विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० ॥२६६॥
द्वि० सं० अ० २४
दिनौ॥६०॥तां रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः॥को अर्धाति च सूक्तेन वासांसि लभते पयः॥६१॥कायेोति वामदेवेन कुर्यात्स्वस्त्ययनं निशि॥ हंसःशुचिषदित्येतच्छुचिरुल्किन्दिवारकम् ॥६२॥ कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ॥ जुहुयात्क्षेत्रमध्ये तु उता वाहस्तु पश्चिमेः ॥६३॥ इन्द्राय च मरुद्भ्यश्च पर्जन्याय भगाय च ॥ यथाल्लिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः ॥ ६४ ॥ पूर्णे धान्येाय सीतायै शुनासीरमयोनये ॥ गन्धमाल्योपहारैश्च यजेदेताश्च देवताः ॥ ६५ ॥ प्रवापणे प्रलपने खलेसीतोपहारेयोः ॥ अमोघं कर्म भवति वर्धते सर्वदा कृषिः ॥ ६६ ॥ क्षेत्रस्य पत्ये तत्संज्ञं सूर्येणग्विन्दते भुवम् ॥ आब्रह्मन्कर्णे चरणौ यजेदेतेन मृत्तिकाम् ॥ ६७ ॥ चित्रा इन्देति च स्तुयान्नाम्यूषां यो वह्निमर्चति॥ विज्येतिष्यति ज्वलेद्यग्रेऽच्छेज्जातेवदस्सृमा॥६८॥ समुद्रादिति सूक्तेन कामानाप्नोति पावकात्॥विश्वानि च इति द्वाभ्यामृग्भ्यां यो वह्निमर्चति॥ ॥६९॥स तरत्यापदः सर्वाः प्राप्नोति चाक्षयम् ॥ अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितम्॥७०॥उरोष्ट इति सूक्तेन वित्तामाप्नोत्यसं- शयम् ॥ प्रजाकामेो जपेन्नित्यं वरुणादेवसत्तया ॥ ७१ ॥ स्वस्त्यात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं जपेत् ॥ स्वस्तिपन्थामिति प्रोच्य स्वस्तिमा- न्व्रजेत्ऽध्वनि ॥७२॥ विजहीह्येष्वन्येतानन्ते शत्रूणां वाधनं भवेत् ॥ स्त्रियो गर्भप्रसूढाया गर्भोषाणसुतस्तथा॥७३॥अर्वच्छदिति सूक्तेन मृत्तिकाम्- प्रयोजयेत्॥निराहारः क्लिन्नवासा न चिरेण प्रवर्षति॥७४॥श्रियः पञ्चदशर्चं तु जपञ्जुह्वद्वृतेन वा॥उपैतु मां देवसख इति सर्वांपयोजलैः ॥७५॥ सदा स्नातः श्रियं दीप्तां कुले प्राप्नोत्यसंशयम् ॥ मनसः काम इत्येतां पशुकामो नरो जपेत् ॥७६ ॥ कर्दमेनिति च स्नायात्प्रजाकामः शुचि- व्रतः॥अश्वपूर्वामिति स्नायाद्भाग्यकामस्तु मानवः॥७७॥ रोहिते चर्मणि स्नायाद्ब्रह्मवर्चस्रुतस्तथा॥यथाविधि ॥ राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ॥७८॥ दशाहाक्षिको होमः प्रत्येकं परिकीर्तितः ॥ अप्सु वा जुहुयादाम्र पञ्चान्युतृतोऽनिशि॥७९ ॥इद्दान इत्यृचा वह्निं स्तुवन्शूद्वान्दिनाशयेत्॥ आचार इति सूक्तेन गोष्ठे गां लोकमातरम्॥८०॥उपनिष्टेहृद्धेञ्चैव य इच्छेद्गाः सदाक्षयाः॥वाक्प्रिसद्दि तु स्तुवन्सूक्तं महद्वनमवाप्नुयात् ॥ ८१ ॥ उपैति मृगौ राज्ञो दुन्दुभीनमभिमन्त्रयेत् ॥ तेजो बलं च प्राप्नोति शत्रूंश्चैव नियच्छति ॥ ८२ ॥ तूष्णीमपिजपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ॥ ये के चैं मेत्यृचं जप्त्वा दीर्घमायुववाप्नुयात् ॥८३॥ यस्य नष्टं भवेद्द्रव्य सम्पूज्य स जपेन्निशि ॥ सौमारेांहं जपन्सूक्तं सर्वपापैः प्रमुच्यते ॥ ८४॥ जीमूतसूक्तेन तथा सेनाङ्गानभिमन्त्रयेत् ॥ यथाल्लिङ्गं ततो राजा विनिर्हन्ति रणे रिपून् ॥ ८५ ॥ अनिं नरेति सूक्तेन स्तुवन्वह्निं सुखी भवेत् ॥
॥२६६॥
१ ‘भवितव्यं च भक्ष्यान्नदिति’ इति पर्जन्यसूक्ते अच्छादयेद्वेष्यैः। । २ ‘श्रियः पञ्चदशं जूह्वद्वृद्धह’ इति ख० । । ‘प्रियायाञ्च पूर्वन्तु जपञ्जुह्वयाद् वृतेन तु’ इति क० । ३ ‘मृते’ इति ख० ।
प्राणपति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ॥ ८६ ॥ अभीतयः प्रगाथेन स्तुत्वा शक्रं धनी भवेत् ॥ शंवतीः शन्न इन्द्राग्नी जपेद्ध्यार्थी वना- शनम् ॥ ८७ ॥ समुद्रज्येष्ठेति जपेत्सूक्तमेतज्जलावहम् ॥ वास्तोष्पते प्रतीत्येतत्सूक्तं वातोपतेर्जपेत् ॥ ८८ ॥ अनीवहेति सूक्तेन भूतान्निःस्वाप- येन्निशि ॥ सम्बाधे विषमे दुर्गे बन्धे वा निगडैः क्वचित् ॥ ८९ ॥ पलायित्वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥ त्रिरात्रं नियतोपोष्य अपयेन्पा- यसं चरुम् ॥ ९० ॥ तेनायुतशतं पूर्णं जुहुयात्र्यम्बकेत्यृचा ॥ समुद्दिश्य महादेवं जीवेद्दशशतं सुखी ॥ ९१॥ तच्छयोरित्यूचा स्नात उपतिष्ठेदिवा- करम् ॥ उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः ॥ ९२ ॥ व्युषा इत्युपतिष्ठेत यः प्रातः प्रयततः शुचिः ॥ प्रापुयात्साङ्गिणोऽब्दि नानात्त्वारूपधरं बहु ॥ ९३ ॥ ध्रुवं सन्ध्यासु तिसृषु जपन्बद्धः प्रमुच्यते ॥ इदमापः प्रवहंत यत्किंचिदुरितं पुनः ॥ ९४ ॥ अपः प्रविश्य तु जपन्सर्वपापैः प्रमु- च्यते ॥ सूक्ताभ्यां पर एताभ्यां हुताभ्यां भूतिमाप्नुयात् ॥ ९५ ॥ सूक्ताभ्यां तिस्र एताभ्यामास्यदल्पादकस्थितः ॥ उपतिष्ठेद्राविं देवं पञ्चरात्रे गते नरः ॥ ९६ ॥ अनश्नन्भागेवं श्रेष्ठ महद्देपमवाप्नुयात् ॥ इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम् ॥ ९७ ॥ यस्य लुप्तोद्भूतं मोहाद्धा- स्त्यैर्वा संसृजेत्सह ॥ उपोष्याज्यस्य जुहुयात्त्वमग्ने व्रतपा इति ॥ ९८ ॥ आदित्यह्वक्रयब्राह्मपोजं जप्त्वा वादी जयी भवेत् ॥ समग्निभिरिभीष्विति प्रपद्ये- द्रावुभास्करौ ॥ ९९ ॥ अग्निं प्रथमयः स्तुत्वा महतकद्याद्यसूच्यते ॥ न हीति च चतुष्केण मुच्यते महतो भयात् ॥ १०० ॥ ऋचं जप्त्वा च इत्येत- त्सर्वान्कामानवाप्नुयात् ॥ प्राग्भोजनमिदं ब्रह्म मानवानां महापंणाम् ॥ १०१ ॥ पूर्वाहि जपती नित्यं त्वंर्थसिद्धिः परा भवेत् ॥ अग्नेनयेत्यारिखनं सूक्तं मुजाकरसुदाहृतम् ॥ १०२ ॥ समिधेति जुहोत्यग्रौ प्राप्नुयात्कीर्तितमुत्तमाम् ॥ द्विर्चवारिशकं चेन्द्रं जप्त्वा नाशयेते रिपून् ॥ १०३ ॥ नाशं महीति जत्वा च प्राप्नोत्यारोग्यमेव च ॥ दुःखस्वप्नः परा जप्त्वा नरः पापैः प्रमुच्यते ॥ १०४ ॥ शस्त्रो भवति द्वार्यां तु भुक्कान्नं प्रयततः शुचिः ॥ हृदयं पाणिना स्पृष्ट्वा व्याधिभिनिभिभूयते ॥ १०५ ॥ अहोरात्रोषितः स्नात्वा शर्कं सम्पूज्य मानवः ॥ इत इत्याज्यमुत्तूय जुहुयादिन्द्रम्- र्चयेत् ॥ १०६ ॥ घृतं तिलं वा धर्मज्ञ भयेभ्यो विप्रमुच्यते ॥ तत्वामन्दन्मिति स्नातो हुत्वा शत्रून्प्रमापयेत् ॥ १०७॥ तान्विष्यादित्येतत्सं¹ जप्त्वा मुच्येत बन्धनात् ॥ यद्याव इति जप्त्वा च सर्वान्कामान्समश्नुते ॥ १०८ ॥ पवित्राणां पवित्रं तु पावमान्यऋचः स्मृताः ॥ वैश्वानसर्चश्चैतिरेणत्प- वित्राः परर्माः स्मृताः ॥ १०९ ॥ ऋचां द्विपदिः² प्रोक्तं चोपवसेदेकचित्सत्तमैः ॥ सर्वकल्मपनाशाय पावनाय शिवाय च ॥ ११० ॥ स्वादि
¹ ‘तान्दिद्यादिति’ इति ख० । २ ‘द्विपष्टिः’ ख० ।
द्वि० खं० अ० १२४
घृतेति सूक्तानां सप्तषष्टिर्हृदाहताः ॥ दशोत्तरा ऋचश्चैताः पावमान्यः शतानि षट् ॥ १११ ॥ एतज्जहुंश्चाप्यथर्व घोरं मृत्युभयं जपेत् ॥ आध्यात्मिकं पवित्रं च सूक्तं जपन्त्वल्पतः क्वचित् ॥ ११२ ॥ गतिमिष्टामवाप्नोति विन्दते महतीं श्रियम् ॥ आपोहिष्ठेति महतः प्रसुजीतोदकस्थितः ॥ ११३ ॥ सर्वपापविनिर्मुक्तस्सर्वशोकफलमश्नुते ॥ उपतिष्ठेत राजानं यमसूक्तेन वै द्विज ॥ ॥ ११४ ॥ चतुर्दशीं तु कुर्वीत स्थालीपाकं यथाविधि ॥ पञ्चविंशतिमित्युक्तस्तन्मन्त्र प्रयोजयेत् ॥ ११५ ॥ परायुष्यः प्रमीयेत न स जातु कथञ्चन ॥ मृत्युमेव प्रपद्येत परं मृत्योरिव द्विज ॥ ११६ ॥ वैशाख्यां पौर्णमास्यां तु नक्तंभोजी सदा नरः ॥ परायुषः प्रमीयेत न स जा तु कथञ्चन ॥ ११७ ॥ फलाहारो जपेन्मृत्युं त्रिभिर्वर्षैः सदा नरः ॥ दशानां तु शान्त्यर्थं भद्रं न इति संस्मरन् ॥ ११८ ॥ फलाहारी भवेन्मासं मासान्मासं पयः पिबेत् ॥ वायुभक्ष्यो भवेन्मासं जपेत्प्रेतसहस्रशः ॥ ११९ ॥ अन्तर्धानमवाप्नोति सिद्धान्पश्यति चारणान् ॥ प्रदेवेति नियतो जपेत् मरुधन्वसु ॥ १२० ॥ प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ॥ वेभीतकांस्तु त्रीन्शान्ताल्यैः समाधिवासयेत् ॥ १२१ ॥ पुष्पेण किंशुकैव स्थापयित्वा विहायसि ॥ संहत्य पादौ तौ तत्र तिष्ठेदस्तस्तुतिं जपेत् ॥ १२२ ॥ प्रावे मापेत्यचामंकं जपेच्च मनसा निशि ॥ व्युष्टायां मुदिते सूर्ये दूते जयमवाप्नुयात् ॥ १२३ ॥ अऋन्सुपर्णासन्तेत्येतत्स्वस्त्ययनं जपेत् ॥ नमो मित्रस्य वरुणस्य चक्षुषेति च नित्यशः ॥ १२४ ॥ तथाऽजं त्र्युद्यानित्यं भीतिभ्यो विप्रमुच्यते ॥ द्वेष्येरिति नित्यं तु जपेद्देवं समश्नुते ॥ १२५ ॥ मा प्रभागीरिति मूढस्तु पन्थानं पथि विन्दति ॥ क्षीणाणुरिति मन्येत यं कंचित्सुहृदं प्रियम् ॥ १२६॥ यत्तेयामिति तु स्नातस्तस्य मूर्धानमालभेत् ॥ सहस्रकृत्वा पञ्चाहं तेनायुर्विन्दते पुनः॥१२७॥ सूक्तुष्वे दर्शमेनैव इध्ममोडुम्बरं भवेत् ॥ इदमित्थेति जुहुयाद् घृतं प्राज्ञः सहस्रशः ॥ १२८॥ पशुकामो गवां गोष्ठे अञ्जनाक्रमश्चतुष्पथे ॥ परावतः स्वस्त्ययनं स्नातकस्य विधीयते ॥ १२९ ॥ बृहत्पते प्रथममिति ज्ञानकामस्य भार्गव ॥ वयः सुपर्णमित्येततं जपन्वै विन्दते श्रियम् ॥१३०॥ यस्ते मन्यो इति सदा मपस्तन्त्रं विधीयते ॥ हविष्मतीमभ्यस्य सर्वपापैः प्रमुच्यते ॥ १३१ ॥ या ओषधीः स्वस्त्ययनं सर्वपापविनाशनम् ॥ तस्य माया विनश्येत कायाभिर्वर्धते तथा ॥ १३२ ॥ बृहस्पतिः प्रतीत्येतद् बुद्धिकामः प्रयोजयेत् ॥ सर्वत्र तु परा शक्तिर्ज्ञेयाप्रतिरथा तथा ॥ ॥ १३३ ॥ भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम् ॥ अहं रुद्रभिरित्येतद्भाग्यमी भवति मानवः ॥ १३४ ॥ न योनौ जायते विद्वा अपनश्शोति रात्रिषु ॥ रात्रिसूक्तं जपुन्नात्रौ रात्रिक्षेमी भवेन्नरः ॥ १३५ ॥ या कल्पयतीति जपेन्नित्यं कृत्वा विनाशनम् ॥ आयुष्यं चैव वर्चस्यं
॥२६७॥
सूक्तं दाक्षायणं महत् ॥ १३६ ॥ उतै देवा इति जपेदामयघ्नं घृतव्रतः ॥ अग्ने अश्वाव इत्येच्छन्कामः प्रयोजयेत् ॥ १३७ ॥ वैभीतकैर्दण्डं हुत्वाग्निं द्विपदं ततो जपेत् ॥ द्विपन्तु धन्विनं हुत्वा द्विपतो विन्दते धनम् ॥ १३८ ॥ अयमग्ने जनितेति जपेद्दर्भि भये मति ॥ द्विमार्जिनिति पाठं तु जपन्नुत्थापयेद्विजः ॥ १३९ ॥ प्रातश्च पाठयेदेनं संसदि ब्रह्मचारिणाम् ॥ इमामिति च सूक्तेन शत कृत्वोऽभिमन्त्रितम् ॥ १४० ॥ घृतेन पीत्वा तं प्रातः सपत्नीभिर्वियुज्यते ॥ अप्स्यानीत्यृचञ्चैषु जपेत्पाद्यनिवेशनम् ॥ १४१ ॥ श्रद्धासूक्तं जपेन्नित्यं श्रद्धाकामविवर्द्धनम् ॥ ब्राह्मी यद्यस्य सूक्ते द्वे जपेत् नियतः सदा ॥ १४२ ॥ शंखपुष्पीं तु पयसा ब्राह्मीपुष्पाणि सर्पिषा ॥ शतावरीं तु पयसा वचामार्द्रद्रुतेन वा ॥ १४३ ॥ सूक्ताभ्यां मनुमन्त्राभ्यां चैकैकं तु त्र्यहं पिबेत् ॥ श्रद्धां मेधां स्मृतिं पुष्टिं वर्णं लक्ष्मीं च विन्द ति ॥ १४४ ॥ शास्त्रार्थऽप्रतिहतं संग्रामे विजिगीषतः ॥ गृहीतदक्षिणाद्दोर्ध्याहत्वा संस्पृशेज्जपेत् ॥ १४५ ॥ मुखामि त्वा हविषेति यक्ष्मामपमपकर्षति ॥ ब्रह्माग्निः संविदानं गर्महन्तुर्विनाशनम् ॥ १४६ ॥ अपेहीति जपेत्सूक्तं शुचिर्दुःस्वप्ननाशनम् ॥ देवाः कपोत इति तु कपोतस्योपवेशने ॥ १४७ ॥ कौशिकस्य जपेत्सूक्तं घृतेन जुहुयात्तथा ॥ सपत्नजं प्रणुजीत ऋषभे जपहोमयौः ॥ १४८ ॥ येनेन्द्रमिति जप्त्वा वै समाधि विन्दते पराम् ॥ मयोभूर्वात इति तु गवां स्वस्त्ययनं परम् ॥ १४९ ॥ यवानां च घृतानानां गोमयाणां समाहितः ॥ जुहुयाद्गोष्ठ मध्ये तु दधिमध्वाज्यसंस्कृतम् ॥ १५० ॥ पतन्तमिति नित्यं तु जपेत् विजने वने ॥ शाश्वद्दिगिन्दून्जलां वा मालापेतेन धारयेत् ॥ १५१ ॥ अदृश्यानां च सत्त्वानां मायामेतेन बाधते ॥ न प्रतिष्ठेति स्वस्त्ययनं नारीगर्भविबर्द्धनम् ॥ १५२ ॥ विष्णुर्योनिमिति च तथैवापप्रमुच्यते ॥ महित्यूणां मवोस्त्विति परिस्वस्त्ययनं जपेत् ॥ १५३ ॥ प्रायोद्धिद्विपदं जपेच्च रिपुनाशनम् ॥ आयुर्ड्डाः शतशस्त्रन्तु सपत्नार्तेः प्रसाधयेत् ॥ ॥ १५४ ॥ संसमिद्युवसेच्चैतत्सौभ्रातृकरणं महत् ॥ तच्छय्योरारुणीगौहे जपेत्स्वस्त्ययनं सदा ॥ १५५ ॥ पितॄणां संहितां विद्यात्पितॄन्प्रीणाति वै तथा ॥ वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताम् ॥ १५६ ॥ तल्लिङ्गैर्देवतार्मन्त्रैर्देवाराधनमुच्यते ॥ जपस्यैष विधिः प्रोक्तो हुते यज्ञं विदापतः ॥ ॥१५७॥ होमान्ते दक्षिणा देया यथाशक्त्या च भार्गव ॥ हुतेन शम्यते पापं हुतमन्त्रेन शम्यते ॥ १५८॥ अन्नं हिरण्यदानेन अमोघा ब्राह्मणाशिषः॥ सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ॥ १५९॥ क्षीरवृक्षास्त्वथैन्माश्व सर्वकामप्रदाः स्मृताः ॥ समिधःकण्टकिन्यश्च राजिका रुधिरं विषम् ॥ ॥१६०॥ तैलं च भृगुशार्दूल विशेयमाभिचारकम् ॥ सक्तवः फलमूलानि शाकानि विविधानि च ॥ १६१ ॥ पयो दधि सुवर्णं च भैक्ष्यं नाशनसु
वि० ध० ॥१६८॥
द्वि० खं० अ० १२६
च्यते ॥ हविःस्नानं च कर्तव्यं सर्वत्र भृगुसत्तमा ॥ १६२ ॥ ऋचां विधानं कथितं तवैतत्स समासतः कर्मकरां द्विजानाम ॥ ततो विधानं यजुषां निबोध समासतो धर्मभृतां वरिष्ठ ॥ १६३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० ऋग्विधानं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥
पुष्कर उवाच ॥ ॐकारपूर्विका नाम महाव्याहृतयः स्मृताः ॥ सर्वकल्मपनाशिन्यः सर्वकर्मप्रदास्तथा ॥ १॥ आज्याहुतिसहस्रेण देवमाराधयन्हिजा ॥ मनसः कांक्षितं राम मनसेप्सितकामदम् ॥ २ ॥ शान्तिकामो यवैः कुर्यात्तिलैः पापमपानुदये ॥ धान्यैः सिद्धार्थकैश्चैव सर्वकामकरं तथा ॥ ३ ॥ औदुम्बरीभिरिध्माभिः पशुकामस्य शस्यते ॥ दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः ॥ ४ ॥ अपामार्गसमिद्भिस्तु काम्यन्कनकं बहु ॥ कन्याकामो घृताक्तानि युग्मशो ग्रथितानि चा॥५॥ जातिपुष्पाणि जुहुयादन्नामार्थी तिलतण्डुलम् ॥ वशीकर्मणि शाल्वोटवाशपापामार्गमेव च ॥ ६ ॥ वसासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ॥ क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ॥ ७ ॥ सर्वत्रीह्रिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विजः ॥ सहस्रशस्तु जुहुयात्प्रजावशगतो भवेत् ॥ ८ ॥ वशकामस्य पुष्पाणि सर्वा व्याधिविनाशनी ॥ ब्रह्मवर्चसकामस्य वासांत्रं च विधीयते ॥ ९ ॥ प्रत्यङ्गिरेषुसं जुहुयात्कण्टकभस्मभिः ॥ विद्वेषणे च पक्षाणि काककौशिकयोस्तथा ॥ १० ॥ कार्पिळं तु घृतं हुत्वा तथा चन्द्रगृहे द्विज ॥ वचाचूर्णेन संप्रीतांस्तानानीय च तां वचाम् ॥ ११ ॥ सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥ सूर्योदयेऽर्द्धमभिमुखं पुत्रकामो जपेन्नरः ॥ १२॥ एकादश्यां गुगुलं लौहे बैल्वं खादिरमेव वा ॥ दिपन्तत्त्वां बधान्निति निखनेद्विपुवेश्मनि ॥ १३ ॥ उच्चाटनमिदं कर्म शत्रूणां कथितं तव ॥ शर्क धुवं भूपतये महाव्याहृतिभिर्भवेत् ॥ १४ ॥ सर्वस्रवेति तथा मन्त्रं ज्ञेया प्रत्यङ्गिरा परा ॥ एतेनोद्दुम्बरीरैध्मंदवं वषपायेद्ध्रुवम् ॥ १५ ॥ अहोरात्रं जले जप्त्वा चक्षुष्मान्नित्यशं द्विज ॥ प्रणवञ्चक्षुषोर्मन्त्रं योगमाप्नोति चक्षुषः ॥ १६ ॥ उपप्रयन्तमित्येतदृक्त्वा विप्रो महामने ॥ अनुवाकं महाभाग नित्यसत्रेण युज्यते ॥ १७ ॥ तन्नूपात्रेऽसि इति च दूर्वां हुत्वा रुजान्वितः ॥ व्याधिमोक्षमवाप्नोति नात्र कार्या विचारणा ॥ १८ ॥ इदंव तेभ्यः पतितं गृहीत्वा गोमयं द्विज ॥ घृताज्यमधुसंयुक्तं हुत्वा धेनुं तु तां लभेत् ॥ १९ ॥ एष ते रुद्रभागिति हुत्वा राम गवायुकाम ॥ अधैर्चेन तथाप्नोति धनं नास्त्यत्र संशयः ॥ २० ॥ अर्धर्चेन द्वितीयेन क्षेत्रमध्ये बलिं हरेत् ॥ मूषिकाशलभोत्पाते सुरामांसालवादिभिः॥२१॥ भेषजमिति मन्त्रेण दध्याज्यमधुहोमकः ॥ चतुष्पदानां सर्वषामुपसर्गे विनाशयेत् ॥ २२ ॥ त्र्यम्बकं यजामहेति होमः सर्वार्थसाधकः ॥
॥१६८॥
¹ 'वासांसं' इति क० ।
² 'भैषज्य' इति क० ख० ।
कन्यानाम गृहीत्वा च कन्यालाभकरः परः ॥ २३ ॥ भयेषु च जपेन्नित्यं भयेभ्यो विप्रमुच्यते ॥ धत्तूरपुष्पं सघृतं तथा हुत्वा चतुष्पथे ॥ २४ ॥ शून्ये शिवालये वापि शिवालकामानवाप्नुयात् ॥ हुत्वा च गुग्गुलं रात्रौ पश्यति शङ्करम् ॥ २५ ॥ अकृत्या इति चैवाग्नौ ऋचो हुत्वा घृता द्भिभिः ॥ अन्वहं स्वापदां नाशं स्वकुले कुरुते ध्रुवम् ॥ २६ ॥ भवत्युत्तरवादी च जप्त्वा च विदुसीत्यृचम् ॥ अग्नस्तनोर्गिति तथा हुत्वा च तिल तण्डुलैः ॥ २७ ॥ सहस्रशस्तु धर्मज्ञ भवेत्सर्वार्थनिर्धनः ॥ युञ्जते मन इत्येतदनुवाकं तु वैष्णवम् ॥ २८ ॥ सायं प्रातः समासीत दीर्घमायुरवा प्नुयात् ॥ दिवो वा विष्ण इत्यस्य कर्म व्याहृतिवद्भवेत् ॥ २९ ॥ विष्णोरराटमित्येतत्सर्वव्याधिविनाशनम् ॥ श्लोकं च यशस्यं च तथैव विवर प्रदम्॥३०॥ अयन्ते यज्ञ इत्येतत्संग्रामे विजयप्रदम् ॥ इदमापः प्रवहंत स्नाने पापापनोदनम् ॥ ३१ ॥ दैवांश इति दैवतद्भिन्नांगेषु योजयेत् ॥ व्याधिघातः समिद्भिरस्तु राजिकासर्षपैस्तथा ॥ ३२॥ आभूदमाहीति तथा हुत्वा बर्हिर्गम्य मानवः॥ उपश्रुतिं तु गृह्णीयात्तसा तस्यानुरतिथा भवेत्॥३३॥ अग्ने पश्वेति हुतं ब्रह्मवर्चसकारकम् ॥ उद्दुत्यं चित्रमित्यस्य कर्म व्याहृतिवद्भवेत् ॥ ३४ ॥ यस्मात्प्रमद्राक्ष्यधिको नरो भवितुमिच्छति ॥ स्वस्ति नेन्द्रेति तु जपेत्तस्य नामान्तसंयुतम् ॥ ३५ ॥ भवत्यभ्यधिकस्तस्माद्रिया यशसा श्रिया ॥ तथा होमाद्धनेनेव ह्यमलाभववाप्नुयात् ॥ ३६ ॥ विश्वकर्म हविष्यं च सूचीं लौहीं दशाङ्गुलीम् ॥ कन्याग्रे निखनेद्धारि ततस्सास्यं प्रदीयते ॥ ३७ ॥ देवेभ्यति तर्पितं हुतनेन्वाह्वान्भवत् ॥ वाजस्यसेति चैतेन हुत्वाज्यं सप्तभिर्द्विजः ॥ ३८ ॥ यदेव जुहुयात्पश्चात्तद्देवाश्लभ्यमानुयात् ॥ अग्ने अच्छोति जुहुयाल्लक्षया द्विजोत्तमः ॥ ॥ ३९ ॥ तिलैर्वैश्व धर्मज्ञस्तथापापामार्णतंडुलैः ॥ सहस्रमन्त्रितं कृत्वा तथा गोगेचनां द्विजः ॥ ४० ॥ तिलकं च तथा कृत्वा जनस्य प्रियतां व्रजेत् ॥ पौर्णमास्यां तथा हुत्वा मेधं गजानमित्यपि ॥ ४१ ॥ उपस्थानं तथा कृत्वा दत्वा चान्नं द्विजन्मने ॥ सोमयाजी भवेद्विप्र नात्र कार्या विचारणा ॥ ४२ ॥ एष ते निर्ऋतेत्याभिर्भागचारुक्रमेण ॥ गृहाद्वैऋत्यके भागे हुत्वा स्नात्वा नदीजले ॥ ४३ ॥ कापिलेद्धामयान्नित्यं पश्यन्त्यामभिषेचितम् ॥ कृत्वा रुद्रांस्तथा जप्त्वा मैत्र्यमाप्नोति गुह्यकैः ॥ ४४ ॥ रुद्राणां च तथा जप्यं सर्वव्याधिनिपूदनम् ॥ सर्वकर्मकरं होमं तथा सर्वत्र शान्तिदम् ॥ ४५ ॥ अजाविकानामश्वानां कुञ्जराणां तथा गवाम् ॥ मनुष्याणां नरेन्द्राणां बालानां योषितामपि ॥ ४६ ॥ ग्रामाणां नगराणां च देशानामपि भार्गव ॥ अनिद्रुतानां धर्मज्ञ व्यावितानां तथैव च ॥ ४७ ॥ मरणे समुत्पन्ने रिपुजे च तथा भये ॥ रूद्रहोमः
१ ‘तस्य वित्त्या’ इति ख० । २ ‘ततो वासं’ इति ख० । ३ ‘ना सोवास्मै’ इति क० । ४ ‘वाजप्यमति’ इति क० । ‘निहते’ इति क० । ५ ‘वृणाणाम्’ इति ख० ।
वि० ध० ॥२६३॥
द्वि० खं० अ० १२५
परा शान्तिः पयसेन घृतेन च ॥ ४८ ॥ कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति ॥ सक्तूनाञ्चैकभैक्ष्याशी नक्तं मनुजसत्तम ॥ ४९ ॥ बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया ॥ मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः ॥ ५० ॥ सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम् ॥ हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान् ॥ ५१ ॥ गुग्गुलोः कणिकामिस्तु सौभाग्यं विन्दते ध्रुवम् ॥ कृत्वाष्टापत्रं कमलं तन्मध्ये शशिनं लिखेत् ॥ ५२ ॥ लवणेन ततस्तस्य पूजां कृत्वा यथाविधि ॥ सौभाग्यं महदाप्नोति मधुवातेति वै जपन् ॥५३ ॥ जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः ॥ देवतायै निवेद्यैव कुसुमानि शिवं भवेत् ॥ ५४ ॥ जीमूतस्यैव भवति मन्त्रं जयकरं द्विज ॥ पयस्वतीति पयसा तथा हुत्वा सहस्रशः ॥ ५५ ॥ ब्रह्मवर्चसमाप्नोति दशा वा भृगुनन्दन ॥ दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम् ॥ ५६ ॥ तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ॥ बोधश्च मेति कथितं तथा स्वस्त्ययनं परम् ॥ ५७ ॥ स्वस्ति न इन्द्रत्येतं च सर्वव्याधिविनाशनम् ॥ इह गावः प्रजायध्वमिति पृथिविवर्धनम् ॥ ५८ ॥ सूक्तेण देवस्य त्विति हुत्वापामार्गतण्डुलम् ॥ मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ॥ ५९ ॥ बहिश्वैतन्त्यदित्येतत्कर्म व्याहृतिवद्भवत् ॥ भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत् ॥६० ॥ हंसः शुचिषदित्येतज्जपन्नेतोऽघवनाशनम् ॥ चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले ॥६१॥ देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥ जपत्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः ॥ ६२ ॥ वसन्त्विति च हुत्वाज्यान्मादित्यान्षड्नमा हुयात् ॥ शिवोभवस्वमन्वग्युत्पाते व्रीहिभिर्जुहुयान्नरः ॥ ६३ ॥ याम्पेन इति चैतच्च तस्करभ्यो भयावहम् ॥ दूरञ्चाम्यामिति चैतन्न व्रीहिभिर्जुहु यान्नरः ॥ ६४ ॥ यो अस्मन्ममरातीयन्हुत्वा कृष्णाजिस्तैलैर्नरः ॥ सहस्रोऽभिचारात्तु मुच्यते विकृति द्विजः ॥ ६५ ॥ अनेनाश्रपतेत्येतत्तद्हुत्वा चान्नमाप्नुयात् ॥ सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवोत् ॥ ६६ ॥ मनः स्वस्तीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात् ॥ रोपयेत वचां राज्ञो चन्द्रे ग्रस्ते जलाशये ॥ ६७ ॥ या ओषधय इत्येतज्जपात्स्तम्भिरोपनः ॥ तिरानोन्नोपोषिप्नः कृत्वा हुत्वा तां ताम्रभाजने ॥ ६८ ॥ तेनैव मन्त्रितां चन्द्रे दृष्ट्वा मासं सदा जपेत् ॥ सकापिलघृतक्षीरे पीत्वा श्रुतिचरो भवेत् ॥ ॥ ६९ ॥ एतेमौषधीपाने सदा मन्त्रं जपेद्विज ॥ सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः ॥ ७० ॥ द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ ७१ ॥ इह गावः प्रजायध्वं मन्त्रोऽयं पृथिवर्धनः ॥ हुतस्तु सर्पिषा दध्ना पयसा
१ 'नोपवे' इति क० ख० । २ 'राज्ञः' इति ख० ।
॥२६३॥
पायसेन वा ॥ ७२ ॥ शतं व इति चेतेन हुत्वा पर्णफलानि वै ॥ आरोग्यं चिरमाप्नोति दीर्घमाप्नोति जीवितम् ॥ ७३ ॥ ओषधीः प्रतिमोदध्वं जपेत्कर्मकवत्सदा ॥ लवने बीजवापे वा विशेषात्सिद्धिमाप्नुयात् ॥ ७४ ॥ सर्वौषधीः समाननीय सर्वबीहुतास्ततः ॥ क्षेत्रमध्ये द्विजो हुत्वा कृषिमाप्नोति पुष्टिदाम् ॥ ७५ ॥ अपामार्गं यवं चान्यमपामार्गोरिर्ति मातरः ॥ गोकामाश्चाककामो वा तं कामं शीघ्रमाप्नुयात् ॥ ७६ ॥ ओषधीः समञ्जन्त्विति हुत्वा चाज्येन मानवः ॥ भयमाप्नोति नैवेह यातुवानभवं क्वचित् ॥ ७७ ॥ अन्थावतीति चेतेन पायसं जुहुयाद्द्विज ॥ सर्वत्र शान्ति माप्नोति नात्र कार्या विचारणा ॥ ७८ ॥ सीरां युञ्जन्ति इत्येतद्धुत्वा कृषिमवाप्नुयात् ॥ उच्छुष्मा इति चेतेन बन्धनस्थो विमुच्यते ॥ ७९ ॥ युवा सुवासा एतेन वासंस्याप्नोत्यसंशयम् ॥ यस्मिँश्छापः स्थितः काष्ठे तद्गृहीत्वा विचक्षणः ॥ ८० ॥ सायं गृह्णाति मन्त्रेण शराम्स्तु निखने त्तपे ॥ कुष्ठी भवति चापस्य पक्षं गृह्णस्य वा पुनः ॥ ८१ ॥ सहस्रमन्त्रितं कृत्वा शत्रोः प्रतिकृतिं ततः ॥ तेन बद्धा ततो मृत्युं शत्रुः प्राप्नोत्य संशयम् ॥ ८२ ॥ शुशुं तु नाशयेत्याशु सर्वोपद्रवविनाशनम् ॥ ८४ ॥ कान्तारमध्वरस्वस्ति पषुर्मेन्च्वंसयुताम् ॥ ८३ ॥ मिष्टान्नभागी भवति भाण्डानां चैव रक्षिता ॥ मा मा हिंसीति चाज्येन हुतं रिपुविनाशनम् ॥ ८४ ॥ नम्योस्तु सर्पेभ्य इति पायसं सघृतं नरः ॥ ८६ ॥ नागभयान्नेति जुहुया पुरुषस्य वा ॥ ८६ ॥ होमो द्रुपश्व स्कन्देति वश्यकामस्य शस्यते ॥ अनेन तिष्ठेति जुहुयाद्वह्वयाः खल्वीभिचारुकाः ॥ शत्रांनांम गृहीत्वा तु शत्रुं त्सुवर्णं प्राप्नुयाद्बहु ॥ कृणुष्व पाज इत्येतदभिचाराविनाशनम् ॥ ८७ ॥ ग्रामे जनपदे वापि मर्गकं तु शमं नयेत् ॥ ८९ ॥ रोगातां मुच्यते कुर्यात्तदा वशे ॥ ८८ ॥ दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मन्त्रतः ॥ ९० ॥ हुत्वा सहस्रशो गाम धनमाप्नोति मानवः ॥ सौभाग्यं रोगात्तथा दुःखार्त्तु दुःखितः ॥ औदुम्बर्येन्तु समिधो मधुमांसो वनस्पतिः ॥ ९१ ॥ अपः पिवेष्विति तथा हुत्वा दधिघृतं मधु ॥ ९२ ॥ प्रव महदाप्नोति व्यवहारे तथा जयम् ॥ ९३ ॥ योगादिति तथा हुत्वा देवं वर्षामपेयुड्वम् ॥ हुत्वा श्रद्धेयवाक्यस्तु सर्वैर्देवाभिजायते ॥ अयं पुरेरिति र्तयति धर्मज्ञ महावृष्टिमिनन्तसम् ॥ ९४ ॥ अग्निंदूवेतेति तथा यवमुद्गच्युतं द्विज ॥ ९३ ॥ हुत्वा सर्वमवाप्नोति यामसौ मनसेच्छति ॥ ९५॥ श्रियमाप्नोति जुहुयादुदवार्केन मानवः ॥ ९४ ॥ घृतपूर्णानि पद्मानि सहस्रं भृगुनन्दन ॥ कन्यां तां समवाप्नोति यामसौ मनसेच्छति ॥ ९६॥ च तथा धनमाप्नोत्यनुत्तमम् ॥ नमस्ते रुद्र इत्येतत्सर्वोपद्रवनाशनम् ॥ ९६ ॥ सर्वशान्तिकरं प्रोक्तं महापातकनाशनम् ॥ क्षोध्नुं च यशस्यं च श्रीरायुःपुष्टिवर्धनम् ॥ ९७॥ अभ्यर्वाचादित्यनेन रक्षा स्याद्ख्यादित्यस्य तु ॥ सिद्धार्थकानां क्षेपेण पथि चेतत्सदा पठेत् ॥ ९८ ॥
वि० ध० ॥२७०॥
द्वि० खं० अ० १२५
क्षेमेण स्वगृहान्नेति सर्वव्याधिविवर्जितः ॥ ९९ ॥ उपतिष्ठेत धर्मज्ञ सायं प्रातस्ततन्द्रितः ॥ अन्नमश्क्यय^१ माप्नोति दीर्घमायुश्च विन्दति ॥ १०० ॥ प्रसुञ्चन्ती न इत्येतत्पङ्किराद्यमन्वन्नम् ॥ रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा ॥ १०१ ॥ मानो महान्त इत्येतद्वालानां शान्तिकारकम् ॥ नमो हिरण्यबाहवे इत्यनुवाक् हपेकारकम् ॥ गोजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम् ॥ १०२ ॥ नमो वः किरिकेभ्यश्च पद्मदले हुते नरः ॥ राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ॥ बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ॥ १०३ ॥ इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः ॥ शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम् ॥ १०४ ॥ अनेनैव तु मन्त्रेण दूर्वाहोमं मानवः ॥ सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति ॥ १०५ ॥ वरेगोहेण इष्ट्वानां याते रुद्रशिवा तनूः ॥ हुत्वायुतं तु धर्मज्ञ पुत्रमाप्नोत्यभीप्सि- तम् ॥ १०६ ॥ असंख्यताः सहस्राणि मन्त्रैस्तैरभिवारकम् ॥ नमोरस्तु रुद्रभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ॥ १०७॥ रक्तोष्णीषो रक्त वासा रक्तमाल्यानुलेपनः ॥ अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ॥ १०८॥ प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन ॥ कृत्वाशुस्थामप्यवजातां रक्तकुम्भेन पूजयेत ॥ १०९॥ पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत् ॥ आशुः शिशान इत्येतद्वायुधानां च रक्षणम् ॥११०॥ संग्रामे कथितं राम सर्वशत्रुविना- शनम् ॥ इमं सोममित्येतन्नदीं गत्वा समुद्रगाम् ॥ १११ ॥ स्नात्वास्तोत्रेष्वयुतं जप्त्वा हुत्वा दशशतं ततः ॥ साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सि- तम् ॥११२॥आवाजेश्च मति जुहुयात्सहस्रं पञ्चभिर्दिनै ॥ आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ॥ ११३॥ मनोभवस्येति गृहे तथा हुत्वा विचक्षणः ॥ वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति ॥ ११४ ॥ अग्न आयूंषि चेतेन हुत्वैवाज्यमतन्द्रितः ॥ सहस्रशतन्तु धर्मज्ञ वशं नयति केनचित्॥११५॥ अपामफेनेति लाजाभिजुहुयाद्राज्यमाप्नुयात् ॥ भद्रा इतीन्द्रस्यैदीनो जपन्स्यात्सकलैन्द्रियः ॥ ११६॥ अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ॥ अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत् ॥ ११७॥ ब्रह्मराजभ्यामिति च कर्माऽरम्भेषु वै जपेत् ॥ सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्रुते ॥ ११८ ॥ नृनपादोसुर इति न्यग्रोधे द्विजसत्तम ॥ अशोकपुष्पान्संपृक्ताञ्जुहुयाल्लक्षसंमितान् ॥ ११९ ॥ ततोदानवकन्यां तु स्व- यमेव पश्यति ॥ अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत् ॥ १२० ॥ ददाति सा ततो रक्तं तूष्णीं तत्रेच्छया भवेत् ॥ अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम् ॥ १२१ ॥ बिले प्रवेशयेद्राम नात्र कार्या विचारणा ॥ शून्यायतनमासाद्य मार्गश्रममथोदनम् ॥ १२२ ॥ कृया
॥२७०॥
^१ 'भक्ष्यम्' इति ख० ।
नश्वित्र इत्येतं जपस्तु जुहुयान्नरः ॥ हुते शतसहस्रे तु तस्य विद्याधरः स्वकम् ॥ १२३ ॥ सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति ॥ संवत्सरांशी- त्यनया घृतं हुत्वा विचक्षणः ॥ १२४ ॥ यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः ॥ केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम् ॥१२५॥ इन्द्राम्नं वर्म इत्येतद्रणे सन्नाहवन्चनम् ॥ धन्वनागेति मन्त्रश्च धनुर्ग्रहणिकः परः ॥ १२६ ॥ वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिम- न्त्रणे ॥ मन्त्रश्चाहिरिवेत्यूणमन्त्रः प्रकीर्तितः ॥ १२७ ॥ युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ॥ आशुः शिशान इत्येतद्रथारम्भनमन्त्रयेत् ॥ १२८ ॥ विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः ॥ आजन्वन्तीति चाश्वानां ताड- नीय उदाहृतः ॥ १२९ ॥ यः सेनाअभ्बीत्वेरीति परसैन्यमुखे जपेत् ॥ दुन्दुभि इति वाप्येतद् दुन्दुभिताडने भवत ॥ १३० ॥ एतैः पूर्वोदितैर्मन्त्रैः कृत्वैवं विजयो भवेत् ॥ यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥ १३१ ॥ रथश्रुतापदायेच्छीघ्रं संग्रामे विजयप्रदम् ॥ आकृष्णेति तथैतस्य कर्म व्याहितवद्भवेत् ॥ १३२ ॥ युवं च्यवानमेतच्च भयेषु भयनाशनम् ॥ घृताहुतिसहस्रेण नात्र कार्या विचारणा ॥ १३३ ॥ मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते ॥ स राज इति चैतेन देवताराधनं नरः ॥ १३४ ॥ कुर्याद्भागंव सर्वत्र होमजप्यैर्यथाश्रुतम् ॥ शिवसङ्कल्पजप्येन समाधिं मनसो लभेत्॥ १३५॥पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्॥हुत्वा शीघ्र मवाप्नोति श्रियं तु पद्मालिनीमिव ॥ १३६॥ उभाकवि त इत्येतद्रूपकामस्य शस्यते ॥ यदावधन्दान्दाक्षायणा मन्त्रेणानेन मन्त्रितम् ॥ १३७ ॥ सहस्रकृत्वः कनकं धारयन्निन्द्रनागवत् ॥ पुष्ट्रकामां च सर्वेषां तथा निर्वहणं परम् ॥ १३८ ॥ इमं जीवेभ्य इति च सीतलोष्टं चतुर्दिशम् १ न क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ॥ १३९ ॥ परीमेगामनेनेतेति वशीकरणमुत्तमम् ॥ हर्तुम्प्याणाततस्तस्य वशीभवति मानवः ॥ १४०॥ मध्वक्ताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति ॥ यस्य धर्मरय वशगः सोऽस्य शीघ्रं भविष्यति ॥ १४१ ॥ शन्नोमित्रिति त इत्येतत्सदा सर्वत्र शान्तिदम् ॥ मनसः काममाकूतिः पुष्टिकामस्य शस्यते ॥ १४२ ॥ चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम् ॥ पदूकेन २ च तथा होमः सर्वदेवप्रसादनः ॥ १४३ ॥ आदांयानोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते ॥ विषूवतं चैतदज्येन हुतं शूलापहं भवेत् ॥ १४४ ॥ गणानां त्वा गणपतिं होमं कृत्वा चतुष्पथे ॥ वशं कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ॥ १४५ ॥ वैकुङ्क्रेधमहोमं च समास्त्वारथ इत्यादीपि ॥ यशसा योगमाप्नोति विपुलं नात्र संशयः ॥ १४६ ॥ अभिभूर्धैतिमन्त्रेण हुत्वेवाज्यं हुताशने ॥
१ 'कटकम्' इति ख० ।
२ 'पञ्चैके' इति पाठोऽपि ।
४६
वि० ध० ॥२७१॥
