याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
६२६ याज्ञवल्क्यस्मृतिः
सिंशुक्रमित्यृचाऽयं देवस्य त्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसंनिधौ ॥ सप्तपत्राश्च ये दर्भा १अच्छिन्नाग्राः शुचिश्रियः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदंविष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुतशेषं पिबेद् द्विजः ॥ प्रणवेन समालोड्य प्रणवेनाभिमन्त्र्य च । प्रणवेन समुद्धृत्य पिबेत्तत्प्रणवेन तु ॥ मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण २रौप्येण ब्राह्मतीर्थेन वा पुनः ॥ यत्त्वगस्थिगतं पापं देहे तिष्ठति मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनम् ॥' इति । यदा त्वेतदेव मिश्रितं पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यतिसान्तपनसंज्ञां लभते—'एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्' इति शङ्खस्मरणात् ॥ जाबालेन तु सप्ताहसाध्यं सान्तप- नमुक्तम्—'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा श्वहोरात्रमभोजनम् । कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥' इति । एषां च गुरुहलघुवृकृच्छाणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरत्रापि व्यवस्था बोद्धव्या ॥ ३१४ ॥
भाषा—एक दिन गाय का मूत्र, गोबर, दूध, दही, घी और कुशा का जल पीकर दूसरे दिन उपवास करने पर दो दिन का सान्तपन कृच्छ्रव्रत होता है ॥ ३१४ ॥
महासान्तपनाख्यं कृच्छ्रमाह— पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३१५ ॥
सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथमित्यपेक्षायामुक्तं पृथग्भूतैः षड्भिर्गोमूत्रादिभिरेकैकैनैकमहरतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाहसंपाद्यो महासान्तपनोऽभिहितः—'त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं सर्पिस्ततः शुचिः ॥ महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥' इति । जाबालेन त्वेकविंशतिरात्रिनिर्वर्त्यो महा- सान्तपन उक्तः—'षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ॥' इति । यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य द्व्यह- मुपयोगस्तदा अतिसान्तपनम् । यथाह यमः—'एतान्येव तथा ३पेयान्येकैकं तु त्र्यहं द्व्यहम् । अतिसान्तपनं नाम श्वपाकमपि शोधयेत् ॥' इति । 'श्वपाकमपि शोधयेत्' इत्यर्थवादः ॥ ३१५ ॥
१. अच्छिन्नाग्राः कुशाः स्थिता । २. ताम्रेण । ३. पेयाद्येकैकं ।
भाषा—सान्तान के ( गोमूत्र आदि छः ) द्रव्यों से पृथक्-पृथक् ( अर्थात् एक एक दिन एक-एक को पीकर ) छः दिन बिताकर एक दिन उपवास करने पर एक सप्ताह का महासान्तपन कृच्छ्र व्रत बताया गया है ॥ ३१५ ॥ इति महासांतपनातिसांतपने । पर्णकृच्छ्राख्यं व्रतमाह— पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३१६ ॥ पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानामेकैक्रेन कथितमुदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनामेकी- कृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः—'एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिबेदद्भिः पर्णकूर्चोऽभिधीयते ॥' इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छा- दिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः—'फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माद्यैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलस्तोयकृच्छ्रो जलेन तु ॥' इति ॥ ३१६ ॥ भाषा—पलाश, उदुम्बर ( गूलर ), कमल, बिल्वपत्र में से एक- एक को एक-एक दिन पानी में उबालकर वही जल पीवे और फिर एक दिन ( पांचवे दिन ) कुशा का जल पीवे तो पर्णकृच्छ्र व्रत कहलाता है ॥ ३१६ ॥ इति पर्णकृच्छ्र एकादशविधः । तप्तकृच्छ्रमाह — तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ ॥ दुग्धसर्पिरुदकानां तप्तानामेकैकं प्रतिदिवसं प्राश्यापरेद्युरुपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिरेव समस्तैः सोपवासैर्द्विरात्रसंपाद्यः सान्तपनवत्तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वर्त्योऽभिहितः ( ११।२१४ )— 'तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतिद्व्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥' इति । क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् ।—'अपां पिबेत्तु १. प्रत्यहाभ्यस्तैः । २. पर्णकृच्छ्र उदाहृतः । ४० या०
त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्त्रिरात्रं चोष्णमारुतम् ॥ इति । त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेदित्यर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः; 'त्र्यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥' इति यमस्मरणात् ॥ ३१७ ॥ भाषा—दूध, घी और जल में से प्रत्येक को गर्म करके एक-एक दिन पीकर और फिर एक दिन-रात (चौथे दिन) उपवास रखने पर तप्तकृच्छ्र व्रत होता है ॥ ३१७ ॥ इति तप्तकृच्छ्रश्चतुर्विधः । पादकृच्छ्रमाह— एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैवैषं पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ ॥ एकभक्तेन सकृद्भोजनेन दिवैव; नक्तेनेति पृथगुपादानात् । अतश्च दिवैवैक- वारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रिपर्युदासः । एक- वारमिति द्विवारादिव्युदासः । भोजनेनेत्यभोजनव्युदासः । एतच्च कृच्छादीनां व्रत- रूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छाङ्गभूतं भोजनं विधीयते । तथा चापस्त- म्बः—'त्र्यहमनक्ताशीदिवाशी च ततस्त्र्यहं । त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किंचन' इति । अत्र च 'अनक्ताशी' इत्यनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्यु- दासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदमेव स्पष्टीकृतम्—'हविष्यान्प्रात- राशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयात्' इति । एवं नक्तभोजनविधावपि । न विद्यते याचितं यस्मिन्भोजने तदयाचितम् । तेन कालविशेषानुपदानाद्दिवा रात्रौ वा सकृदित्येव; तपोरूपत्वात्कृच्छाणां द्वितीयभोजने तदनुपपत्तेः । अयाचितमिति न केवलं परकीयान्नयाचनप्रतिषेधोऽपि तु स्वकीयमपि परिचारकभार्यादिभ्यो न याचितव्यम् । प्रेषणाध्येषणयोः साधारणत्वादयाचनायाः । अतः स्वगृहेऽपि भृत्य- भार्यादयोऽनाज्ञप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं, नान्यथा । अमुनै- वाभिप्रायेणोक्तं गौतमेन—'अथापरं त्र्यहं न कंचन याचेत' इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः—'सायं तु द्वादशग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम् ॥' इति । आपस्तम्बेन त्वन्यथोक्तम्—'सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिः स्मृताः । चतुर्विंशति- रायाच्याः परं निरशनाख्यः । कुक्कुटाण्डप्रमाणास्तु यथा वास्यं विशेत्सुखम् ॥' इति ॥ अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः । आपस्तम्बेन तु प्राजापत्य- १. त्रिरात्रस्य मारुतस्य । २. चैकेन । ३. उदाहृतः ।
प्रायश्चित्ताध्यायः ६२६ प्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान्कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता—'त्र्यहं निरशनं पादः पादश्चायाचितं त्र्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा त्र्यहम् ॥ प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत् । अया- चितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥' इति । यदा त्वयाचितोपवासात्मक- त्र्यहद्वयानुष्ठानं तदाऽर्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहत्रयानुष्ठानं तु पादोनमिति विज्ञेयम् । 'सायंप्रातर्विनाधं स्यात्पादानं नक्तवर्जितम्' इति तेनैवोक्तत्वात् ॥ अर्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव दर्शितम्—'सायं प्रातस्तथैकैकं दिनद्वयमया- चितम् । दिनद्वयं च नाश्नीयात्कृच्छ्रार्धं तद्विधीयता ॥' इति ॥ ३१८ ॥ भाषा—एक दिन दिन में केवल एक बार और दूसरे दिन केवल रात्रि को एक बार भोजन करे, तीसरे दिन बिना मांगे ही मिला हुआ भोजन करे और चौथे दिन उपवास करे तो पादकृच्छ्र व्रत होता है ॥ ३१८ ॥ प्राजापत्यं कृच्छ्रमाह— यथाकथंचित्त्रिगुणः प्राजापत्योऽयमुच्यते । अयमेव पादकृच्छ्रः यथाकथंचिद्दण्डकलितवदावृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्यानुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपादियुक्तं तद्रहितं वा त्रिग्- भ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलितवदावृत्तिपक्षो वसिष्ठेन प्रदर्शितः—'अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तन्नैकमेवं चतु- रही परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृच्छ्र- मुवाच ह ॥' इति । आनुलोम्येन स्वस्थानविवृद्धिपक्षस्तु मनुना दर्शितः (११।- २११)—'त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । परं त्र्यहं च नाश्नीया- त्प्राजापत्यं चरन्द्विजः ॥'इति प्रातिलोम्यावृत्तिस्तु वसिष्ठेन दर्शिता—'प्रातिलोम्यं चरेद्विप्रः कृच्छ्रं चान्द्रायणोत्तरम्' इति । जपादिरहितपक्षस्तु स्त्रीशूद्रादिविषये- ऽङ्गिरसा दर्शितः—'तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥' इति । जपादियुक्तपक्षस्तु परिशेष्याद्योग्यतया च त्रैवर्णिकविषयः स च गौतमादिभिर्दर्शितः—'अथातः कृच्छ्रान्व्याख्यास्यामो हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयादथापरं त्र्यहं नक्तं भुञ्जीताथापरं त्र्यहं न कंचन याचेताथापरं त्र्यहमुपवसंतस्थेद्दहनि रात्रावासीत क्षिप्रकामः सत्यं वदेन्नायैः सह न भाषेत रौरवयोधौ जपे नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शन- मापोहिट्ठेति तिसृभिः पवित्रवतीभिर्माजयेीत हिरण्यवर्णाः शुचयः पावका इत्यष्टा- भिरथोदकतर्पणम् । 'नमोह्माय मोह्माय मह्माय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय और्म्याय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बका
An exact transcription of the page is provided below:
६३० याज्ञवल्क्यस्मृतिः यैकचरायाधिपतये हराय शर्वायेक्षानायोप्राय वज्रिणे घृणिने कपर्दिने नमः सूर्या- यादित्याय नमः। नीलग्रीवाय शितिकण्ठाय नमः। कृष्णाय पिङ्गलाय नमः। ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः। सत्याय पावकाय पावक- वर्णायैकवर्णाय कामाय कामरूपिणे नमः। दीप्ताय दीप्तरूपिणे नमः। तीक्ष्णाय तीक्ष्णरूपिणे नमः। सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे नमः। चन्द्रललाटाय कृत्तिवाससे नम' इति । एतदेवादि त्योप- स्थानमेता एवाऽयाहुतयो द्वादशरात्रस्यान्ते चरुं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयाद् 'अग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टकृते' इति अन्ते ब्राह्मणभोजनम् इति । तत्र तिष्ठेदहनि रात्रावासीत क्षिप्रकाम इत्यस्यार्थः-यस्तु महतोऽप्येनसः क्षिप्रमेकेनैव कृच्छ्रेण क्षिप्रं मुच्येयमित्येवं कामयते असावहनि कर्माविरुद्धेषु कालेषु तिष्ठेद्रात्रावासीत । एवं रौरवयोधायस्यामजपो नमोहमायेत्यादिभिस्त- र्पणमादित्योपस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुक्तं क्षिप्रकामः कुर्वीत । अतश्च योगीश्वराद्युक्तप्राजापत्यद्वयस्थाने गौतमीयमनेकेतिकर्तव्यतासहितं द्रष्ट- व्यम्। एवमन्यान्यपि स्मृत्यन्तरोक्तानि विशेषेणोन्वेषणीयानि ॥ अतिकृच्छ्रमाह- अयमेवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः ॥ ३१९ ॥ एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तोऽतिकृच्छ्रः स्यात् । इयांस्तु विशेषः-आद्ये त्र्यहत्रये पाणिपूरणमात्रमन्नं भुञ्जीत न पुनर्द्वाविंशत्यादिग्रा- सान् । अत्र च प्राप्तभोजनानुवादेन पाणिपूरणविधानादन्त्यत्र्यहेऽतिदेशप्राप्त उपवासोऽप्रतिपन्न एव । अत्रापि पादशो व्यवस्था पूर्ववदेव द्रष्टव्या । यत्तु मनुनाक्तम् । ( ११।२१३ ) - 'एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥' इति,-तत्पाणिपूरान्नपरिमितोदकपो- षाच्छुक्तं विषयम् ॥ ३१९ ॥ भाषा-इसी पादकृच्छ्र व्रत का जिस किसी प्रकार तिगुना करके व्रत करने पर प्राजापत्य कृच्छ्र कहा जाता है और यदि तीन दिनों में केवल एक हाथ में आने भर भोजन करके बितावे तो उपरोक्त व्रत ही अतिकृच्छ्र व्रत होता है ॥ ३१९ ॥ कृच्छ्रातिकृच्छ्रमाह- कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
