॥
क्रियमाणे स्रुवे चूर्णं तथा चैव रणे द्विजः ॥ सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत् ॥ ४ ॥ स्नानं तु राज्यकामस्य
प्रोक्तमेतन्मया तव ॥ ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम् ॥ ५ ॥ ग्राह्यं तव स्नानमिदं प्रदिष्टं सर्वाघविनाशाय शुगप्रथायन ॥
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम् ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने
अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः ॥ १०० ॥ राम उवाच ॥ स्नानमन्यत्समाचक्ष्व भगवन्पुष्टिकारणम् ॥ येन नित्यंकृतेनेह पुरुषः
४२
वि० ध० ॥२४७॥ दि० खं० अ० १०३
पृष्टिमाप्नुयात् ॥ १ ॥ पुष्कर उवाच ॥ श्रवणर्क्षममुप्राप्ते देवदेवं निशाकरे ॥ भक्त्या समाचरेत्स्नानं नदीदधिसमुद्रमे ॥२ ॥ निम्नगायां सरित्सि वा नदीसागरसङ्गमे ॥ स्नातः संपूजयेद्देवं विष्णुं माल्यानुलेपनैः ॥ ३ ॥ धूपदीपनमस्कारैस्तथा चैवान्नसम्यदा ॥ शाल्यन्नं दधिसंयुक्तं विष्णवे विनिवेदयेत् ॥ ४ ॥ पौरुषेण च सूक्तेन पायसं जुहुयात्ततः ॥ रजतं दक्षिणां दद्याद्ब्राह्मणाय भृगूत्तम ॥ उपवास विनाप्येतत्स्नानं पुष्टिप्रदं परम् ॥ ५ ॥ स्नातः समाप्नोति सदा मनुष्यः कामानभीष्टान्नृक्षणसंयोगे ॥ पापं समस्तं विजहाति राम धर्मं समाप्नोति यशश्च मुख्यम् ॥६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्टिकारकश्रवणस्नानकथनन्नामैकोत्तरशततमोऽध्यायः ॥ १०१ ॥ पुष्कर उवाच ॥ जन्मनक्षत्रे सोमे सर्वौषधिसमन्विंतम् ॥ कुम्भं सुपूजितं कृत्वा स्नपनं तेन कारयेत् ॥ १ ॥ स्नातश्चैवं चेपयेद्देवं वासुदेवं जगत्पतिम् ॥ नक्षत्रदेवं चन्द्रं नक्षत्रं वारुणं तथा ॥२॥ वाचं चायुधपोतारं छत्रं संत्पूजयेत्तथा ॥ यथोक्तदेवतालीङ्गमंत्रैश्च जुहुयाद्घृतम् ॥ ३ ॥ शक्त्या च दक्षिणा देया ब्राह्मणेभ्यो भृगूत्तम ॥ ततोडुलितः सुरभिः स्रग्वी विविधभूषणः ॥ ४ ॥ तिष्ठन्मनुजशार्दूल हविष्याशी जितेन्द्रियः ॥ उपवासं विनाप्येतत्पावनं पापनाशनम् ॥ ५ ॥ मातृस्थानं तु जगतां जन्मतारा विधीयते ॥ चन्द्ररूपी च भगवान्पिता विष्णुः प्रकीर्तितः ॥ ६ ॥ तस्मात्सर्वप्रयत्नेन जन्मनक्षत्रसंस्थितम् ॥ भक्त्या तं पूजयेच्चन्द्रं जन्मक्षं च विशेषतः ॥७॥ पूजां सदा चन्द्रमस्तस्तु कृत्वा जन्मर्क्षसंस्थस्य भृगुप्र धान ॥ कामानवाप्नोति नरस्तु सर्वान्सुखी सदा स्याद्भुवि नष्टपापः ॥८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने जन्मर्क्षस्नानवर्णनन्नाम द्वयुत्तरशततमोऽध्यायः ॥ १०२ ॥ पुष्कर उवाच ॥ चन्द्रमण्डलवृद्धौ तु तथा चैवोत्तरायणे ॥ शुभे दिवसनक्षत्रे मुहूर्ते च तथा शुभे ॥ १ ॥ तिष्याश्विनगते चन्द्रे हस्तश्रवणगेऽपि च ॥ प्राचीं वायव्ययोर्दीचां निष्क्रम्य नगरान्बहिराम् ॥ २ ॥ वास्तु विद्याविर्निद्दिष्टे भूमिभागे मनोहरे ॥ अष्टहस्तं शुभं कुर्याच्चतुरस्रं च मण्डलम् ॥ ३ ॥ वल्यर्थमपरं कुर्याद्वहिरेवंविधमेव च ॥ गोमये नोपलिप्ते तु सुधलेखासमन्विते ॥ ४ ॥ ध्वजातपत्रचन्दनमाल्याददामकुशाक्षतैः ॥ लाजागन्धादिभिश्चैवमर्ध्यैरभ्यर्च्य सम्भवेत् ॥५॥ लाजालाजोप हारेणस्तथैव च विभूषयेत् ॥ ततः प्रक्षालयेच्चम्तु चतुरुश्चेतु घटान्नवान् ॥ ६ ॥ प्रत्येकं कल्पयेद्दिङ्कान्कल्पिते मण्डलोदये ॥ सूक्तिञ्चैव महाभाग बीजमात्रसमन्वितान् ॥ ७ ॥ ततस्तु कल्पयेत्कुम्भान्सप्त सुव्याहृतोर्जलैः ॥ सर्वोषधियुतः कार्यः कुम्भ एको द्विजन्मना ॥ ८ ॥ सर्वबीजयुतो धान्यरत्नोपेतस्तथा परः ॥ तथा चैवापरं युक्तं कार्यं वृक्षाम्रपल्लवैः ॥ ९ ॥ पुष्पैश्चैवापरं युक्तं फलैश्चैवापरं तथा ॥ सर्वगन्धयुतं
॥२४७॥
वि० ध० ॥ २४८ ॥
द्वि० खं० अ० १०४
विनायकग्रहात्तैस्तु मूढचित्तोपघातिभिः १ ॥ येषां न सिद्ध्यते विद्या सत्यं येषां न रोहति ॥ ३ ॥ सीदत्यस्य कुटुम्बं च पण्यं नायाति विक्र- यम् ॥ न लभेत जयं युद्धे बलवानपि यो नरः ॥ ४ ॥ युक्तान्यपि च कार्याणि विपद्यन्ते पुनःपुनः ॥ कलहश्च भवेत्तेषां सुहृत्स्वजनबान्धवैः ॥ ॥ ५ ॥ गर्भः प्रस्स्रवते यस्या जातो वापि विनश्यति ॥ पुष्पं यस्याः क्षयं याति न च किञ्चित्प्रजायते ॥ ६ ॥ गृह्णाति या न बीजं च जनयेद्वाप्य- मातृवान् ॥ नाप्नोति च पतिं कन्या तस्मात्स्नेहमथापि वा ॥ ७ ॥ सौभाग्यं च न चायाति सुहृत्स्वजनबन्धुषु ॥ एवमुक्तेषु चान्येषु त्वयुक्तेषु च भार्गव ॥ ८ ॥ प्रसमीक्ष्य विधानज्ञः स्नानमेतत्समाचरेत् ॥ स्नापयेत्सरित्तीरे ग्रहविधानविचक्षणः ॥ ९ ॥ राजयक्ष्मभिभूता ये विषम- ज्वरिताश्च ये ॥ तेषां देवालये स्नानं कुर्याद्वा सिद्धसेविते ॥ १० ॥ छायोन्मादोपहता ये ये चापस्मारशोषिणः ॥ तेषां मुनिगणावासे तीर्थे वा स्नानमिष्यते ॥ ११ ॥ विनायकग्रहार्त्ता ये ये च मूढा विचेतसः ॥ सज्जनाचरिते देशे तेषां स्नानं विधीयते ॥ १२ ॥ त्रैविद्या येन सिद्ध्यन्ति गुणा येषां प्रपूजिताः ॥ तेषां स्नानमिहेष्टं हि सिद्धदेवस्य मन्दिरे ॥ १३ ॥ येषां नास्ति जयो युद्धे येषां स्वजनसंक्षयः ॥ कान्तारे वा वने तीर्थे तेषां स्नानं प्रशस्यते ॥ १४ ॥ सततं कलहो येषां जायते च यतस्ततः ॥ त्रिपथे वा तडागे वा स्नानं तेषां प्रकल्पयेत् ॥ १५ ॥ पक्षिभ्यां स्तनपयश्चारु गर्भो यस्याः स्रवेत्तथा ॥ अशोकसन्निधौ स्नाप्या जातो यस्याः विनश्यति ॥ १६ ॥ न च गृह्णाति या शुक्रं स्नाप्या सा सफले तरौ ॥ महोदधितटे स्नाप्या यस्यापत्यं विनश्यति ॥ १७ ॥ अमानुषान्या जनयेत्स्नापयेत्तां चतुष्पथे ॥ यादृशं वा च भर्तारं न लभेत वरा- ङ्गना ॥ १८ ॥ स्नापयेत्कदलीगेहे तां स्थाने वा वृक्षसंकुले ॥ रूपलावण्ययुक्ता या सौभाग्यं या न विन्दति ॥ १९ ॥ स्नानं वृद्धिकरं तस्या वेश्यागारे प्रकल्पयेत् ॥ २० ॥ समेऽजनसंकीर्णे शुचौ देशे विकण्टके ॥ सहायैः प्रवरैः सार्धं अहोरात्रोषितो द्विजः ॥ २१ ॥ स्नानकर्म प्रकुर्वीत सोपवासस्य मानद ॥ अहोरात्रासमर्थस्य कार्यं वा हविष्याशनम् ॥ २२ ॥ शरद्वसन्तयोः कार्यं स्नानं स्वस्थस्य भार्गव ॥ सर्वकालेष्वथार्त्तस्य ग्रहव्याधिनिबर्हणम् ॥ २३ ॥ मुहूर्त्ते तत्र सांवित्रे ब्राह्मणं स्नापयेद्द्विज ॥ मैत्रेऽथ विजये चैव राजन्यं स्नापयेत्तथा ॥ २४ ॥ वैश्यं पैतामहे शूद्रं शेषेषु स्नापयेत्तथा ॥ पञ्चमी सप्तमी शस्ता स्नपने ब्राह्मणस्य च ॥ २५ ॥ त्रयोदशी तृतीया च क्षत्रियस्य विशिष्यते ॥ द्वितीया दशमी चैव तथा वैश्यस्य मानद ॥ २६ ॥ षष्ठी चतुर्दशी चैव शूद्राणां स्नानकर्मणि ॥ एकादशी
