भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

इत्यध्यायप्रकरणम् ।

भाषा-धर्मपूर्वक धनोपार्जन करने वाला, अतिथिसत्कार में तत्पर (नित्यनैमित्तिक) श्राद्ध अनुष्ठान में रत, सत्यवादी और आत्मतत्त्व के ध्यान में लीन रहने वाला गृहस्थ भी मुक्ति प्राप्त कर लेता है ॥ २०५ ॥ इत्यध्यायप्रकरणम् । अथ प्रायश्चित्तप्रकरणम् ५ ( १ ) कर्मविपाकः 'वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः' (आ० १) इत्यत्र प्रतिपादकतया प्रतिज्ञातषड्विधधर्ममध्ये पञ्चप्रकारं धर्ममभिधायाधुनावशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्तपदामिलप्यं प्रारिप्सुः प्रथमतस्तत्प्ररोचनार्थमधिकारिविशेष- प्रदर्शनार्थं चार्थवादरूपं कर्मविपाकं तावदाह— महापातकान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥ २०६ ॥ ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा 'ब्रह्महा मद्यपः' (प्रा० २२७) इत्यत्र वक्ष्यते तद्योगिनो महापातकिनस्ते महापातकजनितांस्तामिस्रादिनरकान्स्वज- नितदुष्कृतानुरूपान् घोरानतितीव्रवेदनापादकत्वेनातिभयंकरान्दारुणान्दुःखैक- भोगनिलयान् प्राप्य कर्मक्षयात् कर्मजन्यनरकदुःखोपभोगक्षयादनन्तरं कर्मशे- बात्पुनरिह संसारे दुःखबहुलश्वसृगालादितियंग्योनिषु प्रकर्षेण भूयो भूयो जायन्ते । 'महापातकि'ग्रहणमितरेषामप्युपपातकादीनामुपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर्वक्ष्यमाणत्वात् ॥ २०६ ॥ भाषा-(ब्रह्महत्या आदि) महापातकों से उत्पन्न तामिस्र आदि घोर नरकों को (अपने कर्म के अनुसार) भोगकर कर्मों का क्षय होने पर महा- पातकी पुनः-पुनः इस संसार में (दुःख से व्याप्त योनियों में, जो आगे उल्लिखित हैं) जन्म लेते हैं ॥ २०६ ॥ महापातकिनां संसारप्राप्तिमुक्त्वा तद्विशेषकथनायाह— मृग(गा)श्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति । खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ २०७ ॥ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ २०८ ॥ १. वेनानां ।

प्रायश्चित्ताध्यायः ४६३ मृगा हरिणादयः, श्वसूकरोष्ट्राः प्रसिद्धाः, तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्राप्नोति । खरो रासभः, पुल्कसः प्रतिलोमनिषादेन शूद्रायां जातः वैदेहकेना- ऽम्बष्ठ्यां जातो वेनः, तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीयसंभोगनि- रपेक्षां मांसविष्ठागोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः सजातीयसंभोगनिरपेक्षाः पिपीलिकादयः कीटाः, पतङ्गः शलभः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मुलते प्रागुक्ते; तज्जातीयतां क्रमेण गुरुतल्पगः प्राप्नोति । एतच्चाकामकृतविषयम्, कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिषु संसरन्ति; यथाह मनुः (१२।५५-५८)—'श्वसूकरखरो- ष्ट्राणां गोऽजाविमृगपक्षिणाम् । चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ लूता ऊर्णनाभः । सरठः कृकलासः ।—' तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुत- ल्पगः ॥' इति ॥ २०७-२०८ ॥ भाषा—ब्रह्महत्या करने वाला हरिण, कुत्ता, सूअर और ऊँट का जन्म पाता है, सुरा पीने वाला गधा, पुल्कस (निषाद द्वारा शूद्रा से उत्पन्न पुरुष) और वेण (वैदेहक द्वारा अम्बष्ठा से उत्पन्न) की योनि पाता है; इसमें सन्देह नहीं । (ब्राह्मण का) सोना चुराने वाला कृमि (मांस, विष्ठा आदि में उत्पन्न होने वाले कीड़े), कीट (चींटी आदि) और पतंगों की योनि प्राप्त करता है । गुरुपत्नी से व्यभिचार करने वाला क्रमशः तृण, गुल्म (छोटी लता) और लता का जन्म पाता है ॥ २०७-२०८ ॥ एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याह— ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २०९ ॥ यो येन संवसेत्येषां स तल्लिङ्गोऽभिजायते । किं.च, एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखमनुभूया- नन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः । प्रचुरेषु मानव- शरीरेषु संसरन्ति । तत्र ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापी स्वभावतः कृष्णदशनः, ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम्, गुरुदारगामी दुश्चर्मत्वं कुष्ठिताम् । एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति संवसति स तल्लिङ्गोऽभिजायते ॥ २०९३ ॥ १. योनीः । २. गोवाजिमृगपक्षिणाम्. ३. पुल्कसानां च ।

४६४ याज्ञवल्क्यस्मृतिः भाषा—( मनुष्य का जन्म पाने पर ) ब्राह्मण की हत्या करने वाले राजयक्ष्मा का रोगी होते हैं; सुरा पीने वाले के दाँत स्वभावतः काले होते हैं;, ( ब्राह्मण का ) सोना चुराने वाले के नख भद्दे होते हैं और गुरुपत्नी का भोग करने वाला कोढ़ी होता है । इन ब्रह्महा आदि महापातकियों में जिसके साथ कोई निवास करता है वह भी उसी के समान महापातकी होता है ॥ २०९३ ॥ अन्नहर्त्ताऽऽमयावी स्यान्मूको वागपहारकः ॥ २१० ॥ धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचकः ॥ २११ ॥ किंच, अन्नस्यापहर्त्ता आमयावी अजीर्णांन्नः । वागपहारकोऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रोऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोषप्रख्यापनशीलः । पूतिनासिकः दुर्गन्ध- नासिकः, तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचकोऽसद्दोषसंकीर्तनो दुर्गन्धवदनो जायते । एतच्च तिर्यक्त्वप्राप्त्युत्तरकालं मानुषशरीरप्राप्तौ द्रष्टव्यम् ( १२।६८ )—'यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥' इति मनुस्मरणात् ॥ २१०-२११ ॥ भाषा—अन्न चुराने वाले को अजीर्ण का रोग होता है और वाणी ( अर्थात् पुस्तक ) चुराने वाला गूँगा होता है । धान्य में मिलावट करने वाले का कोई अंग ( अंगुली आदि ) बड़ा होता है और पिशुन ( दूसरों का दोष कहने वाले चुगलखोर ) की नाक दुर्गन्धयुक्त रहती है ॥२१०-२११॥ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ २१२ ॥ किंच, यः परदारानपहरति, ब्रह्मस्वं च सुवर्णव्यतिरिक्तमपहरति, असावरण्ये निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ २१२ ॥ भाषा—परायी स्त्री का और ब्राह्मण के धन का अपहरण करने वाला वन में निर्जल स्थान पर ब्रह्मराक्षस होकर जन्म लेता है ॥ २१२ ॥ हीना जातौ प्रजायेत पररत्नापहारकः । पत्रशाकं शिखी हृत्वा गन्धांश्छुच्छुन्दरी शुभान् ॥२१३॥ किंच, हीनजातौ हेमकाराख्यायां पश्चिजातौ पररत्नाद्यपहारको जायते । तथा च मनुः (१२।६१)—'मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विवि- धानि च रत्नानि जायते हेमकर्तृषु ॥' इति । पत्रात्मकं शाकं हृत्वा मयूरः । शुभानाम्गन्धानपहृत्य छुच्छुन्दरी राजदुहिताख्या मूषिका जायते ॥ २१३ ॥