१. विशेषेणान्तराण्युन्वेषणीयानि । २. परिमितत्वात् ।
प्रायश्चित्ताध्यायः ६३१ एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छाख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रमुदकेन वर्तनं कृच्छ्रातिकृच्छ्र¹ उक्तः 'अन्भक्षस्तृतीयः स कृच्छाति- कृच्छ्रः' इति । अतश्च शक्त्यपेक्षयाऽनयोर्व्यवस्था ॥ पराकमाह— द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३२० ॥ ऋज्वर्थोऽयमर्धश्लोकः ॥ ३२० ॥ भाषा—केवल दूध पीकर इक्कीस दिन बिताने पर कृच्छ्रातिकृच्छ्र व्रत होता है । बारह दिन के उपवास को पराकव्रत कहा गया है ॥ ३२० ॥ सौम्यकृच्छ्रमाह— पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ ३२१ ॥ पिण्याकोदनमिक्षावोदश्विदुदकसक्तूनां पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपवसेदेष सौम्याख्यः कृच्छ्रोऽभिधीयते । द्रव्यपरिमाणं तु प्राणयात्रा- मात्रनिबन्धनमधिगन्तव्यम् । जाबालेन तु चतुरह्रव्यापी सौम्यकृच्छ्र उक्तः— ‘पिण्याकं सक्तवस्तक्रं चतुर्थेऽहन्यभोजनम् । वासो वै दक्षिणां दद्यात्सौम्योऽयं कृच्छ्र उच्यते ॥’ इति ॥ ३२१ ॥ भाषा—पिण्यांक (तिल की खली), आचाम (भात का मांड), तक्र (मट्ठा) जल और सत्तू में से एक एक से क्रमशः पांच दिन व्यतीत करके फिर एक दिन उपवास करने पर सौम्यकृच्छ्र व्रत होता है ॥ ३२१ ॥ तुलापुरुषाख्यं कृच्छ्रमाह— एषां त्रिरात्रमभ्यासादेकैकस्य यथोक्तकम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३२२ ॥ एषां पिण्याकादीनां पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः ॥ यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः—'आचाममथ पिण्याकं तक्रं चोदकसक्तुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षी त्र्यहद्वयम् ॥ एकविंश- तिरात्रस्तु तुलापुरुष उच्यते ॥' इति । अत्र हारीताद्युक्तेतिकर्तव्यता ग्रन्थगौरव- भयान लिख्यते ॥ ३२२ ॥ भाषा—इन पिण्याक आदि में क्रमशः एक-एक का तीन-तीन दिन तक सेवन करने पर पन्द्रह दिन का तुलापुरुष व्रत होता है ॥ ३२२ ॥ १. तिकृच्छ्रमित्युक्तं । २. सौम्याः कृच्छ्रोऽयमुच्यते । ३. मुपयुज्य । ३. यथाविधि ।
६३२ याज्ञवल्क्यस्मृतिः चान्द्रायणमाह- तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् ॥ ३२३ ॥ चान्द्रायणाख्यं व्रतं कुर्वन् मयूराण्डपरमितान् पिण्डान् शुक्ले आपूर्य- माणपक्षे तिथिवृद्धया चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानामेकैकशो वृद्धिर्धमासे तद्वत्पिण्डानपि प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशो वर्ध- यन् भक्षयेद्यावत्पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्येवमेकैकशो ग्रासान् ह्रासयन्न- श्नीयाद्यावच्चतुर्दशी । ततश्चतुर्दश्यामेकं ग्रासं ग्रसित्वा इन्दुक्षयेऽर्थादुपवसेत् । तथा च वसिष्ठः—'एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥' इति । चन्द्रस्यायनमिवायनं चरणं यस्मि- न्कर्मणि ह्रासवृद्धिभ्यां तच्चान्द्रायणम् । संज्ञायां दीर्घः । इदं च यववत् प्रान्त- योरणीयौ मध्ये स्थवीय इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्ण- पक्षप्रतिपदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकावन्मध्ये ह्रासिष्ठं भव- तीति पिपीलिकमध्यमिति कथ्यते । तथा हि—पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतुर्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेन चतुर्दशीं यावद् भुञ्जीत । तत- श्चतुर्दश्यामेकं ग्रासं ग्रसित्वाऽमावास्यायामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासं प्राश्नीयाद् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वर्त्यमाने पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथा च वसिष्ठः—'मासस्य कृष्णपक्षादौ ग्रासानाद्याच्चतुर्दश । ग्रासापचयभोजी सन् पक्षशेषं समापयेत् । तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् । ग्रासोपचयभोजी सन्पक्षशेषं समापयेत् ॥' इति । यदा त्वेकस्मिन्पक्षे तिथिवृद्धिह्रासवशात् षोडश दिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धिह्रासौ वेदितव्यौ । 'तिथिवृद्ध्या पिण्डांश्चरेत्' इति नियमात् । गौतमेनात्र विशेषो दर्शितः—'अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् श्वोभूतां पौर्णमासीमुपवसेत् आप्या- यस्व संतेपयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमो हविषश्चाशुमन्त्रणमु- पस्थानं च चन्द्रमसः यद्देवादेवहेडनमिति चतसृभिराव्यं जुहुयाद्देवकृतस्येति चान्ते समिद्भिस्त्रिभिः ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यं यज्ञः श्रीः ऊर्क इडू ओजः तेजः पुरुषः धर्मः शिवः इत्येतैर्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वैरेतैरेव ग्रासान्भुञ्जीत । तद्ग्रासप्रमाणमास्याधि- कारेण चरू भैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं १. कर्म कुर्वन् ।
प्रायश्चित्ताध्यायः ६३३ प्रशस्यानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा एकैकापचयेनापरपक्षम- श्नीयात् । अमावास्यायामुपोष्यैकैकोपचयेन पूर्वपक्षं विपरीतमेकेषामेव चान्द्रायणो मासः' इति । अत्र ग्रासप्रमाणमास्याधिकारेणेति यदुक्तं,-तद्भालाभिप्रायम् । तेषां शिख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरि- मितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुक्कुटाण्डाद्रमलिकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल्लघुत्वा- त्तेषाम् । यत्पुनरत्र 'श्वोभूतां पौर्णमासीमुपवसेत्' इत्यत्र चतुर्दश्यामुपवासम- भिधाय 'पौर्णमास्यां पञ्चदशग्रासान्भुक्त्वा' इत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत्पक्षान्तरप्रदर्शनार्थं न सार्वत्रिकम् ; योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्येतत्सार्वत्रिकं स्यात्तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् । चन्द्रगत्यनुवर्तनानुपपत्तिश्च ॥ ३२३ ॥ भाषा-शुक्लपक्ष में तिथि की वृद्धि के साथ मयूर के अण्डे के बराबर एक-एक ग्रास बढ़ाते हुए फिर कृष्णपक्ष में एक-एक ग्रास घटाते हुए भोजन करने पर चान्द्रायण व्रत होता है ॥ ३२३ ॥ चान्द्रायणान्तरमाह- यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनेवोपभुंजीत चान्द्रायणमथापरम् ॥ ३२४ ॥ पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित्प्रतिदिनं मध्याह्नेऽष्टौ ग्रासान् , अथवा नक्तंदिनयोश्चतुरश्चतुरो वा, अथवैकस्मिंश्चतुरोऽ- परस्मिन्द्वादश वा तथैकरात्रमुपोप्यापरस्मिन्षोडश वेश्यादिप्रकाराणा- मन्यतमेन शक्त्याद्यपेक्षया भुञ्जीतेत्येतत्पूर्वोक्तचान्द्रायणद्वयादपरं चान्द्रायणम् । अतस्तयोर्नायंग्राससंख्यानियमः, किंतु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः (११।२१८-२२०)-'अष्टावष्टौ समश्नीयात्पिण्डान्मध्य- न्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥ चतुरः प्रातरश्नी- यात्पिण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत् ॥ यथा- कथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥' इति । तथा चत्वारिंशच्छतद्वयन्न्यूनसंख्याग्राससंपाद्यस्यापि संग्रहार्थं 'अपर' ग्रहणम् । यथाह यमः-'श्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः । हविष्यान्नस्य वै मासम्ऋषिचान्द्रायणं स्मृतम् ॥' इति । एषु च यतिचान्द्रायणप्रभृतिषु चन्द्रगत्यनुसरणमपेक्षितम् । अतस्त्रिंशद्दिनात्मकसाधा- १. युञ्जीत *
६३४ याज्ञवल्क्यस्मृतिः रणेन मासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथंचित्तिथिवृद्धि- ह्रासवशात् पञ्चम्यादिग्वारम्भो भवति तथापि न दोषः। यदपि सोमायनाख्यं मासवतं मार्कण्डेयेनोक्तम्—'गोक्षीरं सप्तरात्रं तु पिवेत्स्तनचतुष्टयात्। स्तनत्र- यात्सप्तरात्रं सप्तरात्रं स्तनद्वयात्॥ स्तनेनैकेन षड्रात्रं त्रिरात्रं वायुभुग्भवेत्। एतत्सोमायनं नाम व्रतं कल्मषनाशनम्॥' इति। स्मृत्यन्तरे 'सप्ताहं चेत्रेत- दोस्तनमखिलमथ त्रीन्स्तनान्द्वौ तथैकं कुर्यात्त्रींश्चोपवासान्यदि भवति तदा मासि सोमायनं तत्' इति,—तदपि चान्द्रायणकर्मकमेव। हारीतेनापि 'अथात- श्चान्द्रायणमनुक्रमिष्ये' इत्यादिना सेतिकर्तव्यताकं चान्द्रायणमभिधायैवमेव सोमायनमित्यतिदेशाभिधानात्। यत्पुनस्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशी- पर्यन्तं सोमायनमुक्तम्। चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रमेवमेकस्तनप्रभृति पुनश्चतुःस्तनान्तं 'या ते सोम चतुर्थी तनूस्तया नः पाहि तस्यै नमः स्वाहा, या ते सोम पञ्चमी षष्ठीत्येवं यागार्थास्तितिहोमा एवं स्तुत्वा एनोभ्यः पूतश्चन्द्रमसः समानतां सायुज्यं च गच्छति' इति चतुर्विंशतिदिनात्मकं सोमायनमुक्तं,-तदशक्तविष- यम्॥ ३२४॥ भाषा—अथवा जिस किसी प्रकार एक मास में दो सौ चालीस ग्रास भोजन करे तो चान्द्रायण व्रत होता है॥ ३२४॥ अथ कृच्छ्रचान्द्रायणसाधारणीमितिकर्तव्यतामाह— कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा। पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमन्त्रयेत्॥ ३२५॥ कृच्छ्रं प्राजापत्यादिकं चान्द्रायणं वा त्रिषवणस्नानयुक्तः कुर्यात्।— एतच्च तप्तकृच्छाद्यतिरेकेण। तत्र 'सकृत्स्नायी समाहितः' इति मनुना विशेषाभि- धानात्॥ यत्पुनः शङ्खेन कृच्छ्रेषु त्रिषवणस्नानमभिहितम्—'त्रिरह्नि त्रिर्नि- शायां तु सवासा जलमाविशेत्' इति,-तदशक्तविषयम्। यत्पुनर्वैशम्पायनेन द्वैका- लिकं स्नानमुक्तम्—'स्नानं द्विकालमेव स्यात्त्रिकालं वा द्विजन्मनः' इति,-तत्त्रिष- वणस्नानाशक्तस्य वेदितव्यम्॥ यत्पुनर्गर्येणोक्तम्—'एकवासाश्चरेन्नैकं स्नात्वा वासो न पीडयेत्' इति,-तदपि शक्तस्यैव, 'एकवासा आर्द्रवासा वा लघ्वाशी स्थ- ण्डिलेशयः' इत्येकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात्। स्नाने च हारी- तेन विशेष उक्तः—'त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्षणमन्तर्जले जपित्वा धौत- महतं वासः परिधाय साम्ना सौम्येनादित्यमुपतिष्ठेत' इति। स्नानानन्तरं च १. स्तनान्ते। २. एकमाप्त्वा।
प्रायश्चित्ताध्यायः [६३५]
पवित्राणि जपेत् । पवित्राणि च ‘अघमर्षणं देवकृतः शुद्धवत्यस्तरत्समाः’ इत्यादीनि वसिष्ठादिप्रतिपादितानामन्यतमान्यर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा । ( ११।२२५ )—‘सावित्रीं च जपेन्नित्यं पवित्राणि च भक्तितः, इति मनुस्मरणात् । यत्तु गौतमेनोक्तम् —‘रौरवयोधां जपेन्नित्यं प्रयुञ्जीत’ इति,— तदपि पवित्रत्वादेवोक्तं, न पुनर्निमाय; तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रस- ङ्गात् । अतोऽनधीतसामवेदेन गायत्र्यादिकमेव जपनीयम् । यदपि ‘नमो हुमाय मोह्माय’ इत्यादि पठित्वा एता एवाऽयाहुतयः’ इत्युक्तं,—तदपि न नैयमिकं किंतुः ‘महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्’ ( ११।२२२ ) इति मनुना महा- व्याहृतिभिर्होमविधानात् ॥ तथा षट्त्रिंशन्मतेऽप्युक्तम्—‘जपहोमादि यत्किंचि- त्कृच्छ्रोक्तं संभवेन्न चेत् । सर्वं व्याहृतिभिः कुर्याद्गायत्र्या प्रणवेन च ॥’ इति । ‘आदि’ग्रहणादुदकतर्पणादित्योपस्थानादेर्ग्रहणम् । अत एव वैशम्पायनः—‘स्त्रात्वो- पतिष्ठेदादित्यं सौरीभिस्तु कृताञ्जलिः’ इति । एवमन्येष्वपि विरोधिपदार्थेषु विकल्प आश्रयणीयः । अविरोधिषु समुच्चयः । शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्य- यत्वात्कर्मणः ॥ जपसंख्यायां विशेषस्तेनैव दर्शितः—‘ऋषभं विरजं चैव तथा चैवाघमर्षणम् । गायत्रीं वा जपेद्देवीं पवित्रां वेदमातरम् ॥ शतमष्टशतं वापि सहस्रमथवा परम् । उपांशु मनसा वापि तर्पयेत्पितृदेवताः ॥ मनुष्यांश्चैव भूतानि प्रणम्य शिरसा ततः ॥’ इति । तथा पिण्डांश्च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । तथा यमेनापि विशेष उक्तः—‘अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् । प्राश्याचम्य पुनः कुर्यादन्यस्याप्यभिमन्त्रणम् ॥’ इति । अतश्च ॐ भूर्भुवःस्वरि- त्यादिभिर्गौमोक्तैरभिमन्त्रणमन्त्रैः सहास्य विकल्प उक्तः । यत्पुनराप्यायस्व संतेपयांसीत्यादिभिः पिण्डकरणात्पूर्वं हविषोऽभिमन्त्रणमुक्तं,—तल्लिङ्गकायत्वास- मुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थमनुष्ठीयन्ते तदा केशा- दिवपनपूर्वकं परिगृहीतव्यानि; ‘वापनं व्रतं चरेत्’ इति गौतमस्मरणात् । अभ्यु- दयार्थे तु नैव वपनम् । वसिष्ठेनाप्यत्र विशेष उक्तः—‘कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्ज्यम्’ इति । कृच्छ्राणां व्रतरूपाणि वपनादीन्यङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टव्रतग्रहणं च व्रतानुष्ठानदिव- सात्पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः—‘सर्वपापेषु सर्वेषां व्रतानां विधि- पूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥ दिनान्ते नखरोमादी- न्प्रवाप्य स्नानमाचरेत् । भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥ मलापकर्षणं कार्यं बाह्यशौचोपसिद्धये । दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशा- मुखे ग्राह्यं बहिस्तारकदर्शने । आचम्यातः परं मौनी ध्यायन्दुष्कृतमात्मनः ॥
१. आज्येन वा ।
६३६ || याज्ञवल्क्यस्मृतिः
मनःसंतापनं तीव्रमुद्वहेच्छोकमन्ततः ॥' इति । बहिरिति ग्रामाद्बहिर्निष्क्रम्य । स्त्रियाप्येवमेव व्रतपरिग्रहः कार्यः । केशश्मश्रुलोमनखवपनं तु नास्ति; 'चान्द्रा- यणादिष्वेवतदेव स्त्रियाः केशवपनवर्ज्यम्' इति बौधायनस्मरणात् ॥ वपनानिच्छोस्तु हारीतेन विशेष उक्तः—'राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥' इति । एतच्च महापातकादिदोषविशेषाभिप्रायेण द्रष्टव्यम्—'विद्वद्भिर्नृपस्त्रीणां नेष्यते केश- वापनम् । व्रते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥' इति मनुस्मरणात् । जाबालेनाप्यत्र विशेष उक्तः—'आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः । अन्नेनैव च शालाग्नौ जुहुयाद् व्याहृतीः पृथक् ॥ श्राद्धं कुर्याद्व्रतान्ते तु गोहिरण्यादि दक्षिणा' इति । यमेनाप्यत्र विशेषोऽभिहितः—'पश्चात्तापो निवृत्तिश्च स्नानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥' तथा—'गात्रा- भ्यङ्गशिरोऽभ्यङ्गौ ताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यद्गलरागकृत् ॥' इति । एवमादिकर्तव्यताजातं स्मृत्यन्तरादन्वेष्टव्यम् । एवमनेन विधिना व्रतं गृहीत्वाऽवश्यं परिसमापनीयम् , अन्यथा तु प्रत्यवायः; 'पूर्वं व्रतं गृहीत्वा तु नाचरेत्काममोहितः । जीवन्भवति चाण्डालो मृतः श्वा चैव जायते ॥' इति छागलेयस्मरणात् । इत्यलं प्रपञ्चेन ॥ ३२५ ॥ भाषा— प्राजापत्य आदि कृच्छ्र व्रत और चान्द्रायण व्रत तीनों सवन में ( प्रातः, मध्याह्न, एवं सायं ) स्नान करते हुए करे । पवित्र मंत्रों का जप करे और भोजन के प्रत्येक ग्रास को गायत्री मंत्र से अभिमन्त्रित करे ॥३२५॥ इत्थमुक्तविनियोगस्य चान्द्रायणादेः स्वरूपमभिधाय लब्धप्रसङ्गकार्यान्त- रेऽपि विनियोगमाह— अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन चँ । धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥ ३२६ ॥ आदिश्यत इत्यादिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रा- यणेन शुद्धिः । 'च'शब्दात्प्राजापत्यादिभिः कृच्छ्रैर्न्दवसहितैस्तत्किल्विषैश्चैर्वा शुद्धिः । तथा च षट्त्रिंशन्मतेऽभिहितम्—'यानि कानि च पापानि गुरोर्गुरुतराणि च । कृच्छ्रातिकृच्छ्रैश्चान्द्रैयैः शोध्यन्ते मनुरब्रवीत् ॥' इति त्रयाणां समुच्चयः प्रति- पादितः । उशनसा तु द्वयोः समुच्चय उक्तः—'दुरितानां दुरिष्टानां पापानां महतामपि । कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥' इति । दुरितमुप-
१. द्विगुणे व्रत आचीर्णे । २. दोषव्यतिरेकेण । ३. आज्ये नैवेति । ४. तु । ५. चान्द्रैस्त्विति ।
पातकम् , दुरिष्टं पातकम् । गौतमेन तु कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रा- यश्चित्तमिति विसमासकरणेनैन्द्वंवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रा- यणस्य निरपेक्षता 'इति'शब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमतेऽभिहितम् —'लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत्' इति । गौतमेनापि प्राजापत्यादेर्निरपेक्षत्वमुक्तम् —'प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति, द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्र- मुच्यते, तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति महापातकादपीत्यभिप्रेतम् । मनुनाप्युक्तम् ( ११।२१५ ) —'पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः' इति । हारीतेनाप्युक्तम्—'चान्द्रायणं यावकश्च तुलापुरुष एव च । गवां चैवा- नुगमनं सर्वपापप्रणाशनम् ॥' तथा —'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोद- कम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥' तथा तप्तकृच्छ्रमधिकृत्यापि तेनैवोक्तम् —'एष कृच्छ्रो द्विरभ्यस्तः पातकेभ्यः प्रमोचयेत् । त्रिरभ्यस्तो यथा- न्यायं भ्रूणहत्यां व्यपोहति ॥' इति । उशनसा चोक्तम् —'यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् । प्राजापत्येन कृच्छ्रेण शोधयेन्नात्र संशयः ॥' इति । एतानि प्राजापत्यादीन्यनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि वा योजनीयानि । तथा आदिष्टव्रतेष्वपि महापातकादिषु अभ्यासापेक्षया योजनी- यानि । अत एव यमेनोक्तम् —'यत्रोक्त'मित्यादि । गौतमेनाप्युक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यद्यपि तेनैवोक्तम् —'द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते' इत्युक्त्वा 'तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति,-तदपि महापातकाभिप्रायं नतु क्षुद्रपातकाभि- प्रायम् । नच महापातकमनुक्तनिष्कृतिकं संभवति, तस्मादुक्तनिष्कृतिकेष्वपि प्राजापत्यादयो योजनीयः । तत्र द्वादशवार्षिकव्रते द्वादशद्वादशदिनान्येकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकमनुष्ठेयं भवति । तदशक्तौ तावत्यो वा धेनवो दातव्याः । तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् —'प्राजापत्यक्रियाऽ- शक्तो धेनुं दद्याद्विचक्षणः । धेनोरभावे दातव्यं मूल्यं तुल्यमसंशयम् ॥ मूल्या- र्धमपि निष्कं वा तदर्धं शक्त्यपेक्षया । गवामभावे निष्कः स्यात्तदर्धं पाद एव वा' इति स्मरणात् । मूल्यदानस्याप्यशक्तौ तावन्तो चोदवासाः कार्याः । तत्राप्यशक्तौ गायत्रोजपः षट्त्रिंशल्लक्षसंख्याकः कार्यः; 'कृच्छ्रोऽयुतं तु गाय- त्र्या उदवासस्तथैव च । धेनुप्रदानं विप्राय सममेतच्चतुष्टयम् ॥' इति परा- शरस्मरणात् । यत्तु चतुर्विंशतिमतेऽभिहितम् —'गायत्र्यास्तु जपन्कोटिं ब्रह्म- . १. सर्वपातकनाशनं । २. तन्मूल्यं वा न संशयः ।
६३८ याज्ञवल्क्यस्मृतिः हत्यां व्यपोहति । लक्षाशीति जपेच्चस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमह- र्तारं गायत्र्या लक्षसप्ततिः ! गायत्र्याः षष्टिभिर्लक्षैर्मुच्यते गुरुतल्पगः ॥' इति,–तत् द्वादशवार्षिकतुल्यविधानतयोक्तं; न पुनरशक्तविषयमिति न विरोधः । एवमन्येऽपि–'कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । तिल- होमसहस्रं तु वेदपारायणं तथा ॥' इत्यादयः प्रत्याम्नायाश्चतुर्विंशतिमंतादि- शास्त्रामिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अति- पातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा धेन्वादयः प्रत्याम्नायाः । पातकेषु साशीतिशतं प्राजोपत्याः प्रत्याम्नायाः धेन्वादयस्तावन्त एव वा । यथा चतुर्विंशतिमतेऽभिहितम्—'जन्मप्रभृति पापानि बहूनि विविधानि च । कृत्वाऽर्वाग् ब्रह्महत्यायाः षण्ढब्दे व्रतमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाऽष्टादशलक्षाणि गायत्र्या वा जपेद् बुधः ॥' इति । इदमेव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैरेकैकप्राजा- पत्यकल्पनायां लिङ्गम् । एवमुपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवति- प्राजापत्यास्तावन्तः प्रत्याम्नायाः । त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेनूदवासादयस्तावन्त एव । मासिकव्रतविषयेषु तु सार्धं प्राजा- पत्यद्वयं तावानेव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनरुपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस्तावोनेव । यत्पुनश्चतुर्विंशतिमतेऽ- भिहितम्—'अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा' इति, —तदपि ध्रनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासातिकृच्छ्रविषय- भूतेषु पुनरुपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव । 'प्राजापत्ये तु गामेकां दद्यात्सान्तपने द्वयम् ; पराकतप्तातिकृच्छ्रे तिस्र- स्तिस्रस्तु गास्तथा ॥' इति चतुर्विंशतिमतेऽभिधानात् । एतच्च 'एकैकं ग्रास- मश्नीयादि'त्यामलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरान्नभोजनपक्षे पुनर्घेनुद्वयमेव । प्राजापत्यस्य षडुपवासतुल्यत्वात् तद्द्विगुणत्वाच्चातिकृच्छ्रस्य । यद्यपि नवसु दिनेषु पाणिपूरान्नस्त भोजनं, तथापि नैरन्तर्येण द्वादशदिव- सानुष्ठाने क्लेशातिशयात्षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वमेव । प्राजाप- त्यस्य च षडुपवासतुल्यत्वं युक्तमेव । तथा हि-प्रथमेऽह्यहे सायंत्नभोजनत्रय- निवृत्तावेकोपवाससंपत्तिः । द्वितीये ऽयह्हे प्रातःकालभोजनत्रयैनिवृत्तिपरस्य । तथा च अयाचितत्र्यहेऽपि सायंत्नभोजनत्रयवर्जनेऽपरस्येत्येवं नवभिर्दिनैरुप-
१. प्राजापत्यानां प्रत्याम्नायधेन्वादयः । २. तदतिध्रनिनः । ३. पराक- तप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा । ४. तुल्यत्वाद् द्विगुणत्वाच्च । ५. त्रय- वर्जनपरस्य । ६. भोजनवर्जनेऽन्यस्येति ।
प्रायश्चित्ताध्यायः ६३६ वासत्रयम् । पुनश्चान्त्यत्र्यहे चोपवासत्रयमिति युक्तं षडुपवासतुल्यत्वम् । ऋषभै- कादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु सार्धैकादशप्राजापत्यास्ता- वत्संख्याकाश्चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु सार्धं प्राजापत्य- द्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतप्तातिकृच्छ्रस्थाने कृच्छ्र- त्रयं चरेत् । 'सान्तपनस्य वाध्यर्धमशक्तौ व्रतमाचरेत्' इति षट्त्रिंशन्मतेऽ- भिधानात् , चान्द्रायणपराककृच्छ्रातिकृच्छ्रास्तु प्राजापत्यत्रयात्मका द्वादश- वार्षिकव्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्नायास्तु धेन्वाद- यस्त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः । तत्समेषु पुनः पात- कपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः । त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच्चान्द्रायणा- दित्रयम् । मासिकव्रते तु योगीश्वरोक्ते एकमेव चान्द्रायणं धेनूदवासादिप्रत्या- म्नायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं पादादिक्लृप्त्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एत- द्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत्पुनर्बृहस्पतिनोक्तम्—'जन्मप्रभृति यत्किंचित्पातकं चोपपातकम् । तावदावर्तयेत्कृच्छ्रं यावत्षष्ठिगुणं भवेत् ॥' इति । तत् 'द्वे परदारे' इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिका- दिविषयभूतोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र 'ज्ञानात्कृच्छ्रान्दविधानात्तदभ्यासे द्विवर्षतुल्यषष्टि- कृच्छ्रविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्—'यदप्यसकृदभ्यस्तं बुद्धिपूर्वमघं महत् । तच्छुध्यत्यब्दकृच्छ्रेण महतः पातकादृते ॥' इति,—तदुप्युपपातकाद्या- वृत्तिविषयम् । तथा 'अज्ञानादैन्दवद्वयमि'ति यमोक्तैन्दवद्वयविषयभूतपातका- वृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छादिव्रतानि द्विजा- ग्रयभोजनदानेन संपादयेत् । तथाहि स्मृत्यन्तरम्—कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुण- महरहस्त्रिंशदेवं तृतीये, चत्वारिंशच्च तप्ते त्रिगुणितगुणिता विंशतिः स्यात्पराके । कृच्छ्रे सान्तापनाव्ये भवति षडधिका विंशतिः सैव हीना, द्वाभ्यां चान्द्रायणे स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ॥' इति । अहररिति सर्वत्र संबन्ध- नीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजापत्यदिवसकल्पनया विप्रद्विप्राणां षष्टिभोजनं भवति । यत्तु चतुर्विंशतिमतेऽभिहितम्—'विप्रा द्वादश वा भोज्याः पावकेष्टितथैव च । अन्यो वा पावनी काचित्समान्याहुर्मनीषिणः ॥' इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनमुक्तं,—तन्निर्धनविषयम् । यच्चा- १. ततश्चान्त्यत्र्यहे । २. स्नानादीतिकर्तव्यता । ३. अन्यद्वा पावनं किंचित्सममाहुर्मनीषिणः ।
६४० याज्ञवल्क्यस्मृतिः
न्द्रायणस्यापि तत्रैव प्रत्याम्नायाद्युक्तम्- 'चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दापशुश्चैव कृच्छ्रं मासत्रयं तथा ॥ नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः स्मृताः ॥' इति, -तदपि चान्द्रायणाशक्तस्य। यत्तु 'कृच्छ्रं मासत्रयं तथा' इति कृच्छ्राष्टकं प्रत्याम्नातं, — तदपि जरठमूर्खविषयम् । चान्द्रायणं त्रिभिः कृच्छ्रैरिति दर्शितत्वादित्यलं प्रपञ्चेन। प्रकृतमनुसरामः — यस्त्वभ्युदयकामो धर्मार्थकाम्यनियोगनिष्पत्त्यर्थ- मेतच्चान्द्रायणमनुतिष्ठति न पुनः प्रायश्चित्तार्थमसौ चन्द्रसालोक्यं स्वर्गविशेषं प्राप्नोति । एतच्च संवत्सरावृत्त्यभिप्रायेण । 'एकमाप्त्वा विपापो विपाप्मा सर्वमेनो हन्ति, द्वितीयमाप्त्वा दशपूर्वान्दशापरानात्मानं चैकविंशं पङ्किं च पुनाति, संवत्सरं चाप्त्वा चन्द्रमसः सलोकतामाप्नोती'ति गौतमस्मर- णात् ॥ ३२६ ॥ भाषा—जिन पापों के प्रायश्चित्त का विधान नहीं किया गया है उनकी शुद्धि चान्द्रायणव्रत से होती है। जो धर्म के लिये यह व्रत करता है वह चन्द्रलोक को जाता है ॥ ३२६ ॥ कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् । यथा गुरुकतुफलं प्राप्नोति सुसमाहितः ॥ ३२७ ॥ किंच, यस्त्वभ्युदयकामः प्राजापत्यादिकृच्छ्राननुतिष्ठति स महतीं राज्या- दिलक्षणां श्रियं विभूतिमनुभवति । यथा गुरुकतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत्फलं लभते, तथायमपि सुसमाहितः सकलाङ्गकलाप- मविकलमनुतिष्ठन्निति फलमहिमप्रकाशनार्थं क्रतुदृष्टान्तकीर्तनम् । 'सुसमा- हित' इत्यनेनाविकलशास्त्रानुष्ठानं वदन्काम्यकर्मतयाऽङ्गवैकल्ये फलासिद्धिं द्योतयति । अतो नात्र प्रायश्चित्तेष्विव यावत्संभवाङ्गानुष्ठानमङ्गीकरणीयमिति दूरो- त्सारितं प्रत्याम्नायोपादानम् । कृच्छ्रानुष्ठानावृत्तौ तु 'अधिकारिणः फलावृत्तिः कर्मण्यारम्भाभाव्यत्वादि'ति न्यायलभ्या स्थितैवेति नेदमविवक्षितम् ॥ ३२७ ॥ भाषा—जो धर्म ( अभ्युदय ) की इच्छा से कृच्छ्र व्रत करता है वह उसी प्रकार अत्यन्त प्रचुर ( राज्य आदि ) विभूति प्राप्त करता है जिस प्रकार बड़े यज्ञों ( राजसूय आदि ) का कर्ता उनके फल पाता है ॥ ३२७ ॥ प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन् सार्थवादान् प्रार्थनावरदानरूपेण प्रतिपादयितुमाह— ²श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् । इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ॥ ३२८ ॥ १. च समाहितः । २. श्रुत्वेमामृषयो ।
'प्रायश्चित्ताध्यायः ६४१ अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तानखिलान् योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास्तं महिमगुणशालिनमचिन्त- नीयशक्तिविभवमिदमभिधास्यमानमूचिवांसः ॥ ३२८ ॥ भाषा—ऋषियों ने याज्ञवल्क्य द्वारा बताये गये इन धर्मों को सुनकर महात्मा, योगिराज और अत्यन्त तेजस्वी (याज्ञवल्क्य) से कहाः ॥ ३२८ ॥ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः । इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥३२९॥ विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३३० ॥ श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति । पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥३३१॥ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । वैश्य¹श्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥ ३३२ ॥ इत्थमृज्वर्थैः श्लोकैः सामश्रवःप्रभृतयोऽनेकधा प्रार्थयन्ते स्म॥३२९-३३२॥ भाषा—जो आलस्य का त्याग करके इस धर्मशास्त्र को धारण करते हैं वे इस संसार में यश प्राप्त करके मृत्यु के उपरान्त स्वर्ग पाते हैं । विद्यार्थी हो तो उसे विद्या मिले, धन की इच्छा रखने वाले को धन मिले, आयु (दीर्घजीवन) की इच्छा वाला दीर्घजीवन और शोभा या सम्पत्ति की इच्छा वाला समृद्धि प्राप्त करे ॥ ३२९-३३० ॥ भाषा—जो श्राद्ध के समय इसके तीन श्लोकों को ही सुनावेगा उसके पितरों को अक्षय-तृप्ति प्राप्त होगी इसमें सन्देह नहीं ॥ ३३१ ॥ भाषा—इस शास्त्र के अध्ययन से ब्राह्मण योग्य होता है, क्षत्रिय विजयी होवे, वैश्य धन-धान्य से समृद्ध होवे ॥ ३३२ ॥ परामपि प्रार्थनामाह— य इदं श्रावयेद्विद्वां²न्पर्वसु पर्वसु । अश्वमेधफलं तस्य उद्भवाननुमन्यताम् ॥ ३३३ ॥ यस्त्विदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेदिति श्रवणविध्यर्थवादः । तदेतदस्मत्प्रार्थितमर्थं सर्वत्र भगवाननुमन्यताम् ॥ ३३३ ॥ १. वैश्यस्तु । २. सर्वान् ।
६४२ याज्ञवल्क्यस्मृतिः भाषा—जो विद्वान् प्रत्येक पर्व में इसे द्विजो को सुनावे वह अवश्य ही अश्वमेध यज्ञ का फल पावे ऐसी अनुमति भी आप दें ॥ ३३३ ॥ वरदानमाह— श्रुत्वैतद्याज्ञवल्क्योऽपि प्रीतात्मा मुनिभाषितम् । एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ ३३४ ॥ एतहृषिभिर्भाषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थ- नोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य 'भवत्प्रार्थितं सकलमित्थं भवतु'इत्येवं किल भगवान्बभाषे ॥ ३३४ ॥ भाषा—मुनियों के इन वचनों को सुनकर प्रसन्नचित्त योगिराज याज्ञ- वल्क्य ने स्वयंभू ब्रह्मा को नमस्कार करके कहा 'एवमस्तु' ( ऐसा ही हो ) ॥ इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजक- विज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्र- विवृतौ प्रायश्चित्ताध्यायस्तृतीयः समाप्तः ॥
टिप्पणी (नोट्स) आचाराध्यायः वन्दे निर्द्वन्द्वमानन्दममन्दानन्द-मन्दिरम् । वन्दारु-वृन्दार-वृन्द-वन्दितं नन्द-नन्दनम् ॥ १ ॥ नमामि्रविधिबल्लद्मीनाथं धीरं महागुरुम् । याज्ञवल्क्यं महर्षिं च सञ्ज्ञानोद्भूत-कल्मषम् ॥ २ ॥ यद्यप्युच्छिष्टमाचार्यैः न विशिष्टमिदम्भवेत् । तथाऽपि शिष्टोपदिष्टं परिशिष्टं प्रकल्पितम् ॥ ३ ॥ श्लो० १—योगीश्वरम्—अत्र कर्मधारयः, षष्ठी-तत्पुरुषे षष्ठ्यर्थ-लक्षणा- प्रसङ्गात्—अपरार्क । वर्णाश्रमेतराणाम्—यह तो स्मृति का विषय बतलाया गया है । धर्मान्—यहाँ बहुवचन से नित्य, नैमित्तिक तथा काम्य का परिग्रह हुआ है । श्लो० २—मृगः कृष्णः—कृष्णशब्दो हरिण-वचनः, मृगपदं च तात्पर्य- ग्राहकम्—अपरार्क । कृष्ण-मृग-युक्त देश के विषय में मनु का वचन है:— कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥ श्लो० ४–५—इनके विषय में प्रस्तावना द्रष्टव्य है । श्लो० ७—श्रुति तथा स्मृति में परस्पर विरोध होने पर श्रुति प्रबल होती है:— श्रुति-स्मृतिविरोधे तु श्रुतिरेव गरीयसी । ( जाबाल-स्मृति ) जैमिनि का भी यही मत है:— विरोधे त्वनपेक्षं स्यात् असति ह्यनुमानम् । सदाचारः—सदाचार की परिभाषा मनु ने की है:— यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ ४१ या०
६४४ याज्ञवल्क्यस्मृतिः विष्णु-पुराण में सदाचार शब्द की व्युत्पत्ति निम्नलिखित रूप में की गई है:— साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः । तेषामाचरणं यत्स्यात् सदाचारः स उच्यते ॥ स्त्री-शूद्र आदि के वेदाऽविरुद्ध आचार भी सदाचार हैं। अत एक आपस्तम्ब का कथन है:— स्त्रीभ्यश्चावरवर्णैभ्यो धर्मशेषान् प्रतीयात् इत्येके इत्येके ॥ प्रियमात्मनः—यदि श्रुतिद्वैध हो। अत एव मनु का कथन है:— श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मो सम्यगुक्तौ मनीषिभिः ॥ गौतम का भी वचन है:— तुल्यबल-विरोधे विकल्पः ॥ विकल्प होने पर आत्म-तुष्टि प्रमाण है। यही बात गर्ग के द्वारा भी बतलाई गई है:— विकल्पे स्वात्म-तुष्टिः-प्रमाणम् ॥ श्लो० ८—आत्मदर्शनम् — इस प्रसङ्ग में स्मृति-मुक्ताफलोक्त बृहस्पति- वचन भी द्रष्टव्य है:— भोगेष्वसक्तिः सततं तथैवात्मावलोकनम् । श्रेयः परं मनुष्याणाम् प्राह पञ्चशिखो मुनिः ॥ श्लो० ९—वीरमित्रोदय में यम का भी कथन है:— एको द्वौ वा त्रयो वापि यद् ब्रूयुर्धर्मपाठकाः । स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ वहीं धर्म-पाठक का लक्षण भी दिया गया है:— वेदविद्याव्रतस्नातः सत्यसन्धो जितेन्द्रियः । अनेकधर्म-शास्त्रज्ञः प्रोच्यते धर्मपाठकः ॥ अध्यात्मवित्तमः = कृतात्मसाक्षात्कारः—ऐसी व्याख्या शूलपाणि ने की है। श्लो० ११—ऋतुकाल के विषय में बृहस्पति का वचन प्रयोगपारिजात में लिखित है:— निशाषोडशकं नारी संज्ञितर्तुमती तु सा । तावद्योग्या प्रभास्थाने विनाऽऽजाह्वहुतप्लवम् ॥
टिप्पणी (नोट्स) ६५५ इसमें भी कुछ विशेषता आचारादर्श में बतलाई गई है:— ऋतुकालाभिगमनं पुंसा कार्यं विशेषतः । सदैव पर्ववर्जं तु स्त्रीणामभिमतं हि तत् ॥ सीमन्त-काल के विषय में वीरमित्रोदय में बृहस्पति का वचन इस प्रकार है:— रोहिण्यैन्दवमादित्यपुष्यहस्तोत्तरात्रयम् । पौष्णं वैष्णवभं चैव सीमन्ते दश संस्कृताः ॥ जातकर्म-समय का निर्देश मनुस्मृति में इस तरह है:— प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ नाभिवर्धन का अर्थ है नाभिच्छेदन । श्लो० १२—नामकरण के विषय में मनु का कथन है:— नामधेयं दशम्यान्तु द्वादश्यां वाऽस्य कारयेत् । पुण्ये तिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥ इस प्रसङ्ग में विशेष बात वीरमित्रोदय में उद्धृत बृहस्पति के वचन में मिलती है :— दशाहे द्वादशाहे वा जन्मतोऽपि त्रयोदशे । षोडशैकोनविंशे वा द्वात्रिंशे वर्णतः क्रमात् ॥ गोभिल ने "जननाद्दशरात्रे व्युष्टे ( = व्यतीते) शतरात्रे संवत्सरे वा नाम- धेयकरणम्" ऐसा कहा है । नाम-करण-स्वरूप के विषय में विष्णुपुराण में निम्नलिखित श्लोक हैं :— शर्मवद् ब्राह्मणस्योक्तं वर्मेति क्षत्रसंयुतम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥ स्त्री के नाम के स्वरूप के विषय में विशेष बात मनुस्मृति में है :— स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ चतुर्थे मासि निष्क्रम:—"एतच्च छन्दोगव्यतिरिक्तपरम्" ऐसा शूलपाणि का मत है । मनु का विशेष मत इस प्रकार है :— 'यद्वेष्टं मङ्गलं शुभे !' इसीलिए यम ने कहा है :—'ततस्तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम् ॥' गोभिल ने तो और भी विशेष बतलाया है :—