॥ २४८ ॥
१ क्रूर इति पाठान्तरम् ।
द्वादशी च तथा कृष्णचतुर्दशी ॥ २७ ॥ सर्वेषामेव वर्णानां स्नानकर्मणि पूजिता ॥ ध्रुवेषु वैष्णवे पुष्ये रेवत्यां भगदैवते ॥ २८ ॥ हस्ते पुनर्वसौ सौम्ये ज्येष्ठायामथ वारुणे ॥ धनिष्ठायां तथा स्नानं सर्वेषामेव पूजितम् ॥ २९ ॥ वेत्रासनं भद्रपीठं वैदलं दारवं तथा ॥ वर्णाना मानुपूर्व्येण परिकीर्तितमासनम् ॥ ३० ॥ कृष्णाजिनं च वैयाघ्रं रौरवं बास्तमेव च ॥ पादोपधानं वर्णानामानुपूर्व्येण कल्पयेत् ॥ ३१ ॥ वृषाश्वरथ पृष्ठे च गजपृष्ठे तथैव च ॥ ॥ नरस्कन्धेऽथवाङ्गे वा प्रायशः स्नापयेच्छिशून् ॥ ३२ ॥ स्नातकामस्य तस्याथ पूर्वमुत्सारसः स्मृतम् ॥ यैर्द्रव्यैर्मु गुशार्दूल तानि वक्ष्याम्यतः परम् ॥ ३३ ॥ पुनर्नवां रोचनां च शताह्वांऽगुरुणीं त्वचम् ॥ मधूकं च रजन्यौ द्वे तगरं नागकेसरम् ॥ ३४ ॥ आसुरीं सर्जिकां चैव मांसीं रामठ चन्दनम् ॥ प्रियङ्गु सर्पपाम्बुष्ठं कुंकुमं बहुपुत्रिकाम् ॥ ३५ ॥ बलेन्दूहस्तौ ब्राह्मीं च पञ्चगव्यं तथैव च ॥ सक्तूनां मिश्रयित्वा च कार्पामुद्वर्तनं भवेत् ॥ ३६ ॥ ततः स्नानादिने प्राप्ते प्रावबुद्धसादयेत्पुनः ॥ ततो मनोहरे देशे मण्डलं कल्पयेद् बुधः ॥ ३७ ॥ चतुरस्रं गोमयेन सर्वतोऽष्टदिशं समम् ॥ सतोरणं चतुर्द्वारं प्राकारै रुपशोभितम् ॥ ३८ ॥ तत्र मध्ये लिखेत्पद्ममष्टपत्रं सुशोभितम् ॥ कर्णिकायां लिखेद्विष्णुं मेघामं पीतवाससम् ॥ ३९ ॥ कौस्तुभोद्भासितोरस्कं शङ्खचक्रगदाधरम् ॥ ब्रह्माणं दक्षिणे न्यस्य पद्मवर्णं समालिखेत् ॥ ४० ॥ अजिनाम्बरसंस्युक्तं श्वेतयज्ञोपवीतिनम् ॥ ४१ ॥ रजताभ्रनिभं वामे भागे रुद्रं समालिखेत् ॥ ४१ ॥ व्याघ्रचर्माम्बरधरं त्रिनेत्रं शूलपाणिणम् ॥ पूर्वपत्रे लिखेच्चक्रं सवज्रं च सुदर्शनम् ॥ ४२ ॥ गजपृष्ठाधिरूढं तु स्वर्णाभं पीतवाससम् ॥ प्राग्दक्षिणे तथा पत्रे लिखेद्वह्निं महाप्रभम् ॥ ४३ ॥ धूमाभवासनं देवं शुकयानगतं प्रभुम् ॥ अतसीपुष्पसंकाशं पीताम्बरधरं शुभम् ॥ ४४ ॥ सदण्डं महिषारूढं लिखेत्पत्रे तु दक्षिणे ॥ उष्ट्रारूढं विरू पाक्षं लिखेद्दक्षिणपश्चिमे ॥ ४५ ॥ रक्ताम्बरधरं कृष्णं खड्गपाणिं विभीषणम् ॥ पश्चिमे वरुणं देवं सपाशं हंसवाहनम् ॥ ४६ ॥ सशुक्लवसनं देवं स्वच्छवैडूर्यसन्निभम् ॥ पश्चिमोत्तरतो वायुं वायुमण्डलमध्यगम् ॥ ४७ ॥ लिखेच्छुभ्राम्बरं श्वेतं सर्वाभरणभूषितम् ॥ कुबेरमुत्तरे पत्रे व्यापयान गतं लिखेत् ॥ ४८ ॥ कवचोत्तमासंसंयुक्तं गदिनं कमलप्रभम् ॥ वृषारूढमथेशाने पत्र पूर्वोत्तरे लिखेत् ॥ ४९ ॥ व्याघ्रचर्माम्बरधरं भालचन्द्रं विभूषि तम् ॥ चतुर्भिः सागरैः पद्मं चतुरस्रं समन्ततः ॥ ५० ॥ यादोगणयुतैश्चैव क्रमेण परिवेष्टयेत् ॥ सागराणां तु पूर्वेण लिखेत्पद्मं मनोहरम् ॥ ५१ ॥ ततश्चक्रं तथा दण्डं वस्त्रं मकरमेव च ॥ शक्तिं ध्वजं त्रिशूलं तु क्रमेणैव तु विन्यसेत् ॥ ५२ ॥ ततः प्राकारसलिलान्पूर्वतश्च विन्यसेत् ॥ चतुरः
१ 'उत्सादनम्' इति पुस्तकान्तरे । २ 'यमम्' इति पाठान्तरम् । ३ 'चन्द्रामं वै' इति पाठान्तरम् ।
वि० ध० ॥२४४॥
द्वि० खं० अ० १०४
मृत्स्निषु तथा द्वारेष्वष्टौ सुवृत्तम् ॥ ५३ ॥ सुसंहतान्समान्छ्लक्ष्णान्दृढान्पत्रनिर्गतान् ॥ व्यामार्धसम्मितांस्तीक्ष्णान्पञ्च तद्वन्निषीप- तान् ॥ ५४ ॥ पञ्चरङ्गं ततः सूत्रं बध्नीयात्तेषु भार्गव ॥ अरुन्मन्दारमार्गांस्तु सुदृढं सुमनोहरम् ॥ ५५ ॥ वितानं मण्डलेकुर्याच्छ्वेतवर्णं मनो- हरम् ॥ ध्वजं छत्राणि खड्गांश्च घण्टाद्वात्रिंशतंर्दशम् ॥ ५६ ॥ प्राकारोपरि दण्डेषु सुदृढं च विनिवेदयेत् ॥ स्नाने मण्डलकान्कुर्यान्मण्डलाकारस्य ततो बहिः ॥ ५७ ॥ त्रिसमान्भृगुशार्दूल चतुरस्राम्मनोहरान् ॥ ज्वालामालार्चितान्दिग्शासु विदिशासु च ॥ ५८ ॥ स्नानमण्डलकानां तु समीपे सुसमन्तः ॥ गावः संस्थाप्या वृषभाश्च सुपूजिताः ॥ ५९ ॥ अजाश्चार्कसमायुक्ता जीवमोक्षाश्च पक्षिणः ॥ प्राकारस्योत्तरे भागे वेदिं कुर्यात्सुशोभिताम् ॥ ६० ॥ दर्भैराच्छाद्य तान्सर्वान्सलिलेन समुक्षयेत् ॥ तत्राग्निं जुहुयान्मन्त्रैर्महाव्याहृतिपूर्वकम् ॥ ६१ ॥ यथोक्तदेवतालिं- गैस्तथा मन्त्रैश्च भार्गव ॥ ॐकारेण तथाब्रह्माणां नामयुक्तेन वै पृथक् ॥ ६२ ॥ अश्वत्थौदुम्बरप्लक्षबिल्वकिंशुकविद्रुमाः शरमी ॥ स्वराद्वयाम्पपामार्गं पलाशमयकान्यपि ॥ ६३ ॥ वंशिकां चाश्वगन्धा च कदम्बञ्चार्जुनासनौ ॥ एतेषां समिधः शस्ताः किङ्कुमाप्ता घृतप्लुताः ॥ ६४ ॥ एकै- कमप्याहुतशतं हव्यं सर्षपसंयुतम् ॥ तिलान्वान्तांव्रताक्षोल्लाज्जाश्चाग्रौ समावपेत् ॥ ६५ ॥ ततश्चांचेपयेच्छान्तिं ब्राह्मणान्गुणसंयुतान् ॥ अभ्य- च्र्य दक्षिणामिश्र पुष्षाक्षतफलैस्तथा ॥ ६६॥ ततस्तु स्थापयेत्कुम्भान्मण्डले सागरेपरि ॥ यथा दिग्देवनामाङ्कान्दिक्षु विदिशासु च ॥ ६७ ॥ काञ्चनान्राजतांस्ताम्रानथ वापि महीमयान् ॥ नानान्येषां वक्ष्यामि तानि मे गदतः शृणु ॥ ६८ ॥ भद्रः सुभद्रः सिद्धार्थश्चतुर्थः पृथिवर्धनः ॥ अमोकश्चित्रभानुश्च पर्जन्योऽथ सुदर्शनः ॥ ६९ ॥ वापिकूपसरिद्भव्य पूजयित्वा जलेन तान् ॥ वनस्पतिसमायुक्तानन्ध्यैर्माल्यैश्चपूजितान् ॥ ७०॥ मन्त्राणुमन्त्रितांस्तेतांस्तन्न मन्त्रं निबोध मे ॥ स्थापयन् घटान्तान्सिविरुद्रमरुद्गणाः ॥ ७१॥ विश्वेदेवास्तथादित्या वसवो मुनयस्तथा ॥ अधिक्र- यन्तु सुप्रीतास्तथान्या अपि देवताः ॥ ७२॥ एवं संस्थाप्य तान्कुम्भान्स्थाय्या मण्डलेकेष्वथ ॥ ऐन्द्रादिक्रमशः स्थाप्यास्तान्सने पूर्वचोदिते ॥ ७३॥ पूर्वे मण्डलेके स्थाप्यः शुक्कुपुष्पाम्बरान्वितः ॥ सर्वत्र ग्राह्यो द्वैर्मध्यम्यमाणाणुनान्चटान् ॥ ७४ ॥ प्रत्येके स्याच्चतौर्मस्तु क्षारस्योपरि भार्गव ॥ अपां पूर्णं घटं तत्र यथाशं च यथास्वक्कम् ॥ ७५ ॥ तथा दृद्याथवानानं सम्यक्सन्नाप्यस्य जायते ॥ औषधीश्चात्र वक्ष्यामि यास्तु कुम्भेषु निक्षिपेत् ॥ ७६ ॥ अस्यापितिषु धर्मज्ञ ततः संस्थापनं भवेत् ॥ जया जयन्तीं विजयां सुकर्णी मर्कटीं वचाम् ॥ ७७ ॥