भाषा—दूसरे के रत्न को चुराने वाला हेमकार नाम के निम्न कोटि के पक्षियों की योनि में जन्म लेता है; पत्तों वाला शाक चुराने पर मयूर और सुगंधद्रव्यों को चुराने पर छुछुन्दर का जन्म मिलता है ॥ २१३ ॥ मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् । जलं प्लवः पयः काको गृहकारी ह्युपस्करम् ॥ २१४ ॥ मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ २१५ ॥ किंच, धान्यहारी आखुः, यानं हृत्त्वोष्ट्रः, फलं वानरः, जलं प्लवः, शकटविलाख्यः पक्षी, पयः क्षीरं, काको ध्वाङ्क्षः, गृहोपस्करं मुसलादि हृत्वा गृहकारी १चटकाख्यः कीटविशेषः, मधु हृत्वा दंशाख्यः कीटः, पलं मांसं तद्धृत्वा गृध्राख्यः पक्षी, गां हृत्वा गोधाख्यः प्राणिविशेषः, अग्निं हृत्वा बकाख्यः पक्षी, वस्त्रं हृत्वा श्वित्री, इक्ष्वादिरसं हृत्वा सारमेयः- लवणहारी चीर्याख्यः उच्चैःस्वरः कीटः ॥ २१४–२१५ ॥ भाषा—धान्य चुराने वाला चूहा होता है और यान (सवारी) चुराने वाला ऊँट तथा फल चुराने वाला बन्दर होता है। जल चुराने वाला शकटविल पक्षी का, दूध चुराने वाला कौए का और मूसल आदि जैसे गृहस्थी का उपकरण चुराने पर गृहकारी (चटक) पक्षी का जन्म मिलता है। मधु चुराने वाला दंश (मच्छर), मांस चुराने वाले गृध्र, गाय चुराने वाला गोह, अग्नि चुराने वाला बक पक्षी, वस्त्र चुराने वाला कुष्ठी, ईख आदि का रस चुराने वाला कुत्ता और नमक चुराने वाला चीरी कीड़ा होकर जन्म लेता है ॥ २१४-२१५ ॥ एवं प्रदर्शनार्थं किंचिदुक्त्वा प्रतिद्रव्यं २पृष्ठाकोटन्यायेन वक्तुमशक्तेरेकोपा- घिना कर्मविपाकं दर्शयितुमाह— प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २१६ ॥ द्रव्यस्यापहियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः स्तेयकर्मण्यपहर्तारो भवन्ति । यथा कांस्यहारी हंस इति । अथवा यत्फलसाधनं द्रव्यमपहरति तत्साधनविकलः-यथा पङ्गुतामश्वहारक इति ॥ शङ्खेन कचिद्विशेषो दर्शितः । 'ब्रह्महा कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणा- क्रोशकः खलतिः, गरदाग्निदावुन्मत्तौ, गुरुं प्रतिहन्तापस्मारी, गोघ्नाश्चान्धः, १. वरटाख्यः । २. पृष्टाकोटेन ।

४१६ याज्ञवल्क्यस्मृतिः

धर्मपत्नीं त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः, कुण्डाशी भगभक्षो ^१देवब्राह्मस्वापहारी पाण्डुरोगी, न्यासापहारी च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमारदारत्यागी दुर्भगः, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षको गण्डमाली, ब्राह्मणीगामी निर्बीजी, क्रूरकर्मा वामनः, वस्त्रापहारी पतंगः, शय्यापहारी क्षपणकः, शङ्खशुक्त्यपहारी कपाली, दीपापहारी कौशिकः, मित्रध्रुक् क्षयी, मातापित्रोराक्रोशः खैञ्जक^३ इति ॥ गौतमोऽपि कंचिद्विशेषमाह—अनृतवा- ग्दुस्त्वग्कः सुहृन्मुहुः संलग्नवाक् , दारत्यागी जलोदरी, कूटसाक्षी श्लीपदी उच्छ्रून- जङ्घाचरणः, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगूरणः छिन्नहस्तः, मातृघ्नोऽन्धः, स्नुषागामी वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर्मशकः, पित्रा विवदमानोऽपस्मारी, न्यासापहारी अनपत्यः, रत्नपहारी अत्यन्तदरिद्रः, विद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायसः, सृष्टैकभोजी वानरः, यतस्त- तोऽशनम्मार्जारः, कण्वतनदहनात्खद्योतः, दारकाचार्यो मुखविगन्धिः, पर्युषि- तभोजी कृमिः, अदत्तादायी बलीवर्दः, मत्सरी भ्रमरः, अभ्युत्सादी मण्डलकुष्ठी, शूद्राचार्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, अन्नापहारी अजीर्णी, ज्ञानापहारी मूकः, चण्डालीपुक्कसीगमने अजगरः, प्रव्रजितागमने मरुत्पिशाचः, शूद्रीगमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी बलाकः, वाधुषिकोऽङ्गहीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने सृगालः, परद्रव्यापहारी परप्रेष्यः, मत्स्यवधे गर्भवासी, इत्येतेऽतूर्ध्वगमना इति ॥ स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव जातिषु स्त्रीत्वमनुभवन्ति । यथाह मनुः (१२।६९)—‘स्त्रियोऽ- प्येतेन कल्पेन कृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥’ इति । एतच्च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महाद्युद्वेग- जननार्थं न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतप्राप्त्यर्थं संसर्ग- निवृत्त्यर्थं च । तथा हि—पापक्षयार्थं प्रायश्चित्तम् । नंच प्रायश्चित्तेन प्रारब्धफ- लपापापूर्वविनाशे किंचन प्रयोजनमस्ति । नहि कार्मुकनिर्मुक्को बाणो लक्ष्यवेधे बेद्धुस्तद्व्यापारस्य वा संत्तानन्तरं पुनरपेक्षते । न च तदारब्धफलनाशार्थौ पूर्व- नाशाऽन्वेषणीयः । नहि ^१०निमित्तकारणीभूतचक्रचीवरादिविनाशेने तदारब्धकर- कादिविनाशः । नच नैसर्गिकं कौन्त्यादिकं प्रध्यानेतुं शक्यते । किंच नरक- तिर्यग्योन्यादिजन्यदुःखपरंपरामंनुभूतस्य हि कौन्त्यादिको विकारश्वरमं फलम् ।

१. ब्रह्मस्वहरः । २. सृष्टैकाशी ३. खण्डकारः । ४. अस्थूलजङ्घ । ५. अवगूरणी । ६. मिष्टैकभोजी । ७. हत्वा दोषं । ८. न च प्रारब्ध । ९. सत्ता पुनरपेक्षते । १०. कारणभूत । ११. मनुभूय तस्य ।

प्रायश्चित्त्याध्यायः ४६७ तेन चोपरुद्धमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणेनेवार- णिचयः । तस्मान्न पापविनाशार्थं व्रतपरिचर्या, नापि संव्यवहारार्थम् । नहि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीननैवद्यात्पापनाशेन संव्यव- हार्यत्वस्यापि सिद्धेनार्थो व्रतचर्यया ॥ यत्तु वसिष्ठेनोक्तम् ( ३०६ )—'कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशरात्रं चरेत्' इति तच्छामवत्यादिवन्नैमित्तिकमात्रं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्धयर्थं वेति मन्तव्यम् ॥ २१६ ॥ भाषा—इतना मैंने उदाहरण के लिये कहा है । दूसरे का द्रव्य चुराने पर तो जिस प्रकार का द्रव्य होता है उसी प्रकार की योनि (चोरी करने वाला) प्राप्त करता है । यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ २१७ ॥ किंच, यथाकर्म स्वकृतदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश्च पुरुषेषु निकृष्टा जायन्ते ॥ भाषा—अपने किए हुए कर्म के अनुसार नरक आदि फल और पशु पक्षियों की योनि प्राप्त करके (कालक्रम से कर्म के क्षीण होने पर) वे कुरूप दरिद्र और पुरुषों में निकृष्ट होकर जन्म लेते हैं ॥ २१७ ॥ ततो निष्कल्मषीभूताः कुले महति भोगिनः । जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ २१८ ॥ किंच, ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकायुरुपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसंपन्नाः विद्याधनधान्यसंपन्ना। जायन्ते ॥ २१८ ॥ भाषा—तब (इस प्रकार के मनुष्य) जन्म-जन्मान्तर में नरक आदि के भोग द्वारा पापों के क्षीण होने पर भोगसंपन्न उच्च कुल में धनधान्य से युक्त और विद्या से सम्पन्न होकर जन्म लेते हैं ॥ २१८ ॥ एवं प्रायश्चित्तेषु प्ररोचनार्थं कर्मविपाकमभिधायाधुना तेष्वेवाधिकारिणं निरूपयितुमाह— विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ २१९ ॥ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ २२० ॥ १. प्राचीननयात् । २. संव्यवहारार्थत्वस्यापि । ३. यथा कर्म ।

४१८ याज्ञवल्क्यस्मृतिः

विहितमिति यदावश्यकं संध्योपासनाग्निहोत्रादिकं नित्यमशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तदुभयमुच्यते तस्याकरणात् , निन्दितस्य निषिद्धस्य सुरापानादेः करणात् , इन्द्रियाणामनिग्रहाच्च नरः पतनमृच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ॥ ननु 'इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः' (मनुः ४।१६) इतीन्द्रियप्रसक्तेरपि निषिद्धत्वात् 'निन्दित' ग्रहणे- नैव गतार्थत्वात्किमर्थं 'अनिग्रहाच्चेन्द्रियाणाम्' इति पृथगुपादानम् ? अत्रो- च्यते,-इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकम्रतमध्येऽस्य पाठात्तत्र च 'व्रतानीमानि धारयेत्' (मनुः ४।१३) इति 'व्रत'शब्दाधिकारा- ञ्छश्वदवाच्चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । स ^१चोभयरूप इति पृथगुपादानम् ॥ ननु विहिताकरणात् प्रत्यवैतीति कुतोऽवसितम् ? न तावदग्नि- होत्रादिचोदना पुरुषप्रवर्तनात्मिकाऽननुष्ठानस्य प्रत्यवायहेतुतामाक्षिपति । विष- यानुष्ठानस्य पुरुषार्थत्वावगतिम ।त्रपर्यवसायिनी हि सा तावन्मात्रेण प्रवृत्त्यु- पपत्तेर्न पुनरकरणस्य प्रत्यवायहेतुत्वमपि वक्ति; क्षीणशक्तित्वादनुपपत्तेः । किंच, यद्यनुपपत्युपशमेऽपि प्रवृत्तिसिद्ध्यर्थमर्थान्तरं कल्प्यते तर्हि निषिद्धध- मानक्रियाजन्यप्रत्यवायपरिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरं कल्प्येत । नचैतत्कस्यचिदपि संमतम् ॥ ननु यथा निषिद्धेष्वर्थवादावगतप्रत्य- वायपरिहारार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादावगताकरणजन्यप्रत्यवाय- परिहारार्थता कस्मान्न स्यात् ? मैवम्; नहि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थ- वादाः सन्ति । न च 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इतीयं स्मृतिरेव वाक्यशेषस्थानीयेति चतुरस्रम् । नहि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरे- णार्थवादः संभवति । भवतु वा कथंचिदेकवाक्यतयार्थवादस्तथापि ^३नोभाव- रूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते । ननु 'ज्वरे चैवातिसारे च लङ्घनं परमौषधम्' इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्घनं ज्वरशान्तिं जनयतीति यथावगम्यते तथात्रापि भवतु । मैवम्; यतो नान्रापि लङ्घनाज्ज्वर- शान्तिः, किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपाक^४जनिता- द्धातुसाम्यादिति मन्तव्यम् । तस्मात् 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इति कथमस्याः स्मृतेर्गतिरिति वाच्यम् । उच्यते,-अग्निहोत्रादिविषयाधिका- रासिद्धिरूपप्रत्यवायाभिप्रायेणेति ,न दोषः । ननु (१२।७१।७२)—'वान्ता- श्युल्कामुखः प्रेतो ^५विप्रो धर्मात्स्वकाच्च्युतः । अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकस्तु भवति

१. च भावरूप । २. यद्यप्यनुप । ३. नाभावरूपविहिताकरणं । ४. परिपाकजननाद्धातु । ५. विप्रो भवति विध्युतः ।

प्रायश्चित्ताध्यायः ४६६ शूद्रो धर्मत्स्वकाच्च्युतः ॥' इत्येतानि विहिताकरणप्रत्यवायपराणि मनुवच- नानि कथं घटन्ते ? उच्यते,—यथा वान्तमश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितमकुर्वतः पुरुषस्य पुरुषार्थासिद्धेरित्यकरणनिन्दनमनुष्ठान- प्ररोचनार्थमित्यविरोधः । यद्वा,—प्राग्भवीयनिविद्धाचरणात्तित्सविहितानुष्ठान- विरोधिरागालस्यादिजन्यवान्ताश्युल्कामुखप्रेतत्वाधिरूपमिति न क्वचिदभावस्य कारणतेति मन्तव्यम् ॥ ननु पुंश्चलीवानरखरदष्ट(श्वदष्ट)मिथ्याभिशस्तःदौ विहि- ताकरणादिनिमित्तानामन्यतमस्याप्यभावात्कथं प्रत्यवायिता ? कथं च तदभावे प्रायश्चित्तविधानम् ? उच्यते,—अस्मादेव पापक्षयार्थप्रायश्चित्तविधानाज्जन्मान्त- राचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तमित्यभिशापादिकं तन्निमित्तप्राय- श्चित्ताप नोद्यभनेनानुष्ठितमिति कल्प्यते; पुरुषप्रयत्नैरपेक्षयेण कार्यरूपपापोत्प- त्त्यनुपपत्तेः । नच पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्व- नियमाद्धर्माधर्मयोः, तस्माद्युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथा च मनुः (११।४४)—'अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रि- यार्थेषु प्रायश्चित्तीयते नरः ॥' इति । 'नर'ग्रहणं प्रतिलोमजातानामपि प्रायश्चि- त्ताधिकारप्राप्त्यर्थम्, तेषामप्यहिंसादिसाधारणधर्मव्यतिक्रमसंभवात्, यस्मादेवं निषिद्धाचरणादिना प्रत्यवैति तस्मात्तेन कृतनिषिद्धसेवादिना पुरुषेण प्राय- श्चित्तं कर्तव्यमिह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश्चायं पाप- क्षयार्थे नैमित्तिके कर्मविशेषे रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्ध- तया प्रसीदति लोकश्च संव्यवहर्तुं प्रसीदति । एवं वदततद्दर्शितम्—नैमित्तिकोऽयं प्रायश्चित्ताधिकारः, तथा चार्थवादगतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । नच दुरितपरिजहीसानुष्ठीयत इत्येतावता कामाधिकारो³शङ्का कार्या । यस्मात् (मनुः ११।५३)—'चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥' इत्यकरणे दोषश्रवणेनावश्यकत्वा- वगमात् ॥ २१९-२२० ॥ भाषा—नित्य, नैमित्तिक आदि विहित कर्मों के न करने से तथा सुरा- पान आदि निषिद्ध कर्म करने से और इन्द्रियों का निग्रह न करने से मनुष्य पतित हो जाता है । इस लिये मनुष्य की शुद्धि के लिये प्रायश्चित्त करना चाहिए और इस प्रकार उसकी अन्तरात्मा और लोक सभी प्रसन्न होते हैं ॥ प्रायश्चित्ताकरणे दोषमाह— प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । ⁴अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥ २२१ ॥ १. प्रायश्चित्तनिमित्त । २. लोकश्चायं संव्यव । ३. धिकारशङ्का । ४. अपश्चात्तापिनो यान्ति नरकानतिदारुणान् । ३२ या०

५०० याज्ञवल्क्यस्मृतिः पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषाः अपश्चात्तापिनो मया दुष्कृतं कृतमित्येवमुद्वेगरहिताः प्रायश्चित्तमकुर्वाणाः दुःसहान्नरकान्प्राप्नुवन्ति ॥ २२१ ॥ भाषा—पापकर्मों में निरत रहने वाले मनुष्य प्रायश्चित्त न करने (किये हुए कर्म) पर पश्चात्ताप न करने पर अत्यन्त भयंकर एवं कष्टमय नरकों में जाते हैं ॥ २२१ ॥ नरकस्वरूपं विवृण्वन्नाह— तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ २२२ ॥ संघातं लोहितोदं च सविषं संप्रपातनम् । महानरककाकोलं संजीवनमहापथम् ॥ २२३ ॥ अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च । असिपत्रवनं चैव ४तापनं चैकविंशकम् ॥ २२४ ॥ महापातकजैर्घोरैरुपपातकजैस्तथा । अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः ॥ २२५ ॥ तामिस्रप्रभृतींस्तापनपर्यन्तानेकविंशतिनरकानन्वर्थसंज्ञाद्योतितावान्तरभेदा- न्महापातकोपपातकजनितभयंकरदुरितैरन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ २२२–२२५ ॥ भाषा—तामिस्र, लोहशङ्कु, महानिरय, शाल्मली, रौरव, कुङ्मल, पूति- मृत्तिक, कालसूत्रक, संघात, लोहितोद, सविष, संप्रपातन, महानरक, काकोल, संजीवन, महापथ, अवीचि, अन्धतामिस्र, कुम्भीपाक, असिपत्रवन, तापन ये इक्कीस नरक हैं । घोर महापातकों एवं उपपातकों से युक्त अधम मनुष्य प्रायश्चित्त न करने पर इन नरकों को प्राप्त करते हैं ॥ २२२–२२५ ॥ उपात्तदुरितनिरासार्थं प्रायश्चित्तमित्युक्तं, तत्र विशेषमाह— प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ॥ २२६ ॥ प्रायश्चित्तैर्वक्ष्यमाणलक्षणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति, न कामतः कृतम् । किंतु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो जायते । अत्र च प्रायश्चित्तैरपैत्येनो यदज्ञानकृतम्' इत्युपक्रमात्तत्प्रतियोगि- तया 'ज्ञानत' इति वक्तव्ये यत् 'कामतः' इत्युक्तं, तत् ज्ञानकामयोस्तुल्यत्व- प्रदर्शनार्थम् । तथा हि-'विहितं यदकामानां कामात्तद् द्विगुणं भवेत् ।' तथाऽबुद्धि- १. दुःखदान् । २. महारौर वशाल्मलिम् । ३. नदीपथम् । ४. तपनम् ।

प्रायश्चित्ताध्यायः ५०१ पूर्वक्रियायामर्धं प्रायश्चित्तम् । तथा 'म्लेच्छेनाधिगतः१ शूद्रस्त्वज्ञानात्तु कथंचन । कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात्तु२ द्विगुणं भवेत् ॥' इत्यादिभिर्वचनै३र्ज्ञानकामनयोस्तुल्य- प्रायश्चित्तदर्शनात्तुल्यफलतैव । किंच, स्वतन्त्रप्रवृत्तिर्विषयज्ञानकामनाभ्यां नियता; तयोरन्यतरापायेऽपि४ तस्या असंभवदतः 'कामत' इत्युक्तम् ; 'ज्ञाना- ज्ञानत' इत्युक्तेऽपि कामः प्राप्नोत्यविनाभावात् । नच चौरादिभिर्बलात्प्रवर्त्य- मानस्य सत्यपि विषयज्ञाने कामनाभावान्नाविनाभाव इति वाच्यम् । यतोऽत्र विद्यमानस्यापि५ ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्सत्त्वम् ॥ यत्तु-शुष्केऽपि विप- तिषोर्भ्रान्त्या कर्दमपतनं, तत्रापि वास्तवज्ञानाभावात्तद्विषयकामनायाश्चाभाव एव । एवमज्ञानाकामनयोरप्यव्यभिचार एव ॥ ननु 'प्रायश्चित्तैरपैत्येनः' इति न युक्तम् ; फलविनाश्यत्वात्कर्मणः । मैवम् ; यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयोऽपीति नात्र प्रमाणान्तरं क्रमते । अतएव गौतमेन पूर्वोत्तरपक्षभङ्ग्या अयमर्थो दर्शितः । तन्न प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते । न कुर्यादित्या- हुर्न हि कर्म क्षीयते इति । कुर्यादित्यपरे । 'पुनःस्तोमेनेष्ट्वा पुनःसवनमा- यान्तीति विज्ञायते । व्रात्यस्तोमेनेष्ट्वा६ तरति सर्वं पाप्मानं तरति भ्रूणहत्यां योऽश्वमेधेन यजते' इति पुनःसवनमायान्ति इति सवनसंपाद्यज्योतिष्टोमादि- द्विजातिकर्मणि योग्यो भवतीत्यर्थः । न चेदमर्थवादमात्रम् ; अधिकारिविशेषणा- काङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं 'प्रायश्चित्तरपैत्येनः' इति ॥ ननु कामकृते प्रायश्चित्ताभावात्कथं व्यवहार्यत्वं तद- भावश्च 'अनभिसंधिकृतेऽपराधे प्रायश्चित्तम्' इति ( २०।१ ) वसिष्ठवचनात् ॥ 'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' इति ( ११।८९ ) मनुवचनाच्चावगम्यते । नैतत् ; 'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥' इति । तथा—'विहितं यदकामानां कामात्तद्द्विगुणं भवेत्' इति च कामकृतेऽपि प्राय- श्चित्तदर्शनात् । यत्तु वसिष्ठवचनं 'तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं शुद्धि- करम्' इत्यभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति ॥ यत्तु मनुवचनं-'इयं विशुद्धिरुदिता' इत्यादि, तदपीयमिति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रत- चर्यया एव । 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते' इत्यनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य; मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ॥ ननु यदि कामकृतेऽपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषाद्यदि पाप- १. धिगता शूद्रा स्वज्ञानात्तु । २. ज्ञानात्तद्द्विगुणं, ज्ञाने तु द्विगुणं । ३. इत्याद्यपूर्ववचनैः । ४. अन्यतराभावेऽपि । ५. विद्यमानस्याप्रवृत्ति । ६. नेष्ट्वा ब्रह्मचर्यं चरेदुप नयनत इति सर्वं पाप्मानं ।

५०२ याज्ञवल्क्यस्मृतिः च्चयोऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ? उच्यते, — उभयत्र प्रायश्चित्ता- विशेषेऽपि फलविशेषः शास्त्रतोऽवगम्यते । अज्ञानकृते तु सर्वत्र पापक्षयः । यत्र तु ‘ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धसंबद्धावागमस्तेन नास्तिकनिन्दित- कर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्च’ ( २०।१।२ ) इति गौतमोक्तमहापातकादौ व्यवहार्यत्वं निषिद्धं, तस्मिन्पतनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति । नच पापक्षयाभावे व्यवहार्यत्वमनुप- पन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतर- शक्त्यविनाशेऽपि व्यवहारनिरोधिकायाः शक्तेर्विनाशो नानुपपन्नस्तस्माग्णापजप- गमेऽपि व्यवहार्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् ( ११।४५ ) — ‘अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥’ इति,–तदपि कामकृते प्रायश्चित्तप्राप्त्यर्थं, न पुनः पापक्षयप्रतिपादनपरम् । अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव; ‘अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥ इति ( ११।४६) मनुस्मरणात् । पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मषक्षयो भवत्येव । फलान्तराभावात् । नौस्यान्यस्मिँल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निहन्यते’ ( १।२४—२६ ) इत्यापस्तम्बस्मरणात् ॥ २२६ ॥ भाषा—जो पापकर्म अज्ञानवश किया गया होता है वह प्रायश्चित्त से दूर होता है । जानबूझ कर पापकर्म करके प्रायश्चित्त करने पर (वह पाप दूर तो नहीं होता किन्तु) प्रायश्चित्त के वचन द्वारा लोक में व्यवहार की योग्यता प्राप्त होती है ॥ २२६ ॥ निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तमित्युक्तं तत्प्रपञ्चयितुमाह— ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥ २२७ ॥ हन्तिरथं प्राणवियोगँकरे व्यापारे रूढः, यद्व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति सः, ब्राह्मणं हतवानिति ब्रह्महा, मद्यपो निषिद्धसुरायाः पाता, स्तेनः ब्राह्मणसुवर्णस्य हर्ता, ‘ब्राह्मणसुवर्णोप- हरणं महापातकं’ इत्यापस्तम्बस्मरणात् । गुरुतल्पगो गुरुभार्यागामी । ‘तल्प’- शब्देन शयनवाचिना साहचर्याद्भार्या लक्ष्यते । एते ब्रह्महादयो महापात- किनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महत्त्कब्देन तेषां गुरुत्वं १. ब्रह्महा सुरापो गुरुतल्पगो मातृपितृ । २. संबन्धावगम । ३. पाप- क्षयं प्रति प्रतिपादन । ४. नास्यास्मिँल्लोके । ५. संविशेत्समान् । ६. वियो- गकरणे ।

स्थाप्यते तयोगिनो महापाकिन इति लाघवार्थं संज्ञाकरणम् । यश्च तैर्ब्रह्महा- दिभिः प्रत्येकं सह संवसति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' (प्रा० २६६) इति वक्ष्यमाणन्यायेन सोऽपि महापातकी । 'तथा'शब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्तृसंग्रहार्थः । अनुग्राहकश्च यः पलायमानम- मित्रं उपरन्धन् परेभ्यश्च हन्तारं परिरक्षन्हन्तुर्द्रढिमानमुपजनयन्नुपकरोति स उच्यते । अत एव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः—'बहूनामेक- कार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥' इति । तथा प्रयोजकादीनामप्यापस्तम्बेन फलसंबन्ध उक्तः—'प्रयोजितानु- मन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन्फल- विशेषः' इति तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः—आज्ञापयि- ताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयमुच्चः सन्नीचं भृत्या- दिकं यः प्रेरयति मदीयमित्रं जहीति स उच्यते । अभ्यर्थयमानस्तु यः स्वयमसमर्थः सन् प्रार्थनादिना मच्छत्रुं व्यापादयेत्युच्चैः¹ प्रवर्तयति सोऽभिधीयते । अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयोक्तृत्वम् । उपदेष्टा पुनस्त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन्कथ्यते । तत्र च प्रयोज्यगतमेव फलमिति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः।² स द्विप्रकारः—कश्चित्स्वार्थसिद्ध्य- र्थमनुजानाति कश्चित्परार्थमिति ॥ नन्वनुमननस्य कथं हिंसाहेतुत्वं, न तावत्प्राण- वियोगोत्पादनेन; तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव; साक्षा- त्कर्तृप्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । नच साधु त्वयाध्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद्व्यर्थ- त्वाच्च । उच्यते,—यत्र हि राजादिपारतन्त्र्यात्स्वयं मनसा प्रवृत्तोऽपि प्रवृत्ति- विच्छेदभयादागामिदण्डभयाद्वा शिथिलप्रयत्नो राजानुमतिमपेक्षते तत्रानुमति- र्हन्तुः प्रवृत्तिमुपोद्बलयन्ती हिंसाफलं प्रति हेतुतां प्रतिपद्यते । तथो³ योऽपि भर्त्सनताडनधनापहारादिना परान्कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वा- रेण हिंसाहेतुर्भवत्येव । अत एव विष्णुनोक्तम्—'आक्रुष्टस्ताडितो वापि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' इति तथा—'ज्ञाति- मित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' इति । नच कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्त्यदर्शनादकारणतेति शङ्कनी- यम्; पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्वव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिन्द-


१. समर्थं प्रवर्तयति । २. तादृशमननस्य । ३ तथान्योपि ।

५०४ याज्ञवल्क्यस्मृतिः

वधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलं गुरुलाघवात् प्रायश्चित्तगुरुला- घवं बोद्धव्यम्; 'यो भूय आरभते तस्मिन्फलविशेषः' इति वचनात् । तथा चानुग्राहकस्य तावत्स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्यपि साक्षात्प्राण- वियोगफलकखड्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद्भूयो हिंसारम्भक- त्वाभावादल्पफलत्वमल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनक- त्वेन व्यवहितत्वात्ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्वेनोपदेष्टुर- ल्पफलत्वम् ॥ ननु प्रयोजकहस्तस्थानीयत्वात्प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि फलसंबन्धस्तर्हि स्थपतितडागखनितृप्रभृतीना- मपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते, शास्त्रोक्तं फलं प्रयोक्तृ- रीत्या न्यायेनाधिकारिंकर्तृगतफलजनका देवकूपतडागनिर्माणादयः । नच स्थपति- तडागखनित्रादयो देवकूपतडागकरणादिष्वधिकारिणः, स्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमान्निब- न्धनो दोषः । अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वं प्रयोजकव्यापाराद्बहिरङ्गत्वा- ल्लघुत्वाच्चानुमननस्य । निमित्तकर्तुः पुनराक्रोशाकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसंधानं विना प्रवृत्तत्वाच्चानुमन्तुः सकाशादप्यल्पफलत्वम् ॥ ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोरपि हन्तुपुरुषोत्पादनद्वारेण हननकर्तृत्वप्रसङ्गः । उच्यते,—नहि पूर्वभावित्वमात्रेण कारणत्वम्; कारण- तयापि तथाभावित्वोपपत्तेः । यत्खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धि कारणम् । यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति रथन्तरसामतैव क्रतोरैन्द्रवायवाग्रतायां कारणम् । नहि तत्र सोमयागः स्वरूपेण कारणं; व्यभिचारात् । नच पित्रोस्तादृग्विधकारणलक्षणयोगित्वमिति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतित- ब्राह्मणादिमरणे खानयितुर्दोषभावः । नहि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीत्येवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुरपि कारणत्वमेव, न पुनर्हिंसाहेतुत्वमिति मातापितृतुल्यतैव । तथा क्वचित्स- त्यपि हिंसानिमित्तयोगत्वे परोपकारार्थप्रवृत्तौ वचनाद्दोषभावः । यथाह संवर्तः—'बन्धने गोचिकित्सार्थे मूढगर्भविमोचने । यत्ने कृते विपत्तिश्चेत्प्राय- श्चित्तं न विद्यते ॥ औषधं स्नेहमाहारं ददद्गोब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयत्नैैरुपकुर्वताम् । प्राणसंत्राण- सिद्धयर्थं प्रायश्चित्तं न विद्यते ॥' इति ।—एतच्चादाननिदाननिपुणभिषग्विषयम् ।


१. फलगुरु । २. देवकुलतडाग । ३. तडागकर्त्रादयो । ४. दप्य- फलत्वम् । ५. ग्रता कारणम् । ६. नास्ति प्रसंगः ।

प्रायश्चित्ताध्यायः ५८५ इतरस्य तु 'भिषङ्मिथ्यश्चरन्दाप्यः' ( व्य० १६२ ) इत्यत्र ... यत्तु मन्युनिमित्ताक्रोशानादिकमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापा- दयति तत्रापि न दोषः; 'अकारणं तु यः कश्चिद् द्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्न तु यं परिकीर्तयेत् ॥' इति स्मरणात् ॥ तथा यत्र क्रोशकादिजनितमन्युरात्मानं खड्गादिना प्रहृत्य मरणादर्वागाक्रोशनादिकर्त्रा १ वस्त्रा- दानादिना संतोषितो यदि जनसमक्षमूच्चैः श्रावयति नात्राक्रोशकस्यानराध इति, तत्रापि वचनान्न दोषः । यथाह विष्णुः- 'उद्दिश्य कुपितो हत्वा तोषितः श्रावि- त्पुनः । तस्मिन्मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते ॥ इति । एतेषां च प्रमादा- कादीनां दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ २२७ ॥ भाषा-ब्राह्मण की हत्या करने वाला, सुरा पीनेवाला, (ब्राह्मण का) स्वर्ण चुराने वाला तथा गुरुपत्नी से भोग करनेवाला-ये महापातकी होते हैं और इनके साथ निवास करने वाले भी महापातकी होते हैं ॥ २२७ ॥ ब्रह्महत्यासमान्याह- गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ २२८ ॥ गुरूणामाधिक्येनाधिक्षेपः अनृताभिशंसनम् । 'गुरोरनृताभिशंसनमपि महापातकसमानि' ( २।१।१० ) इति गौतमस्मरणात् । एतच्च लोकाविदितदोषा- भिशंसनविषयम् । 'दोषं बुद्ध्वा न पूर्वं परेषां समाख्याता स्यात्संग्रवहारे चैनं परिहरेत्' ( १।२१।२० ) इत्यापस्तम्बस्मरणात् । नास्तिक्याभिनिवेशेन वेदकु- त्सनम् । सुहृन्मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छा- स्त्रविनोदेनालस्यादिना वा नाशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यास- मानि । यत्पुनः 'स्वाध्यायाग्निसुतत्यागः' ( प्रा० २३९ ) इत्यधीतवेदस्योप- पातकमध्ये परिगणनं, तत्कथंचित्कुटुम्बभरणाकुलतयाऽसच्छास्त्रश्रवणादिना वा विस्मरणे द्रष्टव्यम् ॥ २२८ ॥ भाषा-गुरु पर मिथ्या दोषारोपण, वेद की निन्दा, मित्र की हत्या और पठित वेद एवं शास्त्र का आलस्यवश विस्मरण-इन सबको ब्रह्महत्या के समान ही समझना चाहिए ॥ २२८ ॥ सुरापानसमान्याह- निषिद्धभक्षणं जैह्मयमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ॥ २२९ ॥ १. मन्युनात्मानम् । २. कर्ता धनदाना । ३. ततः । ४. मुत्कर्षं च ।

५०६ याज्ञवल्क्यस्मृतिः निषिद्धं लशुनादिकं, तस्य मतिपूर्वं भक्षणम् । अत एव मनुः (५।१९)— छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्विजः ॥१ इति । अमतिपूर्वे तु प्रायश्चित्तान्तरम् ( ५।२० )—'अभक्ष्येतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥' इति तेनैवोक्तत्वात् । जैह्मयं कौटिल्यं, अन्याभिसंधानेनान्यवाङ्नियमन्यकर्तृत्वं च । अत्र च जैह्मयमिति यद्यपि सामान्येनोक्तं, तथापि प्रायश्चित्तस्य गुरुत्वान्निमित्त- स्यापि गुरुविषयं जैह्मयमिति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा 'यस्योभावग्नी अनुगतौ स्यातां दुष्टौ भवेताम- भिनिम्रोचेद्वा पुनराधेयं तत्र प्रायश्चित्तिः' इत्यत्रोभावित्यस्य निमित्तविशेषेण- त्वेन हविरुभयत्वादविवक्षितत्वेऽप्यग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिब- लादग्निद्वयानुगतिरेव निमित्तमिति कल्प्यते; तथात्रापीति युक्तं निमित्तगौरवक- ल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोऽहमित्यनृतभा- षणम् । रजस्वलाया (कामवशेन) वक्त्रासवसेवनम्, एतानि सुरापानसमानि ॥ भाषा—निषिद्ध ( लहसुन आदि ) पदार्थ का जानबूझ कर भक्षण, कुटिलता, उत्कर्ष प्राप्ति के लिए असत्य भाषण और रजस्वला स्त्री के मुख का चुम्बन—ये सुरापान के समान ही होते हैं ॥ २२९ ॥ सुवर्णस्तेयसमान्याह— अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ २३० ॥ अश्वादीनां ब्राह्मणसंबन्धिनां, निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापहरण- मेतत्सर्वं सुवर्णस्तेयसमं वेदितव्यम् ॥ २३० ॥ भाषा—( ब्राह्मण के ) घोड़ा, रत्न, मनुष्य, स्त्री, भूमि और गाय तथा निक्षेप का अपहरण—'ये सभी सोने की चोरी के समान ही होते हैं ॥ २३० ॥ गुरुतल्पसमान्याह— सखिभार्याकुमारीषु स्वयोनिश्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ २३१ ॥ सखा मित्रं, तस्य भार्या; कुमारीत्तसजातीया कन्यका, तासु 'सकामा- स्वनुलोमासु न दोषस्त्वन्यथा दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥' ( व्य० २८८ ) इति तत्रैव दण्डविशेषप्रतिपादनात्प्रायश्चित्तगुरुत्वं युक्तम् । १. द्विजः । २. विषयं यज्जैह्मयमिति । ३. विशेषत्वेन ।

स्वयोनिर्भगिनी, अन्त्यजा चाण्डाली, सगोत्रा समानगोत्रा, सुतस्त्री स्नुषा, एतासां गमनं प्रत्येकं गुरुतल्पसमम् । एतच्च रेतस्सेकादूर्ध्वं वेदितव्यम्; अर्वाङ्निवृत्तौ तु न गुरुतल्पसमत्वं, किंत्वल्पमेव प्रायश्चित्तम् । 'रेतःसेकः स्वयो- नीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥' ( ११।५८ ) इति मानवे 'रेतःसेक' इति विशेषणोपादानात् । 'सगोत्रा'ग्रहणेनैव सिद्धे पुनः 'सुतस्त्री'ग्रहणं प्रायश्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्म- हत्यादिसमत्ववचनं गुर्वादिक्षेपादेस्तत्तज्जन्यप्रायश्चित्तोपदेशार्थम् । ननु वेद- निन्दादौ दोषस्य लघुत्वाद् गुरुतरं ब्रह्महत्यादिप्रायश्चित्तं न युज्यते । मैवम् ; गुरुप्रायश्चित्तोपदेशबलादेव दोषगुरुत्वावगतेः । न च ब्रह्महत्यादिप्राय- श्चित्तातिदेशार्थमेवेदं वचनं भवति, किंतु दोषगौरवमात्रप्रतिपादनपरमित्या- शङ्कनीयम् । यतस्तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासममिदं गुरुतल्पसममि- त्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच्च प्रायश्चित्तं 'सम'शब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तेभ्यः किंचिन्न्यूनमेवोपदिश्यते । 'लोके राजसमो मन्त्री' इत्यादिकवाक्येषु 'सम'शब्दस्य किंचिद्धीने प्रयोगदर्शनात्, महतः पातकस्येतरस्य च तुल्यत्वस्यानुक्तत्वाच्च । एवं च सति याज्ञवल्क्येन ब्रह्महत्यासमत्वेनोक्तानामपि ब्राह्मणात्यवेदनिन्दासुहृद्वधानां मनुना यत्सुरापानसाम्यम् ( ११।५६ ) - 'ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापान- समानि षट् ॥' इत्युक्तं, तत्प्रायश्चित्तविकल्पार्थम् । एवमन्येष्वपि वचनेषु विरोधः परिहर्तव्यः । यत्तु वसिष्ठेन-'गुरोरलीकनिर्वन्धे कृच्छ्रं द्वादशरात्रकं चरित्वा सचैलः स्नातो गुरुप्रसादात् पूतो भवति' इति लघुप्रायश्चित्तमुक्तं, तदमतिपूर्वं सकृदनुष्ठाने च वेदितव्यम् ॥ २३१ ॥

भाषा-मित्र की पत्नी, ( उत्तम जाति की ) अविवाहित कन्या, भगिनी, चाण्डाली, समानगोत्रवाली स्त्री और पुत्रवधू ( पतोहू ) -इनके साथ संभोग गुरुपत्नीभोग के समान कहा गया है ॥ २३१ ॥

गुरुतल्पातिदेशमाह- पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ २३२ ॥ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गं छित्त्वा वधैस्तस्य सकामायाः स्त्रिया अपि ॥ २३३ ॥


१. गुरुत्वमवगम्यते । २. गर्हितान्नाद्ययोः । ३. गच्छंश्च । ४. वध- स्तत्र । ५. स्तथा ।

५०८ याज्ञवल्क्यस्मृतिः पितृष्वस्रादयः प्रसिद्धाः, ता गच्छन् गुरुतल्पगः, तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दण्डार्थं, प्रायश्चित्तं च तदेव । 'च' शब्दाद्राज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः ( १२।७३-७५ ) - 'माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रियस्यैव; तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री, साध्वी व्रतचारिणी, वर्णोत्तमा ब्राह्मणी । अत्र 'मातृ'ग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य; 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्' इति तस्य वधनिषेधात् वधस्यैव प्रायश्चित्तरूप- त्वात् । अस्य च विषयं गुरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चित्तविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः सत्य एतानेव पुरुषान्वशीकृत्योपभुञ्जते तदा तासामपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वङ्गिच्छेपादितनयागम- पर्यन्तानि महापातकातिदेशविषयाणि सद्यः पतनहेतुत्वारपातकान्युच्यन्ते । यथाह यमः-'मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी स्वसा श्वश्रू- र्गत्वा सद्यः पतेन्नरः ॥' इति गौतमेन पुनरन्येषामपि पातकत्वमुक्तम् ( २१। १२ )-'मातृपितृयोनिसंबद्धाङ्गजस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यप- तितत्यागिनः पतिताः पातकसंयोजकाश्च' इति । तेषां च महापातकोपपातक- मध्यपाठClass-महापातकान्न्यूनत्वमुपपातकाच्च गुरुत्वमवगम्यते । तदुक्तम् - 'महा- पातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपा- तकम् ॥' इति । तथा चाङ्गिराः - 'पातकेषु सहस्रं स्यान्महत्सु द्विगुणं तथा उपपापे तुरीयं स्यान्नरकं वर्षसंख्यया ॥' इति ॥ २३२-२३३ ॥ भाषा - पिता की बहन ( बुआ ), माता, मामी, स्नुषा ( पतोहू ), सौतेली माता, बहन, आचार्य की पुत्री, आचार्य की पत्नी, या अपनी पुत्री से संभोग करने वाला गुरुपत्नीभोगी के समान होता है; उसका लिङ्ग काटकर वध कर देना चाहिए; और यदि ये स्त्रियाँ स्वेच्छा से संभोग कराती हैं तो उनके लिए भी वध का दण्ड प्रायश्चित्त होता है ॥ २३२-२३३ ॥ एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिग- णयितुमाह- गोवधो व्रात्यता स्तेयमृणानां चानपाक्रिया । १. दण्डार्थः । २. वर्मसंख्ययात् । ३. चानपक्रिया ।

प्रायश्चित्ताध्यायः ५०६ अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ॥ २३४ ॥ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदार्यं पारिवित्त्वं वार्धुष्यं लवणक्रिया ॥ २३५ ॥ स्त्रीशूद्रविट्क्षत्रवधो निन्दिताथोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ २३६ ॥ धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः ॥ २३७ ॥ कन्यासंदूषणं चैव परिविन्दकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ २३८ ॥ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ २३९ ॥ इन्धनार्थं द्रुमच्छेदः स्त्रीहिंस्रौषधजीवनम् । हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ॥ २४० ॥ शूद्रप्रैष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परान्नपरपुष्टता ॥ २४१ ॥ असच्छास्त्राधिगमनमाकरेष्वधिकारिता । भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ २४२ ॥ गोवधो गोपिण्डव्यापादनम्, कालेऽनुपनीतत्वं व्रात्यता, ब्राह्मणसुवर्णतत्सम- ष्ट्यतिरिक्तपरद्रव्यापहरणं स्तेयम्, गृहीतस्य सुवर्णादेरप्रदानमृणानामनपाकर- णम्, तथा देवर्षिपितॄणां संबन्ध्वृणस्यानपाकरणं च । सत्यधिकारेऽनाहिताग्नि- त्वम् ॥ ननु ज्योतिष्टोमादिकाश्श्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थमाधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिः, अतश्च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूताधाने प्रवृ- त्तिर्नाह्यार्थिन इव धनार्जने । यस्य पुनरग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्नितादोषः ? उच्यते, — अस्मादेवाधानस्यावश्यकत्ववचनान्नित्यश्रुत- योऽपि साधिकारित्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः । तथा अपण्यस्य लवणादेर्विक्रयः, सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर्दाराग्निसंयोगः परिवेदनम्, पणपूर्वाध्यापकादध्ययन- ग्रहणम्, पणपूर्वाध्यापनम्, परदारसेवनं गुरुदारतत्समव्यतिरेकेण, पारि- वित्त्वं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्, वार्धुष्यं प्रतिषिद्धवृद्ध्युप- जीवनम्, लवणक्रिया लवणस्योत्पादनम्, स्त्रिया वधः आत्रेयी सगर्भा ऋतु- १. परिवेदक । २. संबन्ध्वर्णस्या । ३. साधिकारत्वाविशेषां । ४. वृध्युपजीवित्वम् ।

५१० याज्ञवल्क्यस्मृतिः मती, अत्रिगोत्रपरिणीता वा ब्राह्मण्या अप्यात्रेयीव्यतिरेकेण, शूद्रवधः, अदीक्षित- विट्क्षत्रियवधः । निन्दिताथोपजीवनमराजस्थापिताथोपजीवनम्, नास्तिक्यं 'नास्ति परलोकः' इत्याद्यभिनिवेशः, व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः, सुतानामपत्यानां विक्रयः, धान्यं व्रीह्यादि, कुप्यमसारद्रव्यं त्रपुसीसादि, पशवो गवाद्यः, तेषामपहरणम्; 'गोवधो व्रात्यता स्तेयम्' (प्रा. २३४) इत्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यति- रिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्तम्, अपि तु ततो न्यूनमपि भवत्येव । एतेन 'बान्धवत्याग'ग्रहणेनैव सिद्धे पुनः 'पित्रादित्याग'ग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम् । पितृमातृसुतानामपतितानां त्यागो गृहान्निष्कासनम् । तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः । कन्यायाः संदूषणमङ्गुल्यादिना योनिविदारणम्, नतु भोगः । तस्य 'सखिभार्याकुमारीषु' (प्रा० २३९) इति गुरुतल्पसमस्वस्योक्तत्वात् । परिविन्दकयाजनं, तस्य च कन्याप्रदानम् । कौटिल्यं गुरोरन्यत्र, गुरुविषयस्य तु कौटिल्यस्य सुरापानसम- त्वमुक्तम् । पुन'र्व्रतलोप' ग्रहणं शिष्टाप्रतिषिद्धेष्वपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयाम्येवंरूपेषु प्राप्त्यर्थं, नतु स्नातकव्रतप्राप्त्यर्थम् । 'स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' (११।२०३) इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् ॥ तथाऽऽत्मार्थं च पाकलक्षणक्रियारम्भः; 'अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात्' (मनुः ३।११८) इति तस्यैव प्रतिषिद्धत्वात् । क्रियामात्रविषयस्त्वे तु प्रतिषेधकल्पनया गौरवँ स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणमुपभोगः, स्वाध्यायस्यागो व्याख्यातः, अग्नीनां च श्रौतस्मार्तानां त्यागः, सुतत्यागः संस्काराद्यकरणम्, बान्धवानां पितृ- व्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम् । पाकादिष्टप्रयोजन- सिद्ध्यर्थमार्द्रद्रुमच्छेदो न त्वाहवनीयपरिरक्षणार्थमपि । स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्या पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसया जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिंस्रयन्त्रस्य तिलेक्षुपीडाकारस्य प्रवर्त्तनम् । व्यसनानि मृगयादीन्यष्टादश । आत्मविक्रयो द्रव्यग्रहणेन परदास्य- करणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्ण- दारोपगमनं साधारणस्त्रीसंभोगश्च । अनाश्रमवासः अगृहीताश्रमित्वं सत्य- धिकारे । परात्रपरपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिग्रन्थ- स्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् । १. प्रतिषेधे । २. करणेन ।

प्रायश्चित्ताध्यायः ५२१ भार्य्याया विक्रयः, 'च'शब्दान्मन्वाद्युक्ताभिचारामतिपूर्व्वलशुनादिभक्षणादेर्ग्रहणम् । एषां गोवधादीनां प्रत्येकमुपपातकसंज्ञा वेदितव्या । मनुना पुनरन्यान्द्यपि निमित्तानि जातिभ्रंशकरसंकीरकरणापात्रीकरणमलिनीकरणसंज्ञानि परिगणि- तानि । (मनुः ११ । ६७-७०) – 'ब्राह्मणस्य रजःकृत्या घ्रातिरघ्रेयमद्ययोः । जैह्यथं पुंसि¹ च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ खराश्वोष्ट्रमृगेभानामजा- विकवधस्तथा । संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् । कृमिकीटवयोहत्या मद्यानुगतभोजनम् । फलैधःकुसुमस्तेयमधैर्यं च मलावहम् ॥' इति ॥ अतोऽन्यन्निमित्तजातं प्रकीर्णकं कथ्यते ॥ बृहद्विष्णुना च समस्तानि प्रायश्चित्तनिमित्तान्युत्तरोत्तरलघीयांसि पृथक्संज्ञाभेदभिन्नानि दर्शितानि— 'ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णापहरणं गुरुदारगमनमिति महापातकानि तत्संयोगश्च । मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । यागस्थक्ष- त्रियवधो वैश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चांन्निगोत्रायाश्चाविज्ञातस्य गर्भस्थ शरणागतस्य च घातनं ब्रह्महत्यासमानि । कौटसाक्ष्यं सुहृद्वध इत्येतौ सुरापान- समौ । ब्राह्मणभूमिहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलनृपपत्त्यभि- गमनं गुरुदारगमनसमम् । पितृष्वसृमातृष्वसृगमनं श्रोत्रियर्त्विगुपाध्यायमित्र- पत्न्यभिगमनं च । स्वसुः सख्याः सगोत्राया उत्तमवर्णाया रजस्वलायाः शरणा- गतायाः प्रब्रजितायाः निक्षिप्तायाश्च गमनमित्येतान्यनुपातकानि । अनृतवचनं समुत्कर्षे राजगामि च पैशुनंम्³ । गुरोश्चालीकनिर्वन्धो वेदनिन्दा अधीतस्य त्यागोऽग्निपितृमातृसुतदाराणां च अभोज्यान्नभक्षणं परस्वापहरणं परदारानुग- मनमयाज्यानां च याजनं व्रात्यता भृतादध्यापनं भृतकादध्ययनादानं सर्वाकरेध्व- धिकारो महायन्त्रप्रवर्त्तनं द्रुमगुल्मंवल्लीलतौषधीनां⁴ हिंसया जीवमभिचारमूलकर्मसु च प्रवृत्तिरात्मार्थक्रियारम्भः अनाहिताग्निता देवर्षिपितृणामृणस्यानपाक्रिया⁵ अस- च्छास्त्राधिगमनं नास्तिकता कुशीलतौ मद्यपस्त्रीनिषेवणमित्युपपातकानि । ब्राह्म- णस्य रजःकरणमघ्रेयमद्ययोर्घ्रातिर्जैह्यथं पशुषु पुंसि च मैथुनाचरणमित्येतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संकरीकरणम् । निन्दितेभ्यो धना- दानं, वाणिज्यं, कुसीदजीवनं, असत्यभाषणं, शूद्रसेवनमित्यपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च वातनं कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि । यदनुक्तं तत्प्रकीर्णकम्' इति ॥ कात्यायनेन तु महापातकसमानां विष्णुनाप्युपपातकत्वेनोक्तानां⁶ पातकसंज्ञा दर्शिता—'महापापं चातिपापं तथा १. च मैथुनं पुंसि । २. श्चासगोत्रायाः । ३. पैशून्यम् । ४. गुल्म- लतौषधीनां । ५. स्थानपक्रिया । ६. नुपातकतूवेन ।