याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
व्यवहाराध्यायः १७३
प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमैनैकदेशस्य मिथ्यात्वम्—यथा ‘सत्यं रूपकशतं गृहीतं न धारयामि, प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेश- स्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच्च हारीतेन स्पष्टमुक्तम्—'मिथ्या- कारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वं यथा—'रूपकशतं धारयती'त्यभियोगे, 'मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजितः' इति । अत्रापि प्रतिवादिन एव क्रिया; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशे- त्क्रियाम्' इति वचनात् , शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रति- पत्तेरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणा- देवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः यथा—'शतमनेन गृहीत'मित्य- भियुक्तः प्रतिवदति 'सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजितः' इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद्वादिप्रतिवादिनोरेक- स्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥
एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या- दित्यपेक्षित आह—
ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥
तत उत्तरानन्तरम् , अर्थी साध्यवान् सद्य एवानन्तरमेव प्रतिज्ञातार्थ- साधनं लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र 'सद्यो लेखयेत्' इति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्तं, अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात्प्रत्यर्थ्येवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साध्यत्वात्कारण- वाद्येवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेत् । ततोऽर्थी लेखयेदिति वदता अर्थ्येव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरवादिनोर्द्वयोरप्यर्थित्वाभावात्साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्—'प्राङ् न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथोक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति ॥ ७ ॥
भाषा—प्रत्यर्थी द्वारा सुनी हुई बात और उसका उत्तर अर्थी की उपस्थिति में लिखावे । (उत्तर के बाद) अर्थी अभियोग को सिद्ध करने वाला प्रमाण तत्काल लिखावे ॥ ७ ॥
१७४ याज्ञवल्क्यस्मृतिः ततः किमित्यत आह— तत्सिद्धौ सिद्धिमवाप्नोति विपरीतमतोऽन्यथा। तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतोऽस्मात्प्रकारादन्यथा प्रका- रान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमाप्नोतीति संबन्धः ॥ एवं व्यवहाररूपमभिधायोपसंहरति— चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥ ८ ॥ 'व्यवहारान्नृपः पश्येत्' (व्य० १) इत्युक्तो व्यवहारः सोऽयमित्थं चतु- ष्पाच्चतुरंशकल्पनया विवादेषु ऋणादानादिषूपदर्शितो वर्णितः । तत्र 'प्रत्यर्थि- नोऽग्रतो लेख्यं' इति भाषापादः प्रथमः । 'श्रुतार्थस्योत्तरं लेख्यम्' इत्युत्तरपादो द्वितीयः । ततः 'अर्थी लेखयेत्सद्यः' इति क्रियापादस्तृतीयः । 'तत्सिद्धौ सिद्धिम- प्नोति' इति साध्यसिद्धिपादश्चतुर्थः । यथोक्तम्—'परस्परं मनुष्याणां स्वार्थवि- प्रतिपत्तिषु । वाक्यन्यायाद्व्यवस्थानं व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्य- सिद्धिभिः क्रमवृत्तिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥' इति । संप्रति- पत्त्युत्तरे तु साधनानिर्देशाद्भाषार्थस्यासाध्यत्वाच्च न साध्यसिद्धिलक्षणः पादोऽ- स्तीति द्विपात्त्वमेव । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्श लक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभि- धानाद् व्यवहर्तृसंबन्धाभावाच्च न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥ भाषा—उस साधन या प्रमाण की सिद्धि होने पर वह विजयी होता है, अन्यथा हार जाता है। यह व्यवहार चतुष्पद (पूर्वोक्त चार स्तर वाला) होता है जो ऋणदान आदि के विवादों में प्रदर्शित किया गया है ॥८॥ इति साधारणव्यवहारमातृकाप्रकरणम् । असाधारणव्यवहारमातृकाप्रकरणम् एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिद्व्यवहार- विशेषे कंचिद्विशेषं दर्शयितुमाह— अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । १. इति व्यवहारमातृकप्राकरणम् । २. साधारणासाधारणव्यवहार ।
व्यवहाराध्यायः १७५ अभियुक्त इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनम- भियोक्तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि प्रत्यवस्कन्दनं प्रत्यभियोगरूपं तथापि स्वापराधपरिहारात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनम- धिकृत्योक्तम् ॥- अथ अर्थिनं प्रत्याह- अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥ अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नाभियोजयेत् । किं च, उक्तमावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेत् न प्रापयेत् । एतदुक्तं भवति-यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं, नान्यथेति ॥ ननु 'प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना' ( व्य० ६ ) इत्यत्रैवेदमुकं, किमर्थं पुनरुच्यते 'नोक्तं विप्रकृतिं नयेत्' इति ? उच्यते, - 'यथावेदितमर्थिना' ( व्य० ६ ) इत्यनेनाऽऽवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयम् । एकस्मिन्नपि पदे न वस्त्वन्तरमित्युक्तम् । यथा- 'अनेन रूपकशतं वृद्ध्या गृहीतम्' इत्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये 'वस्त्रशतं वृद्ध्या गृहीतम्' इति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति 'नोक्तं विप्रकृतिं नयेत्' इत्यनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिद्धयते । यथा 'रूपकशतं वृद्ध्या गृहीत्वाऽयं न प्रयच्छति' इत्यावेदनकालेऽभिधाय भाषाकाले 'रूपकशतं बलादपहृतवान्' इति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धम् , इह तु पदान्तरगमनं निषिद्धयत इति न पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन- 'पूर्वपादं परित्यज्य योऽन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥' इति । हीनवादी दण्डयो भवति, न प्रकृतार्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारार्थमेवायम् 'अभियोगमनिस्तीर्य' इत्याद्यु- पदेशो न प्रकृतार्थसिद्धयसिद्विविषयः । अत एव वक्ष्यति ( व्य० १९ ) 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' इति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयत एव । यथाह नारदः- 'सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥' इति । अस्यार्थः- सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादा- भिधानेऽपि नावसीदति न पराजीयते । न प्रकृतार्थाद्धीयत इत्यर्थः । अत्रोदा- हरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादाने प्रमादाभिधानेन दण्ड्योऽपि यथा प्रकृता-
१७६ याज्ञवल्क्यस्मृतिः दर्थाच्च हीयते, एवं सर्वेष्वर्थविवादेष्विति । अर्थविवादग्रहणाम्मन्युक्तविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गम्यते । यथा—'अहमनेन शिरसि पादेन ताडित' इत्यावेदनसमयेऽभिधाय भाषाकाले 'पादेन हस्ते ताडित' इति वदन्न केवलं दण्ड्यः । पराजीयते च ॥ ९ ॥ भाषा—अभियोग (अपराध) का उत्तर दिये विना अभियोग करने वाले पर उलटा अभियोग न करे । जिस पर किसी दूसरे ने अभियोग किया हो उस पर अभियोग न करे और न कही हुई बात को बाद में बदले ॥ ९ ॥ 'अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्' (व्य० ९) इत्यस्यापवादमाह— कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादना- दिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयत् । नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युग- पद्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथा हि—'अनेनाहं ताडितः शप्तो वा' इत्यभियोगे, 'पूर्वमहमनेन ताडितः शप्तो वा' इति प्रत्यभियोगे दण्डा- ल्पत्वम् । यथाह नारदः (१५।९) 'पूर्वमाचारयेद्यस्तु नियतं स्यात्स दोषभाक् । पश्चात्तु सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥' इति । यदा पुनर्द्वयोर्युगपत्ताडना- दिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः—'पारुष्ये साहसे चापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ॥' इति । एवं युगपद्व्यवहारप्रवृत्त्य- संभवेऽपि कलहादौ प्रत्यभियोगोऽर्थवान्ऋणादानादिषु तु निरर्थक एव ॥ अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह— उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥ १० ॥ उभयोरर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु निर्णयस्य कार्यं कार्यनिर्णयः । आहिताग्न्यादिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयस्य च यत्कार्यं साधि- तधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्यं तद्भवतीतिति प्रतिभूर्ग्राह्यः ससभ्येन सभापतिना । तस्यासंभवेऽर्थिप्रत्यर्थिनौ रक्षणे पुरुषा नियोक्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । यथाह कात्यायनः— 'अथ चेत्प्रतिभूर्नास्ति कार्ययोग्यस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्याद्- भृत्याय वेतनम् ॥' इति ॥ १० ॥ १. वदन्केवलं । २. एवं सति । ३. निर्णयस्य कार्यं च ।
[व्यवस्था / शीर्षभाग] व्यवहाराध्यायः १७७
[मूल पाठ] भाषा—किन्तु कलह और साहस के अपराध में अभियोग करने वाले पर भी अभियोग चला सकता है । दोनों कार्य के निर्णय ( या निर्णय के कार्य ) में समर्थ प्रतिभू ( जमानतदार ) लेना चाहिए ॥ १० ॥ अर्थिप्रत्यर्थिनोर्निर्णयकार्ये ससभ्येन सभापतिना प्रतिभूर्ग्राह्य इत्युक्तम्, किं तन्निर्णयकार्यं यस्मिन्प्रतिभूर्गृह्यत इत्यपेक्षित आह— निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥ ११ ॥ अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनाऽपह्नवे कृते यदाऽर्थिना साक्ष्या- दिभिर्भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सम- मपलापदण्डम् । अथार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्यभियोगादभियुक्तधनाद् द्विगुणं धनं दद्यात् राज्ञे । प्राङ्न्याये प्रत्य- वस्कन्दने चेदमेव योजनीयम् । तत्रार्थ्यैवाऽपह्नववादी प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथ्याभियोगीति राज्ञे द्विगुणं धनं दद्यात् । अर्थिने च प्रकृतं धनम् । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पदा- न्तरेषु तत्र तत्र दण्डाभिधानादधनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयत्वम् । 'राज्ञाऽधमर्णिको दाप्यः' (व्य० ४२) इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद्वा, —एतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् ? अभियोगस्य निह्नवेऽभियुक्तेन कृते यद्यभियोक्त्रा साक्ष्यादिभिर्भावितोऽभियुक्त- स्तदा तत्समं तत्र तत्र प्रतिपदोक्तमेव । च-शब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इत्यनुवादः । अथामियोक्ता अभियोगं भावयितुं न शक्नोति तदा मिथ्याभियो- गीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योजनीयम् ॥ ११ ॥ भाषा—अर्थी द्वारा लगाये गये अभियोग का निह्नव ( छिपाने या अस्वीकार ) करने पर प्रत्यर्थी ( उस वाद के मूल्य के ) समान धन राजा को दण्डस्वरूप देवे । और झूठा अभियोग चलाने वाला अभियोग के मूल्य से दूना धन देवे ॥ ११ ॥
[पाद-टिप्पणी] १. प्रतिभूर्ग्राह्य इत्यत आह । २. धनं दद्याद्राज्ञे । ३. तत्राप्यर्थेऽपह्नव- वादी प्रत्य । ४. वक्तुं ।
१७८ याज्ञवल्क्यस्मृतिः ततः 'अर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इति वदतोत्तरपाद- लेखने कालप्रतीक्षणं दर्शितं तत्रापवादमाह— साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ ॥ साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि, स्तेयं चौर्यम्, पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम्, गौर्दोग्ध्री, अभिशापः पातकाभियोगः, अत्ययः प्राणधनातिपातस्तस्मिन्, द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे, दास्यां स्वत्वविवादे, विवादयेत् उत्तरं दाप- येत्, सद्य एव, न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु, काल उत्तरदानकालः, इच्छयाऽर्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ १२ ॥ भाषा—साहस (विष, शस्त्र आदि से प्राण लेना), चोरी, कठोर भाषण, दूध वाली गौ के महापातक, प्राण और धन का नाश तथा स्त्रियों के (हरण या चरित्रविषयक) विवादों में तत्काल उत्तर देना चाहिए । अन्य विवादों में इच्छानुसार समय बताया गया है ॥ १२ ॥ दुष्टलक्षणमाह— देशाद् देशान्तरं याति सृक्किणी परिलेढि च । ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ १३ ॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥ १४ ॥ स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः । अभियोगेऽर्थे साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ ॥ मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृतिं विकारं याति गच्छति असावभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्शयति—देशाद्देशान्तरं याति न क्वचिदवतिष्ठते । सृक्किणी ओष्ठपर्यन्तौ परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदबिन्दूङ्कितं भवति, मुखं च वैवर्ण्यं विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सद्गद्गदं स्खलद्वयत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूज- यति, चक्षुर्वा प्रतीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् । तथा १. योगे च । २. य वा साध्ये । ३. बिन्दुचितं ।
व्यवहाराध्यायः १७६ ओष्ठौ निर्भुजति वक्रयतीत्यपि कायस्य विकृतिः । एतच्च दोषसंभावनामात्र- मुच्यते, न दोषनिश्चयाय; स्वाभाविकनैमित्तिकविकारयोर्विवेकस्य १दुर्ज्ञेयत्वात् । अथ कश्चिन्निपुणमतिर्विवेकं प्रतिपद्येत, तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्यं कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गादवगतेऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ १३-१५ ॥ भाषा—जो इधर-उधर घूमता रहता है ( एक स्थान पर स्थिर नहीं रहता ) ओठों को जीभ से चाटता है, ललाट से पसीना निकलता है, जिसके मुख का रंग उतरा रहता है । जिसका मुँह बोलते समय सूखने लगता है, रुक-रुक कर वाणी निकलती है, अपने विरुद्ध बहुत सी बातें कहता है ( पूर्व काल में कही हुई बात के विरोध में कह ले जाता है ) पूछने पर तत्काल उत्तर नहीं देता; देखने पर सामने आँख उठा कर नहीं देखता, ओठों को टेढ़ा करता रहता है ( काटा करता है ) मन, वाणी, शरीर और कर्म के स्वभाव से परिवर्तित हो गया हो—इस प्रकार के व्यक्ति अभियोग और साक्ष्य में दुष्ट कहे गये हैं ॥ १३-१५ ॥ संदिग्धार्थे स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । न चाहूतो वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ॥ १६ ॥ किंच, संदिग्धमर्थमधमर्णेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः साधयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्नं साधनेन वा साधितं याच्यमानो निष्पतेत् पलायेत, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति 'सोऽपि हीनो दण्ड्यश्च स्मृतः' इति संब- ध्यते । 'अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरि- ज्ञानमात्रमेव मा भूदिति 'दण्ड्य'ग्रहणम् । दण्ड्यस्य चापि 'शास्योऽप्यर्थाच्च हीयत' इत्यार्थाद्धीनत्वदर्शनात्तन्मा भूदिति 'हीन' ग्रहणम् ॥ १६ ॥ भाषा—जो सन्दिग्ध धन अपनी इच्छा से ( बिना किसी प्रमाण के ) लेना चाहे और जो व्यक्ति स्वयं स्वीकार किये गये या प्रमाणित हुए धन के माँगने पर भाग जाय, जो अभियुक्त राजा द्वारा बुलाये जाने पर कुछ भी उत्तर न दे, वे सभी पराजित होते हैं और दण्ड के भागी कहे गये हैं ॥१६॥ अथ यत्र द्वावपि युगपद्धर्माधिकरणं प्राप्तौ भाषावादिनौ । तद्यथा—कश्चि- त्प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं गतः । अन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं १. दुर्ज्ञानत्वात् । १२ या०
१८० याज्ञवल्क्यस्मृतिः
गतः । ततो द्वावपि युगपदागत्य 'मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रम्' इति पर- स्परं विवदमानौ धर्माधिकरणं प्राप्तौ तत्र कस्य क्रियेत्याकाङ्क्षित आह— साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ १७ ॥ उभयतः उभयोरपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः 'पूर्वस्मिन्काले मया प्रतिगृहीतमुपभुक्तं च' इति यो वदत्यसौ पूर्ववादी, न पुनर्यः पूर्वं निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा त्वन्य एवं वदति 'सत्यमनेन पूर्वं प्रतिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्यं दत्तम्' इति, 'अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तम्' इति तत्र पूर्वपक्षोऽसाध्य- तयाऽधरीभूतैस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति ॥ इदमेव व्याख्यानं युक्ततरम् । मिथ्यो- त्तरे पूर्ववादिनः साक्षिणो भवन्ति ॥ प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्त- रवादिनः साक्षिणो भवन्तीति व्याख्यानमयुक्तम् । अस्यार्थस्य 'ततोऽर्थी लेख- येत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्व- व्याख्यानमेव स्पष्टीकृतं नारदेन—'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥' इत्युक्त्वा—'द्वयोर्विवदतोर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥' इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वाद् भेदेनोपन्यासः ॥ १७ ॥ भाषा—दोनों ओर के साक्षी आये हों तो पहले अपना पूर्वकाल में अधिकार बताने वाले साक्षी की बात सुने । यदि पूर्वपक्ष कमजोर हो तो बाद के समय में अपना अधिकार बताने वाला साक्षियों से पूछना चाहिए ॥ १७ ॥ सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् । दण्डं च स्वपणं चैव धनिने धनमेव च ॥ १८ ॥ अपि च, यदि विवादो व्यवहारः सपणः-पणनं पणः, तेन सह वर्तत इति सपणः, स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं राज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपावेशवशात् 'यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामि' इति प्रति- जानीते, अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश्च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो दण्डं दाप्यः, न पणम्; 'स्वपणं ४ च' इति विशेषोपादानात् । यत्र त्वेकः १. कारिणं । २. साक्षिषु सत्सु । ३. स्तस्मिन्पक्षे । ४. सपणं ।
शतम्, अन्यस्तु पञ्चाशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यौ । ‘सपणश्चेद्विवादः स्यात्’ इति वदता पणरहितोऽपि विवादो दर्शित इति ॥ १८ ॥ भाषा—यदि सपण (शर्त लगाकर) विवाद हो रहा हो और पण की प्रतिज्ञा करने वाला हारता है तो उससे प्रतिज्ञात धन (राजा) दिलावे । वे दोनों ही यदि कम और अधिक धन की शर्त लगावें तो पराजय स्वीकार करने वाले से पण दिलवाये और धन के अधिकारी को धन दिलवाये ॥ १८ ॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ १९ ॥ किंच, छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्त्वानुसारेण व्यवहारान्नयेदन्तं नृपः । यस्माद् भूतमपि वस्तुतत्त्वमपि अनुपन्यस्तमनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद् भूतानु- सरणं कर्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायैः । तथा सति साक्ष्यादिनिरपेक्ष्येणैव निर्णयो भवति ॥ अथ सर्वथापि भूतानुसरणं न शक्यते कर्तुं, तथा सति साक्ष्यादिभिर्निर्णयः कार्य इत्यनुकल्पः । यथोक्तम्- 'भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृतः । भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो मुख्यः, छलानुसारी स्वनुकल्पः । साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्व- नुसरणं भवति, कदाचिन्न भवति; साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥१९॥ भाषा—छल (प्रमाद से कही हुई बात) को छोड़कर राजा वस्तुस्थिति के अनुसार व्यवहारों का निर्णय करे । सच्ची बात होने पर भी उसे न कहने पर व्यवहार में पराजित ही होता है ॥ १९ ॥ 'भूतमप्यनुपन्यस्तं हीयते व्यवहारतः' (व्य० १९) इत्यत्रोदाहरणमाह— निह्नुते³ लिखितं नैकमेकदेशे विभावितः । दाप्यः सर्वं नृपेणार्थे न ग्राह्यस्त्वनिवेदितः ॥ २० ॥ नैकमनेकं सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्वमेव निह्नुतेऽपजानीते तदर्थिनैकदेशे हिरण्ये साक्षादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस्त्वनिवेदितः 'पूर्वं भाषाकाले अनिवेदितः पश्चादर्थिना पूर्वं मया विस्मृतः' इति निवेद्यमानो
१. तस्मात् । २. तत्त्वार्थयुक्तं यत्प्रमादाभि । ३. निह्नवे लिखि- तेऽनेकमेकदेशविभा ।
१८२ याज्ञवल्क्यस्मृतिः न ग्राह्यो १नोदर्तव्यो नृपेण । एतच्च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयादेकदेशान्तरेऽपि मिथ्यावादित्वसंभवात् । एवं तर्कापरना- मसंभावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनात्सर्वं दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यव- हारदर्शिनां न दोषः । तथा च गौतमः (११।२३, २४)-'न्यायाधिगमे तर्कोऽभ्यु- पायस्तेनाभ्यूह्य यथास्थानं '२गमयेत्' इत्युक्त्वा, 'तस्माद्राजाचार्यावनिन्द्यौ' (११। ३२) इत्युपसंहरति । न चैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । 'एकदेशविभावितो नृपेण सर्वं दाप्यः' इति वचनात् ॥ यत्तु कात्यायनेनोक्तम्- 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवाऽसौ लभते साधितं धनम् ॥' इति, ३तत्पुत्रादिदेयपित्राद्यृणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जाना४मीति प्रतिवदन्निह्नववादी न भवतीत्येकदेशविभावितोऽपि न क्वचि- द्यसत्यवादीति 'निह्नुते लिखितं नैकम्' (व्य० १९) इति शास्त्रं तत्र न प्रवर्तते । निह्नवाभावादपेक्षिततर्काभावाच्च !-'अनेकार्थाभियोगेऽपि' इति कात्यायनवचनं तु सामान्यविषयं, विशेषशास्त्रस्य विषयं निह्नोत्तरं परित्यज्याऽज्ञानोत्तरे प्रवर्तते ॥ अनु 'ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाऽप्यधिके वार्थे प्रोक्ते साध्यं न सिद्ध्यति ॥' इति वदता कात्यायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्ध्यतीत्युक्तम् । तथा सत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या ? उच्यते, -लिखितसर्वार्थसाधनतयो- पन्यस्तैः साक्षिभिरेकदेशाभिधानेऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्ध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्ध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणा- न्तरस्यावसरोऽस्त्येव; 'छलं निरस्य' इति नियमात् । साहसादौ तु सकलसा- ध्य५साधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव; तावतैव साहसादेः सिद्धत्वात् , कात्यायनवचनाच्च- 'साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ॥' इति ॥ २० ॥ भाषा-अर्थी द्वारा लिखाई गई (सुवर्ण, रजत आदि) वस्तुओं में यदि प्रत्यर्थी अनेक का लेना अस्वीकार करता है और इसका एक भी वस्तु लेना सिद्ध हो जाता है तो राजा उससे सभी धन या वस्तुएँ दिलवाये । अर्थी को भी वे वस्तुएँ नहीं लेनी चाहिए, जिनके लिये उसने निवेदन न किया हो ॥ २० ॥ १. न दापयितव्यो । २. न्यायज्ञाने तर्क उपायस्तेन तर्केण न्यायमभ्यूह्य निश्चित्य नाभ्युपेत्य । ३. तत्पुत्रादृण । ४. मीति वदन् । ५. उपदिष्टैः ।
[Header] व्यवहाराध्यायः १८३
ननु 'निह्नुते लिखितं नैकम्' (व्य० २०) इतीयं स्मृतिस्तथा 'अनेकार्थाभि- योगेऽपि' इतीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबा- धनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह— १स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहारार्थ विषयव्यवस्थापना- दावुत्सर्गापवादादिलक्षणो न्यायो बलवान् समर्थः । स च न्यायः कुतः प्रत्येयव्य इत्यत आह—व्यवहारत इति । व्यवहाराद् वृद्धव्यवहारादन्वयव्यतिरेकलक्षणाद- वगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विष- यव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥ एवं सर्वत्र च प्रसङ्गेऽपवादमाह— अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥ 'धर्मशास्त्रानुसारेण' इत्यनेनैवौशनसाद्यर्थशास्त्रस्य निरस्तत्वात् धर्मशास्त्रान्त- र्गतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्यो- विरोधे अर्थशास्त्राद्धर्मशास्त्रं बलवदिति स्थितिर्मर्यादा । यद्यपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्त्रार्थशास्त्रयोर्विरोधेऽर्थशास्त्रस्य बाध एव न विषयव्यवस्था, नापि विकल्पः । किमत्रोदाहरणम् ? न तावत्—'गुरुं वा बाल- वृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । ३प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्यु- मृच्छति ॥' ( मनुः ८।३५०-५१ ) तथा—'नाततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्यर्थशास्त्रम्, 'इयं विशुद्धिरुदिता प्रमाप्याकामतॊ द्विजम् । कामतो ब्राह्मणवधे' निष्कृतिर्न विधीयते ॥' ( मनुः ११।८९ ) इत्यादि धर्मशास्त्रं, तयोर्विरोधे धर्मशास्त्रं बल- वदिति युक्तम् ॥ अनयोरेकविषयत्वासंभवेन विरोधाभावान्न बलाबलचिन्ताऽ- वतरति । तथा हि—'शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते' (मनुः ८।३४८) इत्युपक्रम्य—'आत्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च ५घ्नन्धर्मेण न दण्डभाक् ॥' ( मनुः ८।३४९ ) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायां च—'आततायिनमुत्कृष्ट-
१. स्मृतेर्विरोधे । २. परस्परविरोध । ३. प्रकाशं वाऽप्रकाशं वा । ४. वेदान्तपारगम् । ५. न दुष्यति ।
१८४ याज्ञवल्क्यस्मृतिः
शास्त्रेण हनन्न दण्डभाक्' इत्युक्तवा तस्यार्थवादार्थमिदमुच्यते 'गुरुं वा बालवृद्धौ वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्यात्ततायिनो हन्यात्किमुतान्यानिति । 'वा'शब्दश्रवणात् 'अपि वेदान्तपारगम्' इत्यत्र 'अपि'शब्दश्रवणान्न गुर्वादीनां वध्यत्वप्रतीतिः; 'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्तुवच- नाच्च, 'आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् । न हिंस्याद् ब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः ॥' इति ( ४।१६२ ) मनुवचनाच्च । आचार्यादीनामा- ततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा; हिंसामात्रप्रतिषेधस्य सामान्य- शास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे दोषो हन्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव । यतः 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥' यथा—'उद्यतासिविषाग्निश्च शापोद्यत- करस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानैवाततायिनः ॥ इति सामान्ये- नाततायिनो दर्शिताः । अतश्च ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थं हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपद्येरंस्तत्र लघु प्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । तस्मादन्यदिहोदाहरणं वक्तव्यम् । तदुच्यते,— 'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्तौ' (आ० ३५१) इत्यर्थशास्त्रम् ।—'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' ( व्य० १ ) इति धर्मशास्त्रम् । तयोः क्वचिद्विषये विरोधो भवति । यथा—'चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति, न धर्मशास्त्रमनुसृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति, मित्रलब्धि- र्विपरीता, तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् । अत एव 'धर्मार्थसंनिपाते अर्थ- ग्राहिण एतदेव' इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २१ ॥
भाषा—जब दो स्मृतियों ( धर्मशास्त्र के वचनों ) में परस्पर विरोध हो तो व्यवहार से दिया गया न्याय बलवान् होता है । अर्थशास्त्र की अपेक्षा धर्मशास्त्र का प्रमाण अधिक सबल होता है, ऐसी ही व्यवस्था है ॥ २१ ॥
'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' ( व्य० ७ ) इत्युक्तं, किं तत्सा- धनमित्यपेक्षित आह— प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषामन्यतमाभावे दिव्यान्द्यतममुच्यते ॥ २२ ॥ प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं-मानुषं दैविकं चेति । तत्र मानुषं प्रमाणं त्रिविधं-लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं मह-
१. चतुर्णाङ्ग । २. मानवं ।
विधिः । तत्र लिखितं द्विविधं-शासनं चीरकं चेति । शासनमुक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावादुक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यम् ? उच्यते—भुक्तिरपि कैश्चिद्विशेषैर्युक्ता स्वत्वहेतुभूत- क्रयादिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाण- मुच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते; दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधि- कारिणं प्राप्तयोरेको मानुषीं क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः—'यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकम् । मानुषीं तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः ॥' इति । यत्रापि प्रधानैकदेशसाधनं मानुषं संभ- वति तत्रापि न दैवमाश्रयणीयम् । यथा 'रूपकशतम नया वृद्ध्या गृहीत्वाऽयं न प्रयच्छती'त्यभियोगापह्नवे—'ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामी'त्युक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धि- विशेषसिद्धेर्न दिव्यस्यावकाशः । उक्तं च कात्यायनेन—'यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम् ॥' इति । यत्त—'गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम्' इति, तदपि मानुषासंभव- कृतनियमार्थम् । यदपि नारदेनोक्तम्—'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥' इति; तदपि मानुषासंभव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चापवादो दृश्यते- 'प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्य- मेव च ॥' इति । तथा लेख्यादीनामपि क्वचिन्नियमो दृश्यते । यथा—'पूगश्रेणी- गणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥' तथा—'द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया । भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥' तथा—'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥' इति ॥ २२ ॥ भाषा—लिखित, भुक्ति (उपभोग, कब्जा) और साक्षी-ये प्रमाण होते हैं । इनमें से कोई (प्रमाण) न होये तब दिव्यों (एक प्रकार के शपथ) को प्रमाण विहित किया गया है ॥ २२ ॥
१. पूर्वेऽपि । २. वदतां वादिनां, दैवी विवदतां ।
१८६ याज्ञवल्क्यस्मृतिः उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वमित्यत आह— सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया । ऋणादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया—क्रियत इति क्रिया कार्यं बल- वती । उत्तरकार्ये साधिते तद्वादी विजयी भवति, पूर्वकार्ये सिद्धेऽपि तद्वादी पराजीयते । तद्यथा—कश्चिद् ग्रहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणम् , तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जयी भवति । तथा पूर्वं द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् , तत्रो- भयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वबाधेनानुत्पत्तेः । उक्तं च—'पूर्वबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति' इति ॥ अस्यापवादमाह— आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २३ ॥ आध्यादिषु त्रिषु पूर्वमेव कार्यं बलवत् । तद्यथा—एकमेव क्षेत्रमन्यस्या- ऽऽधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति; तत्र पूर्वस्यैव तद्भवति, नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्वाहितस्य तदानीमस्वत्वात्पुन- राधानमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते तस्मादिदं वचनमनर्थकम् । उच्यते—अस्वत्त्वेऽपि यदि मोहात्कश्चिल्लोभाद्वा पुनराधानादिकं करोति तत्र पूर्वं बलवदिति न्यायमूलमेवेदं वचनमित्यवोचम् ॥ २३ ॥ भाषा—( ऋण आदि ) धन के सभी विवादों में उत्तर कार्य ( बाद का प्रमाण ) बलवान् होता है; किन्तु आधि ( बन्धक, रेहन ), दान और क्रय में पूर्व कार्य ( अपना अधिकार पहले का बताने वाला पक्ष ) ही बलवान होता है ॥ २३ ॥ भुक्तेः कैश्चिद्विशेषणैर्युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याञ्चिद्भुक्तेः कार्यान्तरमाह— पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥ परेणासंबद्धेन³ भुज्यमानां भुवं धनं वा पश्यतः अब्रुवतः 'मदीयेयं भूः न त्वया भोक्तव्या' इत्यप्रतिषेधयतः तस्या भूमेर्विंशतिवार्षिकी अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वेतदनुपपन्नम्, नह्यप्रतिषेधात्स्वत्वमपगच्छति । अप्रतिषिद्धस्य⁴ दान- १. सर्वेष्वेव विवादेषु । २. जयति । ३. असंबन्धेन । ४. अप्रति- षिद्धस्य ।
[Page Header] व्यवहाराध्यायः १८७
[Main Text] विक्रयादिस्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षोप- भोगात्स्वत्वम् ; उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रमाणस्य च प्रमेयप्रत्यनुत्पादक- त्वात् , रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथा हि-स्वामी रिक्थक्रय- संविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य वर्जितम्, निर्विष्टं वैश्य- शूद्रयोः (गौ. २।१०, ३९-४२) इत्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति न भोगम् । नैचेदमेव वचनं विंशतिवर्षोपभोगस्य स्वत्वापत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते, गौतमवचनं तु नियमार्थम् ॥ अपि च 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डये- त्पृथिवीपतिः ॥' इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । नच 'अनागमं तु यो भुङ्क्ते' इत्येतत्परोक्षभोगविषयम्, 'पश्यतोऽब्रुवत' इति प्रत्यक्षभोगविषय- मिति युक्तं वक्तुम् । 'अनागमं तु यो भुङ्क्ते' इत्यविशेषाभिधानात्, नोपभोगे बलं कार्यमाहत्र्रा तत्सुतेन वा । पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥' इति कात्यायनवचनाच्च । समत्त्वभोगे च हानिकारणाभावेन हानेरसंभवात् । न चैत- न्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन भूविषये विंशतिवर्षोपभोगयुक्तायाः, धनविषये दशवर्षोपभोगयुक्तायाः, उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यत इति । यतस्तेषूत्तरैव क्रिया तत्त्वतो नोपपद्यते, स्वैमेव ह्याधेयं देयं विक्रेयं च भवति । न चाहिप्तस्य दत्तस्य विक्रोतस्य वा स्वत्वमस्ति । ५अस्वत्व- दाने प्रतिग्रहे च दण्डः स्मर्यते— 'अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति । उभौ तौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥' इति । तथाऽऽध्यादीनां त्रया- णामपवादत्वेऽस्य श्लोकस्याधिसिमादीनामुत्तरश्लोकेऽपवादो नोपपद्यते । तस्मा- द्भूष्यादीनां हानिरनुपपन्नैव; नापि व्यवहारहानिः, यतः- 'उपेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्ठतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिद्ध्यति ॥' इति नार- देनोपेक्षालिङ्गाभावकृता व्यवहारहानिरुक्ता, मत्व वस्त्वभावकृता । तथा मनुनापि (८।१४८)-'अजडश्चेदपौगण्डो विषयेँश्चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्ध- नमर्हति ॥' इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश्चैव-भोक्ता किल वदति 'अजडोऽयमपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं, तत्र बहवः साक्षिणः सन्ति; यद्यस्य स्वमन्वायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदास्ते' इति, तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तर-
[Footnotes] १. विजितं । विनिर्जितम् । २. नचेदं वचनं । ३. उत्तरविषयक्रियायाः । ४. स्वत्वविशिष्टमेव-स्वयमेव । ५. अस्वश्वस्य । ६. विषये चास्य भुञ्जते । ७. समत्वेनापवादासम्भवात् ।
स्थापि वास्तवो व्यवहारो भवत्येव । 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' (व्य० १९) इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिर्नापि व्यवहारहानिस्त- थापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भवतीति तन्निवृत्तये तूष्णीं न स्थात- व्यमित्युपदिश्यत इति । तच्च न-स्मार्तकालाया भुक्तेर्हानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यमित्येतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते-विंशतिग्रहणमूर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् । यथाह कात्यायनः- 'शक्तस्य संनिधावर्थो यस्य लेख्येन भुज्यते। विंशतिवर्षाम्यतिक्रान्तं तत्पत्रं दोषव- र्जितम् ॥' इति, तदपि न'-आध्यादिष्वपि विंशतेरूर्ध्वं पत्रदोषोद्भावननिराकरणस्य संत्वेनाधिसिमेत्याद्यपवादासम्भवात् । यथाह कात्यायनः-'अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः । तेन लेख्येन तत्सिद्धिलेंख्यदोषविवर्जिता ॥' तथा-सी- माविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥' इति । एतेन 'धनस्य दशवार्षिकी' इत्येतदपि प्रयुक्तम् । तस्मादस्य श्लोकस्य सम्योऽर्थो वक्तव्यः। उच्यते-भूमेर्धनस्य च फलहानिरिह विवक्षिता, न वस्तुहानिर्नापि व्यवहारहानिः । तथा हि-निराक्रोशं विंशतिवर्षोपभोगादूर्ध्वं यद्यपि स्वामी न्यायतः क्षेत्रं लभते, तथापि फलानुसरणं न लभते; अप्रतिषेधलक्षणा- स्वापराधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव; 'पश्यतः' इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, 'अब्रुवतः' इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते; विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि कुलस्थ स्वत्वात्तद्धानिरनुपपन्नैव । बाढम्, तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा-तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगाम्नष्टं तत्र स्वरूपनाशा- देव स्वत्वनाशः । 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि। चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समं द्रव्यदानं प्राप्तं, 'हानिर्विशतिवार्षिकी' इत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्ध्वमपि, अनागमोपभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षणस्वा- पराधादस्माच्च वचनाद्विंशतेरूर्ध्वं फलं नष्टं न लभत इति स्थितम् । एतेन 'धनस्य दशवार्षिकी, इत्येतदपि व्याख्यातम् ॥ २४ ॥ भाषा-स्वामी के देखते रहने और आपत्ति न करने पर भूमि दूसरे व्यक्ति द्वारा जोती जाने पर बीस वर्ष में उसके (स्वामी के) अधिकार से निकल जाती है और इस प्रकार धन का उपभोग दूसरा करे तो दस वर्ष के बाद स्वामी का अधिकार नष्ट हो जाता है ॥ २४ ॥ १. सम्योऽर्थो निर्दुष्टोऽर्थः सम्योऽन्योऽर्थो ।
व्यवहाराध्यायः १८६ अस्यापवादमाह- आधिसीमोप निक्षेपजडबालधनैर्विना । ^१तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः । जडश्च बालश्च जडबालौ, तयोर्धने जडबालधने; आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपकसंख्याप्रदर्श- नेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः- 'स्वं द्रव्यं यत्र विश्र- म्भान्निचिपेत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥' इति उप- निधानमुपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेर्विंशतेरूर्ध्वं धनस्य च दशभ्यो वर्षेभ्य ऊर्ध्वमप्युपचयहानिर्न भवति; पुरुषापराधस्य तथाविधस्या- भावात् , उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि-आधेराधिस्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नश्चिरकृततुषाङ्गारादिचिह्नैः सुसाध्यत्वादुपेक्षा संभवति; उपनिक्षेपोपनिध्योर्भुक्तेः प्रतिषिद्धत्वात्, प्रतिषेधाति- क्रमोपभोगे च सोद्वैयफललाभादुपैक्षोपपत्तिः । जडबालयोर्जडत्वाद्वालत्वादुपेक्षा युक्तैव; राज्ञो बहुकार्यव्याकुलत्वात् , स्त्रीणामज्ञानात्प्रागल्भ्याच्च । श्रोत्रिय- स्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः॥२५॥ भाषा-आधि ( बन्धक ), सीमा, उपनिक्षेप, जड़ ( मन्दबुद्धि ), बालक का धन, उपनिधि, राजधन, स्त्रीधन, श्रोत्रिय का धन दूसरे द्वारा दस या बीस वर्ष तक भोगे जाने पर भी अपने स्वामी के अधिकार से हीन नहीं होते हैं ॥ २५ ॥ आध्यादिषु दण्डविशेषप्रतिपादनार्थमाह- ^४आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २६ ॥ य आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्ता तं विवा- दास्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादा- स्पदीभूतद्रव्यसमं राज्ञे दापयेदिति विधिः । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि-'मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा' ( व्य० १५५) इत्यादिवक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहु- १. तथोवनिधि । २. आधित्वनिमित्तकः ३. सोदयफलभा- वात् । ४. आध्यादीनां निहन्तारं दापयेद्धनिने धनम् ।
१६० याज्ञवल्क्यस्मृतिः धनत्वेन, तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद्दापयेत् । ‘दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्’ ( गौ० ११।२८ ) इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति, सोऽपि यावता पीड्यते तावद्वाप्यः । यस्य पुनः किमपि धनं नास्ति असौ धिग्दण्डादिना दम- नीयः । तथा च मनुः ( ८।१२९ )—‘धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्त- रम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥’ इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दशधा दर्शितः । तथाह मनुः (८।१२५)—‘दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥’ इति । एतेषां यन्निमित्तापराधस्तत्रैवो पस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन— ‘धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाहते ॥’ इति । ब्राह्मणस्य पुनर्द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः ( १२।४७ )—‘कर्मवियोगविख्यापननिर्वासनाङ्ककरणान्यवृत्तौ ।’ इति । नारदेनापि ( १४।८ )—‘वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्ग- च्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः ॥’ इत्युक्त्वोक्तम्— ‘वधाहते ब्राह्मणस्य, न वधं ब्राह्मणोऽर्हति ॥’ इति ।—शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥’ ( नारदः १४।९ ) इति ॥ अङ्कने च व्यवस्था दर्शिता ( ९।२३७ )—‘गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥’ इति । यत्तु—‘चक्षुर्निंरोधो ब्राह्मणस्य’ ( २।२७।१७ ) इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुर्निंरोधः कर्तव्य इति तस्यार्थः, न तु चक्षुरुद्ध- रणम्; ‘अक्षतो ब्राह्मणो व्रजेत्’ ( मनुः ८।१२३ ) ‘न शारीरो ब्राह्मणे दण्डः’ ( गौतमः १२।४६ ) इत्यादिमनुगौतमादिवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ ॥ भाषा—आधि ( बन्धक ) आदि के हरण करने वाले से धन के अधिकारी को धन दिलवाये; उसके समान ही दण्ड राजा को दिलवाये अथवा उसकी शक्ति देखकर उसके अनुसार दण्ड निर्धारित करे ॥ २६ ॥ स्वत्वाव्यभिचारस्त्वेन भोगस्य स्वत्वे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्व- व्यभिचारित्वात्कीदृशो भोगः प्रमाणमित्यत आह— आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतम् । १. आगमोऽप्यधिको ।
व्यवहाराध्यायः १६१ स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगादप्यधिको बलीयान्; स्वत्व- बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारदः ( १।८५ )—'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥' इति । न च भोगमात्रात्स्वत्वागमः; परकीयस्याप्यपहारादिनोपभोगसंभवात् । अतएद— 'भोगं केवलतो यस्तु कीर्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥' (नारदः १८।६) इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथा च स्मर्यते—'सागमो दीर्घकालश्चाविच्छेदोऽपरवोजित्तः । प्रत्यर्थिसंनिधानश्च परिभोगोऽपि पञ्चधा ॥' इति । क्वचिच्चागमनिरपेक्षस्यापि भोगस्य प्रामाण्य- मित्याह—विना पूर्वक्रमागतादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः, तेनागतो यो भोगस्तस्माद्विना । आगमोऽभ्यधिक इति संबन्धः । स पुनरागमादभ्यधिकः आगमनिरपेक्षः । प्रमाणमित्यर्थः । तत्राप्यागमोऽज्ञातनिर- पेक्षो न सत्तानिरपेक्षः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । 'विना पूर्व- क्रमागतात्' इत्येतच्च स्मार्तकालप्रदर्शनार्थम् । 'आगमोऽभ्यधिको भोगात्' इति च स्मार्तकालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभाव- निश्चयसंभवादागमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले योग्या- नुपलब्ध्यभावेनागमाभावनिश्चयासंभवादागमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन—'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ॥' इति । स्मार्तश्च कालो वर्षशतपर्यन्तः; 'शतायुर्वे पुरुषः' इति श्रुतेः । अनुगमाभावादिति योग्यानु- पलब्ध्यभावेनागमाभावनिश्चयासंभवादित्यर्थः । अतश्च वर्षशताधिको भोगः संततोऽप्रतिरवः प्रत्यक्षश्चागमाभावे वाऽनिश्चितेऽव्यभिचारादाच्छिन्नागमः स्वत्वं गमयति । अस्मार्तेऽपि कालेऽनागमस्मृतिपरंपरायां सत्यां न भोगः प्रमाणम् । अत एव 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः॥' इत्युक्तम् । न च 'अनागमं तु यो भुङ्क्ते' इत्येकवचननिर्देशात् 'बहून्यब्दशतान्यपि' इति 'अपि'शब्दप्रयोगात्प्रथमस्यैव^२ पुरुषस्य निरागमे चिर- कालोपभोगेऽपि दण्डविधानमिति मन्तव्यम् । द्वितीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते—'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा' ( नारदः २।८७ ) इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे 'अनागमं तु यो भुङ्क्ते' इत्येतद् द्रष्टव्यम् । यदपि 'अन्यायेनापि यद्भुक्तं पित्रा पूर्व- तरैस्त्रिभिः । न तच्छक्यमपहतुं क्रमात्त्रिपुरुषागतम् ॥' इति, तदपि पित्रा सह १. अपरिवर्जित । २. प्रथमस्य पुरुषस्य ।
पूर्वंतरैस्त्रिभिरिति योज्यम् । तत्रापि 'क्रमात्त्रिपुरुषागत' मित्यस्मार्तकालोपभोग- लक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंगः । तथा सति 'स्मार्तकाले क्रिया भूमेः सा- गमा भुक्तिरिष्यते' इति स्मृतिविरोधः, 'अन्यायेनापि यद्भुक्तम्' इत्येतच्चान्याये- नापि भुक्तमपहर्तुं न शक्यं, किं पुनरन्यायानिश्चये इति व्याख्येयम्; 'अपि' शब्द- श्रवणात् । यच्चोक्तं हारीतेन - 'यद्विनाऽऽगममत्यन्तं १भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहर्तुं क्रमात्त्रिपुरुषागतम् ॥' इति, तत्राप्यत्यन्तन्तमागमं विनेति । अत्यन्तमुपलभ्यमानमागमं विनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तम् । 'क्रमात्त्रिपुरुषागतम्'- त्येतदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथा हि - यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य स्वत्वं आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् ? उच्यते, - प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गमयितुमलम् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्व- मनवद्यम् ॥ आगमसापेक्षो भोगः प्रमाणमित्युक्तम् , आगमस्तर्हि भोगनिरपेक्ष एव प्रमाणमित्यत आह- आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७ ॥ यस्मिन्नागमे स्वल्पापि भुक्तिर्भोगो नास्ति तस्मिन्नागमे बलं संपूर्णं नैवा- स्ति । अयमभिसंधिः-स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् ; परस्व- त्वापादनं च परो यदि स्वीकरोति तदा संपद्यते, नान्यथा । स्वीकारश्च त्रिविधः- मानसः, वाचिकः, कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । २कायिकः पुनरुपादानाभिमर्श- नादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते - 'दद्यात्कृष्णजिनं पृष्ठे गां पुच्छे करिणं करे । केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥' इति । आश्वलायनोऽ- प्याह- 'अनुमन्त्रयेत प्राप्यभिमृशेद्विप्राणि कन्यां च' इति । तत्र हिरण्यवस्त्रादा- वुदकदानान्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्स्वल्पेनाप्युपभोगेन भवित- व्यम् ; अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिक-
१. भुक्तं पूर्वंतरैस्त्रिभिः । २. कायिकस्तु ।