१ 'क्रोधित्तान्' इति पाठान्तरम् । २ 'रश्मथाशक्तिम्' इति पाठान्तरम् । ३ 'पाठयेत्' इति पाठान्तरम् ।
॥२४४॥
कायस्थां च वयस्थां च बृहतीं बहुपुत्रिकाम् ॥ सहस्रशतवीर्ये च त्रायमाणां कुटुम्बराम् ॥ ७८ ॥ अतिच्छत्रां तथा च्छत्रां जीवन्तीमपराजि- तां ॥ जटिलां पूतनां कीर्शा सुरां यक्षसुरां तथा ॥ ७९ ॥ अवीतराक्षसीं वीरां स्थिरां भद्रां यशोबलाम् ॥ शङ्खपुष्पीं विष्णुदन्तां नाकु- लीं गन्धनाकुलीम् ॥ ८० ॥ गोलोम्यतिबले चैव व्याघ्रीमाश्र्ववतीं तथा ॥ श्यामां ज्योतिष्मतीं चैव तेषु कुम्भेषु निक्षिपेत् ॥ ८१ ॥ चन्दनोशीरनगरकुम्भमागुरुकेसरान् ॥ त्वक्पत्रमुस्तह्रीवेरप्रियङ्गुत्वग्दलार्वसान्तथा ॥८२॥ गन्धमांसीं तथा स्पृक्कां रोचनं रामकं त्रुटिम् ॥ कशीरुकामु- त्तानं च ककुभं पद्मकं तथा ॥ ८३ ॥ कस्तूरिकां तरुष्कं च कर्पूरं नाडिकं तथा ॥ जातीफलं लवङ्गञ्च कक्कोलैः सह चूर्णिताः ॥ ८४ ॥ गन्धद्रव्याणि चान्यानि यथालाभं विनिक्षिपेत् ॥ श्र्वेता रक्ता तथा पीता कृष्णा चैव हि मृत्तिका ॥ ८५ ॥ याश्र्वान्या विविधाः शस्ता मृत्तिका- स्ता निबोध मे ॥ वृषाश्र्वशृङ्गलक्ष्मीकोद्भवतातयन्नाद्गजात् ॥ ८६ ॥ अग्न्यागाराद्धस्तिदन्तात्सुभगानिर्गणिकागृहात् ॥ राजद्वारात्पुरद्वारात्कूप- पादान्नगृहातथा ॥ ८७ ॥ कुम्भकारगृहात्तथाः पश्चिम्याः श्रोत्रियालयात् ॥ ८९ ॥ इन्द्रनीलताडागाच्च ह्रदात्प्रस्रवणादपि ॥ ८८ ॥ चतुष्पथात्तसप्तथान्मृत्तिकाशर्करात्तथा ॥ गजाश्र्वगणशालाभ्यस्तथाचर्यणवेश्मनः ॥ ८९ ॥ अजाविकान्वितागाराज्ज्ञकोशान्महासनात् ॥ अशोकात्काश्र्वित्थवृक्षाणां समीपात्सफलस्य च ॥ ९० ॥ सदाध्ययनशालातो यज्ञभूमेश्च मृत्तिकाः ॥ प्रगृह्य सर्वाः सम्भृत्य पञ्चगव्यसमन्विताः ॥ ॥ ९१ ॥ सर्वबीजैः समायोज्य स्नानकुम्भेषु निक्षिपेत् ॥ ततः कुम्भान्नव प्रतिष्ठाप्य स्नाप्यं संस्थापयेद्द्बिजः ॥ ९२ ॥ मण्डलेषु क्रमेणैव दिशासु विदिशासु च ॥ पूर्वे मण्डलके स्नाप्यः श्र्वेतमाल्यानुलेपनः ॥ ९३ ॥ श्र्वेतैरेव घटै धार्यश्चतुर्भिर्ब्राह्मणैर्भवेत् ॥ एवं दक्षिणतस्तस्य सर्वं नीलं प्रकल्पयेत् ॥ ९४ ॥ कृष्णं च कल्पयेत्सर्वं तथा दक्षिणपश्चिमे ॥ ( पीतं प्रकल्पयेत्सर्वं तथा भागे तु पश्चिमे ॥ ) पश्चिमोत्तरयोः सर्वं शुक्लं प्रकल्पयेत् ॥ ९५ ॥ तथैवोत्तरदिग्भागे पञ्चवर्णं प्रकल्पयेत् ॥ प्रागुत्तरे तथा भागे चित्रं सर्वं प्रकल्पयेत् ॥ ९६ ॥ राज्याभिषेकविधि- तो मन्त्रश्चात्र विधीयते ॥ प्रत्येकमथ कुम्भेषु दिशासु विदिशासु च ॥ ९७ ॥ एवं स्नाप्यो महाभाग शङ्खपुण्याहनिस्वनैः ॥ स्नातः शुक्लाम्ब- रधरः श्र्वेतमाल्यानुलेपनः ॥ ९८ ॥ मण्डले तु विविधानां सुराणां पूजनं ततः ॥ कुर्वीत प्रयतः शुद्धि गन्धमाल्यार्घसम्पदा ॥ ९९ ॥ धूपैर्दीपेर्न- मस्कारैर्वस्त्राभरणैस्तथा ॥ अपूपान्पायसं भक्ष्याञ्छुक्लमाल्यानुलेपनम् ॥ १०० ॥ विविधं च फलं क्षीरं ब्राह्मणेभ्यो निवेदयेत् ॥ दशा च
१ बहुपुस्तके पाठान्तरम् ।
वि० ध० ॥२५०॥
द्वि० खं० अ० १०४
परमान्नेन श्वेतमाल्यानुलेपनैः ॥ १०१ ॥ फलैः प्रसूनैश्च तथा केशवाय हरेद्बलिम् ॥ क्षीरेण परमान्नेन दध्ना सकृसरेण च ॥ १०२ ॥ फलैः का- लोद्भवैः पुष्पैः शङ्कराय हरेद्बलिम् ॥ अपूपैः परमान्नेन भक्ष्यैः क्षीरेण सर्पिषा ॥ १०३ ॥ माल्यानुलेपनैः शुक्लैर्महेन्द्राय हरेद्बलिम् ॥ यवानां च तिलानां च गोधूमानां तथा सक्तून् ॥ १०४ ॥ भक्ष्यैः सगुडसर्पिष्कैर्बलिं कुर्यात्तु वह्नये ॥ गुडेनगुडपूपांश्चपक्वंमांसं तथामिषम् ॥ १०५ ॥ यमाय च बलिं दद्यात्कृष्णमाल्यानुलेपनम् ॥ पक्वंमांसं तथा मांसं कूष्माण्डाम्लानुलेपनम् ॥ १०६ ॥ विरूपाक्षाय तु सुरां दद्यात्सोवीरकं तथा ॥ मुद्गांश्चस्तिलपूपांश्चलजान्मन्दिरंस्तथा ॥ १०७ ॥ वरुणाय बलिं दद्यात्पीतं माल्यादिकं तथा ॥ यवगोधूमचणकान्भक्तांस्त्वक्सुरसारवान् ॥ ॥ १०८ ॥ कूल्माषघृतसंयुक्तान्बलिं दद्यात्तु वायवे ॥ मत्स्यांश्च मधुसंयुक्तान्गुडमिश्रांस्तथामिषम् ॥ १०९ ॥ चित्रं माल्यं कुंकुमं च कुबेराय हरेद्बलिम् ॥ शिम्बिधान्यान्यभग्नांश्चशाल्यन्नं सगुडं दधि ॥ ११० ॥ ईशानाय बलिं दद्याच्छुक्लमाल्यानुलेपनैः ॥ शुक्लोदनं शुक्लमाल्यं मूलाद्यो- पहरेद्बलिम् ॥ १११॥ तथा पञ्चरसैः सिद्धं दद्याद्दिक्तां बलिंक्रमात् ॥ कुसरं गन्धपुष्पाढ्यं दद्याच्छुक्लाय पायसम्॥ ११२॥ फलोदनं रक्तमाल्यं दद्या- च्छुक्लये तथा बलिम् ॥ स्नानमण्डलेभ्योऽपि बलिं दद्यात्ततो वलीम्॥११३॥वालकींस्तदन्कान्भक्ष्यान्फलानि विविधानि च ॥ मत्स्यान्मिषं सहि- धिं पायसं तिलतण्डुलम् ॥ ११४ ॥ संकृन्दानि हृद्यं भूतेभ्यो बलिमाहरेत् ॥ ॐकाराद्यैश्चतुर्थ्यन्तैः स्वाहाकारसमन्वितैः ॥ ११५॥ राज्याभि- षेकमन्त्रैश्चैतद्देतानां पृथक्पृथक् ॥ नामभिर्जुहुयाद्वह्नौ यथाश्रद्धं यथाश्रुतम् ॥ ११६॥ पूर्णाहुतिं ततो दत्त्वा देया विप्रेषु दक्षिणा ॥ कनकं रजतं गावो वासांसि विविधानि च ॥ ११७ ॥ कर्त्रे च दक्षिणा देया तथा राम विशेषतः ॥ दत्तं वस्त्रादि देवेभ्यस्तथा स्नानघटादिकम् ॥ ११८ ॥ कर्ता यथेष्टं विभजेत्तस्य भागो हि स स्मृतः ॥ इत्येतच्च वदनं दृष्ट्वा नमस्कृत्य च देवताः ॥ ११९ ॥ मङ्गल्यालम्भनं कृत्वा फलपाणिर्बहिर्मुखः ॥ तस्माद्देशाद्विनिर्गत्य गृहं यायात्स्वकं ॥ १२० ॥ तत्र तिष्ठेद्धविष्याशी ब्रह्मचारी च तां निशाम् ॥ स्नापितो ब्रह्मभूतेन स्नानेनायं यथा भवेत् ॥ १२१ ॥ सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ॥ पुरा देवासुरे युद्धे शक्रायैतद् बृहस्पतिः ॥ १२२॥ कृतवान्पुरुहूताय ततः शक्रः सुराधिपः ॥ जघान दैत्यकुल्यानां नवतीनव भार्गव ॥ १२३ ॥ धन्यं यशस्यं रिपुनाशकारि रक्षोहनं पापहरं पवित्रम् ॥ रोगापहं विघ्नविनाशकारि स्नानं मया ते विहितं यथार्थम्॥ १२४॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपाख्याने दिक्पालस्नानवर्णनं नाम चतुरूत्तर
॥२५०॥
१ 'बद्याय' पाठान्तरमेतत् । २ 'यकृद्दन्ताणि' इति पाठान्तरम् ।
शततमोऽध्यायः ॥ १०४ ॥ राम उवाच ॥ स्नानमन्यत्समाचक्ष्व भगवन्दुर्गितापहम् ॥ विनायकोपसृष्टानां सर्वकर्मप्रसाधकम् ॥ १ ॥
पुष्कर उवाच ॥ विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ॥ गणानामधिपत्ये च केशवेन पितामहैः ॥ २ ॥ तेनोपसृष्टो यस्तस्य लक्षणानि
निबोध मे ॥ स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डं च पश्यति ॥ ३ ॥ काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ॥ अन्त्यजैर्गर्दभैरुष्ट्रैः
सहैकत्रावतिष्ठते ॥ ४ ॥ व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः ॥ विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ ५ ॥ तेनोपसृष्टो लभते न
राज्यं राजनन्दनः ॥ न वा कुमारी च भर्त्तारमपत्यं गर्भमङ्गना ॥ ६ ॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ॥ वणिङ् न
लाभमाप्नोति न कृषिं तु कृषीवलः ॥ ७ ॥ स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ॥ हस्त्यृक्षपुष्याश्वयुक्सौम्यवैष्णवान्त्यान्तभे शुभे ॥ ८ ॥
नक्षत्रे च मुहूर्त्ते च मैत्रे वा ब्रह्मदैवते ॥ चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं भवेत् ॥ ९ ॥ भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजोत्तमान् ॥ गौर
सर्षपकल्केन मेध्येनोत्सादितस्य च ॥ १० ॥ सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ॥ चतुर्भिः कलशैः कार्यं स्नपनं मन्त्रसंयुतम् ॥ ११ ॥ तथ
कवर्णाः कलशाः कर्तव्यास्ते हृदाम्भसा ॥ अश्वस्थानाद्गजास्थानाद्वल्मीकात्सङ्गमाद्ध्रदात् ॥ १२ ॥ मृत्तिकां रोचनं गन्धान्गुग्गुलं तेषु निक्षि
पेत् ॥ सर्वौषधीश्च बीजानि स्नानमन्त्रानतः शृणु ॥ १३ ॥ सहस्राक्षं शतधारंसुपर्णिः पावनं कृतम् ॥ तेन त्वामभिषिञ्चामः पावमानीः पुनन्तु
ते ॥ १४ ॥ भगं ते वरुणो राजा भगं शुक्रो बृहस्पतिः ॥ भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १५ ॥ यत्ते केशेषु दौर्भाग्यं सीमन्ते
यच्च मूर्धनि ॥ ललाटकर्णयोर्हष्णोरपास्तन्दन्तु ते सदा ॥ १६ ॥ दर्भीपिञ्जलमादाय वामहस्ते ततो गुरुः ॥ स्नातस्य सार्षपं तैलं जुहुयाद्दुव्व
रेण तु ॥ १७ ॥ जुहुयान्मूर्ध्नि धर्मेण चतस्रोऽन्यैश्च नामभिः ॥ ॐकारपूर्वैर्धर्मज्ञ स्वाहाकारसमन्वितैः ॥ १८ ॥ मिताय समितायाथ सालङ्कटङ्कटाय
च ॥ कूष्माण्डराजपुत्राय तथैव च महात्मने ॥ १९ ॥ नामभिर्बलिमन्त्रैश्च वषट्कारसमन्वितैः ॥ दद्याच्चतुष्पथे शीर्षे कुशानास्तीर्य सर्वतः ॥ २० ॥
कृतशक्तोस्तण्डुलांश्च पललौदनमेव च ॥ मत्स्यान्पक्कांस्तथैवामान्मांसमेतावदेव तु ॥ २१ ॥ पुष्पं चित्रं सुगन्ध्यं तु सुरां च त्रिविधामपि ॥ मूलकं
पूरिकापूपांस्तथैवेण्डुरिकाणि च ॥ २२ ॥ एतान्सर्वांनुपाहृत्य भूमौ कृत्वा ततः शिरः ॥ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ॥ २३ ॥
रूपं देहि यशो देहि सौभाग्यं सुभगे मम ॥ पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ २४ ॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ भोज
१ ‘ हृदगोकुलात् ’ इति ख० ।
२ ‘ पूजार्काङ्गुरसिन्धूपास्तन्नेत्रेष्विषडकानि च ’ इति पाठान्तरम् ।
वि० ध० द्वि० खं० अ० १०७ ॥२५१॥
चेद्ब्राह्मणाद्द्वादशद्वयुग्मं गुरोरपि ॥ २६ ॥ विनायकस्नानमिदं यशस्यं रक्षोहरणं विघ्नविनाशकारि ॥ सर्वार्थमद्यं रिपुनाशनं च कर्तव्यमेतन्नियमेन राम ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने विनायकस्नानवर्णनंनाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ पुष्कर उवाच ॥ स्नानमन्यत्प्रवक्ष्यामि तवाहं दुरितापहम् ॥ दानेनेन्द्राय भुवने यज्जगादेशानः पुरा ॥ १ ॥ धन्यं यशस्यमायुष्यं सर्वशत्रुक्षयं- करम् ॥ प्रभातायां तु शर्वर्यां भास्करोऽभ्युदिते तथा ॥ २ ॥ स्नायीत भार्गवे श्रेष्ठ विधिदृष्टेन कर्मणा ॥ सौवर्णं राजतं कुम्भमथवापि महीम- यम् ॥ ३ ॥ नादेयैः सागरैस्तोयैः कल्पयित्वा यथाविधि ॥ ओषधीर्विन्यसेत्तत्र समभागाः सुवर्णिनः ॥ ४ ॥ जया च विजया चैव तथा सूक्ष्मफलानि च ॥ प्रसन्नासुखबीजानि भाण्डीरकुसुमानि च ॥ ५ ॥ क्षीरजापानिर्मात्यं देवीन्सत्सारमेव च ॥ कष्टीवराङ्गना चैव गजेन्द्रस्य च मञ्जरी ॥ ६ ॥ क्षुद्रजं करजं चैव घने द्वेद्धे विभावरी ॥ महौषं पूर्तगं चैव सुवं यक्षमुखं तथा ॥ ७ ॥ शशाङ्कमुङ्गपद्मं च दानं च करिणस्त- था ॥ ओषध्यः कथितास्तुभ्यं दाने मन्त्रमतः शृणु ॥ ८ ॥ ( ॐनमो भगवते रुद्राय धवलपाण्डुरोपविचितभस्मउल्ललितगात्राय ॥ तद्यथा ॥ जय जय विजयविजय सर्वोच्छ्रनसुकरूय कलहविग्रहविवादेषु भञ्जभञ्ज मध्यमथ सर्वत्र प्रत्यक्षिकों शोंऽसौ युगान्तकाले ध्वक्षस्तैरिमां पूजां रौद्रीं मृतिसहस्तां मुपस्त्वां रक्षत जीविकां संवर्तकाग्नितुल्यञ्च त्रिपुरांतिकरः यः सर्वदेवमयः सोऽपि तव रक्षतु जीवितं निलि निलि निलि निलि स्वाहा ॥ ) एवं स्नातस्त्वनेनैव गात्रेण तिलतण्डुलम् ॥ घृताक्तं ज्वलिते वह्नौ जुहुयात्प्रयतः सदा ॥ ९ ॥ ततः सम्पूजनं कुर्याद्देवदेवस्य शूलिनः ॥ घृतक्षीरा- भिषेकेण गन्धपुष्पफलैर्नवैः ॥ १० ॥ धूपदीपनमस्कारैस्तथा बलिना भूरिणा ॥ गीतवाद्यैः सुमधुरैर्ब्राह्मणान्स्वस्तिवाचनैः ॥ ११ ॥ माहेश्वरस्ना- नमिदं हि कृत्वा रक्षोहरणं शत्रुनिबर्हणं च ॥ कामानवाप्नोति नरस्तु सर्वान्प्रयान्न कांचिन्मनसेच्र्छतीति ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे द्विती- यखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने माहेश्वरस्नानवर्णनन्नाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥ पुष्कर उवाच ॥ स्नानान्यान्यानि ते वच्मि निबोध गदतो मम ॥ रक्षोघ्नानि यशस्यानि मङ्गल्यानि विशेषतः ॥ १ ॥ स्नानं घृतेन कथितं चायुषो वर्धनं परम् ॥ राम गोशकृता स्नानं परं लक्ष्मीविवर्धनम् ॥ २ ॥ स्नानं च कथितं दध्ना परं लक्ष्मीविवर्धनम् ॥ तथा दध्योदकस्नानं सर्वपापनिबर्हणम् ॥ ३ ॥ पलाशविश्वल्व- कमलकुशस्नानं पुरो हितम् ॥ वचा हरिद्रा मञ्जिष्ठा तगरं चारकं तथा ॥ ४ ॥ स्नानमेतद्दिनिर्दिष्टं रक्षोघ्नं पापसूदनम् ॥ वचाहरिद्रया युक्तं स्नानं रक्षोहरणं परम् ॥ ५ ॥ आयुष्यं च यशस्यं च धन्यं मेधाविवर्धनम् ॥ स्नानं पवित्रं मङ्गल्यं तथा काञ्चनवारिणा ॥ ६ ॥ क्रमादनन्तरं किञ्चिद्रूप्य-
॥२५१॥
ताम्रोदकैस्ततः ॥ तथा रत्नोदकस्नानं सङ्ग्रामविजयप्रवहम् ॥ ७ ॥ वैदूर्य्य मध्यतः कृत्वा प्रवालैः परिवारयेत् ॥ तेन पात्रेण यत्स्नानं सर्वकाम-
करं हितम् ॥ ८ ॥ स्नानं सर्वौषधैर्मुख्यं विवादे विजयप्रदम् ॥ सर्वगन्धोदकस्नानं सौभाग्यारोग्यकारकम् ॥ ९ ॥ तथा बीजोदकस्नानं
सर्वकर्मप्रसाधकम् ॥ तथैवामलकस्नानमलक्ष्मीनाशनं परम् ॥ १० ॥ तिलसिद्धार्थकैः स्नानममङ्गल्यप्रणाशनम् ॥ केवलैर्वा
तिलैः स्नानमथवा गौरसर्षपैः ॥ ११ ॥ स्नानं प्रियङ्गुना प्रोक्तं तथा सौभाग्यवर्धनम् ॥ सौभाग्यकं तथा स्नानं नागका-
न्ताप्रियङ्गुभिः ॥ १२ ॥ पुरोचारुकुकुन्धैश्च तथैव च विनिर्दिशेत् ॥ धात्रीफलेन पद्मेश्च तथामलकवारिणा ॥ १३ ॥ लक्ष्मीवृद्धिकरं
स्नानं कथितं भार्गोवित्तम ॥ पद्मोत्पलकदम्बैश्च तथा लक्ष्मीविवर्धनम् ॥ १४ ॥ बलामतिबलां चैव तथा नागबलामपि ॥ बलीं
मोचां चतुर्थी तु स्नानं वै बलवर्धनम् ॥ १५ ॥ ब्रह्मार्काकोटकीमूलं कुमारी पद्मचारिणी ॥ स्नाने रोगविनाशाय स्मृताः प्रत्येकशो द्विज ॥ १६ ॥
मांसीमुराचोरकनागपुष्पैः सेनागदानैरतिनाशकारि ॥ तुरुष्ककङ्कोलकुजातिपूगैः फलैः समस्तैः सुतरां प्रद्यात् ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे
द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नानाविद्वन्स्नानवर्णनन्नाम सप्तोत्तराशततमोऽध्यायः ॥ १०७॥ राम उवाच ॥ स्नानानामिह सर्वे-
षां यत्स्नानमतिरिच्यते ॥ तन्ममाचक्ष्व सकलं सर्वकल्मषनाशनम् ॥ १॥ पुष्कर उवाच ॥ शृणु पादोदकस्नानं सर्वकिल्बिषनाशनम् ॥ श्रवणक्षं
विना ह्येतद्भवत्यर्धफल यतः ॥ २ ॥ ततः कार्यं प्रयत्नेन श्रवणर्क्षे विशेषतः ॥ अथोत्तरासु पाढासु निराहारो जितेन्द्रियः ॥ ३ ॥ सर्वौषधैः सर्व-
गन्धैर्देवदेवस्य चक्रिणः ॥ पादं प्रलेपयेद्विद्वान्क्रमेण चतुरात्मनः ॥ ४ ॥ ततस्तु कलशान्कुर्याच्चतुरः सुदृढान्नरान् ॥ सौवर्णान्राजतांस्ताम्रानथ
वापि महीमयान् ॥ ५ ॥ ततोऽनिरुद्धचरणौ कूपादिश्चैः क्षालयेत्ततः ॥ ताभिस्तु कलशं पूर्णं स्थापनीयं तदग्रतः ॥ ६ ॥ ततः प्रद्युम्नचरणौ
क्षाल्यौ प्रस्रवणोदकैः ॥ कलशं पूरितं तच्च भवेत्स्थाप्यं तदग्रतः ॥ ७ ॥ संकर्षणस्य चरणौ क्षाल्यौ तोयैश्च सारसैः ॥ तैस्तु संपूर्णकलशं स्थाप्यं
तस्याग्रतो भवेत् ॥ ८ ॥ वासुदेवस्य चरणौ नादेयैः क्षाल्यदूध्रुवः ॥ कलशं पूरितं तैश्च स्थापनीयं तदग्रतः ॥ ९ ॥ ततः पूजा तु कर्तव्या यथा-
वच्चतुरात्मनः ॥ कलशान्पूजयेत्तंश्च गन्धमाल्यफलक्षतैः ॥ १० ॥ ततः प्राते द्वितीयेऽह्नि स्नातः पूर्वमुपोषितः ॥ सम्बुध्वशानिनिकुरुद्यै
स्नाप्यश्च कटुको भवेत् ॥ ११ ॥ प्रद्युम्नस्य च देवस्य ततः संकर्षणस्य च ॥ ततश्च वासुदेवस्य यथा गमस्य चक्रिणः ॥ १२ ॥ ( पवित्रमन्त्रैः
१ 'स्ततां समस्ताशुभनाशकारि' इति ख० ।
२ 'कलशो' इति पाठान्तरम् ।
वि० ष० ॥२६२॥
द्वि० सं० अ० १०९ ॥२६२॥
सर्वेषां घण्टानामाभिमन्त्रणमुक्तंकर्तव्यं सात्त्वतेनाथ शुचिना भागवतोत्तम ॥१३॥ अथ मन्त्रान्वक्ष्यामि कलशेषु चतुर्थुषु ता॥) मङ्गल्यांश यशश्यांशं सर्वविघ्नविनाशनान् ॥ १४ ॥ अरुद्धमार्गः सर्वत्र सर्वश्चाप्यपराजिताः ॥ वासुभूतिरचिन्त्यात्मा सोऽनिरुद्धः स्वयं प्रभुः ॥ १५ ॥ पादोदकेनेन दिव्येन शिवेनाघाविनाशिना ॥ तथाचमपहत्य्याशु शिवं वर्धयतां प्रभुः ॥ १६ ॥ लोकाम्प्रद्योतयति यः प्रद्युम्नो भास्करप्रभः॥ हुताशनः स तेजस्वी मङ्गलं विदधातु मे ॥ १७ ॥ कामदेवो जगद्योनिः सर्वेशः प्रभुरीश्वरः ॥ दुःखहर्ता जगन्नाथो मङ्गलानि ददातु ते ॥ १८ ॥ जगतां कर्षणाह्रवो यः स सङ्कर्षणः प्रभुः ॥ रुद्रमूर्तिरचिन्त्यात्मा सर्वगः सर्वहारकः ॥ १९ ॥ कामपालोऽरिदमनः सर्वभूतस्य शङ्करः विश्वयोनिर्महातेजा मङ्गलानि ददातु ते ॥ २० ॥ सर्वावासो वासुदेवो भूतात्मा भूतभावनः ॥ सर्वव्याश्रामयश्च पुरुषः परमेश्वरः ॥ २१ ॥ अनन्तः सर्वदेवेशो जगदाधारकारणः ॥ अद्यापहारी वरदो विदधातु श्रियं तव ॥ २२ ॥ एवं स्नातस्ततस्त्यक्त्वा तत्रैव स्नानवाससी ॥ शुक्लवासा उपस्पृश्य पूजां कुर्यात्क्रमेण तु ॥ २३ ॥ गन्धैः पुष्पैः फलैर्धूपैर्दीपैश्चैवापिधूपैः सुगन्धिभिः ॥ नैवेद्यैर्विवि विधैश्च सात्वतानां च पूजनैः ॥२४॥ एवं देवार्चनं कृत्वा सात्त्वतां शान्तिदं शुभम् ॥ भोजनं गोरसप्रायं कृत्वा तिष्ठेत्सुयान्त्रतश्च ॥ २५ ॥ प्रादुर्भावाणि मुख्यानि श्रुत्वात्वोलेक्षवरस्य च ॥ पाषण्डिपतितानां च वर्जयेद्दर्शनं तथा ॥ २६ ॥ इति पादोदकस्नानं प्रोक्तं रक्षोहरं तव ॥ मङ्गल्यं पापशमनमलक्ष्मीनाशनं परम् ॥ २७॥ सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ दुःस्वप्नारिष्टशमनं सर्वव्याधिविहरं शिवम् ॥ २८ ॥ यात्रासिद्धिकरं धन्यं कर्मणां सिद्धिकारकम् ॥ शत्रुघ्नं बुद्धिदं मेध्यं बलायुःस्मृतिवर्धनम् ॥ सौभाग्यायुदं कामप्रदं यशःपुत्रविवर्धनम् ॥ २९ ॥ अमोघवीर्यं पुरुषोत्तमस्य पादोदकस्नानमिदं प्रदिष्टम् ॥ स्नानोत्तरं ते रणचण्डवेगं भूयस्तु ते किं कथयामि राम ॥ ३० ॥ इति श्रीविष्णुध र्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषोत्तमपादोदकस्नानवर्णनन्नामाधिकशततमोऽध्यायः ॥ १०८ ॥ राम उवाच ॥ मणीनामथ काम्यानां श्रोतुमिच्छाम्यहं विधिम् ॥ सर्वकामरुदं मुख्यं तथा च दुरितापहम् ॥ १ ॥ पुष्कर उवाच ॥ आथर्वणेन विधिना मणीकर्म निबोध मे ॥ ध्रुवत्तिष्टेत्यृचा वृक्षं प्रत्यक्षमभिमन्त्रयेत् ॥ २ ॥ पादोनया मणिस्यानं प्रोक्षयुत् द्वित्तीयया ॥ अस्याः पादोनेतोरेण निर्मितीत मणिं ततः ॥ ३ ॥ सबन्धुश्चेति तनुचा तस्माच्छिन्द्यादिति श्रुतिः ॥ आहरेतं मणिं तस्मात्सद्द्याद्भृत्यात्तृतीयया ॥ ४॥ सर्वत्र तु मणीनां च निर्माणं केवलं भवेत् ॥ उपयुक्तस्तु केशवा द्रव्यास्ते परिकीर्तिताः ॥५॥ अङ्गुष्ठपर्वमात्रास्ते कर्तव्यास्तु समन्ततः ॥ सम्यगुत्पादयेत्तेषां सम्यगग्रिन्निधायतुष्ट
यम् ॥ ६ ॥ अग्रतो मूलतो वापि कल्पमानेऽतिरिच्यते ॥ अरातीयोरित्यनया छित्त्वाऽच्छेद्येण तत्त्ववित् ॥ ७ ॥ अर्धं च सुशिरः कृत्वा ततः
प्रक्षाल्य वारिणा ॥ पात्रं तमम्रो कृत्वा तु सम्यगेव यथाविधि ॥ ८ ॥ यत्राचकुरित्यनया समुन्नमत उत्तमम् ॥ कुर्यात्तद्दिग्मिकुण्डं च प्रबोध्य
जुहुयाद् घृतम् ॥ ९ ॥ प्रत्यृचा स्वेन मन्त्रेण सम्पातानानयं भवेत् ॥ कृतशान्त्युदके पात्रे रम्ये लोहमये दृढे ॥ १० ॥ स्वलिङ्गोद्धृतमन्त्रेण
दर्विपूण्डादातः परम् ॥ विमुच्य सर्वं तेनैव मन्त्रेण भ्रामयेन्मणिम् ॥ ११ ॥ पात्रे तस्मिंस्ततस्त्वाप्त्वाऽद्धृत्या बन्धनं भवेत् ॥ सकलेनैव मन्त्रेण
मन्त्रयेच्च तथोद्धृतम् ॥ १२ ॥ सामान्यमिदमुक्तं ते शृणु वैशेषिकं द्विज ॥ अभीवर्तेनमणौ कर्म तव वक्ष्याम्यतः परम् ॥ १३ ॥ अभीवर्तेन मणिने
त्याद्याभिस्तिसृभिर्मणौ ॥ अन्त्राद्यं वासपं पात्रं द्वेभ्यश्च प्रत्यृचं पुनः १४ ॥ दत्वा सर्वेण सूक्तेन मणेराधेन्वनं भवेत् ॥ अभीवर्तमणिः प्रोक्तो नौ
वा काष्ठान्नभृत्तसम ॥ १५ ॥ अयं योनिरत इति तस्य होमो विधीयते ॥ शशकोच्छिष्ट ये श्रान्तस्तस्मैभेषज्यभाजनम् ॥ १६ ॥ क्षुद्रेषु यदपामार्ग
मणिः शान्तिविसर्हकः ॥ इत्येते यावदुक्ताः स्युर्विवाहप्रमुखाश्च ये ॥ १७ ॥ पूर्वोक्तेन भवेद्धोम एतेषामिति मे मतिः ॥ द्र्व्योपधिसणीनां च
सभायांणां तथैव च ॥ १८ ॥ दाक्षायणमणीनां च भवेद्धोमादिको विधिः ॥ ओषधीनामिहेदानीं विधानं शृणु भार्गव ॥ १९ ॥
व्रीहीणां वा यवानां वा मूले तु पतितः किरेत ॥ यदि सौम्य सुमन्त्रेण फलक्यान्येकविंशतिः ॥ २० ॥ असुषिम्नस्या
नरूढासु यथाभिलिषितां बुधः ॥ योजयेच्चाम सम्भूताममुकस्य विभूतये ॥ २१ ॥ घृताहुतेति च द्वाभ्यां घृतेन प्रोक्षयेत्ततः ॥ मति
रिपसीत्यनया स्नात्वा तमभिमन्त्रयेत् ॥ २२ ॥ गन्धं संछादयेच्चैव ततो भूम्येत्यनन्तरम् ॥ इत्योषधीनां सर्वासां सामान्योऽयं विधिः
स्मृतः ॥ २३ ॥ एककायास्तु मणयः सलिङ्गं निलवेद् बुधः ॥ मन्त्रेण तान्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २४ ॥ एकाङ्क एककायायेत्येकोके
विधिवत्त्वनेत् ॥ आकन्द्यति सूक्तेन प्रर्द्वन्धां यथाविधि ॥ २५ ॥ इयं वीरुदित्पनया विविधन्वमधुश्चः खनेत् ॥ सूक्तेन युक्तलेनास्य मणेराव
न्धनं भवेत् ॥ २६ ॥ इमां खनामौत्यनया नितनीलिङ्कया खनित् ॥ प्रतीचीं सोममसितां बध्नीयात्तु यथाविधि ॥ २७ ॥ यात्वा गन्धर्व इन्द्वा
भ्यां कपिकच्छुं खनेद्बुधः ॥ सूक्तेनानेन तन्मेहे प्रबध्नीयादिति स्थितः ॥ २८ ॥ इमां खनामौत्यनया दशाश्चाहुतया खनेत् ॥ पाटामुक्तेन बध्नी
यादेकाराज्ञीमिति श्रुतिः ॥ २९ ॥ दर्शशीर्ष इति द्वाभ्यां महावृक्षं विधिवत्त्वनेत् ॥ आपः पुनन्त्वित्यनेन बध्नीयात्तं यथाविधि ॥ ३० ॥ इमां
खनाम्योषधौ त्वां दर्बी नाम तथोत्खनेत् ॥ काण्डीयान्नक्तया त्विते बध्नीयात्तु यथाविधि ॥ ३१ ॥ य आत्मजा इत्यनया खन्यादिति तथैव
४२
द्वि० सं० अ० १०९
१० ध० २६३॥
ताम् ॥ अनेनैव प्रबध्नीयाद्विद्वाञ्छूक्तेन तं मणिम् ॥ ३२ ॥ अहिरुक्त्वा खनतु वै पिप्पलं तु खनेत्तथा ॥ यावद्धौरिति सूक्तेन तस्य चाबन्धनं भवेत् ॥ ३३ ॥ साहसीनावेत्येवं सेचनं च तथा खनेत् ॥ अनेनैव प्रबध्नीयात्सूत्रेण तु यथाविधि ॥ ३४ ॥ षोडशीत्यथवा हन्यात्सर्वपापं यथाविधि ॥ सूक्तेन तां प्रबध्नीयादनेनैव यथाक्रमम् ॥ ३५ ॥ इमां खनामीत्यनया मापपर्णी तथा खनेत् ॥ द्वाभ्यां चानर्थसंबन्धवध्नीया दिति श्रुतिः ॥३६॥ ततः खण्डारिकां खन्याद्वाजा त्वां वरुणः खनेत्॥ऋचानया समस्तेन सूक्तेनाबन्धनं भवेत् ॥३७॥ एकार्थभूतौनां तु लिङ्गैः कल्प्यं फलं बुधैः ॥ सामीयान्वाह वरुणेत्येवमादिषु संश्रिताः ॥ ३८ ॥ सामीप्यः पदार्थास्तै उपकृतास्तथा स्मृताः ॥ द्रव्यैस्तैरेस्तु मणिं कुर्या द्दाम्राद्यैर्लक्षणैर्विधिम् ॥ ३९ ॥ तल्लिङ्गेन तु मन्त्रेण यथावदनुपूर्वशः ॥ कुष्ठस्य मणयः पञ्च उद्पात्रे विदुर्बुधाः ॥ ४० ॥ प्रत्येकपाकसंस्कार शुद्धये वेति नः श्रुतम् ॥ चतस्रसं प्रबन्धनीयान्मणीमन्त्रानवतथा ॥ ४१ ॥ सैन्धवं लवणं सिद्धमुभयत्र परिग्रहात् ॥ कुर्याद्दाढर्यं च संस्कारं व्याध त्युपमणी तथा ॥४२ ॥ चतस्रो तु कर्तव्यौ मणी कारणकालजौ ॥ नैमित्तिकाश्च मणयो मणयः संविदुश्च ये ॥ ४३ ॥ स्वस्वं मन्त्रं भवेत्तेषा मिति मे निश्चिता मतिः ॥ नैमित्तिकानां घोरास्ते तेषां नैमित्तिकं भवेत् ॥ ४४ ॥ सम्पादनां तथा मध्ये साम्पदं नात्र संशयः ॥ सीमन्त्यात्त्वाह त्यनेन सीमन्तं जनवद्द्रवेत् ॥ ४५ ॥ पिशाचाश्शातनः पुंसां यातुधानविनाशनः ॥ मन्त्रलिङ्गादयं ज्ञेयो मन्त्रश्चास्य प्रक्ष्यते ॥ ४६ ॥ शरकाष्ठे तु संयोज्य सीसं कृत्वेति बुद्धिमान् ॥ भार्डी जटां घृतप्लृप्ता बाधकेनाथ तेन तत् ॥ ४७ ॥ भूमौ पिशाचमालिख्य भगवन् तु ताडयेत् ॥ उत्तरेण शरेणैव पिशाचो नाशमाप्नुयात् ॥ ४८ ॥ शंकुधारणमन्त्रेण अनुसुर्यमिति स्मृतिः ॥ प्रज्ञातवृक्षशाखाश्च रोहितस्य परिग्रहः ॥ ४९ ॥ चर्मणः स्यात्तथा वर्णे रोहितासामवेक्ष गाः ॥ शंकुर्निधीयते यत्र विस्तारार्थं तु दर्भणः ॥ ५० ॥ तस्माद्दशान्नाणिः कार्यः शंकुर्नृपपरोग्रहः ॥ मणिघ्नं च दुग्धं स्याद्वाषविद्यय चर्मणि ॥ ५१ ॥ यजमानाय दर्भेज्ञ उद्पात्रे तथाभया ॥ अतिकामल रोगघ्नमायुष्यञ्च तथा मणिः ॥ ५२ ॥ इमं मे कुष्ठेत्यनेन पञ्चानां स्यात्परियहः ॥ अथर्बविन्न नैतेषां जलं कुष्ठेन संयुतम् ॥ ५३ ॥ सक्तुत्य पानेयोगात्तद्यजमानः पिबेत्ततः ॥ मणयः पञ्चकुष्ठे द्वौ मणिशब्दात्परिक्षहल् ॥ ५४ ॥ तुल्येन विधिना कार्याः फलं तेषां पृथक्पृथक् ॥ शिरोर्त्तिनाशनः पूर्वो द्वितीयो विषदूषकः ॥ ५५ ॥ तृतीयश्च तथा प्रोक्तो विषमज्वरनाशनः ॥ चतुर्थश्च तथा प्रोक्तः सततज्वरनाशनः ॥ ५६ ॥ चक्षुष्यः पञ्चमः प्रोक्तो मणिश्चांगविवन्दन ॥ कृतोदपात्रं कुष्ठाम्यो नवनीतविमिश्रितम् ॥ ५७ ॥ भूयः कुष्ठं क्षिपेत्तत्र मणिं तत्रावतारयेत् ॥ मणि
॥२६३॥
बन्धं ततः कृत्वा तोयं तत्पाययेन्नरम् ॥ ५८ ॥ लिप्यञ्च सरुजं देशमुदपात्रजलेन तु ॥ याः पुरस्तादित्याद्येन मणिः स्याल्लवणस्य तु ॥ ५९ ॥ पित्तवृक्षपुटे बद्ध्वा लवणस्य तु तन्मणिम् ॥ आबन्धे कुष्ठवत्यञ्च यातुधानांनविनाशनः ॥ ६० ॥ व्याघ्ररूप इत्यनेन खंतव्यं बाटरूपकम् ॥ व्याघ्रारूप इति द्वाभ्यामृग्भ्यामाबन्धनं भवेत् ॥ ६१ ॥ पिशाचनाशकस्त्वेष स मणिः स्यादसंशयम् ॥ एवमेवोत्तरातृचां च भवेत्प्रत्यभिचारकः ॥ ॥ ६२ ॥ विष्कन्दस्येत्यनेनाह त्रिपणीं विषभेषजी ॥ स्कन्दस्योपांयं यः स्कन्दो भवेत्तस्य विनाशिनी ॥ ६३ ॥ यस्मादङ्गादिति भवेत्प्रणि- त्वात्पारियूहः ॥ गणस्य कर्म सामान्यं प्रतिसूक्तं न कारयेत् ॥ ६४ ॥ गोराचवारे कर्माणि हन्तव्यान्येवमादिभिः ॥ पत्रज्ञाय्याश्च चत्वारः संस्कृ- त्य प्राणिनो बुधः ॥ ६५ ॥ तृष्णार्तवेध मन्त्रेण गात्रं प्रक्षालयेत्त्विलम् ॥ प्रथमेन तु सूक्तेन वेणुपात्रे द्वयो मणिः ॥ ६६ ॥ वेणुः कुर्याद्वेदैर्धर्मा वाक्षवदेवदारुणः ॥ संस्कृत्य पूर्वमन्त्रेण माषकादीन्ममर्द्येत् ॥ ६७ ॥ गान्धसंस्कारसहितैः पिष्टैर्वा प्रकृतिभैषशम् ॥ केवलेनैव मन्त्रेण मर्दयेत्तु विनश्यति ॥ ६८ ॥ तथा स्थलेमप्रभृती विधूलो धुरिशो युतिः ॥ देवप्रवेशं जतुना स्वगचित्त्वा तु रक्तिका ॥ ६९ ॥ दूष्या इति प्रतीकंन कुर्या- त्यतिसरं मणिम्॥ कृत्वा दूषणमायुष्यं तदा प्रत्यभिवादकः॥७०॥अयं प्रतिसरः पाणौ यात्राकाले सपत्नहा ॥ सूत्रेणानेन बन्धीयाद्विद्वांस्त्वप्रतिसरो परः॥७१॥ अनेन विधिना सूत्रं निजधान शतक्रतुः ॥ अशंस इति मन्त्रेण प्रबन्धीयाद्यथाविधि॥७२॥भूतिश्रीमत्प्रसूतीनां च विन्नभेवं करोति यः ॥ विनाशनं तस्य भवेद्वाञ्छ्याक्षनाशनम्॥७३॥ज्यासूत्रमोथिताः सप्त वंशप्राप्ताः समुद्भवाः ॥ रत्तस्यान्तरव्यवहिता गर्भिण्या उद्धरेद् बुधः ॥ ७४॥ मासे चतुर्थे बध्नीयान्मन्त्रेणानेन बुद्धिमान् ॥ एकैकस्मिंस्ततीते तु मासे सूत्रान्तरे वणिः ॥ ७५॥ एकैकं प्रक्षिपेद्धीमांन्सूत्रं पश्चिमं तथा ॥ प्राची दिगिति मन्त्रेण उदीचीं भयनाशनी ॥७६ ॥ अक्षीभ्यामित्यनेन दाप्यः स्याद्यक्ष्मनशनः ॥ सन्धानाय शतमभ्रे रात्रीमातिते मोहनः ॥ मद्यु रगोसुरवृद्धौ द्वौ वेतीति प्रकीर्त्तितम् ॥७७॥ प्रोक्तास्त्वैते मणयो दुर्वार काण्या मया सर्वहिताय पुण्याः ॥ येषां हि बन्धो दुरितापहारी भयापहः केवलवृद्धिंकारी ॥७८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मणिबन्धनवर्णनन्नाम नवोत्तरशततमोऽध्यायः ॥ ॥ १०९॥ राम उवाच ॥ भगवन्श्रोतुमिच्छामि कर्म काम्यमहं नृणाम् ॥ कृतेन येन कामानां नरो भवति भाजनम् ॥ १॥ पुष्कर उवाच ॥ सर्व षामेव कामानामीश्वरो भगवान्हरिः ॥ तस्य सम्पूजनादेव सर्वान्कामानवाप्नुते ॥ २ ॥ स्नापयित्वा घृतक्षीरैश्चन्दनेनानुलेपयेत् ॥ सर्व शुक्लैः सम्पूज्य पुष्पैश्च सतमस्य बलिं हरेत् ॥ ३ ॥ रक्तपित्तोत्तरो घोरान्मुच्यते नात्र संशयः ॥ तैलाक्षोद्रघृतैर्देवं स्नापयित्वा जनार्दनम् ॥ ४ ॥
वि० ध० ॥२६४॥
द्वि० सं० अ० ११० ॥२६४॥
भस्ममन्त्रेणानुविन्ध्य सम्पूज्य कुसुमैः सितैः ॥ पञ्चशुद्धबलिं दद्याद्दन्तसारान्प्रमुच्यते ॥ ५ ॥ संस्नाप्य पञ्चगव्येन दत्वा पश्चादनुलेपनम् ॥ पञ्चसस्यबलिं दत्त्वा मुखे कुष्ठात्प्रमुच्यते ॥ ६ ॥ त्रिस्रस्नापितं देवं त्रिसुगन्धेन लेपितम् ॥ कृत्वा दत्त्वा त्रिसूत्रं च बलिं कामाद्धि मुच्यते ॥ ७ ॥ स्नापयित्वा तु तैलेन त्रिमिश्रेणानुलेपयेत् ॥ पञ्चमाषबलिं दत्त्वा वातव्याधिं विमुञ्चति ॥ ८ ॥ द्विस्नेहस्नपितं देवं शीतोष्णोनानुलेपितम् ॥ पञ्चभिः स्नापयित्वा च रसैर्देवं जनार्दनम् ॥ ९ ॥ अनुलिप्य च धर्मज्ञ तथा पञ्चसुगन्धिना ॥ पञ्चवर्णानि पुष्पा णि तथा दत्त्वा यथाविधि ॥ १० ॥ धूपं च पञ्चनिर्यास दत्त्वा चैवानुवृत्तये ॥ ततश्च पञ्चमधुरं बलिं सम्यङ् निवेदयेत् ॥ ११ ॥ अनेन रोगतः शीघ्रं मुच्यते नात्र संशयः ॥ विष्णुं सहस्रमूर्द्धानं चराचरगुरुं हरिम् ॥ १२ ॥ स्तुतवामसहस्रेण ज्वरान्सर्वान्व्यपोहति ॥ घृतेन स्नापितं देवं चन्दनेनानुलेपयेत् ॥ १३ ॥ पञ्चभिर्जैलजैः पुष्पैस्ततः सम्पूजयेद्विभुम् ॥ धूपं दद्याच्चित्रारं च पञ्चगव्यं तथा बलिम् ॥ ॥ १४ ॥ पञ्चगौड तथा राम बद्धो मुच्येत बन्धनात् ॥ त्रिशीतस्नापितं देवं त्रिशीतेनानुलेपयेत् ॥ १५ ॥ त्रिशीतैः कुसुमैः पूज्यं धूपं द्वयादिशीतलम् ॥ त्रिशीतं च बलिं दत्त्वा राजकोपाद्विमुच्यते ॥ १६ ॥ शीतोष्णस्नापितं देवं त्रिशीतैरनुलेपयेत् ॥ धूपं दत्त्वा च शीतोष्णं शीतोष्णं च तथा बलिम् ॥ १७ ॥ गृह्यप्रसादमाप्नोति नात्र कार्या विचारणा ॥ १८ ॥ यमलस्नापितं देवं यमलेनानुलेपितम् ॥ १८ ॥ अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥ यमलं च बलिं दत्त्वा सौभाग्यं प्राप्नुयान्नरः ॥ १९ ॥ सौभाग्यकामा नारी च सौभाग्यं महदाप्नुयात् ॥ सौभाग्यकामोऽपि नरः सौभाग्यं महदश्नुते ॥ २० ॥ त्रिभिः संस्नापितं देवं सौभाग्यं महदाप्नुयात् ॥ त्रिभिः फलैः स्नापयित्वा विसारै णानुलेपयेत् ॥ २१ ॥ त्रिशीतं च बलिं दद्याद्यशः प्राप्नोत्यनुत्तमम् ॥ त्रितैलस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥ २२ ॥ धूपेन्यमहिषाक्षेण त्रिरक्तं च बलिं हरेत् ॥ रौद्रकर्म तु प्राप्नोति सिद्धिरस्ति न संशयः ॥ २३ ॥ त्रिगन्धस्नापितं देवं त्रिशीतेनानुलेपितम् ॥ पूजयेच्छ्वेतपद्मानां सहस्रेण महासुजम् ॥ ॥ २४ ॥ निवेद्य परमान्नं च श्रियं प्राप्नोत्यनुत्तमाम् ॥ घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥ २५ ॥ पञ्चामृतं बलिं दत्वा यथेष्टं काममाप्नुयात् ॥ घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥ २६ ॥ अपूपैः परमान्नेन कुलमाषेण च पूजयेत् ॥ आभ्रातकानां मुख्यानां ततस्त्वष्टार्थिकं शतम् ॥ २७ ॥ क्षाद्रैन्त्रिबृतं देवाय यथाविधिनिवेदयेत् ॥ सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ॥ २८ ॥ पञ्चगव्यबलिं दत्त्वा धनमाप्नोत्यनुत्तमम् ॥ त्रिरक्तस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥ २९ ॥ रक्तपुष्पैः समभ्यर्च्य त्रिमिश्रेव यथाविधि ॥ त्रिरक्तं च बलिं दत्वा हुत्वा वै सर्षपान्वयम् ॥ ३० ॥
त्रिलोहे दक्षिणां दत्त्वा शत्रुनाशमवाप्नुयात् ॥ त्रिफलास्नापितं देवं त्रिरक्तेनानुलेपितम् ॥ ३१ ॥ त्रिशितं च बलिं दत्त्वा पुन्नामकुसुमानि च ॥ पुन्नामकानि मुख्यानि फलानि विविधानि च॥३२॥ पुत्रजन्म समाप्नोति नात्र कार्या विचारणा ॥ घृतेन स्नापितं देवं विरक्तेनानुलेपितम्॥३३॥ कृत्वा तद्देव धूपं तु दत्त्वा क्षीरं निवेदयेत् ॥ घृतपूरं वलिं दत्त्वा नरः प्राप्नोति जीविकाम् ॥ ३४ ॥ क्षीराज्यस्नापितं देवं चन्दनेनानुलेपितम् ॥ तद्देव धूपं दातव्यं जातीपुष्पाणि चाप्यथ ॥ ३५ ॥ पञ्चगव्यबलिं दत्त्वा हुत्वा वह्नौ तथा घृतम् ॥ गां च दत्त्वा महाभाग गाः समाप्नोति मानवः ॥ ३६ ॥ यमलस्नापितं देवं यमलेनानुलेपितम् ॥ अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥ ३७॥ यमलं च बलिं दत्त्वा जुहुयाद्दशतांस्तथा ॥ तिलसिद्धार्थकयुक्तान्सर्पिः क्षीरं घृतं तथा ॥ ३८ ॥ अश्वं च दक्षिणां दत्त्वा ह्याप्नोत्यश्वयुतम्मान् ॥ घृतेन स्नापितं देवं तथैव घृतलेपितम् ॥ ३९ ॥ पुष्पैश्चतुर्विधैः सम्पूज्य धूपं दत्त्वा चतुःसमम् ॥ त्रिशुकं च तथा दत्त्वा तथैव पानकत्रयम् ॥ ४० ॥ त्रिशुकं च तथा हुत्वा त्रिफलेन समन्वितम् ॥ त्रिलोहे दक्षिणां दत्त्वा गाणपत्यमवाप्नुयात् ॥ ४१ ॥ मधूकपुष्पाणि तथा द्राक्षां खर्जूरमेव च ॥ ४२ ॥ सर्वैर्भूतैः सहा- प्नोपि सत्यमेव न संशयः ॥ घृतेन स्नापितं देवं वचया निशया तथा ॥ ४४॥ चन्दनेनानुलेम्पितु जातीपुष्पैश्चार्चयेत् ॥ घृतक्षाद्रयुतं दत्त्वा तथा धूपं च गुग्गुलम् ॥ ४५ ॥ त्रिशुकं च बलिं दत्त्वा तथा त्रिलवणं नरः ॥ कनकं दक्षिणां दत्त्वा विद्यामाप्नोत्यभीप्सिताम् ॥ ४६ ॥ चन्दन- माज्यं जाती पद्मानं गुग्गुलं च देवाय ॥ दत्त्वा भक्त्या पुरुषः सर्वान्कामानवाप्नोति ॥४७॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गं प्रति पुष्करोपाख्याने भगवदनुलेपनस्नानवर्णनन्नाम दृशोत्तरशततमोऽध्यायः ॥ ११० ॥ राम उवाच ॥ भगवञ्छ्रोतुमिच्छामि पापानां कर्मणां फलम् ॥ त्वत्तः कमलपत्राक्ष तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ पुष्कर उवाच ॥ भुक्त्वात्मानमभोज्यं तु नरकं याति मानवः ॥ व्रतलोपे तदर्धं च प्रकीर्णं तु दशाह- कम् ॥ २ ॥ अग्निहोत्रसमिद्धादीन्सहस्रं याति वत्सराम् ॥ महापातकिकिनः सर्वं कल्पं पश्यन्ति भार्गव ॥ ३ ॥ मन्वन्तरं तु तां कृत्वा नरकं प्रतिपद्यते ॥ चतुर्युगं क्षत्रियहा वैश्यहा त्रिगुणं तथा॥४॥शूद्रं हत्वा महाभाग युगं तु नरकं व्रजेत् ॥ यावन्ति पशूरोमाणि तावत्कृत्वेह मानवः ॥५॥ वृथापशुघ्नः प्राप्नोति वर्षाणि नरके नरः ॥ द्रव्याणामपसारणां स्तेयं कृत्वाम्यवेश्मसुः ॥ ६ ॥ याति संवत्सरशतं गुरुब्राह्मणताडनात् ॥ तच्छत्रवर्ती नृपतिः कल्पं पश्यति मानद ॥ ७ ॥ पक्षपाती तथा सभ्यस्तावदेव भृगूत्तम ॥ ब्राह्मणस्य च शूद्रस्य सहस्रं भृगुसत्तम ॥ ८ ॥
शोणिते यावतः पांसूनिगृह्णाति महीतले ॥ तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ ९ ॥ रजसि प्रहरंस्तु कृतघ्न्यामति दुर्मतिः ॥ अराजा नरकं याति स तु कल्पशतं नरः ॥ १० ॥ नित्यान्यकुर्वन्कर्माणि तथा वर्षशतं व्रजेत् ॥ द्रुमाणां छेदने राम पक्षाद्वद्धमथैव तु ॥ ॥ ११ ॥ गुल्मवल्लीलतानां तु दशवर्षाणि भार्गव ॥ अनागतसमाक्रोशे तिस्त्रश्चामथ ताडने ॥ १२ ॥ तावदेव यथाकालं नरकं प्रतिपद्यते ॥ अगम्यागामिनः सर्वे महापातकिभिः समाः ॥ १३ ॥ अनिर्विष्टां भृतिं मुक्त्वा द्वे शते प्रतिपद्यते ॥ तथा पुस्तकहारी च सहस्रं याति वत्सराम् ॥ १४ ॥ सस्यानां नाशकारी च नरकं प्रतिपद्यते ॥ उपाकरणदोही च नास्तिकश्च तथा नरः ॥ १५ ॥ कल्पमेकं प्रपद्यन्ते नरकं नात्र संशयः ॥ देवतानां द्विजातीनां शास्त्राणां निन्दकस्तथा ॥ १६॥ श्रुतीनां दूषकश्चैव तावदेव द्विजोत्तमा प्रतिश्रुत्य तथा चार्यं यो न दद्यान्महाभुज ॥ १७ ॥ आश्रितस्य परित्यागं वृथा कुर्याद्विजोत्तम ॥ अपराधं तथा राम वृथा भार्यावमन्तकः ॥ १८ ॥ कृतघ्ना चैव धर्मज्ञ सहस्रं प्रतिपद्यते ॥ बहूनि राम पापानि पापेषूक्तेषु भार्गव ॥ अन्तर्भावं प्रपद्यन्ते तानि चिन्त्यानि धर्मतः ॥ १९॥ नरकाणां गणनंबुद्धिदंतं पापानां ते मया राम ॥ एतच्च भवति घोरं त्वत्तुबन्धकृतं मनुष्याणाम् ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पापनिर्णयो नामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥
राम उवाच ॥ जन्तुः कथं सम्भवति कथं चैव विपद्यते ॥ कथं देहान्तरं याति तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥ विश्वस्याण्डणं राम तथैवाण्डं न हेम यत् ॥ तथा प्राणिशरीरस्य पार्थिवत्वं महाभुज ॥ २ ॥ आकाशे नरशार्दूल यथैवाण्डं व्यवस्थितम् ॥ सुषिरं तद्वद्देहे पुरुषस्य शरीरगम् ॥ ३ ॥ धारयन्ति यथा विश्वमण्डस्यान्यन्तरे स्थिताः ॥ वायव मिसोमाः सततं तथा देहं शरीरिणाम् ॥ ४ ॥ आधारभूते द्वे भूते आद्यन्ते सर्वदेहिनाम् ॥ प्रपद्यन्ते महाभाग कल्मलं हि तत्क्षणात् ॥ ५ ॥ करोति तत्र च ततः प्रवेशं कर्मचोदितः ॥ वायुभुतस्तथा जीवस्त्यक्त्वा भोगविवर्धनम् ॥ स्वर्गाद्वा नरकाद्देहं तिर्यक्त्वोनाथवापि वा ॥ ६ ॥ एवं प्रवेशं स करोति गर्ने जीवस्तदा कर्मवशाज्जुबन्धात् ॥ ततः प्रविष्टस्तु तथा स मूढो मासांश्च षट् तिष्ठति बंदनित्यः ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गर्भसंक्रान्तिवर्णनोन्नाम, द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥
राम उवाच ॥ भोगदेहं कथं त्यक्त्वा जीवो गर्भं प्रपद्यते ॥ भोगदेहश्च कः प्रोक्तस्तं ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥ आतिवाहिकणर्भूत्य देहो भवति भार्गव ॥ केवलं तं मनुष्याणां मृत्युकाल उपस्थिते ॥ २ ॥ याम्यैर्नरैर्मनुष्याणां तच्छरीरं भृगूत्तम ॥ नीयते याम्यमार्गेण