द्वि० खं० अ० १२६ ।२७१॥
तत्साद्मवाप्नोति नात्र कार्या विचारणा ॥ १४७॥ एवं हि देवतालिङ्गैस्तथा राग यथा स्वकैः ॥ हुतैः प्रसाद्येद्दिष्ट्वां देवतां नात्र संशयः ॥ १४८ ॥
हिरण्यवर्णाः शुचयो मन्त्रोऽयमभिषेचने ॥ शन्न आपश्च धन्वन्त्याः सर्वपापहराः स्मृताः ॥ १४९ ॥ शन्नो देवीरभिष्टये चेति शान्तिकरः परः ॥
एकचक्रिति मन्त्रेण हुतेनाञ्चेन भार्गव ॥ १५० ॥ प्रहृष्ट्यः शीघ्रमाप्नोति प्रसादं नात्र संशयः ॥ याज्यानुवाक्यौ वृक्षाणां समाग्रे वर्ण इत्यपीषा १५१॥
तत्साद्मवाप्नोति नात्र कार्या विचारणा ॥ गावो भग इति द्वाभ्यां हुत्वैवाज्यं सहस्रशः ॥ १५२ ॥ गाः समाप्नोति धर्मज्ञ नात्र कार्या
विचारणा ॥ उद्दुत्तमं वरुण इति जुहुयाद्दानुन्दन ॥ १५३ ॥ नदीवाहात्तडागेषु सुकृतेषु द्विजोत्तम ॥ संवदतां हिरण्यकोशं रूपं कृत्वा तथैव
च ॥ १५४॥ प्रपादसां सेति चैव गृहे यज्ञो विधीयते ॥ देवेभ्यो वनस्पत इति ब्रह्मण्यो विधीयते ॥ १५५॥रात्रियामस्य इति द्वाभ्यां रात्रियज्ञाः प्रकीर्त्ति-
ताः॥ शमे शमीकं शम्यीकामञ्चत्यं पुक्षमेव च ॥ १५६॥ उदुम्बरं च न्यग्रोधमपामार्गं च गोमयम्॥ यां कुर्याद्दधिमधुजलं दूर्वां प्राचीनंगामिनीम् ॥ १५७॥
सीतां लोष्ठं सुवर्णं च तथा वल्मीकमृत्तिकाम् ॥ सं वः सृजामीति द्वाभ्यां बीजांन्यप्सु विनिक्षिपेत् ॥ १५८ ॥ या ओषधय इत्येतदुदवाके ततो
जपेत् ॥ अपामिवेद्रिति ततः प्रोक्षणं तु विधीयते॥ १५९॥ इक्षोभयामितीत्येतादृष्टं जुहुयाद्द्विजः ॥ यद्वेद्वावेहद्देवनमृचस्तिस्रस्तथैव च ॥ १६० ॥
हुत्वा सम्प्रोक्षणं कुर्याद्भूयः सर्वत्र मानवः ॥ सर्वोपपातशमनं कर्मैतत्परिकीर्त्तितम् ॥ १६१ ॥ गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम् ॥
सर्वपापप्रशमनी सर्वकर्मकरी तथा ॥ १६२ ॥ एतावदुक्तं यजुषां विधानं मया हि किञ्चित्तव धर्मनिष्ठ ॥ अतः परं वच्मि नुवीर साम्नां तन्मे
शृणुष्वायतलोहिताक्ष ॥१६३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने तन्त्रविधानन्नाम पञ्चविंशत्यु-
त्तरशततमोऽध्यायः ॥ १२५॥ पुष्कर उवाच ॥ संहितां वैष्णवीं जप्त्वा विष्णुं प्रीणाति मानवः ॥१ ॥ सर्वकाममवाप्नोति तथा हुत्वा च भार्गव ॥ १॥
स्कन्दस्य संहितां जप्त्वा स्कन्दकामानवाप्नुयात् ॥ आस्यदग्ने जले तिष्ठन्नाघमर्षणोनमर्त्त्यमानः ॥२ ॥ त्रिःसप्तकृत्वो जप्त्वा च सर्वान्कामानवाप्नुवेत् ॥
तथा च संहितां पित्र्यां तत्प्रसादमुपाश्नुते ॥ ३ ॥ गुरुगोब्राह्मणादीनाञ्छुत्वा नाम प्रियं नरः ॥ सोपवासो जपेत्तोये त्त्विदं विष्णुरितिचऋचम् ॥ ४ ॥
सदा गावश्च शुचयः प्रयाज्ययजने जपेत् ॥ अमेध्यदर्शने जापोः पन्था अमे दिवः ॥ ५ ॥ एतद्बिन्दूक्तवामति सर्वपापहरं जपेत् ॥ दुर्क तेऽन्य-
द्धजतं जत्वा स्याद्विशुद्ध्यते ॥ ६ ॥ चक्रानिति तथा जप्त्वा पारयायी विशुद्ध्यते ॥ सहन्तः सोममित्येतज्जप्त्वा मुच्येतातिग्रहात् ॥ ७ ॥ यत्त
त्सोम इन्दु इति हिंसादोषविनाशनम् ॥ अमेध्यमभिसम्पृञ्चेत अभिरिस्तगोमते वै जपन् ॥ ८ ॥ सर्वपापहरं ज्ञेयं परितो पिश्वातामिति ॥ पर्वाससोमे
ति जपेज्जीवितुं तु सुकर्मणा ॥ ९ ॥ अविक्रेयं च विक्रेयं जपेद् घृतवतीत्विति ॥ अप्यानानो देवसवितो ज्ञेयं दुःस्वप्ननाशनम् ॥ १० ॥ त्रातारमि- न्द्रमित्येव महिम्नीणामसौस्म्विति ॥ उदुत्तमं वरुणपाशैरायुष्याणि जपेत्सदा ॥ ११ ॥ शुक्रचन्द्रेति जाप्येन पूतो भवति मानवः ॥ १शुद्धामुद्धाीयमे- तच्च तवोचोसूक्तमेव च ॥ १२ ॥ न्यग्रोधशृङ्गमादाय शरन्मूले तथैव च ॥ त्रिवृतं तु मणिं कृत्वा जुहुयाच्च सहस्रशः ॥ १३ ॥ वांच्यांसिगिरिति मन्त्रेण घृतं राम यथाविधि ॥ अभ्यज्य घृतशेषेण मलक्लालबन्ध इष्यते ॥ १४ ॥ द्रोणां यासां तु गर्भाणि पतन्ति भृगुसत्तम ॥ २बंणिज्जातस्य बालस्य बध्नीयात्तदनन्तरम् ॥ १५ ॥ गोर्व स्वरूपवत्सायाः शुक्लाया जुहुयाद्धृतम् ॥ उग्रप्रिया तु शरणं मन्त्रज्ञानेन मन्त्रवित् ॥ १६ ॥ रक्षसा मुच्यते जन्तुर्मणिं शिरसि धारयेत् ॥ कौत्स्यं घृतं तु प्राश्नीयान्नित्यमेव विचक्षणः ॥ १७ ॥ विश्वापृतनिति मन्त्रेण व्याधिभिर्विप्रमुच्यते ॥ चर्षणीधृतमंतेन घृतं हुत्वा यथाविधि ॥ १८ ॥ ४शतायार्मिर्मां बद्धा न सर्पः परिवेष्यते ॥ समत्यायन्त्वितीति जपेन्न ध्रियेत पिपासया ॥ १९ ॥ दृष्ट्राहोत्रितयं जप्त्वा सलिले नाप्नुयाद्भयम् ॥ त्वममा ओषधींत्वन्तज्जप्त्वा व्याधिं न चाप्नुयात् ॥ २० ॥ यते पयांसि पूर्वेण ग्रासं वै प्रक्षिपेन्मुखे ॥ निर्निरेदुरितेनप्रतिरुत्यारोग्यमाप्नुयात् ॥ २१ ॥ देवव्रतेन हुत्वाज्यमुच्छेषेण विचक्षणः ॥ कण्वीं रकमध्यञ्च ३दण्डहस्तगतेन तु ॥ २२ ॥ स्वस्तिमास्तेन भवति यत्र क्वचन गच्छति ॥ पथि देवव्रतं जप्त्वा भयेभ्यो विप्रमुच्यते ॥ २३ ॥ यदिच्छ्रो अनयत्वेति हुतं सौभाग्यवर्धनम् ॥ भद्रोभो अग्निरिति च दन्तकाष्ठं च भक्षयेत् ॥ २४ ॥ संवत्सरमग्निहोत्र- न्मध्वाज्यसहितं सदा ॥ सौभाग्यं महदाप्नोति यत्र क्वचन गच्छति ॥ २५ ॥ भगो न चित्र एतेन नेत्रयोरञ्जनं स्मृतम् ॥ सौभाग्यवर्धनं राम. नात्र कार्या विचारणा ॥ २६ ॥ जपन्त्रिन्द्रेति वर्गं च तथा सौभाग्यमाप्नुयात् ॥ करिप्रियो दिवः कविः काम्यां संश्रावयेश्रियम्यः ॥ २७ ॥ सा तं कामयते राम नात्र कार्या विचारणा ॥ रयन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम् ॥ २८ ॥ यशसामेति जुहुयात्पुष्पेण तु प्रियङ्ककम् ॥ यशसा योगमाप्नोति कर्मणानेन मानवः ॥ २९ ॥ प्राशयेदङ्गुलकं नित्यं वचाचूर्णं घृताप्लुतम् ॥ इन्द्रमिन्द्राधीनं जप्त्वा भवेच्छ्रुतिधरस्त्व- सौ ॥ ३० ॥ हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम् ॥ गीर्वाणः पाहि सततं जातं स्याद्वलतारकम् ॥ ३१ ॥ मयि श्रीरिति मन्त्रेण जातव्यं श्रीविवर्धनम् ॥ द्वानावशिति देवोऽपि मन्त्रेणानेन धर्मवित् ॥ ३२ ॥ क्रीत्वा घृतं तु पुष्पेण सुषुमाणीत्यतः पिबेत ॥ अलक्ष्मीनाशनं कर्म
१ 'शुद्धामुद्धां इसे तच्च' इति क० । २ 'बोध्यङ्गिणिति' इति ख० । ३ 'पाणौ' इति ख० । ४ 'शतपारम्' इति ख० ।
| वि० ध० | द्वि० सं० | |
|---|---|---|
| ॥२७२॥ | अ० १२६ |
मयैतत्प्रकीर्तितम् ॥ ३३ ॥ पुष्येण सर्षपान्गौरांश्चूर्णयित्वा विचक्षणः ॥ इन्द्रे हिमवतस्य धर्मेति कुर्यादुत्सादनं बुधः ॥ ३४ ॥ घृतस्नानं बुधः कृत्वा सर्षपाञ्जुहुयात्ततः ॥ अदेवीर्डोसौविन्द्विति मन्त्रेणानेन मन्त्रितम् ॥ ३५ ॥ प्रदिष्टं कर्म कथितं मयैतत्त्व भार्गव ॥ मिश्रान्व्रीहियवान्बभ्रौ हुत्वा भृगुकुलोद्भव ॥ ३६ ॥ मुनीशो धाम एतेन धान्यभागी भवेत्सदा ॥ मध्वाज्यदधिमिश्राणि विप्रांणाति जुहोति यः ॥ ३७ ॥ साद्यं सहस्रं धर्मज्ञ श्रावयन्तीह मानवाः ॥ मासोपवासी लभते कनकं बहु भार्गव ॥ ३८ ॥ गव्येषुणेति च द्वाभ्यां पस्तु संवत्सरं नरः ॥ न्यग्रोधजपनिष्ट्रीवं भक्षयेद्दन्तधावनम् ॥ ३९ ॥ सहस्रमह्लयं स धनं लभते नात्र संशयः ॥ भद्रो न अद्य इत्येतत्तथा हुत्वा सहस्रशः ॥ ४० ॥ औदुम्बरेध्मोनेन मन्त्रेणानेन गां लभेत् ॥ हुत्वा श्रीरित्यावृक्षस्य धान्यमाप्नोति मानवः ॥ ४१ ॥ एवासिवैद्युतेरिति द्वादशाहमुपोषितः ॥ सर्पिषा त्वमृतं हुत्वा ग्राममाप्नोति मानवः ॥ ४२ ॥ वैरुपांक्षकवित्रियं प्रयुञ्जानः श्रियं लभेत् ॥ श्रान्ताष्टकं प्रयुञ्जानः सर्वान्कामानवाप्नुयात्त ॥ ४३ ॥ गव्येषुणेति यो नित्यं सायं प्रातरतन्द्रितः ॥ उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ॥ ४४ ॥ अग्नं विवस्वदुपसा मन्त्रेणानेन मन्त्रवित् ॥ भाजनस्योपनीतस्य यत्सत्त्वं जुहुयात्सदा ॥ ४५ ॥ उत्तरेण बलिं दत्त्वा सर्वान्कामानवाप्नुयात् ॥ क्षीरवृक्षसमाश्राय मणिभद्राय मानवः ॥ ४६ ॥ अष्टरात्रोषितः पूजां कृत्वा दद्यात्ततो बलिम् ॥ सुसंस्कृतेन मांसेन कृष्णपक्षे षष्ठ्यधुः ॥ ४७ ॥ एपस्यतेति मधुमद्भिन्द्र एतेन भार्गव ॥ सुवर्णमाप्नोति नरो यावदिच्छति शुद्धधीः ॥ ४८ ॥ शुक्लपक्षचतुर्दश्यां त्रिरात्रोपोषितो नरः ॥ मौनं मांसं पायसं च रसत्रयं समन्वितम् ॥ ४९ ॥ सप्तधेनवो दुहुर्मन्त्रेणानेन मन्त्रवित् ॥ कृष्णपक्ष चतुर्दश्यां त्रिरात्रोपोषितस्तथा ॥ ५० ॥ मत्स्यान्पुष्पोदकाश्चावासुरीमाञ्जायाच्छियम ॥ बहुपुत्रीक्ष भवति दीततेजास्तथैव च ॥ ५१ ॥ धनावन्तं करीषिणं मन्त्रेणानेन पायसम् ॥ हुत्वा दिगष्टके द्वाविदक्पालानां ततो बलिम् ॥ ५२ ॥ वास्तुदोषहरं कर्म मयैतत्परिकीर्तितम् ॥ राजा समाचरेत्स्नानं पुष्येण श्रवणेन च ॥ ५३ ॥ आप्मातुव्य इति सदा रहस्यं स्नानमाचरेत् ॥ स्वेच्छापतितजीवन्तीगवां शृङ्गसमुद्भवैः ॥ ५४ ॥ कार्शमीद्व्वाज्यसम्यर्गैर्दधिक्षीरयुतैस्तथा ॥ निःसपत्नमवाप्नोति राज्यं निर्गतकण्टकम् ॥ ५५ ॥ घृताक्तं तु यवक्षोणं वात आवतेर्भेषजम् ॥ अनेन हुत्वा विविधत्सर्वान्दोषानप्यपोहति ॥५६॥ प्राद्देवो दास एतेन कृष्णान्हुत्वा तथा तिलान् ॥ कृत्वा कर्माणि तीर्थादैः स्तेय्यात्किल्विषं विमुच्यते ॥५७॥
