याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
च विकल्पो जाबालश्रुतौ श्रूयते - 'ब्रह्मचर्यं परिसमाप्य गृही भवेत् , गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा' इति । तथा 'गार्हस्थ्योत्तराश्रमबाधश्च गौतमेन दर्शितः ( ३।३६ ) - 'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य' इति । एतेषां च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलत्वादच्छया विकल्पः । अतो यत्कैश्चित्पण्डितंमन्यैरुक्तम् - 'स्मार्तत्वान्नष्ठिकादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्यानधिकृतान्धक्लीबादिविषयता वा' इति तत्स्वाध्यायाध्ययनवैधुर्यनि- बन्धनमित्युपेक्षणीयम् । किंच, - यथा विष्णुकमणाज्यावेक्षणाद्यक्षमतया पंग्वादीनां श्रौतेष्वनधिकारस्तथा स्मार्तेष्वप्युदकुम्भाहरणभिक्षाचर्यादिष्वक्षमत्वात्कथं पंग्वादि- विषयतया नैष्ठिकराद्याश्रमनिर्वाहः अस्मिंश्चाश्रमे ब्राह्मणस्यैवाधिकारः । मनुः ( ६।२५ ) - 'आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ।' तथा (६।९७) - 'एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः' इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । 'ब्राह्मणाः प्रव्रजन्ति'इति श्रुतेश्चाग्रजन्मन एव।- धिकारः, न द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च द्विजातिमात्रस्याधि- कारमाहुः ॥ यदा च वनाद् गृहाद्वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकामिष्टिं कृत्वा तदन्ते तान्वैतानानग्नीनात्मनि श्रुत्युक्तविधानेन समारोप्य 'च' शब्दात् 'उदगयने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत् द्वादश वा' इति बौधायनाद्युक्तं पुरश्चरणादिकं च कृत्वा तथाऽधीतवेदो जपप- रायणो जातपुत्रो दीनान्धकृपणार्पितार्थो यथाशक्त्यान्नदश्च भूत्वाऽनाहिता- ग्रिञ्ज्र्ध्वरेत्त्वादिन। प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान्यज्ञान्कृत्वा मोक्षे मनः कुर्यात् - चतुर्थाश्रमं प्रविशेन्नान्यथा । अनेनानपाकृतऋणत्रयस्य गृहस्थस्य प्रव्रज्यायामधिकारं दर्शयति ॥ यथाह मनुः ( ६।३५ ) - 'ऋणानि त्रीण्य- पाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥' इति ॥ यदा तु ब्रह्मचर्यात्प्रव्रजति तदा न प्रजोत्पादनादिनियमः; अकृतदारप- रिग्रहस्य तत्रानधिकारात् रागप्रयुक्तत्वाच्च विवाहस्य । नच ऋणत्रयापाकरण- विधिरेव दारान्याक्षिपतीति शङ्कनीयम् ; विद्याधनाद्यर्जननियमवदन्यप्रयुक्तदार- संभवे तस्यानाक्षेपकत्वात् । ननु 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवाञ्जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति जातमात्रस्यैव प्रजोत्पाद- नादीन्यावश्यकानीति दर्शयति । मैवम् ; नहि जातमात्रः अकृतदाराग्निरिग्रहो
१. गृहस्थोत्तराश्रम ।
प्रजोत्पादनमपीति निश्चयम् ॥ ५६-५७ ॥
४५४ याज्ञवल्क्यस्मृतिः
ङ्गादिष्वधिक्रियते तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः । अतश्चोपनीतस्य वेदाध्ययनमेवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनमपीति निश्चयम् ॥ ५६-५७ ॥ भाषा—वानप्रस्थ अथवा गृहस्थाश्रम के उपरान्तसम्पूर्ण वेद से संबंद्ध दक्षिणा वाली प्रजापति देवता की इष्टि करके और उसके अन्त में उन्हीं अग्नियों का अपने आत्मा में समारोप करके, वेदों का अध्ययन करके, जप परायण होकर, पुत्रवान् होने पर, (दीन दुःखियों को) यथाशक्ति अन्न देकर, अग्नि में होम और शक्ति के अनुसार यज्ञ करके मोक्षप्राप्ति की (संकल्पपूर्वक) इच्छा करे; अन्यथा (ऐसा न होने पर) मोक्ष की इच्छा न करे ॥ ५६-५७ ॥ एवमधिकारिणं निरूप्य तद्धर्मानाह— सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥ ५८ ॥ सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो, न पुनर्हिताचरणः । 'हिंसा- नुग्रहयोरनारम्भी' (३।२४,२५) इति गौतमस्मरणात् । १शान्तो बाह्यान्तः- करणोपरतः, त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः । 'प्राजापत्येष्टयनन्तरं त्रीन्वंशवान्दण्डान्मूर्धप्रमाणान्दक्षिणेन पाणिना धारयेत्सव्येन सोदकं कमण्डलुम्' इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत् 'एकदण्डी त्रिदण्डी वा' (३।१०।४०) इति बौधायनस्मरणात् । 'चतुर्थमाश्रमं गच्छेद् ब्र- ह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥' इति चतुर्विं- शतिमते दर्शनाच्च । तथा शिखाधारणमपि वैकल्पिकम् । 'मुण्डः शिखी वा२' (३।२२) इति गौतमस्मरणात् । 'मुण्डोऽडममोऽक्रोधोऽपरिग्रहः' (१७।६) इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणमपि वैकल्पिकमेव । 'सशिखान्के- शांश्छिकृन्त्य विसृज्य यज्ञोपवीतम्' इति काठकश्रुतिदर्शनात्— 'कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । केशांन्यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः ॥' इति बाष्कलस्मरणाच्च । 'अथ यज्ञोपवीतमप्सु जुहोति भूःस्वाहेति अथ दण्डमादत्ते सखे मां गोपाय' इति परिशिष्टदर्शनाच्च । यद्यशक्तिस्तदा कन्थापि ग्राह्या । 'काषायी मुण्डस्त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्रः' इति देवल- स्मरणात् । शौचार्थं कमण्डलुसहितश्च भवेत् । एकारामः प्रव्रजितान्तरेणा- सहायः संन्यासिनोभिः स्त्रीभिश्च । 'स्त्रीणां चैके' इति बौधायनेन स्त्रीणामपि प्रव्रज्यास्मरणात् । तथा च दक्षः— 'एको भिक्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् ।
१. शान्तः करणोपरतः । २. मनोपरिग्रह ।
प्रायश्चित्ताध्यायः ४४५ त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ राजवार्तादि तेषां तु भिक्षावार्ता परस्परम् । अपि पैशुन्यमात्सर्यं संन्निकर्षाच्च संशयः ॥' इति । 'परिव्रज्य परिपूर्वो व्रजतिस्त्यागे वर्तते । अतश्चाहंममाभिमानं तत्कृतं च लौकिकं कर्म- निचयं वैदिकं च नित्यकाम्यात्मकं संत्यजेत् । तदुक्तं मनुना ( १२।८८,८९, ९२ )-'सुखाम्युदयिकं चैव नैश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते ॥ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥' इति । अत्र वेदाभ्यासः प्रणवाभ्यासस्तत्र यत्नवान् । भिक्षाप्रयोजनार्थं ग्राममाश्रयेत् प्रविशेत् , न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः; 'उर्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी' इति शङ्खस्मरणात् । अशक्तौ पुनर्मासचतुष्टयपर्यन्तमपि स्थातव्यं न चिरमेकत्र वसेदन्यत्र वर्षाकालात्; 'श्रावणादयश्चत्वारो मासा वर्षाकालः' इति देवल- स्मरणात् ।— 'एकरात्रं वसेद् ग्रामे नगरे रात्रिपञ्चकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांस्तु चतुरो वसेत् ॥' इति काण्वस्मरणात् ॥ ५८ ॥ भाषा-प्रिय और अप्रिय सभी जीवों के प्रति उदासीन होकर, शान्त ( बाह्य एवं अन्तःकरण के क्षोभ से रहित ) होकर, तीन दण्ड और कमण्डलु धारण करके, सबसे अलग अकेले रहकर, सबका ( अहंकार आदि दोष एवं लौकिककर्म का ) त्याग करके केवल भिक्षा के लिये गांव में निवास करे ॥ ५८ ॥ कथं भिक्षाटनं कार्यमित्यत आह— अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽ१नभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामानमलोलुपः ॥ ५९ ॥ अप्रमत्तो वाक्चक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेनात्र विशेषो दर्शितः ( १०।७ ) 'सप्तागाराण्यसंकल्पितानि चरेद्भैक्षम्' इति । सायाह्ने अह्नः पञ्चमे भागे । तथा च मनुः ( ६।५६ ) - 'विधूमे संन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसंपाते नित्यं भिक्षां यतिश्चरेत् ॥' इति । तथा—'एककालं चरेद्भिक्षां प्रसङ्गेयेन्न२ तु विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥' ( ६।५५ ) इति । अनभिलक्षितः ज्योतिर्विज्ञानापदेशादिना अचिह्नितः । मनुः (६।५०)— 'न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥' इति तेनोक्तत्वादिति ॥ यत्पुनर्वसिष्ठवचनम्- 'ब्राह्मणकुले वा
१. नाभिलक्षित । २. प्रसज्जेत् ।
४४६ याज्ञवल्क्यस्मृतिः यल्लभेत्तद्भुञ्जीत सायं प्रातर्मांसवर्ज्यम्' इति,-तदशक्तविषयम् । भिक्षुकैर्भिक्षण- शीलैः पाखण्ड्यादिभिर्वर्जिते ग्रामे । मनुनात्र विशेष उक्तः (६।५१)—'न ताप- सैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्णं भिक्षुकैरन्यैरगारमुपसंव्रजेत् ॥' इति । यावता प्राणयात्रा वर्तते तावन्मात्रं भैक्षं चरेत् । तथा च संवर्तः—'अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा । अद्भिः प्रक्षाल्य ताः सर्वास्ततोऽ- श्नीयाच्च वाग्यतः ॥' इति । अलोलुपो मिष्टान्नव्यञ्जनादिष्वप्रसक्तः ॥ ५९ ॥ भाषा—प्रमादरहित होकर (वाणी, नेत्र आदि इन्द्रियों की चपलता छोड़कर), ज्योतिष शास्त्र आदि द्वारा विचार न करके, सायंकाल में, जिस गांव में अन्य भिक्षुक न हों उस गांव में लोभरहित होकर केवल जीवन चलाने भर के लिए पर्याप्त भिक्षा ग्रहण करे ॥ ५९ ॥ भिक्षाचरणार्थं पात्रमाह— यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च । सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् ॥ ६० ॥ मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः । तेषां सलिलं गोवालावघर्षणं च शुद्धिसाधनम् । इयं च शुद्धिर्भिक्षाचरणार्दादिप्रयोगाङ्गभूता, नामेध्याद्युपहति- विषया । तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या अत एव मनुना (६।५३) — 'अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । तेषामद्भिः स्मृतं शौचं चमसाना- मिवाध्वरे ॥' इति । चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर्दर्शिता । पात्रान्त- राभावे भोजनमपि तत्रैव कार्यम्; 'तद्भैक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीते'ति देवलस्मरणात् ॥ ६० ॥ भाषा—मिट्टी, बांस, काठ और अलाबु (लौकी) के बने हुए संन्या- सियों के पात्रों की शुद्धि जल से और गोवाल द्वारा मलने से होती है ॥६०॥ एवंभूतस्य यतेरात्मोपासनाङ्गं नियमविशेषमाह— संनिरुद्धेन्द्रियग्रामं रागद्वेषौ प्रहाय च । भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ६१ ॥ चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यङ्निरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा 'च' शब्दादीर्ष्यादीनपि, तथा भूतानामपकारेण भयमकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ भाषा—इन्द्रियों को सम्यक् रूप से अपने वश में करके (विषयों से मोड़कर), तथा राग और द्वेष का त्याग करके, प्राणियों को अपकार द्वारा १. भिक्षाहरणप्रयोग । २ विहाय । ३. अपकारणेन ।
प्रायश्चित्ताध्यायः ४५७ भय न उत्पन्न करते हुए (अद्वैत के साक्षात्कार से) मुक्त हो जाता है ॥ ६१ ॥ कर्त्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात्स्वाऽन्त्यकरणाय च ॥ ६२ ॥ किं च, विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषचयः प्राणायामैः कर्तव्या; तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञानोत्प- त्तिनिमित्तत्वात् । एवं च सति विषयासक्तिसञ्जनितदोषात्मकप्रतिबन्धक्षये सत्यात्मध्यानधारणादौ स्वतन्त्रो भवति । तस्माद्भिक्षुकेण त्वेषा शुद्धिर्विशे- षतोऽनुष्ठेया; तस्य मोक्षप्रधानत्वात् । मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभत्वात् । यथाह मनुः ( ६।७१ )—'दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥' इति ॥ ६२ ॥ भाषा—संन्यासी को विशेषतया अन्तःकरण की शुद्धि (प्राणायाम द्वारा) करनी चाहिए, क्योंकि वह ज्ञान उत्पन्न करने वाली और (आत्मध्यान एवं धारणा आदि में) स्वतन्त्र बनाने वाली होती है ॥ ६२ ॥ इन्द्रिय निरोधोपायतया संसारस्वरूपनिरूपणमाह— अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा । आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ६३ ॥ भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । वैराग्यसिद्धयर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा अवेक्षणीयाः पर्यालोच- नीयाः । 'च'शब्दाज्जनोपरमावपि तथा निषिद्धाचरणादिक्रियाजन्या महारौर- वादिरिनरयपतनरूपा गतयः । तथा आधयो मनःपीडाः, व्याधयश्च ज्वरातीसा- राद्याः शारीराः, क्लेशाः अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलि- ताद्यभिभवः रूपविपर्ययः खञ्जकुब्जत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । तथा 'इष्टस्याप्राप्तिः अनिष्टस्य प्राप्तिः' (योगसू० १-२) इत्यादिवहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थमात्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ६३ ॥ भाषा—गर्भवास (के कष्टों) एवं (निषिद्ध) कर्म के करने से उत्पन्न होने वाली गतियों (महारौरव नरक आदि), मानसिक कष्टों, शारीरिक रोगो, वृद्धावस्था, रूप के (लंगड़ा, कुबड़ा आदि होने से) बिगड़ने, क्षुद्र एवं गन्दे जीवों की जाति में जन्म, इष्ट की अप्राप्ति एवं अनिष्ट की प्राप्ति का विचार करना चाहिए ॥ ६३ ॥ १. मोक्षप्रसाधनत्वात् । २. रूपविपर्ययाः ।
४४८ याज्ञवल्क्यस्मृतिः एवमवेद्यानन्तरं किं कार्यमित्यत आह— ध्यानयोगेन 'संपश्येत्सूक्ष्मं आत्मात्मनि स्थितिः ॥ ६४ ॥ योगश्चित्तवृत्तिनिरोधः, आत्मैकाग्रता ध्यानं, तस्या एव बाह्यविषयस्थोपरमः ध्यानयोगेन निदिध्यासतापर्यायेण सूक्ष्मशरीरप्राणादिभ्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्यवस्थितः इत्येवं तत्त्वं पदार्थयोरभेदं सम्यक् पश्येदपरोक्षीकुर्यात् । अत एव श्रुतौ ( बृ० उ० ५।४।५ ) 'आत्मा वाऽरे द्रष्टव्यः' इति साक्षात्काररूपं दर्शनमनूद्य तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' ( बृ० ५।४।५) इति श्रवणमनननिदिध्यासनानि विहितानि ॥ ६४ ॥ भाषा—और ध्यान ( चित्त की एकाग्रता ) और ध्यान ( चित्तवृत्ति के निरोध ) से आत्मा को ब्रह्म में स्थित देखे ॥ ६४ ॥ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥ ६५ ॥ किंच, प्राक्तनश्लोकोक्तात्मोपासनारूपे धर्मे नाश्रमों दण्डकमण्डल्वादिधारणं कारणम् । यस्मादसौ क्रियमाणो भवेदेव नातिदुष्करः । तस्माद्यदात्मनोऽपथ्य- मुद्वेगकरं परुषभाषणादि तत्परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तः- करणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद्वागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थमाश्रम- निराकरणं न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना ( ६।६६ )—'दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥' इति ॥ ६५ ॥ भाषा—किसी धर्म के आचरण में कोई विशेष आश्रम कारण नहीं है; वह तो करने से होता है । इसलिए अपने को जो न रुचे ( उद्वेग कर लगे ) वह दूसरो के लिए नहीं करना चाहिये ॥ ६५ ॥ सत्यमस्तेयमक्रोधो ह्रीः शौचं धीर्धृतिर्दमः । संयतेन्द्रियता विद्या 'धर्मः सर्व उदाहृतः ॥ ६६ ॥ किंच, सत्यं यथार्थप्रियवचनम् , अस्तेयं परद्रव्यानपहारः, अक्रोधोऽप- कारिण्यपि क्रोधस्यानुत्पादनम् , ह्रीर्लज्जा शौचमाहारादिशुद्धिः, धीर्हिताहित- विवेकः, धृतिरिष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचित्तस्य यथापूर्वमवस्थापनम . दमो मदत्यागः, संयतेन्द्रियता अप्रतिषिद्धेष्वपि विषयेष्वनतिसङ्गः, विद्या आत्मज्ञानम्, एतैः सत्यादिभिरनुष्ठितैः सर्वो धर्मोऽनुष्ठितो भवति । अनेनं दण्डकमण्डल्वादि- धारणबाह्यलक्षणात् ( बृ० उ० ४।५।६ ) सत्यादीनामात्मगुणानामन्तरङ्गतां द्योतयति ॥ ६६ ॥ १. संदृश्यः सूक्ष्म । २. सर्वधर्म उदाहृतः ।
भाषा—सत्य, अस्तेय, अक्रोध, लज्जा, विवेक, धैर्य (दुःख में विचलित न होना), दम (मदत्याग), इन्द्रियों का संयम, और विद्या—ये सभी धर्म कहे गये हैं ॥ ६६ ॥
ननु ध्यानयोगेनात्मनि स्थितमात्मानं पश्येदित्ययुक्तम्, जीवपरमात्मनोर्भेदा- भावादित्यत आह—
निःसरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः । सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ ६७ ॥
यद्यपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः सकाशाद्- विद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद्युज्यत एव जीवपरमात्मनोर्भेदव्यपदेशः । यथा हि तप्ताल्लोहपिण्डादयोगोलकाद्विस्फुलिङ्गका- स्तेजोवयवा निःसरन्ति निःसृताश्च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत्। अत उपपन्नं आत्मात्मनि स्थितो द्रष्टव्य इति । यद्वाऽयमर्थः—ननु सुषुप्तिसमये प्रलये च सकलक्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात्कस्यायमात्मोपासनाविधिरित्यत आह—निः- सरन्तीत्यादि । यद्यपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास्तथाप्यात्मनः सका- शादविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात्स्थूलशरीरा- भिमानिनो जायन्ते, तस्मान्नोपासनाविधिविरोधः, तैजसस्य पृथग्भावसाम्याल्लोह- पिण्डदृष्टान्तः ॥ ६७ ॥
भाषा—जिस प्रकार तपाये गये लोहे के पिण्ड से चिनगारियाँ निकलती हैं, उसी प्रकार आत्मा (ब्रह्म) से अनेक आत्मा (जीवात्मा) उत्पन्न होते हैं ॥६७॥
ननु चानुप्रात्तवपुषां क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनेो जरायु- जाण्डजादिचतुर्विधदेहपरिग्रह इत्यत आह—
तत्रात्मा हि स्वयं किंचित्कर्म किचित्स्वभावतः । करोति किञ्चिदभ्यासाद्धर्माधर्माभयात्मकम् ॥ ६८ ॥
यद्यपि तस्यामवस्थायां परिस्पन्दात्मकाक्रियाभावस्तथापि धर्माधर्माभय- साद्यात्मकं कर्म मानसं भवत्येव । तस्य च विशिष्टशरीरग्रहणहेतुत्वमस्त्येव; 'वाचिकैः पक्षिगृतां मानसरन्त्यजातिताम्' ( १२।९) इति मनुस्मरणात् । एवं गृहीतवपुः स्वयमेवान्वयव्यतिरेकनिरपेक्षः, स्तन्यपानादिके कृते तृप्तिर्भवत्यकृते न भवतीत्येवंरूपौ यावन्वयव्यतिरेकौ तत्र निरपेक्षं प्राग्भवीयानुभवभावितभाव- नानुभावोद्भूतकार्यावबोधः किंचित्स्तन्यपानादिकं करोति, किंचित्स्वभावतो यदृ- च्छया प्रयोजनाभिसंधिनिरपेक्षं पिपीलिकादिभक्षणं करोति, किंचिद्भवान्तराभ्यास-
१. स्पन्दतया कथं । २. भयाश्रयम् ।
४५० याज्ञवल्क्यस्मृतिः वशाद्धर्माधर्मोभयरूपं करोति । तथा च स्मृत्यन्तरम्-'प्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यसते पुनः ॥' इति ॥ एवं जीवानां कर्मवैचित्र्यात्तत्कृतं जरायुजादिदेहवैचित्र्यं युज्यत एव ॥ ६८ ॥ भाषा-इस दशा में आत्मा धर्म और अधर्म दोनों प्रकार के कर्म कुछ तो स्वयं करता है, कुछ स्वभाव के कारण करता है और कुछ अभ्यास के कारण ॥ ६८ ॥ नन्वेवं सति ब्राह्मण एव कथंचिज्जीवव्यपदेश्यत्वात्तस्य च नित्यत्वादिधर्म- स्वात्कथं विष्णुमित्रो जात इति व्यवहार इत्याशङ्कयाह- निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी । अजः शरीरग्रहणात्स जात इति कीर्त्यते ॥ ६९ ॥ सत्यमात्मा सकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायि- निमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं, न पुनः कार्यकोटिनिविष्टः । यस्मा- दक्षरोऽविनश्वरः । ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात्तद्गुणवत्याः प्रकृतेरेव जगत्कर्तृतोचिता, न पुनर्निर्गुणस्य ब्रह्मणः । मैवं मंस्थाः, - आत्मैव कर्ता । यस्मादसौ जीवोपभोग्यसुखदुःख १हेतुभूतादृष्टादे- र्बोद्धा । नह्यचेतनायाः प्रकृतेर्नामरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्य- भोगायत्नादियोगिजगत्प्रपञ्चरचना घटते । तस्मादात्मैव कर्ता । तथा स एव ब्रह्म बृंहको विस्तारकः । नचासौ निर्गुणः । यतस्तस्य त्रिगुणशक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वेऽपि शक्तिमुखेन सत्त्वा- दिगुणयोगी कथ्यते । नचैतावता प्रकृतेः कारणता, यस्मादात्मैव वशी स्वतन्त्रः न प्रकृतिर्नाम स्वतन्त्रं तत्त्वान्तरं, तादृग्विधत्वे प्रमाणाभावात् । नच वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्मादात्मैव जगतस्त्रिविधमपि कारणम् । तथा अज उत्पत्तिरहितः । अतस्तस्य यद्यपि साक्षाज्जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्युच्यते अवस्थान्तर- योगितयोत्पन्नेगृहस्थो जात इतिवत् ॥ ६९ ॥ भाषा-यद्यपि आत्मा ( सम्पूर्ण जगत्प्रपञ्च का ) निमित्त है, अविनाशी है, कर्ता है, जानने वाला ( सुख-दुःखादि का अनुभव करने वाला ), ब्रह्म, गुणी, वशी ( स्वतन्त्र ) और अजन्मा है तथापि शरीर ग्रहण करने पर कहा जाता है कि आत्मा का जन्म हुआ है ॥ ६९ ॥ शरीरग्रहणप्रकारमाह - सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ७० ॥ १. हेतुपुण्यापुण्यादेर्बोद्धा ।
[Header] प्रायश्चित्ताध्यायः ४५१
सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं शब्दस्पर्शगुणः पवनः, शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपरसगुणवदुदकम्, शब्दस्पर्शरूप- रसगन्धगुणा जगतीत्येवमेकोत्तरगुणान् सृजति । तथात्मा जीवभावमापन्नो भवन्नुत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ७० ॥ भाषा-जिस प्रकार सृष्टि के आरम्भ में वह परमात्मा आकाश, वायु, तेज, जल और पृथिवी की क्रमशः एक-एक अधिक गुण से युक्त बनाकर रचना करता है उसी प्रकार जीवन बन कर इन सबको धारण भी करता है ॥ कथं शरीरारम्भकत्वं पृथिव्यादीनामित्यत आह - आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिरथौषधिः । तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ॥ ७१ ॥ यजमानैः प्रक्षिप्तया आहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच्च कालवशेन परिपक्काद्वयादिहविर्साद्वद्धिर्भवति । ततो व्रीह्याद्यौषधिरूपमन्नम् । तच्चात्रं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोणितभावमापद्यते ॥ ७१ ॥ भाषा - ( यजमान की) आहुतियों से सूर्य पुष्ट होते हैं, सूर्य से वृष्टि होती है और उससे ओषधियाँ (व्रीहि आदि) उत्पन्न होती हैं; उनका अन्न ( खाने पर ) रस बनकर अन्त में वीर्य बन जाता है ॥ ७१ ॥ ततः किमित्यत आह- स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते । पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभुः ॥ ७२ ॥ ऋतुवेलायां स्त्रीपुंसयोर्योगे शुक्रं च शोणितं च शुक्रशोणितं तस्मिन्परस्पर- संयुक्ते विशुद्धे 'वातपित्तश्लेष्मदुष्टग्रन्थिपूयक्षीणमूत्रपुरीषगन्धरेतांस्यबीजानि' इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि शरी- रारम्भकतया स्वयं षष्ठश्चिद्धात्मा प्रभुः शरीरारम्भ४कारणादृष्टकर्मयोगितया समर्थो युगपदादत्ते भोगायतनत्वेन स्वीकरोति' । तथा च शारीरके ( सुश्रुतः ३।३ )-'स्त्रीपुंसयोः संयोगे योनौ रजसामिसंसृष्टं शुक्रं तत्क्षणमेव सह भूता- त्मना गुणैश्च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति' इति ॥ भाषा-स्त्री और पुरुष के संयोग से वीर्य और रज के मिलकर शुद्ध होने पर इन पाँच तत्त्वों को छठा प्रभु ( आत्मा ) स्वयं ही एक साथ ग्रहण करता है ॥ ७२ ॥ १. रसवत्तुदकम् । २. सूर्य्यस्तस्माद् वृ । ३. मुपगच्छति । ४. रम्भकरणे दृष्ट । २९ या०
४५२. याज्ञवल्क्यस्मृतिः इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ७३ ॥ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ७४ ॥ किंच, इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि, मनश्चोभयसाधारणम् , प्राणोऽपानो व्यान उदानः समान इत्येवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः, ज्ञानमवगमः, आयुः कालविशेषावच्छिन्नं जीवनम् , सुखं निर्वृतिः, धृतिश्चि- त्तस्थैर्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्मेन्द्रियाणामधिष्ठातृत्वम् , दुःखमुद्वेगः, इच्छा स्पृहा, अहंकारोऽहंकृतिः, प्रयत्न उद्यमः, आकृतिराकारः, वर्णो गौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषो वैरम् , भवः पुत्रपश्वादिविभवः, अभवस्तद्विपर्ययः, तस्यानादेरात्मनो नित्यस्यादिमिच्छतः शरीरं जिघृक्षमाणस्य सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीय कर्मबीजजन्यमित्यर्थः ॥ ७३-७४ ॥ भाषा—इन्द्रियाँ, मन, प्राणादि वायु, ज्ञान, आयु, सुख, धैर्य, धारणा ( प्रज्ञा, मेधा ), प्रेरण ( ज्ञानेन्द्रियों और कर्मेन्द्रियों का अधिष्ठातृत्व ) दुःख, इच्छा, अहंकार, प्रयत्न, आकार, वर्ण, स्वर, द्वेष, भव ( पुत्र, पशु आदि की सम्पत्ति ), अभव ( निर्धनता ) ये सब उस अनादि आत्मा के शरीर धारण की इच्छा करने पर प्राप्त होते हैं ॥ ७३-७४ ॥ संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रममाह— प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः । मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ७५ ॥ असौ चेतनः षष्ठो धातुविमूर्च्छितो धातुषु पृथिव्यादिषु विमूर्च्छितो लोली- भूतः । क्षीरनीरवदेकीभूत इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो द्रवरूपतां प्राप्त एवावतिष्ठते न कठिनतया परिणमते । द्वितीये मास्यर्बुदमीषत्कठिनमां- सपिण्डरूपं भवति । अयमभिप्रायः-१कोष्ठ्यपवनजठरदहनाभ्यां प्रतिदिनमीष- दीषच्छोष्यमाणं शुक्रसंपर्क२संपादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्य- मापद्यत इति । तथा च सुश्रुते (शा.३।१४)-'द्वितीये शीतोष्णानिलैरभिप- च्यमानो भूतसंघातो घनो जायते' इति । तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवति ॥ ७५ ॥ भाषा—यह ( संयुक्त वीर्य और रज अथवा पंचभूतों में षष्ठ धातु के रूप में पड़ा हुआ आत्मा ) गर्भ के पहले मास में द्रव के रूप में रहता १. कोष्ठपवन । २. संपर्काद् द्रवीभूतं ।
प्रायश्चित्ताध्यायः ४५३ है; दूसरे मास में अर्बुद (कुछ कठिन मांसपिण्ड) बनता है, और तीसरे मांस में अङ्गों एवं इन्द्रियों से युक्त हो जाता है ॥ ७५ ॥ आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ॥ ७६ ॥ पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् । रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ७७ ॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः ॥ ७८ ॥ किंच, 'आत्मा गृह्णाति' इति सर्वत्र संबध्यते । गगनाल्लघुिमानं लङ्घनक्रियोप- योगिताम् , सौक्ष्म्यं सूक्ष्मेक्षित्त्वम् शब्दं विषयम्, श्रोत्रं श्रवणेन्द्रियम्, बलं दार्ढ्यम्; 'आदि' ग्रहणात्सुषिरत्वं विविक्ततां च; 'आकाशाच्छब्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमूहांश्च' इति गर्भोपनिषद्दर्शनात् , पवनात्स्पर्शेन्द्रियम्, चेष्टां गमना- गमनादिकाम्; व्यूहनमङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वं, 'च' शब्दा- त्स्पर्शं च; पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम् , पक्तिं भुक्तस्यान्नस्य पचनम्, औष्ण्यमुष्णस्पर्शत्वमङ्गानाम्, रूपं श्यामिकादि, प्रकाशितां आजिष्णुताम्, तथा संतापामर्षादि च; 'शौर्यममर्षं तैक्ष्ण्यंपक्त्यौष्ण्यम्भ्राजिष्णुतासंतापवर्णरूपेन्द्रियाणि तैजसानि' इति गर्भोपनिषद्दर्शनात् ; एवं रसादुदकाद्रसनेन्द्रियम् , शैत्यमङ्गा- नाम् , स्निग्धता मृदुत्वसहितं, क्लेदमार्द्रताम् , तथा भूमेर्गन्धं घ्राणेन्द्रियं गरिमाणं मूर्तिं च । सर्वमेतत्परमार्थतो जन्मरहितोऽप्यात्मा तृतीये मासि गृह्णाति । ततश्चतुर्थे मासि स्पन्दते चलति । तथा च शारीरके-'तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति' इति ॥ ७६-७८ ॥ भाषा-आकाश से लाघव ( जो लाँघने की क्रिया के लिये उपयोगी होता है ), सूक्ष्मता, शब्द, श्रवणेन्द्रिय और बल आदि ग्रहण करता है, वायु से स्पर्शेन्द्रिय, चेष्टा (गमनागमन), अंगों का फैलाना, कर्कशता; पित्त ( तेज ) से दृष्टि, पाचनशक्ति, उष्णता, रूप और प्रकाशित करने की शक्ति; रस अर्थात् जल से रसनेन्द्रिय, अङ्गों की शीतलता, स्निग्धता, गीलापन और कोमलता; पृथिवी से गन्ध, घ्राणेन्द्रिय, गुरुता ( भारीपन ) और आकार-इन सबको जन्मरहित होते हुए भी आत्मा ( गर्भ के ) तीसरे मास में ग्रहण कर लेता है ॥ ७६-७८ ॥ दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरुप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ ७९ ॥ १. शब्दश्रोत्रबला । २. प्रकाशताम् । ३. रसेभ्यो । ४. दोहदस्याप्रदानेन ।
४५४ याज्ञवल्क्यस्मृतिः किंञ्च, गर्भस्यैकं हृदयं गर्भिण्याञ्चापरमित्येवं द्विहृदया तस्याः स्त्रिया यदभि- लषितं तत् ^२दौहृदं, तस्याप्रदानेन गर्भो विरूपतां मरणरूपं वा दोषं प्राप्नोति । तस्मात्तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत्प्रियमभि- लषितं तत्संपादनीयम् । तथा च सुश्रुते—'द्विहृदयां नारीं दौहृदिनीमाचक्षते, तदभिलषितं दद्यात् , वीर्यवन्तं चिरायुषं पुत्रं जनयति' इति । तथा च व्याया- मादिकमपि गर्भग्रहणप्रभृति तया परिहरणीयम् । 'ततःप्रभृति व्यायामव्यवाया- तितर्पणदिवास्वप्नरात्रिजागरणशोकभययानारोहणवेगधारणकुक्कुटासनशोणितमो- क्षणानि परिहरेत्' इति तत्रैवाभिधानात् । 'गर्भ'ग्रहणं च श्रमादिभिर्लिङ्गै रवगन्त- व्यम् । 'सद्योगृहीतगर्भायाः श्रमो ग्लानिः पिपासा ^३सक्थिसदनं शुक्रशोणित- योरैवबन्धः स्फुरणं च योनेः' इत्यादि तत्रैवोक्तम् ॥ ७९ ॥ भाषा—दोहद (गर्भिणी द्वारा चाही हुई वस्तु) न देने पर गर्भ में कुरूपता या मरण का दोष आ जाता है; अतएव गर्भिणी स्त्री को जो प्रिय लगे उसे अवश्य करना चाहिए ॥ ७९ ॥ स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ८० ॥ किंञ्च, तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्यं स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ८० ॥ भाषा—चौथे महीने में अङ्गों में स्थिरता आती है, पाँचवे मांस में रुधिर की उत्पत्ति होती है और छठे महीने में बल, रंग, नाखून एवं रोम आ जाते हैं ॥ ८० ॥ मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः । सप्तमे चाष्टमे चैवं त्वङ्मांसस्मृतिमानपि ॥ ८१ ॥ किंञ्च, असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो नाडीभिर्वाहिनीभिः स्नायुभिरस्थिबन्धनैः शिराभिर्वातपित्तश्लेष्मवाहिनी- भिश्च संयुक्तः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ८१॥ भाषा—यह (पूर्वोक्त गर्भ) सातवें मास में मन, चैतन्य, (वायुवाहिनी) नाडियों (अस्थि को बाँधने वाली) स्नायुओं एवं (वात-पित्त-श्लेष्मवाहिनी) सिराओं से युक्त होता है, तथा आठवें मास में त्वचा, मांस और स्मरणशक्ति से युक्त होता है ॥ ८१ ॥ १. द्विहृदयायाः स्त्रिया । २. दोहदम् । ३. सक्थिसीदनं । ४. रनु- बन्धः । ५. वाऽपि ।
प्रायश्चित्ताध्यायः ४५५ १पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ८२ ॥ किंच, त२स्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनःपुनरतितरां चञ्चलतया शीघ्रं गच्छति । अतोऽष्टमे मासि जातो गर्भः प्राणैर्वियुज्यते । अनेनौजःस्थितिरेव जीवनहेतुरिति दर्शयति ॥ ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम्—'हृदि तिष्ठति यच्छुद्धमीषदुष्णं सपीतकम् । ओजः शरीरे संख्यातं तन्नाशान्नाशमृच्छति ॥' इति ॥ ८२ ॥ भाषा—आठ महीने के गर्भ का ओज पुनः पुनः कभी गर्भ की ओर तो कभी माता की ओर शीघ्रता से जाता है । इसलिये आठवें महीने में उत्पन्न होने पर गर्भ से प्राण निकल जाता है ॥ ८२ ॥ नवमे दशमे ३वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्ज्वरः ॥ ८३ ॥ किंच, एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे ‘अपि’शब्दात्प्राक् सप्तमेऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरित- स्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्ज्वरो दुःसहदुःखा- भिभूयमानो निःसार्यते धनुर्यन्त्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गमस- मनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति । 'जातः स वायुना स्पृष्टो न स्मरति पूर्वं जन्म मरणं कर्म च शुभाशुभम्' इति निरुक्तख्यातादशेऽ- भिधानात् ॥ ८३ ॥ भाषा—नववें या दसवें मास में प्रबल प्रसूति वायु (प्रसव को प्रेरित करने वाली वायु) द्वारा गर्भ कुछ ज्वर के साथ छिद्र से उस प्रकार बाहर कर दिया जाता है जैसे किसी धनुषरूपी यन्त्र से प्रेरित होकर बाण बाहर निकलता है ॥ ८३ ॥ कायस्वरूपं विवृण्वन्नाह — तस्य षोढा शरीराणि षट् ४त्वचो धारयन्ति च । षडङ्गानि ५तथाऽस्थ्नां च सह षण्णत्या शतत्रयम् ॥ ८४ ॥ तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरपाकहेतुभूतषडधिष्ठानयोगित्वेन; तथा हि—अन्नरसो जाठ- राग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निना पच्यमानं १. पुनर्गर्भं पुनर्धात्री । २. तथाष्टम । ३. मासि । ४. त्वचं । ५. तथास्थीनि सह ।
[Page Header: ४५६ | याज्ञवल्क्यस्मृतिः]
मांसत्वम् । मांसं च स्वकोशानलपरिपक्वं मेदस्त्वम् , मेदोऽपि स्वकोशवह्निना पक्वमस्थिताम् , अस्थ्यपि स्वकोशशिखिपरिपक्वं मज्जात्वम् , मज्जापि स्वकोशपा- वकपरिपच्यमानश्चरमधातुतया परिणमते । चरमधातोस्तु परिणतिर्नास्तीति स एवात्मनः प्रथमः कोशः । इत्येवं षट्कोशाग्नियोगित्वात् षट्प्रकारत्वं शरीरा- णाम् । अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोऽस्थिमज्जाशुक्राख्याः षड् धातव एव रम्भास्तम्भवदिव बाह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छादकत्वा- स्त्वचस्ताः षट् त्वचो धारयन्ति । तदिदमायुर्वेदप्रसिद्धम् । तथाङ्गानि च षडेव करयुग्मं चरणयुगलमुत्तमाङ्गं गात्रमिति । अस्थ्नां तु षष्टिसहितं शतत्रयमुपरित- नषट्श्लोक्या वक्ष्यमाणमवगन्तव्यम् ॥ ८४ ॥
भाषा—उस आत्मा के ( रक्त, मांस, मेदस्, अस्थि, मज्जा और शुक्र इन छः कोषों की अग्नि के योग से ) छः प्रकार के शरीर होते हैं; जो छः त्वचाओं, छः अङ्गों ( दो हाथ, दो पैर, मुख और शरीर ) तथा तीन सौ साठ अस्थियों को धारण करते हैं ॥ ८४ ॥
स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥ ८५ ॥
किंच, स्थानानि दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशत् , तैः सह द्वात्रिंश- दन्ताश्चतुःषष्टिर्भवन्ति । नखाः करचरणरुहा विंशतिः, हस्तपादस्थानि शलाका- काराण्यस्थीनि मणिबन्धस्योपरिवर्तीनि अङ्गुलिमूलस्थानि विंशतिरेव । तेषां नखानां शलाकास्थानां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्येवमस्थ्नां चतुरुत्तरं शतम् ॥ ८५ ॥
भाषा—दाँत के मूल प्रदेश की अस्थियों को लेकर चौंसठ अस्थियाँ दाँतों की, बीस नाखून, बीस हाथ और पैर की शलाका जैसी बीस अस्थियाँ और उनके चार स्थान ( दो हाथ और दो पैर )—॥ ८५ ॥
षष्ट्यङ्गुलीनां द्वे पाष्ण्योर्गुल्फेषु च चतुष्टयम् । चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु ॥ ८६ ॥
किंच, विंशतिरङ्गुलयस्तासां एकैकस्यास्त्रीणि त्रीणीत्येवमङ्गुलिसंबद्धान्य- स्थीनि षष्टिर्भवन्ति । पादयोः पश्चिमौ भागौ पाष्णौ, तयोरस्थीनि द्वे एकैक- स्मिन्पादे गुल्फौ द्वावित्येवं चतुर्षु गुल्फेषु चत्वार्यस्थीनि, बाह्वोररत्निप्रमाणानि चत्वार्यस्थीनि, जङ्घयोस्तावदेव चत्वार्येवेत्येवं चतुःसप्ततिः ॥ ८६ ॥
१. तासां ।
प्रायश्चित्ताध्यायः ४५७ भाषा—अंगुलियों की साठ, एड़ी की दो, गुल्फों की चार ( प्रत्येक पैर में दो-दो ), अरत्निका की चार और दोनों जंघों की भी उतनी ही अर्थात् चार अस्थियाँ होती हैं—॥ ८६ ॥ द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे । अक्षतालूषके श्रोणीफलके च विनिर्दिशेत् ॥ ८७ ॥ किंच, जङ्घोरुसन्धिर्जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फलकं, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर्मध्ये शङ्खादधोभागः, तालूषकं काकुदं, श्रोणी ककु- द्वती तत्फलकं, तेषामेकैकत्रास्थीनि द्वे द्वे विनिर्दिशेत् ; इत्येवं चतुर्दशास्थीनि भवन्ति ॥ ८७ ॥ भाषा—घुटने, कपोलों, ऊरुफलक (पट्टे), कंधा, अक्ष (कान और आँखों के मध्य का स्थान ), तालूषक और श्रोणी के फलक में प्रत्येक की दो- दो अस्थियाँ—॥ ८७ ॥ भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च । ग्रीवा १पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः ॥ ८८ ॥ किंच, गुह्यास्थ्येकं पृष्ठे पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति । ग्रीवा कंधरा, सा पञ्चदशास्थिः स्यात् भवेत् । वक्षोंसयोः सन्धिर्जत्रु, प्रतिजत्र्वस्थि त्वेकैकम् , हनुश्चिबुकम् , तत्राप्येकमस्थीत्येवं चतुःषष्टिः ॥ ८८ ॥ भाषा—भग की एक अस्थि, पीठ में पच्चीस और गर्दन में पन्द्रह होती हैं, प्रत्येक जत्रु ( छाती और कंधे के जोड़ ) में एक-एक तथा चिबुक में एक अस्थि होती है ॥ ८८ ॥ तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका । पार्श्वकाः स्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ॥ ८९ ॥ किंच, तस्य हनोर्मूलेऽस्थिनी द्वे, ललाटं भालं अक्षि चक्षुः, गण्डः कपोला- क्षयोर्मध्यप्रदेशः, तेषां समाहारो ललाटाक्षिगण्डं, तत्र प्रत्येकमस्थियुगलम् । नासा घनसंज्ञकास्थिमती । पार्श्वकाः कक्षाधःप्रदेशसंबन्धान्यस्थीनि तदाधार- भूतानि स्थालकानि, तैः स्थालकैः अर्बुदैश्चास्थिविशेषैः सह पार्श्वका द्विस- प्ततिः । पूर्वोक्तैश्च नवभिः सार्धमेकाशीतिर्भवति ॥ ८९ ॥ भाषा—चिबुक के मूल में दो अस्थियाँ, ललाट, आँख और गण्ड (कपोल एवं आँख के बीच का भाग) में भी प्रत्येक में दो दो, नाक में घन नाम की १. पञ्चदशास्थीनि जत्र्वेव चः।
४५८ याज्ञवल्क्यस्मृतिः एक अस्थि, पार्श्वों ( पसलियों में ) और उनके आधार स्थानों वाली अर्बुद नाम की अस्थियों को मिलाकर बहत्तर अस्थियाँ होती हैं ॥ ८९ ॥ द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा । उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ९० ॥ किंच, भ्रूकणयोर्मध्यप्रदेशावस्थिविशेषौ शङ्खकौ, शिरसः संबन्धीनि चत्वा- रि कपालानि । उरो वक्षः, तत्सप्तदशास्थिकमित्येवं त्रयोविंशतिः । पूर्वोक्तैश्च सह षष्ट्यधिकं शतत्रयमित्येवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ९० ॥ भाषा—भौंह और कान के बीच की दो अस्थियाँ, शिर के कपाल की चार, वक्ष प्रदेश की सत्रह अस्थियाँ होती हैं—इस प्रकार इन तीन सौ साठ अस्थियों का मनुष्य-शरीर में संग्रह रहता है ॥ ९० ॥ सविषयाणि ज्ञानेन्द्रियाण्याह— गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः । नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥ ९१ ॥ एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः; 'विषय'शब्दस्य 'षिञ् बन्धने' इत्यस्य धातोर्व्युत्पन्नत्वात् । एतैश्च गन्धादिभिर्बोध्यत्वेन व्यवस्थितैः स्वस्वगोचर संवित्साधनतयानुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ९१ ॥ भाषा—गन्ध, रूप, रस, स्पर्श और शब्द ये इन्द्रियों के विषय हैं; और नाक, आँख, जिह्वा, त्वचा एवं कान ये पाँच इन्द्रियाँ हैं ॥ ९१ ॥ कर्मेन्द्रियाणि दर्शयितुमाह— हस्तौ पांयुरुपस्थं च जिह्वा पादौ च पञ्च वै² । कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥ ९२ ॥ हस्तौ प्रसिद्धौ, पायुर्गुदं, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा, पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाणि आदाननिहारानन्दव्याहा- रविहारादिकर्मसाधनानि जानीयात् । मनोऽन्तःकरणं युगपत् ज्ञानानुत्पत्ति- गम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ९२ ॥ भाषा—दोनों हाथ, गुदा, उपस्थ ( संभोगेन्द्रिय ), जिह्वा और दोनों पैर इन्हें कर्मेन्द्रियाँ समझना चाहिए; मन ज्ञानेन्द्रिय और कर्मेन्द्रिय दोनों है ॥९२॥ प्राणायतनानि दर्शयितुमाह— नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा । मूर्द्धासकण्ठहृदयं प्राणस्यायतनानि तु ॥ ९३ ॥ १. पायुरुपस्थश्च । २. च । ३. जानीत म । ४. हृदयः ।
प्रायश्चित्ताध्यायः ४५६ नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्ग- संचारित्वेऽपि नाभ्यादिस्थानविशेषवाचोक्तिः प्राचुर्याभिप्राया^१ ॥ ९३ ॥ भाषा—नाभि, ओज, गुदा, शुक्र, रुधिर, दोनों शङ्खक, मूर्धा, कण्ठ और हृदय ये (दस) प्राण के निवास स्थान हैं ॥ ९३ ॥ प्राणायतनानि प्रपञ्चयितुमाह— वपा वसावहननं नाभिः क्लोमं^२ यकृत्प्लीहा । क्षुद्रान्त्रं वृक्कौ^३ बस्तिः पुरीषाधानमेव च ॥ ९४ ॥ आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च । उदरं च गुदौ^४ कोष्ठ्यौ विस्तारोऽयमुदाहृतः ॥ ९५ ॥ वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ ॥ यकृत् कालिका, ^२क्लोम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ, क्षुद्रान्त्रं ह्रस्वान्त्रम्, वृक्कौ हृदयसमीपस्थौ मांसपिण्डौ, बस्तिमूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयोऽपक्वान्नस्थानम् , हृदयं हृत्पुण्डरीकम् ; स्थूलान्त्रगुदोदराणि प्रसि- द्धानि, बाह्याद् गुदवलयादन्तर्गूदवलये द्वे, तौ च गुदौ कोष्ठ्यौ कोष्ठे नाभेरधः- प्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः । अत एव पूर्वश्लोकोक्तानां केषांचिदिह पाठः ॥ ९४-९५ ॥ भाषा—वपा, वसा, फुप्फुस, नाभि, क्लोम (दाहिनी कोख के मांस- पिण्ड ), यकृत्, प्लीहा, क्षुद्रांत्र (हृदय की भाँती), दो वृक्कक (हृदय के समीप स्थित मांसपिण्ड), मूत्राशय, मलाशय, आमाशय, हृदय, मोटी आँत, गुँदा, उदर, गुदा का भीतरी भाग, (नाभि के नीचे के) दो कोष्ठ—ये प्राण- स्थानों के विस्तार हैं ॥ ९४-९५ ॥ पुनः प्राणायतनप्रपञ्चार्थमाह— कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ । कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे^५ ॥ ९६ ॥ वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ । उपजिह्वास्फिजौ बाहू जङ्गोरुषु च पिण्डिका^७ ॥ ९७ ॥ तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके । अंबटश्चैवमेतानि स्थानान्यत्र शरीरके ॥ ९८ ॥ १. भिप्रायेण । २. क्लोमा । ३. वृक्कको । ४. कोष्ठौ विस्तरोऽय . ५. दन्तावेष्टावेष्टौ कुकुन्दरे । ६. संघातकौ । ७. पिण्डिकाः । ८. चिबुकं । ९. अवटु ।
४६० याज्ञवल्क्यस्मृतिः अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥ ९९ ॥ कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशष्कुली, कर्णपत्रकौ कर्णपाल्यौ, कर्णौ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ, ककुन्दरे जघनकूपकौ, वङ्क्षणौ जघनोरुसंधी, वृक्कौ पूर्वोक्तौ, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिप्रोथौ, बाहू प्रसिद्धौ, जङ्घोरुषु च पिण्डिका जङ्घयोरुवोश्च पिण्डिका मांसलप्रदेशः, गल- शुण्डिके हनुमूलगलयोः सन्धी, शीर्षं शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः 'अवटुः'इति पाठे कृकाटिका; तथाऽक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयमिति वर्णचतुष्टयम् । यद्वा अक्षिपूटचतुष्टयम् । शेषं प्रसि- द्धम् । एवमेतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगलं कर्णयुग्मं— नासाविव- रह्वयमास्यं पायुरुपस्थमित्येतानि पूर्वोक्तानि नव छिद्राणि च प्राणस्याय- तनान्येव ॥ ९६-९९ ॥ भाषा—आँख की पुतलियाँ, अक्षिकूट ( आँखों एवं नाक की सन्धि ), शष्कुली ( कानों का भीतरी खण्ड ), दोनों कर्णपत्रक ( बाहर से दिखाई पड़ने वाले कान ), दोनों कान, दोनों शङ्खक, दोनों भौंहें, दोनों दन्तवेष्ट ( मसूड़े ), दोनों ओठ, ककुन्दर ( जघन के दो गड्ढे ), दोनों वङ्क्षण ( जंघा और ऊरु के जोड़ ), वृषण ( अण्डकोश ), दोनों वृक्क, श्लेष्मा से बने हुए दोनों स्तन, उपजिह्वा ( घण्टिका ), दो स्फिज् ( कटिप्रोथ ), बाँहें, जाँघों और ऊरुओं की पिण्डिका, तालु उदर, पेडू, चिबुक ठुड्डी ), गलशुण्डिका, ( ठुड्डी और गले का जोड़ ), शिर, शरीर में निम्न प्रदेश ( जैसे कण्ठमूल, कांख आदि ), दो आंखों के चार वर्ण, पैर, हाथ और हृदय तथा नौ छिद्र ( दो आँखें, दो कान, नाक के दो छिद्र, मुख, पायु, उपस्थ ) — ये सभी प्राण के निवासस्थान हैं ॥ ९६-९९ ॥ शिराः शतानि सप्तैव नव स्नायुशतानि च । धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ १०० ॥ किंच, शिरा नाभिसंबद्धाश्चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकल- कलेवरव्यापिन्यो नानाशाखाः सत्यः सप्तशतसंख्या भवन्ति । तथाऽङ्गप्रत्यङ्ग- संधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेरुद्भूताश्चतुर्विंशति- संख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनर्मांस- लाकारा ऊरुपिण्डकाद्यङ्गसंधिभ्यः पञ्चशतानि भवन्ति ॥ १०० ॥ १. अक्षिवर्त्मचतुष्कं ।
[Header] प्रायश्चित्ताध्यायः ४६१
भाषा—( वात-पित्त-श्लेष्मवाहिनी ) शिराएँ सात सौ हैं; अस्थियों की बांधने वाली स्नायुएँ, धमनियां ( प्राणवाहिनी नाड़ियां ) दो सौ और पेशियां पांच सौ होती हैं ॥ १०० ॥ पुनस्तासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्तरमाह— एकोनत्रिंशल्लक्षाणि तथा नव शतानि च । षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥ १०१ ॥ शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशल्लक्षाणि तथा नवश- तानि षट्पञ्चाशच्च भवन्तीत्येवं हे सामश्रवःप्रभृतयः मुनयः ! जानीत ॥१०१॥ भाषा—( हे मुनियो ) शिरा और धमनियां मिलकर ( अपनी शाखाओं एवं उपशाखाओं के भेद से ) उन्नीस लाख नौ सौ छप्पन होती हैं, इसे जानिये ॥ १०१ ॥ त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ १०२ ॥ किंच, १ शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं विज्ञेयम् । अस्थ्नां तु द्वे संधिशते स्नायुशिरादिसन्धयः पुनरनन्ताः ॥ १०२ ॥ भाषा—मनुष्यों के दाढ़ी-मूँछ और शिर के केश कुल मिलाकर बालों की संख्या तीन लाख समझनी चाहिए । एक सौ सात मर्मस्थल होते हैं और दो सौ अस्थियों के जोड़ होते हैं ॥ १०२ ॥ सकलशरीरसुषिरादिसंख्यामाह— रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च । सप्तषष्टिश्चतथा लक्षाः सार्धाः स्वेदायजैः सह ॥ १०३ ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः । यद्यप्ये३कोऽनुवेत्त्येषां४ भावानां चैव संस्थितिम् ॥ १०४ ॥ पूर्वोदितशिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतमरूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच्च शास्त्रदृष्ट्याभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य । इम- मतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः ! भवतां मध्ये यः कश्चिदनु- वेत्ति सोऽपि महान् अग्र्यो बुद्धिमताम् । अंतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥ १०३–१०४ ॥
१. लक्षाश्च । २. केशश्मश्रु शरीरिणाम् । ३. एको नु वैदैषां । ४. वैदैषां ।
४६२ याज्ञवल्क्यस्मृतिः भाषा-स्वेदायतों (त्वचा पर पसीना निकालने वाले सूक्ष्म छिद्रों) के रोओं को मिलाकर चौवन करोड़, सड़सठ लाख, पचास हजार रोएँ हैं। इनकी गिनती वायु के परमाणुओं द्वारा पृथक्-पृथक् किये जाने पर ही होती हैं। यदि आप लोगों (मुनियों) में कोई व्यक्ति इसे जानता है तो वह महान् है, क्योंकि इन्हें बुद्धिमान् व्यक्ति ही यत्नपूर्वक जान सकता है ॥१०३-१०४॥ शारीररसादिपरिमाणमाह- रसस्य नव विज्ञेया जलस्याञ्जलयो दश । सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ १०५ ॥ षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रमेव च । वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके ॥ १०६ ॥ श्लेष्मौजसस्तावदेव रेतसस्तावदेव तुं । इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ ॥ १०७ ॥ सम्यक्परिणताहारस्य सारो रसस्तस्य परिमाणं नवाञ्जलयः । पार्थिवपर- माणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टावञ्जलयः प्रकी- र्तिताः । श्लेष्मणः कफस्य षडञ्जलयः । पित्तस्य तेजसः पञ्च । मूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वावञ्जली । मज्जा त्वस्थिगतसुषिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्धाञ्जलिः मज्जा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश्चरमधातोस्तावदेवार्धाञ्जलिरेव । एतच्च समधातुपुरु- षाभिप्रायेणोक्तम् । विषमधातोस्तु न नियमः; 'वैलक्षण्याच्छरीराणामस्थायित्वा- त्तथैव च । दोषधातुमलानां च परिमाणं न विद्यते ॥' इत्यायुर्वेदस्मरणात् । इती- दृशमस्थिस्नायुत्वाद्यारब्धमेतदशुचिनिधानं वर्म्मास्थिरमिति यस्य बुद्धिरसौ कृती पण्डितो मोक्षाय समर्थो भवति । वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात् , अस्थिमूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अत एव व्यासः- 'सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ यदि नामास्य कायस्य यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं शूनः काकांश्च वारयेत् ॥' इति । तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनि- वृत्त्यर्थमात्मोपासने प्रयतितव्यम् ॥ १०५-१०७ ॥ भाषा-(शरीर में आहार का सारभूत) रस नौ अञ्जलि समझनी चाहिए, जल दस अञ्जलि, पुरीष सात अञ्जलि और रक्त आठ अञ्जलि बताया गया है । कफ छः, पित्त पाँच, मूत्र चार, वसा तीन, मेदस् दो और मज्जा १. मज्जैकोऽर्धं । २. च ।