याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
प्रायश्चित्ताध्यायः ३८५
अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तमाह-
अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा ।
१निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ ॥
यः पुनर्मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन
वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा
पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसिष्ठेन 'मासमठभ-
क्षणमुक्तमेतेनैवाभिशस्तो व्याख्यातः' (२४।३७) इति,-तदभिशस्तस्यैव किंचित्का-
लमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् ; 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः'
इति दण्डातिरेकदर्शनात् । यत्तु पैठीनशिनोक्तम्-'अनृतेनाभिशस्यमानः कृच्छ्रं
चरेन्मासं पातकेषु महापातकेषु द्विमासम्' इति,-तदपि वासिष्ठेन समान-
विषयम् । यत्तु बौधायनेनोक्तम्-'पातकाभिशंसिने कृच्छ्रस्तदर्थमभिशस्तस्य'
( २।१।६०।१ ) इति,-तदुपपातकादिविषयं अशक्तविषयं वा । एवमन्येषाम-
ष्टृष्टवाचवप्रायश्चित्तानामभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था
विज्ञेया । यथाह मनुः (११।२००)-'षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥' इति । अपाङ्क्तानां मध्ये
अभिशस्तादयः पठिताः । यद्यप्यत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि
मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनमिदं प्रायश्चित्तं
कृमिदष्टनामिवेति न विरोधः ॥ २८६ ॥
भाषा-जिस पर झूठा दोषारोपण किया गया हो वह कृच्छ्र व्रत करे
अथवा अग्नि देवता का पुरोडाश से यज्ञ करे अथवा वायु के लिये पुरोडाश से
यज्ञ करे अथवा वायु के लिये पुरोडाश से या एक पशु से यज्ञ करे ॥ २८६ ॥
अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् ।
किंच, यस्तु नियोगं विना भ्रातुर्ज्येष्ठस्य कनिष्ठस्य वा भार्यां गच्छति
स चान्द्रायणं चरेत् ।-एतच्च सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवच-
नम्-'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्या-
मनियुक्तो गच्छंस्तदेव कनिष्ठभार्यां च' इति,-तत्कामकारविषयम् ॥-
भाषा-बिना नियोग के (श्रेष्ठ जनों की आज्ञा के बिना ही) जेठे वा
छोटे भाई की पत्नी से भोग करने वाला चान्द्रायण व्रत करे ।
किंचाह-
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ २८७ ॥
यः पुनरुदक्यां रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोण्यान्ते घृतं
१. निर्वपेत्त पुरोडाशं वायव्यं पशुमेव वा ।
५८६ याज्ञवल्क्यस्मृतिः
प्राश्य विशुध्यति । - इदमकामतः सकृद्गमनविषयम् । तत्रैवाभ्यासे 'रजस्वला-
गमने सप्तरात्रम्' इति ज्ञार कं द्रष्टव्यम् । कामतः सकृद्गमनेऽप्येतदेव ।
यत्तु बृहत्संवर्तेनोक्तम्- 'रजस्वलां तु यो गच्छेदूर्म्मिणीं पतितां तथा । तस्य
पापविशुद्ध्यर्थमतिकृच्छ्रं विशोधनम् ॥' इति, - तत्कामतोज्भ्यासविषयम् ।
यत्पुनः शङ्खेन त्रैवाषिंकमुक्तम् - 'पादस्तु शूद्रहत्यायामुदक्यागमने तथा' इति,
तत्कामतोज्प्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रजस्वलादिस्पर्शे प्राय-
श्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथा च वृद्धवसिष्ठः- 'स्पृष्टे रजस्वलेऽन्योन्यं संवर्णे
त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्नानेन शुध्यतः ॥' इति । असपत्न्योस्तु
सवर्णयोरकामतः स्नानमात्रम् - 'उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ।
तस्मिन्नेवाहनि स्नात्वा शुद्धिमाप्नोत्यसंशयम् ॥' इति मार्कण्डेयस्मरणात् ॥ यत्तु
कश्यपवचनम् - 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निरा-
हारा पञ्चगव्येन शुध्यति ॥' इति, - तत्कामकारविषयम् । असवर्णस्पर्शे तु बृह-
द्वसिष्ठेन विशेषो दर्शितः- 'स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजापि च ।
कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥' दानेनेति पादकृच्छ्रप्रत्याम्नायभूत-
निष्कचतुर्थांशदानेन शुध्यतीति । 'स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजापि
च । पादहीनं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी
क्षत्रिया तथा । कृच्छ्रार्धं शुध्यते पूर्वा तूतरा च तदर्धतः ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं
क्षत्रिया शूद्रजापि च । उपवासैस्त्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा
रजस्वलाऽन्यान्यं क्षत्रिया वैश्यजापि च । त्रिरात्राच्छुध्यते पूर्वा त्वहोरात्रेण
चोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं वैश्या शूद्रा तथैव च । त्रिरात्राच्छुध्यते
पूर्वा तूतरा च दिनद्वयात् ॥ वर्णानां कामतः स्पर्शे शुद्धिरेशः पुरातनी ॥' इति ॥
अकामतस्तु बृहद्विष्णूक्तं स्नानमात्रम् - "रजस्वलां हीनवर्गां रजस्वला स्पृष्ट्वा
न तावदशनीयाद्यावन्न शुद्धा स्यात् । सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा
विशुध्यति' इति ॥ चण्डालादिस्पर्शे तु वृद्धवसिष्ठेन विशेष उक्तः - 'पतितान्य-
श्चपाकेन संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रं स्याद् द्वितीये द्वयहमेव तु । अहोरात्रं तृतीयेऽह्नि परतो
नक्तमाचरेत् ॥ शूद्रयोनिछृष्ट्या स्पृष्टा शुना चेद् द्वयहमाचरेत् ॥' इति ।
तान्यहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । - एतत्कामतः स्पर्शविषयम् ।
अकामतस्तु - 'रजस्वला तु संस्पृष्टा चाण्डालात्यश्ववायसैः । तावत्तिष्ठेन्निराहारा
यावत्कालेन शुध्यति ॥' इति बौधायनेनोक्तं द्रष्टव्यम् ॥ यत्पुनस्तेनैवोक्तम्-
'रजस्वला तु संस्पृष्टा ग्रामकुक्कुटसूकरैः । श्वभिः स्नात्वा त्रिषेतावद्यावत्पञ्चगव्यस्य
दर्शनम् ॥' इति, - तदज्ञानविषयम् ॥ यदा तु मुखालालाः श्वादिस्पर्शो भवति तदा
१. सगोत्रे । २. कामतोऽकामत वापि । ३. प्रांपरा ।
प्रायश्चित्ताध्यायः ५८७
स्मृत्यन्तरे विशेष उक्तः—'रजस्वला तु भुञ्जाना श्वानश्वचाण्डालैन्स्पृशेद्यदि । गोमूत्र-
यावकाहारा षडरात्रेण विशुध्यति ॥ अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वापि
भोजनम् ॥' इति ॥ यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा—'उच्छिष्टो-
च्छिष्टया स्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेरु-
पोषिता ॥' इत्यत्रिनोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टान्द्विजान्रजस्वला स्पृशति,
तदा 'द्विजान्र्कथंचिदुच्छिष्टान्रजःस्था यदि संस्पृशेत् । अधोच्छिष्टे त्वहोरात्र-
मूर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥' इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवमवकीर्णिप्राय-
श्चित्तप्रसङ्गात्कानिचिदुपपातकप्रायश्चित्तान्यपि व्याख्याय प्रकृतमनुसरामः ।
तत्रावकीर्णिनन्तरं 'सुतानां चैव विक्रयः' (प्रा० २६६) इत्युक्तं, तत्र मनुयो-
गीश्वरोक्तानि १त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद् व्यवस्थो-
पनीयानि ॥ यत्तु शङ्खवचनम्—'देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्य-
सेतुसुतविक्रयं कृत्वा तप्त... चरेत्' इति, यच्च पराशरेणोक्तम्—'विक्रीय
कन्यकां गां च कृच्छ्रं सान्तपनं चरेत्' इति,—तदुभयमप्यापद्यकामतॊ द्रष्टव्यम् ॥
कामतस्तु—'नाराणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् । द्विगुणं पुरुषस्यैव