॥२७२॥
१ 'इन्द्राग्निधर्मानो' इति ख० ।
२ 'तिलानि च' इति ख० ।
३ 'वैश्यान्मातृनवि' इति ख० ।
४ 'अग्निनावि' इति ख० ।
५ 'रत्नत्रयं' इति ख० ।
६ 'अन्नं द्रव्यम्' इति ख० ।
अभि त्वा पूर्वपीतं ये वषट्कारसमन्वितम् ॥ बाधैकैधम् सहस्रं तु हुतं युद्धे जयप्रदम् ॥ ५८ ॥ हस्त्यश्वरूपाण्युत्कुर्याद् बुधः पिष्टमया- ञ्जुहुयान् ॥ परकीयानथोद्दिश्य प्रधानपुरुषांस्तथा ॥ ५९॥ स्वस्त्यश्नापिष्टपचने सुरेणोत्कृत्य भागशः ॥ अभिभूरसि शूर नो तमो मन्त्रेणानेन मन्त्र- वित् ॥ ६० ॥ कृत्वा सर्षपतैलाक्तान्क्रोधेन जुहुयात्ततः ॥ एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ॥ ६१ ॥ आषाढ्यां पौर्णमास्यां तु सोप- वासो विचक्षणः ॥ सायं धान्यानि वस्त्राणि सस्यानि तोलयेद् बुधः ॥६२ ॥ इध्ममिद्धेवतामन्त्रे मन्त्रेणामन्त्रयेत्तु ताम् ॥ पूजितां वासयेद्रात्रौ देशे परमपूजिते ॥ ६३ ॥ देशानां भूमिपालानां तथा देवचतुष्पदाम् ॥ मृन्मयानां तु कर्तव्यं तथा राज्याधिवासनम् ॥ ६४ ॥ तुलितानां द्वितीयोऽह्नि तत्तद्वृद्धि प्रवर्धने ॥ हीनस्य क्षयमादेश्यं समस्य समता तथा॥६५॥ गोव्रतं तु बुधः कुर्यादादौ मासचतुष्टयम् ॥ ततस्त्वरण्यं प्रविशेत्तत्र कुर्याज्जपं शुभम् ॥६६॥ तपः सहस्रमासाद्य जाहूतेतिदिति वै सदा ॥ सहस्रकृत्वस्तु जपेत्सप्तरात्रये गते॥ ६७॥मनसा कांक्षितान्कामानवाप्नोति मानवः॥ अन्तरिक्षेण वा याति रूपान्यत्वं करोति वा ॥६८॥ अदृश्यत्वमवाप्नोति दैत्यत्वमय वा पुनः ॥ तंतं काममवाप्नोति यंयं वा मनसेच्छति ॥६९॥ सामस्तु देवतां ज्ञात्वा तेन साम्ना तु देवताम् ॥ आराधयेत्सुप्रसन्ना साम्ना स्यात्संशयं विना॥७०॥अमुष्मु पूर्व तु सदा मन्त्रमावर्तयंच्छुचिः ॥ चन्दने- नाङ्गुलितांगो जातिपुष्पधरस्तथा ॥ ७१ ॥ श्वेतोष्णीषः श्वेतवासाः सर्वान्कामानवाप्नुयात् ॥ एवं दुर्द्दुकैंत्येतत्सोपवासस्तु यो जपेत् ॥ ७२ ॥ अक्षतैः सुमनोभिश्च तथा वा गौरसर्षपैः ॥ अवकीर्य शुभं देशं त्वेककी प्रजपेन्निशि ॥ ७३ ॥ वाग्यतस्तु तथा स्वप्ने पश्यतीति शुभाशुभम् ॥ यथावद्भृगुशार्दूल भविष्यद्भूतमेव वा ॥ ७४ ॥ भारुण्डं वामदेव्यं च रथन्तरबृहद्रथौ ॥ सर्वपापप्रशमनाः कथिताः संशयं विना ॥ ७५ ॥ साम्नां विधिरिते कथितो नृवीर संक्षेपतः कर्मकरो मयैषः ॥ आथर्वणं वच्मि निबोध तन्मे चेतः समाधाय महानुभाव ॥ ७६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सामविधिकथनन्नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥ ॥ पुष्कर उवाच ॥ शान्तातितं गणं हुत्वा शान्तिमाप्नोति मानवः ॥ भेषज्यं च गणं हुत्वा सर्वान्रोगान्प्रव्यपोहति ॥ १ ॥ त्रिषस्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥ क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम् ॥ २ ॥ न क्वचिज्जायते राम गणं हुत्वा पराजयः ॥ आयुष्यं च गणं हुत्वा चापमृत्युन्वपोहति॥३॥ एते दशगुणाश्चैव होतव्याः स्युर्यथाक्रमम् ॥ अष्टादशसु धर्मज्ञ दशशान्तिषु भार्गव ॥ ४ ॥ वैष्णवी च तथा चैन्द्री ब्राह्मी रौद्री तथैव च ॥
१ 'तः' इति क० ख० ।
२ 'र्भिदेवताम्' इति ख० ।
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥ ५ ॥
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ॥
मारुणी च गान्धारी शान्तिर्वै रुदती तथा ॥ ६ ॥
शान्तिर्नागिरसी याम्या पार्थिवी च भृगूत्तम ॥
एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ॥ ७ ॥
यस्त्वामृषुरितीत्यूचैर्जप्तं दुःस्वप्ननाशनम् ॥
हुत्वा च मातृनामानि कामानेवामवाप्नुयात् ॥ ८ ॥
सुपर्णोऽस्विति हुत्वा च भुजंगेनैव बाध्यते ॥
यस्येदं भूमिरिति च भूमिकामो जपेत्सदा ॥ ९ ॥
पृथिव्यामुत्तमोसीति हुतं श्रेष्ठप्रदं सदा ॥
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ॥ १० ॥
इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम् ॥
हिरण्यवर्ण इति च स्नानं पापहरं भवेत् ॥ ११ ॥
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम ॥
सारस्वतीति मन्त्रांश्च विषघ्नांस्त्रिविधोद्बुधः ॥ १२ ॥
शरभादीनि सर्वाणि पिशाचशमनानि च ॥
यमस्य लोकादित्येतद्दुःस्वप्ननाशनं परम् ॥ १३ ॥
अभयं इति चाप्येतत्कथितं मन्युनाशनम् ॥
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः ॥ १४ ॥
इन्द्रं वयं वाणिजामिति पण्यलाभकरं परम् ॥
कामो मे राज्ञीति हुतं स्त्रीणां सौभाग्यवर्धनम् ॥ १५ ॥
भद्राय कर्णमित्येतत्कर्णप्रत्यन्दे जपेत् ॥
भद्रासाक्षित्वचे जाता कर्णप्रस्र्न्दने तथा ॥ १६ ॥
तुभ्यमेवाजरिति आयुष्यं तु हुतं भवेत् ॥
आयातु पितमित्येतान्रिमन्त्रल्लव्धिकरं हुतम् ॥ १७ ॥
आसासनामिन्र्द जना मिश्रधान्येन होमयेत् ॥
आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम ॥ १८ ॥
अधिरिशिभिरित्येतद्गवां वृद्धिकरं परम् ॥
द्वादशाहं तु जुहुयात्परकेण विशेषतः ॥ १९ ॥
शान्तो हविरितीत्यूदृहामस्वास्थ्यकरं भवेत् ॥
तस्माह्रामान्दृढा कृत्वा वेदिंसाम्यं समश्नुते ॥ २० ॥
विधाय स्वेति सर्वाणि राष्ट्रस्वीकरणानि तु ॥
त्रिभ्यो भद्रेभू इत्येतद्वास्तोष्पत्यमुदाहृतम् ॥ २१ ॥
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ॥
अच्युतोपस्तथा राग कथितं स्थानलाभदम् ॥ २२ ॥
पयो देवीष्विति हुतं रायस्पोषकरं परम् ॥
पुनक्तु सरीति शुना कृषिलाभकरं भवेत् ॥ २३ ॥
अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत् ॥
शुने वत्सा तथा ह्येतद्गवां वृद्धिकरं हुतम् ॥ २४ ॥
... ...... मेति कथितं सर्वत्र श्रेष्ठ्यकारकम् ॥
यद्भूमे इति चाप्येतद्वन्ध्यान्मोक्षकारकम् ॥ २५ ॥
यो न स्व इति चाप्येतच्छत्रुनाशनकरं परम् ॥
सवनहविरीति तथा नात्र कार्या विचारणा ॥ २६ ॥
(त्वमत्वममितोयेत्यशसो वर्धनं परम् ॥
यथा वृषिमितीत्येतत्स्त्रीणां सौभाग्यवर्धनम् ॥ २७ ॥
आनो अग्न इत्येतच्च कथितं पतिलाभदम् ॥
येन वहति मां चैव गर्भलाभकरं भवेत् ॥ २८ ॥
इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम् ॥
यत्सुपिव्यमानावृतं हुतमेतद्भवोविधि ॥ २९ ॥
कृत्वा तु संशनं ज्ञेय नात्र कार्या विचारणा ॥ ......................................... ॥ ३० ॥)
शिवं शिवाभिरित्येतद्रद्वेच्छ्रेयस्करं परम् ॥
दूत्या दूषणमित्येतत्कृत्वा दूषणमुच्यते ॥ ३१ ॥
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ॥
मनो विवस्त्रं भयहं वापि स्वस्त्ययनं भवेत् ॥ ३२ ॥ अग्नौ अग्निरध्यक्षो भवेदग्निप्रसादतः ॥ संवत्सरं तु शिरसा धारयेद्यो हुताशनम् ॥ ३३ ॥ मन्त्रमेतज्जपेन्नित्यमाश्रयाशासुखः स्थितः ॥ अनाग्निश्चज्वलं कुर्याद्द्वामंसंवत्सरे गते ॥३४॥ हुत्वा दूतिरसीत्येतज्ज.. पञ्चमन्त्रमनुत्तमम् ॥ कुर्यात्यादि- सराविन्द्यं सर्वदोषनिबर्हणम्॥३५॥प्राणसूक्तेश्च कथितं तथा प्राणविवर्धनम् ॥ सुआप्ति त्विति कथितमपमृत्युकविमोक्षणम् ॥३६॥ अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ॥ परमं पावनं तद्धि सर्वकल्मषनाशनम्॥३७॥ एवमेते शुभा मन्त्राः प्रतिवेदं मया तव ॥ समासात्कथिता राम समुद्धृत्य प्रधा- नतः ॥ ३८ ॥ एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः ॥ कथिता भृगुशार्दूल पुराणेः सुमहानिभिः ॥ ३९ ॥ न ते शक्या महाभाग वक्तुं वर्षशतैरपि ॥ प्राधान्येन तु मन्त्राणां किंचित्कर्म तवेरितम् ॥ ४० ॥ होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव ॥ हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ॥ ४१ ॥ वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ॥ आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥ ४२ ॥ अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव ॥ दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च ॥ ४३ ॥ शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव ॥ तैलेन्धनानि धर्माङ्ग राजिकां रुधिरं विषम् ॥ ४४ ॥ समिधः कण्टकोपेता अभिचारेषु योजयेत् ॥ आर्षं वै दैवतं छन्दस्तत्त्वविज्ञाय भृगुत्तम ॥ ॥ ४५ ॥ मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ॥ छन्दसि ब्राह्मणे सूक्ते यद्व्यक्तं प्रदृश्यते ॥ ४६ ॥ विप्रैस्तु सह निश्चित्य तद्यज्ञमवतारयेत् ॥ सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः ॥ ४७ ॥ शाखां प्रति तथा तत्र तस्य माणमिति स्थितिः ॥ यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते ॥ ४८ ॥ अप्रमाणमपि कृत्वा सोऽप्यधर्मेण युज्यते ॥ तस्मात्सर्वप्रय- त्नेन स्वसूत्रं न विलंघयेत् ॥ ४९ ॥ प्राप्तन्तूत्तरतन्त्रे तु स्वशाखाप्राप्तयथा द्विज ॥ सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ॥ ५० ॥ अथर्वणोऽस्य कथितो विधिस्ते संक्षेपतो भार्गववंशमुख्य ॥ अतः परं किं कथयामि तुभ्यं तन्ये वड्वावायतलोहिताक्ष ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनननाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥ राम उवाच ॥ एकं मन्त्रं समाचक्ष्व देव लक्ष्मीविवर्धनम् ॥ प्रतिवेदं जगन्नाथ याद्येणगणपत्वात्मज ॥ १ ॥ पुष्कर उवाच ॥ श्रीसूक्तं प्रतिवेद्दञ्च ज्ञेयं लक्ष्मीविवर्धनम् ॥ अस्मिँल्लोके परे वापि यथाकामं द्विजस्य तु॥२॥राम उवाच ॥ प्रतिवेदं समाचक्ष्व श्रीसूक्तं पुष्टिवर्धनम् ॥ श्रीसूक्तस्य तथा कर्म सर्वधर्मभृतां वर॥ ॥३॥ पुष्कर उवाच ॥ हिरण्यवर्णां हरिणीमृचः पञ्चदश द्विज ॥ श्रीसूक्तं कथितं पुण्यमृग्वेदे पुष्टिवर्धनम् ॥४॥रथे अक्षेषु वाजेति चतस्रस्तु तथा
ऋचः ॥ श्रीसूक्तं तु यजुर्वेदे कथितं पृथिवचनम् ॥ ५ ॥ आप्यन्तीयं तथा मासं सामवेदे प्रकीर्तितम् ॥ श्रियं दातुमयि देहि प्रोक्तमथर्वणे तथा ॥ ६ ॥
श्रीसूक्तं योजयेद्गत्या तस्याल्लक्ष्मीर्निविश्यति ॥ जुहुयाच्च धर्मज्ञ हविष्येण विशेषतः ॥ ७ ॥ श्रीसूक्तेन तु पद्मानांकृतान्नानं भुङ्क्तम् ॥ अयुतं होमये-
द्यस्तु वह्नौ भक्तियुतो नरः ॥ ८ ॥ पद्महस्तद्वया लक्ष्मीस्तं नरं तूपतिष्ठति ॥ दशायुतं तु पद्मानांकुर्याद्यस्तथा जले ॥ ९ ॥ नापैति तत्कुलाल्लक्ष्मी-
र्विष्णोर्वक्षोगता यथा ॥ घृताक्तानान्तु बिल्वानां कृत्वा रामायुतं तथा ॥ १० ॥ बहुवित्तमवाप्नोति स यावन्मनसेच्छति ॥ बिल्वानां लक्षहोमेन
कुले लक्ष्मीरुपाऽश्नुते ॥ ११ ॥ पद्मानामथ बिल्वानां कोटिहोमं समाचरेत् ॥ श्रद्दधानः समाप्नोति देवेन्द्रत्वमपि ध्रुवम् ॥ १२ ॥ संपूज्य देवीं वरदां
यथावद्वस्त्रैः सितैर्वा कुसुमैस्तथान्यैः ॥ क्षीरेण धूपैः परमान्नभक्ष्यैर्लक्ष्मीमवाप्नोति विधानतश्च ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने श्रीसूक्तमाहात्म्यकथनन्नामद्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १२८ ॥ राम उवाच ॥ एकं मन्त्रं
समाचक्ष्व सर्वकर्मकरं शिवम् ॥ ऐहिकं सर्वधर्मिष्ठं पारलौकिकमेव च ॥ १ ॥ पुष्कर उवाच ॥ प्रतिवेदं महाभाग यत्सूक्तं पौरुषं स्मृतम् ॥ सर्वकर्म-
करं ज्ञेयं पवित्रं मधुसूदनम् ॥ २ ॥ एकैकया ऋचा राम स्नातो दत्त्वा जलाञ्जलीः ॥ पौरुषेण च सूक्तेन मुच्यते सर्वकिल्बिषैः ॥ ३ ॥ अन्तर्जलगती
जप्त्वा तथा सूक्तं तु पौरुषम् ॥ सर्वकल्मषनिर्मुक्तो यथेष्टं लभते गतिम् ॥ ४ ॥ एकैकया ऋचा स्नातः पुष्पं पुष्पं निवेदयेत् ॥ पुरुषाय जले राम
सर्वपापैर्विमुच्यते ॥ ५ ॥ एकैकया ऋचा स्नातो दत्त्वा राम फलैःफलम् ॥ सर्वान्कामानवाप्नोति यान्कांश्चिन्मनसेच्छति ॥ ६ ॥ पौरुषेण च
सूक्तेन प्राणायामो महाफलः ॥ जपोहोमो तथा राम सर्वकल्मषनाशनौ ॥ ७ ॥ सुरापो ब्रह्महा स्तेनस्तथैव गुरुतल्पगः ॥ पापेभ्यो विप्रमुच्येत जप्त्वा
सूक्तं तु पौरुषम् ॥ ८ ॥ कृच्छ्रैर्वैशोधितः पूर्वं मध्याह्ने सलिलाशयः ॥ स्नात्वा तु पौरुषं सूक्तं जपेत्त्रितयमतन्द्रितः ॥ ९ ॥ संवत्सरेण देवेशं वासु-
देवं प्रपश्यति ॥ स्वयमेव महाभाग शाकमूलफलाशनः ॥ १० ॥ तस्मात्काममवाप्नोति यद्राम मनसेच्छति ॥ श्रियमग्र्यां तथा रूपं जीवितं दीर्घ-
मेव च ॥ ११ ॥ अणिमां लघिमां प्राप्तिं महिमां च भृगूत्तम ॥ ईशित्वञ्च वशित्वञ्च प्राकाम्यञ्च भृगूत्तम ॥ १२ ॥^१ यत्र कामवसायित्वं तस्मात्प्राप्नोति
मानद ॥ दुर्वापमप्यन्यद्या यत्किञ्चिन्मनसेच्छति ॥ १३ ॥ अकामः पौरुषं सूक्तं जप्त्वा नित्यमतन्द्रितः ॥ तत्र याति महाभाग यद्विष्णोः परमं
पदम् ॥ १४ ॥ मांगल्यमेतत्परमं पवित्रं संसारदुःखौघविनाशकारि ॥ सुखप्रदं धर्मविधं नराणां मनोरमावाप्तिकरं प्रदिष्टम् ॥ १५ ॥ इति श्रीविष्णु-
^१ अणिमामित्यादिष्वबन्तताऽऽर्षत्वात् ।
धर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषसूक्तमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥ राम उवाच ॥ पुरा धर्माणि प्रोक्तानि ब्रह्मचारिगृहस्थयोः ॥ कर्माप्युक्तानि च ब्रूहि शिष्टमप्याश्रमद्वयम् ॥ १ ॥ (गृहस्थवन्माश्रित्य काम्यानि सुसत्सम ॥ कर्माणि तानि मे ब्रूहि शिष्टान्यप्याश्रमद्वये ॥ २ ॥ पुष्कर उवाच ॥ सुखं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ॥ वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ ३ ॥ गृहस्थस्तु यदा पश्येद्दलीपलितमात्मनः ॥ अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ४ ॥ संत्यज्य ग्राम्यमाहारं सर्व्वैश्व परिच्छदम् ॥ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ५ ॥ अग्निहोत्रं समादाय गृह्यं चाग्निं परिच्छदम् ॥ ग्रामादरण्यं निःसृत्य निवसेद्विजितेन्द्रियः ॥ ६ ॥ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ सर्वानेव महायज्ञानिर्व्वपेद्विधिवत्क्रमात् ॥ ७ ॥ वसीत चर्म चीरं वा सायं स्नायात्तृणे तथा ॥ जटाश्च विभृयान्नित्यं श्मश्रुलोमनखांस्तथा ॥ ८ ॥ यद्यच्च स्यात्ततो दद्याद्बलिं भिक्षांश्च शक्तितः ॥ समूलफलभिक्षाभिर्चय्येदाश्रमागतान् ॥ ९ ॥ स्वाध्यायनित्युक्तः स्याद्दान्तो मैत्रः समाहितः ॥ दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ १० ॥ वैतानिकञ्च जुहुयादग्निहोत्रं यथाविधि ॥ दर्शमन्वेस्कन्दन्यवं पौर्णमासीञ्च योगतः ॥ ११ ॥ ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यान्यथापि चाहरेत् ॥ उत्तरायणञ्च क्रमशो दक्षिणायनमेव च ॥ १२ ॥ वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः सुसमाहृतैः ॥ पुरोडाशांश्चरुंश्चैव विधिवन्निर्वपेत्पृथक् ॥ १३ ॥ देवताभ्यस्तु तद्धुत्वा वन्यं मध्यतरं हविः ॥ शेषमात्मनि युञ्जीत लवणञ्च स्वयं कृतम्॥ १४॥ स्थलजोदकशाकानि पुष्पमूलफलानि च ॥ मध्वृक्षोद्भवन्वान्यात्स्नेहा॑श्च फलसंयुतान् ॥ १५ ॥ वर्जयेन्मधुमांसानि भौमानि कवकानि च ॥ भूस्तृणं शिग्रुकञ्चैव भडातकफलानि च ॥ १६॥ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ॥ जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥ १७ ॥ न फाल्कृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ न ग्रामजातमन्रञ्च पुष्पाणि च फलानि च ॥ १८ ॥ अप्प्रविष्कारणो वा स्यात्कालपक्वभुगेव वा ॥ अश्मविद्धो भवेद्वापि दन्तोलूखलिकस्तथा ॥ १९ ॥ सद्यः प्रक्षालिको वा स्यान्माससञ्चयिकोऽपि वा ॥ षण्मासनिनचयो वा स्यात्सम्प्राप्तनिचय एव वा॥२०॥ नक्तं वाऽनं समश्नीयाद्दिवा चाहृत्य शक्तितः॥ चतुर्थकालिको वा स्यात्स्याद्वा चाष्टमकालिकः ॥ २१ ॥ चान्द्रायणविधानैर्व्वा शुक्ले कृष्णे च वर्त्तयेत् ॥ पक्षान्तयोर्वाप्यश्नीयाद्यवागूं कथितां सकृत् ॥ २२ ॥ पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत्सदा ॥ कालपक्वः स्वयं शीर्णैर्वनवानपि स्थितिः ॥ २३ ॥ भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदेन्दिनम् ॥ स्थानासनाभ्यां विहरेत्सवनेषुपयन्नपः ॥ २४ ॥ ग्रीष्मे पञ्चतपास्तु स्याद्वर्षासु भावकाशकः ॥ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २५ ॥
१ 'स्नात्सारणमवेत्' इति पुस्तकान्तरे पाठः।
वि० ध० ॥२७६॥ द्वि० सं० अ० १३१ ॥२७५॥
उपस्पृशिंस्त्रिपवणं पितृन्देवांश्च तर्पयेत् ॥ तपश्चांश्चोग्रतरं शोषयेद्देहमात्मनः ॥ २६ ॥ अग्नीनात्मनि वैतानन्समारोप्य यथाविधि ॥
अनग्निरनिकेतश्च मुनिर्मूलफलाशनः ॥ २७ ॥ अप्रयत्नः सुखायैषु ब्रह्मचारी धराशयः ॥ शरणेषु समश्चैव वृक्षमूलनिकेतनः ॥ २८ ॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेध्येषु चान्येषु द्विजेषु वनवासिषु ॥ २९ ॥ ग्रामादाहृत्य नाश्नीयादष्टौ ग्रासान्वने वसन् ॥
विविधाश्चौपनिषदो ह्यात्मसंसुद्धये श्रुतीः ॥ ३० ॥ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ॥ विद्यातपोभिवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ३१ ॥
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः ॥ आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनम् ॥ ३२ ॥ त्यक्त्वा तनुं सम्यगथोदितस्य
विधेरेकस्य वने निवासी ॥ प्राप्नोति लोकं स पितामहस्य त्यक्ता भयं नात्र विचारमस्ति ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वानप्रस्थाश्रमकथनन्नाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ छ ॥
पुष्कर उवाच ॥ वनेषु च विहृत्यैवं तृतीयं भागमायुषः ॥ चतुर्थमायुषो भागं त्यक्तसङ्गः परिव्रजेत् ॥ १ ॥ आश्रमादाश्रमं गत्वा हुतहोमो जि-
तेन्द्रियः ॥ भिक्षावलपरिश्रान्तः प्रव्रजद्गतवार्जितः ॥ २ ॥ ऋणामि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ अनपाकृत्य च ऋणं मोक्षमिच्छु-
र्व्रजत्यधः ॥ ३ ॥ अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ॥ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ४ ॥ अनधीत्य द्विजो वेदान्
उत्पाद्य तथा सुतान् ॥ अनिष्द्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥ ५ ॥ प्राजापत्यां निरूप्येष्टिं सर्ववेदां सदक्षिणाम् ॥ आत्मन्यग्नीन्समारोप्य
प्रव्रजत्युभयं गृही ॥ ६ ॥ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ यस्मादणुर्वापि भूतानां द्विज नोत्पद्यते भयम् ॥ तस्य देहाद्विमुक्तस्य
भयं नास्ति कथञ्चन ॥ ७ ॥ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ॥ समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ८ ॥ एक एव चरे-
न्नित्यं सिद्ध्यर्थमसहायवान् ॥ सिद्धिमेकस्य तां पश्यन्न जहाति न हीयते ॥ ९ ॥ अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥ १० ॥
उपेक्षकोऽसञ्चयको मुनिर्भावसमाहितः ॥ कपालं वृक्षमूलानि कुचेलमसहायता ॥ ममता नैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ११ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ कालमेव प्रतीक्षेत निर्देशंभृतको यथा ॥ १२ ॥ (दृष्टिपूर्तं न्यसेत्पादं वस्त्रपूतं जलं पिवेत ॥ सत्य-
पूतां वदेद्वाचं मनःपूतं समाचरेत् ॥१३॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ॥ १४ ॥) न चैनं गृहाश्रित्य वैरं कुर्वीत केनचित् ॥
क्रुद्ध्यन्तं न प्रतिक्रुद्ध्येदाकृष्टः कुशलं वदेत् ॥ १५ ॥ सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत् ॥ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ॥ १६ ॥
आत्मनैव सहायेन चरेद्धर्ममतन्द्रितः ॥ १७ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ १८॥ न तापसैर्ब्राह्मणैर्वा वयोभिरथवायसैः ॥ आकीर्णं भिक्षुकैर्वाऽन्यैरागारमुपसंव्रजेत् ॥१९॥ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ॥ विचरन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ २०॥ अतेजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ॥ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ २१ ॥ अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा ॥ एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः ॥ २२ ॥ सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च ॥ भिक्षां दद्यान्न धर्मज्ञ गृहीत्वा नरकं व्रजेत् ॥ २३ ॥ एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे ॥ भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते ॥ २४॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २५ ॥ अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत् ॥ प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ अभिपूजितलाभांस्तु यतिर्मुक्तोऽपि बध्यते ॥ २६ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ॥ ह्रियमाणानि विषयेन्द्रियाणि निवर्तयेत् ॥ २७ ॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ॥ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ २८ ॥ अवेक्षेत गतिं नृणां कर्मदोषसमुद्भवाम् ॥ निरये चैव पतनं यातनाश्चैव याम्यिकाः ॥ २९ ॥ देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम् ॥ योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः [^1] ॥ ३० ॥ अधर्मप्रभवं चैव दुःखसंयोगं शरीरिणाम् ॥ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ३१ ॥ सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः ॥ देहेषु चैव पतितानुत्तमेष्वधमेषु च ॥ ३२॥ दूषितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः ॥ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ३३ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ॥ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ३४ ॥ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ॥ शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत् ॥ ३५॥ अह्नोरात्र्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः ॥ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ ३६ ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ॥ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ३७ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ॥ तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ३८ ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ३९ ॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ॥ ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरा