याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
व्यवहाराध्यायः २२६ यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरात्म्यात्तं प्रत्याह— न ददाति हि यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥ ७७ ॥ यः पुनर्नराधमो विप्रतिपन्नमर्थं विशेषतो जानन्नपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश्च दण्डयित्वा पुनर्व्यवहारः प्रवर्तनीयः । कृतोऽपि वा, कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः (८।११७)—'यस्मिन्यस्मि- न्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥' इति ॥ ७७ ॥ भाषा—जो नीच मनुष्य जानता हुआ भी साक्ष्य (गवाही) नहीं देता है वह कूटसाक्षियों का पाप करता और उस उन्हीं के समान दण्ड देना चाहिए ॥७७॥ साक्षिविप्रतिपत्तौ कथं निर्णय इत्यत आह— द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ ७८ ॥ साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस्तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुण- वत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये, इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् ; 'उभया- नुमतः साक्षी भवत्येकोऽपि धर्मवित्' (व्य० ७२) इति गुणातिशयस्य मुख्यत्वात् । यत्तु 'भेदात्साक्षिणः' (व्य० ६८।६९) इत्युक्तं, तत्सर्वसाम्येनागृ- ह्यमाणविशेषविषयम् ॥ ७८ ॥ भाषा—साक्षियों के कथनों में अन्तर (द्वैध) हो तो उनमें से अधिकांश की बात को, दोनों ओर समान हों तो गुणियों के कथन को और गुणियों में भी परस्पर विरोध हो तो जो सर्वाधिक गुणवान् साक्षी हों उनके वचन को ग्रहण करना चाहिए ॥ ७८ ॥ साक्षिभिश्च कथमुक्ते जयः कथं वा पराजय इत्यत आह— यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ७९ ॥ यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यमेवं जानीमो वयमिति स जयो भवति । यस्य पुनर्वादिनः प्रतिज्ञा- १. कृतेऽपि कौटसाक्ष्ये । २. यत्र गुणिनः ।
२४० याज्ञवल्क्यस्मृतिः मन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो ध्रुवो निश्चितः । यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति, तत्र प्रमाणान्तरेण निर्णयः कार्यः । न च राज्ञा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । यथाह—'स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोष- वर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥' इति ॥ ७९ ॥ भाषा—जिसकी ( जिस वादी की ) प्रतिज्ञा ( दावे ) को साक्षी सत्य करार दें वह विजयी होता है और जिस ( वादी ) की प्रतिज्ञा को वे असत्य बताते हैं उसकी निश्चित पराजय होती है ॥ ७९ ॥ 'अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः' ( व्य० ७९ ) इत्यस्यापवादमाह- उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ ८० ॥ पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः । नन्वेतदनुपपन्नम् ; अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमा- णान्तरान्वेषणेऽनवस्थादोषप्रसङ्गात्—'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥', 'यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥' ( ना० १।६३-६२ ) इति नारदवचनाच्च । उच्यते,-यदाऽर्थी प्रतिज्ञातार्थस्या- न्तरात्मसाक्षित्वेनानाविष्कृतदोषाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते ? उक्तं च—'यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः' इति ॥ यथा चक्षुरादिकरणदोषानध्यवसायेऽप्यर्थविसंवादात्तज्जनितस्य ज्ञानस्या- प्रामाण्येन करणदोषकल्पना तथेहापि; साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोप- देशाच्च ।—'साक्षिभिर्भाषितं वाक्यं सह सभ्यैः परीक्षयेत्' इति । कात्यायनेना- प्युक्तम्—'यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥' इति । क्रिया साक्षिलक्षणा, 'नार्थसम्बन्धिनो नाप्ताः' ( मनुः ८।६४ ) इति न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवा- क्यशोधनं कर्तव्यम् ; वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन; 'सत्येन शुद्धयते १. स्वाभिप्रायेण प्रतिज्ञा । २. मिथ्यासाक्षिणो । ३. कारणं दुष्टं । ४. ज्ञानस्य प्रामाण्य । ५. वाक्यपरीक्षोप॑ । -
व्यवहाराध्यायः २१९
वाक्यम्' इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच्च यः शुद्धोऽव- गतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरीदृशी मर्यादा न्यायविदाम् । कारण- दोषबाधकप्रत्ययाभावे सत्यवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीकृ- तान्त्साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ? नैष दोषः; यतः—'क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ॥' इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रह- निषेधाज्जयावधारणात्प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि ( ना० १।६२ )—'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति वदता जयावधार- णोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साध्येऽ- परितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः; 'स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्' इत्यस्य सर्वव्यवहारशेषत्वात् , 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥' ( ना० १।६२ ) इति नारदवचनाच्च । पूर्वनिर्दिष्टानामसम्भवे स्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यं; 'सम्भवे साक्षिणां प्राज्ञो वर्जयेद्दैविक क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं प्रमाणीकर्तव्यम् । अतः परमपरितुष्यताप्यर्थिना न प्रमाणान्तरमन्वेषणीयमवच- नादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपेणापरितोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावान्सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च दोषावधारणे साक्षिणो विवादस्पदीभूतमृणं दाप्याः, सारापु- सारेण दण्डनीयाश्च । अथ दोषानवधारणं, तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः ( ८।१०८ )— 'यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥' इति । एतच्च 'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्य अपरिसुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केचितु 'उक्तेऽपि साक्षिभिः साध्ये' ( व्य० ८० ) इत्येतद्वचनमर्थिना निर्दिष्टेषु साक्षिष्वर्थ्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान्द्विगुणान्वाऽन्यान्साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते,– तदसत्; प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि—अर्थी नाम साध्यस्यार्थस्य
१. शुद्धाच्च वाक्याद्यः शुद्धो । २. कृताः साक्षिणो । ३. तथाविधा एव साक्षिणो ग्राह्याः । ४. प्रमाणं कर्तव्यं । ५. मनुवचनात . यमवचनात् । ६. दोषावधारणं ।
२३२ याज्ञवल्क्यस्मृतिः निर्देष्टा, तत्प्रतिपक्षस्तदभाववादी प्रत्यर्थी, तत्राभावस्य भावसिद्धिसापेक्षसिद्धि- त्वाद्भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद्भावस्यैव साध्यत्वं युक्तम् ; अभावस्य^२ स्वरूपेण साध्यादिप्रमेयत्वाभावात् । अतश्चार्थिन एव क्रिया युक्ता । अपि चोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति । न चैकस्मिन्व्यवहारे द्वयोः क्रिया; 'नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वाऽन्यथा ब्रूयुरित्यनुपपन्नम् ॥ अथ मतम्-यत्र द्वावपि भावप्रतिज्ञावादिनौ 'मदीयमिदं दायादप्राप्तं मदीयमिदं दायादप्राप्त'मिति प्रतिज्ञावादिनोः पूर्वापरकालविभागा- नाकलिंतमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्या- काङ्क्षायां-'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवे- युस्तस्य साक्षिणः ॥' इति वचनेन यः पूर्वं निवेदयति, तस्य साक्षिणो ग्राह्या इति स्थिते, तस्यापवादः-'उक्तेऽपि साक्षिभिः साध्ये' इति । अतश्च पूर्वोत्त- रयोर्वा दिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववादिन एव साक्षिणः प्रष्टव्याः । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रति- वादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता; उभयोरपि भाववादि- त्वात्, चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन्व्य- वहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वयेऽ- प्यविरोध इति । तदप्याचार्यो नानुमन्यते- 'उक्तेऽपि साक्षिभिः साध्ये' इत्यवि- झाब्दादर्थात्प्रकरणाद्वाऽस्यार्थस्यानवगमादित्यलं प्रसङ्गेन ॥ ८० ॥ भाषा—साक्षियों के अपना वक्तव्य (बयान) दे लेने पर जो दूसरी प्रकृष्ट गुणवाले व्यक्ति या उनसे दूने व्यक्ति अन्यथा (उनके वक्तव्य के विप- रीत) कहें तो वे पहले के साक्षी कूट साक्षी हो जाते हैं ॥ ८० ॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह— पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१ ॥ यो धनदानादिना कूटान्त्सान्क्षिणः करोति स कूटकृत्, साक्षिणश्च ये तथा कूटान्ते विवादान्नाम विर्वादास्पदजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं १. वाभावनिरपेक्ष । २. अभावस्वरूपेण । ३. कस्मिन्विवादे । ४. पवादमाह । ५. प्याचार्या नानुमन्यन्ते । ६. विवादाद्विवादपराजयै, 'विवादास्पदपराजयै ।
[Header] व्यवहाराध्यायः २३३
द्विगुणं पृथक्पृथगेकैकशो दण्डनीयाः । ब्राह्मणस्तु विवास्यो राष्ट्रात्रिर्वास्यः, न¹ दण्डनीयः । एतच्च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम्² । लोभादिकारणविशेषपरिज्ञानेऽभ्यासे च मनूक्तम् (८।१२०-२१)—'लोभा- त्सहस्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ³ मैत्र्यात्पूर्वं चतुर्गुणम् ॥ कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । अज्ञानाद् द्वे शते पूर्णे बालिश्याच्छतमेव तु ॥' इति । तत्र लोभोऽर्थलिप्सा, मोहो विपर्ययज्ञानम् , भयं संत्रासः, मैत्री स्नेहातिशयः, कामः स्त्रीव्य⁴तिकराभिलाषः, क्रोधोऽमर्षः । अज्ञानमस्फुटज्ञानम्, बालिश्यं ज्ञानानुत्पादः । - सहस्रादिषु तान्त्रिकाः पणा गृह्यन्ते । तथा (मनुः ८।१२३)- 'कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥' इति, एतच्चाभ्यासविषयम् ; कुर्वा- णानिति वर्तमान⁵निर्देशात् । त्रीन्वर्णान्वक्षत्रियादीन् पूर्वोक्तं दण्डं दण्डयित्वा प्रवा- सयेन्मारयेत् । अर्थशास्त्रे 'प्रवास'शब्दस्य मारणे प्रयोगात् , अस्य चार्थशास्त्ररूप-⁶ त्वात् । तत्रापि प्रवासनमोष्ठच्छेदने जिह्वाच्छेदनं प्राणवियोजनं च कूटसाक्ष्य- विषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रात्रिष्कासयेत् । यद्वा, -वाससो विगती विवासाः । विवासनं करोतीति णिचि कृते 'णाविष्ठव- त्प्रातिपदिकस्य' इति टिलोपे रूपम् । विवासयेत् नग्नीकुर्यादित्यर्थः । अथवा वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भग्नगृहं कुर्यादित्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे स्वर्थ- दण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृह- भङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञानेऽ- नभ्यासे चाल्पविषये कूटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम् । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नग्नीकरणगृहमङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत; 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥' इति स्मरणाच्च । तथा (मनुः ८।३७८ )-'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन्' इति स्मरणात् । यत्तु शङ्खवचनम्- 'त्रयाणां वर्णानां धनापहारवध-बन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य' इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितः वधसाहचर्यात् ; 'शारीर- स्त्ववरोधादिर्जीवितान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्त-
[Footnotes] १. न दण्ड्याः । २. द्रष्टव्यम् । ३. भयादौ मध्यमो दण्डो । ४. स्त्रीव्य- तिरेकाभि । ५. वर्तमानकाल । ६. शास्त्रस्वरूप ।
स्तथैव च ॥' ( नारदः परि० ५४ ) इति वधसर्वस्वहरणयोः सहपाठात् । यदप्युक्तम्—'राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम्' इति, तत्प्रथम- कृतसाहसविषयं; न सर्वविषयम् । शारीरस्तु ब्राह्मणस्य न कदाचिद्भवति । 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' ( मनुः ८।३८० ) इति सामा- न्येन मनुस्मरणात् । तथा मनुः ( ८।३८१ )—'न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ॥' इति ॥ ८१ ॥ भाषा—( धन लेकर ) मिथ्या बोलने वाले कूट-साक्षियों में प्रत्येक से उस विवाद में हारने वाले पर जितना दण्ड हो उससे दूना धन दण्ड के रूप में लेवे और यदि वह कूटसाक्षी ब्राह्मण हो तो उसे अपने राज्य से निर्वासित करे ॥ ८१ ॥ जानतः साक्ष्यानङ्गीकारे आह— यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ ८२ ॥ अपि च, यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सद्भिगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यः साक्षिभ्यो निह्नुते—'नाहमत्र साक्षी भवामि' इति, स विवादपराजयो यो दण्डस्तं दण्ड- मष्टगुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थं विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेशनिर्वासनलक्षणं विषयानुसारेण द्रष्टव्यम् । इत- रेषाम् त्वष्टगुणद्रव्यदण्डदानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवे- शादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसर्तव्यम् । यदा सर्वे साक्ष्यं निह्नुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति, तदानुबन्धाद्यपे- क्षया दण्ड्याः । यथाह कात्यायनः—'उक्त्वाऽन्यथा ब्रुवाणाश्च दण्ड्याः स्युर्श- ङ्खलान्विताः' इति । न चान्येनोक्ताः साक्षिणोऽन्येन रहस्यनुसर्तव्याः । यथाह नारदः ( १।१६५ )—'न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेन्नैव चान्येन ^२हीयेतैवं समाचरन् ॥' इति ॥ ८२ ॥ भाषा—जो साक्षी होना स्वीकार करके अन्य साक्षियों के साथ शपथ दिलाये जाने पर साक्षी होने से विरत होता है उससे विवाद के हारने पर जो दण्ड हो उसका आठ गुना धन दण्ड के रूप में ले और यदि वह ब्राह्मण हो तो उसे राज्य से निर्वासित करे ॥ ८२ ॥ साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रतिषिद्धं, तदपवादार्थमाह— वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । १. दण्डासंभवे । २. हीयेच्चैवं । ३. वदेत् । साक्ष्यमनृतम् ।
व्यवहाराध्यायः २३५ यत्र वर्णिनां शूद्रविट्क्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धमसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने कस्यापि वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस्तत्र तूष्णीं- भावाभ्यनुज्ञा राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसाक्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदोषोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोष एव, ^१तत्र च यथा- शास्त्रं प्रायश्चित्तं कर्तव्यम् ॥- तर्ह्यसत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात्प्रत्यवायाभाव इत्यत आह— तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ ८३ ॥ तत्पावनाय अनृतवचनावचननिमित्तप्रत्यवायपरिहाराय सारस्वतश्च- रुर्द्विजैरेकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः । अनवस्त्रावितान्तरूष्मपक्वौदने 'चरु'शब्दः प्रसिद्धः । इहायमभिसन्धिः—'साक्षि- णामनृतवचनमवचनं च यन्निषिद्धं तदिहाभ्यनुज्ञातम् । यत्तु—'^२नानृतं वदेत् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी' ( मनुः ८।१३ ) इति सामान्येनानृत- वचनमवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । नच मन्तव्यं साक्षिणामनृतवचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रम- निमित्तकप्रत्यवायस्य तादव^४स्थ्यादभ्यनुज्ञावचनमनर्थकमिति । यतः साक्ष्यनृत- वचनावचनयोर्भूयान्प्रत्यवायः साधारणानृतवचनावचनयोरल्पीयानित्यर्थवदभ्य- नुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्या भानुषङ्गिकस्याल्पीयसः प्रत्य- वायस्य निवृत्तिरन्यत्र तथापीहाभ्यनुज्ञावचनात्प्रायश्चित्तविधानाच्च भूयसो निवृ- त्याल्पीयानप्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतदेवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनामनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । नच तत्र प्रायश्चित्तमस्ति; प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्त्वा- वगमेऽपि साक्षिणामन्येषां च दण्डाभावोऽस्मादेव वचनादवगम्यत इति ॥ ८३ ॥ भाषा—जहाँ सत्य बोलने से चारों वर्णों में किसी वर्ण के व्यक्ति के वध की संभावना हो वहाँ साक्षी झूठ बोले । उस ( असत्यभाषण ) की शुद्धि के लिए द्विज सरस्वती देवी के लिये चरु बनाकर चढ़ावे ॥ ८३ ॥ इति साक्षिप्रकरणम् ।
१. भ्यनुज्ञया । २. नाभृतं । ३. निषिद्धं । ४. स्थ्यादवचनाभ्य- नुज्ञा । ५. साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रमयोः ।
अथ लेख्यप्रकरणम् ६
२३६ याज्ञवल्क्यस्मृतिः अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितौ, सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधम्— शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच्च द्विवि- धम्—स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं, अन्यकृतं ससाक्षि- कम् अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ( १।१३५ )— 'लेख्यं तु द्विविधं ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्ससाक्षिकं सिद्धिर्देश- स्थितेस्तयोः ॥' इति । तत्रान्यकृतमाह— यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् ॥ ८४ ॥ धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या 'इयता कालेनैतावद्दे- यम्', 'इयती च प्रतिमासं वृद्धिः'इति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमिति यावत् । कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः; 'कर्ता तु यत्कृतं कार्यं सिद्ध्यर्थं तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाऽथ लेखकम् ॥' इति स्मरणात् ॥ ८४ ॥ भाषा—जब धनी और अधमर्ण ( ऋण ) में अपनी इच्छा से परस्पर कोई बात तय हुई हो ( जैसे ऋण भुगतान का समय, वृद्धि की दर आदि ) तो साक्षियों के सामने उसे लिख देना चाहिए । लेख में धनिक ( ऋणदाता ) का उल्लेख करें ॥ ८४ ॥ समामासतदर्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ ८५ ॥ अपि च, समा संवत्सरः, मासश्चैत्रादिः, तदर्धं पक्षः—शुक्लः कृष्णो वा, अहस्तिथिः प्रतिपदादिः, नाम धनिकर्णिकयोः, जातिर्ब्राह्मणत्वादिः, स्वगोत्रं वासिष्ठादिगोत्रम् , एतैः समादिभिश्चिह्नितम् , तथा सब्रह्मचारिकं बह्वृचादि- शाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम, 'आदि'ग्रहणाद् द्रव्यजातिसंख्याचारादेर्ग्रह णम् । 'एतैश्च चिह्नितं लेख्यं कार्यम्' इति गतेन संबन्धः ॥ ८५ ॥ १. मन्यहस्तकृतं । २. सगोत्रकैः । ३. धनिकाऽधमर्णिकयोः । ४. संख्यावारादेः ।
व्यवहाराध्यायः २३० भाषा—वर्ष, मास, पक्ष, दिन, नाम, जाति और गोत्र के साथ लिखना चाहिए । तथा बह्वृच आदि वेद की शाखा, और अपने पिता का नाम लिखना चाहिए ॥ ८५ ॥ समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ ८६ ॥ किंच, धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितस्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनास्मिंल्लेख्ये यदुपरि लेखितं तन्ममामुक- पुत्रस्य मतं अभिप्रेतमिति निवेशयेत् पत्रे विलिखेत् ॥ ८६ ॥ भाषा—ऋणदाता और ऋणी में तय हुई बात लिखने के उपरान्त ऋणी अपने हाथ से अपना नाम लिखे और यह भी लिखे कि अमुक के पुत्र मुझको ऊपर लिखी हुई बात स्वीकार है ॥ ८६ ॥ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ ८७ ॥ तथा, तस्मिंल्लेख्ये ये साक्षिणो लिखितास्तेऽप्यात्मीयपितृनामलेखनपूर्वकं अस्मिन्नर्थेऽयममुको देवदत्तः साक्षी इति स्वहस्तेनैकेकशो लिखेयुः । ते च समाः संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदा- धमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः—'अलिपिज्ञ ऋणी यः स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षिणा- ऽन्येन सर्वसाक्षिसमीपतः ॥' इति ॥ ८७ ॥ भाषा—साक्षी लोग भी अपने हाथ से अपने पिता के नाम के साथ अपना नाम लिखे कि इस समय मैं अमुक के यहाँ साक्षी के रूप में उपस्थित हूँ । साक्षियों की संख्या सम होनी चाहिए ॥ ८७ ॥ उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ८८ ॥ अपि च, ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्यां प्रार्थितेन मयाऽमुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥ ८८ ॥ भाषा—तब अन्त में लेखक लिखे कि धनिक और ऋणी दोनों की प्रार्थना से अमुक के पुत्र अमुक नाम के मैंने यह लेख लिखा ॥ ८८ ॥ १. तेऽसमाः, २. काभ्यामुभाभ्यां ।
२३८ \qquad\qquad\qquad\qquad\qquad\qquad याज्ञवल्क्यस्मृतिः
सांप्रतं स्वकृतं लेख्यमाह— विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ ८९ ॥
यल्लेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृतादृते बलेन बलात्कारेण उपधिना छललोभक्रोधभय- मदादिलक्षणेन यत्कृतं तस्माद्विना । नारदोऽप्याह ( १।१३७)—'मत्ताभि- युक्तस्त्रीबालबलात्कारकृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतं तथा ॥' इति तँच्चैतत्स्वहस्तकृतं^३ परहस्तकृतं परहस्तकृतं च यल्लेख्यं देशाचारानुसारेण ^४सम्बन्धक व्यवहारेऽवन्धकव्यवहारे च युक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्य- मित्येतावत् न पुनः साधुशब्दैरेव, प्रातिस्विकदेशभाषयापि लेखनीयम् । यथाह नारदः ( १।१३६)—'देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥'इति । विधानं विधिः, आधर्विधिराधिविधिराधी- करणं तस्य लक्षणं गोप्योग्निभोग्याधिकालकृतमित्यादितद् व्यक्तं विस्पष्टं यस्मिं- स्तद्व्यक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्षरम् । अर्थानां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिंस्तदविलुप्तक्रमाक्षरं । तदेवंभूतं लेख्यं प्रमाणम् । राजशासनवन्न साधुशब्दनियमोऽत्रेत्यभिप्रायः ॥ ८९ ॥
भाषा—जो लेख अपने हाथ से लिखा होता है वह साक्षियों के विना भी प्रमाण होता है; बशर्ते वह बलपूर्वक या छल या लोभ से न लिखा गया हो ॥ ८९ ॥
लेख्यप्रसङ्गेन लेख्यारूढमप्यूणं त्रिभिरेव देयमित्याह— ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयं, तथा लेख्यकृतमप्याहर्तुं^५स्तत्पुत्रतत्पुत्रै- स्त्रिभिरेव देयं, न चतुर्थादिभिरिति नियम्यते । ननु 'पुत्रपौत्रैर्ऋणं देयम्' ( व्य० ५० ) इत्यविशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम् । अस्यैवो- त्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धं । तथा हि—पत्रलक्षणमभिधाय कात्यायनेनाभिहितम्—'एवं कालमतिक्रान्तं पितॄणां दाप्यते ऋणम्' इति । इत्थं पत्रारूढमृणमतिक्रान्तकालमपि पितॄणां संबन्धि दाप्यते । अत्र 'पितॄणाम्' इति बहुवचननिर्देशात्कालमतिक्रान्तमिति
१. विना तु । २. तन्नेतत् । ३. कृतं च लेख्यं । ४. संबन्धव्यवहारे च । ५. तत्पुत्रपौत्रैः ।
व्यवहाराध्यायः २३६ वचनाच्चतुर्थादिर्दाप्य इति प्रतीयते । तथा हारीतेनापि—'लेख्यं यस्य भवेद्धस्ते लाभं तस्य विनिर्दिशेत्' इति । अत्रापि यस्य हस्ते लेख्य (पत्र) मस्ति तस्य- र्णलाभः इति सामान्येन चतुर्थादिभ्योऽप्यृणलाभोऽस्तीति प्रतीयते । अतश्चैत- दाशङ्कानिवृत्त्यर्थमेतद्वचनमित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥—
अस्यापवादमाह— आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ ९० ॥
सबन्धकेऽपि पत्रारूढं ऋणं त्रिभिरेव देयमिति नियमादृणापाकरणाधि- कारेणौऽध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्य- धिकारो दर्शितः । नन्वेतदप्युक्तमेव 'फलभोग्यो न नश्यति' (व्य० ५८) इति । सत्यम् । तदप्येतस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम् ॥ ९० ॥
भाषा—लिखा गया ऋण तीन पीढ़ी तक ही देय होता है । और आधि (बन्धक) का भोग उस समय तक किया जाता है जब तक कि ऋण न लौटाया जाय ॥ ९० ॥
प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुसरति— देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे ह्ते तथा । भिन्ने ४दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ ९१ ॥
व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्यन्त- व्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिग्धमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तत् दुर्लेख्यं तस्मिन्दुलेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे अग्निना प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं ६द्विर्भवति । एत- च्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तर- स्थपत्रानयनायाध्वापेक्षया कालो दातव्यः । ८दुर्गदेशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्यः । यथाह नारदः ( ११।४२)—'लेख्ये देशा-
१. वचनाच्च चतुर्थादिः । २. पत्रारूढे ऋणे । ३. कारणापहरणे । ४. दग्धे तथा छि। छिन्ने भिन्ने तथा दग्धे । ५. तस्करादिना । ६. द्वितीयपत्रं भवति । ७. नाय दुर्गाध्वापेक्षया । ८. दुर्देशावस्थिते ।
२४० याज्ञवल्क्यस्मृतिः
न्तरन्यस्ते शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो द्रष्टृदर्शनम् ॥' इति । सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर्दातव्यः । असतः पुनर्विद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरि- समापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः- 'अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् । राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेषः- 'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥' इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठेनोक्तम्-'यथोप- न्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारकं चैव जयपत्रकमिष्यते ॥ प्राङ्- विवाकादिहस्ताङ्कमुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जायने जयपत्रकम् ॥' इति । तथा सभासदोऽपि मैतं मेऽमुकपुत्रस्येति स्वहस्तं दद्युः ।-'सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥' इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः-'यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ॥' इति । एतच्चतुष्पाद्व्यवहार एव ।-'साधयेत्साध्यमर्थं यच्चतुष्पादान्वितं च यत् । ४राजमुद्रान्वितं चैव जयपत्रकमिष्यते ॥' ( कात्यायनः ? ) इति स्मरणात् । यत्र तु हीनता । यथा- 'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपँलायी च हीनः पञ्चविधः स्मृतः ॥' ( नारदः मा० २।३३ ) इति । तत्र न जयपत्रकमस्ति, अपि तु हीनपत्रकमेव । तच्च कालान्तरे दण्डप्राप्त्यर्थं, जयपत्रं तु प्राङ्न्यायविधिसिद्ध्य- र्थमिति विशेषः ॥ ९१ ॥ भाषा—लेख के कहीं दूसरे देश में छूट जाने पर, पढ़ने योग्य न रह जाने पर खो जाने, मिटजाने, चुरा लिये जाने, गल जाने, जल जाने अथवा फट जाने पर दूसरा लेख बनवाना चाहिए ॥ ९१ ॥ लेख्यसंदेहे निर्णयनिमित्तान्याह— ६संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसंबंधागमहेतुभिः ॥ ९२ ॥ 'शुद्धमशुद्धं वा' इति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्लेखान्तरं तेन शुद्धिः । यदि सदृशान्यक्षराणि १. दृष्टदर्शनं । २. व्यवहारे । ३. दत्तं मे । ४. मुद्राङ्कितं । ५. व्यपलायी । ६. संदिग्धलेख्ये शुद्धिः ।
[Header] [व्यवहाराध्यायः] [२४६]
[Body] भवन्ति तदा शुद्धिः स्यादित्यर्थः । 'आदि' शब्दात् साक्षिलेखकस्वहस्तलिखिता- न्तरसंवादाच्छुद्धिरिति । युक्त्या प्राप्तिर्युक्तिप्राप्तिः, देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । 'अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटते' इति युक्तिप्राप्तिः, क्रिया तत्साध्युपन्यासः, चिह्न मसाधारणं श्रीकारादि, 'सम्बन्धोऽर्थिप्रत्यर्थिनोः पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्धः, आगमोऽस्यैतावतोऽर्थस्य संभा- वितः प्राप्युपायः, एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्यात्' इत्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः । यथाह कात्यायनः—'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्' इति । साक्षि- संभवविषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम्—'न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः ॥' इति ॥ ९२ ॥ भाषा—लेख्य के विषय में सन्देह हो तो अपने हाथ से लिखे हुए लेख्य से युक्तिप्राप्ति ( इस देश में इस समय पर इस व्यक्ति पर इतना द्रव्य होता है ), क्रिया ( उसके साक्षी का उपन्यास ), चिह्न ( श्रीकार आदि ) संबन्ध ( धनी और ऋणी का पहले का पारस्परिक संबन्ध ) और आगम ( द्रव्यप्राप्ति का उपाय ) हेतुओं से शुद्धि होती है ॥ ९२ ॥ एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेव ऋणं दातुमसमर्थ- स्तदा किं कर्तव्यमित्यत आह— लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् । धनी ^२चोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥ ९३ ॥ यदाऽधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् 'एतावन्मया दत्तम्' इति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत्—'एतावन्मया लब्धम्' इति । कथम् ? स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वा, उपगतं प्रवेशपत्रं स्वह- स्तलेखित^३चिह्नितमधमर्णायोत्तमर्णो दद्यात् ॥ ९३ ॥ भाषा—ऋणी धन देकर लेख्य के पीछे लिख दिया करे । धनी भी धन प्राप्त करके अपना हस्ताक्षर करके उपगत (प्राप्तिपत्र, रसीद) देवे ॥ ९३ ॥ ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह— दत्त्वर्णं पाटयेल्लेख्यं शुद्ध्यै वाऽन्यत्तु कारयेत् । क्रमेण सकृदेव वा कृत्स्नमृणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यल्लेख्यं
[Footnotes] १. संबन्धप्राप्तिः । २. चोपगतं । ३. लिखितपरिचिह्नित ।
२४२ याज्ञवल्क्यस्मृतिः
कार्येहुत्तमर्णेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रमधमर्णाय दद्यादि- त्यर्थः ॥— ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्तव्यमित्यत आह— साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ ९४ ॥ यत्तु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दद्यात् ॥ ९४ ॥ भाषा—ऋण देकर लेख को काट दे अथवा ऋणी की निवृत्ति के लिए धनी दूसरा लेख्य लिखावे । जो ऋण साक्षियों के सामने लिया गया हो उसे उन्हीं साक्षियों के सामने ही लौटाना चाहिए ॥ ९४ ॥ इति लेख्यप्रकरणम् । अथ दिव्यप्रकरणम् ७ लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणमभिधास्यन् ‘तुलाग्न्याप’ इत्यादिभिरौद्यैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति— तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहँनिवृत्तये दातव्यानीति ॥— नन्वन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति—‘घटोऽग्निरुदकं चैव विषं कोशस्तथैव च । तण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः ॥’ इति पितामह- स्मरणात् । अतः कथमेतावन्त्येवेत्यत आह— महाभियोगेष्वेतानि एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्या- नीति । महत्त्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोश⁶ इष्यते; ‘कोश- मल्पेऽपि दापयेत्’ इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महा- भियोगेष्वेवेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोगे एव स्यात् ; ‘अवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत् । तण्डु- लाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥’ इति स्मरणात् ॥
१. उत्तमर्णं अध । २. भिभिरारभ्य । ३. संदिग्ध । ४. अन्यत्रान्या । ५. योगे ष्वेतानि । ६. कोशोऽस्स्येव ।
व्यवहाराध्यायः २४३ महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्तावपवादमाह— —शीर्षकस्थेऽभियोक्तरि ॥ ९५ ॥ एतानि तुलादीन्यभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरो व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस्तेन च दण्डो लक्ष्यते, तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्डभागित्यर्थः ॥ ९५ ॥ भाषा—तुला, अग्नि, जल, विष और कोश ये शुद्धि (संदेह-निवृत्ति) के लिये दिव्य कहे गये हैं। इनका प्रयोग महाभियोगों में होता है और वह भी प्रमुख अभियुक्त के लिए अभियोक्ता के शीर्षकस्थ होने पर किया जाता है (शीर्षकस्थ = जय-पराजय का भागी।) ॥ ९५ ॥ 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इति भावप्रति- ज्ञावादिनेव 'क्रियेति व्यवस्था दर्शिता तदपवादार्थमाह— रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः । रुच्याभियोक्त्रभियुक्तयोः परस्परसं प्रतिपत्त्याऽन्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽभियुक्तोऽभियोक्ता वा शिरः शारीरमर्थदण्डं वा वर्तयेद- ङ्गीकुर्यात् । अयमभिसन्धिः—न मानुषप्रमाणवद्दिव्यं प्रमाणं भावैकगोचरं अपि तु भावाभावविशेषेण गोचरयति । अतश्च मिथोत्तरे प्रत्यवस्कन्दने प्राङ्- न्याये वाऽर्थिप्रत्यर्थिनोरन्यतरस्येच्छया दिव्यं भवतीति ॥— अल्पअभियोगे महाभियोगे शङ्कासावष्टम्भयोश्च्यविशेषेण कोशो भवतीत्युक्तं, तुलादीनि विषयान्तरानि तु महाभियोगेष्वेव सावष्टम्भेष्वेवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्वेवेत्यस्यापवादमाह— विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ ९६ ॥ राजद्रोहाभिशङ्कायां ब्रह्महत्यादिपातकाभिशङ्कायां च शिरःस्थायिना विना- पि तुलादीनि कुर्यात् महाचौर्याभिशङ्कायां च । यथाह—'राजभिः शङ्कितानां च निर्दिष्टांनां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥' इति । तण्डुलाः पुनरल्पचौर्यशङ्कायामेव ।—'चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तमाषस्तु महाचौर्याभिशङ्कायामेव; 'चौर्य- शङ्काभियुक्तानां तप्तमाषो विधीयते' इति स्मरणात् । अन्ये पुनः शपथा अल्पा- र्थविषयाः, 'सत्यं वाहनशस्त्राणि गोबीजकनकानि च । देवतापितृपादांश्च दत्तानि सुकृतानि च ॥ स्पृशेद्विच्छिरांसि पुत्राणां दाराणां सुहृदां तथा । अभियोगेषु १. क्रियाव्यवस्था । २. भवतीति युक्तं । ३. राजद्रोहे । १६ या०
२४४ याज्ञवल्क्यस्मृतिः सर्वेषु$^१$ कोशपानमथापि वा ॥ इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥' इति नारदस्मरणात्$^२$ ॥ यद्यपि मानुषप्रमाणानिर्णयस्य निर्णायकं यत्तद्दिव्यमिति लोकप्रसिद्ध्या शपथानामपि दिव्यत्वं तथापि कालान्तरनिर्णयनिमित्तत्वेन सम- नन्तरैर्निर्णयनिमित्तेभ्यो घटादिभ्यो दिव्यभ्यो भेदव्यपदेशो ब्राह्मणपरिव्राजक- वत् । कोशस्य तु शपथत्वेऽपि घटादिषु पाठो महाभियोगविषयत्वेनावष्टम्भाभियो- गविषयत्वेन च घटादिसाम्यान्नतु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्त- माषस्य च समनन्तरनिर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च घटादि- वैलक्षण्यात्तेष्वपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश्च यथासंभवमृणा- दिषु विवाद्वेषु प्रयोक्तव्यानि । यत्तु—पितामहवचनम् 'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति, तदपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम् । ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवकाश एव । सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाध्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि भवति । $^६$साक्षिणामाशयदोषसंभावादिव्यस्य च निर्दोषत्वेन वस्तुतत्त्वविष- यत्वात्तल्लक्षणत्वाच्च धर्मस्य । यथाह नारदः—'तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥' इति । स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यमिति विकल्पनिराकरणार्थं 'स्थावरेषु विवादेषु' इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम्; लिखितसा- मन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् ॥ ९६ ॥ भाषा—अथवा इच्छानुसार इन्हें अभियुक्त और अभियोक्ता दोनों में किसी के लिये किया जाता है; अथवा वे दोनों ही शारीरिक या आर्थिक दण्ड स्वीकार करें । राजद्रोह और ब्रह्महत्यादि पातक में बिना जय-पराजय के विचार के इनका प्रयोग किया जाता है ॥ ९६ ॥ दिव्ये साधारणविधिः— $^७$सचैलं स्नातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ ९७ ॥ किंच, पूर्वेद्युरुपोषितमुदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणमाहूय नृपस्य सभ्यानां च ब्राह्मणानां संनिधौ सर्वाणि दिव्यानि कारयेत्प्राड्विवाकः—'त्रिरात्रो- १. साध्येसु । सर्वेषु कोशपान । २. नारदादि । ३. नन्तरनिमित्तनिर्ण- येभ्यो । ४. न्तरसद्भावे । ५. उक्तलक्षणे । ६. माशये दोष । ७. सचैलस्नान- माहूय ।
व्यवहाराध्यायः २४५
पोषिताय स्युरेकरात्रोषिताय वा । नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥' इत्युपवासविकल्पः पितामहेनोक्तो बलवद्दुर्वलवन्महाकार्य्याल्पकार्य्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश्च कारयितुः प्राड्विवाकस्यापि—'दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥' इति पितामहवचनात् ॥ अत्र यद्यपि सूर्योदय इत्यविशेषेणोक्तं, तथापि शिष्ट- समाचाराद्भानुवासरे दिव्यानि देयानि । तत्रापि—'पूर्वाह्नेऽग्निपरीक्षा स्यात्पू- र्वाह्ने च घटो भवेत् । मध्याह्ने तु जलं देयं धर्मतत्त्वमभीप्सताम् ॥ दिवसस्य तु पूर्वाह्ने १कोशशुद्धिर्विधीयते । रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥' इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्त२कालविशेषाणां तण्डुलतप्तमाष- प्रभृतीनां पूर्वाह्न एव प्रदानम्; 'पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्ति- तम्' इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते ३पूर्वो भागः पूर्वाह्नः, मध्यमो मध्याह्नः, ४उत्तरोऽपराह्नः । तथापरोऽपि काल- विशेषो विधिप्रतिषेधमुखेन दर्शितः । विधिमुखस्तावत्—'अग्नेः शिशि- रहेमन्तौ वर्षाश्चैव प्रकीर्तिताः । शरद्ग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥ चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरो- धिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥' इति । 'कोश' ग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानभिधानात्सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि—'५न शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् । न प्रावृषि विषं दद्यात्प्रवाते न तुलां तथा ॥ नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥' इति । 'न शीते तोयशुद्धिः स्या'दित्यत्र 'शीत' शब्देन हेमन्त-शिशिर-वर्षाणां ग्रहणम् । 'नोष्णकालेऽग्निशोधन'मित्यत्र 'उष्णकाल' शब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर्निषेध आदरार्थः; प्रयोजनं तु वक्ष्यते ॥ ९७ ॥
भाषा—(शपथ लेने वाले को) पहले दिन उपवास कराके सूर्योदय के समय वस्त्र सहित स्नान कराके बुलावे और राजा तथा ब्राह्मणों के समक्ष सभी दिव्य करावे ॥ ९७ ॥
अधिकारिव्यवस्थामाह— तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ ९८ ॥ स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण, बाल आ षोडशाद्वर्षाज्जाति-
१. कोशसिद्धिः । २. अनुक्तवेला । ३. प्रथमो भागः । ४. उत्तमो । ५. तोयसिद्धिः स्यात् ।
२४६ याज्ञवल्क्यस्मृतिः विशेषानादरेण, वृद्धोऽशीतिकावरः, अन्धो नेत्रविकलः, पङ्गुः पादविकलः, ब्राह्मणो जातिमात्रम्, रोगी व्याधितः, एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस्तप्तमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । 'वा' शब्दोऽवधारणे । विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् 'शूद्रस्य यवाः सप्त विषस्य वा' इति विषविधानादग्निर्जलं वेति क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन—'ब्राह्मणस्य घटो देयः क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति । यत्तु स्त्र्यादीनां दिव्याभावस्मरणम्, 'स्रवतानां भृशार्तानां व्याधितानां तपस्वि- नाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्वपेक्षितः ॥' इति, तत् 'रुच्या वाऽ- न्यतरः कुर्यात्' (व्य० ९६) इति विकल्पनिवृत्त्यर्थम् । एतदुक्तं भवति—'अ- वष्टम्भाभियोगेषु स्त्र्यादीनामभियोक्तृत्वेऽभियोज्यानामेव दिव्यं, एतेषामभियोज्य- त्वेऽप्यभियोक्तॄणामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवे- ति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति एतच्च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्व- दिव्यसमवधाने नियामकतयार्थवत् । नच सर्वकालं स्त्रीणां तुलैवेति, 'स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । घटकोशादिभिस्तासामन्तस्तत्त्वं विचार- येत् ॥' इति विषसलिलव्यतिरिक्तघटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बालादिष्वपि योजनीयम् । ^२तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनि- यमः; 'सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥' इति पितामहस्मरणात् । तस्मात्साधारणे काले बहुदिव्यसमव- धाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि—वर्षास्वग्निरेव सर्वेषाम् । हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामग्नि- विषयोर्विकल्पः । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम्; 'ब्राह्मणस्य विषं विना' इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाग्न्यादि- निषेधः—'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥' इति तेषामग्न्यादिकालेऽपि साधारणं तुलाद्येव^३ दिव्यं भवति ॥ तथा 'तोयमग्निविषं चैव दातव्यं बलिनां नृणाम्' इति ^४वचनाद् दुर्बला- नामपि सर्वथा विधिप्रतिषेधोक्तकालानतिक्रमेण जातिवयोर्वस्थाश्रितानि दिव्यानि देयानि ॥ ९८ ॥ १. सार्वकालं । २. यथा । ३. तुला दिव्यं । ४. दुर्बलानामिति सर्वदा । ५. प्रतिषेधाहते उक्तकालानति । ६. वस्थानाश्रितानि ।
व्यवहाराध्यायः २४७ भाषा-स्त्री, बालक, वृद्ध, अन्ध, पंगु, ब्राह्मण एवं रोगी के लिए तुला का दिव्य करे। क्षत्रिय के लिए अग्नि का, वैश्य के लिए जल का, और शूद्र के लिये सात यव के बराबर विष का दिव्य होता है ॥ ९८ ॥ 'महाभियोगेष्वेतानि' ( व्य० ९५ ) इत्युक्तं, तत्राभियोगस्य यदपेक्षं मह- त्त्वं तदिदानीमाह- नासहस्राद्धरेत्फालं न विषं न तुलां तथा । पणसहस्रादूर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम्- 'तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्' इति। अत्र कोशस्याग्र- हणं 'कोशमल्पेऽपि दापयेत्' इत्यल्पाभियोगेऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव भवन्ति नार्वागित्यर्थः ॥ नन्वर्त्तागप्यग्न्या- दीनि पितामहेन दर्शितानि - 'सहस्रे तु घटं दद्यात्सहस्रार्धे तथाऽयसम् । अर्ध- स्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥' इति सत्यम् । -तत्रेत्थं व्यवस्था यद्द्रव्यापहारे पाहित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगी- श्वरवचनमिति । एतच्च वचनद्वयं स्तेयसाहसविषयम् , अपह्नवे तु विशेषो दर्शितः कात्यायनेन-'दत्तस्यापह्नुवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाण- युक्तं तु तदा दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् । विंशद्विशविनाशे तु कोशपानं विधीयते ॥ पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः । ततोऽर्धार्धविनाशे हि स्पृशेत्पुत्रादिमस्त- कान् ॥ ततोऽर्धार्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्नराजा धर्माथाभ्यां न हीयते ॥ इति 'ज्ञात्वा संख्या सुवर्णानाम्' इत्यत्र 'सुवर्णशब्दः 'षोडश माषाः सुवर्णः' ( आ० ३६३ ) इत्युक्तपरिमाणवचनः । 'नाश'शब्दश्चा- ऽपह्नववचनः । 'नासहस्राद्धरेत्फालम्' इत्यत्र तु तान्त्रिकपणसहस्रं बोद्धव्यम् ॥- ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत्कथं 'नासहस्राद्धरे- त्फालम्' ( व्य० ९९ ) इत्यत्राह- नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ ९९ ॥ नृपद्रोहेषु महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि वहेयुः कुर्युुरुपवासादिना शुचयः सन्तः। तथा देशविशेषोऽपि नारदे- १. यदपेक्ष्य । २. तत्रैवं व्यवस्था । ३. दद्यादेव । ४. दद्यात् त्रिंश- द्विन्नाशे तु । ५. अभिशापेषु । ६. नृपद्रोहेषु ।
२४८ याज्ञवल्क्यस्मृतिः नोक्तः—'सभाराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चल पूज्यो धूपमाल्या- नूलेपनैः ॥' इति । निधेयो घटः । व्यवस्था च कात्यायनेनोक्ता—'इन्द्रस्थानेऽ- भिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रतिलोमप्रसूतानां दिव्यं देयं चतुष्पथे । $^१$अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः । अस्पृश्याधमदासानां $^२$म्लेच्छांनां पापकारिणाम् । प्रातिलो- म्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु $^३$निर्दिशेत् ॥' इति ॥ ९९ ॥ भाषा—सहस्र पण से कम के विवाद में तप्तफाल, विष या तुला का (तथा जल का) दिव्य न करावे । राजद्रोह और महापातक के अभियोग में ये दिव्य सदैव पवित्रता के साथ करावे ॥ ९९ ॥ इति दिव्यमातृका ॥ एवं सर्वदिव्योपयोगिनीं दिव्यमातृकामभिधायेदानीं घटादिदिव्यानां प्रयोगमाह— तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसभीभूतो रेखां$^४$ कृत्वाऽवतारितः ॥ १०० ॥ 'त्वं तुले सत्यधामासि पुरा देवैर्वनिर्मिता । तत्सत्यं वद कल्याणि ! संशयान्मां $^५$विमोचय ॥ १०१ ॥ यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद् गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥ १०२ ॥ तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस्तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस्तुलाश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽ- वस्थितस्तस्मिन्पाण्डुलेखेनाङ्कयित्वाऽवतारितस्तुलामभिमन्त्रयेत् प्रार्थयेतानेन मन्त्रेण—हे तुले ! त्वं सत्यस्य स्थानमसि, पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्र- भृतिभिर्वनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय; कल्याणि शोभने ! अस्मात्संशयान्मां विमोचय । हे मात: ! यद्यहं पापकृद- सत्यवाद्यस्मि ततो मां त्वमधो नय । अथ शुद्धः सत्यवाद्यस्मि ततो मामूर्ध्वं १. ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः । २. म्लेच्छानामपकारिणां । ३. दापयेत् । ४. रेखाः । ५. विशोधय । ६. पाण्डुलेख्येन ।