व्रतमाहुर्मनीषिणः ॥' इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् ॥ यत्तु पैठीनशिनोक्तम्—
'आरामतडागोदपानपुष्करिणीसुकृतसुतादि-क्षये त्रिषवणस्नाय्यधःशायी चतुर्थ-
कालाहारः संवत्सरेण पूतो भवति' इति,—तदेकपुत्रविषयम् । तदनन्तरं 'धान्य-
कुप्यपशुस्तेयम्' (प्रा० २३७) इत्युक्तं,—तत्प्रायश्चित्तानि च स्तेयप्रकरणे
प्रपञ्चितानि ॥ २८७ ॥
भाषा—(अपनी पत्नी के भी) रजस्वला होने पर संभोग करे तो
तीन दिन उपवास करके और घृत खाकर शुद्ध होवे ॥ २८७ ॥
अनन्तरं 'अयाज्यानां च याजनम्' (प्रा० २३७) इत्युक्तं, तत्र प्रायश्चित्तमाह—
त्रीन्कृच्छ्रानाचरेद् व्रात्ययाजकोऽभिचरन्नपि ।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ २८८ ॥
यस्तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस्त्रीन्कृच्छ्राना-
चरेत्, एतेषां च गुरुघुभूतानां कृच्छ्राणां निमित्तगुरुघुभावेन कल्पनीयम् ॥
तथा अभिचरन्नपीदमेव प्रायश्चित्तं कुर्यात् । एतच्चाभिघाताततायिव्यतिरेकेण
'षट्स्वभिचरन् पतति' इति वसिष्ठस्मरणात् ॥ 'अपि'शब्दो हीनयाजकान्त्येष्टि-
याजकयोः संग्रहार्थः । अत एवोक्तं मनुना (११।१९७)—'व्रात्यानां याजनं
१. दीणि कामखाति ।
कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैरपोहति ॥' इति ।
'परेषामन्त्यकर्म' इत्यत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा; प्रायश्चित्तस्य गुरु-
त्वात् । अहीनो द्विरात्रादिर्द्वादशाहपर्यन्तोऽहर्गणयागः । यत्तु शातातपेनो-
क्तम्—'पतितसावित्रीकाञ्छोपनयेन्नाध्यापयेन्न याजयेत् य एतानुपनयेदध्यापयेद्या-
जयेद्वा स उद्दालकव्रतं चरेत्' इति,–तत्कामकारविषयम् । उद्दालकव्रतं च प्राग्द-
र्शितम् । एतच्च कृच्छ्रत्रयं साधारणोपपातकप्रायश्चित्तस्यापवादकम्, अत उप-
पातकसाधारणप्रायश्चित्तं शूद्रयाज्याय्याजने व्यवतिष्ठते । तत्र कामतस्त्रैमासिकम् ।
अकामतस्तु योगीश्वरोक्तं मासत्रतादि । यत्तु प्रचेतसा शूद्रयाजकादीन्पठित्वोक्तम्–
‘एते पञ्चतपोऽभ्रावकाशजलशयानन्यनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं
गोमूत्रयावक्रमक्षयेयुः' इति,–तत्कामतौऽभ्यासविषयम् । यत्तु यमेनोक्तम्—'पुरोधाः
शूद्रवर्णस्य ब्राह्मणो यः प्रवर्तते । स्नेहादर्थप्रसङ्गाद्वा तस्य कृच्छ्रो विशोधनम् ॥'
इति,–तदशक्तविषयम् । यच्च पैठीनसिनोक्तम्—'शूद्रयाजकः सर्वद्रव्यपरित्यागा-
त्पूतो भवति प्राणायामसहस्रेषु दशकृत्त्वोऽभ्यस्तेषु' इति,–तदप्यकामतौऽभ्यासविष-
यम् । यत्तु गौतमेनोक्तम्—'निषिद्धमन्त्रप्रयोगे सहस्रवागुपतिष्ठेत्' ( २२।२३ )
इति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशोऽभ्यस्ते प्राकृतं
ब्रह्मचर्यमुपदिष्टं,–तत्कामतौऽभ्यासविषयम् । यः स्वेवेदं विप्तावयति यश्च, रक्षग-
ण्डोऽपि तस्करव्यतिरिक्तं शरणगतमुपेक्षते, सोऽपि संवत्सरं यवोदनं भुञ्जानः
शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रोत्रावकाशाद्यनध्यायेष्वध्ययनम् । उत्कर्ष-
हेतोरधीयानस्य किं पठसि ना शितं त्वयेत्येवं पर्ययोगदानं वा विप्लावनमुच्यते । अत
एवोक्तं स्मृत्यन्तरे—'दत्तानुयोगानध्येतुः पतितान्मनुरब्रवीत्' इति । यत्तु वसिष्ठेनो-
क्तम्—'पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्र-
परमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते' ( २३।३४-३५ ) इति,
'एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच्च पूता भवन्तीति
विज्ञायते' ( २३।३६ ) इति,—तद्बुद्धिपूर्वविषयम् । यत्तु षट्त्रिंशन्मतेऽभि-
हितम्—'चाण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभोजनम्' इति,–तद-
बुद्धिपूर्वविषयम् ॥ यदा सर्पाद्यन्तरागमनमात्रं भवति न पुनस्तत्राधीते तदापि
प्रायश्चित्तं यमेनोक्तम्—'सर्पस्य नकुलस्याथ अजमार्जारयोस्तथा ॥ मूषकस्य
तथोष्ट्रस्य मण्डूकस्य च योषितः ॥ पुरुषस्यैडकस्यापि शूनोऽश्वस्य खरस्य च ।
अन्तरागमने सद्यः प्रायश्चित्तमिदं शृणु ॥ त्रिरात्रमुपवासश्च त्रिरह्नाञ्चाभिषेचनम् ।
ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥' इति ॥ पितृमातृसुतत्यागत-
डागारामविक्रयेषु मनुयोगीश्वरोक्तोपपातकसाधारणप्रायश्चित्तानि पूर्ववज्जाति-
१. नाध्यापयेच्च एता । २. यस्तु वेदं ।
शक्तिगुणापेक्षया योज्यानि । तत्र पितृमात्रादिष्वित्यागस्य 'अकारणे परित्यक्ता
मातापित्रोगुरुस्तथा' इत्यपाङ्क्तमध्यपाठान्तन्निमित्तमपि प्रायश्चित्तं भवति ।
यथाह मनुः ( ११।२०० )—'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च
शाकला नित्यमपाङ्क्तानां विशोधनम् ॥' इति । अपाङ्क्ताश्च श्राद्धकाण्डे 'ये
स्तेनपतितक्लीबाः' इत्यादिवाक्यैर्दर्शिताः । तडागारामविक्रयेषु च कतिचिद्वि-
शेषप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि ॥
अनन्तरं 'कन्याया दूषणम्' इत्युक्तं, तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि
वर्णानां सवर्णविषये योज्यानि । आनुलोम्ये पुनर्मासिकपयोशनं प्राजापत्यं वा-
'सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः' ( व्य० २८८ ) इति दण्डाल्पत्व-
दर्शनात् ॥ यत्तु शङ्खेनोक्तम्—'कन्यादूषी सोमविक्रयी च कृच्छ्रमब्दं व्रतं
चरेयाताम्' इति, यच्च हारीतवचनम्—'कन्यादूषी सोमविक्रयी वृषलीपतिः
कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरुः प्रतिहन्ता नास्तिको नास्तिक-
वृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी पतितसंव्यवहारी
मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोऽवकाशाजलशयनान्य-
बुत्तिष्ठेयुर्ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकमश्नीयुः इति, —तदुभयमपि
क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूद्रस्य तु वध एव । 'दूषणे तु
करच्छेद उत्तमायां वधस्तथा' ( व्य० २८८ ) इति वधदर्शनात् । परिविन्दैकस्य
याजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे आत्मार्थपाकक्रियारम्भे
मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्व्यवस्थापनीयम् । आद्य-
योस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शि-
तानि । अनन्तरं 'स्वाध्यायाग्निसुतत्यागः' ( प्रा० २३९ ) इत्युक्तं, तत्र
ऽवसनाद्यशक्त्या त्यागे अधीतस्य च नाशनमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् ।
शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासिकाद्युपपातकप्रायश्चित्तानि जाँतिशक्त्य-
पेक्षया योज्याँनि । यत्तु वसिष्ठेनोक्तम्—'ब्रह्मोञ्झः कृच्छ्रं द्वादशरात्रं चरित्वा-
पुनरुपयुञ्जीत वेदमाचार्यात्' इति, –तदत्यन्ताल्पविषयम् । अग्निस्त्यागेऽपि तेनैव
विशेषो दर्शितः—'योऽग्नीनपविध्येत्स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं
कारयेत्' इति । 'द्वादशरात्र' ग्रहणमुत्सन्नकालापेक्षया प्राजापत्यादिगुरुलघु-
कृच्छ्राणां प्राथ्यर्थम् । तत्र मासद्वये प्राजापत्यं, मासचतुष्टयेऽतिकृच्छ्रः, षण्मा-
सोद्विगुन्ते पराकः, षण्मासाद्धूर्ध्वं योगीश्वरोक्तान्युपपातकसामान्यप्रायश्चित्तानि
कात्यापेक्षया योज्यानि । संवत्सरादूर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकमिति
१. आद्यप्रकरणे । २. कृच्छ्रमब्दे । ३. कूटव्यवहारी मित्रध्रुक् ।
४. परिविन्दुकयाजन । ५. शक्तिगुणापेक्षया । ६. व्यवस्थापनीयानि ।
५६० याज्ञवल्क्यस्मृतिः
व्यवस्था ।—एतच्च नास्तिक्येन त्यागविषयम् । तथा च व्याघ्रः—'नोऽग्निं
त्यजति नास्तिक्यात्प्राजापत्यं चरेद् द्विजः' इति । यदा तु प्रमादात्त्यजति
तदा आरङ्गाजगृहो विशेष उक्तः—'प्राणायामशतमात्रिरात्रामुपवासः स्यादां-
विंशतिरात्रात् अत ऊर्ध्वमषष्टिरात्रान्तित्स्रो रात्रीरुपवसेदत ऊर्ध्वमासंवत्स-
रात् प्राजापत्यं चरेत् , अत ऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्' इति । यदा स्वाल-
स्यादिना त्यजति तदापि तेनैव विशेष उक्तः—'द्वादशाहातिक्रमे त्र्यहमुपवासः,
मासातिक्रमे द्वादशाहमुपवासः, संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा'
इति । संवत्सादूर्ध्वं तु वृद्धहारीतेन विशेष उक्तः—'संवत्सरोत्सन्नेऽग्निहोत्रे
चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् ।'
त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रमभ्यस्य पुनरादध्यात्' इति । सोमायनं च कृच्छ्र-
काण्डे वक्ष्यते । शङ्खनापि विशेष उक्तः—'अग्न्युत्सादी संवत्सरं प्राजापत्यं
चरेद्गां च दद्यात्' इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः ।
अकामतस्तु बोगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् । द्रुमच्छेदे
प्रायश्चित्तं प्रागुक्तम् । स्त्रीप्राणिवधवशीकरणादिभिर्जीवने तिलेक्षुयन्त्रप्रवर्तने
च तान्येव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्येव
व्रतानि तथैव योज्यानि । यत्तु बौधायनेन—'अथाशुचिकराणि द्यूतमभिचा-
रोऽनाहिताग्नेरूहड्वृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास
ऊर्ध्वं चतुर्भ्यो मासेभ्यो यश्च तमध्यापयति नक्षत्रनिर्देशनं चेति द्वादशमा-
सान्द्वादशार्धमासान्द्वादशाहान्द्वादशषडह्हान्याद्वादशत्र्यहान् त्र्यहमेकाहमित्यशुचि-
करनिर्देशः' इति वृत्ते वार्षिकव्रतमुक्तं,-तदभ्यासविषयम् । यत्तु प्रचेतसोक्तम्-
'अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गारुडोऽग्निदोऽश्वस्थगजारोहण-
वृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी
श्ववृत्तिर्ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽप-
ण्यविक्रयी मनुष्यपशुविक्रेता चेति तानुद्धरेत्समेश्य न्यायंतो ब्राह्मणव्यवस्था
सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिशवणमुपस्पृशेयुस्तस्यान्ते देवपितृ-
तर्पणं गवाह्निकं चेत्येवं व्यवहार्थो।' इति, -तदपि बौधायनेन समानविष-
यम् । श्वागणिको यः श्वगणेन जीवति । भाण्डिको बन्दिव्यतिरिक्तो राज्ञां तूर्या-
दिस्वनैः प्रबोधयिता; बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः, ब्रह्मजीवी ब्राह्म-
णकार्येषु मूल्येन परिचारकः । मनूक्तान्यप्यपपातकैयप्रायश्चित्तानि 'बद्याह्वकालतौ
मासम्' (११।२००) इत्यादीन्यपि जात्याद्यपेक्षया योज्यानि; तदुक्तापाङ्क्त्य-
मध्येऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शूद्रसेवायां च साम्ना-
१. द्विजकार्येषु ।
[Page Header]
[Right aligned]: ४३१
[Centered]: प्रायश्चित्ताध्यायः
न्यप्रायश्चित्तानि प्राग्वदेव योज्यानि ॥ यत्तु बौधायनेनोक्तम्—‘समुद्रयानं
ब्राह्मणस्य न्यासापहरणं सर्वापण्यैर्व्यवहरणं भूम्यनृतं शूद्रसेवा यच्च शूद्रायाम-
भिज्ञायते, तदपत्यं च भवति तेषां तु निर्देशः ‘चतुर्थकालं मितभोजिनः स्युरपोऽ-
भ्युपेयुः सवनानु कल्पम् । स्थानासनाभ्यां विहरन्त एतैस्त्रिवर्षैस्तदपहरन्ति
पापम् ॥’ इति, – तद्बहुकालसेवाविषयम् ॥ हीनजातिभिः सख्ये तूपपातकसामा-
न्यप्रायश्चित्तान्येव ॥ यत्तु प्रचेतसोक्तम्—‘मित्रभेदनकरणादहोरात्रमनश्नन् हुत्वा
पयः पिवेत्’ इति, – तद्धीनसख्यभेदनविषयम् ॥ हीनयोनिनिषेवणेऽप्युपपातक-
सामान्यप्रायश्चित्तानि योज्यानि ॥ यत्तु शातातपेनोक्तम्—‘ब्राह्मणो राज-
कन्यापूर्वीं कृच्छ्रं द्वादशरात्रं चरित्वा निविशेतां चोपयच्छेत्, वैश्यापूर्वीं तु तप्त-
कृच्छ्रं शूद्रापूर्वीं तु कृच्छ्रातिकृच्छ्रं राजन्यश्चैद्वैश्यापूर्वीं कृच्छ्रं द्वादशरात्रं चरित्वा
निविशेतां चोपयच्छेत्, शूद्रापूर्वीं त्वतिकृच्छ्रं, वैश्यश्चेच्छूद्रापूर्वीं त्वति-
कृच्छ्रं द्वादशरात्रं चरित्वा तां चोपयच्छेत्’ इति, तत्र निविशेतां चोपयच्छेचेदिति
कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनादूर्ध्वं तां च राजन्यादिकामुपयच्छेदित्यर्थः ।
– इदं चाज्ञानविषयम् । ज्ञानतस्तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितमेव
द्रष्टव्यम् ।–साधारणस्त्रीसंभोगे च ‘हीनयोनिनिषेवणम्’ (प्रा० २७१) इत्युक्तं,
तत्रापि ‘पशुवेश्याभिगमने प्राजापत्यं विधीयते’ इति संवर्तोक्तमकामतॊ द्रष्टव्यम् ।
कामतस्तु यमेनोक्तं द्रष्टव्यम्— ‘वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत्सकृत्कृत्स्नं सप्तरात्रं कुशोदकम् ॥’ इति । उपपातकसामान्यप्रायश्चित्तानि
च कामाकामतॊऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु ‘प्रतिनिमित्तं
नैमित्तिकमावर्तते’ इति न्यायात्प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लौगाक्षिणा
विशेष उक्तः—‘अभ्यासेऽहर्गुणा वृद्धर्मासादार्वाग् विधीयते । ततो मासगुणा
वृद्धियार्वत्संवत्सरो भवेत् ॥ ततः संवत्सरगुणा यावत्पापं समाचरेत् ॥’ इति ।–
इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ तु चतुर्विंशतिमते विशेष उक्तः—
‘सकृत्कृते तु यत्प्रोक्तं त्रिगुणं तन्त्रिभिर्दिनेः । मासांत्पञ्चगुणं प्रोक्तं षण्मासाद्दशधा
भवेत् ॥ संवत्सरात्पञ्चदशं द्यब्दाद्विशिगुणं भवेत् । ततोऽप्येवं प्रकल्प्यं स्याच्छा-
तातपवचो यथा ॥’ इति ॥ यत्पुनः ‘विधेः प्राथमिकाइस्माद् द्वितीये द्विगुणं चरेत्’
इति प्रतिनिमित्तमावृत्तिविधायकं, – तन्महापातकविषयमित्युक्तं प्राक् । यत्तु यमेन
साधारणस्त्रीगमनमधिकृत्य गुरुतल्पव्रतमतिदिष्टम् ‘गुरुतल्पव्रतं केचित्केचिच्चा-
न्द्रायणव्रतम् । गोव्रतस्त्वेच्छन्ति केचित्तु केचिदेवावकीर्णििनः ॥’ इति ।–एतच्च
जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं ‘तथैवानाश्रमे वासः’
[Footnotes]
१. हीनयोनिनिषेवणम् । २. पूर्वान्त्यासु ।
(प्रा० २४१) इत्युक्तं तत्र हारीतेन विशेष उक्तः—'अनाश्रमी संवत्सरं
प्राजापत्यं कृच्छ्रं चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रमत
ऊर्ध्वं चान्द्रायणम्' इति । - एतदसंभवविषयम् । संभवे तु सामान्येनोपपातक-
प्रायश्चित्तानि कामाकामतॊ व्यवस्थापनीयानि । परपाकरुचिस्वासङ्गाच्छादिग-
मनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रा-
यश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥
भाषा—व्रात्य (पतित सावित्री) को यज्ञ कराने वाला और अभिचार
कर्म करने वाला तीन कृच्छ्र व्रत करे। अपने वेद का विप्लावन करने वाला
(चण्डाल आदि के समक्ष और अनध्याय में पढ़ने वाला), तथा शरण में
आये हुए व्यक्ति की (समर्थ होने पर भी) रक्षा न करने वाला एक वर्ष तक
जौ का भात खाने पर शुद्ध होता है ॥ २८८ ॥
'भार्याया विक्रयश्चैषाम्' (प्रा० २४२) इत्यत्र 'च'शब्दो मन्वाद्युक्त-
सप्रतिग्रहनिन्दितान्नादनामपुलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चि-
त्तविशेषमाह—
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रतः ।
गायत्रीजाप्यनिरतः शुद्ध्येतेऽसत्प्रतिग्रहात् ॥ २८९ ॥
यस्त्वसत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्री-
जाप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुद्ध्यतीति । प्रतिग्रहस्य चासत्त्वं
दातृजातिकर्मनिबन्धनं यथा चाण्डालादेः पतितादेश्च । तथा देशकालनिबन्धनं
च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृत-
शय्योभयतोमुख्यादेः ॥ यदा तु पतितादेर्मेष्यादिकं प्रतिगृह्णाति, तदैतद्गुरु-
प्रायश्चित्तं द्रष्टव्यम् ; व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना
संख्याविशेष उक्तः (११।१९४)—'जपित्वा त्रीणि सावित्र्याः सहस्राणि
समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं
त्रिसहस्रजपो द्रष्टव्यः; 'मासम्' इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य
प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशाद्विषिद्धं
मेषादिकं गृह्णाति, पतितादेर्वा भूम्यादिकमनिषिद्धं तदा षट्त्रिंशन्मतोक्तं द्रष्ट-
व्यम्—'पवित्रेष्ट्या विशुद्ध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या
कदाचिन्मित्रविन्दया ॥ देव्या लक्षजपेनैव शुद्ध्यन्ते दुष्प्रतिग्रहात् ॥' इति ।
यत्तु वृद्धहारीतवचनम्—'राज्ञः प्रतिग्रहं कृत्वा मासम्प्सु सदा वसेत् । षष्ठे
१. जप्यनिरतः । २. निरतो मुच्यतेऽसत्प्रति । ३. दिकं गृह्णाति ।
काले पयोभक्षः पूर्ण मासे विशुद्ध्यति ॥ तर्पयित्वा द्विजान्कामैः सततं
नियतव्रतः ॥' इति, -तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा,-पतितादेः
कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया
प्रायश्चित्ताल्पत्वम् । यथाह हारीतः - 'मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्ट-
सहस्रं जपेत्' इति । तथा षट्त्रिंशन्मतेऽपि - 'भिक्षोमात्रं गृहीते तु पुण्यं
मन्त्रमुदीरयेत् । प्रतिग्रहेषु सर्वेषु षष्ठमंशं प्रकल्पयेत् ॥' इतीदं च प्रायश्चित्तजातं
द्रव्यत्यागोत्तरकालं द्रष्टव्यम् । ( ११।१९३) - यद्वर्हितेनार्जयन्ति कर्मणा
ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥' इति मनु-
स्मरणात् । एवमन्यान्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्त्वाभ्यां विषयेषु
व्यवस्थापनीयानि ॥
इत्युपपातकप्रायश्चित्तप्रकरणम् ।
जात्याश्रयादिदोषेण निन्द्यान्नादेश्च षड्विधः ।
योगीन्द्रोक्तव्रतव्रातः सांप्रतं तु प्रतन्यते ॥
तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृत्कृते 'पलाण्डुं विड्वराहं च'
(आ० १७६) इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु 'निषिद्धभक्षणं
जैह्मयं' (प्रा० २२९) इत्यादिनोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे
सान्तपनम् । तत्रैवाभ्यासे यतिचान्द्रायणम् ।-'अभक्ष्यैतानि षड् जग्ध्वा कृच्छ्रं
सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः' (५।२०) इति मनु-
स्मरणात् । यत्तु बृहद्यमेनोक्तम्-'खट्ववार्ताककुम्भीकब्रश्चनप्रभवाणि च । भूस्तृणं
शिग्रुकं चैव सुखुण्डं कवकानि च ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः ॥'
इति, तत्कामतोऽभ्यासविषयम् । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं क्षिपेत्'
इति योगेश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खट्वाख्यः पक्षी । कुसु-
म्भमित्यन्ये । कवकं राजसर्षपाख्यं शाकम् । सुखुण्डं तद्विशेषो गोबलीवर्दन्यायेन
निर्दिष्टः । यत्तु यमेनोक्तम्-'तन्दुलीय ककुम्भीकब्रश्चनप्रभवांस्तथा । नालिकां
नारिकेलीं च श्लेष्मातकफलानि च ॥ भूस्तृणं शिग्रुकं चैव खट्वाख्यं कवकं तथा ।
एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥' इति, - तदपि मतिपूर्वाभ्यासविषयम् ।
नालिका नारिकेली च शाकविशेषौ । खट्वाख्यश्च । अकामतः सकृद्भक्षणे तु
'शेषेषूपवसेदहः' (५।२०) इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे स्वावृत्तिः
कल्प्या । अत्यन्ताभ्यासे तु-'संसर्गदुष्टं यच्चान्नं क्रियादुष्टमकामतः । भुक्त्वा
स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥' इति प्रचेतोभिहितं द्रष्टव्यम् । नीश्यारश्व-
१. पूर्ण मासे प्रमुच्यते । २. मात्रे गृहीत्वा तु ।
५६४ याज्ञवल्क्यस्मृतिः
कामतः सकृद्भक्षणे चान्द्रायणम्—'भक्षयेद्यदि नीलीं तु प्रमादाद् ब्राह्मणः कचित् ।
चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥' इति आपस्तम्बस्मरणात् ।
कामतोऽभ्यासे चावृत्तिः कल्पा ॥ यदपि षट्त्रिंशन्मतेऽभिहितम्—'शणपुष्पं
शास्मलं च करनिर्मथितं दधि । बहिर्वेदिपुरोडाश जग्ध्वा नाद्यादहर्निशम् ॥'इति,-
तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्—'लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्धिन संपातान्नयेत्, इति,-तद्बलात्कारेणानिच्छतो भक्षणविषयम् ।
तदेकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अत एवानन्तरं तेनैवोक्तम्—
'एतान्येव व्याधितस्य भिषक्क्रियायामप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि
तेष्वपि न दोषः' इति । संपातान्नयेदुदकबिन्दून्प्रक्षिपेत् ॥
अथ जातिदुष्टसंधिन्यादिचीरपाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने
(५।८-१०)—'अनिर्दशाया गोः क्षीरमौष्ट्रमेकशफं तथा । आधिकं संधिनीक्षीरं
विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं
चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शक्तेषु सर्वं च दधिसंभवम्'
इत्युक्त्वा 'शेषेषूपवसेदहः' ( ५।२० ) इति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु
योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठीनशिनोक्तम्—'अविखरोष्ट्र-
मानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनरुपनयनं च । अनिर्दशाहगोमहिषीक्षीर-
प्राशने षड्रात्रमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव'
इति । यच्च शङ्खेन–'क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रव्रतं
कुर्यात्प्रयत्नेन समाहितः ॥' इति यावकव्रतमुक्तं, तदुभयमपि कामतोऽभ्यासवि-
षयम् । यत्तु शङ्खेन—संधिन्यमेध्यभक्षयोः क्षीरप्राशने पञ्चव्रतमुक्तम्—'संधि-
न्यमेध्यभक्षयोर्भुङ्क्त्वा पञ्चव्रतं चरेत् इति,-तदप्यभ्यासविषयम् । 'सकृत्पाने
गोऽजामहिषीवर्ज्य सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्यपि संध्रि-
नीयमसूर्यन्दिनीविवत्साक्षीरं चामेध्यभुजश्च' इति विष्णुनोपवासस्योक्तत्वात् ।
तथा वर्णनिबन्धनश्च प्रतिषेधः—'क्षत्रियश्चापि वृत्तस्थो वैश्यः शूद्रोऽथवा पुनः ।
यः पिबेत्कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत् ॥' इत्येवमादौ च यन्न प्रतिप-
द्रोक्तं प्रायश्चित्तं न दृश्यते तत्र 'शेषेषूपवसेदहः' इति ( ५।२० ) साधारण-
प्रायश्चित्तं मनूक्तं द्रष्टव्यम् ॥
अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्तमुक्तम् । तत्र कामतः सकृद्भक्षणे'शेषे-
षूपवसेदहः' इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस्तु—'चाषांश्च
रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥'
इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु ( १।११५२)—'जग्ध्वा मांस-
१. जग्द्ध्वा ।
प्रायश्चित्ताध्यायः ५४५
मभक्ष्यं तु 'सप्तरात्रं यवान्पिबेत्' इति मनूक्तं द्रष्टव्यम् । इदं च विट्सूकरादिमां-
सव्यतिरिक्तविषयम् ( ११।१५६ ) - 'क्रव्याद्विट्सूकराष्ट्राणां कुक्कुटानां च भक्षणे
नरकाकखराश्वानां तप्तकृच्छ्रं विशोधनम् ॥' इति मनुना जातिविशेषेण प्रायश्चि-
त्तविशेषस्योक्तत्वात् । एतन्मूत्रपुरीषप्राशनेऽप्येतदेव । -'वराहैकशफानां च
च काककुक्कुटयोस्तथा । क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥ मांस-
मूत्रपुरीषाणि प्राश्य गोमांसमेव च । श्वगोमायुकपीनां च तप्तकृच्छ्रं विधीयते ॥
उपोष्य वा द्वादशाहं कूष्माण्डैर्जुहुयाद्घृतम् ॥' इति बृहद्यमस्मरणात् । तत्र काम-
तस्तप्तकृच्छ्रः, अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था ॥ तथा प्रचेत-
साप्युक्तम् - 'श्वसृगालकाककुक्कुटपार्षतवानरचित्रकचाषक्रव्यादखरोष्ट्रगजवाशिवि-
ड्वराहगोमानुषमांसभक्षणे तप्तकृच्छ्रमादिशेदेषां मूत्रपुरीषभक्षणे श्वतिकृच्छ्रम्'
इति ।-इदं च कामकारविषयम् । यत्तुशनसो वचनम् - 'नरमांसं श्वमांसं वा
गोमांसं चाश्वमेव च । भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥' इति,-
तदकामविषयम् ॥ यच्चाङ्गिरोवचनम् - 'बलाकाभासगृध्राखुखरवानरसूकरान् ।
दृष्ट्वा चैषाममेध्यानि स्पृष्ट्वाचाचम्य विशुद्ध्यति ॥ इच्छयैषाममेध्यानि भक्षयित्वा
द्विजातयः । कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' इति'-तल्लङ्घितोद्वा-
रितविषयम् । 'सान्तपन'शब्देन चात्र महासान्तपनमुच्यते । अकामतः प्राजाप-
त्यविधानात् । यत्पुनरङ्गिरोवचनम् - 'नरकाकखराश्वानां जग्ध्वा मांसं गजस्य
च । एषां मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥' इति । यच्च बृहद्यमेनोक्तम्-
'शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत्' इति । तदुभयमपि कामतोऽभ्या-
सविषयम् । यत्पुनः शङ्खेनोक्तम् - 'भुक्त्वा चोभयतो दंतांस्तथा चैकशफानपि ।
भौष्ट्रं गव्यं तथा जग्ध्वा षण्मासान्व्रतमाचरेत् ॥' इति,-तत्कामतोग्यन्ताभ्यास-
विषयम् । यत्तु स्मृत्यन्तरोक्तम् - 'जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा ।
गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सर-
व्रतंम् ॥' इति,-तदत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे 'मूत्रपुरीष'ग्रहणं
वसाशुक्रासृग्मज्जानामुपलक्षणम् । कर्णविट्प्रभृतिमलषट्के त्वर्धं कल्पनीयम् ॥
केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः - 'अजाविमहिषमृगाणां आममां-
सभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रमज्ञानादुपवास' इति । यत्तु प्रचेत-
सोक्तम्-'नखकेशमृल्लोष्टभक्षणेऽहोरात्रमभोजनाच्छुद्धिः' इति,-तदप्यकामतः सकृ-
त्प्राशनविषयम् । यत्तु स्मृत्यन्तरवचनम् - 'केशकीटनखं प्राश्य मत्स्यकण्टकमेव
च । हेमतप्तं घृतं पीत्वा तःक्षणादेव शुद्ध्यति ॥' इति,-तन्मुखमात्रप्रवेशविषयम् ॥
यदा तु भाजनस्थमन्नं केशादिदूषितं भवति तदा - 'अन्ने भोजनकाले तु मक्षि-
१. सप्तरात्रं पयः पिबेदिति । २. खराणां च । ३. गव्यं मांसम् ।
३८ या०
५६६ याज्ञवल्क्यस्मृतीः
काकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भस्मना स्पृशेत् ॥' इति प्रचेतसाऽभि-
हितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः ॥ सूक्ष्मतमकृमिकीटास्थ्यन्नक्षणे पुनहारी-
तेन विशेष उक्तः—'कृमिकीटपिपीलिकाजलौकःपतङ्गास्थिप्राशने गोमूत्रगोमया-
हारस्त्रिरात्रेण विशुद्ध्यति' इति । जलौको मत्स्यादिः । एवं च पशुपतङ्गजिलचरन-
रमांखादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि, ग्रन्थगौरवभयात्प्रतिव्यक्तिर्न
लिख्यते ॥
अथाशुचिसंपृष्टभक्षणे प्रायश्चित्तं तत्र तावदुच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र
मनुः । (११।१५९)—'बिडालकाकाच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकी-
टावपन्नं च पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति कालविशेषाsub/नुपादानादेकरात्रम् । इदं
च कामतो द्रष्टव्यम् । यत्तु विष्णुनोक्तम्—'पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।
संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥' इति,—तत्कामकारविषयम् । संस्कारश्च
'देवद्रोण्या'मित्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत्तु शातातपेनोक्तम्—
'श्वकाकावलीढशूद्रोच्छिष्टभोजने त्वतिकृच्छ्रम्' इति,—तदकामतौऽभ्यासविषयम् ।
यत्तु शङ्खेन—'शुनामुच्छिष्टकं भुक्त्वा मासमेकं व्रती भवेत् । काकोच्छिष्टं गवां
घ्रातं भुक्त्वा पश्चं व्रती भवेत् ॥' इति यावकव्रतमुक्तं,—तत्कामतौऽभ्यासविषयम् ।
ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्विष्णुनोक्तं—'ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं
पञ्चगव्यं पिबेत्, —वैश्योच्छिष्टाशने पञ्चरात्रं राजन्योच्छिष्टाशने त्रिरात्रं ब्राह्मणो-
च्छिष्टाशने त्वेकाहम्' इति, तत्कामकारविषयम् । यत्तु यमवचनम्—'भुक्त्वा
सह ब्राह्मणेन प्राजापत्येन शुद्ध्यति । भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण
शुद्ध्यति ॥ वैश्येन सह भुक्त्वान्नमतिकृच्छ्रेण शुद्ध्यति । शूद्रेण सह भुक्त्वान्नं
चान्द्रायणमथाचरेत् ॥' इति, —तत्कार्मतौऽभ्यासविषयम् ॥ यत्पुनः शङ्खवचनम्—
'ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिरभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टाशने ब्राह्मी-
रसविपक्वेन त्र्यहं क्षीरेण वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां
पिबेत्, शूद्रोच्छिष्टभोजने षड्रात्रमभोजनम्' इति,—तदकामविषयम् । तत्राभ्यासे
द्वैगुण्यादिकं कल्प्यम् । एतच्च पित्रादिव्यतिरेकेण; 'पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं
भोज्यम्' (४।११) इत्यापस्तम्बस्मरणात् । यत्तु बृहद्व्यासवचनम्—'माता वा भगिनी
वापि भार्या वाऽन्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं
चरेत् ॥' इति,—तत्सभोजनविषयम् । उच्छिष्टमात्रभोजने तु 'शूद्रोच्छिष्टभोजने
सप्तरात्रमभोजनं स्त्रीणां च' (१।२६।४-५) इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्चाङ्गिरो-
वचनम्—'ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व
एव मनीषिणः ॥' इति,—तद्विवाहविषयमगर्भिषयं वा । अन्योच्छिष्टभोजने तु—
१. संस्कारश्च देवद्रोण्यां ।
प्रायश्चित्ताध्यायः ५१७
'अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्धं च ब्रह्मक्षत्र-
विशां विधिः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्तेव-
साय्युच्छिष्टभोजने तु—'चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं
चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ षड्रात्रं च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥'
इत्यङ्गिरोभिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु—'आपत्काले
तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्ध्येत्तु द्रुपदानां शतं जपेत् ॥'
इति पराशरोक्तं वेदितव्यम् ॥ यत्तु बृहच्छातातपेनोक्तम्—'पीतशेषं तु यत्किंचि-
द्द्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥'
इति,-तदभ्यासविषयम् ; निमित्तस्यातिलघुत्वात् ।—'पीतोच्छिष्टं च पानीयं
पीत्वा तु ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्याद्ब्राह्मस्तेन वा पुनः ॥' इति,-
एतद्बुद्धिपूर्वविषयम् । अकामतस्त्वर्धं कल्प्यम् । दीपोच्छिष्टे तु—'दीपोच्छिष्टं तु
यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाच्चैव यच्छिष्टं भुक्त्वा नक्तेन शुद्ध्यति ॥'
इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥
अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः—'केशकीटावपन्नं च
नीलीलाक्षोपघातितम् । श्वायवस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः ॥' इति ।
तथाह शातातपः—'केशकीटावपन्नं च रुधिरमांसासृक्स्पृष्टभ्रूणघ्नावेक्षितपतण्ड्य-
वलीढश्वसूकरगवाघ्रातंशुक्तपर्युषितवृथापक्कदेवान्नहविषां भोजने उपवासः पञ्च-
गव्याशनं च ॥' इति,-एतच्चोभयमपि अकामविषयम् । कामतस्तु 'मृद्भारिकुसु-
मार्दींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्रपादं समाचरेत् ॥
संनिकृष्टेऽर्धमेव स्यात्कृच्छ्रः स्याच्छुचिशोधनम् ॥' इति विष्णूदत्तं वेदितव्यम् ।
अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ्र इति व्यवस्था । यत्तु व्यासेनोक्तम्—'संसर्ग-
दुष्टं यच्चान्नं क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥'
इति, एतच्च संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्शे तु शङ्खो-
क्तम्-'अमेध्यपतितचाण्डालँपुल्कसरजस्वलावधूतकुणिकुष्ठिनखिसंस्पृष्टानि भुक्त्वा
कृच्छ्रं चरेत्' इति । कुणिर्हस्तविकलः ।-एतत्कामकारविषयम् । अकामतोऽर्धम् ।
'भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च दूषितम् । कुशोडुम्बरबिल्वाद्यैः पनसाम्बुज-
पत्रकैः । शङ्खपुष्पीसुवर्चोदिक्वाथं पीत्वा विशुद्ध्यति ॥'इति यद्विष्णुनोक्तं,-तदश-
क्तविषयं, रजकादिस्पृष्टविषयं वा। शूद्रानुपहते तु हारीतोक्तं विज्ञेयम्—'शूद्रेणोप-
हतं भोज्यं कीटैर्वाऽमेध्यसेविभिः । भुञ्जानेषु वा यत्र शूद्र उपस्पृशेदनाहंस्वारस पङ्क्तौ
तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्नं दद्युस्तन्न
१. तद्द्विजस्याहुर्भुक्त्वा । २. शुष्कपर्युषित । ३. शुचिभोजने ।
४. पुक्कस ।
५६८ | याज्ञवल्क्यस्मृतिः
प्रायश्चित्तमहोरात्रम्' इति । उच्छिष्टपङ्क्तिभोजनेऽप्येतदेव—'यस्तु भुङ्क्ते द्विजः
पङ्क्तयामुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥' इति
क्रतुस्मरणात् । वामकरनिर्मुक्तपत्रभोजने तु—'समुत्थितस्तु यो भुङ्क्ते यो भुङ्क्ते
मुक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥' इति षट्त्रिंशन्म-
तोक्तं १वेदितव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम्—'एकपङ्क्त्युपविष्टानां विप्राणां
सहभोजने । यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाद् भुञ्जीत यस्तत्र
पङ्क्तयामुच्छिष्टभोजनः । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सान्तपनं तथा ॥' इति ॥
श्वादिसंपृक्तकूपाद्युदकपाने तु विष्णुराह—'मृतपञ्चनखात्कूपाद्यन्तोपहताद्भो-
दकं पीत्वा ब्राह्मणस्त्र्यहमुपवसेत् द्वयहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे
चान्ते पञ्चगव्यं पिबेयुः' इति । अत्यन्तोपहताद्धेति मूत्रपुरीषादिभिर्वे३त्यभिप्रै-
तम् । यदा तु तत्रैव शवमुच्छू४नतयोद्भिन्नं भवति तदा हारीतो विशेषमाह—
'क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुद्धयै चान्द्रायणं कुर्यात्तत्-
कृच्छ्रमथापि वा ॥ यदि कश्चित्ततः स्नायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायी
अहोरात्रेण शुद्ध्यति ॥' इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजल-
पानविषयम् । अकामतस्तु षड्रात्रम्—'क्लिन्नं भिन्नं शवं चैत्र कूपस्थं यदि
दृश्यते५ । पयः पिबेत्त्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥' इति देवलस्मरणात् ।
यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्बोक्तं द्रष्टव्यम्—'चाण्डाल-
कूपभाण्डस्थं नरः कामाज्जलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥
चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्धं तु चरेद्वैश्यः शूद्रे पादं विनिर्दि-
शेत् ॥' (२।३०५) इति ।- इदं च कामकारविषयम् । अकामतस्तु—
'चाण्डालकूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु त्र्यहेण शुद्ध्येत शूद्रस्त्वेकेन
शुद्धयति ॥' इति देवलोक्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूप-
वच्छुद्धिः—'जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिमहत्सु
तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः—'म्लेच्छादीनां
जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥
तत्तोयं यः पिबेद्विप्रः कामतोऽकामतॊऽपि वा । अकामान्नक्तभोजी स्यादाहोरात्रं
तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु—'भाण्ड-
स्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव
प्रमादतः ॥ ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन
तथा दानेन शक्तिः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम्—
१. द्रष्टव्यम् । २. संपृष्ट । ३. भिरित्यभिहितम् । ४. उच्छूनतयाभिन्नं ।
५. जायते ।
'अन्त्यजैः खानिताः कूपास्तडागा वाप्य एव वा। एषु स्नात्वा च पीत्वा च
प्राजापत्येन शुद्ध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् ॥ यत्त्वा-
पस्तम्बेन चण्डालकूपादिजलपाने पञ्चगव्यमात्रमुक्तम् - 'प्रपास्वरख्ये घटके च
सौरे द्रोण्यां जलं कोशविनिर्गतं च। श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्च-
गव्येन शुद्ध्येत ॥' इति, तदशक्तविषयम् । 'प्रपां गतो विना तोयं शरीरं यो
निषिञ्चति। एकाहक्षपणं कृत्वा सचेलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा
नाढ्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥
अथ भावदुष्टभक्षणे प्रायश्चित्तम् - भावदुष्टं च यद्धूर्णत आकारतो वा विप्र-
कृष्टतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते। अरिप्रयुक्तगरलादि-
शङ्कायां वा । तत्र च पराशरः- 'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते। भुक्तवान्नं
ब्राह्मणः पश्चात्त्रिरात्रेण विशुद्ध्यति ॥' इति ।-एतत्कामकारविषयम् । यत्तु
गौतमेन भावदुष्टं केवलः इत्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम् -
'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु-
'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञिते। आहारशुद्धिं वक्ष्यामि तन्मे निगदतः
शृणु ॥ अक्षारलवणं रूक्षं पिबेद्ब्रह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः
पयसा सह ॥ पलाशबिल्वपत्राणि कुशान्पद्मोदुम्बरम् । अपः पिबेत्क्वाथयित्वा
त्रिरात्रेण विशुद्ध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्का-
यामुक्तम् ( ५।२१ ) - 'संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्त-
शुद्धयर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥
अथ कालदुष्टभक्षणे प्रायश्चित्तम् - 'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि ।
तत्र चाकामतः 'शेषेषूपवसद्देहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केव-
लानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती
भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिर्दशगोक्षीरा-
दिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकपाने तु पञ्चगव्यप्राशनम् - 'शृङ्गास्थिद-
न्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ॥'
इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः - 'काले नवोदकं शुद्धं
न पिबेच्च त्र्यहं हि तत् । अकाले तु दशाहं स्यात्पीत्वा नाद्यादहर्निशम् ॥' इति
स्मृत्यन्तरदर्शनात् । ग्रहणकाले भोजने तु चान्द्रायणम् - 'नवश्राद्धग्रामयाजका-
ग्रसग्रहभोजने । नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥' इति शातातप-
स्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते, तदाह मार्कण्डेयः-
'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन् पूर्वं भोजन-
१. कोशविनिःसृतं वा ।
६०० याज्ञवल्क्यस्मृतिः
क्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोद्यतस्तस्य नाश्नीया-
त्तावदेव तु ॥' तथा—'ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तना-
त्पूर्वं प्रथमे प्रथमादधः ॥' तथा—'अपराह्ने न मध्याह्ने सायाह्ने न तु सङ्गवे ।
भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' (४।५५) इति । यच्च मनुनो-
क्तम्—'नाश्नीयात्संधिवेलायां नातिप्रगे नाति सायमित्येवमादि' । यच्च बृह-
च्छातातपेनोक्तम्—'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं
तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु—'प्राणा-
यामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥'
इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः'
(५।२०) इति मनुक्तोपवासो द्रष्टव्यः ॥
अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः (११।१५३)—
'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न
व्रजत्यधः ॥' इति अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । काम-
तस्तु—'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्वं भुक्त्वा च
त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतच्चामलकादिफलयुक्त-
काञ्जिकादिव्यतिरेकेण द्रष्टव्यम् । 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् ।
तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्ने-
हादिखु तु 'उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नी-
यात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दने घृतप्राशनं च' इति गौतमोक्तं द्रष्ट-
व्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह—'तस्य
चाग्नौ न १क्रियते यस्य चान्नं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोप-
वसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निर्द्विजो भुक्त्वा
प्राजापत्यं समाचरेत् ॥' इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो
द्रष्टव्यः ॥ भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्—'शूद्राणां भाजने भुक्त्वा
भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुद्ध्यति ॥' इति ।
तथा स्मृत्यन्तरेऽप्युक्तम् 'वटाकार्कश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकर-
ञ्जेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति तथा—'पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं
चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥
अथ हस्तदानादिक्रियादुष्टान्नभक्षणे प्रायश्चित्तम् । तत्र पराशरः—
'माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकम-
भोजनम् ॥' इति । कामतस्तु—'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्ट-
१. क्षिपते । २. चान्नं । ३. दुष्टान्नभोजने ।
पङ्क्तिभोजने पङ्क्त्यग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतक शूद्रान्नभोजने
शूद्रैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे
तु-ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा-
तूपवसेदहः ॥' इति वृद्धयाज्ञवल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु-
'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिवेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च-
गव्येन शुद्ध्यति' इति क्रतूक्तं विज्ञेयम् । धमनदुष्टेऽपि- 'आसनारूढपादो वा
वस्त्रार्धप्रावृतोऽपि वा । मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति
तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु 'भुक्ते चेत्पार्वणश्राद्धे प्राणायामा-
न्षडाचरेत् । उपवासस्त्रिमासादिवत्सरान्तं प्रकीर्तितः ॥ प्राणायामत्रयं वृद्धाव-
होरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतं पारणके तथा ॥ द्विगुणं क्षत्रियस्यै-
त्त्रिगुणं वैश्यभोजने । सान्नाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ
तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं
चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम् । हारीतेनाप्युक्तम् - 'एकादशाहे
भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयाद्-
घृतम् ॥' इति । विष्णुनाप्युक्तम् - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥' इति । - इदं चापद्विषयम् । अनापदि
तु- 'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराँणेषु प्राजापत्यं
विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । 'प्राजापत्यं तु मिश्रके' इत्येतदाद्यमासि-
कविषयं द्रष्टव्यम् । द्वितीयादिषु तु - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं स्यात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथा-
ब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं
द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः - 'चान्द्रायणं
नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रं मासद्वये स्मृतम् ॥
क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु-
मनीषिभिः ॥ शूद्रस्य तु नवश्राद्धे चरेच्चान्द्रायणद्वयम् । सार्धं चान्द्रायणं मासे
त्रिपक्षे त्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्ध्वं सान्तपनं स्मृतम् ॥' इति ।
यत्तु शंखवचनम् - 'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पञ्चत्रयेऽ-
तिकृच्छ्रः स्यात्षण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुन-
राब्दिके । अत ऊर्ध्वं न दोषः स्याच्छंखस्य वचनं यथा ॥' इति, तत्सर्पादिक्षत-
विषयम्; 'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपङ्क्तेयविषयं वा ॥ 'चाण्डालादुद-
कार्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतना-
१. मासिके । २. प्रायश्चित्तं । ३. द्विरात्रम् ।
६०२ \qquad याज्ञवल्क्यस्मृतिः
नाश्नकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां षोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥'
इति, तथा—'अपाङ्क्तेयान्युद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वाऽन्नं
शिशुचान्द्रायणं चरेत् ॥' इति, 'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति ।
संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चि-
त्ताभिधानात् ॥
ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह—'मासिकादिषु योऽश्नीयादसमाप्तव्रतो
द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं
प्राश्य विशुद्ध्यति ॥' इति ।-इदमज्ञानविषयम् । कामतोऽपि स एवाह—
'मधु मांसं च योऽश्नीयाच्छ्राद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं
समापयेत् ॥' इति । आमश्राद्धे तु सर्वत्रार्धम्—'आमश्राद्धे तदर्धं तु प्रायश्चित्तं
तु सर्वदा' इति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्—'दशकृत्वः पिबेच्चापो
गायत्र्या श्राद्धभुग्द्विजः । ततः संध्यामुपासीत शुद्ध्येत्तु तदनन्तरम् ॥' इति,-
तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष
उक्तः—'निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जात-
कर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः । नियोगादुप-
वासेन शुद्ध्यते निन्द्यभोजने ॥' इति ॥ सीमन्तोन्नयनादिषु पुनर्धौम्यो विशेष-
माह—'ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नव श्राद्धे द्विजश्चा-
न्द्रायणं चरेत् ॥' इति । अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतं; सोमसाहचर्यात् ॥
अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम्—'यत्स्वरूपतोऽनिषिद्धमपि विशिष्ट-
पुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचि ।' तत्र योगीश्वरेण—'अदत्ता-
न्यग्निहीनस्य नान्नमद्यादनापदि' इत्यारभ्य सार्धपञ्चभिः श्लोकैरभोज्यान्नाः
प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । (४।२०५-
२१७)—'नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते
भुञ्जीत ब्राह्मणः क्वचित् ॥ मत्तक्रुद्वातुरार्णां च न भुञ्जीत कदाचन । गणान्नं
गणिकान्नं च विदुषां च जुगुप्सितम् ॥ स्तेनगायकयोश्चान्नं तक्षणो वार्धुषिकस्य
च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य षण्ढस्य पुंश्चल्या
दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं
सूतिकान्नं च पर्यायान्नमनिर्देशम् । अनर्चितं वृथामांसमवीरायाश्च योषितः ॥
द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव क्रतुविक्रयिणस्तथा ॥
शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च । कर्मारस्य निषादस्य रङ्गावतरणस्य
च । सुवर्णकर्तुर्वैणस्य सोमविक्रयिणस्तथा । ध्रवतां शौण्डिकानां च चैलनिर्ने-
१. पतितान्नमवेक्षितम् ।
प्रायश्चित्ताध्यायः ६०३
जकस्य च ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । मृष्यन्ति ये चोपपतिं
स्त्रीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥' इति ॥ अत्र
च पदार्था अभक्ष्यकाण्डे व्याख्याताः । अत्र प्रायश्चित्तमाह ( मनुः ४।२२२ )-
'भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत्कृच्छ्रं रेतो
विण्मूत्रमेव च ॥' इति । पैठीनसिनाप्यकामतस्त्रिरात्रमेवोक्तम्- 'कुनखी-
श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको
ग्रामयाजकोऽभिशस्तो वृषल्यामभिजितः परिवृत्तिः परिविन्द्वानो दिधिषूपतिः
पुनर्भूपुत्रश्चौरः काण्डपृष्ठः सेवकश्चेत्यभोज्यान्ना अपाङ्केया अश्राद्धार्हाः एषां
भुक्त्वा दत्त्वा चाऽविज्ञानात्त्रिरात्रम्' इति ॥ शंखेन त्वेतानेव किंचिदधिकान्प-
ठित्वा चान्द्रायणमुक्तं, -तदभ्यासविषयम् ॥ गौतमेन पुनः 'उच्छिष्टपुंश्चल्य-
भिशस्ता' इत्यादिना अभोज्यान्पठित्वा 'प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च'
इति प्रायश्चित्तमुक्तं, -तदापद्विषयम् ॥ यस्तु बलात्कारेण भोज्यते तस्यापस्तम्बेन
विशेष उक्तः- 'बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभं कारिताः
कर्म गवादिप्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् । खरोष्ट्र-
विड्वराहाणामामिषस्य च भक्षणम् ॥ तत्स्त्रीणां च तथा सङ्गस्ताभिश्च सह
भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं
स्वाहिताग्नेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्थं यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन
शुद्ध्यति ॥ ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैस्त्रिभिश्चैव
तद्भावं स निगच्छति' इति ॥
आशौचपरिगृहीतान्नभोजने तु छागलेय आह- 'अज्ञानाद् भुञ्जते विप्राः
सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुद्ध्यन्ते शूद्रसूतके ॥ वैश्ये षष्ठिर्भ-
वेदाज्ञि विंशतिर्ब्राह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनः ॥ ततः
शुद्धिर्भवत्येषां पञ्चगव्यं पिबेत्ततः ॥' इति ब्राह्मणादिक्रमेणैकाहत्र्यहादयो
योज्याः । -इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह- 'भुक्त्वा तु
ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रो
विधीयते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रस्यैव
तथा भुक्त्वा त्रिमासान्व्रतमाचरेत् ॥ यत्तु शंखेनोक्तम् - 'शूद्रस्य सूतके भुक्त्वा
षण्मासान्व्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा
१. तथा तस्यैव भोजनं । २. अज्ञानाद्भोजने । ३. शुचिर्भवेद्विप्रः
पञ्चगव्यं पिबेन्नरः इति । ४. द्विजश्चान्द्रायणं चरेदिति ।
६०४ याज्ञवल्क्यस्मृतिः
मासव्रती भवेत् ॥' इति ।-इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं
वेदितव्यम् । 'ब्राह्मणादीनामाशाचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं
यावत् तेषामाशौचम् , व्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् ॥
अपुत्राद्यन्नभोजने तु लिखित आह—'भुक्त्वा वार्धुषिकस्यान्नमव्रतस्या-
सुतस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम् ॥' तथा—'परपा-
कनिवृत्तस्य परपाकरतस्य च । अपचस्य च भुक्तवान्नं द्विजश्चान्द्रायणं चरेत् ॥'
इति ।-एतच्चाभ्यासविषयम् ॥ परपाकेन निवृत्तःर्देर्लक्षणं च तेनैवोक्तम्—'गृही-
स्वाग्निं समारोप्य पञ्चयज्ञान् निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकी-
र्तितः ॥ पञ्चयज्ञांस्तु यः कृत्वा परान्न्रादुपजीवति । सततं प्रातरुत्थाय परपाकर-
तस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः
संप्रकीर्तितः ॥'इति । यत्तु ब्रह्मचर्य्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह-'यतिश्च ब्रह्म-
चारी च पक्वान्नस्वामिनावुभौ । तयोरन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥'
इति, यच्च पार्वणश्राद्धाद्यकर्तृरन्नभोजने भरद्वाज आह—'पक्षे वा यदि वा मासे
यस्य नाश्नन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति,-
तदुभयमप्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्न-
भोजने तु—'निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः
कुर्याद्दिनमेकमभोजनम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे
षट्त्रिंशन्मत एवोक्तम्—'उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अन्नं भुक्त्वा
द्विजः कुर्यात्पराकं तु विशोधनम् ॥' इति ।-इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्ड-
गतमविशेषोदितव्रतकदम्बकं हि द्विजाग्रयस्यैव । क्षत्रियादीनां तु पादपादहान्या
भवति; 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धं पाद एकस्तु
शूद्रजातिषु. शस्यते ॥' इति विष्णुस्मरणात् ॥
इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ।
निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि,
तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः ( ११।१२४-१२५ )—'जातिभ्रंशकरं कर्म
कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ संकरा-
पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहम् ॥'
इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्तः—'संकरीकरणं
कृत्वा मासम्नाति यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं समाचरेत् ॥
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुद्धयति ॥ शीतकृच्छ्रेण वा शुद्धिमैहासान्तपनेन
१. पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजीवति ।